[अष्टमोऽध्यायः]
भागसूचना
नृसिंहभगवान्का प्रादुर्भाव, हिरण्यकशिपुका वध एवं ब्रह्मादि देवताओंद्वारा भगवान्की स्तुति
श्लोक-१
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम्।
जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम्॥
मूलम्
अथ दैत्यसुतास्सर्वे श्रुत्वा तदनुवर्णितम्।
जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम्॥ १ ॥
अनुवाद (हिन्दी)
नारदजी कहते हैं—प्रह्लादजीका प्रवचन सुनकर दैत्यबालकोंने उसी समयसे निर्दोष होनेके कारण, उनकी बात पकड़ ली। गुरुजीकी दूषित शिक्षाकी ओर उन्होंने ध्यान ही न दिया॥ १॥
वीरराघवः
1एवं भगवता प्रह्लादेनोपदिष्टतत्त्वत्रययाथात्म्यहेयोपादेयभगवद्धर्मतदनुष्ठानोद्योगान् दैत्यकुमारानालक्ष्य आचार्यसुतो दैत्येन्द्राय न्यवेदयदित्याह देवर्षिः - अथेति । 2अथ भगवद्धर्मोपदेशानन्तरं तेन प्रह्लादेन अनुवर्णितमाकर्ण्य निर्दुष्टत्वात् प्रह्लादोक्त3मेव जगृहुर्दैत्यकुमाराः, न तु गुर्वनुशिक्षितमसुरोपाध्ययानुशिक्षितं जगृहुः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम्।
आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद् यथा॥
मूलम्
अथाऽऽचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम्।
आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा॥ २ ॥
अनुवाद (हिन्दी)
जब गुरुजीने देखा कि उन सभी विद्यार्थियोंकी बुद्धि एकमात्र भगवान्में स्थिर हो रही है, तब वे बहुत घबराये और तुरंत हिरण्यकशिपुके पास जाकर निवेदन किया॥ २॥
वीरराघवः
अथ तेषां दैत्यपुत्राणामेकान्तसंस्थितामव्यभिचारेण भगवद्धर्मविषयां बुद्धिमालक्ष्य लिङ्गैर्ज्ञात्वा भीतस्त्वरितः सञ्जातत्वरः यथावद्राज्ञे हिरण्यकशिपवे आवेदयद्विज्ञापितवान् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम्।
कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे॥
मूलम्
श्रुत्वा तदप्रियं दैत्यो 4गुरुणोक्तं सुताऽनयम्4।
कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे॥ ३ ॥
अनुवाद (हिन्दी)
अपने पुत्र प्रह्लादकी इस असह्य और अप्रिय अनीतिको सुनकर क्रोधके मारे उसका शरीर थर-थर काँपने लगा। अन्तमें उसने यही निश्चय किया कि प्रह्लादको अब अपने ही हाथसे मार डालना चाहिये॥ ३॥
वीरराघवः
ततो दैत्यो हिरण्यकशिपुर्गुरुणोक्तं सुतस्याऽनयनमिति स्वमार्गाननुवर्तनम् अत एवाऽप्रियं तच्छ्रुत्वा कोपावेशेन क्रोधव्याप्त्या चलत्कम्पमानं गात्रं शरीरं यस्य तादृशः पुत्रं प्रह्लादं हन्तुं मनो दधे मनोरथं कृतवान् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम्।
आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा॥
मूलम्
क्षिप्त्वा परुषया वाचा प्रह्लादमतदर्हणम्।
5आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा॥ ४ ॥
वीरराघवः
कठोरया गिरा अतदर्हणं तिरस्कारानहं प्रह्लादं क्षिप्त्वा तिरस्कृत्य क्रोधेन तिरश्चीनेन वक्रेण चक्षुषेक्षमाणः आह उवाच ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम्।
सर्पः पदाहत इव श्वसन्प्रकृतिदारुणः॥
मूलम्
प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम्।
सर्पः 6पदाहत इव श्वसन्प्रकृतिदारुणः॥ ५ ॥
अनुवाद (हिन्दी)
मन और इन्द्रियोंको वशमें रखनेवाले प्रह्लादजी बड़ी नम्रतासे हाथ जोड़कर चुपचाप हिरण्यकशिपुके सामने खड़े थे और तिरस्कारके सर्वथा अयोग्य थे। परन्तु हिरण्यकशिपु स्वभावसे ही क्रूर था। वह पैरकी चोट खाये हुए साँपकी तरह फुफकारने लगा। उसने उनकी ओर पापभरी टेढ़ी नजरसे देखा और कठोर वाणीसे डाँटते हुए कहा—॥ ४-५॥
वीरराघवः
कथम्भूतम् ? विनयेन नितरां नम्रं दान्तं तिरस्कारादिभिरसञ्जातक्रोधं बद्धोऽञ्जलिर्येन तम् सम्यक् उप समीपे स्थितम् । कथम्भूतः ? पादेन आहतस्ताडितः सर्प इव श्वसन् श्वासं मुञ्चन्, स्वभावेनैव क्रूरः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
हे दुर्विनीत मन्दात्मन् कुलभेदकराधम।
स्तब्धं मच्छासनोद्धूतं नेष्ये त्वाद्य यमक्षयम्॥
मूलम्
हे दुर्विनीत मन्दात्मन्! कुलभेदकराधम!।
8स्तब्धं मच्छासनो9द्धूतं 10नेष्ये त्वाऽद्य यमक्षयम्॥ ६ ॥
अनुवाद (हिन्दी)
‘मूर्ख! तू बड़ा उद्दण्ड हो गया है। स्वयं तो नीच है ही, अब हमारे कुलके और बालकोंको भी फोड़ना चाहता है! तूने बड़ी ढिठाईसे मेरी आज्ञाका उल्लंघन किया है। आज ही तुझे यमराजके घर भेजकर इसका फल चखाता हूँ॥ ६॥
वीरराघवः
उक्तिमेवाऽऽह - हे दुर्विनीत इति द्वाभ्याम् । हे दुर्विनीत! मन्दात्मन्! अल्पबुद्धे । मदाज्ञातिलङिघनं त्वामधुना यमालयं नेष्यामि ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः।
तस्य मेऽभीतवन्मूढ शासनं किम्बलोऽत्यगाः॥
मूलम्
क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकास्सहेश्वराः।
तस्य मेऽभीतवन्मूढा शासनं किम्बलोऽऽत्यगाः॥ ७ ॥
अनुवाद (हिन्दी)
मैं तनिक-सा क्रोध करता हूँ तो तीनों लोक और उनके लोकपाल काँप उठते हैं। फिर मूर्ख! तूने किसके बल-बूतेपर निडरकी तरह मेरी आज्ञाके विरुद्ध काम किया है?’॥ ७॥
वीरराघवः
यस्य मे क्रुद्धस्य सतः सपालास्त्रयो लोकाः परितः कम्पन्ते तस्य मे मम शासनमभीतवद्भयरहितवत्, मत्तो भयरहितः कोऽपि नाऽस्तीत्यभिप्रायेण वतिः प्रयुक्तः, अत्यगाः अतिवर्तसे । एव मतिवर्तने भवान् किम्बलः, को बलं यस्य तादृशः ॥ ७ ॥
श्लोक-८
मूलम् (वचनम्)
प्रह्राद उवाच
विश्वास-प्रस्तुतिः
न केवलं मे भवतश्च राजन्
स वै बलं बलिनां चापरेषाम्।
परेऽवरेऽमी स्थिरजङ्गमा ये
ब्रह्मादयो येन वशं प्रणीताः॥
मूलम्
न केवलं मे भवतश्च राजन् स वै बलं बलिनाञ्चापरेषाम्।
11परेऽवरेऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः॥ ८ ॥
अनुवाद (हिन्दी)
प्रह्लादजीने कहा—दैत्यराज! ब्रह्मासे लेकर तिनकेतक सब छोटे-बड़े, चर-अचर जीवोंको भगवान्ने ही अपने वशमें कर रखा है। न केवल मेरे और आपके, बल्कि संसारके समस्त बलवानोंके बल भी केवल वही हैं॥ ८॥
वीरराघवः
एवमुक्त आह भगवान् प्रह्लादः - न केवलमिति चतुर्भिः । तावद्यदुक्तं किं बल इति तत्रोत्तरमाह द्वाभ्याम् । हे राजन् ! स न केवलं ममैव बलं किन्तु भवतोऽन्येषाञ्च बलिनां बलम् । कोऽसौ ? येन ब्रह्मादयः चतुर्मुखप्रभृतयः उच्चावचाश्चराचरात्मकाः सर्वे लोकाः, वशं स्ववशं प्रणीताः प्रापिताः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
स ईश्वरः काल उरुक्रमोऽसा-
वोजः सहः सत्वबलेन्द्रियात्मा।
स एव विश्वं परमः स्वशक्तिभिः
सृजत्यवत्यत्ति गुणत्रयेशः॥
मूलम्
स ईश्वरः काल उरुक्र12मोऽसावोजस्सहः सत्वबलेन्द्रियात्मा।
स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः॥ ९ ॥
अनुवाद (हिन्दी)
वे ही महापराक्रमी सर्वशक्तिमान् प्रभु काल हैं तथा समस्त प्राणियोंके इन्द्रियबल, मनोबल, देहबल, धैर्य एवं इन्द्रिय भी वही हैं। वही परमेश्वर अपनी शक्तियोंके द्वारा इस विश्वकी रचना, रक्षा और संहार करते हैं। वे ही तीनों गुणोंके स्वामी हैं॥ ९॥
वीरराघवः
कोऽसौ ? तस्य नाम कथयेत्यत्राऽऽह - स इति । स सर्वेषां बलाधायक ईश्वरः । 13कोऽसावीश्वरः13 ? उरुक्रमः उरवः लोकत्रयसङ्ग्राहकाः क्रमाः पादविक्षेपा यस्य सः त्रिविक्रम इत्यर्थः । “सर्वं पदं हस्तिपदे निमग्नम्” इति न्यायेन पादत्रयेणैव लोकत्रयाक्रमणरूपमहामहिमशालिनस्तस्य सन्निधौ त्वद्वलं कियदेतदित्यभिप्रायः । न केवल मुरुक्रमः सर्वेषाञ्च बलाधायक एव, किन्त्वसावोज आदीनामात्मा आश्रयो धारक इति यावत् । ओज इन्द्रिय शक्तिः, सहो मनोबलं, सत्त्वं धैर्यं, बलं देहबलं, इन्द्रियाणि च तेषामप्याश्रय इत्यर्थः किञ्च स एवोरुक्रमः परमः निस्समाभ्यधिकः स्वशक्तिभिः स्वांशभूताभिः प्रकृतिपुरुषकालात्मिकाभिः शक्तिभिः कृत्स्नं विश्वं सृजति, अवति रक्षंति, अत्ति संहरति च स्वयं गुणत्रयेशः सत्त्वादीनां त्रयाणां गुणानामीशो नियन्ताऽगुणवश्यो न कर्मवश्यश्चेति भावः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
जह्यासुरं भावमिमं त्वमात्मनः
समं मनो धत्स्व न सन्ति विद्विषः।
ऋतेऽजितादात्मन उत्पथस्थितात्
तद्धि ह्यनन्तस्य महत् समर्हणम्॥
मूलम्
जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः।
ऋतेऽजितादात्मन उत्पथस्थितात् तद्धि ह्यनन्तस्य महत्समर्हणम्॥ १० ॥
अनुवाद (हिन्दी)
आप अपना यह आसुर भाव छोड़ दीजिये। अपने मनको सबके प्रति समान बनाइये। इस संसारमें अपने वशमें न रहनेवाले कुमार्गगामी मनके अतिरिक्त और कोई शत्रु नहीं है। मनमें सबके प्रति समताका भाव लाना ही भगवान्की सबसे बड़ी पूजा है॥ १०॥
वीरराघवः
ननु शत्रु रसौ कथं बलं स्यात्, अत आह जहीति । त्वमिममात्मनः स्वस्य, आसुरं भावं जहित्यज । समं मित्रामित्रानुसन्धानरहितं यथा भवति तथा मनो धत्स्व धारय तथा मनः शिक्षयेत्यर्थः । एवञ्चेत्केऽपि विद्विषो न सन्ति । किञ्च “आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः” (भ.गी. 6-5) इत्युक्तरीत्या आत्मैव रिपुर्न तदन्यः कोऽपि रिपुरस्तीत्याह - ऋते इति । अजितादविधेयादत एव उत्पथे दुर्विषये स्थिताद्वर्तमानादात्मनोऽन्तःकरणादृते न सन्ति, विद्विष इति पूर्वेणान्वयः । तद्धि मनसस्साम्यमेव ह्यनन्तस्य त्रिविधपरिच्छेदरहितस्य परमात्मनः सं सम्यक् अर्हणं सम्यगाराधनम् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
दस्यून्पुरा षण्ण विजित्य लुम्पतो
मन्यन्त एके स्वजिता दिशो दश।
जितात्मनो ज्ञस्य समस्य देहिनां
साधोः स्वमोहप्रभवाः कुतः परे॥
मूलम्
दस्यून्पुरा षण्णविजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश।
जितात्मनो ज्ञस्य समस्य देहिनां सा14धोः स्वमोहप्रभवाः कुतः परे॥ ११ ॥
अनुवाद (हिन्दी)
जो लोग अपना सर्वस्व लूटनेवाले इन छः इन्द्रियरूपी डाकुओंपर तो पहले विजय नहीं प्राप्त करते और ऐसा मानने लगते हैं कि हमने दसों दिशाएँ जीत लीं, वे मूर्ख हैं। हाँ, जिस ज्ञानी एवं जितेन्द्रिय महात्माने समस्त प्राणियोंके प्रति समताका भाव प्राप्त कर लिया, उसके अज्ञानसे पैदा होनेवाले काम-क्रोधादि शत्रु भी मर-मिट जाते हैं; फिर बाहरके शत्रु तो रहें ही कैसे॥ ११॥
वीरराघवः
किञ्च, सर्वदिशां जयिनोऽप्यजितेन्द्रियस्य भवादृशस्य केवलं जयशालित्वाभिमानमात्रमेव न वस्तुतो जयित्वमस्तीत्याह - दस्यूनिति । पुरातावल्लुम्पत आत्मनोऽपहतपाप्मत्वादि गुणाष्टकरूपमैश्वर्यमपहरतः षडिन्द्रियरूपान् दस्यून् दुष्टजन्तुतुल्यान् शत्रून्नविजित्य अजित्वा एके त्वादृशाः दश दिशः स्वजिताः स्वे15नैव जिता इति मन्यन्ते, अभिमानमात्रमेतदित्यर्थः । जितात्मनो जितेन्द्रियस्य तु ज्ञस्य स्वात्मपरमात्मयाथात्म्यवेदिनो देहिनां समस्य सर्वाणि भूतानि परमात्मशरीरत्वेन समं पश्यतः साधोर्महाभागवतस्य स्वमोहप्रभवाः देहात्मभ्रम स्वतन्त्रात्मभ्रमनिमित्ताः परे शत्रवः कुतो भवन्ति, न सन्त्येवेति भावः ॥ ११ ॥
श्लोक-१२
मूलम् (वचनम्)
हिरण्यकशिपुरुवाच
विश्वास-प्रस्तुतिः
व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे।
मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विप्लवा गिरः॥
मूलम्
व्यक्तं त्वं मर्तुकामोऽसि योतिमात्रं विकत्थसे।
मुमूर्षू16णाञ्च हि मन्दात्मन् ननु17 स्युर्वि18प्लवा गिरः॥ १२ ॥
अनुवाद (हिन्दी)
हिरण्यकशिपुने कहा—रे मन्दबुद्धि! तेरे बहकनेकी भी अब हद हो गयी है। यह बात स्पष्ट है कि अब तू मरना चाहता है। क्योंकि जो मरना चाहते हैं, वे ही ऐसी बेसिर-पैरकी बातें बका करते हैं॥ १२॥
वीरराघवः
एवमुक्तवन्तमाह हिरण्यकशिपुः व्यक्तमिति । हे अल्पबुद्धे ! त्वं व्यक्तं नूनं मर्तुकामोऽसि मर्तुमिच्छसि । यस्त्वं अत्यन्तं विकत्थसे । अथैवं विकत्थनं तव न स्यादिति भावः । हि तथाहि ममूर्षतां मर्तुमिच्छतां विप्लवा अनन्विता वाचः न न स्युः भवेयुरेव ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः।
क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते॥
मूलम्
यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः।
क्वाऽसौ य19दि स सर्वत्र कस्मात् स्तम्भे न दृश्यते॥ १३ ॥
अनुवाद (हिन्दी)
अभागे! तूने मेरे सिवा जो और किसीको जगत्का स्वामी बतलाया है, सो देखूँ तो तेरा वह जगदीश्वर कहाँ है। अच्छा, क्या कहा, वह सर्वत्र है? तो इस खंभेमें क्यों नहीं दीखता?॥ १३॥
वीरराघवः
हे मन्दभाग्या यस्त्वया मत्तोऽन्यो जगत ईश्वरः उक्तः । असौ क्वाऽऽस्ते ? यदि स भवदभिमतो जगदीश्वरः सर्वत्र अन्तरात्मतया वर्तते तर्हि कस्माद्धेतोः स्तम्भे पुरोवर्तिनि न दृश्यते । 20मदन्यो जगदीश्वरः कोऽसावस्तीति दैत्यः प्राह । ईशः सर्वत्राऽस्तीति प्रह्लादः । ईशो यदि सर्वत्राऽस्ते तर्हि स्तम्भे नास्तीति हिरण्यकशिपुः । प्रह्लादः स्तम्भे पश्यन्नाह, न दृश्यते (त्वया) अपि तु (मया) दृश्यत एवेति व्याख्यान्तरम्20 ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते।
गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम्॥
मूलम्
सोऽहं विकत्थमानस्य शिरःकायाद्धरामि ते।
गोपायेत हरिस्त्वाऽद्य यस्ते शरणमीप्सि21तः॥ १४ ॥
अनुवाद (हिन्दी)
अच्छा, तुझे इस खंभेमें भी दिखायी देता है! अरे, तू क्यों इतनी डींग हाँक रहा है? मैं अभी-अभी तेरा सिर धड़से अलग किये देता हूँ। देखता हूँ तेरा वह सर्वस्व हरि, जिसपर तुझे इतना भरोसा है, तेरी कैसे रक्षा करता है॥ १४॥
वीरराघवः
सोऽहं सर्वेषामीश्वरोऽहमेवं विकत्थमानस्य ते तव 22कायात् 23देहात् शिरो हरामि छिनद्मि; यो हरि स्तव शरणं रक्षकः ईप्सितः सोऽधुना त्वां गोपायेत । स रक्षिता चेदधुना त्वां रक्षिष्य24ति अन्यथा तु तदेव मिथ्येति भावः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
एवं दुरुक्तैर्मुहुरर्दयन्रुषा
सुतं महाभागवतं महासुरः।
खड्गं प्रगृह्योत्पतितो वरासनात्
स्तम्भं तताडातिबलः स्वमुष्टिना॥
मूलम्
एवं दुरुक्तैर्मुहुरर्दयन् रुषा सुतं महाभागवतं महासुरः।
खड्गं प्रगृह्योत्पतितो वरासनात् स्तम्भं25 तताडाऽतिबलः स्वमुष्टिना॥ १५ ॥
अनुवाद (हिन्दी)
इस प्रकार वह अत्यन्त बलवान् महादैत्य भगवान्के परम प्रेमी प्रह्लादको बार-बार झिड़कियाँ देता और सताता रहा। जब क्रोधके मारे वह अपनेको रोक न सका, तब हाथमें खड्ग लेकर सिंहासनसे कूद पड़ा और बड़े जोरसे उस खंभेको एक घूँसा मारा॥ १५॥
वीरराघवः
एवमित्थं रुषा क्रोधेन दुरुक्तैर्मुहुर्मुहुः महाभागवतं सुतं प्रह्लादमर्दयन् महासुरो हिरण्यकशिपुः खड्गं प्रगृह्य वरासनात् सिंहासनादुत्पतित उत्थितोऽत्यन्तं बलं यस्य तेन स्वमुष्टिना स्तम्भं तताड ताडितवान् बभ26ञ्ज ॥ १५ ॥
श्लोक-१६
मूलम् (वचनम्)
श्रीमन्नृसिंहमूर्त्यवतारघट्टः
विश्वास-प्रस्तुतिः
तदैव तस्मिन् निनदोऽतिभीषणो
बभूव येनाण्डकटाहमस्फुटत्।
यं वै स्वधिष्ण्योपगतं त्वजादयः
श्रुत्वा स्वधामाप्ययमङ्ग मेनिरे॥
मूलम्
तदैव तस्मिन्निनदोऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत्।
यं वै स्वधिष्ण्योपगतन्त्वजादयः श्रुत्वा स्वधामाप्ययमङ्ग मेनिरे॥ १६ ॥
अनुवाद (हिन्दी)
उसी समय उस खंभेमें एक बड़ा भयंकर शब्द हुआ। ऐसा जान पड़ा मानो यह ब्रह्माण्ड ही फट गया हो। वह ध्वनि जब लोकपालोंके लोकमें पहुँची, तब उसे सुनकर ब्रह्मादिको ऐसा जान पड़ा, मानो उनके लोकोंका प्रलय हो रहा हो॥ १६॥
वीरराघवः
तदैव 27ताडनानन्तरमेव तस्मिन् स्तम्भेऽतिभीषणो निनदो ध्वनिर्बभूव । निनदं विशिनष्टि । येन निनदेन अण्डकटाहं ब्रह्माण्डकटाहं अस्फुटत् भिन्नमभूत् । अङ्ग ! हे युधिष्ठिर ! यञ्च निनदं श्रुत्वा स्वस्थानगता अजादयो ब्रह्मादयः स्वधिष्ण्यानां व्ययं नाशं मेनिरे प्रलयकालममन्यन्तेत्यर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
स विक्रमन् पुत्रवधेप्सुरोजसा
निशम्य निर्ह्रादमपूर्वमद्भुतम्।
अन्तःसभायां न ददर्श तत्पदं
वितत्रसुर्येन सुरारियूथपाः॥
मूलम्
28अभिक्रमन्पुत्रवधेप्सुरोजसा निशम्य निर्ह्लादमपूर्वमद्भुतम्।
अन्तस्सभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः॥ १७ ॥
अनुवाद (हिन्दी)
हिरण्यकशिपु प्रह्लादको मार डालनेके लिये बड़े जोरसे झपटा था; परन्तु दैत्यसेनापतियोंको भी भयसे कँपा देनेवाले उस अद्भुत और अपूर्व घोर शब्दको सुनकर वह घबराया हुआ-सा देखने लगा कि यह शब्द करनेवाला कौन है? परन्तु उसे सभाके भीतर कुछ भी दिखायी न पड़ा॥ १७॥
वीरराघवः
29ततः किं जातम् ? तदाह - स विक्रमन्निति29 । ओजसा बलेन, पुत्रवधेप्सुः पुत्रवधं कर्तुमिच्छुस्तदर्थं विक्रमन् पराक्रमं कुर्वन् सदैत्येन्द्रो यं निर्ह्रादं 30ध्वनिम् अपूर्वं कदाचिदपि न श्रुतम्, अत एवाद्भुतमाश्चर्यजनकं निशम्य 31श्रुत्वा तस्य निनादस्य पदमाश्रयमन्तस्सभायां सभामध्ये न ददर्श । येन निनादेन सुरारियूथपाः दानवश्रेष्ठाः 32वितत्रसुर्विशेषेण तत्रसुः 33त्रासं प्रापुरित्यर्थः33 ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
सत्यं विधातुं निजभृत्यभाषितं
व्याप्तिं च भूतेष्वखिलेषु चात्मनः।
अदृश्यतात्यद्भुतरूपमुद्विहन्
स्तम्भे सभायां न मृगं न मानुषम्॥
मूलम्
सत्यं विधातुं निजभृत्यभाषितं व्याप्तिञ्च भूतेष्वखिलेषु चाऽऽत्मनः।
अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम्॥ १८ ॥
अनुवाद (हिन्दी)
इसी समय अपने सेवक प्रह्लाद और ब्रह्माकी वाणी सत्य करने और समस्त पदार्थोंमें अपनी व्यापकता दिखानेके लिये सभाके भीतर उसी खंभेमें बड़ा ही विचित्र रूप धारण करके भगवान् प्रकट हुए। वह रूप न तो पूरा-पूरा सिंहका ही था और न मनुष्यका ही॥ १८॥
वीरराघवः
तदा भगवान्निभृत्यस्य प्रह्लादादेर्भाषितं कृत्स्नजगदन्तरात्मत्वादिभाषणं सर्वेषु चराचरात्मकेषु भूतेषु आत्मनः स्वस्य व्याप्तिश्च सत्यं यथा भवति तथा कर्तुमत्यद्भुतं रूपं उद्वहन् बिभ्रत् सभायां यस्तम्भस्तस्मिन्नदृश्यत तद्दृष्टो बभूव । कथम्भूतं रूपम् ? न मृगं नाऽपि मानुषं रूपम्, अपि तु उभयमिश्रमित्यर्थः । निजभृत्यभाषितमित्यत्र बहुवचनान्तेन निजभृत्यशब्देन समासः । तदयमर्थः - यत्तावत्प्रह्लादस्य निजभृत्यस्य भाषितम् । “भौतिकेषु विकारेषु भूतेषु च महत्सु च । भगवानाऽस्ते” (भाग 7-6-20) इति तत्सत्यं कर्तुम्, तथाऽत्यद्भुतदैत्यघातकमतिघोरं रूपमुद्वहन्निति, तथा निजभृत्यैस्सनकादिभिर्यद्भाषितं त्रिभिर्जन्मभिः शापमोक्षो भवत्विति तत्सत्यं कर्तुम्, तथा ‘ब्रह्मसृष्टावदृष्टमश्रुतञ्चाऽद्भुतरूपमुद्वहन् सभायां मध्येऽदृश्यत । तत्किमर्थम् ? निजभृत्येन हिरण्यकशिपुना ब्रह्माणं प्रति यद्भाषितम् - “भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्माभून्मम प्रभो!” (भाग 7-5-35) इति, तथा, नान्तर्बहिरिति, न नरैरिति न मृगैरिति च, ब्रह्मणा निजभृत्येन यद्भाषितं तथाऽस्त्विति तत्सर्वं सत्यं कर्तुं, न च तद्ब्रह्मसृष्टं रूपं, न च नरो न मृगो वा, न च सभागृहस्याऽन्तः, न च प्राङ्गणवद्बहिः, एवं ताभ्यां भाषितं सत्यं कर्तुम् यच्च हिरण्यकशिपुना भाषितं “नूनमेतद्विरोधेन मृत्यु र्मे भविता” (भाग 7-5-47) इति । तथा “अकुतश्चिद्भयोऽमरः” (भाग 7-5-47) इति यच्च नारदेन स्वभृत्येनेन्द्रंप्रति भाषितम् “अयं महान् संस्थां न प्राप्स्यते” इति । अनन्तानुचर इत्यनेन स्वभक्तपक्षपातित्वं च यद्भाषितं तञ्च सत्यं कर्तुमदृश्यत । चकारान्निजभाषितञ्च यत् “कौन्तेय! प्रतिजनीहि न मे भक्तः प्रणश्यति” (भ.गी. 9-31) “तेषामहं समुद्धर्ता” (भ.गी. 12-7) इति । तच्च सत्यं कर्तुमदृश्यतेति ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
स सत्त्वमेनं परितोऽपि पश्यन्
स्तम्भस्य मध्यादनु निर्जिहानम्।
नायं मृगो नापि नरो विचित्र-
महो किमेतन्नृमृगेन्द्ररूपम्॥
मूलम्
स सत्त्वमे34वं परितोऽपि पश्यन् स्तम्भस्य मध्यादनुनिर्जिहानम्।
नाऽयंमृगो नाऽपि नरो विचित्रमहो किमेतन्नृमृगेन्द्ररूपम्॥ १९ ॥
अनुवाद (हिन्दी)
जिस समय हिरण्यकशिपु शब्द करनेवालेकी इधर-उधर खोज कर रहा था, उसी समय खंभेके भीतरसे निकलते हुए उस अद्भुत प्राणीको उसने देखा। वह सोचने लगा—अहो, यह न तो मनुष्य है और न पशु; फिर यह नृसिंहके रूपमें कौन-सा अलौकिक जीव है!॥ १९॥
वीरराघवः
स दैत्येन्द्र एवं ध्वनिं श्रुत्वा तदा सत्त्वं प्राणिविशेषं सर्वतो विलोकयन् स्तम्भस्य मध्यान्निर्गच्छन्तं नाऽयं मृगो नाऽपि नरः, किन्तु नरमृगेन्द्रयोरुभयोरपि रूपम्, अहो किमेतदिति, मीमांसितवान् इति शेषः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
मीमांसमानस्य समुत्थितोऽग्रतो
नृसिंहरूपस्तदलं भयानकम्।
प्रतप्तचामीकरचण्डलोचनं
स्फुरत्सटाकेसरजृम्भिताननम्॥
मूलम्
मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरू35पं तदलं भयानकम्।
प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाकेसरजृम्भिताननम्॥ २० ॥
अनुवाद (हिन्दी)
जिस समय हिरण्यकशिपु इस उधेड़-बुनमें लगा हुआ था, उसी समय उसके बिलकुल सामने ही नृसिंहभगवान् खड़े हो गये। उनका वह रूप अत्यधिक भयावना था। तपाये हुए सोनेके समान पीली-पीली भयानक आँखें थीं। जँभाई लेनेसे गरदनके बाल इधर-उधर लहरा रहे थे॥ २०॥
वीरराघवः
तस्यैवमलं भयानकं तन्नृसिंहरूपं मीमांसमानस्य दैत्येन्द्रस्याऽग्रतः स नृसिंहरूपो हरिः समुत्थितः । भयानकत्वमेव दर्शयंस्तद्रूपमनुवर्णयति त्रिभिः - प्रतप्तेति । प्रतप्तं चामीकरं स्वर्णं तद्वत्पिशङ्गे चण्डे उग्रे लोचने यस्मिन्, स्फुरन्त्यः सटाः जटाः केसराः स्कन्धलोमानि च तैर्जृम्भितं साटोपमाननं मुखं यस्मिन् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
करालदंष्ट्रं करवालचञ्चल-
क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम्।
स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत-
व्यात्तास्यनासं हनुभेदभीषणम्॥
मूलम्
करालदंष्ट्रं करवालचञ्चलक्षुरान्तजिह्वंभ्रुकुटीमुखोल्बणम्।
स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुतव्यात्तास्यनासं हनुभेदभीषणम्॥ २१ ॥
अनुवाद (हिन्दी)
दाढ़ें बड़ी विकराल थीं। तलवारकी तरह लपलपाती हुई छूरेकी धारके समान तीखी जीभ थी। टेढ़ी भौंहोंसे उनका मुख और भी दारुण हो रहा था। कान निश्चल एवं ऊपरकी ओर उठे हुए थे। फूली हुई नासिका और खुला हुआ मुँह पहाड़की गुफाके समान अद्भुत जान पड़ता था। फटे हुए जबड़ोंसे उसकी भयंकरता बहुत बढ़ गयी थी॥ २१॥
वीरराघवः
कराला उग्रा दंष्ट्रा यस्मिन् करवालः खड्गः तद्वच्चञ्चला क्षुरान्तवत्तीक्ष्णा च जिह्वा यस्मिन्, भ्रुकुटीयुक्तेन मुखेनोल्बणं स्तब्धावुदञ्चितावूर्ध्वो कर्णौ यस्मिन्, गिरिकन्दरवदद्भुतं व्यात्तं प्रसृतमास्यं नासे च यस्मिन् । हन् कपोलप्रान्तौ तयोर्भेदन विदारणेन भीषणम् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
दिविस्पृशत्कायमदीर्घपीवर-
ग्रीवोरुवक्षःस्थलमल्पमध्यमम्।
चन्द्रांशुगौरैश्छुरितं तनूरुहै-
र्विष्वग्भुजानीकशतं नखायुधम्॥
मूलम्
दि36वं स्पृशत्कायमदीर्घपीवरग्रीवोरुवक्षःस्थलमल्पमध्यमम्।
चन्द्रांशुगौरैश्छुरितं तनूरुहैर्विष्वग्भुजानीकशतं नखायुधम्॥ २२ ॥
अनुवाद (हिन्दी)
विशाल शरीर स्वर्गका स्पर्श कर रहा था। गरदन कुछ नाटी और मोटी थी। छाती चौड़ी और कमर बहुत पतली थी। चन्द्रमाकी किरणोंके समान सफेद रोएँ सारे शरीरपर चमक रहे थे, चारों ओर सैकड़ों भुजाएँ फैली हुई थीं, जिनके बड़े-बड़े नख आयुधका काम देते थे॥ २२॥
वीरराघवः
37दिवं स्पृशन् कायो यस्मिन् । 38अलुगार्षः । अदीर्घा ह्रस्वा पीवरा स्थूला च ग्रीवा, उरु विशालं वक्षःस्थलञ्च यस्मिन्, अल्पं मध्यमम् 39उदरं यस्मिन्, चन्द्रांशुवत् गौरैस्तनूरुहैर्लोमभिः छुरितं व्याप्तं, विष्वञ्च सर्वतः प्रसृताः भुजा स्तेषामनीकानि स्तोमास्तेषां शतानि यस्मिन् । भुजा एवाऽनीकं सेना तच्छतं यस्मिन्निति वा । स्वेनाऽनीकेन मर्दितमिति प्रयोगात् । नखा एव आयुधानि यस्मिन् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
दुरासदं सर्वनिजेतरायुध-
प्रवेकविद्रावितदैत्यदानवम्।
प्रायेण मेऽयं हरिणोरुमायिना
वधः स्मृतोऽनेन समुद्यतेन किम्॥
मूलम्
दुरासदं सर्वनिजेतरायुधप्रवेकविद्रावितदैत्यदानवम्।
प्रायेण मेऽयं हरिणोरुमायिना वधः स्मृतोऽनेन समुद्य40तेन किम्॥ २३ ॥
अनुवाद (हिन्दी)
उनके पास फटकनेतकका साहस किसीको न होता था। चक्र आदि अपने निज आयुध तथा वज्र आदि अन्य श्रेष्ठ शस्त्रोंके द्वारा उन्होंने सारे दैत्य-दानवोंको भगा दिया। हिरण्यकशिपु सोचने लगा—हो-न-हो महामायावी विष्णुने ही मुझे मार डालनेके लिये यह ढंग रचा है; परन्तु इसकी इन चालोंसे हो ही क्या सकता है॥ २३॥
वीरराघवः
दुरासदं प्राप्तुमशक्यं सर्वाणि निजानि चक्रादीनि इतराणि च वज्रादीनि 41तान्येव आयुधप्रवेकाः शस्त्र42श्रेष्ठानि तैर्विद्राविता दैत्या दानवाश्च येन । तद्रूपं मीमांसमानस्याऽग्रतः, समुत्थितमिति पूर्वेणान्वयः । तथाऽऽविर्भावे प्रयोजनविमर्शपूर्वकं तेन सह दैत्यस्य युद्धमाह सप्तभिः - प्रायेणेति । प्रायेण महामायाविना हरिणा मे मम अयमेवम्भूतो वधः वधोपायः स्मृतश्चिन्तितः, तथाऽप्यनेन समुद्यमेन किं, न किञ्चित्स्यादिति ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
एवं ब्रुवंस्त्वभ्यपतद् गदायुधो
नदन् नृसिंहं प्रति दैत्यकुञ्जरः।
अलक्षितोऽग्नौ पतितः पतङ्गमो
यथा नृसिंहौजसि सोऽसुरस्तदा॥
मूलम्
एवं 43ब्रुवंस्त्वभ्यपतद्गदायुधो नदन्नृसिंहं प्रति दैत्यकुञ्जरः।
अलक्षितोऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सोऽसुरस्त44दा॥ २४ ॥
अनुवाद (हिन्दी)
इस प्रकार कहता और सिंहनाद करता हुआ दैत्यराज हिरण्यकशिपु हाथमें गदा लेकर नृसिंहभगवान् पर टूट पड़ा। परन्तु जैसे पतिंगा आगमें गिरकर अदृश्य हो जाता है, वैसे ही वह दैत्य भगवान्के तेजके भीतर जाकर लापता हो गया॥ २४॥
वीरराघवः
एवं ब्रुवन्, गदैव आयुधं यस्य सः, दैत्य एव कुञ्जरो गजो नदन् 45गर्जन् नृसिंहं प्रत्यभ्यपतत् अभिमुखमागतवान् । तदा सोऽसुरो नृसिंहस्यौजसि दीप्तौ पतितस्सन् अलक्षितोऽदृष्टोऽभूद्यथ - पतितः पतङ्गमः शलभस्तद्वत् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
न तद् विचित्रं खलु सत्त्वधामनि
स्वतेजसा यो नु पुरापिबत् तमः।
ततोऽभिपद्याभ्यहनन्महासुरो
रुषा नृसिंहं गदयोरुवेगया॥
मूलम्
न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुराऽपिबत्तमः।
ततोऽभिप46त्याभ्य47हनन्महासुरो 48रुषा नृसिंहं गदयोरुवेगया॥ २५ ॥
अनुवाद (हिन्दी)
समस्त शक्ति और तेजके आश्रय भगवान्के सम्बन्धमें ऐसी घटना कोई आश्चर्यजनक नहीं है; क्योंकि सृष्टिके प्रारम्भमें उन्होंने अपने तेजसे प्रलयके निमित्तभूत तमोगुणरूपी घोर अन्धकारको भी पी लिया था। तदनन्तर वह दैत्य बड़े क्रोधसे लपका और अपनी गदाको बड़े जोरसे घुमाकर उसने नृसिंहभगवान् पर प्रहार किया॥ २५॥
वीरराघवः
सत्त्वधामनि शुद्धसत्त्वाश्रये हरौ पतितस्य तमोमयस्य दैत्यस्याऽदर्शनं यत् तद्विचित्रं न भवति । तत्र हेतुः - यो हरिः पुरा सृष्ट्यादौ प्रलयकालिकं तमः स्वतेजसा अपिबत् । ततो महासुरोऽभिपत्य अभिमुखमागत्य रुषा क्रोधेन उरुवेगया भ्राम्यमाणया गदया नृसिंहमभ्यहनत्, ताडितुमुद्युक्त इत्यर्थः, सगदमग्रहीदित्युत्तरस्वारस्यात्49 ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
तं विक्रमन्तं सगदं गदाधरो
महोरगं तार्क्ष्यसुतो यथाग्रहीत्।
स तस्य हस्तोत्कलितस्तदासुरो
विक्रीडतो यद्विदहिर्गरुत्मतः॥
मूलम्
तं विक्रमन्तं सगदं गधाधरो महोरगं तार्क्ष्यसुतो यथाऽग्रहीत्।
स तस्य हस्तोत्क50लितस्तदाऽसुरो विक्रीडतो यद्वदहिर्गरुत्मतः॥ २६ ॥
अनुवाद (हिन्दी)
प्रहार करते समय ही—जैसे गरुड़ साँपको पकड़ लेते हैं, वैसे ही भगवान्ने गदासहित उस दैत्यको पकड़ लिया। वे जब उसके साथ खिलवाड़ करने लगे, तब वह दैत्य उनके हाथसे वैसे ही निकल गया, जैसे क्रीडा करते हुए गरुड़के चंगुलसे साँप छूट जाय॥ २६॥
श्लोक-२७
विश्वास-प्रस्तुतिः
असाध्वमन्यन्त हृतौकसोऽमरा
घनच्छदा भारत सर्वधिष्ण्यपाः।
तं मन्यमानो निजवीर्यशङ्कितं
यद्धस्तमुक्तो नृहरिं महासुरः।
पुनस्तमासज्जत खड्गचर्मणी
प्रगृह्य वेगेन जितश्रमो मृधे॥
मूलम्
असाध्वमन्यन्त हृतौकसोऽ51मरा घनच्छदा भारतसर्वधिष्ण्यपाः।
52तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृह53रिं महासुरः53।
पुनस्तमासज्जतखड्गचर्मणी प्रगृह्यवेगेन 54जितश्रमो मृधे॥ २७ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! उस समय सब-के-सब लोकपाल बादलोंमें छिपकर इस युद्धको देख रहे थे। उनका स्वर्ग तो हिरण्यकशिपुने पहले ही छीन लिया था। जब उन्होंने देखा कि वह भगवान्के हाथसे छूट गया, तब वे और भी डर गये। हिरण्यकशिपुने भी यही समझा कि नृसिंहने मेरे बलवीर्यसे डरकर ही मुझे अपने हाथसे छोड़ दिया है। इस विचारसे उसकी थकान जाती रही और वह युद्धके लिये ढाल-तलवार लेकर फिर उनकी ओर दौड़ पड़ा॥ २७॥
वीरराघवः
विक्रमन्तं कथञ्चित्प्रहर्तुमुद्यतवन्तं तं दैत्येन्द्रं गदाधरो नृसिंहः सगदमग्रहीत् । यथा तार्क्ष्यसुतो गरुत्मान् महासर्पं तद्व55दित्यर्थः । सगृहीतोऽसुरस्तदा विक्रीडतस्तस्य नृसिंहस्य हस्तादुत्कलितो विसृष्टो यद्वद्यथा विक्रीडतो गरुत्मतोऽहिर्गलितो भवति तद्वत् । भगवतस्तत्क्रीडनं तद्विसर्जनरूपमजानन्तो लोकपालाः सर्वे इन्द्रादयः सुराः हृतं दैत्येन्द्रापहृतं ओकः स्थानं येषां ते, अत एव तद्भयेन घनच्छदा मेघेषु छन्ना वसन्तः असाध्वमन्यन्त । अहो भगवतोऽप्ययं बलीयान् अनेनैव तस्य किं स्यात् इत्येवममन्यन्तेत्यर्थः । यस्य हस्तात् स्वयं मुक्तस्सन् नृहरिं स्ववीर्याच्छङ्कितं मन्यमानः अत एव महामना अहमेव बलीयानित्यभिमानयुक्तोऽसुरो मृधे युद्धे जित56श्रमः श्रमरहितः खड्गचर्मणी खड्गखेटे प्रगृह्य पुनस्तं नृसिंहं आसज्जत अभ्यपतत् ॥ २६, २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
तं श्येनवेगं शतचन्द्रवर्त्मभि-
श्चरन्तमच्छिद्रमुपर्यधो हरिः।
कृत्वाट्टहासं खरमुत्स्वनोल्बणं
निमीलिताक्षं जगृहे महाजवः॥
मूलम्
तं श्येनवेगं शतचन्द्रवर्त्मभिश्चरन्तमच्छिद्रमुपर्यधो हरिः।
कृत्वाट्टहासं खर57मुत्स्वनोल्ब58णं निमीलिताक्षं जगृहे महाजवः॥ २८ ॥
वीरराघवः
श्येनस्येव वेगो यस्य शतचन्द्रवर्त्मभिः शतचन्द्रश्चर्म तस्य वर्त्मभिः खड्गचर्ममार्गैरच्छिद्रं यथा भवति, एवमुपर्यधश्चरन्तं दैत्यं हरिरट्टहासं कृत्वा खरेण कठिनेन निस्वनेन ध्वनिना, उल्बणो भीषणो 59महाजवः 60महावेगो निमीलिते अट्टहासखरनिस्वनाभ्यां निमीलिते अक्षिणी यस्य तं जग्राह । खरनिस्वनोल्बणमिति द्वितीयान्तपाठे तु खरेण निस्वनेन महाशब्देनोल्बणं भयङ्करमट्टहासं कृत्वा तद्भयेन हरेस्तेजसा च निमीलताक्षमग्रहीदित्यर्थः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
विष्वक् स्फुरन्तं ग्रहणातुरं हरि-
र्व्यालो यथाऽऽखुं कुलिशाक्षतत्वचम्।
द्वार्यूर आपात्य ददार लीलया
नखैर्यथाहिं गरुडो महाविषम्॥
मूलम्
विष्वक् स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाऽऽखुं कुलिशाक्षतत्वचम्।
द्वार्यू61र आपत्य ददार लीलया नखैर्यथाऽहिं गरुडो महाविषम्॥ २९ ॥
अनुवाद (हिन्दी)
उस समय वह बाजकी तरह बड़े वेगसे ऊपर-नीचे उछल-कूदकर इस प्रकार ढाल-तलवारके पैंतरे बदलने लगा कि जिससे उसपर आक्रमण करनेका अवसर ही न मिले। तब भगवान्ने बड़े ऊँचे स्वरसे प्रचण्ड और भयंकर अट्टहास किया, जिससे हिरण्यकशिपुकी आँखें बंद हो गयीं। फिर बड़े वेगसे झपटकर भगवान्ने उसे वैसे ही पकड़ लिया, जैसे साँप चूहेको पकड़ लेता है। जिस हिरण्यकशिपुके चमड़ेपर वज्रकी चोटसे भी खरोंच नहीं आयी थी, वही अब उनके पंजेसे निकलनेके लिये जोरसे छटपटा रहा था। भगवान्ने सभाके दरवाजेपर ले जाकर उसे अपनी जाँघोंपर गिरा लिया और खेल-खेलमें अपने नखोंसे उसे उसी प्रकार फाड़ डाला, जैसे गरुड़ महाविषधर साँपको चीर डालते हैं॥ २८-२९॥
वीरराघवः
ततः विष्वक् सर्वतः स्फुरन्तं सर्वावयवान् प्रचा62लयन्तमित्यर्थः । ग्रहणेन हेतुना आतुरं विवशमिन्द्रेण सह युद्धे तत्प्रयुक्तेन कुलिशेन अक्षता त्वगपि यस्य तं दैत्यं द्वारि सभायाः नाऽन्तर्बहिः ऊरावङ्के निपात्य न भूमौ न चाम्बरे नखैर्न तु व्यसुभिः असुमद्भिर्वा, एवं दिवानक्तं विहाय सन्ध्यायामिति द्रष्टव्यं, लीलया क्रीडया ददार विदारितवान् । तत्र ग्रहणे दृष्टान्तः यथा व्यालस्सर्पः आखुं मूषकमिति । विदारणे दृष्टान्तः महाविषमहिं सर्पं गरुड इवेति ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
संरम्भदुष्प्रेक्ष्यकराललोचनो
व्यात्ताननान्तं विलिहन्स्वजिह्वया।
असृग्लवाक्तारुणकेसराननो
यथान्त्रमाली द्विपहत्यया हरिः॥
मूलम्
संरम्भदुष्प्रेक्ष63कराललोचनो व्यात्ताननान्तं विलिहन्स्वजिह्वया।
असृग्लवाक्तारुणकेसराननो यथान्त्रमाली द्विपहत्यया हरिः॥ ३० ॥
अनुवाद (हिन्दी)
उस समय उनकी क्रोधसे भरी विकराल आँखोंकी ओर देखा नहीं जाता था। वे अपनी लपलपाती हुई जीभसे फैले हुए मुँहके दोनों कोने चाट रहे थे। खूनके छींटोंसे उनका मुँह और गरदनके बाल लाल हो रहे थे। हाथीको मारकर गलेमें आँतोंकी माला पहने हुए मृगराजके समान उनकी शोभा हो रही थी॥ ३०॥
वीरराघवः
एवं दैत्येन्द्रवधमुक्त्वा तद्दशावस्थितं नृसिंहमनुवर्णयन् दैत्येन्द्रभृत्यवधमाह-संरम्भेणेति द्वाभ्याम् । 64संरम्भेण क्रोधेन दुष्प्रेक्ष्ये 65दुर्निरीक्ष्ये कराले लोचनं यस्य, व्यात्तं विकसितं यदाननं 66मुखं तत्पर्यन्तं स्वजिह्वया विलिहन् सन् असृजो रक्तस्य लवैर्बिन्दुभिः अक्तास्सिक्ताः, अत एवाऽरुणाः केसरा आननञ्च यस्य सः, आन्त्रमालाधरः, क इव ? द्विपहत्यया गजवधेन हरिः सिंहो यथा 67तद्वत् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
नखाङ्कुरोत्पाटितहृत्सरोरुहं
विसृज्य तस्यानुचरानुदायुधान्।
अहन् समन्तान्नखशस्त्रपार्ष्णिभि-
र्दोर्दण्डयूथोऽनुपथान् सहस्रशः॥
मूलम्
नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरा68नुदायुधान्।
अहन् समन्तान्नखशस्त्रपा69णिभिर्दोर्दण्डयू70थोऽनुपथान् सहस्रशः॥ ३१ ॥
अनुवाद (हिन्दी)
उन्होंने अपने तीखे नखोंसे हिरण्यकशिपुका कलेजा फाड़कर उसे जमीनपर पटक दिया। उस समय हजारों दैत्य-दानव हाथोंमें शस्त्र लेकर भगवान् पर प्रहार करनेके लिये आये। पर भगवान्ने अपनी भुजारूपी सेनासे, लातोंसे और नखरूपी शस्त्रोंसे चारों ओर खदेड़-खदेड़कर उन्हें मार डाला॥ ३१॥
वीरराघवः
एवम्भूतो नखाङ्कुरैः उत्पादितं हृदयसरोजं यस्य तद्दैत्यशरीरं विसृज्य तस्य दैत्येन्द्रस्य अनुचरान्, कथम्भूतान् ? वराण्यायुधानि येषां तमनुपन्थाः अनुवृत्तिर्येषां तान् दोर्दण्डानां यूथानि यस्य सः, नखा एव शस्त्रपाणयस्तैः समन्तात् सहस्रशो न्यहनत् हतवान् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
सटावधूता जलदाः परापतन्
ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः।
अम्भोधयः श्वासहता विचुक्षुभु-
र्निर्ह्रादभीता दिगिभा विचुक्रुशुः॥
मूलम्
सटावधूता जलदाः परापतन् ग्रहाश्च तद्दृष्टिवि71मुष्टरोचिषः।
अम्भोधयः श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा 72विचुक्रुशुः॥ ३२ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! उस समय भगवान् नृसिंहके गरदनके बालोंकी फटकारसे बादल तितर-बितर होने लगे। उनके नेत्रोंकी ज्वालासे सूर्य आदि ग्रहोंका तेज फीका पड़ गया। उनके श्वासके धक्केसे समुद्र क्षुब्ध हो गये। उनके सिंहनादसे भयभीत होकर दिग्गज चिग्घाड़ने लगे॥ ३२॥
वीरराघवः
दैत्येवधे73 व्यग्रस्य नृहरेराटोपमाह - सटेति द्वाभ्याम् । सटाभिरवधूताः प्रकम्पिताः जलदा मेघाः परापतन् व्यशीर्यन्त । तस्य नृहरेर्दृष्ट्या विमुष्टमपहृतं रोचिर्येषां तादृशाः ग्रहाः सूर्यादयोऽभूवन् । श्वासेन हताः पीडिता अम्भोधयः समुद्राः चुक्षुभुः सञ्चेलुः । निर्ह्रादेन भीता दिगिभा दिग्गजा मुदं हर्षं जहुः तत्यजुः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला
प्रोत्सर्पत क्ष्मा च पदातिपीडिता।
शैलाः समुत्पेतुरमुष्य रंहसा
तत्तेजसा खं ककुभो न रेजिरे॥
मूलम्
द्यौस्तत्सटो74त्क्षिप्त विमानसङ्कुला प्रोत्सर्पतक्ष्मा च पदातिपीडिता।
शैलास्समुत्पेतुरमुष्यरंहसा तत्तेजसा खं ककुभो न रेजिरे॥ ३३ ॥
अनुवाद (हिन्दी)
उनके गरदनके बालोंसे टकराकर देवताओंके विमान अस्त-व्यस्त हो गये। स्वर्ग डगमगा गया। उनके पैरोंकी धमकसे भूकम्प आ गया, वेगसे पर्वत उड़ने लगे और उनके तेजकी चकाचौंधसे आकाश तथा दिशाओंका दीखना बंद हो गया॥ ३३॥
वीरराघवः
75तस्य नृहरेः75, सटाभिरुत्क्षिप्तानि विमानानि तैस्सङ्कुला व्याप्ता द्यौः प्रोत्सर्पत इतस्ततश्चलिते वाऽभूत् । नृहरेः पद्भ्यामतीव पीडिता क्ष्मा भूमिरभूत् । अत एव तस्यासह्येन रंहसा वेगेन बलेन वा शैलाः समुत्पेतुः उत्प्लुत्य पतितवन्तः तस्य नृहरेस्तेजसा खंमाकाशं कुकुभो दिशश्च न रेजिरे ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
ततः सभायामुपविष्टमुत्तमे
नृपासने संभृततेजसं विभुम्।
अलक्षितद्वैरथमत्यमर्षणं
प्रचण्डवक्त्रं न बभाज कश्चन॥
मूलम्
ततस्सभायामुपविष्टमुत्तमे नृपासने संभृततेजसं विभुम्।
अलक्षि76तद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन॥ ३४ ॥
अनुवाद (हिन्दी)
इस समय नृसिंहभगवान्का सामना करनेवाला कोई दिखायी न पड़ता था। फिर भी उनका क्रोध अभी बढ़ता ही जा रहा था। वे हिरण्यकशिपुकी राजसभामें ऊँचे सिंहासनपर जाकर विराज गये। उस समय उनके अत्यन्त तेजपूर्ण और क्रोधभरे भयंकर चेहरेको देखकर किसीका भी साहस न हुआ कि उनके पास जाकर उनकी सेवा करे॥ ३४॥
वीरराघवः
ततोऽहमेव सर्वेश्वर इति लोकस्य प्रदर्शयितुं सभायामुत्तमे सिंहासने उपविष्टं, सम्भृतं सम्पूर्णं तेजो यस्य अलक्षितः न लक्षितो द्वैरथः प्रतियोद्धा येन, प्रचण्डमुग्रं वक्त्रं यस्य तं विभुं नृसिंहं कश्चन कोऽपि न बभाज नाऽसेवत । कोऽपि समीपं गन्तुं नाशक्नोदित्यर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
निशम्य लोकत्रयमस्तकज्वरं
तमादिदैत्यं हरिणा हतं मृधे।
प्रहर्षवेगोत्कलितानना मुहुः
प्रसूनवर्षैर्ववृषुः सुरस्त्रियः॥
मूलम्
नि77शाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे।
प्रहर्षवेगोत्कलितानना 78मुहुः प्रसूनवर्षैर्ववृषुस्सुरस्त्रियः॥ ३५ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! जब स्वर्गकी देवियोंको यह शुभ समाचार मिला कि तीनों लोकोंके सिरकी पीड़ाका मूर्तिमान् स्वरूप हिरण्यकशिपु युद्धमें भगवान्के हाथों मार डाला गया, तब आनन्दके उल्लाससे उनके चेहरे खिल उठे। वे बार-बार भगवान् पर पुष्पोंकी वर्षा करने लगीं॥ ३५॥
वीरराघवः
लोकत्रयस्य मस्तकज्वरं शिरोव्यथावद्दुस्सहं तमादिदैत्यं हिरण्यकशिपुं हरिणा नृसिंहेन युद्धे हतं नि79शाम्य दृष्ट्वा प्रहर्षवेगेन उत्कलितानि विकसितान्याननानि यासां ताः सुराणां स्त्रियः पुष्पवर्षेः पुनः पुनः नृहरिं ववृषुः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
तदा विमानावलिभिर्नभस्तलं
दिदृक्षतां सङ्कुलमास नाकिनाम्।
सुरानका दुन्दुभयोऽथ जघ्निरे
गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः॥
मूलम्
तदा विमानावलिभिर्नभस्स्थ80लं दिदृक्षतां सङ्कुलमास नाकिनाम्।
सुरान81का दुन्दुभ82योऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः॥ ३६ ॥
अनुवाद (हिन्दी)
आकाशमें विमानोंसे आये हुए भगवान्के दर्शनार्थी देवताओंकी भीड़ लग गयी। देवताओंके ढोल और नगारे बजने लगे। गन्धर्वराज गाने लगे, अप्सराएँ नाचने लगीं॥ ३६॥
वीरराघवः
तदा दिदृक्षितां द्रष्टुमिच्छतां दर्शनार्थमागतानामित्यर्थः । नाकिनां देवानां विमानपङ्क्तिभिः न83भस्स्थलं 84सङ्कुलं 85सम्बाधं बभूव । सुराणामानकाः पटहास्तैर्दुन्दुभयो जघ्निरे तडिताः, 86गन्धर्वश्रेष्ठाः ननृतुः स्त्रियः अप्सरसो जगुः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः।
ऋषयः पितरः सिद्धा विद्याधरमहोरगाः॥
मूलम्
87तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः।
ऋषयः पितरस्सिद्धा विद्याधरमहोरगाः॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः।
यक्षाः किम्पुरुषास्तात वेतालाः सिद्धकिन्नराः॥
श्लोक-३९
विश्वास-प्रस्तुतिः
ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः।
मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम्।
ईडिरे नरशार्दूलं नातिदूरचराः पृथक्॥
मूलम्
91विष्णुपारिषदा91स्सर्वे सुनन्दकुमुदादयः।
मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम्।
ईडिरे नरशार्दूलं नातिदूरचराः पृथक्॥ ३९ ॥
अनुवाद (हिन्दी)
तात! इसी समय ब्रह्मा, इन्द्र, शंकर आदि देवता, ऋषि, पितर, सिद्ध, विद्याधर, महानाग, मनु, प्रजापति, गन्धर्व, अप्सराएँ, चारण, यक्ष, किम्पुरुष, वेताल, सिद्ध, किन्नर और सुनन्द-कुमुद आदि भगवान्के सभी पार्षद उनके पास आये। उन लोगोंने सिरपर अंजलि बाँधकर सिंहासनपर विराजमान अत्यन्त तेजस्वी नृसिंहभगवान्की थोड़ी दूरसे अलग-अलग स्तुति की॥ ३७—३९॥
वीरराघवः
तत्रोपव्रज्य किञ्चित्समीपमागत्य ब्रह्मरुद्रप्रभृतयो देवादयः हे तात! 92मूर्ध्नि बद्धाञ्जलिपुटानि यैस्ते, आसीनमुपविष्टं तीव्रं दुस्सहं तेजो यस्य तं श्रीनृसिंहं नातिदूरवर्तिनः पृथक् एकैकशः ईडिरे तुष्टुवुः ॥ ३७-३९ ॥
श्लोक-४०
मूलम् (वचनम्)
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
नतोऽस्म्यनन्ताय दुरन्तशक्तये
विचित्रवीर्याय पवित्रकर्मणे।
विश्वस्य सर्गस्थितिसंयमान् गुणैः
स्वलीलया संदधतेऽव्ययात्मने॥
मूलम्
नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे।
विश्वस्य सर्गस्थितिसंयमान्गुणैस्स्वलीलया सन्दधतेऽव्ययात्मने॥ ४० ॥
अनुवाद (हिन्दी)
ब्रह्माजीने कहा—प्रभो! आप अनन्त हैं। आपकी शक्तिका कोई पार नहीं पा सकता। आपका पराक्रम विचित्र और कर्म पवित्र हैं। यद्यपि गुणोंके द्वारा आप लीलासे ही सम्पूर्ण विश्वकी उत्पत्ति, पालन और प्रलय यथोचित ढंगसे करते हैं—फिर भी आप उनसे कोई सम्बन्ध नहीं रखते, स्वयं निर्विकार रहते हैं। मैं आपको नमस्कार करता हूँ॥ ४०॥
वीरराघवः
तावदपाविविधविचित्रशक्तिवीर्यमकर्मायत्तजगद्व्यापारं जगत्कारणं स्तुवन् नमस्करोति ब्रह्मानतोस्म्यहमिति । अनन्ताय स्वरूपतस्त्रिविधपरिच्छेदरहिताय दुरन्तशक्तये अपारशक्तये 93अचिन्त्यशक्तये93 वा शक्तिः स्वेतरसर्वसामर्थ्यनिर्वाहिका “जगत्प्रकृतिभावो मे यस्सा शक्ति94रितीरिता” इत्यादिषूक्ता । यद्वा, यदन्यैरशक्तत्वादघटितमिव विभाति, तद्घटनसामर्थ्यरूपा, यतस्त्वमुक्तविधदुरन्तशक्तिः 95अनन्तशक्तिः[^v423] अत एवमद्वरेण सर्व96थाऽघटितमरणं दैत्यं हतवानसीति भावः । यतस्त्वमनन्तोऽत एवाऽचेतने स्तम्भेऽप्याविर्भूतोऽसीत्यभिप्रायः । अनन्तपदेन हि सर्वव्यापित्वाद्देशपरिच्छेदराहित्यम्, सर्वकालवर्तित्वात्कालपरिच्छेदराहित्यम्, साक्षात्परम्परया सर्वप्रकारत्वेन सर्ववस्तुसामानाधिकरण्यार्हत्वाद्वस्तुपरिच्छेदराहित्यं विवक्षितम्, येन केनाऽपि प्राशस्त्येन स्वस्मादुत्कृष्टैः कैश्चिद्वस्तुभिरधरीकृतत्वाभावरूपं वा वस्तुपरिच्छेदराहित्यम् इति त्रिविधपरिच्छेदराहित्यं विवक्षितम् । नन्वस्त्वेवं स्वरूपं कृत्स्नजगदुदयविभवलयलीलस्य कियदेतद्दैत्यहननमित्यभिप्रयन् तावज्जगत्कारणत्वप्रयुक्तं विकारं निराह - विचित्रवीर्यमिति । वीर्यं नाम सर्वोपादानत्वे सर्वसाधारणे सर्वनियमने विकाररहितत्वम् ; यथोक्तम् - “विकारविरहो वीर्यं प्रकृतित्वेऽपि मे सदा” इत्यादि । विचित्रशब्देनैवंविधस्य वीर्यस्य अनितरसाधारण्यमुच्यते । पवित्रकर्मणे अकर्मायत्तजगद्व्यापाराय त्वद्व्यापारं शृण्वतां दुरितनिवर्तनक्षमव्यापारायेति वा । गुणैः सर्वसत्वसर्वशक्तित्वादिभिः जगन्निमित्ततदुपादानत्वोपयुक्तैः स्वनियाम्यसत्त्वादिप्राकृतगुणैर्वा कृत्स्नस्य विश्वस्य सर्गादीन् स्वलीलयैव, न तु कर्मणा सन्दधते विदधते अव्ययात्मने एवमप्यव्ययः विकाररहितः आत्मा स्वभावो यस्य, स्वभावतोऽपि 97विश्वस्य विकाररहितायेत्यर्थः । स्वरूपतोऽपि विकारराहित्यस्योक्तत्वात् ॥ ४० ॥
श्लोक-४१
मूलम् (वचनम्)
श्रीरुद्र उवाच
विश्वास-प्रस्तुतिः
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः।
तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल॥
मूलम्
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः।
तत्सुतं पा98ह्युपसृतं भक्तं ते भक्तवत्सल॥ ४१ ॥
अनुवाद (हिन्दी)
श्रीरुद्रने कहा—आपके क्रोध करनेका समय तो कल्पके अन्तमें होता है। यदि इस तुच्छ दैत्यको मारनेके लिये ही आपने क्रोध किया है तो वह भी मारा जा चुका। उसका पुत्र आपकी शरणमें आया है। भक्तवत्सल प्रभो! आप अपने इस भक्तकी रक्षा कीजिये॥ ४१॥
वीरराघवः
नृसिहेनावलोकितास्सन्तो मूर्ध्नि बद्धाञ्जलयो मनवः प्रोचुः - मनव इति । मनवो वयं धर्मपालकाः परिभूतास्तवो वर्णाश्रमधर्ममर्यादा येषां ते । अनुशाधि अनुशिक्षय ॥ ४८ ॥ वीर यद्ब्रह्मणोऽभिप्रेतं कृत्स्त्रजगत्सर्गादिकर्तुस्तव कियदेतदिति तदेव विशदयन् वात्सल्ययुक्तं स्तौति रुद्रः - कोपकाल इति । तव कोपकालो युगान्तः द्विपरार्धावसानम्, 99ते कोपकाल इत्यनेन मदन्तर्यामितया मन्मुखेन संहर्ता त्वमेवेत्युक्तं भवति । अयन्तु कोपाविषय इत्याह- अयमल्पकोऽल्पबलो हतोऽतः कोपनिवृत्त्या हे भक्तवत्सला तव भक्तं तत्सुतं 100तस्य दैत्येन्द्रस्य सुतं उपसृतं 101त्वत्समीपमागमिष्यन्तं पाहि 102संरक्ष ॥ ४१ ॥
श्लोक-४२
मूलम् (वचनम्)
इन्द्र उवाच
विश्वास-प्रस्तुतिः
प्रत्यानीताः परम भवता त्रायता नः स्वभागा
दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम्॥
मूलम्
प्रत्यानीताः परम भवता त्रायता नः स्वभागा दैत्याक्रान्तं103 हृदय104कमलं त्वद्गृहं प्रत्यबोधि।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां न हि बहुमता नारसिंहाऽपरैः किम्॥ ४२ ॥
अनुवाद (हिन्दी)
इन्द्रने कहा—पुरुषोत्तम! आपने हमारी रक्षा की है। आपने हमारे जो यज्ञभाग लौटाये हैं, वे वास्तवमें आप (अन्तर्यामी)-के ही हैं। दैत्योंके आतंकसे संकुचित हमारे हृदयकमलको आपने प्रफुल्लित कर दिया। वह भी आपका ही निवासस्थान है। यह जो स्वर्गादिका राज्य हमलोगोंको पुनः प्राप्त हुआ है, यह सब कालका ग्रास है। जो आपके सेवक हैं, उनके लिये यह है ही क्या? स्वामिन्! जिन्हें आपकी सेवाकी चाह है, वे मुक्तिका भी आदर नहीं करते। फिर अन्य भोगोंकी तो उन्हें आवश्यकता ही क्या है॥ ४२॥
वीरराघवः
इन्द्रस्तु स्वदुःखमावेदयन् संरक्षकं सर्वान्तरात्मानं समस्तपुरुषार्थदं स्तौति-प्रत्यानीता इति । हे परम ! सर्वोत्कृष्ट ! नोऽस्मान् त्रायता त्रात्रा भवता दैत्येनाऽऽक्रान्ताः प्रसह्य गृहीताः स्वभागाः स्वकीया यज्ञीयभागा अस्मदादिमुखेन त्वमेव105 भोक्तेत्यभिप्रायेण स्वशब्दः प्रयुक्तः, प्रत्याहृताः । दैत्याक्रान्तमिति द्वितीयान्तपाठे तु दैत्यभयाकुलमिति हृदयविशेषणम् । एवं दैत्यवधेन स्वभागप्रत्यानयनेन च त्वद्गृहं त्वदावासभूतमत एवाऽमलमस्माकं हृदयं प्रत्यबोधि, भयेन पूर्वं मुकुलितमिदानीं तदपाकरणेन विकासितं भवते106त्यनुषङ्गः । त्वां सेवमानानामस्माकं त्वत्तो लौकिकपुरुषार्थ प्राप्तिरित्येतत्कियदित्याह - हे नाथ! स्वामिन्! ते शुश्रूषतां परिचर्यापराणामिदं लौकिकं पुरुषार्थ जातं कालेन नङ्क्ष्यमाणं कियत्, यत्किञ्चिदेतदित्यर्थः । तदेवाऽऽह तेषां त्वां परिचरतां मुक्तिरपि न बहुमता त्वत्सेवासुखासक्तानां मुक्तिरपि न परमं प्रयोजनम् । अतः हे नारसिंह! अपरैरर्वाचीनैः पुरुषार्थैः किम् ? न किमपि, तेषामतितुच्छमर्वाचीनपुरुषार्थजातमिति भावः ॥ ४२ ॥
श्लोक-४३
मूलम् (वचनम्)
ऋषय ऊचुः
विश्वास-प्रस्तुतिः
त्वं नस्तपः परममात्थ यदात्मतेजो
येनेदमादिपुरुषात्मगतं ससर्ज।
तद् विप्रलुप्तममुनाद्य शरण्यपाल
रक्षागृहीतवपुषा पुनरन्वमंस्थाः॥
मूलम्
त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरु107षात्मगतं ससर्ज।
तद्विप्रलुप्तममुनाऽद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः॥ ४३ ॥
अनुवाद (हिन्दी)
ऋषियोंने कहा—पुरुषोत्तम! आपने तपस्याके द्वारा ही अपनेमें लीन हुए जगत्की फिरसे रचना की थी और कृपा करके उसी आत्मतेजःस्वरूप श्रेष्ठ तपस्याका उपदेश आपने हमारे लिये भी किया था। इस दैत्यने उसी तपस्याका उच्छेद कर दिया था। शरणागतवत्सल! उस तपस्याकी रक्षाके लिये अवतार ग्रहण करके आपने हमारे लिये फिरसे उसी उपदेशका अनुमोदन किया है॥ ४३॥
वीरराघवः
ऋषयस्तु सर्वगुरुं साधुपरित्रातारं दुष्कृद्विनाशकञ्च तुष्टुवुः त्वमिति । परममुत्कृष्टं तपस्त्वद्ध्यानरूपं नोऽस्माकं त्वमात्थ उपदिष्टवानसि । तपो विशिषन्ति, यत्तप आत्मनस्तव तेजः प्रकाशकम् अस्माकं त्वत्स्वरूपावेदकमित्यर्थः । येन च तपसा आदिपुरुषश्चतुर्मुखः इदं जगदात्मगतं परमात्मना त्वया गतमन्तरात्मतया व्याप्तं ससर्ज । आदिपुरुषात्मगतमित्यत्र “गूढोत्मा न प्रकाशते” इतिवत् सन्धिरार्षः । आदिपुरुषात्मेति पाठे आदिपुरुषेति लुप्तप्रथमान्तं पृथुक्पदम् । यद्वा, हे आदिपुरुष । इति सम्बोधनं, ससर्ज, ब्रह्मेति शेषः । तत् तपोऽमुना दैत्यन्द्रेण विप्रलुप्तं विशेषेण प्रलोपितमासित् । तदेवाधुना हे शरण्य! शरणमर्हतीति शरण्यः तथाभूत! हे पालक! रक्षागृहीतवपुषा साधुपरित्राणार्थं गृहीतेन 108नरसिंहशरीरेण पुनरन्वमंस्थाः अनुज्ञापितवान् । 109वः शत्रुर्मया विनाशितोऽतः109 पुन110र्निर्भयं तपः कुरुतेति नोऽनुज्ञापित111वानसीत्यर्थः ॥ ४३ ॥
श्लोक-४४
मूलम् (वचनम्)
पितर ऊचुः
विश्वास-प्रस्तुतिः
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजै-
र्दत्तानि तीर्थसमयेऽप्यपिबत् तिलाम्बु।
तस्योदरान्नखविदीर्णवपाद् य आर्च्छत्
तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे॥
मूलम्
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमयेऽ112प्यपिबन्तिलाम्बु112।
तस्योदरान्नखविदीर्णवपाद्य आर्च्छत् तस्मै नमो 113नृहरयेऽखिल114धर्मगोप्त्रे॥ ४४ ॥
अनुवाद (हिन्दी)
पितरोंने कहा—प्रभो! हमारे पुत्र हमारे लिये पिण्डदान करते थे, यह उन्हें बलात् छीनकर खा जाया करता था। जब वे पवित्र तीर्थमें या संक्रान्ति आदिके अवसरपर नैमित्तिक तर्पण करते या तिलांजलि देते, तब उसे भी यह पी जाता। आज आपने अपने नखोंसे उसका पेट फाड़कर वह सब-का-सब लौटाकर मानो हमें दे दिया। आप समस्त धर्मोंके एकमात्र रक्षक हैं। नृसिंहदेव! हम आपको नमस्कार करते हैं॥ ४४॥
वीरराघवः
पितरस्तु स्वदुःखमावेदयन्तोऽखिलधर्मगोप्तारं हितकारिणं स्तुवन्तो नमस्कुर्वन्ति - श्राद्धानीति । अस्माकं तनूजैः पुत्रादिभिः अस्मदुद्देशेन दत्तानि श्राद्धानि श्राद्धसम्बन्धानि पिण्डानि यो दैत्यः प्रसभं बलात्स्वयमधिबुभुजेऽनुभूतवान् । तथा तीर्थसमये पुण्यतीर्थस्नानसमये अस्मत्तनूजैर्यद्दत्तं तिलोदकं तदप्यपिबत् तस्य दैत्यस्य उदरात् श्राद्धादीनि तिलाम्बु च यः पुनरार्छत् आहृत्यास्माकं दत्तवान् । कथम्भूता115दुदरात् ? नखैर्विदारिता वपा यस्य तस्य । तस्मात् वपाविदारणस्य तद्गतपिण्डोद्धरणमेव फलमिति भावः । तस्मै समस्तधर्माणां गोप्त्रे रक्षित्रे नृहरये 116ते नमः । 117तिलाम्ब्वसभ्य इत्यपि पाठः । तदाऽसभ्य इति दैत्येन्द्रविशेषणम् । तिलाम्बु तिलोदकमसभ्यः सभानर्हो यो दैत्येन्द्रोऽधिबुभुजे पीतवानित्यर्थः117 ॥ ४४ ॥
श्लोक-४५
मूलम् (वचनम्)
सिद्धा ऊचुः
विश्वास-प्रस्तुतिः
यो नो गतिं योगसिद्धामसाधु-
रहारषीद् योगतपोबलेन।
नानादर्पं तं नखैर्निर्ददार
तस्मै तुभ्यं प्रणताः स्मो नृसिंह॥
मूलम्
यो नो गतिं योगसिद्धामसाधुरहार्षीद्योगतपोबलेन।
नानादर्पं तं नखै118र्निर्ददार तस्मै तुभ्यं प्रण119मामो नृसिंह॥ ४५ ॥
अनुवाद (हिन्दी)
सिद्धोंने कहा—नृसिंहदेव! इस दुष्टने अपने योग और तपस्याके बलसे हमारी योगसिद्ध गति छीन ली थी। अपने नखोंसे आपने उस घमंडीको फाड़ डाला है। हम आपके चरणोंमें विनीतभावसे नमस्कार करते हैं॥ ४५॥
वीरराघवः
सिद्धा अपि 120स्वकीययोगगत्यपहारकदैत्येन्द्रवधद्वारा स्वयोगगत्याधायकं परमसुहृदं वर्णयन्तो नेमुः - य इति । योऽसाधुर्दुरात्मा दैत्यो नोऽस्माकं योगसिद्धां गतिं 121भक्तियोगप्राप्तां गति121मणिमादिरूपां स्वयोगं122 तपोबलेन अहार्षीदपहृतवान्, तं नानादर्पं नाना अनेकाः दर्पा यस्य तं नखैर्यो 123वि ददार विदारितवान्, तस्मै तुभ्यं हे नृसिंह! वयं 124प्रणमामः ॥ ४५ ॥
श्लोक-४६
मूलम् (वचनम्)
विद्याधरा ऊचुः
विश्वास-प्रस्तुतिः
विद्यां पृथग्धारणयानुराद्धां
न्यषेधदज्ञो बलवीर्यदृप्तः।
स येन संख्ये पशुवद्धतस्तं
मायानृसिंहं प्रणताः स्म नित्यम्॥
मूलम्
विद्यां पृथग्धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः।
स 125येन संख्ये पशुवद्धत126स्तं 127मायानृसिंहं प्रणताः स्म नित्यम्॥ ४६ ॥
अनुवाद (हिन्दी)
विद्याधरोंने कहा—यह मूर्ख हिरण्यकशिपु अपने बल और वीरताके घमंडमें चूर था। यहाँतक कि हम लोगोंने विविध धारणाओंसे जो विद्या प्राप्त की थी, उसे इसने व्यर्थ कर दिया था। आपने युद्धमें यज्ञपशुकी तरह इसको नष्ट कर दिया। अपनी लीलासे नृसिंह बने हुए आपको हम नित्य-निरन्तर प्रणाम करते हैं॥ ४६॥
वीरराघवः
विद्याधरा अपि तेनाऽपहृतविद्याप्रत्यादानेन हितकारिणं स्तुवन्तो नमन्ति - विद्यामिति । धारण्या मनोधारणाऽनुराद्धां संसिद्धां विद्यामस्मत्सम्बन्धिनीमन्तर्धानादि लक्षणां योऽज्ञो मूर्खो बलवीर्याभ्यां गर्वितो 128दैत्येन्द्रो न्यषेधन्नि129षेधितवान् । बलं देहबलं, वीर्यं पराभिभवसामर्थ्यं स दैत्यो येन संख्ये युद्धे पशुवद्धतस्तं त्वां मायानृसिंहमात्मीयसङ्कल्पोपात्तनृसिंहतनुं नित्यं प्रणताः स्मः । कर्तरि क्तः । नमस्कृतवन्तः स्मेत्यर्थः ॥ ४६ ॥
श्लोक-४७
मूलम् (वचनम्)
नागा ऊचुः
विश्वास-प्रस्तुतिः
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः।
तद्विक्षः पाटनेनासां दत्तानन्द नमोऽस्तु ते॥
मूलम्
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः।
तद्विक्षः पाटनेनाऽऽसां दत्तानन्द नमोऽस्तु ते॥ ४७ ॥
अनुवाद (हिन्दी)
नागोंने कहा—इस पापीने हमारी मणियों और हमारी श्रेष्ठ और सुन्दर स्त्रियोंको भी छीन लिया था। आज उसकी छाती फाड़कर आपने हमारी पत्नियोंको बड़ा आनन्द दिया है। प्रभो! हम आपको नमस्कार करते हैं॥ ४७॥
वीरराघवः
नागास्त्वेवं तदपहृतरत्नप्रदानेनानन्दकरं स्तुवन्तो नेमुः - येनेति । येन पापात्मना नोऽस्माकं रत्नानि स्त्रीरत्नानि नागकन्यकारूपाणि, रत्नानि चापहृतानि, तस्य वक्षोविदारणेनाऽऽसां स्त्रीणां दत्त आनन्दो येन तस्य सम्बोधनं, ते तुभ्यं नमोऽस्तु ॥ ४७ ॥
श्लोक-४८
मूलम् (वचनम्)
मनव ऊचुः
विश्वास-प्रस्तुतिः
मनवो वयं तव निदेशकारिणो
दितिजेन देव परिभूतसेतवः।
भवता खलः स उपसंहृतः प्रभो
करवाम ते किमनुशाधि किङ्करान्॥
मूलम्
मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः।
भवता खलस्स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान्॥ ४८ ॥
अनुवाद (हिन्दी)
मनुओंने कहा—देवाधिदेव! हम आपके आज्ञाकारी मनु हैं। इस दैत्यने हमलोगोंकी धर्ममर्यादा भंग कर दी थी। आपने उस दुष्टको मारकर बड़ा उपकार किया है। प्रभो! हम आपके सेवक हैं। आज्ञा कीजिये, हम आपकी क्या सेवा करें?॥ ४८॥
वीरराघवः
तवाज्ञापरिपालनरूपकैङ्कर्यविरोधिनिरसनेन कैङ्कर्याधापनरूपहितकारिणं स्तुवन्तस्तदेव प्रार्थयन्ते मनवः - मनव इति । वयं तव निदेशकारिणः कैङ्कर्यकारिणा मनव इति प्रसिद्धाः ते वयमेतावन्तं कालं येन दितिजेन 130दैत्येन परिभूताः परिहापिताः सेतवः त्वत्कृताः वर्णाश्रममर्यादा येषां तादृशा बभूविम । अधुना स खलो दितिजस्त्वया उपसंहृतो हतः । हे प्रभो! निवृत्तकैङ्कर्यविरोधिनो वयं किं कैङ्कर्यं ते तुभ्यं करवाम, तथा किङ्करान्नोऽस्मान् अनुशाधि विविच्याज्ञापयेत्यर्थः131 ॥ ४८ ॥
श्लोक-४९
मूलम् (वचनम्)
प्रजापतय ऊचुः
विश्वास-प्रस्तुतिः
प्रजेशा वयं ते परेशाभिसृष्टा
न येन प्रजा वै सृजामो निषिद्धाः।
स एष त्वया भिन्नवक्षा नु शेते
जगन्मङ्गलं सत्त्वमूर्तेऽवतारः॥
मूलम्
प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः।
स एष त्वया भिन्नवक्षा132नुशेते जगन्मङ्गलं सत्त्वमूर्तेऽवतारः॥ ४९ ॥
अनुवाद (हिन्दी)
प्रजापतियोंने कहा—परमेश्वर! आपने हमें प्रजापति बनाया था। परन्तु इसके रोक देनेसे हम प्रजाकी सृष्टि नहीं कर पाते थे। आपने इसकी छाती फाड़ डाली और यह जमीनपर सर्वदाके लिये सो गया। सत्त्वमय मूर्ति धारण करनेवाले प्रभो! आपका यह अवतार संसारके कल्याणके लिये है॥ ४९॥
वीरराघवः
सद्वारकतद्व्यापाररूपजगत्सर्गात्मकास्मद्व्यापार 133विरोधिनिरसनेन तदधिकाराधायकां सर्वेषां शुभाधायकमूर्ति तुष्टुवुः प्रजापतयः प्रजेशा इति । हे परेश! परेषां ब्रह्मादीनामपीश! ते त्वया अभिसृष्टा व्यष्टिसर्गार्थं त्वया सृष्टाः प्रजेशाः प्रजापतय 134इति प्रसिद्धास्ते वयमेतत्पर्यन्तं येन दैत्येन्द्रेण निषिद्धास्सन्तः प्रजा न वै सृजामः न सृष्टवन्तः स एव दैत्यः त्वया भिन्नं विदीर्णं वक्षो यस्य तादृशोऽनुशेते । अतः परं प्रजाः स्रक्ष्यामः इति हृष्यन्त आहुः - हे सत्त्वमूर्ते ! अप्राकृतशुद्धसत्त्वविग्रह ! ते तवावतारो जगन्मङ्गलं जगतो मङ्गलावहः ॥ ४९ ॥
श्लोक-५०
मूलम् (वचनम्)
गन्धर्वा ऊचुः
विश्वास-प्रस्तुतिः
वयं विभो ते नटनाट्यगायका
येनात्मसाद् वीर्यबलौजसा कृताः।
स एष नीतो भवता दशामिमां
किमुत्पथस्थः कुशलाय कल्पते॥
मूलम्
वयं विभो ते नटनाट्यगायका येनाऽऽत्मसाद्वीर्य बलौजसा कृताः।
स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते॥ ५० ॥
अनुवाद (हिन्दी)
गन्धर्वोंने कहा—प्रभो! हम आपके नाचनेवाले, अभिनय करनेवाले और संगीत सुनानेवाले सेवक हैं। इस दैत्यने अपने बल, वीर्य और पराक्रमसे हमें अपना गुलाम बना रखा था। उसे आपने इस दशाको पहुँचा दिया। सच है, कुमार्गसे चलनेवालेका भी क्या कभी कल्याण हो सकता है?॥ ५०॥
वीरराघवः
तन्मुखोल्लासार्थं नाट्यादि कैङ्कर्यविरोधिनिरसनेन तदाधायकं सुहृदं तुष्टुवुर्गन्धर्वाः - वयमिति । हे 134विभो! ते तव नटनाट्यगायकाः नटा नर्तकाः नाट्ये कर्मणि गायकाश्च वयं येन एतावत्पर्यन्तं आत्मसात्कृताः स्वाधीनाः कृताः । कथम्भूतेन ? वीर्यं शौर्यं बलं शक्तिः ताभ्यामोजः प्रभावो यस्य, तादृशेन स एष दैत्यो भवता 135निरतिशयकृपायुक्तेन135 इमां दशां मरणमित्यर्थः, नीतः प्रापितः । तथा हि उत्पथस्थः 136उत्पथे कुमार्गे पापकर्मणि तिष्ठतीति त137था कुशलाय क्षेमाय कल्पते किम् ? क्षेमयुक्तो भवति किम् ? न कल्पत एवेत्यर्थः ॥ ५० ॥
श्लोक-५१
मूलम् (वचनम्)
चारणा ऊचुः
विश्वास-प्रस्तुतिः
हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः।
यदेष साधुहृच्छयस्त्वयासुरः समापितः॥
अनुवाद (हिन्दी)
चारणोंने कहा—प्रभो! आपने सज्जनोंके हृदयको पीड़ा पहुँचानेवाले इस दुष्टको समाप्त कर दिया। इसलिये हम आपके उन चरणकमलोंकी शरणमें हैं, जिनके प्राप्त होते ही जन्म-मृत्युरूप संसारचक्रसे छुटकारा मिल जाता है॥ ५१॥
वीरराघवः
तत्पादपङ्कजपरिचर्याविरोधिनिरसनेन पुनस्तदाधायकं हितकरं तुष्टुवुश्चारणाः - हरे इति । हे हरे ! आश्रितार्तिहर ! भवापवर्गमैहिकामुष्मिकहेतुं तवाङ्घ्रिपङ्कजमाश्रिताः परिचरन्तो वयमनेन, निषिद्धा इति शेषः, स एषोऽसुरः साधूनां 139प्रपन्नानां हृच्छयः हृदयरोगरूपस्त्वया समापितः उपसंहृत इत्यर्थः ॥ ५१ ॥
श्लोक-५२
मूलम् (वचनम्)
यक्षा ऊचुः
विश्वास-प्रस्तुतिः
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञै-
स्त इह दितिसुतेन प्रापिता वाहकत्वम्।
स तु जनपरितापं तत्कृतं जानता ते
नरहर उपनीतः पञ्चतां पञ्चविंश॥
मूलम्
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम्।
140स तु जनपरितापं141 तत्कृतं जानता ते नरहर उपनीतः पञ्चतां पञ्चविंश142॥ ५२ ॥
अनुवाद (हिन्दी)
यक्षोंने कहा—भगवन्! अपने श्रेष्ठ कर्मोंके कारण हमलोग आपके सेवकोंमें प्रधान गिने जाते थे। परन्तु हिरण्यकशिपुने हमें अपनी पालकी ढोनेवाला कहार बना लिया। प्रकृतिके नियामक परमात्मा! इसके कारण होनेवाले अपने निजजनोंके कष्ट जानकर ही आपने इसे मार डाला है॥ ५२॥
वीरराघवः
स्वदुःखमावेदयन्तस्तन्निवर्तकं सुखाधायकं वर्णयन्ति - यक्षा वयमिति । मनोज्ञैः कर्मभिर्वयं तवाऽनुचरश्रेष्ठा ते वयमिह तावद्दितिजेन वाहकत्वं यानादिवाहकत्वं भारवाहकत्वं वा प्रापिताः । हे नरहरे! तेन दितिजेन कृतं तव नतजनानां भक्तजनानां परितापं जानता 143ते त्वया पञ्चविंशो दैत्येन्द्वाख्यो जीवः पञ्चतां मृत्युमुपनीतः प्रापितः । “विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवाऽनुविनश्यति” (बृह. उ. 4-4-12) इतिवत् पञ्चविंशस्य शरीर द्वारिका पञ्चताप्राप्तिरत्र विवक्षिता । पञ्चविंशेति पाठे हे जीवशरीरक! इति सम्बोधनम् । “स तु जनपरिताप"मिति पाठे येनदितिसुतेन वाहकत्वं नीताः स तु पञ्चविंश इत्यन्वयः ॥ ५२ ॥
श्लोक-५३
मूलम् (वचनम्)
किम्पुरुषा ऊचुः
विश्वास-प्रस्तुतिः
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः।
अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा॥
अनुवाद (हिन्दी)
किम्पुरुषोंने कहा—हमलोग अत्यन्त तुच्छ किम्पुरुष हैं और आप सर्वशक्तिमान् महापुरुष हैं। जब सत्पुरुषोंने इसका तिरस्कार किया—इसे धिक्कारा, तभी आज आपने इस कुपुरुष—असुराधमको नष्ट कर दिया॥ ५३॥
वीरराघवः
स्वनैच्यानुसन्धानपूर्वकमनितरसाधारणप्रभावं तुष्टुवुः किम्पुरुषाः वयमिति । वयं किम्पुरुषाः कुत्सिताः पुरुषाः, त्वन्तु महापुरुषः अनितरसाधारण गुणपूर्णः ईश्वरः सर्वान्तरात्मा च । अयं महान् दैत्यो हत स्त्वयेति किं न वर्ण्यते ? इत्याशङ्क्य, कियदेतदित्याहुः - अयमिति । का पुरुषः ईषत्पुरुषः अस्मदपेक्षयाबलीयान्, त्वत्तोऽधम इति भावः । इषदर्थं “विभाषा पुरुषे” इति सूत्रेण कुशब्दस्य का देशः । यदा साधुभिर्धिक्कृतस्तिरस्कृतस्तदैव नष्टो नष्टप्रायः, अतः कियदेतत्तवेति भावः ॥ ५३ ॥
श्लोक-५४
मूलम् (वचनम्)
146वैतालिका ऊचुः
विश्वास-प्रस्तुतिः
सभासु सत्रेषु तवामलं यशो
गीत्वा सपर्यां महतीं लभामहे।
यस्तां व्यनैषीद् भृशमेष दुर्जनो
दिष्ट्या हतस्ते भगवन्यथाऽऽमयः॥
मूलम्
सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे।
य147स्तां व्यनैषी148द्वशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथाऽऽमयः॥ ५४ ॥
अनुवाद (हिन्दी)
वैतालिकोंने कहा—भगवन्! बड़ी-बड़ी सभाओं और ज्ञानयज्ञोंमें आपके निर्मल यशका गान करके हम बड़ी प्रतिष्ठा-पूजा प्राप्त करते थे। इस दुष्टने हमारी वह आजीविका ही नष्ट कर दी थी। बड़े सौभाग्यकी बात है कि महारोगके समान इस दुष्टको आपने जड़मूलसे उखाड़ दिया॥ ५४॥
वीरराघवः
अस्मत्सम्मानावहत्वद्गुणगानविरोधिनिरसनेन त्वयैव वयं बहुमता इत्याहुर्वेतालिकाः - सभास्विति । तवाऽऽमलं यशः सभासु सत्तेषु च गीत्वा वयं महतीं सपर्यां पूजां लभामहे तानस्मान् यो दुर्जनो दैत्यः स्ववशं यथा भवति तथाऽनैषीत्, स एष दुर्जनः । हे भगवन्! ते त्वया हतः एतद्दिष्ट्या भद्रं जातम्, दिष्ट्या दैवेन त्वयेति वाऽन्वयः । यथा आमयः यथा शिरोव्यथारूपी रोगः पीडाकारकः तद्वदयमासीत्किलेति शेषः ॥ ५४ ॥
श्लोक-५५
मूलम् (वचनम्)
किन्नरा ऊचुः
विश्वास-प्रस्तुतिः
वयमीश किन्नरगणास्तवानुगा
दितिजेन विष्टिममुनानु कारिताः।
भवता हरे स वृजिनोऽवसादितो
नरसिंह नाथ विभवाय नो भव॥
मूलम्
वयमीशकिन्नरगणास्तवाऽनुगा दितिजेन विष्टिममुनाऽनुकारिताः।
भवता हरे सवृजिनोऽवसादितो नरसिंहनाथ विभवाय नो भव॥ ५५ ॥
अनुवाद (हिन्दी)
किन्नरोंने कहा—हम किन्नरगण आपके सेवक हैं। यह दैत्य हमसे बेगारमें ही काम लेता था। भगवन्! आपने कृपा करके आज इस पापीको नष्ट कर दिया। प्रभो! आप इसी प्रकार हमारा अभ्युदय करते रहें॥ ५५॥
वीरराघवः
स्वदुःखमावेदयन्तः सर्वसुखाधायकं लोकार्तिहरं तुष्टुवुः किन्नराः - वयमिति । हे ईश ! वयं किन्नरगणा इति प्रसिद्धास्तवाऽनुगाः अनुचरास्ते वयमेतावदमुना दितिजेन विष्टिमनुकारिताः मूल्यरहितं कर्मविष्टिः, तामनु निरन्तरं कारिताः । हे हरे ! अनुचरार्तिहर! स वृजिनः पापात्मा दैत्यो भवता उपसादित उपसंहृतः । हे नरसिंह! हे नाथ! नोऽस्माकं विभवाय सुखसमृद्धये त्वं भव ॥ ५५ ॥
श्लोक-५६
मूलम् (वचनम्)
विष्णु149पार्षदा ऊचुः
विश्वास-प्रस्तुतिः
अद्यैतद्धरिनररूपमद्भुतं ते
दृष्टं नः शरणद सर्वलोकशर्म।
सोऽयं ते विधिकर ईश विप्रशप्त-
स्तस्येदं निधनमनुग्रहाय विद्मः॥
मूलम्
अद्यैत150न्नहरिरूपमद्भुतं 151ते दृष्टं नश्शरणद सर्वलोकशर्म।
सोऽयं ते विधिकर ईश विप्र152शापात्तस्येदं निधनमनुग्रहाय विद्मः॥ ५६ ॥
अनुवाद (हिन्दी)
भगवान्के पार्षदोंने कहा—शरणागतवत्सल! सम्पूर्ण लोकोंको शान्ति प्रदान करनेवाला आपका यह अलौकिक नृसिंहरूप हमने आज ही देखा है। भगवन्! यह दैत्य आपका वही आज्ञाकारी सेवक था, जिसे सनकादिने शाप दे दिया था। हम समझते हैं, आपने कृपा करके इसके उद्धारके लिये ही इसका वध किया है॥ ५६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यराजवधे नृसिंहस्तवो नामाष्टमोऽध्यायः॥ ८ ॥
वीरराघवः
स्वामिन्! अदृष्टपूर्वं रूपं द्विषतामप्यनुग्राहकं धृतवानसीत्याहुर्विष्णुपार्षदाः - अद्येति । नोऽस्माकं भक्तानां हे शरणद ! आश्रयप्रद ! निरतिशयपुरुषार्थसाधनभूतोपायप्रद! इति वा । सर्वेषां लोकानां शर्म सुखावहमेतदद्भुतं रूपं अद्यैव दृष्टं, न तु पूर्वम् । हे ईश! स्वामिन्! सोऽयं दैत्यस्तव विधिकरः निदेशकारी किङ्करः, स च विप्रैः सनकादिभिः शप्तः, मध्ये कैङ्कर्यविरोधो जात इति भावः । तस्य दैत्यस्येदं निधनं त्वत्कृतमनुग्रहाय पुनः कैङ्कर्यलाभरूपतदनुग्रहार्थमेवेति वयं जानीमः ॥ ५६ ॥
इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां अष्टमोऽध्यायः ॥ ८ ॥
-
A,T Omit एवं ↩︎
-
A,B,T Omit अथ ↩︎
-
W Omits एव । ↩︎
-
H,V अवेक्ष ↩︎
-
H,V पा ↩︎
-
H,V त्यान्तु ↩︎
-
A,B,G,J,M,Ma,T द्धृतं ↩︎
-
H,V नेष्याम्यद्य ↩︎
-
H,V परेऽप; M,Ma पराऽव ↩︎
-
H,V मोऽञ्जसा ह्याजः ↩︎
-
H,V धोस्तु ↩︎
-
W omits एव ↩︎
-
A,B,G,J,M,Ma,T णां हि ↩︎
-
W न ↩︎
-
H,V प्लता ↩︎
-
H,V दिह ↩︎
-
A,B,G,J,T,W तम् ↩︎
-
A,B,T omit कायात् ↩︎
-
W omits देहात् ↩︎
-
A,B,T add इति ↩︎
-
H,V तताडोरुः; W बभञ्जाति ↩︎
-
W बभञ्ज तताड ↩︎
-
W भञ्जना ↩︎
-
A,B,G,J,T,W स विक्र ↩︎
-
W निनदं ↩︎
-
W Omits श्रुत्वा ↩︎
-
W Omits वितत्रसुः ↩︎
-
A,B,G,J,T,W नं ↩︎
-
A,B,G,J,M,Ma,W पस्त ↩︎
-
A,B,G,J,H,M,Ma,T,V वि ↩︎
-
A,B,T दिवि ↩︎
-
A,B,T अलुक्समासः ↩︎
-
W Omits उदरे ↩︎
-
M,Ma तस्य, W मेन ↩︎
-
A,B,T ते एव ↩︎
-
A,B,T स्तोमाः ↩︎
-
H,V विमृश्याभ्य; W स्तुवंस्त्वभ्य ↩︎
-
H,M,Ma,V था । ↩︎
-
W Omits गर्जन् ↩︎
-
A,B,G,J,M,Ma,T द्या ↩︎
-
H,V पतन्म ↩︎
-
H,V मृषा ↩︎
-
A,B,T add ति भावः ↩︎
-
W द्ग ↩︎
-
H,V मुना ↩︎
-
This halt verse is not found in B edition. ↩︎
-
H,M,Ma,V ग ↩︎
-
W omits इत्यर्थः ↩︎
-
W क्लमः ↩︎
-
W निस्स्वनो ↩︎
-
W णो ↩︎
-
A,B,T omit महाजवः ↩︎
-
W omits महावेगः ↩︎
-
H,V रुमापा ; M,Ma रवापा ↩︎
-
W र ↩︎
-
A,B,G,M,J,M,Ma,T,V क्ष्य ↩︎
-
A,B,T add अहिते ↩︎
-
W omits दुर्निरीक्ष्ये ↩︎
-
W वक्त्रं ↩︎
-
W omits तद्वत् ↩︎
-
W न्वरा ↩︎
-
A,B,G,J,T र्ष्णि ↩︎
-
H,M,Ma थाऽ ↩︎
-
H,V मृ, M,Ma न ↩︎
-
H,V जहुर्मुदम्; M,Ma जहुर्दिशः ↩︎
-
A,B,T धव्य ↩︎
-
W द्भिन्न ↩︎
-
M,Ma तं भैरव ↩︎
-
A,B,G,J,M,Ma,T श ↩︎
-
H,V हरिं ↩︎
-
A श ↩︎
-
A,B,G,J,T स्त ↩︎
-
H,V कैर्दु ↩︎
-
M,Ma यो हि ↩︎
-
A,B,T भस्त ↩︎
-
W Omits सङ्कुलं ↩︎
-
A,B,T सम्मर्द ↩︎
-
अत्रेवं भवितव्यम् - “गन्धर्वमुख्या जगुः, स्त्रियोऽप्सरसो ननृतुः” । पाठक्रमादर्थक्रमो बलीयान् । ↩︎
-
H,V तमुप; M,Ma तदुप ↩︎
-
W मनुः ↩︎
-
H,V भूत ↩︎
-
A,B,G,J,T सिद्ध ↩︎
-
W मूर्धसु ↩︎
-
A,B,T रुदी ↩︎
-
W Omits ↩︎
-
A,B,T तो ↩︎
-
A Omits विश्वस्य ↩︎
-
M,Ma ह्यनु ↩︎
-
A,B,T Omit ते ↩︎
-
W omits तस्य ↩︎
-
A,B,T तत्सं ↩︎
-
W omits संरक्ष ↩︎
-
W न्ता ↩︎
-
W म ↩︎
-
A,B,T add यज्ञ ↩︎
-
A,B,T ती ↩︎
-
W षोत्म ↩︎
-
W नृसिंहवपुषा ↩︎
-
W omits निर्भयं ↩︎
-
W वानित्यर्थः ↩︎
-
M,Ma भगवते ↩︎
-
M,Ma कर्म ↩︎
-
W omits उदरात् ↩︎
-
W omits ते ↩︎
-
H,V र्विद ↩︎
-
A,B,G,J,M,Ma,T ताः स्मो ↩︎
-
A,B,T स्वयो ↩︎
-
A,B,T गेन त ↩︎
-
W omits विददार ↩︎
-
A,B,T प्रणताः स्मो नमस्कुर्मः ↩︎
-
H,V एव ↩︎
-
H,V स्त्वया ↩︎
-
M,Ma महा ↩︎
-
W omits दैत्येन्द्रः ↩︎
-
W omits निषेधितवान् ↩︎
-
W Omits दैत्येन ↩︎
-
W यस्वेत्यर्थः ↩︎
-
M,Ma स्तु ↩︎
-
W adds रूप ↩︎
-
W Omits ↩︎
-
W Omits ↩︎
-
W Omits प्रपन्नानां ↩︎
-
M,Ma अनुजः, W नतज ↩︎
-
H,V पी ↩︎
-
W शः ↩︎
-
W Omits ते ↩︎
-
A,B,G,J,M,Ma कु ↩︎
-
H,V स्सदा, M,Ma र्यतः ↩︎
-
M,Ma वेताला ↩︎
-
H,V स्ताननै ↩︎
-
A,B,G,J,M,Ma,T द्भृ ↩︎
-
H,V पारिषदा ↩︎
-
A,B,G,J,M,Ma,T द्धरिनररू ↩︎
-
H,V वै ↩︎
-
A,B,G,J,T,W शप्तस्त ↩︎