०९ भगवत्स्तवः

[नवमोऽध्यायः]

भागसूचना

प्रह्लादजीके द्वारा नृसिंहभगवान‍्की स्तुति

श्लोक-१

मूलम् (वचनम्)

1नारद उवाच1

विश्वास-प्रस्तुतिः

एवं सुरादयः सर्वे ब्रह्मरुद्रपुरःसराः।
नोपैतुमशकन्मन्युसंरम्भं सुदुरासदम्॥

मूलम्

एवं सुरादयः सर्वे ब्रह्मरुद्रपुरस्सराः।
नोपैतुमशकन्मन्यु2संरम्भं सुदुरासदम्॥ १ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं—इस प्रकार ब्रह्मा, शंकर आदि सभी देवगण नृसिंहभगवान‍्के क्रोधावेशको शान्त न कर सके और न उनके पास जा सके। किसीको उसका ओर-छोर नहीं दीखता था॥ १॥

वीरराघवः

एवं प्रत्येकं ब्रह्मादिभिः संस्तुतमप्यशान्तसंरम्भम् इतरैः 3दुरासदं श्रीनृसिंहं चतुर्मुखप्रेषितः प्रह्लादः प्रसादयामासेत्याह देवर्षिः । एवं प्रत्येकम् इत्थं स्तुवन्तोऽपि ब्रह्मादयः सर्वे देवाः मन्युना संरम्भ आवेशो यस्य अतएव3 दुरासदं दुष्प्रापं भगवन्तमुपैतुं समीपं गन्तुं नाऽशक्नुवन् समर्था न बभूवुः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद‍्भुतम्।
अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता॥

मूलम्

साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद‍्भुतम्।
अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता॥ २ ॥

अनुवाद (हिन्दी)

देवताओंने उन्हें शान्त करनेके लिये स्वयं लक्ष्मीजीको भेजा। उन्होंने जाकर जब नृसिंहभगवान‍्का वह महान् अद‍्भुत रूप देखा, तब भयवश वे भी उनके पासतक न जा सकीं। उन्होंने ऐसा अनूठा रूप न कभी देखा और न सुना ही था॥ २॥

वीरराघवः

किं पुनः, निरतिशयप्रिया साक्षात्प्रसिद्धा श्रीर्लक्ष्मीरपि देवैः ब्रह्मादिभिः प्रेषिता पतिसमीपमेहीति प्रार्थिताऽप्यद्भुतं महानृसिंहरूपं दृष्ट्वा पूर्वमदृष्टमश्रुतञ्च यत्तददृष्टाश्रुतपूर्वं तस्य भावः तत्त्वं तस्माद्धेतोः शङ्किता सती नोपेयाय न समीपमगात् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम्॥

मूलम्

प्रह्लादं प्रेषयामास ब्रह्माऽवस्थितमन्तिके।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम्॥ ३ ॥

अनुवाद (हिन्दी)

तब ब्रह्माजीने अपने पास ही खड़े प्रह्लादको यह कहकर भेजा कि ‘बेटा! तुम्हारे पितापर ही तो भगवान् कुपित हुए थे। अब तुम्हीं उनके पास जाकर उन्हें शान्त करो’॥ ३॥

वीरराघवः

एवं स्थिते ब्रह्मा चतुर्मुखोऽन्तिके समीपेऽवस्थितं प्रह्लादं प्रेषयामास प्रेषणप्रकारमेवाऽऽह ताते4त्यर्धेन । हे तात ! हे वत्स ! स्वपित्रे कुपितं क्रुद्धं प्रभुं श्रीभगवन्तं प्रशमय प्रसन्नं कुरु । उपेहि समीपं गच्छेति ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

तथेति शनकै राजन् महाभागवतोऽर्भकः।
उपेत्य भुवि कायेन ननाम विधृताञ्जलिः॥

मूलम्

तथेति शनकै राजन् महाभागवतोऽर्भकः।
उपेत्य भुवि कायेन ननाम विधृताञ्जलिः॥ ४ ॥

अनुवाद (हिन्दी)

भगवान‍्के परम प्रेमी प्रह्लाद ‘जो आज्ञा’ कहकर और धीरेसे भगवान‍्के पास जाकर हाथ जोड़ पृथ्वीपर साष्टांग लोट गये॥ ४॥

वीरराघवः

हे राजन् ! युधिष्ठिर ! तथेत्यभ्युपगम्य भागवतश्रेष्ठोऽर्भकः प्रह्लादः शनकैः समीपमेत्य प्राप्य 5विधृतो 6बद्धोऽञ्जलिर्येन तादृशो भुवि देहेन6 दण्डवन्ननाम नमस्कृतवान् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

स्वपादमूले पतितं तमर्भकं
विलोक्य देवः कृपया परिप्लुतः।
उत्थाप्य तच्छीर्ष्ण्यदधात् कराम्बुजं
कालाहिवित्रस्तधियां कृताभयम्॥

मूलम्

स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः।
उत्थाप्य तच्छीर्ष्ण्यदधात् कराम्बुजं कालाहि 7वित्रस्तधियां कृताभयम्॥ ५ ॥

अनुवाद (हिन्दी)

नृसिंहभगवान‍्ने देखा कि नन्हा-सा बालक मेरे चरणोंके पास पड़ा हुआ है। उनका हृदय दयासे भर गया। उन्होंने प्रह्लादको उठाकर उनके सिरपर अपना वह करकमल रख दिया, जो कालसर्पसे भयभीत पुरुषोंको अभयदान करनेवाला है॥ ५॥

वीरराघवः

ततः स्वस्य पादयोः मूले पतितं तमर्भकं प्रह्लादं विलोक्य देवः श्रीनृसिंहः कृपया परिप्लुतः 8परितः प्लुतो8 व्याप्तः तमुत्थाप्य तस्य प्रह्लादस्य शिरसि स्वकराम्बुजं अदधात् निहितवान् । कथम्भूतं काल एवाऽहिः सर्पः तस्माद्वित्रस्ता भीता धीर्येषां तेषां कृतमभयं अभयप्रदानं येन तादृशं संसृतिभीरूणां कृताभयप्रदानमत्यर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

स तत्करस्पर्शधुताखिलाशुभः
सपद्यभिव्यक्तपरात्मदर्शनः।
तत्पादपद्मं हृदि निर्वृतो दधौ
हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः॥

मूलम्

स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः।
तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः॥ ६ ॥

अनुवाद (हिन्दी)

भगवान‍्के करकमलोंका स्पर्श होते ही उनके बचे-खुचे अशुभ संस्कार भी झड़ गये। तत्काल उन्हें परमात्मतत्त्वका साक्षात्कार हो गया। उन्होंने बड़े प्रेम और आनन्दमें मग्न होकर भगवान‍्के चरणकमलोंको अपने हृदयमें धारण किया। उस समय उनका सारा शरीर पुलकित हो गया, हृदयमें प्रेमकी धारा प्रवाहित होने लगी और नेत्रोंसे आनन्दाश्रु झरने लगे॥ ६॥

वीरराघवः

स प्रह्लादः तस्य भगवतः करस्य स्पर्शेन धुतं निरस्तं 9अखिलमशुभं यस्य तादृशः सद्य एव अभिव्यक्तौ प्रत्यक्षितौ परात्मानौ 10स्वात्मपरमात्मानौ10 तयोर्दर्शनं याथात्म्यसाक्षात्कारात्मकं यस्य पूर्व प्रत्यक्षतापन्नरूप भगवद्विषयज्ञानयुक्तः तत्करस्पर्शेन तु “ज्ञातुं द्रष्टुं च तत्त्वेन” (भ.गी. 11-54) इत्युक्तविधपरमात्मदर्शनयुक्त इत्यर्थः । अत एव निर्वृतः सुखितोऽत एव हृष्यत्तनुरुदञ्चितरोमयुक्ततनुः क्लिन्नं प्रेमार्द्रं हृत् 11हृदयं यस्य अश्रुण्या नन्द12जानि लोचनयोर्यस्य तादृशस्तस्य भगवतः पादाब्जं हृदि दधौ धृतवान्निरतिशयपुरुषार्थत्वेनानुसंहितवा13नित्यर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

अस्तौषीद्धरिमेकाग्रमनसा सुसमाहितः।
प्रेमगद‍्गदया वाचा तन्न्यस्तहृदयेक्षणः॥

मूलम्

अस्तौषीद्धरिमेकाग्रमनसा सुसमाहितः।
प्रेमगद‍्गदया वाचा तन्न्यस्तहृदयेक्षणः॥ ७ ॥

अनुवाद (हिन्दी)

प्रह्लादजी भावपूर्ण हृदय और निर्निमेष नयनोंसे भगवान‍्को देख रहे थे। भावसमाधिसे स्वयं एकाग्र हुए मनके द्वारा उन्होंने भगवान‍्के गुणोंका चिन्तन करते हुए प्रेमगद‍्गद वाणीसे स्तुति की॥ ७॥

वीरराघवः

ततः प्रेमगद्गदया वाचा एकाग्रमनसा श्रीभगवदेकविषयेण मनसा हरिम14स्तौच्च । कथम्भूतः ? सुसमाहितः सुसमाधिमेवाह, तस्मिन्नेव न्यस्तं हृदयम् ईक्षणञ्च येनेति “हृदा मनीषा मनसाभिक्लृप्तः” (कठ. उ. 2-6-9) इतिवच्चित्तबुद्धिवृत्तीनाम् एकविषयत्वाभिप्रायेणैकाग्रमनसा तन्न्यस्तहृदयेक्षण इति चोक्तम् ॥ ७ ॥

श्लोक-८

मूलम् (वचनम्)

प्रह्राद उवाच

विश्वास-प्रस्तुतिः

ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः
सत्त्वैकतानमतयो वचसां प्रवाहैः।
नाराधितुं पुरुगुणैरधुनापि पिप्रुः
किं तोष्टुमर्हति स मे हरिरुग्रजातेः॥

मूलम्

ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः।
15नाराधितुं 16पुरुगुणैरधुनाऽपि16 17पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः॥ ८ ॥

अनुवाद (हिन्दी)

प्रह्लादजीने कहा—ब्रह्मा आदि देवता, ऋषि-मुनि और सिद्ध पुरुषोंकी बुद्धि निरन्तर सत्त्वगुणमें ही स्थित रहती है। फिर भी वे अपनी धारा-प्रवाह स्तुति और अपने विविध गुणोंसे आपको अबतक भी सन्तुष्ट नहीं कर सके। फिर मैं तो घोर असुर-जातिमें उत्पन्न हुआ हूँ! क्या आप मुझसे सन्तुष्ट हो सकते हैं?॥ ८॥

वीरराघवः

स्तुतिमेवाह-ब्रह्मादय इत्यादि द्विचत्वारिंशच्छोकैः । तावद्भगवत्स्तुतौ आत्मनोऽनधिकारमाशङ्कते-ब्रह्मादय इति । चतुर्मुख प्रभृतयो देवगणाः सत्त्वैकतानमतयः सत्त्वस्यैकताना मुख्याश्रयभूता मतिर्येषां ते केवल सत्त्वप्रधानमतय इत्यर्थः । अनेनाऽत्र “तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्” (भ.गी. 14-16) इत्युक्तरीत्या अतीन्द्रियार्थदर्शनयोग्यत्वं सूचितम् । एवं विधा अपि मुनयः सिद्धाश्च स्ववचसां प्रवाहैः स्तोमैः तथा वक्ष्यमाणैः बहुभिः गुणैरपि यमाराधयितुं स्तुत्यादिरूपाराधनद्वारा यस्य तोषमुत्पादयितुं अधुनाऽपि न 18पिप्रुः 19आराधयितुं न पर्याप्ता न समर्था इत्यर्थः । स हरिः उग्रा आसुरी जातिर्यस्य तस्य मे अनेन च वक्ष्यमाणगुणराहित्यमुक्तम् । ईदृशस्य मे 20मम किं कथं तोष्टुं तोषं प्राप्तुमर्हति, वाङ्मनसाऽपरिच्छेद्य स्वरूपरूप21गुणस्वभा2223विभूत्यादिको भगवान्23 विपुलबुद्धिभिः ब्रह्मादिभिरपि स्तोतुमशक्यः कथमल्पबुद्धेः आसुरस्वभावस्य मम स्तुत्या कथं तृष्यादित्यर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

मन्ये धनाभिजनरूपतपःश्रुतौज-
स्तेजः प्रभावबलपौरुषबुद्धियोगाः।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान्गजयूथपाय॥

मूलम्

24मन्ये धनाभिजनरूपतपश्श्रुतौजः तेजः प्रभावबलपौरुषबुद्धियोगाः।
नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भग25वान्गजयूथपाय॥ ९ ॥

अनुवाद (हिन्दी)

मैं समझता हूँ कि धन, कुलीनता, रूप, तप, विद्या, ओज, तेज, प्रभाव, बल, पौरुष, बुद्धि और योग—ये सभी गुण परमपुरुष भगवान‍्को सन्तुष्ट करनेमें समर्थ नहीं हैं—परन्तु भक्तिसे तो भगवान् गजेन्द्रपर भी सन्तुष्ट हो गये थे॥ ९॥

वीरराघवः

एवमनधिकारं 26आत्मन आशङ्क्य पुनरधिकारं सम्भावयितुं तावद्भगवतो जातिगुणवृत्त्यादि तारतम्यानादरेण भक्त्यैकतोष्यत्वमाह-मन्य इति द्वाभ्याम् । धनादयः परमपुरुषस्याराधनाय सन्तोषनिमित्ताराधनाय न भवन्ति इति मन्ये । किन्तु भक्तिरेव 27परमपुरुषसन्तोषाराधनाय27 भवतीति मन्य इत्यर्थः । कुतः हि यस्माद्भगवान् गजयूथपाय धनादिविरहिताय गजेन्द्राय भक्त्यैव तुतोष । तत्र धनं वित्तम्, अभिजनः सत्कुले जन्म, रूपं सौन्दर्य तपः स्वधर्मः कृच्छ्रादिरूपं 28वाऽनशनरूपं वा28, श्रुतं पाण्डित्यं, ओज इन्द्रियबलं, तेजः कायकान्तिः, प्रभावः प्रतापः, बलं शरीरं, पौरुषमुद्यमः, बुद्धिः प्रज्ञा, योगः प्राणजयः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

विप्राद् द्विषड्गुणयुतादरविन्दनाभ-
पादारविन्दविमुखाच्छ्वपचं वरिष्ठम्।
मन्ये तदर्पितमनोवचनेहितार्थ-
प्राणं पुनाति स कुलं न तु भूरिमानः॥

मूलम्

विप्राद्द्विषड्गुणयुतादरविन्दनाभपादारविन्दविमुखाच्छ्वपचं वरिष्ठम्।
मन्ये तदर्पितमनोवचने29हितार्थप्राणं29 पुनाति स कुलं न तु भूरिमानः॥ १० ॥

अनुवाद (हिन्दी)

मेरी समझसे इन बारह गुणोंसे युक्त ब्राह्मण भी यदि भगवान् कमलनाभके चरणकमलोंसे विमुख हो तो उससे वह चाण्डाल श्रेष्ठ है, जिसने अपने मन, वचन, कर्म, धन और प्राण भगवान‍्के चरणोंमें समर्पित कर रखे हैं; क्योंकि वह चाण्डाल तो अपने कुलतकको पवित्र कर देता है और बड़प्पनका अभिमान रखनेवाला वह ब्राह्मण अपनेको भी पवित्र नहीं कर सकता॥ १०॥

वीरराघवः

एवं धनाद्यभावेऽपि केवलभक्तेरेव श्रीभगवत्तोषहेतुत्वं निदर्शितम् । यतो भक्तेरेव श्रीभगवत्तोषहेतुत्वं अत एव इतरगुणसम्पत्त्यपेक्षया श्रीभगवद्भक्तिसम्पत्तिरेव श्रेयसीत्याह - विप्रादिति । द्विषड्गुणाः द्वादशगुणास्ते च - “धर्मश्च सत्यं च दमः श्रुतञ्च अमात्सर्यं ह्रीस्तितिक्षाऽनसूया । दानं च यज्ञश्च धृतिः शमश्च व्रतानि वै द्वादश ब्राह्मणस्य”॥ (भारते) इति सनत्सुजा30तेनोक्ताः श्रीमहाभारते । एतैर्युक्तादरविन्दनाभस्य पादारविन्दविमुखात् ब्राह्मणात् श्वपचं श्वपाकं वरिष्ठं श्रेष्ठं मन्ये । श्वपचं विशिनष्टि, तदर्पितेति तस्मिन्नरविन्दनाभे अर्पितास्समर्पिता मन आदयो येन तं तत्रेहितं कर्म तस्य 31श्रेष्ठत्वे ततो विप्रस्यावमत्वे च हेतू आह, स एवम्भूतः श्वपच कुलं स्वकुलमपि पुनाति । भूरिः मानो गर्वो द्विषड्गुणप्रयुक्तो यस्य स तु विप्रः न तु आत्मानमपि पुनातीत्यर्थः । यद्यप्युक्ता एव गुणाः भगवद्भक्त्यनुग्राहका भक्तिश्च वेदान्तविहितब्रह्मोपासनात्मिका, तत्र चाधिकारस्त्रेवर्णि कस्यैव न तु शूद्रस्य, एतच्च शारीरकापशूद्राधिकरणन्यायसिद्धम् । एवञ्च तत्र सुतरां श्वपाकस्याधिकारो न सम्भवतीति उक्तगुणयुक्तात् द्विजाद्भक्तियु32क्तस्य श्वपाकस्य परत्ववर्णनमनुचितम्, तथाप्यत्र प्रकरणे भक्ति शब्देन भक्तिः प्रपत्तिश्चोत्त्यते । प्रपत्तौ च सर्वेषां अधिकारो बहुप्रमाणप्रतिपन्नः, अत एव हि “दैतेया यक्षरक्षांसि स्त्रियःशूद्रा व्रजौकसः । खगा मृगाः पापजीवाः सन्ति ह्यच्युतताङ्गताः” (भाग 7-7-54) इति स्त्रीशूद्रादीनामपि33 भगवति भक्त्या तत्साधर्म्यापत्तिः उक्तोपपन्नाभवति । “वनङ्गतो यद्धरिमाश्रयेत, उपेत नारायणमादिदेवम्, मन्ये तदेतदखिलं परमस्य पुंसः, स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः” (भाग. 7-5-5) इति प्रपत्तिरपि कर्तव्यत्वेन पूर्वमुक्ता चेत्यतो न विरोधः । उपपादितञ्चैतत्पुरस्तान्मन आदीनां भगवति समर्पणं नाम तच्छेषत्वेन तदायत्तसत्तादिमत्वेन चानुसन्धानरूपाध्यवसायात्मकज्ञानं, प्राणशब्दः प्रणाश्रयप्रत्यगात्मस्वरूपस्यापि उपलक्षकः । एवञ्चात्मात्मीयादि समर्पणेन भगवति न्यस्त रक्षाभरः श्वपाकोऽपि श्रीभगवत्तोषकत्वादुक्तविधात् विप्राच्छ्रेयानिति भावः ॥ तदुक्तं श्रीभगवता - “अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव समन्तव्यः सम्यग्व्यवसितो हि सः ॥” (भ.गी. 9-30) “प्रियो हि ज्ञानिनोऽत्यर्थ अहं स च मम प्रियः” (भ.गी. 7-17) इत्यादि । “अपि पापेष्वभिरता मद्भक्ता पाण्डुनन्दन ! मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवाम्भसा” इति ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

नैवात्मनः प्रभुरयं निजलाभपूर्णो
मानं जनादविदुषः करुणो वृणीते।
यद् यज्जनो भगवते विदधीत मानं
तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः॥

मूलम्

नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते।
यद्यज्जनो भगवते विदधीतमानं 34तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः॥ ११ ॥

अनुवाद (हिन्दी)

सर्वशक्तिमान् प्रभु अपने स्वरूपके साक्षात्कारसे ही परिपूर्ण हैं। उन्हें अपने लिये क्षुद्र पुरुषोंसे पूजा ग्रहण करनेकी आवश्यकता नहीं है। वे करुणावश ही भोले भक्तोंके हितके लिये उनके द्वारा की हुई पूजा स्वीकार कर लेते हैं। जैसे अपने मुखका सौन्दर्य दर्पणमें दीखनेवाले प्रतिबिम्बको भी सुन्दर बना देता है, वैसे ही भक्त भगवान‍्के प्रति जो-जो सम्मान प्रकट करता है, वह उसे ही प्राप्त होता है॥ ११॥

वीरराघवः

ननु परिपूर्णस्य भगवतो जातिगुण35वृत्तादिविहीन श्वपाकसमर्पितमन आदिभिः किं प्रयोजनम् ? कथं ततस्तस्य तोषः ? कथञ्च एतदेवंविधोऽपि मामनन्यभावेन भजन्नितरां मत्प्रि36यतम इति श्रीभगवतोक्तम् ? इत्यत्राह - नैवेति । प्रभुरीश्वरो निजलाभपूर्णः निजेन स्वाभाविकेन लाभेन समस्तकामावाप्त्या पूर्ण:, अत एव मानं स्वाराधनरूपं कर्म नैव जगाद । आत्मने इत्यपकृष्यते आत्मने आत्मार्थं स्वप्रयोजनाय न जगादेत्यर्थः । किन्तु करुणो वृणीते करुणः करुणावान् “गुणवचनेभ्यो मतुपो लुग्वक्तव्यः” (वार्तिक. under अष्टा. 1-4-19) इति लुप्तमतुबन्तं पदं “लुक्तद्धित लुक्” (अष्टा 1-2-49) इति टापो लुक् । हेतुगर्भमिदं दयालुत्वात् विदुषो वृणीते प्रबुद्धजनान् स्वाराधनविधानेनाङ्गीकरोतीत्यर्थः । करुणयाऽराधकोज्जीवनार्थमेवाऽऽराधनं स्वीकरोतीति 37भावः । तदेव विशदयति, यद्यदाराधनं भगवते जनो विदधीत करोति तच्चात्मने स्वार्थमेव भवति “यस्तुवन्स्तव्यतामेति वन्दमानश्च वन्द्यताम्” इति न्यायाद्भगवत्पूजनेन स्वयमपि पूज्या भवन्तीत्यर्थः । कथमन्यस्य 38पूजया अन्यस्य पूज्यतेत्यपेक्षायां तदधीनसत्तादिमतो वस्तुनः तत्सत्कारेण तत्साम्यावाप्तौ दृष्टान्तमाह यथा मुखश्रीः प्रतिमुखस्येति । यथा साक्षादलङ्कारादिजन्या मुखस्य शोभा तदधीनच्छाया मुखस्य भवत्येवं भगवतः पूज्यता तदाराधकानां 39तथैव भवतीत्यर्थः ।” तद्यथा माता तरुणवत्सं वत्सो वा मातरम्, छायासत्त्वमनुगच्छेत् तथाप्रकारः” इति श्रुतिर्हि जीवस्यच्छायावदीश्वरपारतन्त्र्यमवगमयति । जनादविदुष इति पाठे । अविदुषः किञ्चिज्ज्ञादपि जनान्मानमात्मा40र्थं न वृणीत इत्यर्थः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

तस्मादहं विगतविक्लव ईश्वरस्य
सर्वात्मना महि गृणामि यथामनीषम्।
नीचोऽजया गुणविसर्गमनुप्रविष्टः
पूयेत येन हि पुमाननुवर्णितेन॥

मूलम्

तस्मादहं विगतविक्लब ईश्वरस्य सर्वात्मना 41महि गृणामि यथा मनीषम्।
नीचोऽजया गुणविसर्गमनुप्रविष्टः पूयेत येन हि पुमाननुवर्णितेन॥ १२ ॥

अनुवाद (हिन्दी)

इसलिये सर्वथा अयोग्य और अनधिकारी होनेपर भी मैं बिना किसी शंकाके अपनी बुद्धिके अनुसार सब प्रकारसे भगवान‍्की महिमाका वर्णन कर रहा हूँ। इस महिमाके गानका ही ऐसा प्रभाव है कि अविद्यावश संसारचक्रमें पड़ा हुआ जीव तत्काल पवित्र हो जाता है॥ १२॥

वीरराघवः

एवं भगवतो भक्त्यैकतोष्यत्वं तत्तोषस्य च भक्तोज्जीवनार्थत्वं चोक्तं तदेवं स्वस्योग्रजातेरपि तद्भक्तस्य तत्तोषकस्तुतौ अधिकारः सम्भावितः, यत एवम्भूतोऽहमतो यथामति तोष्यामीत्याह - तस्मादिति । यस्माद्भगवान् भक्त्यैकतोष्यस्तस्मान्नीचोऽप्यहं तद्भक्तियुक्तोऽहं अत एव विगतवक्लबः गतशङ्कस्सन् सर्वात्मना करणत्रयैक्येन ईश्वरस्य भगवतो महि महिमानं यथामति गृणामि स्तौमि । किमीश्वर42स्तुत्या प्रयोजनमिति शङ्कां निराकुर्वन् त43न्मह्यनुवर्णनं विशिनष्टि येन ईश्व44रानुवर्णनेन, अनुवर्णितेनेति भावे क्तः, अजया प्रकृत्या गुणविसर्गं गुणकार्यं शरीरमनुप्रविष्टः पुमान्पूयेत शुद्ध्येत् स्तुत्या न तस्य कोऽप्यतिशयः, किन्तु, स्तुवत एवात्मविशुद्धिरूपोऽतिशय इति भावः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो
ब्रह्मादयो वयमिवेश न चोद्विजन्तः।
क्षेमाय भूतय उतात्मसुखाय चास्य
विक्रीडितं भगवतो रुचिरावतारैः॥

मूलम्

सर्वेह्यमी विधिकरास्तव सत्त्वधाम्नो ब्रह्मादयो वयमिवेश 45न चोद्विजन्तः।
क्षेमाय भूतय उताऽत्मसुखाय 46चास्य विक्रीडितं भगवतो रुचिरावतारैः॥ १३ ॥

अनुवाद (हिन्दी)

भगवन्! आप सत्त्वगुणके आश्रय हैं। ये ब्रह्मा आदि सभी देवता आपके आज्ञाकारी भक्त हैं। ये हम दैत्योंकी तरह आपसे द्वेष नहीं करते। प्रभो! आप बड़े-बड़े सुन्दर-सुन्दर अवतार ग्रहण करके इस जगत‍्के कल्याण एवं अभ्युदयके लिये तथा उसे आत्मानन्दकी प्राप्ति करानेके लिये अनेकों प्रकारकी लीलाएँ करते हैं॥ १३॥

वीरराघवः

एवमात्मनः स्तुतौ अनधिकारं परिहृत्य तत्स्तुतिं प्रतिज्ञाय तं तुष्टुषुः तावत्कोपोपशमं प्रार्थयते - सर्वे हीति द्वाभ्याम् । हे ईश ! वयमिव यथा वयं तव किङ्कराः तथा अमी सर्वे ब्रह्मादयोऽपि सत्त्वधाम्नस्तव विधिकराकिङ्करा एव । अस्त्वेवं ततः किमत आह उद्विजन्तः त्वत्कोपाद्विभ्यतो वर्तन्ते । 47अतो मन्युं यच्छेत्युत्तरेणान्वयः । सत्त्वधाम्न इत्यनेन शुद्धसत्त्वैकतानस्य तव कोपः स्वाभाविको न भवति, किन्तु लोकरक्षणेऽधिकृतस्य तव तद्रक्षणरूपक्रीडार्थमाहित इत्यभिप्रेतं, तदेव व्यनक्ति क्षेमायेति । अस्य जगतः क्षेमाय लब्धपरिरक्षणाय भूतये भोगायाऽलब्धलाभायात्मसुखाय ब्रह्मात्मकस्वात्मानन्दानुभवजसुखाय च भगवतः तवरुचिरैः सुन्दरैः अवतारैः नृसिंहा48द्यवतारैः विक्रीडितं, भावे क्तः, विविधा क्रीडा इत्यर्थः । इयं दुष्कृद्विषयक्रोधादिरूपा तव क्रीडा लोकक्षेमाद्यर्थमिति भावः । एवंविधक्रीडया हि दुष्कृद्विनाशद्वारा स्थितपरिपालनमपूर्वश्रेयः प्राप्तिः श्रवणादिना क्रीडामनु भवतो लोकस्य निश्शेषबन्धककर्मक्षयरूपमोक्षद्वारात्मसुखानुभूतिश्च भवेदित्येतदर्थं तव विक्रीडितमिति भावः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तद् यच्छ मन्युमसुरश्च हतस्त्वयाद्य
मोदेत साधुरपि वृश्चिकसर्पहत्या।
लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे
रूपं नृसिंह विभयाय जनाः स्मरन्ति॥

मूलम्

तद्यच्छ मन्युमसुरश्च हतस्त्वयाऽद्य मोदेत साधुरपि वृश्चिकसर्पहत्या।
लोकाश्च निर्वृतिमिताः प्रति49यान्तु सर्वे रूपं नृसिंह! विभ50वाय जनाः स्मरन्ति॥ १४ ॥

अनुवाद (हिन्दी)

जिस असुरको मारनेके लिये आपने क्रोध किया था, वह मारा जा चुका। अब आप अपना क्रोध शान्त कीजिये। जैसे बिच्छू और साँपकी मृत्युसे सज्जन भी सुखी ही होते हैं, वैसे ही इस दैत्यके संहारसे सभी लोगोंको बड़ा सुख मिला है। अब सब आपके शान्त स्वरूपके दर्शनकी बाट जोह रहे हैं। नृसिंहदेव! भयसे मुक्त होनेके लिये भक्तजन आपके इस रूपका स्मरण करेंगे॥ १४॥

वीरराघवः

यतस्तव विक्रीडितं लोकस्य क्षेमाद्यर्थं तत्तस्माद्धेतोः हे नृसिंह ! मन्युं यच्छ उपसंहर । इतः परं न मन्युना प्रयोजनमस्तीत्याह - अधुनाऽसुरो मत्पिता त्वया हतः लोकाः निर्वृतिं सुखं इताः प्राप्ताश्च । ननु 51लोका निर्वृतिं यान्तु नाम लोकान्तर्गतः साधुजनस्तु मत्कृतां इमां भूतहिंसां नाऽनुमोदेत । अत आह साधुरपिलोकः लोकोपद्रवकारि वृश्चिकसर्पादिहत्या मोदेत वृश्चि52कसर्पादितुल्यस्य मत्पितुर्हत्या साधुजनोऽपि मोदेतैवेत्यर्थः । हति शब्दः क्तिन्नन्तः । सर्वे ब्रह्मादयो निर्भयाः प्रतियान्तु, स्वस्थानानि प्रतिगच्छन्तु । इतःपरं इदं त्वद्रूपमभयाय जनाः स्मरन्ति ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

नाहं बिभेम्यजित तेऽतिभयानकास्य-
जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् ।
आन्त्रस्रजः क्षतजकेसरशङ्कुकर्णा-
न्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात्॥

मूलम्

नाहं बिभेम्यजित तेऽतिभयान53कास्य 54जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् ।
आन्त्रस्रजः क्षतजकेसरशङ्कुकर्णान् निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात्॥ १५ ॥

अनुवाद (हिन्दी)

परमात्मन्! आपका मुख बड़ा भयावना है। आपकी जीभ लपलपा रही है। आँखें सूर्यके समान हैं। भौंहें चढ़ी हुई हैं। बड़ी पैनी दाढ़ें हैं। आँतोंकी माला, खूनसे लथपथ गरदनके बाल, बर्छेकी तरह सीधे खड़े कान और दिग्गजोंको भी भयभीत कर देनेवाला सिंहनाद एवं शत्रुओंको फाड़ डालनेवाले आपके इन नखोंको देखकर मैं तनिक भी भयभीत नहीं हुआ हूँ॥ १५॥

वीरराघवः

ननु ब्रह्मादय उद्विजन्त इति विशेषेण ब्रह्मादीनामेव क्रोधयुक्तान्मदुग्ररूपाद्भयं ब्रूषे त्वं तु न बिभेषि किमत आह-नेति । हेऽजित ! तवास्माद्रूपादिति विशेष्याध्याहारः अहं न बिभेमि कथम्भूतात् ? आस्यं च जिह्वा च अर्कसदृशे नेत्रे च भ्रुकुटीनां रभस आटोपश्च उग्रा दंष्ट्राश्च एतान्यतिभयानकानि यस्मिन्, आन्त्रमय्यः स्रजो यस्मिन्, क्षतजाः रुधिराक्ताः केसरा यस्मिन् तत् क्षतजकेसरं, शङ्कुवदुन्नतौ स्तब्धौ कर्णौ यस्मिंस्तच्छङ्कुकर्णं द्वयोर्बहुव्रीह्योः कर्मधारयः । क्षतजकेसरशङ्कुकर्णनिर्ह्रादेन भीता दिगिभा दिग्गजा यस्मात् तत्, पुर्वेण पुनः कर्मधारयः क्षतजकेसरशङ्कुकर्णनिर्ह्रादभीतदिगिभं तस्मादरीन् भिन्दन्तीति अरिभिन्दि तानि नखाग्राणि यस्मिन्नेवं भूताद्रूपादहं न बिभेमीत्यर्भः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

त्रस्तोऽस्म्यहं कृपणवत्सल दुःसहोग्र-
संसारचक्रकदनाद् ग्रसतां प्रणीतः।
बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं
प्रीतोऽपवर्गशरणं ह्वयसे कदा नु॥

मूलम्

त्रस्तोऽस्म्यहं कृपणवत्सल दुस्सहोग्रसंसारचक्रकदनाद् 55ग्रसतां प्रणीतः।
बद्धः स्वकर्मभिरुशत्तम तेंऽङ्घ्रिमूलं 56प्रीतोऽपवर्गशरणं ह्वयसे56 कदा नु॥ १६ ॥

अनुवाद (हिन्दी)

दीनबन्धो! मैं भयभीत हूँ तो केवल इस असह्य और उग्र संसारचक्रमें पिसनेसे। मैं अपने कर्मपाशोंसे बँधकर इन भयंकर जन्तुओंके बीचमें डाल दिया गया हूँ। मेरे स्वामी! आप प्रसन्न होकर मुझे कब अपने उन चरणकमलोंमें बुलायेंगे, जो समस्त जीवोंकी एकमात्र शरण और मोक्षस्वरूप हैं?॥ १६॥

वीरराघवः

तर्हि कुतो बिभेषि इत्यपेक्षायां इतो बिभेमीत्याह-त्रस्तोऽस्मीति । हे कृपणवत्सल! दुस्सहं यदुग्रं संसारचक्रे कदनं तस्मादहं त्रस्तः भीतोऽस्मि । कथम्भूतोऽहं ग्रसतां प्रणीतः ग्रसतामिति कर्तरि षष्ठी ग्रसद्भिः त्वच्छेषभूतं मत्स्वरूपं तिरोधापयद्भिः, देहात्माभिमान-स्वतन्त्रात्माभिमान-ममकारादिभिः तत्र संसारे प्रणीतः 57प्रापितः तन्मूलभूतैः कर्मभिश्च बद्धः निगलितः हे उशत्तम कमनीयतम! उक्तविधं मां प्रीतः मद्विषयकनिरति शयप्रीतियुक्तस्त्वं ते तवाङ्घ्रिमूलं प्रति, कथम्भूतम् 58अङ्घ्रिमूलम् ? अपवर्गशरणमपवर्गोपायभूतं कदा न ह्वयसे, 59आह्वयसे, कदा मां त्वदङ्घ्रिमूलं प्रापयिष्यसि ताव60न्मामनुवर्तते भयमितिभावः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

यस्मात् प्रियाप्रियवियोगसयोगजन्म-
शोकाग्निना सकलयोनिषु दह्यमानः।
दुःखौषधं तदपि दुःखमतद्धियाहं
भूमन्भ्रमामि वद मे तव दास्ययोगम्॥

मूलम्

यस्मात् प्रियाप्रियवियोगसयोगजन्मशोकाग्निना सकलयोनिषु दह्यमानः।
दुःखौषधं तदपि दुःखमतद्धि61याऽहं भूमन्भ्रमामि 62वद मे तव दास्ययोगम्॥ १७ ॥

अनुवाद (हिन्दी)

अनन्त! मैं जिन-जिन योनियोंमें गया, उन सभी योनियोंमें प्रियके वियोग और अप्रियके संयोगसे होनेवाले शोककी आगमें झुलसता रहा। उन दुःखोंको मिटानेकी जो दवा है, वह भी दुःखरूप ही है। मैं न जाने कबसे अपनेसे अतिरिक्त वस्तुओंको आत्मा समझकर इधर-उधर भटक रहा हूँ। अब आप ऐसा साधन बतलाइये जिससे कि आपकी सेवा-भक्ति प्राप्त कर सकूँ॥ १७॥

वीरराघवः

ननु भयं चेत्तद्दुःखदर्शनजं किं तत्संसारचक्रे दुःखमित्यपेक्षायां तद्दर्शयन्नात्मानं विशिनष्टि-तस्मादित्यर्धेन । येन कर्मणाऽहं बद्धः तस्मात् कर्मणो निमित्तात् प्रियैरप्रियैश्च विषयैः यथासंख्यं वियोगसंयोगौ ताभ्यां जन्म उत्पत्तिर्यस्य तेन शोकाग्निना सकलयोनिषु दह्यमा63नोऽहं, अतीव दुःखितोहमित्यर्थः । भ्रमामीत्यन्वयः । तर्हि दुःखनिमित्तकर्मनिवृत्त्युपायमनुतिष्ठेत्यपेक्षायामन्तरेण भवद्धास्यमन्यन्निश्शेषदुःखनिवृत्त्युपायभूतं नास्त्येव । कथञ्चित्सदपि दुःखात्मकमेवेत्याह-दुःखौषधमिति । यद्दुःखस्यौषधं प्रतीकारात्मकं तदपि दुःखं दुःखात्मकमित्यर्थः । दुःखस्य प्रतीकारोहि दुःखनिमित्तदुरितनरसनेन भवति निश्शेषदुरितनिवर्तकं च किञ्चिदन्यदस्ति । प्रतिपदोक्तप्रायश्चित्तादिकं न निश्शेष64दुरितनिवर्तकं प्रत्युत दुःखात्मकं चेत्यर्थः । अतो हे भूमन् ! अतद्धिताय तज्जनहिताय न भवति, अतद्धियाऽहमिति पाठे अहं देहात्माभिमानेन भ्रमामि, अतः तव दास्ययोगं दिश तव नित्यदास्यसम्बन्धं देहि । वदेतिपाठे उपदिशनित्यप्रबुद्धत्वद्दास्यसम्बन्धवान् यथा भवेयं तथा मां अनुगृहाणेत्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

सोऽहं प्रियस्य सुहृदः परदेवताया
लीलाकथास्तव नृसिंह विरिञ्चगीताः।
अञ्जस्तितर्म्यनुगृणन्गुणविप्रमुक्तो
दुर्गाणि ते पदयुगालयहंससङ्गः॥

मूलम्

सोऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तव नृसिंह विरि65ञ्चगीताः।
अञ्ज66स्तितर्म्यनुगृणन्गुणविप्र67मुक्तो दुर्गाणि ते पदयुगालय हंस सङ्गः॥ १८ ॥

अनुवाद (हिन्दी)

प्रभो! आप हमारे प्रिय हैं। अहैतुक हितैषी सुहृद् हैं। आप ही वास्तवमें सबके परमाराध्य हैं। मैं ब्रह्माजीके द्वारा गायी हुई आपकी लीला-कथाओंका गान करता हुआ बड़ी सुगमतासे रागादि प्राकृत गुणोंसे मुक्त होकर इस संसारकी कठिनाइयोंको पार कर जाऊँगा; क्योंकि आपके चरणयुगलोंमें रहनेवाले भक्त परमहंस महात्माओंका संग तो मुझे मिलता ही रहेगा॥ १८॥

वीरराघवः

एवं कोपोपशमः प्रार्थितः भगवद्दास्यमेव दुःखौषधमिति चो68क्तम् - “पूयेत येन हि पुमाननुवर्णितेन” (भाग. 7-9-12) इति भगवद्वर्णनमात्मविशुद्धि69लक्षकमित्युक्तम् । अथ त्वदनुग्रहेण प्रबुद्धनित्यभवद्दास्यसम्बन्धोऽहं यथामति त्वां स्तुवन् दुःखनिमित्तकर्मभिः विमुक्तः सर्वाणि दुःखानि यथा तरेयं तथा अनुगृहाणेत्याह- सोऽहमिति । सोऽहं त्वदनुग्रहेण प्रबुद्धनित्यभवद्दास्यसम्बन्धोऽहं सुहृदो हितैषिणः प्रियस्य मम निरतिशयप्रीतिविषयस्य परदेवतायाः तवब्रह्मादिभिः गीताः लीलारूपव्यापारविषयाः कथाः अनुगृणन् गुणविप्रयुक्तः सत्त्वादिगुणमूलक कर्मबन्धैः रागदिभिर्वा विमुक्तः ते तव पदयुगलमेवालयमाश्रयो येषां ते भक्ताः त एव हंसाः 70परिशुद्धा जनाः70 तैः सङ्गो यस्य तादृशः अञ्जः तितर्मि सुखेन अतितरामि तथाऽनुगृहाणेत्यभिप्रायः । अत्राऽयं क्रमः तावत् त्वदनुग्रहेण सत्सङ्गः ततो भगवद्गुणवर्णनं ततो विरागः ततः त्वद्भक्त्या दुःखनिमित्तकर्मक्षयद्वारा संसृतेः तरणमिति ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

बालस्य नेह शरणं पितरौ नृसिंह
नार्तस्य चागदमुदन्वति मञ्जतो नौः।
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्ट-
स्तावद् विभो तनुभृतां त्वदुपेक्षितानाम्॥

मूलम्

बालस्य 71नेह शरणं पितरौ नृसिंह! 72नाऽऽर्तस्य चागदमुदन्वति मज्जतो नौः।
तप्तस्य 73तत्प्रतिविधिर्य 74इहाञ्जसेष्टः 75तावद्विभो75 तनुभृतां 76त्वदुपेक्षितानाम्॥ १९ ॥

अनुवाद (हिन्दी)

भगवान् नृसिंह! इस लोकमें दुःखी जीवोंका दुःख मिटानेके लिये जो उपाय माना जाता है, वह आपके उपेक्षा करनेपर एक क्षणके लिये ही होता है। यहाँतक कि मा-बाप बालककी रक्षा नहीं कर सकते, ओषधि रोग नहीं मिटा सकती और समुद्रमें डूबते हुएको नौका नहीं बचा सकती॥ १९॥

वीरराघवः

एतत्सर्वं त्वदनुग्रहेणैव भाव्यम्, न तु उपायान्तरेणेति कैमुत्यन्यायेन वक्तुं तावत् त्वदुपेक्षितानां न दुःखप्रतिक्रियाऽस्तीत्याह-बालस्येति । हे नृसिंह ! इह लोके बालस्य त्वदुपेक्षितस्य पितरौ मातापितरौ न शरणं न रक्षकौ, एवमार्तस्य रोगपीडितस्य त्वदुपेक्षितस्य अगदमौषधं न शरणं, तथोदन्वति समुद्रे मज्जतस्त्वदुपेक्षितस्य नौः न शरणं, पित्रादिषु सत्स्वपि बालादीनां विनाशदर्शनादिति भावः । अतो हे विभो ! इह लोके तप्तस्य दुःखितस्य तत्प्रतिविधिः तापप्रतीकारो यः तावत्प्रसिद्धः, स त्वदुपेक्षिता77नां तनुभृतां 78किमञ्जसेष्टः ? अपि तु नेष्ट एव । बालादिदुःखोपशमने एव पित्रादयो न प्रभवः, किम्पुनः निश्शेषदुःखोपशमने न प्रभव इत्यतस्त्वदनुग्रहेणैव निश्शेषं दुःखात्मकसंसृति निवृत्तिरिति । संसृतिचक्रादुत्तारकः त्वमेवेतिभावः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

यस्मिन्यतो यर्हि येन च यस्य यस्माद्
यस्मै यथा यदुत यस्त्वपरः परो वा।
भावः करोति विकरोति पृथक्स्वभावः
सञ्चोदितस्तदखिलं भवतः स्वरूपम्॥

मूलम्

यस्मिन्यतो यर्हि येन च यस्य 79यस्माद् यस्मै यथा य80मुत यस्त्वपरः परो वा।
81भावः करोति विकरोति पृथक्स्वभावः सञ्चोदितस्तदखिलं भवतः स्वरूपम्॥ २० ॥

अनुवाद (हिन्दी)

सत्त्वादि गुणोंके कारण भिन्न-भिन्न स्वभावके जितने भी ब्रह्मादि श्रेष्ठ और कालादि कनिष्ठ कर्ता हैं, उनको प्रेरित करनेवाले आप ही हैं। वे आपकी प्रेरणासे जिस आधारमें स्थित होकर जिस निमित्तसे जिन मिट्टी आदि उपकरणोंसे जिस समय जिन साधनोंके द्वारा जिस अदृष्ट आदिकी सहायतासे जिस प्रयोजनके उद्देश्यसे जिस विधिसे जो कुछ उत्पन्न करते हैं या रूपान्तरित करते हैं, वे सब और वह सब आपका ही स्वरूप है॥ २०॥

वीरराघवः

यतः त्वमेवम्भूतोऽतः संसृतिचक्रपतितं त्वत्प्रपन्नं मामुत्तारयेति विज्ञापयिष्यन् त्वत्प्रपत्तिमन्तरेण न कोऽपि आत्मानं तारयितुं प्रभुरिति वक्तुं तावदाचार्यादिमुखेन कारितमपि त्वच्छरणवरणं त्वत्कारितमेव यतः तत्तत्क्रियाश्रयकर्त्रादिकारकषट्कसम्बन्धिशरीरकत्वेन च 82कालशरीरकत्वेन च82 त्वमेवाऽवस्थित इत्याह-यस्मिन्निति । यस्मिन्नित्यधिकरणकारकनिर्देशः, यत इति हेतुत्वशक्त्याश्रयं निर्दिश्यते, यर्हीत्यनेन कालः, येनेति करणत्वशक्त्याश्रयं, यस्येति सम्बन्धी, यस्मादित्यपादानत्वशक्त्याश्रयं यस्मै इति सम्प्रदानत्वशक्त्याश्रयं, यथेत्यनेनोक्ताधिकरणादिगतः प्रकारः, यदिति कर्मत्वशक्त्याश्रयं उतापि च इत्यनेन प्रयोजककर्ता सञ्चोदित इत्यनेन, प्रयोज्यकर्ता तावेवापरः परश्च । यद्वा, पर उत्कृष्टः अपरोऽवमः भावः, पदार्थः सप्रकारकारकषट्‌करूप सम्बन्धिरूपः कालरूपश्च यो यः पदार्थः पृथक्स्वभावः, प्रविभक्तः स्वभावो यस्य सः पृथक्स्वभावः कर्तृकर्मद्वारा तन्निष्ठक्रियाश्रयत्वमधिकरणत्वं द्रव्यगुणक्रि83यान्यतमनिरूपितत्वे तत्कारणत्वे च सति सव्यापारनिर्व्यापारनिष्ठत्वं हेतुत्वं धातूपात्तव्यापारजन्यफलाव्यवहितपूर्वव्यापाराश्रयत्वं करणत्वं, सम्बन्धसामान्याश्रयत्वं सम्बन्धित्वं, प्रकृतधातूपात्तव्यापारानाविष्टत्वे सति तज्जन्यविभागाश्रयत्वमपादानत्वं, दानस्य कर्मणा क्रियया वा सम्बद्ध्यमानत्वं सम्प्रदानत्वं, धातूपात्तव्यापारव्यधिकरण तज्जन्यफलाश्रयत्वं कर्मत्वं, प्रकृतधातूपात्तव्यापारानुकूल व्यापाराश्रयत्वं प्रयोजकत्वं, धातूपात्तव्यापाराश्रयत्वं कर्तृत्वमित्येवं सप्तविभक्त्यर्थानां प्रविभक्तस्वभावः, कालस्य त्वात्मव्यतिरिक्त परिच्छेदकत्वं स्वभावः । एवं पृथक्स्वभावः उच्चावचरूपः करोति उत्पादयति, विकरोति विनाशयति उत्पादनाश्रयो विनाशनाश्रयो वा भवति । तदखिलं कारकषट्कादिरूपं वस्तु भवतः स्वाभाविकं रूपं शरीरमत्यर्थः । एवं च सर्वभावान्तरात्मतया तच्छरीरकतयाऽवस्थितस्य तवैव सर्वे निग्रहानुग्रहादयः सद्वारकव्यापारा इति भावः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

माया मनः सृजति कर्ममयं बलीयः
कालेन चोदितगुणानुमतेन पुंसः।
छन्दोमयं यदजयार्पितषोडशारं
संसारचक्रमज कोऽतितरेत् त्वदन्यः॥

मूलम्

माया मनः सृजति कर्ममयं बलीयः कालेन चोदितगुणानुमतेन पुंसः।
छन्दोमयं यदजयार्पितषोडशारं संसारचक्रमज कोऽति84तरेत् त्वदन्यः॥ २१ ॥

अनुवाद (हिन्दी)

पुरुषकी अनुमतिसे कालके द्वारा गुणोंमें क्षोभ होनेपर माया मनःप्रधान लिंगशरीरका निर्माण करती है। यह लिंगशरीर बलवान्, कर्ममय एवं अनेक नाम-रूपोंमें आसक्त—छन्दोमय है। यही अविद्याके द्वारा कल्पित मन, दस इन्द्रिय और पाँच तन्मात्रा—इन सोलह विकाररूप अरोंसे युक्त संसार-चक्र है। जन्मरहित प्रभो! आपसे भिन्न रहकर ऐसा कौन पुरुष है, जो इस मनरूप संसारचक्रको पार कर जाय?॥ २१॥

वीरराघवः

अथ त्वत्प्रपदनमन्तरेण कः पुमानतितरेत् संसारचक्रमित्याह-मायामन इति । त्वदन्यः त्वत्समाश्रयणविमुखः कः पुमान् संसारचक्रमतितरेत्, नकोपीत्यर्थः । संसारचक्रं चक्रवत्परिवर्तमानं संसारं चक्रशब्देन तत्र पतितस्य दृढतरावलम्बनमन्तरेण न यथा ततो निष्क्रमणं सम्भवति तथा संसारे पतितस्य आलम्बनभूतं श्रीभगवन्तं भवन्तमन्तरेण न तस्मादतितरणं सम्भवतीत्यभिप्रेतम् संसारं चक्रत्वेन रूपयन् तं विशिनष्टि, यद्यस्मिन्मनसि नाभिरूपे पुंसः परमपुरुषस्य अजया भगवन्मायया हेतुभूतया अर्पिताः षोडशज्ञान कर्मोभयेन्द्रियव्यापाराः दशप्राणापानादिरूपाः पञ्च प्राणवृत्तयः मनोवृत्तिश्चेति षोडश, एत एव अराणि यस्य तत्र तत्तज्ज्ञानकर्मोभयेन्द्रियव्यापाराणां मनोव्यापारानुविद्धत्वस्वाभाव्यात् तद्व्यापारपूर्वकत्वाच्च तदायत्तत्वेन तदर्पितत्वं मनोवृत्तेस्तु साक्षान्मनस एवाश्रयत्वात्तदर्पितत्वं, यद्यपि मनःपर्यन्तानां इन्द्रियाणां प्राणायत्तस्थितित्वेन प्राणव्यापारपूर्वकत्वेन च प्राणवृत्तीनां साक्षात्परम्परया वा न मन आश्रयः तथाऽपि मनोव्यापाराभावदशायां विद्यमानाऽपि प्राणवृत्तिरज्ञाता, अत एवाऽसत्प्रायेति, तद्वृत्तिसत्ताज्ञानस्य मनोव्यापारपूर्वकत्वात्तस्याः तदर्पितत्वमवगन्तव्यम्, यद्वा, अजया हेतुभूतयाऽर्पिताः षोडशैकादशेन्द्रियाणि पञ्चभूतानीति षोडशविकारा एवाराणि यस्य यदेतत्संसृतिचक्रमित्यन्वयः । संसारस्य सर्वेन्द्रियव्यापारपूर्वकत्वात् तद्वृत्तमवगन्तव्यम् । अस्मिन् पक्षे नाभित्वेन न किञ्चिदपि रूपितम् । यद्वा अजया नाभिरूपया हेतुभूतया चार्पिताः षोडशैकादशेन्द्रिय पञ्चभूतात्मकानि अराणि यस्येत्यर्थः । संसारचक्रस्यार्पितषोडशारत्वेऽजाया हेतुत्वमुक्तम्, सा किं साक्षादेव हेतुः ? नेत्याह-मायेति । मनस्सृष्टिद्वारा हेतुरिति भावः । किं तर्हि तस्याः सहकारिकारणमत आह-कालेनेति । कालेन सह माया मनस्सृजति कालसहकृता प्रकृतिर्मनः सृजतीत्यर्थः । कालोऽपि न स्वरूपेण प्रकृतेर्मनस्सर्गे सहकारी अपि तु गुणक्षोभद्वारेति वदन्, कालं विशिनष्टि - चोदितगुणानुमतेनेति । चोदिताः कालेन क्षभिताः सत्त्वादयः गुणाः तैरनुमतेन सहकृतेन स्वचोदितगुणत्रयर्साचवेन कालेन सहकृता भगवतो मायामनस्सृजति । संसारचक्रस्य दुस्तरत्वं भगवदाभिमुख्ये तु सुतरत्वं चाविष्कर्तुं मनो विशिनष्टि-कर्ममयमिति त्रिगुणात्मक प्रकृति परिणामरूपत्वेन स्वयमपि त्रिगुणात्मकत्वाद्रजोमयतया पुण्यपापरूपकर्मविषयप्रवृत्तिप्रचुरं बलीयः, अनतिवर्त्यदोषं छन्दोमयं सत्त्वानुयानाच्छास्त्रावगतिसाधनप्रचुरम् । इच्छामयमित्यर्थस्तु अनुपपन्नः, छन्दशब्दः इच्छावापी, न तु छन्दश्शब्दः अनेन सत्त्वप्राचुर्ये सति श्रीभगवदाभिमुख्येन संसृतिचक्रं सुतार्यमित्यभिप्रेतम् एवम्भूतं मनः सृजतीत्यन्वयः । तदेवं मनोदोषात् संसारानतिवृत्तिः त्वत्समाश्रयणविमुखस्येत्युक्तं भवति । त्वदन्यः कः संसारचक्रमतितरेत् इत्यनेन त्वदनन्यस्त्वतितरेदेवेति सूचितम् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना
कालो वशीकृतविसृज्यविसर्गशक्तिः।
चक्रे विसृष्टमजयेश्वर षोडशारे
निष्पीड्यमानमुपकर्ष विभो प्रपन्नम्॥

मूलम्

सत्वं हि नित्यविजितात्मगुणः स्वधाम्ना कालो वशीकृतविसृज्यविसर्गशक्तिः।
चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीड्यमानमुपकर्ष विभो प्रपन्नम्॥ २२ ॥

अनुवाद (हिन्दी)

सर्वशक्तिमान् प्रभो! माया इस सोलह अरोंवाले संसारचक्रमें डालकर ईखके समान मुझे पेर रही है। आप अपनी चैतन्यशक्तिसे बुद्धिके समस्त गुणोंको सर्वदा पराजित रखते हैं और कालरूपसे सम्पूर्ण साध्य और साधनोंको अपने अधीन रखते हैं। मैं आपकी शरणमें आया हूँ, आप मुझे इससे बचाकर अपनी सन्निधिमें खींच लीजिये॥ २२॥

वीरराघवः

तदेवाविष्कुर्वन् त्वदनन्यं मां संसारचक्रान्निर्गमयेति प्रार्थयते - सत्वं हीति । यः स्वमाया मनस्सर्गद्वारा संसृतिचक्रे जीवलोकं पातयति, स त्वमजया स्वकीयया मायया षोडशारे चक्रे संसारात्मके विसृष्टमत एव नितरां पीड्यमानं अधुना त्वां प्रपन्नं मां हे विभो ! अपकर्ष संसृतिचक्रात् बहि85र्निर्गमय “य एव बन्धकः स एव मोचकः” इति न्यायेन त्वमेव ततो निर्गमयितुं समर्थ इति भावः । सामर्थ्यमेव दर्शयंस्तं विशिनष्टि- नित्येत्यादिना । आत्मगुणाः स्वशरीरभूतप्रकृतिगुणा नित्यं विजिता आत्मगुणा येन नित्यास्पृष्टदेहधर्मेण स्वधाम्ना स्वस्वरूपेणैव । यद्वा, विजितात्मगुणो यः स्व आत्मा तस्य धाम्ना प्रकाशनैव वशीकृतविसृज्यविसर्गशक्तिः विविधं सृज्या विसृज्याः जीवास्तेषां विसर्गे शक्तिः यस्याः सा प्रकृतिः शक्तिर्वशीकृता येन स तथोक्तः । कालशरीरकश्च वशीकृतसंसृतिनिमित्त प्रकृतित्वान्मोचयितुं त्वमेव प्रभुरिति भावः । नित्यविजितात्मेत्यादिना विसृज्य जीववर्गात् ब्रह्मादिस्तम्बपर्यन्तात् वैलक्षण्यमुक्तम् । अतः संसारिजीववर्गे न कोऽपि तन्मोचने दक्षः । न हि स्वयं कारागृहबद्धोऽन्यं तादृशं मोचयितुं प्रभुरित्युक्तं भवति ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

दृष्टा मया दिवि विभोऽखिलधिष्ण्यपाना-
मायुः श्रियो विभव इच्छति याञ्जनोऽयम्।
येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू-
विस्फूर्जितेन लुलिताः स तु ते निरस्तः॥

मूलम्

दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानां आयुः86श्रियं विभव इच्छति याञ्जनोऽयम्।
येऽस्मत्पितुः कुपितहासविजृम्भितभ्रूविस्फूर्जितेन लुलिताः स तु ते निरस्तः॥ २३ ॥

अनुवाद (हिन्दी)

भगवन्! जिनके लिये संसारीलोग बड़े लालायित रहते हैं, स्वर्गमें मिलनेवाली समस्त लोकपालोंकी वह आयु, लक्ष्मी और ऐश्वर्य मैंने खूब देख लिये। जिस समय मेरे पिता तनिक क्रोध करके हँसते थे और उससे उनकी भौंहें थोड़ी टेढ़ीं हो जाती थीं, तब उन स्वर्गकी सम्पत्तियोंके लिये कहीं ठिकाना नहीं रह जाता था, वे लुटती फिरती थीं। किन्तु आपने मेरे उन पिताको भी मार डाला॥ २३॥

वीरराघवः

ननु, त्वं बालस्सन्नेव किं संसारात् निर्विद्यसे भुङ्क्ष्व भोगानित्यत्राह - दृष्टा इति त्रिभिः । हे विभो ! अयं संसारिजनो यानिच्छति कामयते ते अखिलधिष्ण्यपानां इन्द्रादीनामायुरादयो मया विविच्य दृष्टाः श्रियः भोग्यभोगोपकरणादिसमृद्धयः विभवः त्रिलोकाधिपत्यरूपमैश्वर्यम् । आयुरादयो दृष्टा इति काक्वा तुच्छत्वमुक्तं, तदेवाह - ये इति । येऽस्मत्पितुः कोपहासविकृतभ्रूभङ्गमात्रेण विलुलिताः ध्वस्ताः, स तु मत्पिता त्वया हतो निरस्तः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

तस्मादमूस्तनुभृतामहमाशिषो ज्ञ
आयुः श्रियं विभवमैन्द्रियमाविरिञ्चात्।
नेच्छामि ते विलुलितानुरुविक्रमेण
कालात्मनोपनय मां निजभृत्यपार्श्वम्॥

मूलम्

तस्मादमूस्तनुभृतामहमाशिषो ज्ञ आयुःश्रियं विभवमैन्द्रियमाविरिञ्चात्।
नेच्छामि ते विलुलि87तानुरु विक्रमेण कालात्मनोपनय मां निजभृत्यपार्श्वम्॥ २४ ॥

अनुवाद (हिन्दी)

इसलिये मैं ब्रह्मलोकतककी आयु, लक्ष्मी, ऐश्वर्य और वे इन्द्रियभोग, जिन्हें संसारके प्राणी चाहा करते हैं, नहीं चाहता; क्योंकि मैं जानता हूँ कि अत्यन्त शक्तिशाली कालका रूप धारण करके आपने उन्हें ग्रस रखा है। इसलिये मुझे आप अपने दासोंकी सन्निधिमें ले चलिये॥ २४॥

वीरराघवः

यस्मादायुरादयो मत्पितृदृष्टान्तेन तुच्छत्वेन दृष्टाः तस्मात्तनुभृतां देहिनाममूः आयुरादिरूपाः आशिषः ज्ञः तत्परिपाकं विद्वान् । अज्ञ इति च्छेदे, अज्ञस्सन्नहमैन्द्रियमिन्द्रियैरनुभाव्यमन्यदपि सुखमाविरिञ्चादब्रह्मणोऽनुभाव्यं अभिव्याप्याऽपि तथा कालात्मना कालरूपेण उरुविक्रमेण विपुलपराक्रमेण विपुलपादविक्षेपेण वा विलुलितान् विध्वस्तानणिमादीनपि न इच्छामि । अतो निजभृत्यानां 88स्वपार्षदानां पार्श्व समीपमेव मां प्रापय ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः
क्वेदं कलेवरमशेषरुजां विरोहः।
निर्विद्यते न तु जनो यदपीति विद्वान्
कामानलं मधुलवैः शमयन्दुरापैः॥

मूलम्

कुत्राशिषः श्रुतिसुखा मृगतृ89ष्णरूपाः क्लेदं कलेबरमशेषरुजां विरो90हम्।
निर्विद्यते न तु जनो यदपी91ति विद्वान् कामानलं मधुलवैः शमयन्दुरापैः॥ २५ ॥

अनुवाद (हिन्दी)

विषयभोगकी बातें सुननेमें ही अच्छी लगती हैं, वास्तवमें वे मृगतृष्णाके जलके समान नितान्त असत्य हैं और यह शरीर भी, जिससे वे भोग भोगे जाते हैं, अगणित रोगोंका उद‍्गमस्थान है। कहाँ वे मिथ्या विषयभोग और कहाँ यह रोगयुक्त शरीर! इन दोनोंकी क्षणभंगुरता और असारता जानकर भी मनुष्य इनसे विरक्त नहीं होता। वह कठिनाईसे प्राप्त होनेवाले भोगके नन्हें-नन्हें मधुविन्दुओंसे अपनी कामनाकी आग बुझानेकी चेष्टा करता है!॥ २५॥

वीरराघवः

किञ्च । श्रुतिः श्रवणं, तदेव सुखं यासु ताः, अत एव मृगतृष्णिरूपाः मरीचिकावदवस्थिताः आशिषः कुत्र ? पुरुषार्थाभासा आशिषः क्वेत्यर्थः ? अशेषाणां रुजां रोगाणां विरोहः उद्भवस्थानं क्वचेदं कलेवरं, दुर्घटमेतदिति भावः । एवंचेत्सर्वेऽपि जनः किमिति संसारात् न निर्विद्यते तत्राह-निर्विद्यत इति । यद्वैषयिकं सुखं इतीत्थं मृगतृष्टिका तुल्यं विद्वान् जानन्नपि न निर्विद्यते विद्वानपीत्यपि शब्देन अविदुषां नितरां निर्वेदाभावः सूचितः । विदुषोऽप्यनिर्वेदे हेतुं वदन् विद्वांसं विशिनष्टि-दुरापैः दुःखेनाऽपि लब्धुमशक्यैः मधुलवैः वैषयिक सुखलेशैः काम एव अतलः तमुपशमयन् विषयासक्तस्सन् विद्वानपि न निर्विद्यत इत्यर्थः । विषयासक्तस्य निर्वेदेऽप्यवकाशो नास्तीति भावः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

क्वाहं रजःप्रभव ईश तमोऽधिकेऽस्मिन्
जातः सुरेतरकुले क्व तवानुकम्पा।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः॥

मूलम्

क्वाऽहं रजःप्रभव ईश तमोऽधिकेऽस्मिन् जातः सुरेतरकुले क्व तवानुकम्पा।
न ब्रह्मणो न तु भवस्य न वै रमाया यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः॥ २६ ॥

अनुवाद (हिन्दी)

प्रभो! कहाँ तो इस तमोगुणी असुरवंशमें रजोगुणसे उत्पन्न हुआ मैं, और कहाँ आपकी अनन्त कृपा! धन्य है! आपने अपना परम प्रसादस्वरूप और सकलसन्तापहारी वह करकमल मेरे सिरपर रखा है, जिसे आपने ब्रह्मा, शंकर और लक्ष्मीजीके सिरपर भी कभी नहीं रखा॥ २६॥

वीरराघवः

एवं तत्प्राप्तये तदनुग्रहं सम्प्रार्थ्य स्वशिरसि दुर्लभेन तत्करपल्लवनिधानेनात्मनः कृतार्थतामाविष्करोति क्वेति । ईश ! तमोऽधिके तमःप्रचुरे रजःप्रभावे रजसः उत्पत्तिस्थाने रजस्तमः कार्यकामक्रेधलोभादिमोहप्रचुरे सुरेतरकुले असुरकुले जातोऽहं क्व ? क्व च तवानुकम्पा, दुर्घटमेतदित्यर्थः । किं तदित्यत्राह-ब्रह्मादीनां शिरसि यो नैवाऽर्पितः तेषामपि दुर्लभ इति भावः सः प्रसादः प्रसादसूचकः पद्म92वत् तापहरः करः मम शिरस्वर्पित इति यदेतत् दुर्घटमिति भावः । अतोऽहमलभ्यलाभेन कृतार्थोऽस्मि इति तात्पर्यम् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

नैषा परावरमतिर्भवतो ननु स्या-
ज्जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथापि।
संसेवया सुरतरोरिव ते प्रसादः
सेवानुरूपमुदयो न परावरत्वम्॥

मूलम्

नैषा परावरमतिर्भवतो ननु स्यात् जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथाऽपि।
संसेवया सुरतरोरिव ते प्रसादः सेवानुरूप93मुदयो न परावरत्वम्॥ २७ ॥

अनुवाद (हिन्दी)

दूसरे संसारी जीवोंके समान आपमें छोटे-बड़ेका भेदभाव नहीं है; क्योंकि आप सबके आत्मा और अकारण प्रेमी हैं। फिर भी कल्पवृक्षके समान आपका कृपा-प्रसाद भी सेवन-भजनसे ही प्राप्त होता है। सेवाके अनुसार ही जीवोंपर आपकी कृपाका उदय होता है, उसमें जातिगत उच्चता या नीचता कारण नहीं है॥ २७॥

वीरराघवः

नैतावता तव वैषम्यादि दोषप्रसङ्ग इत्याह- नैषेति । यथा या जन्तोः प्राकृतस्य परावरमतिः उत्कृष्टापकृष्टबुद्धिः विषमाबुद्धिरिति यावत् सैषा बुद्धिर्भवतो नैव स्यात् । तदभावे हेतुं वदन् तं विशिनष्टि, जगत आत्मसुहृदः आत्मनोऽन्तरात्मनः सुहृदो हितैषिणश्च । आत्मन इत्यनेन जगतः शरीरत्वमवगम्यते । नहि कस्मिंश्चिच्छरीरे आत्मनः प्रीतिरन्यस्मिन्न प्रीतिरिति भावः । सर्वस्याऽपि जगतः स्वाभाविकसुहृद इति वाऽर्थः । तर्हि सर्वेष्वेकरूपो मत्प्रसादः किन्नस्यात्तत्राह यद्यप्येवम्भूतः त्वं तथाऽपि वैषम्यरहितस्याऽपि 94ते तव संसेवया प्रसादो भवति तत्र सेवानुरूपं तत्तदपेक्षानुसारेण धर्मादिपुरुषार्थानामुदयो भवत्यपेक्षानुरूपफलदत्वे दृष्टान्तः सुरतरोरिवेति । यथा सुरतरोः कल्पद्रुमस्य तत्तत्सेवकापेक्षानुसारेण फलप्रदत्वं, न च तावता तस्य वैषम्यं तद्वत् न परावरत्वं सर्वेष्वेकरूपप्रसादाभावे परावरत्वं वैषम्यं न कारणमित्यर्थः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

एवं जनं निपतितं प्रभवाहिकूपे
कामाभिकाममनु यः प्रपतन्प्रसङ्गात्।
कृत्वाऽऽत्मसात् सुरर्षिणा भगवन् गृहीतः
सोऽहं कथं नु विसृजे तव भृत्यसेवाम्॥

मूलम्

एवं जनं निपतितं प्रभवाहिकूपे कामाभिकाममनु यः प्रपतन्प्रसङ्गात्।
कृत्वाऽऽत्मसात् 95सुरर्षिणा भगवन् गृहीतः सोऽहं कथं नु विसृजे तव भृत्यसेवाम्॥ २८ ॥

अनुवाद (हिन्दी)

भगवन्! यह संसार एक ऐसा अँधेरा कुआँ है, जिसमें कालरूप सर्प डँसनेके लिये सदा तैयार रहता है। विषय-भोगोंकी इच्छावाले पुरुष उसीमें गिरे हुए हैं। मैं भी संगवश उसके पीछे उसीमें गिरने जा रहा था। परन्तु भगवन्! देवर्षि नारदने मुझे अपनाकर बचा लिया। तब भला, मैं आपके भक्तजनोंकी सेवा कैसे छोड़ सकता हूँ॥ २८॥

वीरराघवः

एवमात्मनः तत्प्रसादेन कृतार्थतामाविष्कृत्याऽथ न केवलमधुनैव त्वत्प्रसादविषयोऽहं जातः, किन्तु यदा मातृगर्भस्थं मामनुजिघृक्षता त्वया सञ्चोदितेन सुरर्षिणाऽनुगृहीतस्तदैव त्वदनुग्रहविषयोऽभवम् । अतो जन्मन आरभ्य त्वयाऽनुगृहीतोऽहं त्वद्भृत्यपार्श्व न विसृ96जामि इत्याह-एवमिति । हे भगवन् ! यः सुरर्षिणा नारदेन आत्मसात्कृत्वा आत्माधीनं कृत्वा “तदधीन वचने च” (अष्टा. 5-4-54) इति सातिप्रत्ययः । पूर्वं विषयपरवशत्वेन त्वदधीनं मां स्वाधीनं कृत्वेत्यर्थः । यद्वा “अभिविधौ सम्पदा च” (अष्टा. 5-4-53) इति सातिः । अभिविधिश्च किञ्चिदन्यथात्वं पूर्वं भगवत्प्रातिकूल्येन स्थितं मां किञ्चित्त्वदनुकूलं कृत्वेत्यर्थः । गृहीतः तत्त्वत्रयोपदेशेनाऽनुगृहीतः सोऽहं इदानीं तव भृत्यसेवां दासानुदास्यं कथं नु विसृजे न कथञ्चिदपि त्यक्ष्यामीत्यर्थः । कथम्भूतोऽनुगृहीतोऽस्मि प्रभवः संसार एवाऽहिकूपः सर्पजुष्टकूपस्तस्मिन् कामाभिकामं काम्यन्त इति कामाः विषयाः शब्दादयस्तान् कामयमानं 97जनं निपतितमनु अनुसृत्य तत्प्रसङ्गात्तस्य तत्र निपतितजनस्य यः प्रकृष्टः सङ्गस्तस्माद्धेतोः प्रपतन्नहं विषयासक्तचित्तजनसङ्गात् प्रभवाहिकूपे पतन्नहमित्यर्थः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

मत्प्राणरक्षणमनन्त पितुर्वधश्च
मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम्।
खड्गं प्रगृह्य यदवोचदसद्विधिित्सु-
स्त्वामीश्वरो मदपरोऽवतु कं हरामि॥

मूलम्

मत्प्राणरक्षणमनन्त! पितुर्वध98ञ्च मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम्।
खड्गं प्रगृह्य यदवोचदसद्विधित्सुस्त्वामीश्वरो मदपरोऽवतु कं हरामि॥ २९ ॥

अनुवाद (हिन्दी)

अनन्त! जिस समय मेरे पिताने अन्याय करनेके लिये कमर कसकर हाथमें खड्ग ले लिया और वह कहने लगा कि ‘यदि मेरे सिवा कोई और ईश्वर है तो तुझे बचा ले, मैं तेरा सिर काटता हूँ’, उस समय आपने मेरे प्राणोंकी रक्षा की और मेरे पिताका वध किया। मैं तो समझता हूँ कि आपने अपने प्रेमी भक्त सनकादि ऋषियोंका वचन सत्य करनेके लिये ही वैसा किया था॥ २९॥

वीरराघवः

यो नारदमुखेन मयि कृतः स एव परमोऽनुग्रहः, न चेदमिति तुच्छम्; मत्प्राणरक्षादिरूपं, न चेदं त्वया मदनुग्रहार्थं कृतं किन्त्वन्यार्थमित्याह-मत्प्राणरक्षणमिति । हे अनन्त! यदेतन्मत्प्राणरक्षणं मत्पितुर्वधश्चेति तदुभयं स्वभृत्यऋषिवाक्यम् ऋतं सत्यं 99यथा भवति तथा99 विधातुं कर्तुं कृतमित्यहं मन्ये । स्वभृत्यऋषिवाक्य मित्यत्र निजभृत्यभाषित मित्यत्रेवाऽर्थो द्रष्टव्यः । किञ्च, यदस्मत्पिता विधित्सुः, मद्वधमिति शेषः । मां जिघांसुरित्यर्थः खड्गं प्रगृह्य मत्तोऽन्यश्चेदीश्वरस्त्वद्रक्षकोऽस्ति तर्हि स त्वामिदानीमवतु रक्षतु, तव कं शिरो हरामीति यदवोच दुक्तवान्, तदीश्वरान्तरराहित्यवचः असदसत्यं च विधातुं मत्प्राणरक्षादिकं त्वया कृतमित्यहं मन्ये इत्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

एकस्त्वमेव जगदेतदमुष्य यत् त्व-
माद्यन्तयोः पृथगवस्यसि मध्यतश्च।
सृष्ट्वा गुणव्यतिकरं निजमाययेदं
नानेव तैरवसितस्तदनुप्रविष्टः॥

मूलम्

एकस्त्वमेव जगदेतदमुष्य यत् त्वमाद्यन्तयोः पृथगवस्यसि मध्यतश्च।
सृष्ट्वा गुणव्यतिकरं निजमाययेदं नानेव तैरवसितस्तदनुप्रविष्टः॥ ३० ॥

अनुवाद (हिन्दी)

भगवन्! यह सम्पूर्ण जगत् एकमात्र आप ही हैं। क्योंकि इसके आदिमें आप ही कारणरूपसे थे, अन्तमें आप ही अवधिके रूपमें रहेंगे और बीचमें इसकी प्रतीतिके रूपमें भी केवल आप ही हैं। आप अपनी मायासे गुणोंके परिणाम-स्वरूप इस जगत‍्की सृष्टि करके इसमें पहलेसे विद्यमान रहनेपर भी प्रवेशकी लीला करते हैं और उन गुणोंसे युक्त होकर अनेक मालूम पड़ रहे हैं॥ ३०॥

वीरराघवः

एवं कोपोपशमन प्रार्थनानुकूलोक्तं स्वाभिप्रेतं तद्दास्ययोगं सम्प्रार्थ्य इदानीं कृत्स्नचिदचिदात्मक जगदन्तरात्मानं तच्छरीरकं तदुत्पत्तिस्थितिलयकारणं तदनन्यं स्तौति- एक इति । एतत्परिदृश्यमानं जगत् चिदचिदात्मकं कृत्स्नं जगदेकस्त्वमेव । एतदित्यनेन विभक्तनामरूपं चिदाचिदात्मकं जगन्निर्दिश्य तस्य त्वं शब्दवाच्यब्रह्मणोऽनन्यत्वं साध्यते । “तदनन्यत्वमारम्भणशब्दादिभ्यः” (ब्र.सू. 2-1-14) इत्यत्र । यथैक इत्यनेन अविभक्तनामरूप चिदचिच्छरीरकत्वं कारणावस्थावस्थितमुच्यते, यथा “एकमेवाद्वितीयम्” (छान्दो. उ. 6-2-1) इत्यत्रैकशब्देन । तत्र हि वक्ष्यमाणानामरूपविभागनिबन्धनबहुत्वं प्रतिसम्बन्धैक्यं एकचिदचिच्छरीरकत्वं कारणावस्थावस्थितमुच्यते, यथा “एकमेवाद्वितीयम्” (छान्दो. उ. 6-2-1) इत्यत्रैकशब्देन । तत्रहि वक्ष्यमाणानामरूपविभाग निबन्धन बहुत्वप्रतिसम्बन्धैक्यं ह्येकशब्दार्थः । अत्राऽप्येतच्छब्देन प्रसिद्धपरामर्शिना यदभिप्रेतं नामरूपविभागप्रयुक्तं बहुत्वं, तत्प्रतिसम्बन्ध्येकत्वं तद्विभागाभावनिबन्धनमुच्यते तदयमर्थः - यथा कारणावस्थायां घटशरावादि नामरूपविभागरहित एकत्वेनावस्थितो मृत्पिण्डः पश्चात् घटादिरूपेण परिणमन्, नामरूपविभागविभक्तस्तेभ्योऽनन्य एव, एवं त्वमपि कारणावस्थायां नामरूपविभागानर्हचिदचिच्छरीरकतयैकत्वेनावस्थितो देवादिनामरूपविभागार्हस्थूल चिदचिच्छरीरकत्वेन परिणमंस्ततोऽभिन्न इति कार्यकारणयोरनन्यद्रव्यत्वात्त्वत्कार्यभूतजगदनन्यस्त्वं कार्यत्वकारणत्वयोस्सतो द्रव्यस्यावस्था विशेषरूपत्वेन सर्वावस्थास्वनुस्यूतं द्रव्यमेकमेवेतिभावः । तदेव सहेतुकमुपपादयति, यत् यस्मात्त्वममुष्य जगत आद्यन्तयोरवस्थयोः पृथगवस्थस्य आत्मानमिति शेषः । पृथक् मध्यावस्थारहितमात्मानमवस्यसि पर्यवसितं करोषि जगत आदौ सृष्टेः पूर्वं तस्यान्ते प्रलये चाऽऽत्मानं पर्यवशेषयसि, ततो मध्यतः मध्यावस्थायाञ्च त्वमेव । तथाहि कटकमुकुटादिकारणतया कटकाद्यवस्थातः पूर्वमवस्थितः स्वर्णपिण्डः कटकाद्यवस्थायाः पर्यवशेषितो मध्यतः कटकाद्यवस्थाया स्तदवस्थावतां द्रव्यान्न भिद्यते तद्वदिति भावः । एवं जगतोऽभिन्नत्वोपपादनेन जगदुपादानत्वमुक्तम् । अथ तन्निमित्तकारणत्वं वदन् उपादानत्व प्रयुक्तविकारित्वादि दोषपरिहारंसूचयन् कार्यावस्थायां नानात्वेनावस्थानञ्चाह सृष्ट्वेति । गुणव्यतिकरं सत्त्वादिप्राकृतगुणपरिणामात्मकमिदं जगत् निजमायया आत्मीय सङ्कल्परूपज्ञानेन सृष्ट्वा तत्सृष्टं जगदनुप्रविष्टोऽन्तरात्मतयाऽनुप्रविष्टः “तत्सृष्ट्वा तदेवाऽनुप्राविशत्” (तैत्ति. उ. 2-6) इति श्रुत्युक्तरीत्या तावत्स्वानुप्रवेशेनैव सृष्टं जगच्चिदचिदात्मकं पुनः संरक्षणोपयुक्तसङ्कल्परूपज्ञानद्वारान्तरात्मतयाऽनुप्रविष्टः तैः स्वशरीरभूतैः चिदचिदात्मकैः देवादिकैः शरीरैर्नानेव भिन्न इवावसितः प्रतीतः । अतो देव मनुष्यादिभेदभिन्नं जगत्त्वमेवेति भावः । सृष्ट्वानुप्रविष्ट इति सृष्ट्यनुप्रवेशयोः एककर्तृक्त्वकथनेन जगन्निमित्तकारणत्वं तच्च निष्कृष्टविशेषांशभूतस्वरूपस्यैवेति च फलितं, येनाकारेणानुप्रवेश स्तेनैवाकारेण स्रष्टृत्वमपि । एवञ्च विशिष्टाकारेणानुप्रवेशः तेनैवाकारेण स्रष्टृत्वं हि त्वाप्रत्ययस्वारस्या दवगम्यते । अनुप्रवेशश्च विशेष्याकारेणेति तेनैवाकारेण स्रष्टृत्वमपि । एवञ्च विशिष्टाकारेणोपादानत्वं विशेष्याकारेण तु निमित्तकारणत्वमित्युक्तं भवति । अत एव चेदं सृष्ट्वेतीदंशब्दनिर्दिष्टं सृष्टिं प्रति कर्मभूतं जगत् चिदचिदुभयात्मकमेव साक्षादुत्पत्त्याद्यवस्थाश्रयमित्यवगम्यते, अनुप्रविष्ट इत्यनेन तत्तदवस्थानिर्वोढुतयाऽन्तरात्मतयाऽनुप्रवेश कथनेन स्वविशेषणीभूतचिदचिद्द्वारा तद्गतोत्पत्त्याद्यवस्थाश्रयत्वमवगम्यते, अनुप्रविष्ट इत्यनेन आत्मत्वकथनेन साक्षाद्देहगत विकाराऽस्पर्शश्चोक्तः । अत एवोपादानत्व प्रयुक्तविकारित्वादिदोषश्च परिहृतः । जगतः शरीरत्वकथनेन शरीरशब्दबुद्धीनामाकृत्यधिकरणन्यायेन आत्मपर्यन्तत्वलाभोऽपि तस्य जगदनन्यत्वे हेतुरित्यक्तं भवति ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

त्वं वा इदं सदसदीश भवांस्ततोऽन्यो
माया यदात्मपरबुद्धिरियं ह्यपार्था।
यद् यस्य जन्म निधनं स्थितिरीक्षणं च
तद् वै तदेव वसुकालवदष्टितर्वोः॥

मूलम्

त्वं वा इदं सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियं ह्यपार्था।
यद्यस्य जन्म निधनं स्थितिरीक्षणं च तद्वै तदेव 100वसुकालव101दुष्टितर्वोः॥ ३१ ॥

अनुवाद (हिन्दी)

भगवन्! यह जो कुछ कार्य-कारणके रूपमें प्रतीत हो रहा है, वह सब आप ही हैं और इससे भिन्न भी आप ही हैं। अपने-परायेका भेद-भाव तो अर्थहीन शब्दोंकी माया है; क्योंकि जिससे जिसका जन्म, स्थिति, लय और प्रकाश होता है, वह उसका स्वरूप ही होता है—जैसे बीज और वृक्ष कारण और कार्यकी दृष्टिसे भिन्न-भिन्न हैं, तो भी गन्ध-तन्मात्रकी दृष्टिसे दोनों एक ही हैं॥ ३१॥

वीरराघवः

ननु, त्वत्पित्रादयश्चतुर्मुखादिकमेवेश्वरं मन्यमानाः कृत्स्नं जगत्तत्कारणकं तदनन्यमभ्यदधत । त्वन्तुमदेककारणकं मदभिन्नं च जगन्मन्यसे तदेतद्विरुद्धमित्याशङ्कायां देहात्मबुद्धिवज्जीवेश्वरबुद्धेः भ्रान्तिरूपतां वदन्नुक्तमेव कार्यकारणयोरनन्यत्वं दृष्टान्तमुखेन दर्शयति-त्वमिति । हे ईश ! सदसदात्मकं चिदचिदात्मक102मिदं जगत्त्वमेव चिदचिदात्मकजगत्कारणभूत स्तदनन्यश्चेश्वरस्त्वमेव, 103नाऽन्य ईश्वर इत्यर्थः । ईशेति सम्बोधन स्वारस्यादिदं जगत्कारणभूत स्तदनन्य श्चेत्त्वमेवेत्यर्थः103 । आत्मनि जीवात्मनि परबुद्धिर्या ईश्वरबुद्धिः सा अपार्था अर्थशून्या मायाऽविद्याकार्यभूता अज्ञानमूला भ्रान्तिरूपेति यावत् । देहात्मवादवज्जीवेश्वरवादो104ऽपि भ्रममूल एवेत्यर्थः । यद्यत एवं तत स्तस्माज्जीवादन्य एव भवानीश्वरः । कर्मवश्यस्य जीवस्य एवंविधजगन्निमित्तोपादानकारणत्वासंभवान्मुक्तस्य जगद्व्यापारवर्जनाच्चेति भावः । अतः चिदचिदात्मकं जगत्वमेव । ननु, मत्कारणकत्वमात्रेण कथं मदनन्यं जगत् तत्राह-यदिति । जन्म उत्पत्तिः, निधनं नाशः, स्थितिः पालनम्, ईक्षणं प्रकाशः, जन्मादिशब्दैस्तद्धेतुर्लक्ष्यते, यस्योत्पत्तिस्थितिविनाशप्रकाशानां युद्धेतुभूतं तद्वै तदेव तत्कार्यं स्वोपादानकारणादव्यतिरिक्तम् यद्वा, यद्यतः यस्य जन्मादयः तत्तदेव, तत्र दृष्टान्तद्वयमाह-वसुकालवदुष्टितर्वोरिति । वसुशब्दो वसुमतीं पृथ्वीं लक्षयति, यथा भानुशब्दो भानुमन्तं 105लक्षयति प्रतिपादयति तद्वत् । उष्टिः प्रभातकालः तरुर्वृक्षः तयोर्जन्मादि हेतुभूतकालवद्वसुमतीवदिति व्युत्क्रमेणाऽऽन्वयः यथा प्रभातादिकालावयवाः स्वोपादानभूतमहाकालादनतिरिक्ताः यथा च वृक्षः पृथिव्या अनतिरिक्तः तद्वदित्यर्थः । “खलु कालवदुष्टितर्वो"रिति पाठे सत्येवं योजना-ईश्वरो जगदुपादानं निमित्तं चातस्त106द्द्वन्दे दृष्टान्तः । कालः प्रभातादिकालावयवानां कालतत्त्वमुपादानं, वृक्षादीनां तु निमित्तं यथा प्रभातादिः कालाव्यतिरिक्तः यथा वृक्षश्चाऽभूदस्ति भविष्यतीति कालाविनाभूतः प्रतीयते तद्वत् निमित्तोपादानभूतादीश्वराज्जगदव्यतिरिक्तमित्यर्थः । अष्टि तर्वोरित्यपि पाठः । तत्रैवं व्याचक्षते अष्टिर्बीजं कारणं, तरुः कार्यं, तयोर्यथा वसुकालात्मकत्वम्, अयमर्थः कालशब्देन नीलत्वादि साधारणगुणयेगात् पृथ्वी लक्षयते वसुशब्देन वस्तुमात्रं भूतसूक्ष्मम् । तत्र तरोर्यथा पृथ्वीमयबीजपरिणामात्मकत्वेन ततोऽभेदः तस्य च यथा भूत सूक्ष्मात्त्मकत्वं, एवं सर्वस्य जगतः परमकारणभूतपरमात्मात्मकत्वमेवेति ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

न्यस्येदमात्मनि जगद् विलयाम्बुमध्ये
शेषेऽऽत्मना निजसुखानुभवो निरीहः।
योगेन मीलितदृगात्मनिपीतनिद्र-
स्तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे॥

मूलम्

न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये शे107षे स्वतो107 निजसुखानुभवो निरीहः।
योगेन मीलितदृगात्मनि 108वीतनिद्र109स्तुर्ये स्थितो 110न तु तमो न गुणाश्च 111युङ्क्षे॥ ३२ ॥

अनुवाद (हिन्दी)

भगवन्! आप इस सम्पूर्ण विश्वको स्वयं ही अपनेमें समेटकर आत्मसुखका अनुभव करते हुए निष्क्रिय होकर प्रलयकालीन जलमें शयन करते हैं। उस समय अपने स्वयं-सिद्ध योगके द्वारा बाह्य दृष्टिको बंद कर आप अपने स्वरूपके प्रकाशमें निद्राको विलीन कर लेते हैं और तुरीय ब्रह्मपदमें स्थित रहते हैं। उस समय आप न तो तमोगुणसे ही युक्त होते और न तो विषयोंको ही स्वीकार करते हैं॥ ३२॥

वीरराघवः

एवं जगतस्तदनन्यत्वं तदेकेश्वरत्वं तदेककारणत्वं चोक्तम् । अथ चतुर्मुखस्य तत्कार्यत्वं तदाहितसृष्ट्युपयुक्तज्ञानशक्त्यादिमत्त्वञ्च विवक्षुस्तावद्यदुक्तं विश्वस्याद्यन्तयोः पृथगवस्थानं तत्रान्ते पृथगवस्थितिप्रकारमाह- न्यस्येति । इदं परिदृश्यमानं चिदचिदात्मकं जगत् आत्मनि न्यस्योपसंहृत्य शेषे शयानोऽसि शेषात्मनेति पाठे, शेषस्य कारणात्मनाऽवशिष्टस्य चिदचिद्द्रव्यस्य अन्तरात्मना स्वरूपेण आत्मनि स्वस्मिन्नेवावस्थित इत्यन्वयः । कथम्भूतः स्वतो निरुपाधिकं निजसुखस्यानुभवो यस्यात एव निरीहः निष्क्रियः योगेन निजसुखानुभवरूपयोगेन मीलितदृक् निवृत्तसङ्कल्परूपज्ञानः । मीलित दृशेति पाठे मीलितदृशा योगेन निवृत्तस‌ङ्कल्परूपज्ञानावस्थानयोगेन विशिष्टइति शेषः । मीलितदृगित्यनेन प्रसक्तं निद्राप्रसङ्गं निराह-वीतनिद्रइति । आधारान्तरनैरपेक्ष्यमाह आत्मनि स्थित इति । कथम्भूते तुर्ये जाग्रदाद्यवस्थात्रयातीते । प्रथमान्तपाठोऽपि दृश्यते तत्राप्युक्त एवार्थः । तमः सूक्ष्मावस्था प्रकृतिः “अक्षर तमसि लीयते” (सु.बा.उ. 2-2) “आसीदिदं तमोभूतं” (मनु. 1-5) इति श्रौतस्मार्तप्रयोगात् । तमस्तद्गुणान्सत्त्वादींश्च न युङ्क्षे न सम्बध्नासि प्रकृतितद्गुणास्पृष्टो भवसीत्यर्थः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तस्यैव ते वपुरिदं निजकालशक्त्या
सञ्चोदितप्रकृतिधर्मण आत्मगूढम्।
अम्भस्यनन्तशयनाद् विरमत्समाधे-
र्नाभेरभूत् स्वकणिकावटवन्महाब्जम्॥

मूलम्

तस्यैव ते वपुरिदं निजकालशक्त्या सञ्चोदित112 प्रकृति ध113र्मिण आत्मगूढम्।
अम्भस्यनन्तशयनाद्विरमत्समाधेर्नाभेरभूत् स्वकणिका114वटवन्महाब्जम्॥ ३३ ॥

अनुवाद (हिन्दी)

आप अपनी कालशक्तिसे प्रकृतिके गुणोंको प्रेरित करते हैं, इसलिये यह ब्रह्माण्ड आपका ही शरीर है। पहले यह आपमें ही लीन था। जब प्रलयकालीन जलके भीतर शेषशय्यापर शयन करनेवाले आपने योगनिद्राकी समाधि त्याग दी, तब वटके बीजसे विशाल वृक्षके समान आपकी नाभिसे ब्रह्माण्डकमल उत्पन्न हुआ॥ ३३॥

वीरराघवः

एव मुपसंहृतजगतः कारणतयाऽवस्थिताज्जगतः उत्पत्तिप्रकारं मध्यतस्तदन्यत्वप्रदर्शनायाह- तस्यैवेति । तस्योक्तविधमवस्थितस्य तव नाभेर्वपुस्त्वच्छरीरभूतं जगदाकारं महाब्जमभूदुद्वभूव । कथम्भूतस्य तव ? निजकालशक्त्या स्वांशभूतया कालाख्यया शक्त्त्या सञ्चोदिता क्षुभितगुणा प्रकृतिरेव धर्मः अपृथक्सिद्धविशेषणं यस्य तस्य अम्भसि अनन्तशयनादिति ल्यब्लोपे पञ्चमी शेषपर्यङ्कादुत्थाय विरमन् समाधिः जगद्व्यापार वैमुख्येन अवस्थानुरूपो यस्य, सिसृक्षोरिति फलितोऽर्थः, एवम्भूतस्य तव नाभेः त्वच्छरीरभृतं जगदात्मक मात्मनि त्वयि निगूढं सूक्ष्मावस्थापन्नं महाब्जं स्वकणिकात् स्वबीजाद्वटवदभूदित्यर्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तत्सम्भवः कविरतोऽन्यदपश्यमान-
स्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य।
नाविन्ददब्दशतमप्सु निमज्जमानो
जातेऽङ्कुरे कथमु होपलभेत बीजम्॥

मूलम्

तत्सम्भवः कविरतोऽन्यदपश्यमानस्त्वां बीजमात्मनि ततं 115सबहिर्वि116चिन्वन्।
नाऽविन्ददब्दशतमप्सु निमज्जमानो जातेऽङ्कुरे कथमु117होपलभेत बीजम्॥ ३४ ॥

अनुवाद (हिन्दी)

उसपर सूक्ष्मदर्शी ब्रह्माजी प्रकट हुए। जब उन्हें कमलके सिवा और कुछ भी दिखायी न पड़ा, तब अपनेमें बीजरूपसे व्याप्त आपको वे न जान सके और आपको अपनेसे बाहर समझकर जलके भीतर घुसकर सौ वर्षतक ढूँढ़ते रहे। परन्तु वहाँ उन्हें कुछ नहीं मिला। यह ठीक ही है, क्योंकि अंकुर उग आनेपर उसमें व्याप्त बीजको कोई बाहर अलग कैसे देख सकता है॥ ३४॥

वीरराघवः

तत्सम्भवस्तन्महाब्जसम्भवः कविर्ब्रह्मा अतः पद्मादन्यदपश्यमानः स्वात्मन्यन्तरात्मतया ततं व्याप्तं बीजं पद्मस्य कारणभूतं त्वां स्वस्माद्बहिस्तथा अब्दशतं वर्षशतमप्सु निमज्जमानो विचिन्वन्नन्वेषयन्नाविन्दत नोपलब्धवान् । अहो ! तथाहि, अङ्कुरे जाते बीजं कथमुपलभेत नोपलभेतैवेत्यर्थः । यथाऽङ्कुरे जाते सति ततः पृथक् स्थितं बीजं नोपलभते लोकस्तथा मत्कार्यभूतं जगदात्मकं पद्मं मदभिन्नमिति दर्शयितुं भवान् बहुधा विचिन्वताऽपि ब्रह्मणा नोपलब्ध इति भावः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

स त्वात्मयोनिरतिविस्मित आस्थितोऽब्जं
कालेन तीव्रतपसा परिशुद्धभावः।
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं
भूतेन्द्रियाशयमये विततं ददर्श॥

मूलम्

सत्वात्मयोनिरति विस्मित 118आश्रितोऽब्जं कालेन तीव्रतपसा परिशुद्धभावः।
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं भूतेन्द्रियाशयमये119 विततं ददर्श॥ ३५ ॥

अनुवाद (हिन्दी)

ब्रह्माको बड़ा आश्चर्य हुआ। वे हारकर कमलपर बैठ गये। बहुत समय बीतनेपर तीव्र तपस्या करनेसे जब उनका हृदय शुद्ध हो गया, तब उन्हें भूत, इन्द्रिय और अन्तःकरणरूप अपने शरीरमें ही ओत-प्रोतरूपसे स्थित आपके सूक्ष्मरूपका साक्षात्कार हुआ—ठीक वैसे ही जैसे पृथ्वीमें व्याप्त उसकी अति सूक्ष्म तन्मात्रा गन्धका होता है॥ ३५॥

वीरराघवः

ततो भगवदुपासनया स्वस्मिन्नेव दृष्टवानित्याह सत्विति । स तु विचिन्वन्नात्मयोनिर्ब्रह्मा अतिविस्मितः अब्दशतपर्यन्तान्वेषणेनाऽपि अनुपलम्भप्रयुक्तविस्मययुक्तः परावृत्त्याब्जमाश्रितस्सन् तीव्रेण तपसा ध्यानेन परिशुद्धभावः परिशुद्धमनाः निरस्तत्वद्दर्शनविरोधिकर्मा हे ईश ! त्वामात्मन्येव विततं व्याप्तं ददर्श । कथम्भूतं ? भुवि गन्धमिवातिसूक्ष्यं स्वात्मनः पृथग्विभागानर्हम् । अतिसूक्ष्मभूतेति समस्तपाठे भुवि गन्धमिवात्मनि विततं ददर्श, भुवि गन्धमिवेत्यवस्थानमात्रे दृष्टान्तः । अतिसूक्ष्माणि विभागानर्हाणि कारणात्मतामापन्नानि भूतान्याकाशादीनि इन्द्रियाण्याशयोऽन्तःकरणञ्च तन्मयं तत्प्रचुरमेवम्भूतं तावद्ददर्श ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

एवं सहस्रवदनाङ्घ्रिशिरः करोरु-
नासास्यकर्णनयनाभरणायुधाढ्यम्।
मायामयं सदुपलक्षितसंनिवेशं
दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः॥

मूलम्

एवं सहस्रवदनाङ्घ्रि शिरःकरोरु नासास्यकर्णनयनाभरणा120युधाढ्यम्।
मायामयं सदुप121लक्षणसन्निवेशं दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः॥ ३६ ॥

अनुवाद (हिन्दी)

विराट् पुरुष सहस्रों मुख, चरण, सिर, हाथ, जंघा, नासिका, मुख, कान, नेत्र, आभूषण और आयुधोंसे सम्पन्न था। चौदहों लोक उसके विभिन्न अंगोंके रूपमें शोभायमान थे। वह भगवान‍्की एक लीलामयी मूर्ति थी। उसे देखकर ब्रह्माजीको बड़ा आनन्द हुआ॥ ३६॥

वीरराघवः

ततः सहस्रमपरिमितानि यानि वदनादीनि तैराढ्यं समृद्धमत एव मायामयमाश्चर्यरूपं सत् उपलक्षण सन्निवेशं सता सत्त्वेन नित्यत्वेन उपलक्षणीयः सन्निवेशः वदनाद्यवयव122संस्थानं यस्य तं सता सूक्ष्मरूपेण सता प्रपञ्चेनोपलक्षितः सन्निवेशो वदनादिविन्यासो यस्य तमिति वा, एवम्भूतं महापुरुषं दृष्ट्वा विरिञ्चो ब्रह्मा मुदं हर्षमाप प्राप्तवान् ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

तस्मै भवान्हयशिरस्तनुवं च बिभ्रद्
वेदद्रुहावतिबलौ मधुकैटभाख्यौ।
हत्वाऽऽनयच्छ्रुतिगणांस्तु रजस्तमश्च
सत्त्वं तव प्रियतमां तनुमामनन्ति॥

मूलम्

तस्मै भवान् हयशिरस्त123नुवं च बिभ्रद्वेदद्रुहावतिबलौ मधुकैटभाख्यौ।
124हत्वाऽऽनयच्छ्रुतिगणांस्तु रजस्तमश्च सत्त्वं तव प्रियतमां तनुमामनन्ति॥ ३७ ॥

अनुवाद (हिन्दी)

रजोगुण और तमोगुणरूप मधु और कैटभ नामके दो बड़े बलवान् दैत्य थे। जब वे वेदोंको चुराकर ले गये, तब आपने हयग्रीव-अवतार ग्रहण किया और उन दोनोंको मारकर सत्त्वगुणरूप श्रुतियाँ ब्रह्माजीको लौटा दीं। वह सत्त्वगुण ही आपका अत्यन्त प्रिय शरीर है—महात्मालोग इस प्रकार वर्णन करते हैं॥ ३७॥

वीरराघवः

तदा च तं भवाननुगृहीतवान् इत्याह-तस्मा इति । तस्मै तीव्रतपसा परिशुद्धभावनया उक्तविधं त्वां दृष्टवते विरिञ्चाय भवान् हयशिरस्तनुतां हयग्रीवरूपं बिभ्रत् श्रुतिगणान् सृष्ट्युपायावेदकान् वेदगणान् आनीय समर्पितान् । किं कृत्वा 125आनयत् ? रजस्तमश्च रजस्तमोरूपौ वेदद्रुहौ वेदापहारिणौ अतिबलौ मधुकैटभाख्यौ असुरौ हत्वा समर्पितवान् यतस्समर्पितवान् अत एव तव प्रियतमां तनुं हयशिरस्तनुं सत्त्वं शुद्धसत्त्वात्मिकाम् आमनन्ति धर्मस्थापनायोपात्तां तनुं शुद्धसत्त्वमयीमामनन्ति जानन्ति अवतारयाथात्म्यविद इति शेषः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

इत्थं नृतिर्यगृषिदेवझषावतारै-
र्लोकान् विभावयसि हंसि जगत्प्रतीपान्।
धर्मं महापुरुष पासि युगानुवृत्तं
छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम्॥

मूलम्

इत्थं नृतिर्यगृषिदेव झषावतारैर्लोकान् विभावयसि हंसि जगत्प्रतीपान्।
धर्मं महापुरुष पासि युगानुवृत्तं छन्नः कलौ यदभवस्त्रियुगो126ऽथ सत्वम्॥ ३८ ॥

अनुवाद (हिन्दी)

पुरुषोत्तम! इस प्रकार आप मनुष्य, पशु-पक्षी, ऋषि, देवता और मत्स्य आदि अवतार लेकर लोकोंका पालन तथा विश्वके द्रोहियोंका संहार करते हैं। इन अवतारोंके द्वारा आप प्रत्येक युगमें उसके धर्मोंकी रक्षा करते हैं। कलियुगमें आप छिपकर गुप्तरूपसे ही रहते हैं, इसीलिये आपका एक नाम ‘त्रियुग’ भी है॥ ३८॥

वीरराघवः

एवं जगत उत्पत्तिप्रकार उक्तः, अथ रक्षाप्रकारमाह, इत्थमुचितकालेषु तैस्तैः स्वेच्छोपात्तैः शुद्धसत्त्वमयैः नृतिर्यगृषि देव झषावतारैः रामकृष्णवराहपरशुरामोपेन्द्रमत्स्यावतारैः अवतारान्तराणामपीदमुपलक्षाणं, लोकान् विभावयसि पालयसि जगद्विरोधिनो रावणादीन् हंसि च । हे महापुरुष ! युगानुवृत्तं कृतादियुगेष्वनुवृत्तं धर्मं वर्णाश्रममर्यादादिरूपं जगत्प्रतीपनिरसनेन पासि पालयसि, यतस्त्वं कलौयुगे छन्नोऽभवः आसीः । अथ ततः त्रियुगशब्दप्रवृत्तिनिमित्ताश्रयोऽसि कृतत्रेताद्वापरे127ष्वेवावतारमुखेनाविर्भावात् त्रियुग इत्यभिधीयसे इत्यर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

नैतन्मनस्तव कथासु विकुण्ठनाथ
सम्प्रीयते दुरितदुष्टमसाधु तीव्रम्।
कामातुरं हर्षशोकभयैषणार्तं
तस्मिन्कथं तव गतिं विमृशामि दीनः॥

मूलम्

नैतन्मनस्तव कथासु विकुण्ठनाथ स128म्प्रीयते दुरितदुष्टमसाधु तीव्रम्।
कामातुरं हर्षशोक 129भयेषणार्तं तस्मिन् कथं तव गतिं 130विमृशामि दीनः॥ ३९ ॥

अनुवाद (हिन्दी)

वैकुण्ठनाथ! मेरे मनकी बड़ी दुर्दशा है। वह पाप-वासनाओंसे तो कलुषित है ही, स्वयं भी अत्यन्त दुष्ट है। वह प्रायः ही कामनाओंके कारण आतुर रहता है और हर्ष-शोक, भय एवं लोक-परलोक, धन, पत्नी, पुत्र आदिकी चिन्ताओंसे व्याकुल रहता है। इसे आपकी लीला-कथाओंमें तो रस ही नहीं मिलता। इसके मारे मैं दीन हो रहा हूँ। ऐसे मनसे मैं आपके स्वरूपका चिन्तन कैसे करूँ?॥ ३९॥

वीरराघवः

एवं 131निखिल जगदुदयविभवलयैककारणं तदन्तरात्मानं तच्छरीरकं संस्तुत्य यथावत्स्वरूपरूपादि विमर्शने मन्मनो न समर्थमिति वदन् किञ्चित्प्रार्थयते नैतदिति त्रिभिः । हे विकुण्ठनाथ! दुरितैर्दुष्ट मत एवासाधुवृत्तिं कामातुरं विषयप्रवणं हर्षेणाभिमतविषयलाभे हर्षेण, तद्विपरीतविषयलाभे तु 132शोकेन 133ईषणया पुत्रदारध134नेषणयाचार्तं मदीयं मनस्तव कथास्वेव न सम्यक् प्रीयते नासक्तं भवतीत्यर्थः । तस्मिन् मनस्येवं स्थिते सति दीनः विषयपारवश्येन दुःखितोऽहं तव गतिं याथात्म्यं कथं विमृशामि ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

जिह्वैकतोऽच्युत विकर्षति मावितृप्ता
शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित्।
घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्ति-
र्बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति॥

मूलम्

जिह्वैकतोऽच्युत विकर्षति मा वितृप्ता शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित्।
घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति॥ ४० ॥

अनुवाद (हिन्दी)

अच्युत! यह कभी न अघानेवाली जीभ मुझे स्वादिष्ट रसोंकी ओर खींचती रहती है। जननेन्द्रिय सुन्दरी स्त्रीकी ओर, त्वचा सुकोमल स्पर्शकी ओर, पेट भोजनकी ओर, कान मधुर संगीतकी ओर, नासिका भीनी-भीनी सुगन्धकी ओर और ये चपल नेत्र सौन्दर्यकी ओर मुझे खींचते रहते हैं। इनके सिवा कर्मेन्द्रियाँ भी अपने-अपने विषयोंकी ओर ले जानेको जोर लगाती ही रहती हैं। मेरी तो वह दशा हो रही है, जैसे किसी पुरुषकी बहुत-सी पत्नियाँ उसे अपने-अपने शयनगृहमें ले जानेके लिये चारों ओरसे घसीट रही हों॥ ४०॥

वीरराघवः

न केवलं मन एव ममैवं जातं, किन्तु इन्द्रियान्तराण्यपीत्याह जिह्वेति । हे अच्युत! जिह्वा मा अवितृप्ता अतृप्ता सती एकतो मधुरादिरसान् प्रति मां विकर्षति तथा शिश्रोऽप्यतृप्तः त्वगादयश्च कुतश्चिद्विकर्षन्ति तत्तद्विषयभोगाय कर्षन्ति चपलदृक् चञ्चला दृष्टिः क्व चाभिमतरूपदर्शनाय विकर्षति । उदरशब्दः प्राणोपलक्षकः तथा कर्मशक्तिः क्रियाशक्तिः पाणिपादादिरपि विकर्षति, क्वचिद्नेहपति गृहस्थं बह्वयः सपत्न्य इव देहपतिम् इन्द्रियाणि लुनन्ति विकर्षन्ति इत्यर्थः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

एवं स्वकर्मपतितं भववैतरण्या-
मन्योन्यजन्ममरणाशनभीतभीतम्।
पश्यञ्जनं स्वपरविग्रहवैरमैत्रं
हन्तेति पारचर पीपृहि मूढमद्य॥

मूलम्

एवं स्वकर्मपतितं भववैतरण्यामन्योन्यजन्ममरणा135शनभीतभीतम्।
पश्यञ्जनं स्वपरविग्रहवैरमैत्रं हन्तेति पार136चर 137पिपृहि मूढ138मद्य॥ ४१ ॥

अनुवाद (हिन्दी)

इस प्रकार यह जीव अपने कर्मोंके बन्धनमें पड़कर इस संसाररूप वैतरणी नदीमें गिरा हुआ है। जन्मसे मृत्यु, मृत्युसे जन्म और दोनोंके द्वारा कर्मभोग करते-करते यह भयभीत हो गया है। यह अपना है, यह पराया है—इस प्रकारके भेद-भावसे युक्त होकर किसीसे मित्रता करता है तो किसीसे शत्रुता। आप इस मूढ़ जीव-जातिकी यह दुर्दशा देखकर करुणासे द्रवित हो जाइये। इस भव-नदीसे सर्वदा पार रहनेवाले भगवन्! इन प्राणियोंको भी अब पार लगा दीजिये॥ ४१॥

वीरराघवः

न केवलमहमेवेदृशीं दशां प्राप्तः किन्तु मदीयो जनोऽप्येवमेव क्लिश्यति । अतः सर्व मदीयं जनं संसारान्मोचयेति प्रार्थयते - एवमिति । भव एव वैतरणी दुःखप्रदा यमलोकनदी तस्यां स्वकर्मभिः पुण्यपापात्मके पतितमन्योन्यं यानि मरणादीनि शत्रूणां पुत्रादिजन्मना स्वस्य भयं स्वस्य पुत्रादिजन्मना परेषां शत्रुभ्यः स्वस्य भयं स्वस्माच्छत्रूणामेवं परैः स्वद्रव्यभक्षणेन स्वस्य भयं, स्वेन परद्रव्यभक्षणे स्वस्मा139त्तेषामिति यथासम्भवमूह्यम् । तेभ्यो जन्म140जरामरणाशनेभ्योभीतभीतं भीतादपिभीतं स्वेषां परेषाञ्च विग्रहे देहेषु यथायथं वैरं मेत्रञ्च यस्य तमेवमद्याऽपि, मूढमज्ञं जनं पश्यन् 141त्वं हे पारचर! भववैतरणीपारे चरतीति तथा तस्य सम्बोधनम्, अतिपीपृहि, “पृृ पालनपूरणयोः” इति धातुः, अतीव पालयेत्यर्थः । यद्वा, अतिपिपृहि, हन्तेति अहो कष्टमित्यनुकम्प्यभववैतरिण्या अतिपारय पारं नय, संसारान्मोचयेत्यर्थः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

को न्वत्र तेऽखिलगुरो भगवन्प्रयास
उत्तारणेऽस्य भवसम्भवलोपहेतोः।
मूढेषु वै महदनुग्रह आर्तबन्धो
किं तेन ते प्रियजनाननुसेवतां नः॥

मूलम्

कोऽन्वत्र तेऽखिलगुरो! भगवन्प्रयास उत्तारणेऽस्य भवसम्भवलोपहेतोः।
मूढेषु वै महदनुग्रह आर्तबन्धो! किं तेन ते प्रियजनाननुसे142वतां नः॥ ४२ ॥

अनुवाद (हिन्दी)

जगद‍्गुरो! आप इस सृष्टिकी उत्पत्ति, स्थिति तथा पालन करनेवाले हैं। ऐसी अवस्थामें इन जीवोंको इस भव-नदीके पार उतार देनेमें आपको क्या प्रयास है? दीनजनोंके परमहितैषी प्रभो! भूले-भटके मूढ़ ही महान् पुरुषोंके विशेष अनुग्रहपात्र होते हैं। हमें उसकी कोई आवश्यकता नहीं है। क्योंकि हम आपके प्रियजनोंकी सेवामें लगे रहते हैं, इसलिये पार जानेकी हमें कभी चिन्ता ही नहीं होती॥ ४२॥

वीरराघवः

ननु त्वदीयसर्वजनोत्तरणे मम महान् प्रयासो भवेत्, नेत्याह-कोन्विति । हे अखिलानां गुरो हितोपदेष्टः । हे भगवन्! ज्ञानशक्त्यादिषाङ्गुण्यपूर्ण ! अ143त्र अस्मिन् मदीयजनस्योत्तारणे तव कोनुप्रयासः । न कोऽपीत्यर्थः । प्रयासाभावे हेतुं वदन् भगवन्तं विशिनष्टि - अस्य कृत्स्नस्य चिदचिदात्मकप्रपञ्चस्य भवसम्भवलोपहेतो रुत्पत्तिस्थितिलयकारणस्य कृत्स्नजगदुदयविभवलयलीलस्य मदीयजनोत्तारणे न कोऽपि प्रयास इति भावः । युक्तञ्चैतत्तवेत्याह-मूढेष्यज्ञेषु विशेषेण महतामनुग्रहो भवतीति । ननु 144मत्सेवा मन्तरेणाऽहं नाऽतिपारयामि, अन्यथा सर्वमुक्तिप्रसङ्गः, तताऽऽह- हे आर्तबन्धो! किन्तेन आर्तबन्धुस्त्वमिति यत् तेन, 145नोऽऽस्माकं किं त्वत्सेवया स्यात् तवार्तबन्धुत्वनिर्वाहार्थं त्वत्सेवायामप्यशक्तावयमार्त्तानुकम्प्या इति भावः । सर्वमुक्तिप्रसङ्गं निराकुर्वन् आत्मनो विशिनष्टि । ते तव ये प्रियाः भक्तजनास्ताननुसेवतां त्वद्दासानुदास्यं कुर्वतामस्माकमित्यर्थः । तावन्मात्रमपेक्ष्य मज्जनोत्तारणोपपत्तेनं सर्वमुक्तिप्रसङ्गश्चेति भावः । मामनुगृहीतवता त्वया मदीयजनस्य भवद्दासानुदास्यमपि सम्पाद्यमिति तात्पर्यम् ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

नैवोद्विजे पर दुरत्ययवैतरण्या-
स्त्वद्विर्यगायनमहामृतमग्नचित्तः।
शोचे ततो विमुखचेतस इन्द्रियार्थ-
मायासुखाय भरमुद्विहतो विमूढान्॥

मूलम्

नैवोद्विजे 146भव दुरत्यय146वैतरण्यास्त्व147द्विर्यगायनमहाऽमृत148मग्नचित्तः।
शोचे 149ततो विमुखचेतस इन्द्रियार्थमायासुखायभरमुद्विहतो विमूढान्॥ ४३ ॥

अनुवाद (हिन्दी)

परमात्मन्! इस भव-वैतरणीसे पार उतरना दूसरे लोगोंके लिये अवश्य ही कठिन है, परन्तु मुझे तो इससे तनिक भी भय नहीं है। क्योंकि मेरा चित्त इस वैतरणीमें नहीं, आपकी उन लीलाओंके गानमें मग्न रहता है, जो स्वर्गीय अमृतको भी तिरस्कृत करनेवाली—परमामृतस्वरूप हैं। मैं उन मूढ़ प्राणियोंके लिये शोक कर रहा हूँ, जो आपके गुणगानसे विमुख रहकर इन्द्रियोंके विषयोंका मायामय झूठा सुख प्राप्त करनेके लिये अपने सिरपर सारे संसारका भार ढोते रहते हैं॥ ४३॥

वीरराघवः

इदमेवमयाप्रार्थनीयमित्यभिप्रयन्, नाऽहं भववैतरण्या बिभेमि, किन्तु तस्यां पतिष्यतो150 मज्जना नवलोक्य दुःख्यामीत्याह - नैवेति । हे परम! दुरतिक्रमणीयो भवः संसारः स एव वैतरणी ततो नैवाऽहमुद्विजे, बिभेमि । उद्वेगाभावे हेतुं वदन्नात्मानं विशिनष्टि-त्वद्वीर्येति । त्वद्वीर्यगायनं त्वद्वीर्यसूचकगुणनामगायनमेव महदमृतं तस्मिन् मग्नं चित्तं यस्य सोऽहम्, अतो न मदर्थं, शोचे, किन्तु विशेषेण मूढान् मदीयान् प्रति शोचे, तदर्थ शोचे इत्यर्थः । तत्र हेतुं वदन् तान्विशिनष्टि-ततस्त्वदीय151गानाद्विमुखं चेतां येषाम्, इन्द्रियार्थाः शब्दादयो विषयास्तेषां मायासुखाय तदनुभव152जन्यप्राकृतसुखाय तदर्थं भरं कुटुम्बादिभारं उद्वहन्तीति तथा तान् ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

प्रायेण देव मुनयः स्वविमुक्तिकामा
मौनं चरन्ति विजने न परार्थनिष्ठाः।
नैतान्विहाय कृपणान्विमुमुक्ष एको
नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये॥

मूलम्

प्रायेण देवमुनयः स्वविमुक्तिकामा मौनं चरन्ति विजने 153न परार्थनिष्ठाः153
नैता154न्विहाय कृपणान् विमुमुक्ष एको 155नाऽन्यं त्वदस्य155 शरणं भ्रमतोऽनुपश्ये॥ ४४ ॥

अनुवाद (हिन्दी)

मेरे स्वामी! बड़े-बड़े ऋषि-मुनि तो प्रायः अपनी मुक्तिके लिये निर्जन वनमें जाकर मौनव्रत धारण कर लेते हैं। वे दूसरोंकी भलाईके लिये कोई विशेष प्रयत्न नहीं करते। परन्तु मेरी दशा तो दूसरी ही हो रही है। मैं इन भूले हुए असहाय गरीबोंको छोड़कर अकेला मुक्त होना नहीं चाहता। और इन भटकते हुए प्राणियोंके लिये आपके सिवा और कोई सहारा भी नहीं दिखायी पड़ता॥ ४४॥

वीरराघवः

ननु, यथा श्रीनार156दानुग्रहात्त्वं मुमुक्षुस्तथा त्वदीया अपि महतामनुग्रहात् मुमुक्षवश्चेत्तान् मोक्षयिष्यामि, अतस्त्वमेव मुक्तिमिच्छेत्यत्राऽऽह-प्रायेणेति । हे देव! प्रायशो मुनय आत्मनामेव मुक्तिं कामयमाना विजने निर्जने अरण्यादिदेशे मौनं शुभाश्रयसंशीलनं कुर्वन्ति न तु 157परार्थनिष्ठाः अन्येषां प्रयोजने निष्ठा येषान्ते भवन्ति, अत सतदनुग्रहो मदीयजनस्य दुर्लभ इति भावः । तत एता158न्कृपणान् विहाय अहमेको न मुमुक्षे न संसृतिबन्धं मोतुमिच्छामि । तर्हि अन्यं कमपि प्रार्थय मामेव किमिति । निर्बध्नासीति चेत्तत्राऽऽह भ्रमतः संसृतौ भ्राम्यतोऽस्य जनस्य त्वत् त्वत्तः अन्यं शरणं 159रक्षकं रक्षणोपायभूतञ्च नाऽनुपश्यामि ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

यन्मैथुनादि गृहमेधिसुखं हि तुच्छं
कण्डूयनेन करयोरिव दुःखदुःखम्।
तृप्यन्ति नेह कृपणा बहुदुःखभाजः
कण्डूतिवन्मनसिजं विषहेत धीरः॥

मूलम्

यन्मैथुनादि गृहमेधिसुखं हि तुच्छं कण्डूयनेन करयोरिव दुःखदुःखम्।
तृप्यन्ति 160नेह कृपणा बहुदुःखभाजः कण्डूतिवन्मनसिजं विषहेत धीरः॥ ४५ ॥

अनुवाद (हिन्दी)

घरमें फँसे हुए लोगोंको जो मैथुन आदिका सुख मिलता है, वह अत्यन्त तुच्छ एवं दुःखरूप ही है—जैसे कोई दोनों हाथोंसे खुजला रहा हो तो उस खुजलीमें पहले उसे कुछ थोड़ा-सा सुख मालूम पड़ता है, परन्तु पीछेसे दुःख-ही-दुःख होता है। किंतु ये भूले हुए अज्ञानी मनुष्य बहुत दुःख भोगनेपर भी इन विषयोंसे अघाते नहीं। इसके विपरीत धीर पुरुष जैसे खुजलाहटको सह लेते हैं, वैसे ही कामादि वेगोंको भी सह लेते हैं। सहनेसे ही उनका नाश होता है॥ ४५॥

वीरराघवः

ननु, त्वदीया जना न दैन्यं प्राप्ताः, किन्तु विषयानुभवेन दृप्ता एव । अतस्तेषां दैन्यापादनेन त्वं किमिति इत्थं प्रार्थयसे ? तत्राऽऽह-यदिति । यन्मेथुनादिकं गृहमेधिनो गृहस्थस्य सुखं, तत्करयोः पाम्ना दूषितयोर्हस्तयोः कण्डूयनेन सङ्घर्षणेनेव तज्जन्यदुःखवत् दुःखदुःखं अतीवदुःखात्मकं दुःखादुपरिदुःखं दुःखोदर्कमिति वाऽर्थः । अत एव तुच्छम् । तर्हि तस्य दुःखत्वादेव ततो निर्विद्य मुमुक्षेयुः, तत्राऽऽह-कृपणाः कामिनः बहुदुःखभाजोपीह गृहमेधिसुखेन तृप्यन्ति अलमिति न मन्यन्ते; कण्डूतिवत् कामस्य दुस्सहत्वात् । अतस्ते स्वानर्थमेव न जानन्तीति भावः । ननु, केचित्कण्डूतिमपि सहन्ते, कामञ्चेत्यत्राऽऽह-सत्यं, धीरश्चेत्त्वदनुग्रहाज्जितेन्द्रियश्चेन्मनसिजं कामं सहेत, न त्वजितेन्द्रिय इति भावः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

मौनव्रतश्रुततपोऽध्ययनस्वधर्म-
व्याख्यारहोजपसमाधय आपवर्ग्याः।
प्रायः परं पुरुष ते त्वजितेन्द्रियाणां
वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम्॥

मूलम्

मौनव्रतश्रुततपोऽध्ययनस्वधर्म व्याख्यारहो जपसमाधय आपवर्ग्याः।
प्रायः परं पुरुष! ते त्वजितेन्द्रियाणां वार्ता भव161न्त्युत न वाऽत्र तु दाम्भिकानाम्॥

अनुवाद (हिन्दी)

पुरुषोत्तम! मोक्षके दस साधन प्रसिद्ध हैं—मौन, ब्रह्मचर्य, शास्त्र-श्रवण, तपस्या, स्वाध्याय, स्वधर्मपालन, युक्तियोंसे शास्त्रोंकी व्याख्या, एकान्तसेवन, जप और समाधि। परन्तु जिनकी इन्द्रियाँ वशमें नहीं हैं, उनके लिये ये सब जीविकाके साधन—व्यापार मात्र रह जाते हैं। और दम्भियोंके लिये तो जबतक उनकी पोल खुलती नहीं, तभीतक ये जीवननिर्वाहके साधन रहते हैं और भंडाफोड़ हो जानेपर वह भी नहीं॥ ४६॥

वीरराघवः

तर्हि कश्चिन्मौनादिभिरुपायैरिन्द्रियाणि जयद्भिरपवर्गः साध्यः, तत्राऽऽह-मौनेति हे पुरुष ! परम पुरुष! मौनादय आपवर्ग्याः जितेन्द्रियाणामपवर्गोपाया एवेति सत्यमेव । अजितेन्द्रियाणान्तु वार्ता जीवनोपाया भवन्ति 162“अयं मौनादिसम्पन्नस्ततोऽस्मैदेयम्” इति मन्यमानेभ्यः परेभ्यः लब्धवित्तो भवतीति जीवनोपाया भवन्ति162 163न तु अपवर्गोपाया भवन्ति163 । सतीन्द्रियजये मौनादय आपवर्ग्याः न तु तस्मिन्नसति, भवदनुग्रहाच्च विषयवैतृष्ण्येन भवतिव्यमिति भावः । अपवर्गार्थतया अनुष्ठिता अपि मौनादयोऽजितेन्द्रियाणां वार्ता एव, न तु आपवर्ग्याः, किम्पुनर्दम्भार्थं कृता आपवर्ग्या न भवन्तीत्याह उतेति । दाम्भिकानां मौनादयो वार्ता अपि भव164न्तीत्युत न वा, किम्पुनरापवर्ग्या न भवन्तीति दाम्भिकानां दाम्भिकत्वे प्रकटे सति जीवनहेतवोऽपि न भवन्तीति उत न वा शब्दार्थः । तत्र मौनं वाङ्नियमः, व्रत मनशनादिरूपं, श्रुत मध्ययनम् तपः कृच्छ्रादि, अध्ययन मध्ययनजं पाण्डित्यं, स्वधर्मः स्ववर्णाश्रमोचितो धर्मः, व्याख्या अध्यापनं, रहो निर्जनदेशवसतिः, जपो मन्त्रजपः, समाधिर्ध्यानम् । मनसिजं विषहेत धीर इतीन्द्रियजयमूलकः कामजय इत्युक्तम् । तथा अजितेन्द्रियाणां वार्ता भवन्तीत्यनेन जितेन्द्रियाणान्तु आपवर्ग्या भवन्तीति सूचितम् ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

रूपे इमे सदसती तव वेदसृष्टे
बीजाङ्कुराविव न चान्यदरूपकस्य।
युक्ताः समक्षमुभयत्र विचिन्वते त्वां
योगेन वह्निमिव दारुषु नान्यतः स्यात्॥

मूलम्

रूपे इमे सदसती तव वेद165दृष्टे बीजाङ्कुराविव नचाऽन्यदरूपकस्य।
युक्तास्समक्षमुभयत्र विचिन्वते त्वां योगेन वह्निमिव दारुषु 166नाऽन्यतः स्यात्॥ ४७ ॥

अनुवाद (हिन्दी)

वेदोंने बीज और अंकुरके समान आपके दो रूप बताये हैं—कार्य और कारण। वास्तवमें आप प्राकृत रूपसे रहित हैं। परन्तु इन कार्य और कारण रूपोंको छोड़कर आपके ज्ञानका कोई और साधन भी नहीं है। काष्ठ-मन्थनके द्वारा जिस प्रकार अग्नि प्रकट की जाती है, उसी प्रकार योगीजन भक्तियोगकी साधनासे आपको कार्य और कारण दोनोंमें ही ढूँढ़ निकालते हैं। क्योंकि वास्तवमें ये दोनों आपसे पृथक् नहीं हैं, आपके स्वरूप ही हैं॥ ४७॥

वीरराघवः

तर्हीन्द्रियजयः कथं स्यादित्यपेक्षायां सर्वात्मकनिरतिशयानन्दरूपब्रह्मोपासननिष्ठस्य अर्थादवेन्द्रियजयः स्यादिति वक्तुं तावत्तदुपासनाप्रकारं विवक्षुश्चेतनाचेतनयोः परमात्मशरीरत्वमाह - रूपे इति । इमे सदसती चिदचिद्द्रव्यरूपे बीजाङ्कुराविवस्थिते अरूपकस्य कर्माधीनदेहरहितस्य तव वेददृष्टे वेदबोधिते रूपे शरीरे “य आत्मनि तिष्ठन्” “आत्मनोऽन्तरोयमात्मा न वेद” “यस्याऽऽत्मा शरीरं, यः पृथिव्यां तिष्ठन् पृथिवीमन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरम्” (बृ.ह.उ. 3-7-3) “यस्याऽक्षरं शरीरं” (सुबा.उ. 7-1) “यस्याव्यक्तं शरीरम्” (सुबा.उ. 2-7) इत्यादि वेदबोधिते167 तव शरीर इत्यर्थः । बीडाङ्कुरौ इत्यनेन कदाचित्कारणावस्थया कदाचित्कार्यावस्थया चोभयधाऽवस्थिते उभे अपि चिदचिद्द्रव्ये तव शरीरभूते इत्युक्तं भवति । अरूपकस्य रूपे इत्यनेन तच्छरीरकत्वं न तव कर्माद्युपाधिप्रयुक्तमपि तु निरुपाधिकमित्युक्तं, यत उभयावस्थास्थितयोश्चिदचितोस्त्वच्छरीरत्वमत एव न चाऽन्यत् । अन्यदत्त्वदात्मकं किञ्चिदपि वस्तुनास्ति । एवमुभयत्र त्वच्छरीरभूतयोश्चिदचित्तोस्त्वां योगेनोपासनात्मकेन युक्तास्सन्तो मुनयो विचक्षते पश्यन्ति । 168तत्र दृष्टान्तः168 - वह्निमिव दारुषु, यथा दारुषु मथनाद्युपायेन वह्निं विचक्षते तद्वत्, अन्यतो योगादन्यत उपायान्तरान्नस्यात्, साक्षात्कार इति शेषः । उपायान्तरेण साक्षात्कारो न स्यादित्यर्थः ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

त्वं वायुरग्निरवनिर्वियदम्बुमात्राः
प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च।
सर्वं त्वमेव सगुणो विगुणश्च भूमन्
नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम्॥

मूलम्

त्वं वायुरग्निरवनिर्वियदम्बुमात्राः प्राणेन्द्रियाणि हृदयं चिदनुग्र169हाश्च।
सर्वं त्वमेव सगुणोविगुणश्च भूमन् नाऽन्यत्त्वदस्त्यपि मनो वचसा निरुक्तम्॥ ४८ ॥

अनुवाद (हिन्दी)

अनन्त प्रभो! वायु, अग्नि, पृथ्वी, आकाश, जल, पंचतन्मात्राएँ, प्राण, इन्द्रिय, मन, चित्त, अहंकार, सम्पूर्ण जगत् एवं सगुण और निर्गुण—सब कुछ केवल आप ही हैं। और तो क्या, मन और वाणीके द्वारा जो कुछ निरूपण किया गया है, वह सब आपसे पृथक् नहीं है॥ ४८॥

वीरराघवः

नचाऽन्यदित्यनेन अन्यत् त्वदात्मकं नास्तीत्युक्तं, नाऽन्यतः स्यादित्यनेनोपायान्तरादृश्यत्वञ्च । तदेतदुभयं प्रपञ्चयन् सर्वात्मकब्रह्मसाक्षात्कारादेव निश्शेष इन्द्रियजय इत्याह-त्वमिति द्वाभ्याम् । तावत्सर्वात्मकत्वं प्रपञ्चयति- त्वमिति । त्वमेव वाय्वादिरूपेणाऽवस्थितः, तच्छरीरकत्वेनाऽवस्थित इत्यर्थः । पूर्वं तवरूपे “तवरूपे” इति व्यतिरेकनिर्देशादत्राऽभेदनिर्देशाच्चेदं तादात्म्यं शरीरात्मभावनिबन्धनमित्यवगम्यते । तत्र मात्राः शब्दादयस्तन्मात्राः, प्राणाश्चेन्द्रियाणि, हृदयं मनः चिदनुग्रहं ज्ञानोत्पत्त्यनुग्राहकं हृदयविशेषणं चिदनुग्रहश्चेति पाठे ज्ञानोत्पत्त्यनुग्राहको महान् बुद्धितत्त्वात्मक उच्यते । किं बहुना, सगुणः सत्त्वादिगुण170प्रयुक्तः प्रकृतिपरिणामात्मकः सर्वः पदार्थः विगुणः सत्त्वादिगुणरहितः तदपरिणात्मको जीववर्गश्च मनश्च वचश्च तयोस्समाहारो मनोवचः तेन निरुक्तं विषयीकृतं तदेतत्सर्वं त्वमेव त्वच्छरीरभूतमेव ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

नैते गुणा न गुणिनो महदादयो ये
सर्वे मनः प्रभृतयः सहदेवमर्त्याः।
आद्यन्तवन्त उरुगाय विदन्ति हि त्वा-
मेवं विमृश्य सुधियो विरमन्ति शब्दात्॥

मूलम्

नैते गु171णा न गुणिनो महदादयो ये सर्वे मनःप्रभृतयः सहदेवमर्त्याः।
आद्यन्तवन्त उरुगाय विदन्ति 172हि त्वामेवं विमृश्य 173सुधियो विरमन्ति शब्दात्॥ ४९ ॥

अनुवाद (हिन्दी)

समग्र कीर्तिके आश्रय भगवन्! ये सत्त्वादि गुण और इन गुणोंके परिणाम महत्तत्त्वादि, देवता, मनुष्य एवं मन आदि कोई भी आपका स्वरूप जाननेमें समर्थ नहीं है; क्योंकि ये सब आदि-अन्तवाले हैं और आप अनादि एवं अनन्त हैं। ऐसा विचार करके ज्ञानीजन शब्दोंकी मायासे उपरत हो जाते हैं॥ ४९॥

वीरराघवः

नैत इति । गुणाः सत्त्वादयः गुणिनः प्राकृतगुणपरिणामात्मकाः महदादयः आदिशब्देनाऽहङ्कार तन्मात्राऽऽकाशादिभूतानि विवक्षितानि । सहदेवमर्त्याः देवमर्त्यादिभिः सहिताः मनः प्रभृतयश्च करणानि करणिनश्च ये इत्यर्थः । त एते सर्वे त्वां न । विदन्ति । 174गुणाः न विदन्ति174, गुणिनोऽपि न विदन्ति इति प्रत्येकान्वयाभिप्रायेण नञ्द्वयोपादानम् सकरणास्सर्वे देवमनुष्यादयः स्वान्तरात्मतया वसन्तमपि नत्वामुपायान्तरेण विदन्तीत्यर्थः । तत्र हेतुं वदंस्तान् विशिनष्टि आद्यन्तवन्त इति, कर्मायत्तोत्पत्तिविनाशिनः कर्मणा सङ्कुचितज्ञानत्वान्नवदन्तीति भावः । मुनयः सर्वान्तरात्मभूतत्वत्स्वरूपमननशीलास्तु हे उरुगाय! त्वामेव सर्वात्मकब्रह्मानुसन्धानरूपयोगेन त्वत्साक्षात्कारविरोधि कर्मनिरसनेन विमृश्य विमर्शनपूर्वकं साक्षात्कृत्य शब्दात् शब्दादिविषयात् विरमन्ति । एवमेव हि निश्शेषमिन्द्रियजय इति भावः ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

तत् तेऽर्हत्तम नमःस्तुतिकर्मपूजाः
कर्म स्मृतिश्चरणयोः श्रवणं कथायाम्।
संसेवया त्वयि विनेति षडङ्गया किं
भक्तिं जनः परमहंसगतौ लभेत॥

मूलम्

175तत्तेऽर्हत्तम! नमः स्तुतिकर्मपूजाः कर्म स्मृतिश्चरणयोः175 श्रवणं कथायाम्।
संसेवया त्वयि विनेति षडङ्गया किं भक्तिं जनः परमहंसगतौ लभेत॥ ५० ॥

अनुवाद (हिन्दी)

परम पूज्य! आपकी सेवाके छः अंग हैं—नमस्कार, स्तुति, समस्त कर्मोंका समर्पण, सेवा-पूजा, चरणकमलोंका चिन्तन और लीला-कथाका श्रवण। इस षडंगसेवाके बिना आपके चरणकमलोंकी भक्ति कैसे प्राप्त हो सकती है? और भक्तिके बिना आपकी प्राप्ति कैसे होगी? प्रभो! आप तो अपने परम प्रिय भक्तजनोंके, परमहंसोंके ही सर्वस्व हैं॥ ५०॥

वीरराघवः

एवमुपासनात्मकभक्त्येकवेद्यत्वं निरतिशयानन्दरूपत्वत्स्वरूपविषयकभक्तियोगगतस्य अर्थादेव शब्दादिविषयेभ्यो विरामश्चोक्तः । सा च भक्तिः वक्ष्यमाणषडङ्गसेवया विना दुर्लभेतिवदन्नुपसंहरति-तदिति । हे 176महत्तम! तव नमस्स्तुतिकर्म नमस्क्रिया नमस्कारः, स्तुतिक्रिया च पूजा अर्घ्यपाद्यादि निवेदनात्मिका, कर्म परिचर्यात्मकम्; यद्वा-प्रथमकर्मशब्देन पादसेवनादिपरिचर्यात्मकं कर्म उच्यते, पूजाकर्म पूजात्मकं कर्म, चरणयोः स्मृतिः स्मरणं, कथायां विषयभूतायां श्रवणं कथाविषयकश्रवणञ्चेति इत्थं षडङ्गन्यासेवया विना परमहंसानां प्राप्ये त्वयि भक्तिं जनो लभेत किम् ? तयैव लभेत ॥ ५० ॥

श्लोक-५१

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

एतावद्विर्णितगुणो भक्त्या भक्तेन निर्गुणः।
प्रह्रादं प्रणतं प्रीतो यतमन्युरभाषत॥

मूलम्

एतावद्विर्णितगुणो भक्त्या भक्तेन निर्गुणः।
प्रह्लादं प्रणतं प्रीतो 177यतमन्युरभाषत॥ ५१ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं—इस प्रकार भक्त प्रह्लादने बड़े प्रेमसे प्रकृति और प्राकृत गुणोंसे रहित भगवान‍्के स्वरूपभूत गुणोंका वर्णन किया। इसके बाद वे भगवान‍्के चरणोंमें सिर झुकाकर चुप हो गये। नृसिंहभगवान‍्का क्रोध शान्त हो गया और वे बड़े प्रेम तथा प्रसन्नतासे बोले॥ ५१॥

वीरराघवः

तदेवं प्रह्लादेन संस्तुतो नृसिंह स्तमुवाचेत्याह देवर्षिः एतावदिति । भक्तेन प्रह्लादेन भक्त्या एतावदेतावन्मात्रं वर्णितागुणा यस्य । एतावच्छब्देन गुणानामानन्त्यं सूचयति-निर्गुणो हेयगुणरहितः श्रीनृसंहः यतमन्युरूपसंहृतक्रोधः प्रीतः स्तुत्या हृष्टः “स महात्मा सुदुर्लभः” (भ.गी. 7-19) इत्युक्तरीत्या दुर्लभस्वभक्तलाभेन वा प्रीतः प्रणतं तं प्रह्लादमभाषतोवाच ॥ ५१ ॥

श्लोक-५२

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

प्रह्राद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम्॥

मूलम्

178प्रह्राद! भद्र!178 भद्रं ते प्रीतोऽहं तेऽसुरोत्तम!
वरंवृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम्॥ ५२ ॥

अनुवाद (हिन्दी)

श्रीनृसिंहभगवान‍्ने कहा—परम कल्याणस्वरूप प्रह्लाद! तुम्हारा कल्याण हो। दैत्यश्रेष्ठ! मैं तुमपर अत्यन्त प्रसन्न हूँ। तुम्हारी जो अभिलाषा हो, मुझसे माँग लो। मैं जीवोंकी इच्छाओंको पूर्ण करनेवाला हूँ॥ ५२॥

वीरराघवः

तदेवाऽऽह - प्रह्लादेति त्रिभिः । हे प्रह्लाद! वत्स! ते भद्रमनिष्टनिवृत्तिरिष्टप्राप्तिश्च भवेत् कुतः ? हे असुरोत्तम! यतोऽहं ते त्वया प्रीतः प्रीतिं प्रापितः, अत एवाऽभिलषितं वरं वृणीष्ववरय । अहं नृणामर्थिनां कामपुरः, काम्यन्त इति कामाः धर्मादयः तान् पूरयति ददातीति तथाऽहमस्मि ॥ ५२ ॥

श्लोक-५३

विश्वास-प्रस्तुतिः

मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे।
दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति॥

मूलम्

मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे।
दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति॥ ५३ ॥

अनुवाद (हिन्दी)

आयुष्मन्! जो मुझे प्रसन्न नहीं कर लेता, उसे मेरा दर्शन मिलना बहुत ही कठिन है। परन्तु जब मेरे दर्शन हो जाते हैं, तब फिर प्राणीके हृदयमें किसी प्रकारकी जलन नहीं रह जाती॥ ५३॥

वीरराघवः

हे आयुष्मन्! मामप्रीणतः प्रीतमकुर्वतः पुंसो दुर्लभं हि ममदर्शनं, मां दृष्ट्वा जन्तुर्देही पुनरात्मानं तप्तुमपूर्णकामत्वेन शोचितुं नाऽर्हति ॥ ५३ ॥

श्लोक-५४

विश्वास-प्रस्तुतिः

प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः।
श्रेयस्कामा महाभागाः सर्वासामाशिषां पतिम्॥

मूलम्

प्रीणन्ति ह्यथ मां धीराः सर्वभावेन 179साधवः।
श्रेयस्कामा महाभागा 180सर्वासामाशिषां पतिम्॥ ५४ ॥

अनुवाद (हिन्दी)

मैं समस्त मनोरथोंको पूर्ण करनेवाला हूँ। इसलिये सभी कल्याणकामी परम भाग्यवान् साधुजन जितेन्द्रिय होकर अपनी समस्त वृत्तियोंसे मुझे प्रसन्न करनेका ही यत्न करते हैं॥ ५४॥

वीरराघवः

अथाऽतो धीरा जितेन्द्रियाः श्रेयस्कामयमानाः महाभागा विवेकिनः साधवः सर्वासामाशिषां पुरुषार्थानां पतिं दातारं मां सर्वभावेन करणत्रयैक्येन प्रीणन्ति तोषयन्ति 181हि खलु181 ॥ ५४ ॥

श्लोक-५५

मूलम् (वचनम्)

182नारद उवाच182

विश्वास-प्रस्तुतिः

एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः।
एकान्तित्वाद् भगवति नैच्छत् तानसुरोत्तमः॥

मूलम्

एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः।
एकान्तित्वाद्भगवति नैच्छत्तानसुरोत्तमः॥ ५५ ॥

अनुवाद (हिन्दी)

असुरकुलभूषण प्रह्लादजी भगवान‍्के अनन्य प्रेमी थे। इसलिये बड़े-बड़े लोगोंको प्रलोभनमें डालनेवाले वरोंके द्वारा प्रलोभित किये जानेपर भी उन्होंने उनकी इच्छा नहीं की॥ ५५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरिते भगवत्स्तवो नाम नवमोऽध्यायः॥ ९ ॥

वीरराघवः

एवं वराय चोदितोऽपि नैच्छदसुरोत्तम इत्याह नारदः - एवमिति । लोकानां विषयातुराणां प्रलोभनं विमोहकैः183 वरैरेवमित्थं प्रलोभ्यमानोऽप्यसुरोत्तमः प्रह्लाद एकान्तभक्तत्वादनन्यप्रयोजनभगवद्भक्तियुक्तत्वात् तान् धर्मादीन् वरान्नैच्छत् नेयेष ॥ ५५ ॥

इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां नवमोऽध्यायः ॥ ९ ॥


  1. A,G Omit ↩︎ ↩︎

  2. M,Ma सङ्ग्रहं ↩︎

  3. W omits ↩︎ ↩︎

  4. W omits अर्धेन ↩︎

  5. W omits विधृतो ↩︎

  6. W नद्धाञ्जलिः कायेन बुवि ↩︎ ↩︎

  7. M,Ma निर्दष्ट ↩︎

  8. W omits ↩︎ ↩︎

  9. W नि ↩︎

  10. W omits ↩︎ ↩︎

  11. W omits हृदयं ↩︎

  12. A,T जलानि ↩︎

  13. W omits इत्यर्थः ↩︎

  14. A,B,T स्तौषीच्च ↩︎

  15. H,V नाराधनं, M,Ma नान्तं परस्य ↩︎

  16. M,Ma परतोऽप्यधनाऽपि ↩︎ ↩︎

  17. H,V पेप, M,Ma यान्ति; W पूर्ण ↩︎

  18. W पूर्णाः ↩︎

  19. W omits आराधयितुं ↩︎

  20. W omits मम ↩︎

  21. W omits गुण ↩︎

  22. W वो ↩︎

  23. W omits ↩︎ ↩︎

  24. H,V मन्येऽषु ↩︎

  25. M,Ma वात्रानु ↩︎

  26. W omits आत्मनः ↩︎

  27. W omits ↩︎ ↩︎

  28. W omits ↩︎ ↩︎

  29. M,Ma नात्मगेह प्राणः; W नेहितार्थप्राणः ↩︎ ↩︎

  30. A,B,T तोक्ताः ↩︎

  31. W श्रेष्ठ्ये ↩︎

  32. W क्तश्व ↩︎

  33. W द्राणामपि ↩︎

  34. H,V तत्वात्मने ↩︎

  35. A,B,T वि ↩︎

  36. A,B,T य द्व ↩︎

  37. W अर्थः ↩︎

  38. A,B,T पूजनेन ↩︎

  39. W omits तथैव ↩︎

  40. A,B,T र्थे ↩︎

  41. M,Ma नहि ↩︎

  42. A,B,T रस्य ↩︎

  43. A,B,T दिभिः ↩︎

  44. A,B,T रगुणानु ↩︎

  45. W तवोद्वि ↩︎

  46. M,Ma वास्य ↩︎

  47. A,B,T ततो ↩︎

  48. A,B,T दिभिः ↩︎

  49. A,B,G,H,J,T,V यन्ति ↩︎

  50. A,B,G,H,J,T,V याय ↩︎

  51. A,B,T omnit लोकः ↩︎

  52. W कादि ↩︎

  53. M,Ma क ↩︎

  54. M,Ma जिह्वाष्टि ↩︎

  55. M,Ma त्कृशतां ↩︎

  56. M,Ma भीतापवर्गमरणं समियां ↩︎ ↩︎

  57. W omits प्रापितः ↩︎

  58. W omits अङ्घ्रिमूलं ↩︎

  59. W omits आह्वयसे ↩︎

  60. W न्ममानु ↩︎

  61. W ताऽथ ↩︎

  62. W दिश ↩︎

  63. A,B,T omit अहं ↩︎

  64. W omits दुरित ↩︎

  65. W ञ्चि ↩︎

  66. M,Ma स्तराम्य ↩︎

  67. W युक्तो ↩︎

  68. W क्तः ↩︎

  69. A,B,T फलक ↩︎

  70. W omits ↩︎ ↩︎

  71. M,Ma वे ↩︎

  72. M,Ma आ ↩︎

  73. M,Ma तर्पणवि ↩︎

  74. M,Ma दि ↩︎

  75. M,Ma तद्वत्प्रभोः W तावद्विभो ↩︎ ↩︎

  76. M,Ma त्वदुपासकानाम् ↩︎

  77. A,B,T add त्वामनाश्रितानां ↩︎

  78. A,B,T add शरीररमेव पोषणपराणां ↩︎

  79. M,Ma omit यस्मात् ↩︎

  80. A,B,G,J,T दु ↩︎

  81. M,Ma भावं ↩︎

  82. W omits ↩︎ ↩︎

  83. B यान्विता ↩︎

  84. H,V च ↩︎

  85. W हिर्ग ↩︎

  86. H,V श्रियो ↩︎

  87. M,Ma ता उरु ↩︎

  88. W omits स्व ↩︎

  89. A,B,G,J,T ष्णि ↩︎

  90. A,B,G,J,T हः ↩︎

  91. M,Ma ह ↩︎

  92. A,B,T मिव ↩︎

  93. M,Ma उ ↩︎

  94. A,B,T omit ते ↩︎

  95. H,V र ऋषिणा ↩︎

  96. A,B,T जे इ ↩︎

  97. W omits जनं ↩︎

  98. A,B,G,J,T,W श्च ↩︎

  99. W omits ↩︎ ↩︎

  100. M,Ma खलु ↩︎

  101. A,B,G,H,J,T,V द ↩︎

  102. W omits इदं ↩︎

  103. W omits ↩︎ ↩︎

  104. W omits अपि ↩︎

  105. W omits लक्षयति ↩︎

  106. A,T द्वदेव ↩︎

  107. A,B,G,J,T शेषेऽऽत्मना; H,V शेषेतमो; M,Ma शेषासनो ↩︎ ↩︎

  108. A,B,G,H,J,T,V पी ↩︎

  109. M,Ma स्तुर्य ↩︎

  110. M,Ma ननु ↩︎

  111. M,Ma युङ्क्ते ↩︎

  112. M,Ma तं ↩︎

  113. A,B,G,H,J,T,V र्म ↩︎

  114. H,V द्व ↩︎

  115. A,B,G,J,W स्व ↩︎

  116. A,B,G,J,T,W चिन्त्य ↩︎

  117. M,Ma मि ↩︎

  118. A,B,G,H,J,T,V अस्थि ↩︎

  119. W मयं ↩︎

  120. H,V यता ↩︎

  121. A,B,G,H,J,T,V लक्षित ↩︎

  122. W omits स ↩︎

  123. H,V नुमत्र; नुमतां ↩︎

  124. H,V हत्वादिश ↩︎

  125. W omits आनयत् ↩︎

  126. H,V ऽसि सत्वम्; W ऽस्यथत्वम् ↩︎

  127. W omits एव ↩︎

  128. W तये ↩︎

  129. A,B,G,H,J,T,V भयै ↩︎

  130. H,V प्र ↩︎

  131. A,B,T अ ↩︎

  132. W omits शोकेन ↩︎

  133. A,B,T एष ↩︎

  134. A,B,T र्न ↩︎

  135. H,V मय ↩︎

  136. M,Ma मति ↩︎

  137. A,B,G,J,M,Ma,T पी ↩︎

  138. H,V मस्य; M,Ma सत्त्वम् ↩︎

  139. A,B,T परेषां ↩︎

  140. W omits जरा ↩︎

  141. W omit त्वं ↩︎

  142. M,Ma वमानः ↩︎

  143. A,B,T Omit अत्र ↩︎

  144. A,B,T मम ↩︎

  145. W omits न ↩︎

  146. A,B,G,J,T परदुरत्यय; W परम हे भव ↩︎ ↩︎

  147. M,Ma तीर्थ ↩︎

  148. M,Ma मत्त ↩︎

  149. M,Ma नु तं ↩︎

  150. A,B,T माणान् ↩︎

  151. A,B,T गायना ↩︎

  152. W जप्रा ↩︎

  153. H,V परमार्थनिष्ठाः ↩︎ ↩︎

  154. W ना ↩︎

  155. H,V नाऽस्य त्वदन्य; W नाऽन्यं त्वदन्य ↩︎ ↩︎

  156. W दस्यानु ↩︎

  157. A,B,T परार्थम् ↩︎

  158. ना ↩︎

  159. A,B,T Omit रक्षकं ↩︎

  160. M,Ma देह ↩︎

  161. M,Ma ल्यपि ↩︎

  162. W Omits ↩︎ ↩︎

  163. A,B,T Omit ↩︎ ↩︎

  164. A,B,T Omil इति ↩︎

  165. A,B,G,J,T सृ ↩︎

  166. H,V वाऽन्यतः ↩︎

  167. A,B,T तश ↩︎

  168. W Omits ↩︎ ↩︎

  169. W हञ्च ↩︎

  170. A,B,T Omits प्र ↩︎

  171. H,V णानुगु ↩︎

  172. M,Ma हित्वा एवं; W हित्वादेवं ↩︎

  173. H,V मुनयो ↩︎

  174. W Omits ↩︎ ↩︎

  175. H,V तत्तेऽर्हसत्तम ! नमः स्तुतिकर्मपूजाः कर्मस्मृतिश्चरणयोः; M,Ma तत्त्वे मनोदर्शने दृगपि स्तुतौ च वाक्कर्मणि ह्यपि करौ; W तत्ते महत्तमनमः स्तुति कर्म पूजाः कर्मस्मृतिश्चरणयो ↩︎ ↩︎

  176. W हरे ! ↩︎

  177. M,Ma गत ↩︎

  178. W वत्स ! प्रह्लाद! ↩︎ ↩︎

  179. M,Ma माधवम् ↩︎

  180. M,Ma सर्वेषा ↩︎

  181. W Omits ↩︎ ↩︎

  182. A,B,G,J,T,W Omit ↩︎ ↩︎

  183. W नैः ↩︎