[सप्तमोऽध्यायः]
भागसूचना
प्रह्लादजीद्वारा माताके गर्भमें प्राप्त हुए नारदजीके उपदेशका वर्णन
श्लोक-१
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः।
उवाच स्मयमानस्तान्स्मरन् मदनुभाषितम्॥
अनुवाद (हिन्दी)
नारदजी कहते हैं—युधिष्ठिर! जब दैत्यबालकोंने इस प्रकार प्रश्न किया, तब भगवान्के परम प्रेमी भक्त प्रह्लादजीको मेरी बातका स्मरण हो आया। कुछ मुसकराते हुए उन्होंने उनसे कहा॥ १॥
वीरराघवः
दैत्यकुमारैरेवं पृष्टः प्रह्लादः तत्सङ्गतिहेतुमुपपादयन् तत्त्वत्रययाथात्म्योपदेशपूर्वकं सपरिकरं भगवद्भक्तियोगमुपदिष्टवानित्याह भगवान्नारदः - एवमिति । एवमित्थं दैत्यसुतैः पृष्टो भागवतोत्तमः प्रह्लादस्तान् दैत्यपुत्रान्प्रति स्मयमानो मया नारदेन अनुभाषितं स्मरन्नुवाच ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
प्रह्राद उवाच
विश्वास-प्रस्तुतिः
पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम्।
युद्धोद्यमं परं चक्रुर्विबुधा दानवान्प्रति॥
मूलम्
पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम्।
युद्धो3द्यमं परं चक्रुर्विबुधा दानवान्प्रति॥ २ ॥
अनुवाद (हिन्दी)
प्रह्लादजीने कहा—जब हमारे पिताजी तपस्या करनेके लिये मन्दराचलपर चले गये, तब इन्द्रादि देवताओंने दानवोंसे युद्ध करनेका बहुत बड़ा उद्योग किया॥ २॥
वीरराघवः
तदेवाऽह-पितरीत्यादिनानाऽ4धुनाप्यजहात्स्मृतिः इत्यन्तेन4 । अस्माकं पितरि हिरण्यकशिपौ तपसे तपः कर्तुं मन्दराचलं प्रति प्रस्थिते प्रयाते सति इन्द्रादयो विबुधा देवाः दानवान्प्रति युद्धोद्यमं चक्रुः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः।
पापेन पापोऽभक्षीति वादिनो वासवादयः॥
मूलम्
पिपीलिकैरहिरिव 5दष्टो लोकोपतापनः।
पापेन पापोऽभक्षीति वादिनो वासवादयः॥ ३ ॥
अनुवाद (हिन्दी)
वे इस प्रकार कहने लगे कि जैसे चींटियाँ साँपको चाट जाती हैं, वैसे ही लोगोंको सतानेवाले पापी हिरण्यकशिपुको उसका पाप ही खा गया॥ ३॥
वीरराघवः
कथम्भूतास्सन्तः लोकोपतापनः लोकानां दुःखकारी पापः पापात्मा स्वपापेनैव दैवात् पिपीलिकैरहिस्सर्प इव अभक्षि भक्षित इति वादिनो वदन्तस्सन्तः, वासव इन्द्र आदिर्येषां ते, युद्धोद्यमं चक्रुरिति पूर्वेणान्वयः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तेषामतिबलोद्योगं निशम्यासुरयूथपाः।
वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतोदिशम्॥
मूलम्
तेषाम6पि बलोद्योगं निशम्याऽसुरयूथपाः।
वध्यमानास्सुरैर्भीता दुद्रुवुस्सर्वतो दिशम्॥ ४ ॥
वीरराघवः
ततः किं जातम् ? तत्राऽह - तेषां वासवादीनां बलोद्योगं बलप्रयुक्तयुद्धोद्योगं निशम्य दृष्ट्वा सुरैर्वध्यमाना, अत एव भीतास्सन्तोऽसुरयूथपाः सर्वे त्वरिताः सर्वतो दिशं दुद्रुवुः पलायितवन्तः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
कलत्रपुत्रमित्राप्तान् गृहान् पशुपरिच्छदान्।
नावेक्षमाणास्त्वरिताः सर्वे प्राणपरीप्सवः॥
मूलम्
कलत्रपुत्र7वित्ताऽप्तान् गृहान्पशुपरिच्छदान्।
नावेक्षमाणास्त्वरिताः सर्वे प्राणपरीप्सवः॥ ५ ॥
अनुवाद (हिन्दी)
जब दैत्य सेनापतियोंको देवताओंकी भारी तैयारीका पता चला, तब उनका साहस जाता रहा। वे उनका सामना नहीं कर सके। मार खाकर स्त्री, पुत्र, मित्र, गुरुजन, महल, पशु और साज-सामानकी कुछ भी चिन्ता न करके वे अपने प्राण बचानेके लिये बड़ी जल्दीमें सब-के-सब इधर-उधर भाग गये॥ ४-५॥
वीरराघवः
कथम्भूताः ? कलत्रादीन् नावेक्षमाणाः तेषु त्यक्तस्पृहाः इत्यर्थः । तत्र हेतुः-8सर्वे प्राणपरीप्सवः प्राणमात्रपरित्राणेच्छवः । तत्र परिच्छदा भोगोपकरणानि ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
व्यलुम्पन् राजशिबिरममरा जयकाङ्क्षिणः।
इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत्॥
मूलम्
व्यलुम्पन्राजशिबिरममरा जयकाङ्क्षिणः।
इन्द्रस्तु राजमहिषी मातरं मम चाऽग्रहीत्॥ ६ ॥
अनुवाद (हिन्दी)
अपनी जीत चाहनेवाले देवताओंने राजमहलमें लूट-खसोट मचा दी। यहाँतक कि इन्द्रने राजरानी मेरी माता कयाधूको भी बन्दी बना लिया॥ ६॥
वीरराघवः
ततो जयशालिनोऽमरा देवाः राज्ञो हिरण्यकशिपोः शिबिरं गृहं व्यलुम्पन् सर्वस्वापहारेण नाशितवन्तः । इन्द्रस्तु राज्ञो हिरण्यकशिपोर्भार्यां मम मातरमग्रहीत् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
नीयमानां भयोद्विग्नां रुदतीं कुररीमिव।
यदृच्छयाऽऽगतस्तत्र देवर्षिर्ददृशे पथि॥
अनुवाद (हिन्दी)
मेरी माँ भयसे घबराकर कुररी पक्षीकी भाँति रो रही थी और इन्द्र उसे बलात् लिये जा रहे थे। दैववश देवर्षि नारद उधर आ निकले और उन्होंने मार्गमें मेरी माँको देख लिया॥ ७॥
वीरराघवः
ताञ्च इन्द्रेण नीयमानाम्, अत एव भयोद्विग्नां कम्पितां कुररीमिव क्रन्दन्तीं रुदतीं11 देवर्षिर्नारदो यदृच्छयोपगतः पथि ददर्श, प्राह च ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
प्राह मैनां सुरपते नेतुमर्हस्यनागसम्।
मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम्॥
अनुवाद (हिन्दी)
उन्होंने कहा—‘देवराज! यह निरपराध है। इसे ले जाना उचित नहीं। महाभाग! इस सती-साध्वी परनारीका तिरस्कार मत करो। इसे छोड़ दो, तुरंत छोड़ दो!’॥ ८॥
वीरराघवः
तदेवाऽह - हे सुरपते! अनागसं निरपराधामेनां नेतुं 15त्वं नार्हसि । अतो हे महाभाग ! परेणान्येन 16हिरण्यकशिपुना16 परिगृहीतां परदारानित्यर्थः । मुञ्च मुञ्च ॥ ८ ॥
श्लोक-९
मूलम् (वचनम्)
इन्द्र उवाच
विश्वास-प्रस्तुतिः
आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः।
आस्यतां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गतः॥
मूलम्
आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विषः।
आस्यतां 17यावत्प्रसवं मोक्ष्येऽर्थपदवीं गतः॥ ९ ॥
अनुवाद (हिन्दी)
इन्द्रने कहा—इसके पेटमें देवद्रोही हिरण्यकशिपुका अत्यन्त प्रभावशाली वीर्य है। प्रसवपर्यन्त यह मेरे पास रहे, बालक हो जानेपर उसे मारकर मैं इसे छोड़ दूँगा॥ ९॥
वीरराघवः
इत्युक्त आहेन्द्रः - आस्त इति । अस्याः जठरे कुक्षावविषह्यमस्माभिः सोढुमशक्यं सुरद्विषो हिरण्यकशिपो वीर्यं गर्भरूपेण वर्धमानमास्ते 18तिष्ठति, अतोऽनया प्रसवपर्यन्तमास्यताम् मत्समीपे स्थीयताम् । ततश्च अर्थस्य पदवीं मार्गं गतस्सन् मोक्ष्ये जातं पुत्रं हत्वा एनां त्यजामीत्यर्थः ॥ ९ ॥
श्लोक-१०
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
अयं निष्किल्बिषः साक्षान् महाभागवतो महान्।
त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली॥
मूलम्
19सोऽयं निष्किल्बिषः साक्षान्महाभागवतो महान्।
त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली॥ १० ॥
अनुवाद (हिन्दी)
नारदजीने कहा—‘इसके गर्भमें भगवान्का साक्षात् परम प्रेमी भक्त और सेवक, अत्यन्त बली और निष्पाप महात्मा है। तुममें उसको मारनेकी शक्ति नहीं है’॥ १०॥
वीरराघवः
एवमुक्तो देवर्षिराह - सोऽयमिति । सोऽयं गर्भस्थ शिशुः त्वया हन्त्रा संस्थां मरणं न प्राप्स्यते । तत्र हेतुं वदन् तमिमं विशिनष्टि - निष्किल्बिषः मरणनिमित्तप्राचीनकिल्बिषरहितः । तत्कुतः ? महाभागवतः भगवद्भक्त्यैव ध्वस्तकिल्बिष इति भावः । महागुणै श्रेष्ठः, अनन्तस्य भगवतोऽनुचरः बली महाबलसम्पन्नः । यद्यपि गर्भस्थ दशायां स्वानुग्रहात्पूर्वं न भागवतत्वादयोधर्मास्तथाऽपि समनन्तरमेव स्वेनाऽनुग्रहीष्यमाणस्य पुनर्जन्मकाले “जायमानं हि पुरषं यं पश्येत्" (भार. मो 12-336-68) इत्युक्तरीत्या भगवता 20ईक्षिष्यमाणस्य उक्तधर्मान्वय इत्यभिप्रायेण निष्किल्बिष इत्यादीनि विशेषणान्युक्तानि । ननु इन्द्रेण मुक्तां प्रति स्वोपदेशे सति तद्गर्भस्थस्योक्तधर्मसम्पत्तिः । तस्य तद्धर्मसम्पत्तौ हि तद्धेतुकस्तत्त्यागः इतीतरेतराश्रयत्वमिति कथं देवर्षिणैवमुक्तमिति चेत् मैवं, गर्भस्थं नितरामीश्वरकटाक्षविषयमत एव “ईश्वरस्य च सौहार्दं यदृच्छासुकृतं तथा । विष्णोः कटाक्ष अद्वेष आनुकूल्यञ्च सात्त्विकैः, सम्भाषणं षडेतानि ह्याचार्यप्राप्तिहेतवः” इत्युक्तहेतुषट्कसम्पन्नं दैवज्ञो देवर्षिरालक्ष्य त्वयैतस्याममुच्यमानायामप्यहमुक्तधर्मयुक्तं नूनं करवाणि, अतोऽयं त्वया संस्थां न प्राप्स्यतीत्युक्तवानिति नेतरेतराश्रयः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन्वचः।
अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ॥
मूलम्
इत्युक्तस्तां विहायेन्द्रो देवर्षेन्मानयन्वचः।
अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ॥ ११ ॥
अनुवाद (हिन्दी)
देवर्षि नारदकी यह बात सुनकर उसका सम्मान करते हुए इन्द्रने मेरी माताको छोड़ दिया। और फिर इसके गर्भमें भगवद्भक्त है, इस भावसे उन्होंने मेरी माताकी प्रदक्षिणा की तथा अपने लोकमें चले गये॥ ११॥
वीरराघवः
इति इत्थं उक्त इन्द्रो देवर्षेर्नारदस्य वचो मानयन् गौरवादभ्युपगच्छन् तां राजमहिषीं विहाय अनन्तस्य भगवतः प्रियो योऽहं तस्य मम भक्त्या एनां मन्मातरं परिक्रम्य प्रदक्षिणीकृत्य दिवं प्रति ययौ ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
ततो नो मातरमृषिः समानीय निजाश्रमम्।
आश्वास्येहोष्यतां वत्से यावत् ते भर्तुरागमः॥
अनुवाद (हिन्दी)
इसके बाद देवर्षि नारदजी मेरी माताको अपने आश्रमपर लिवा गये और उसे समझा-बुझाकर कहा कि—‘बेटी! जबतक तुम्हारा पति तपस्या करके लौटे, तबतक तुम यहीं रहो’॥ १२॥
वीरराघवः
ततः ऋषिर्नारदः मम मातरं स्वाश्रमं प्रति समानीय सम्यगनायासेन उन्नीय गमयित्वा आश्वास्य सान्त्वयित्वा हे ! वत्से बाले ! तव भर्तुर्यावदागमः तावत्पर्यन्तं त्वया इह अस्मिन् मदाश्रमे उष्यतां स्थीयतामित्युवाच इति शेषः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
तथेत्यवात्सीद् देवर्षेरन्ति साप्यकुतोभया।
यावद् दैत्यपतिर्घोरात् तपसो न न्यवर्तत॥
मूलम्
तथेत्यवात्सीद्देवर्षेरन्ति साऽऽप्यकुतोभया।
यावद्दैत्यपतिर्घोरात्तपसो नन्यवर्तत॥ १३ ॥
अनुवाद (हिन्दी)
‘जो आज्ञा’ कहकर वह निर्भयतासे देवर्षि नारदके आश्रमपर ही रहने लगी और तबतक रही, जबतक मेरे पिता घोर तपस्यासे लौटकर नहीं आये॥ १३॥
श्लोक-१४
विश्वास-प्रस्तुतिः
ऋषिं पर्यचरत् तत्र भक्त्या परमया सती।
अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये॥
मूलम्
ऋषिं पर्यचरत्तत्र भक्त्या परमया सती।
अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये॥ १४ ॥
अनुवाद (हिन्दी)
मेरी गर्भवती माता मुझ गर्भस्थ शिशुकी मंगलकामनासे और इच्छित समयपर (अर्थात् मेरे पिताके लौटनेके बाद) सन्तान उत्पन्न करनेकी कामनासे बड़े प्रेम तथा भक्तिके साथ नारदजीकी सेवा-शुश्रूषा करती रही॥ १४॥
वीरराघवः
तत्तस्तेथेत्यङ्गीकृत्य सा मन्माता देवर्षेरन्तिके समीपे नास्ति कुतोऽपि भयं यस्यास्तादृशी अवात्सी दुषितवती । दैत्यपतिरुग्रात्तपसो यावन्न न्यवर्तत, तावत्सती मन्माता अन्तर्वत्री गर्भिणी स्वगर्भस्य क्षेमाय रक्षणाय इच्छया स्वभर्तुरागमनानन्तरं प्रसूत ये च परमया भक्त्या ऋषिं नारदं पर्यचरत् शुश्रूषितवती ॥ १३, १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः।
धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम्॥
मूलम्
ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः।
धर्मस्य तत्त्वं ज्ञानञ्च मामप्युद्दिश्य निर्मलम्॥ १५ ॥
अनुवाद (हिन्दी)
देवर्षि नारदजी बड़े दयालु और सर्वसमर्थ हैं। उन्होंने मेरी माँको भागवतधर्मका रहस्य और विशुद्ध ज्ञान—दोनोंका उपदेश किया। उपदेश करते समय उनकी दृष्टि मुझपर भी थी॥ १५॥
वीरराघवः
ततस्तां देवर्षिरनुजग्राहेत्याह - ऋषिरिति । ईश्वरः समर्थऋषिः तस्याः परिचरन्त्याः मन्मातुममिप्युद्दिश्य निर्मलं धर्मस्य तत्त्वं, ज्ञानञ्चेत्युभयं प्रादात् । धर्मो भगवद्भक्तियोगलक्षणः तस्य तत्त्वं याथात्म्यं, तदङ्गभूतं ज्ञानं देहविविक्त प्रत्यगात्मयाथात्म्यज्ञानञ्च प्रादात् उपदिष्टवान् इत्यर्थः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
तत्तु कालस्य दीर्घत्वात् स्त्रीत्वान्मातुस्तिरोदधे।
ऋषिणानुगृहीतं मां नाधुनाप्यजहात् स्मृतिः॥
मूलम्
तत्तु कालस्य दीर्घत्वात् स्त्रीत्वान्मातुस्तिरोदधे।
ऋषिणाऽनुगृहीतं मां नाऽधुनाऽप्यजहात्स्मृतिः॥ १६ ॥
अनुवाद (हिन्दी)
बहुत समय बीत जानेके कारण और स्त्री होनेके कारण भी मेरी माताको तो अब उस ज्ञानकी स्मृति नहीं रही, परन्तु देवर्षिकी विशेष कृपा होनेके कारण मुझे उसकी विस्मृति नहीं हुई॥ १६॥
वीरराघवः
तद्दशायामुपदिष्टं तदुभयं मम मातुः स्त्रीत्वात् कालस्य दीर्घत्वाच्च तिरोदधे, विस्मृतमभूदित्यर्थः । ऋषिणा भगवता नारदेनाऽनुग्रहीतं मान्तु सा स्मृतिः तदुपदेशजनितं स्मृत्यात्मकं ज्ञानमधुनाऽपि नाजहात् नतत्याज ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
भवतामपि भूयान्मे यदि श्रद्दधते वचः।
वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा॥
मूलम्
भवतामपिभूयान्मे यदि श्रद्दधते वचः।
वैशारदी धीः श्रद्धातः स्त्रीबालानाञ्च मे यथा॥ १७ ॥
अनुवाद (हिन्दी)
यदि तुमलोग मेरी इस बातपर श्रद्धा करो तो तुम्हें भी वह ज्ञान हो सकता है। क्योंकि श्रद्धासे स्त्री और बालकोंकी बुद्धि भी मेरे ही समान शुद्ध हो सकती है॥ १७॥
वीरराघवः
तदेवं “प्रह्लाद त्वम्" इत्यादिना यद्दैत्यकुमारैः पृष्टं तस्योत्तरमुक्तम् । अथैतत्सत्सम्प्रदायागतधर्मस्वरूपज्ञानजिघृक्षा वर्तते चेत् भवतां मदनुग्रहेण तदुभयं सम्पत्स्यत इत्याह- भवतामिति । यदि भवन्नो मद्वचः श्रद्दधते मदुक्तार्थग्रहणद्दृढीकारविषये त्वरायुक्ताश्चेत् भवतामपि तदुभयं भूयात् । श्राद्धामन्तरेणोपदिष्टमपि तत्त्वं न प्रतिष्ठितं भवतीत्याह-वैशारदीति । वैशारदी निपुणतरा धीः तत्त्वविषया बुद्धिः स्त्रीणां बालानाञ्च श्रद्धात् एव भूयात् नतु तां विनेत्यर्थः । तत्र दृष्टान्तः - मे यथेति । यथा श्रद्धावतो मम वैशारदी बुद्धिरभूत् श्रद्धारहिताया मन्मातुर्नाभूत् । एवं सर्वेषां बालानां स्त्रीणाञ्च श्रद्धात एवं ज्ञानं प्रतिष्ठितं भवति अन्यथा मन्मातुरिव अप्रतिष्ठितमित्यर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः।
फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना॥
मूलम्
जन्माद्याः षडिमे भावाः दृष्टा देहस्य नाऽऽत्म23नः।
फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना॥ १८ ॥
अनुवाद (हिन्दी)
जैसे ईश्वरमूर्ति कालकी प्रेरणासे वृक्षोंके फल लगते, ठहरते, बढ़ते, पकते, क्षीण होते और नष्ट हो जाते हैं—वैसे ही जन्म, अस्तित्वकी अनुभूति, वृद्धि, परिणाम, क्षय और विनाश—ये छः भाव-विकार शरीरमें ही देखे जाते हैं, आत्मासे इनका कोई सम्बन्ध नहीं है॥ १८॥
वीरराघवः
तदेवं तेषां श्रद्धामुत्पाद्य श्रद्धायुक्तान् शुश्रूषन्दैत्यकुमारानालक्ष्य तेभ्यो भगवद्भक्तियोगमुपदिदिक्षुस्तावत्तदङ्गभूतप्रकृतिवियुक्तात्मयाथात्म्यज्ञानयोगमुपदिशति जन्माद्या इत्यादिना । तावज्जीवात्मस्वरूपं देहाद्विलक्षणं विवक्षुर्देहधर्मानाह-जन्माद्या इति । ईश्वरो गुणपरिणामापादनसमर्था मूर्तिराकारो यस्य तेन कालेन निमित्तभूतेन “जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यति” इत्येवंरूपा इमे षड्भावविकाराः दृष्टाः प्रत्यक्षमुपलभ्यमानाः देहस्यैव धर्माः, नाऽत्मनः, यथा वृक्षे सत्येव फलानां जन्मादयो दृश्यन्ते न वृक्षस्य, तद्वत् आत्मन्येकरूपत्वेनैवाऽवस्थिते अस्य देहस्य दृष्टा इत्यर्थः । आत्मव्यतिर्क्तस्य स्थिरस्य एकरूपस्य वस्तुनोऽभावात्, कथञ्चित्प्रदर्शनार्थमस्थिरः षड्भावविकारवानपि वृक्ष आत्मस्थानीयत्वेन दर्शितः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः।
अविक्रियः स्वदृग् हेतुर्व्यापकोऽसङ्ग्यनावृतः॥
मूलम्
आत्मा नित्योऽव्ययश्शु24द्धः एकः क्षेत्रज्ञ आश्रयः।
अविक्रियः स्वदृ25क् हेतुःव्यापकोऽसङ्ग्यनावृतः॥ १९ ॥
अनुवाद (हिन्दी)
आत्मा नित्य, अविनाशी, शुद्ध, एक, क्षेत्रज्ञ, आश्रय, निर्विकार, स्वयंप्रकाश, सबका कारण, व्यापक, असंग तथा आवरणरहित है॥ १९॥
वीरराघवः
तदेवं देहधर्मैः तद्वैलक्षण्येन आत्मनो देहाद्भेदो दर्शितः । अथ स्वधर्मैरेवाऽत्मनो देहाद्भेदमाह आत्मेति । आत्मेति विशेष्यनिर्देश्यः, आत्मा प्रत्यगात्मा नित्यः उत्पत्तिविनाशरहितः, अव्ययः अपक्षयहितः अविक्रियः अवशिष्टभावत्रयरहितः । यद्यपि “दृष्टा देहस्य नाऽऽत्मनः” इत्यनेनैव षड्भावविकारराहित्यमुक्तम्, तथापि फलानामिव वृक्षस्येति दृष्टान्तबलाद्यथाफलगतोत्पत्त्याद्यनाश्रयस्यापि वृक्षस्य स्वगतोत्पत्त्याद्याश्रयत्वं, एवं देहगतोत्पत्त्याद्याश्रयत्वाभावेऽपि स्वगतोत्पत्त्याद्यन्तराश्रयत्वं प्रसक्तं, तदनेन निषिध्यते । एवञ्च स्वतोऽन्यतो वा षड्भावविकाररहित इति फलितम् । शुद्धः प्राकृतरागादिगुणैरकलुषितस्वरूपः, एकः ज्ञानैकाकारतया सर्वेषु देहेषु एकरूपः, “एको व्रीहिः” इतिवज्जात्यभिप्रायक एकत्वव्यपदेशः, नतु व्यक्त्येकत्वाभिप्रायकः, आत्मव्यक्तिबहुत्वस्य बहुप्रमाणप्रतिपन्नत्वात् । क्षेत्रं शरीरं जानातीति तथा । ममेदं शरीरमिति जानन्नित्यर्थः । अनेन ज्ञानाश्रयत्वमुक्तम् । स्वदृक् स्वं पश्यतीति स्वदृक् स्वस्मै भासमानः, अनेन ज्ञानस्वरूपत्वमुक्तम् । आश्रयः देहेन्द्रियादीनामाधारो हेतुर्देहेन्द्रियाणां व्यापारहेतुः व्यापकः, धर्मभूतज्ञानेन व्यापकस्वरूपस्याणुत्वात् । असङ्गी जीवान्तेरण सम्बन्धरहितः । अनावृतः स्वरूपस्वभावतिरोधनरहितः, इदं मुक्त्यवस्थं स्वाभाविकं जीवात्मस्वरूपम् । यद्वा-अनावृतः स्वरूपतिरोधानरहितः बद्धदशायामपि धर्मभूतज्ञानस्यैव कर्मणा तिरोहितत्वात् । देहस्त्वनित्यः, व्ययवानशुद्धः देवमनुष्यादिरूपेण नानाविधः ज्ञानानाश्रयोऽन्येषां यावत्सत्तम् । अनाश्रयः विरागहेतुर्व्याप्यः पितृपुत्रत्वादिसम्बन्धवान् सङ्कोचभाक् चेति भावः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः।
अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत्॥
मूलम्
एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः।
अहं ममेत्य26सद्भावं देहादौ मोहजं त्यजेत्॥ २० ॥
अनुवाद (हिन्दी)
ये बारह आत्माके उत्कृष्ट लक्षण हैं। इनके द्वारा आत्मतत्त्वको जाननेवाले पुरुषको चाहिये कि शरीर आदिमें अज्ञानके कारण जो ‘मैं’ और ‘मेरे’ का झूठा भाव हो रहा है, उसे छोड़ दे॥ २०॥
वीरराघवः
अस्त्वेवं देहात्मनोः परस्परवैधर्म्यं ततः किम् ? अत आह-एतैरिति । विद्वानित्थं देहात्मनार्याथात्म्यवित् एतैरुक्तैर्द्वादशभिरात्मनोलक्षणैः परैः 27देहात् उत्कृष्टत्वापादकैः देहादौ, आदिशब्देन देहानुबन्धिपुत्रादिसङ्ग्रहः । अहं, ममेत्यसदभिमानं मोहजमज्ञानजं त्यजेत् । देहात्माभिमानादिकं त्यक्त्वा उक्तलक्षणलक्षितात्मस्वरूपावलोकनपरो भवेदिति भावः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
स्वर्णं यथा ग्रावसु हेमकारः
क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात्।
क्षेत्रेषु देहेषु तथाऽऽत्मयोगै-
रध्यात्मविद् ब्रह्मगतिं लभेत॥
मूलम्
स्वर्णं यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात्।
क्षेत्रेषु देहेषु तथाऽऽत्मयोगैरध्यात्मविद्ब्रह्मगतिं लभेत॥ २१ ॥
अनुवाद (हिन्दी)
जिस प्रकार सुवर्णकी खानोंमें पत्थरमें मिले हुए सुवर्णको उसके निकालनेकी विधि जाननेवाला स्वर्णकार उन विधियोंसे उसे प्राप्त कर लेता है, वैसे ही अध्यात्मतत्त्वको जाननेवाला पुरुष आत्मप्राप्तिके उपायोंद्वारा अपने शरीररूप क्षेत्रमें ही ब्रह्मपदका साक्षात्कार कर लेता है॥ २१॥
वीरराघवः
ततोऽपि किमत आह-स्वर्णमिति । यथा हेमकारः तदभिज्ञो हेमप्रकृतीनां ग्राव्णामभिज्ञः प्रथमं क्षेत्रेषु हेमग्राव्णामुत्पत्तिभूमिषु योगैरन्वेषणादिभिरुपायैराप्नुयात । ग्राव्णः इति शेषः । विभक्तिविपरिणामेनानुषङ्गो वा । पश्चाद्दहनादिभिरुपायैः ग्रावसु हेमआप्नुयात् । एवं देहरूपेषु क्षेत्रेषु आत्मयोगैर्देहविलक्षणात्मयाथात्म्यविवेचनसाधनै रुपायैरात्मवित् उक्तविधात्मयाथात्म्यदर्शी पश्चात् ब्रह्मणः स्वरूपेण गुणैश्च निरतिशयबृहतः पुरुषोत्तमस्य गतिमवगतिं तद्याथात्म्यज्ञानं लभेत प्राप्नुयात् यथावस्थिततत्साक्षात्कारं लभेतेति यावत् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद् गुणाः।
विकाराः षोडशाचार्यैः पुमानेकः समन्वयात्॥
मूलम्
अष्टौ प्रकृतयः प्रोक्ता स्त्रय एव हि तद्गुणाः।
विकाराष्षोडशाऽऽचार्यैः पुमानेकस्समन्वयात्॥ २२ ॥
अनुवाद (हिन्दी)
आचार्योंने मूल प्रकृति, महत्तत्त्व, अहंकार और पंचतन्मात्राएँ—इन आठ तत्त्वोंको प्रकृति बतलाया है। उनके तीन गुण हैं—सत्त्व, रज और तम तथा उनके विकार हैं सोलह—दस इन्द्रियाँ, एक मन और पंचमहाभूत। इन सबमें एक पुरुषतत्त्व अनुगत है॥ २२॥
वीरराघवः
एवं ज्ञानयोगस्य भगवत्साक्षात्कारावहभक्तियोगाङ्गत्वमुक्तम् । “एतैर्द्वादशभिः” इत्यादिनोक्तासद्भावत्यागप्रकारम् “क्षेत्रेषु देहेषु तथाऽऽत्मयोगैः” इत्युक्तमेव देहविलक्षणात्मस्वरूपविमर्शनञ्च सप्रकारं प्रपञ्चयति - अष्टावित्यादिभिः पञ्चभिः । तावदष्टौ प्रकृतयः -“भूमिरापोऽनलोवायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा" (भ.गी. 7-4) इत्यक्तुरीत्या ऊक्ता अष्टौ प्रकृतयः । अत्र भूम्यादिशब्दैः गन्धादितन्मात्रसहितानि पृथिव्यादीन्युच्यन्ते । बुद्धिशब्देन महत्तत्त्वं, त्रयः सत्त्वादयस्तद्गुणाः प्रकृतिगुणा एव न त्वात्मनो गुणाः । षोडश विकारा विकृतयः तेच कर्म ज्ञानोभयेन्द्रियाणि दश, पञ्च प्राणाः बुद्धिश्चित्त वा एकं सम्भूय षोडश आचार्यैः गीताचार्यादिभिः प्रोक्ताः । पुमानेक एकस्मिन् शरीरे एकः पुमान् जीवः प्रोक्तः । कुतः ? समन्वयात् । एवमेव हि प्रतिशरीरं नियमेन सुखदुःखप्रतिसन्धान जीवेश्वर बद्ध मुक्त शिष्याचार्यज्ञत्वादिव्यवस्थायाः समन्वयादुपपत्तिरिति भावः । सर्वशरीरेषु जीवैकत्वे उक्तविधा व्यवस्था दुर्घटा स्यादिति भावः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
देहस्तु सर्वसंघातो जगत् तस्थुरिति द्विधा।
अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत् त्यजन्॥
मूलम्
देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा।
अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्त्यजन्॥ २३ ॥
अनुवाद (हिन्दी)
इन सबका समुदाय ही देह है। यह दो प्रकारका है—स्थावर और जंगम। इसीमें अन्तःकरण, इन्द्रिय आदि अनात्मवस्तुओंका ‘यह आत्मा नहीं है’—इस प्रकार बाध करते हुए आत्माको ढूँढ़ना चाहिये॥ २३॥
वीरराघवः
देहस्तु सर्वसङ्घातः प्रकृतिविकृतिसर्वसङ्घातात्मकः । सच जगज्जङ्गमः, तस्थुः स्थावरश्चेति द्विविधः । एवं वस्तुस्थितिरिति भावः । अस्त्वेवं 28प्रस्तुतस्यात्मविवेचनस्य किमायातम् ? तवाह-अत्रैवेति । अत्रैव देह एव पुरुषः प्रत्यगात्मा मृग्यः विवेचनीयः कथं किं कुर्वन् ? नेति नेतीति इति शब्दः प्रत्यक्षदृष्टप्रकारद्योतकः, इति नेति एवं विधो न भवति, गन्धवान् 29न भवति, रसवान् 30न भवति, रूपवान् 31न भवति इत्येवं प्रकारेणेत्यर्थः । अतत् आत्मव्यतिरिक्तं यद्यत्पृथिव्या वस्तु तत्त्यजन्, तस्मिन्नात्मबुद्धिमकुर्वन् तद्विलक्षणः आत्माऽन्वेषणीयः इत्यर्थः । अनेन “अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत्" इत्युक्तं विवृतं भवति ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
अन्वयव्यतिरेकेण विवेकेनोशताऽऽत्मना।
सर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः॥
मूलम्
अन्वयव्यतिरेकेण विवेके32नोशताऽऽत्मना।
सर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः॥ २४ ॥
अनुवाद (हिन्दी)
आत्मा सबमें अनुगत है, परन्तु है वह सबसे पृथक्। इस प्रकार शुद्ध बुद्धिसे धीरे-धीरे संसारकी उत्पत्ति, स्थिति और उसके प्रलयपर विचार करना चाहिये। उतावली नहीं करनी चाहिये॥ २४॥
वीरराघवः
“तथाऽऽत्मयोगः” इत्युक्तानात्मयोगान्विवृण्वन् तैर्मृग्यते इत्याह-अन्वेयेति । अन्वयव्यतिरेकेण - अन्वयेन व्यतिरेकेण च अहं जानामीच्छामि द्वेष्मीत्येतं बुद्धीच्छादीनां ज्ञानरूपाणां ज्ञातर्यहमथे एवान्वयेन व्यतिरेकेण मम शिरः पाणिः पाद इति सर्वावयवेभ्यो व्यतिरेकप्रतीत्या चेत्येवंरूपेण विवेकेन अनात्मनो विभागेन उशता निर्मूलेनाऽत्मना अहम्ममेति प्रतीयमानेनात्मना अहम्प्रतीत्या चेत्यर्थः । सर्गस्थानसमाम्रायैः सर्गस्थित्यादिपरवेदान्तवाक्यार्थानुसन्धानैरैतैरुपायैर्देहादिभ्यः परमात्मानं विमृशद्भिरसत्वरैः अव्यग्रचित्तैः पुम्भिरात्मा मृग्य इति पूर्वेणान्वयः । “सन्मूलाः सौम्येमाः सर्वाः प्रजाः" (छान्दो. उ. 6-8-8) इत्यादि सर्गस्थानादि समाम्नायार्थानुसन्धानैरित्युक्तेभ्योऽन्येऽप्यात्म विमर्शनोपायाः परमात्मशेषत्वतच्छरीरत्वादयोऽवगता भवन्तीत्यभिप्रायेण सर्गस्थान समाम्नायैरित्युक्तम् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः।
ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः॥
मूलम्
बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः।
ता येनैवाऽनुभूयन्ते सोध्यक्षः पुरुषः परः॥ २५ ॥
अनुवाद (हिन्दी)
जाग्रत्, स्वप्न और सुषुप्ति—ये तीनों बुद्धिकी वृत्तियाँ हैं। इन वृत्तियोंका जिसके द्वारा अनुभव होता है—वही सबसे अतीत, सबका साक्षी परमात्मा है॥ २५॥
वीरराघवः
अन्यानपि तद्विमर्शनोपायान् वदंस्तैः प्रत्यगात्मस्वरूपंदेहविलक्षणमवगच्छेदित्याह-बुद्धेरिति । जागरणं, स्वप्रः सुषुप्तिरिति एतास्तिस्रो बुद्धेर्वृत्तयः व्यापाराः । ताः वृत्तयो येनैवाऽनुभूयन्ते स एव परः देहेन्द्रियबुद्ध्यादिभ्योऽन्यः अध्यक्षो देहादीनां द्रष्टा धारको वा पुरुषः प्रत्यगात्मा । जागरणं नाम बाह्येन्द्रियव्यापारानुविद्धा बुद्धिवृत्तिः । स्वप्रस्तदननुविद्धा, सुषुप्तिर्बुद्धिवृत्त्युपरमः । तदुपरमोऽपि तत्सम्बन्ध्येवेति बुद्धेर्वृत्तय इत्युक्तम् । एतद्वृत्तित्रयजाज्ञानाश्रयत्वेन यः प्रतीयते स प्रत्यगात्मेति भावः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः।
स्वरूपमात्मनो बुध्येद् गन्धैर्वायुमिवान्वयात्॥
मूलम्
एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः।
33स्वरूपमात्मनो बुध्ये34द्गन्धैर्वायु35मिवान्वयात्॥ २६ ॥
अनुवाद (हिन्दी)
जैसे गन्धसे उसके आश्रय वायुका ज्ञान होता है, वैसे ही बुद्धिकी इन कर्मजन्य एवं बदलनेवाली तीनों अवस्थाओंके द्वारा इनमें साक्षीरूपसे अनुगत आत्माको जाने॥ २६॥
वीरराघवः
एतदेव सदृष्टान्तं विशदयन्नेवमादिभिरुपायैरात्मस्वरूपं बुध्येदित्याह एभिरिति । एभिस्त्रिवर्णैस्त्रिविधाः सत्त्वादिगुणत्रयमूलकैर्वा पर्यस्तैरस्थिरैः क्रियोद्भवैः पुण्यपापात्मककर्मनिमित्तैबुद्धिभेदैः 36बुद्धिवृत्तिभेदैः36 जागरादिभिः 37त्रिभिः उपलक्षितमात्मनः स्वरूपं विद्यात्, यथा ग्रन्धैः कुसुमादिगतैरुपलक्षितं तदाश्रयं वायुं बुध्यति तद्वत् । कुतः ? अन्वयात् जागरणाद्यवस्थात्रयेऽन्वयादनुवृत्तेः । यथा पवनात्मककर्मणा तत्तत्पङ्कजादिकुसुमादिगतं गन्धमानीय तदाश्रयतया तदन्वितं प्रवहन्तं वायुं ततः पृथग्भूतमुपलक्षते पार्थिवकुसुमादिगतस्य गन्धस्य न वायुराश्रयः, तदन्वयाञ्च वायोस्तदाश्रयत्वं, अत एव तदन्वयापाये केवलस्पर्शगुणस्य वायोरुपलम्भः, ततो गन्धात् पृथगेव वायुः स्वाभाविकस्पर्शगुण इति 38तं यथोपलक्षते38; तथा बुद्धिभेदाः न स्वभावतः आत्मगताः । तेषां स्वाभाविकत्वेऽन्यतमबुद्धिभेदेऽन्यतमस्योपलम्भप्रसङ्गः । किन्तु कर्मायत्तबुद्धिसम्बन्धप्रयुक्ततद्वृत्त्यन्वयात् तदनुभवोपलम्भः । स्वभावत एवात्मा तद्वृत्त्यनन्वित एव ततः पृथग्भूत इत्येवं तं बुद्ध्येदित्यर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः।
अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवेष्यते॥
मूलम्
एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः।
अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न 39इवाऽप्यते॥ २७ ॥
अनुवाद (हिन्दी)
गुणों और कर्मोंके कारण होनेवाला जन्म-मृत्युका यह चक्र आत्माको शरीर और प्रकृतिसे पृथक् न करनेके कारण ही है। यह अज्ञानमूलक एवं मिथ्या है। फिर भी स्वप्नके समान जीवको इसकी प्रतीति हो रही है॥ २७॥
वीरराघवः
तदेवं देहादावसद्भावत्यागप्रकारो देहविलक्षणतत्वेन आत्मविमर्शनप्रकारश्चोक्तः । अथैवम्भूतस्य प्रत्यगात्मनः कुतस्तद्देहादिसम्बन्धरूपस्संसारो यस्मिन्नसद्भाव इत्याशङ्कायां, त्रिवर्णैः क्रियोद्भवैरिति परिहारस्सूचितः । तमेव विशदयितुं स्वपरयाथात्म्यज्ञानमूलकदेहात्मभ्रमादिरूपाऽनादिमोहनिमित्तगुणकर्मसम्बन्धप्रयुक्तः संसारः तत एवा40त्मस्वरूपप्रयुक्तत्वाभावादपुरुषार्थेप्यौपाधिकत्वाद्यावदुपाधिबुद्धिसम्बन्धद्वाराऽनुवर्तते इत्याह- एतदिति एष बुद्धिसम्बन्ध एव द्वारं यस्य स संसारः स्वप्न इवाल्पास्थिरत्वात्स्वप्नतुल्यः, अत एवाऽपार्थः अपुरुषार्थोऽपि पुंसः प्रत्यगात्मनोऽर्प्यते प्राप्यते । कर्तुः पुंसः शेषत्व विवक्षया षष्ठी । पुंसा संसारः प्राप्यत इत्यर्थः । बुद्धिसंम्बन्धे हेतुं वदन् संसारं विशिनष्टि - अज्ञानमूल इति । अज्ञानं मूलं कारणं यस्य अज्ञानमूलः स्वपरयाथात्म्याज्ञानमूलकबुद्धीन्द्रियसम्बन्धनिमित्तो देहस्तदनुबन्धिरूपस्संसार इत्यर्थः । कथमुक्तविधस्यात्मनोऽज्ञानसम्बन्ध इति शङ्कां निराकुर्वन् संसारमेव विशिनष्टि गुणकर्मनिबन्धन इति । गुणकर्माधीनः सत्त्वादिगुण परिणामानुगुणकर्मपरिपाकाधीन इत्यर्थः । अयं भावः स्वभावतः सर्वे प्रत्यगात्मानः “आत्मा नित्योऽव्ययः" इत्याद्युक्तविधा अप्यनादिकर्मणा सत्त्वादिप्राकृतगुणसंसृष्टास्तत्र तत्तत्कर्मपरिपाकवशात् गुणपरिणामः ततः स्वपरयाथात्म्याज्ञानं, ततो गुणकर्मानुरूपं परमात्मसृष्टबुद्धीन्द्रियसम्बन्धः, ततो देहतदनुबन्धिसम्बन्धरूपस्संसारः, ततो देहात्माभिमानः ततः पुनः कर्म, ततः पुनर्गुणपरिणामादिरित्येवं परिवृत्तिर्यावत्कर्मोपाधि अनुवर्तते इति ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम्।
बीजनिर्हरणं योगः प्रवाहोपरमो धियः॥
मूलम्
तस्माद्भवद्भिः कर्त41व्यः कर्मणां त्रिगुणात्मनाम्।
बीजनिर्हरणं योगः प्रवाहोपरमो धियः॥ २८ ॥
अनुवाद (हिन्दी)
इसलिये तुमलोगोंको सबसे पहले इन गुणोंके अनुसार होनेवाले कर्मोंका बीज ही नष्ट कर देना चाहिये। इससे बुद्धिवृत्तियोंका प्रवाह निवृत्त हो जाता है। इसीको दूसरे शब्दोंमें योग या परमात्मासे मिलन कहते हैं॥ २८॥
वीरराघवः
यतोऽयमुक्तविधस्याऽप्यात्मनोदेहात्मभ्रमादिरूपाज्ञानमूलककर्मनिमित्तः संसारः तस्माद्भवद्भिः कर्मनिर्हरणोपायोऽनुष्ठेय इत्याह - तस्मादिति । तस्मात् संसारस्य अज्ञानमूलगुणकर्मायत्तत्वात् त्रिगुणात्मनां सत्त्वादिगुणत्रयपरिणामहेतूनां कर्मणां यद्वीजं मूलं देहात्मभ्रमादिरूपं तस्य निर्हरणं निर्हरणोपायात्मको यो योगो वक्ष्यमाणः स च धियः प्रवाहः शब्दादिविषयकं ज्ञानं तस्योपरतिरूपो भवद्भिः कर्तव्यः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
तत्रोपायसहस्राणामयं भगवतोदितः।
यदीश्वरे भगवति यथा यैरञ्जसा रतिः॥
अनुवाद (हिन्दी)
यों तो इन त्रिगुणात्मक कर्मोंकी जड़ उखाड़ फेंकनेके लिये अथवा बुद्धि-वृत्तियोंका प्रवाह बंद कर देनेके लिये सहस्रों साधन हैं; परन्तु जिस उपायसे और जैसे सर्वशक्तिमान् भगवान्में स्वाभाविक निष्काम प्रेम हो जाय, वही उपाय सर्वश्रेष्ठ है। यह बात स्वयं भगवान्ने कही है॥ २९॥
वीरराघवः
वक्ष्यमाणभगवद्भक्तियोगस्यैव बीजनिर्हरणोत्तमोपायत्वमाह-तत्रेति । तत्रावश्यं बीजनिर्हरणोपाये कर्तव्ये सति उपायसहस्राणां मध्ये अयमेवोत्तम उपायः कथितो भगवता । कोऽसौ ? यैस्साधनैर्भगवति ईश्वरे रतिरनुरागः प्रीतिरञ्जसा सुखेन यथा स्यादित्येषः स्वसाधनैरनुगृहीता भगवतिरतिरित्येष एव उत्तम उपाय इति- “नाऽहं वैदैर्न तपसा न दनेन न चेज्यया । भक्त्यात्वनन्वया शक्य अहमेवं विधोऽर्जुन” (भ.गी. 11-53) इति “नमे भक्तः प्रणश्यति” (भगी. 9-3) इत्यादिना तत्र तत्र भगवता प्रोक्त इत्यर्थः । रतिरित्यनेन निरतिशयप्रीतिरूपापन्ना भक्तिरुच्यते; तस्या एव साक्षाद्भगवत्प्राप्तिहेतुत्वं 43संसारनिवर्तकत्वञ्च 44सूच्यते ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च।
सङ्गेन साधुभक्तानामीश्वराराधनेन च॥
मूलम्
गुरुशुश्रूषया भक्त्या सर्व45लाभार्पणेन च।
सङ्गेन साधुभक्तानामीश्वराराधनेन च॥ ३० ॥
वीरराघवः
सा च कैस्साधनैर्निष्पद्यते इत्यपेक्षायां साधनानि वदं स्तैरुपकृतेन ध्यानयोगेन निष्पद्यत इत्याह-46गुरु शुश्रूषयेत्यादिभि46श्चतुर्भिः । गुरुशुश्रूषया गुरूणां परिचर्यया, गुरुभ्यस्तत्त्वश्रवणेच्छया वा, भक्त्या गुरूणां भक्त्या उपासनेन सर्वेषां गुर्वपेक्षितानां मध्ये लाभः लभ्यत इति लाभः, स्वस्य सुलभं यत्तस्य समर्पणेन, यथाशक्ति तदपेक्षितसमर्पणेनेत्यर्थः । साधु यथा भवति तथा भगवद्भक्तानां सङ्गेन साधवः 47क्रोधमात्सर्यलोभाशुभमतिराहित्यरूप47 साधुलक्षणलक्षिताः 48भक्ताः तेषां सङ्गेन वा ईश्वराराधनेन अर्चाविग्रहाराधनेन, हृदयकोमलस्थस्य मानसोपचारैराराधनेन वा, अर्हणादिभिरित्यर्चाऽऽराधनस्य वक्ष्यमाणत्वात् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम्।
तत्पादाम्बुरुहध्यानात् तल्लिङ्गेक्षार्हणादिभिः॥
मूलम्
श्रद्धया तत्कथायाञ्च कीर्तनैर्गुणकर्मणाम्।
त49त्पादाम्बुरुहध्यानात् तल्लिङ्गेक्षार्हणादिभिः॥ ३१ ॥
अनुवाद (हिन्दी)
गुरुकी प्रेमपूर्वक सेवा, अपनेको जो कुछ मिले वह सब प्रेमसे भगवान्को समर्पित कर देना, भगवत्प्रेमी महात्माओंका सत्संग, भगवान्की आराधना, उनकी कथावार्तामें श्रद्धा, उनके गुण और लीलाओंका कीर्तन, उनके चरणकमलोंका ध्यान और उनके मन्दिरमूर्ति आदिका दर्शन-पूजन आदि साधनोंसे भगवान्में स्वाभाविक प्रेम हो जाता है॥ ३०-३१॥
वीरराघवः
तत्कथायाम् 50ईश्वरकथायां50 श्रद्धया श्रवणासक्त्या ईश्वरस्य गुणानां 51कर्मणां कीर्तनैः तस्येश्वरस्य 52पादाम्बुजयोर्ध्यानात् तल्लिङ्गस्य अर्चाविग्रहस्य ईक्षणार्हणादिभिर्दर्शनपूजादिभिः, आदिशब्देन प्रणामपरिक्रमादि सङ्ग्रहः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः।
इति भूतानि मनसा कामैस्तैः साधु मानयेत्॥
मूलम्
हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः।
इति भूतानि मनसा कामैस्तैः साधु मानयेत्॥ ३२ ॥
अनुवाद (हिन्दी)
सर्वशक्तिमान् भगवान् श्रीहरि समस्त प्राणियोंमें विराजमान हैं—ऐसी भावनासे यथाशक्ति सभी प्राणियोंकी इच्छा पूर्ण करे और हृदयसे उनका सम्मान करे॥ ३२॥
वीरराघवः
किञ्च, भगवानीश्वरः सर्वभूतेष्वन्तरात्मतया वर्तते, अतः सर्वाणि भूतानि भगवदात्मकानीति बुद्ध्या यथाशक्ति यथायोग्यं 53तत् तद्भूतान्यपेक्षितैः कामैः साधुमानयेत् । सम्मानयेदित्यनेन च ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे।
वासुदेवे भगवति यया संलभते रतिम्॥
अनुवाद (हिन्दी)
काम, क्रोध, लोभ, मोह, मद और मत्सर—इन छः शत्रुओंपर विजय प्राप्त करके जो लोग इस प्रकार भगवान्की साधन-भक्तिका अनुष्ठान करते हैं, उन्हें उस भक्तिके द्वारा भगवान् श्रीकृष्णके चरणोंमें अनन्यप्रेमकी प्राप्ति हो जाती है॥ ३३॥
वीरराघवः
इत्येतस्साधनैः निर्जितैः षण्णां कामक्रोधलोभमोहमदमात्सर्याणां वर्गैः भगवतीश्वरे भक्तिः क्रियते कर्तव्येत्यर्थः । भक्तिरहरहर्ध्यानम्, एवमहरहः क्रियमाणया ध्यानात्मिक56या भक्त्या प्रीत्यात्मि57कां प्रकृष्टां भावना57 लभते इत्याह वासुदेवे इति । यया अहरहः क्रियमाणया गुरुशुश्रूषादिसाधनानुगृहीतया अनुध्यानात्मिकया उत्तरोत्तर साक्षात्कारेच्छात्मकपरभक्त्यपरपर्यायया वासुदेवे भगवति रतिं परमभक्त्यपरपर्यायभूतां निरन्तरानुबुभूषात्मि58कां प्रीतिरूपां लभत इत्यर्थः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
निशम्य कर्माणि गुणानतुल्यान्
वीर्याणि लीलातनुभिः कृतानि।
यदातिहर्षोत्पुलकाश्रुगद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति॥
मूलम्
निशम्य कर्माणिगुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि।
यदाऽतिहर्षोत्पुलकाश्रुगद्ग59दं प्रोत्कण्ठ उद्गायति रौति नृत्यति॥ ३४ ॥
वीरराघवः
एवंविध भक्तियोगनिष्पत्तिलिङ्गानि वदंस्तेन परिनिष्पन्नेन भगवद्भक्तियोगेन परमात्मानं प्राप्नोतीत्याह- निशम्येति त्रिभिः । यदा भगवतो गुणानतुल्यान् अनितरसाधारणान् तथा लीलातनुभिः स्वेच्छोपात्ता प्राकृतदिव्यावतार60तनुभिः रामकृष्णादिभिः कृतानि कर्माणि चेष्टितानि च निशम्य श्रुत्वा अतिहर्षेणोद्गता उदञ्चिताः पुलकाः रोमाणि अश्रूणि आनन्दबाष्पबिन्दुवश्च तैर्गद्गदं यथा भवत्येवं प्रोत्कण्ठः मुक्तकण्ठः उद्गायति अत्युच्चैर्गायति रौति ध्वनति नृत्यति च ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
यदा ग्रहग्रस्त इव क्वचिद्धस-
त्याक्रन्दते ध्यायति वन्दते जनम्।
मुहुः श्वसन्वक्ति हरे जगत्पते
नारायणेत्यात्ममतिर्गतत्रपः॥
मूलम्
यदा ग्रहग्रस्त इव क्वचिद्धसत्याक्रन्द61तेध्यायति वन्दते जनम्।
मुहुः श्वसन्वक्ति हरे जगत्पते नारायणेत्यात्म62मतिर्गतत्रपः॥ ३५ ॥
वीरराघवः
सर्वदा च ग्रहग्रस्त इव हसति क्वचिदाक्रन्दते रोदिति क्वचिच्चध्यायति क्वचिच्चजनं भगवदात्मकं वन्दते नमस्करोति क्वचिच्च पुनः पुनः श्वसन् श्वासं मुञ्चन् गतत्रपो निर्लज्जः हे नारायण ! जगत्पते ! हरे ! इतीत्थं वक्ति वदति, तदेत्युत्तरेणान्वयः । इयमेव भक्तियोगस्य निष्पत्त्यवस्थेति भावः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
तदा पुमान्मुक्तसमस्तबन्धन-
स्तद्भावभावानुकृताशयाकृतिः।
निर्दग्धबीजानुशयो महीयसा
भक्तिप्रयोगेण समेत्यधोक्षजम्॥
मूलम्
तदा पुमान्मुक्तसमस्तबन्धनस्तद्भावभावानुसृताशयाकृतिः।
निर्दग्ध बीजानुशयो महीयसा भक्ति63प्रयोगेण समेत्यधोक्षजम्॥ ३६ ॥
अनुवाद (हिन्दी)
जब भगवान्के लीलाशरीरोंसे किये हुए अद्भुत पराक्रम, उनके अनुपम गुण और चरित्रोंको श्रवण करके अत्यन्त आनन्दके उद्रेकसे मनुष्यका रोम-रोम खिल उठता है, आँसुओंके मारे कण्ठ गद्गद हो जाता है और वह संकोच छोड़कर जोर-जोरसे गाने-चिल्लाने और नाचने लगता है; जिस समय वह ग्रहग्रस्त पागलकी तरह कभी हँसता है, कभी करुण-क्रन्दन करने लगता है, कभी ध्यान करता है तो कभी भगवद्भावसे लोगोंकी वन्दना करने लगता है; जब वह भगवान्में ही तन्मय हो जाता है, बार-बार लंबी साँस खींचता है और संकोच छोड़कर ‘हरे! जगत्पते!! नारायण’!!! कहकर पुकारने लगता है—तब भक्तियोगके महान् प्रभावसे उसके सारे बन्धन कट जाते हैं और भगवद्भावकी ही भावना करते-करते उसका हृदय भी तदाकार—भगवन्मय हो जाता है। उस समय उसके जन्म-मृत्युके बीजोंका खजाना ही जल जाता है और वह पुरुष श्रीभगवान्को प्राप्त कर लेता है॥ ३४—३६॥
वीरराघवः
तदा परिनिष्पन्नभक्तियोगावस्थायां पुमान् 64उक्तविधभक्तियोगनिष्ठः महीयसा सर्वोत्तमेन भक्तियोगरूपेणोपायेन प्रारब्धावसाने मुक्तं समस्तं बन्धनं भगवत्प्राप्तिविरोधि पूर्वोत्तरपुण्यपापात्मकाघरूपं यस्मात्तादृशो निर्दग्धो नितरां दग्धो बीजानुशयः संसृतिमूलभूत कर्मवासनात्मको यस्य तस्य भगवतो भावः प्रकारः आकृतिरित्यर्थः । तस्य भावो भावनाऽनुध्यानं तेनाऽनुकृतः आशयोऽन्तःकरणम् आकृतिर्विग्रहश्च यस्य भगवता समानरूप इत्यर्थः । अधोक्षजं भगवन्तमुपैति प्राप्नोति ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
अधोक्षजालम्भमिहाशुभात्मनः
शरीरिणः संसृतिचक्रशातनम्।
तद् ब्रह्म निर्वाणसुखं विदुर्बुधा-
स्ततो भजध्वं हृदये हृदीश्वरम्॥
मूलम्
अधोक्षजा65लम्भमिहाशुभात्मनः शरीरिणस्संसृतिचक्रशातनम्।
तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास्ततो भजध्वं हृदये हृदीश्वरम्॥ ३७ ॥
अनुवाद (हिन्दी)
इस अशुभ संसारके दलदलमें फँसकर अशुभमय हो जानेवाले जीवके लिये भगवान्की यह प्राप्ति संसारके चक्करको मिटा देनेवाली है। इसी वस्तुको कोई विद्वान् ब्रह्म और कोई निर्वाण-सुखके रूपमें पहचानते हैं। इसलिये मित्रो! तुमलोग अपने-अपने हृदयमें हृदयेश्वर भगवान्का भजन करो॥ ३७॥
वीरराघवः
उपैतु, ततः किमत आह- अधोक्षजेति । इह लोके अशुभात्मनस्तापत्रयदुःखितमनसः शरीरिणः संसृतिचक्रं, चक्रवत्परिवर्तमानानिष्टरूपा संसृतिः, तस्याश्शातनं निवर्तक मधोक्षजस्यालम्भः स्पर्शः प्राप्तिरिति यावत् । एवं भगवत्प्राप्तेरनिष्ट निवर्तकत्वमुक्तम् । अथेष्टप्रापकत्वमाह - तदधोक्षजालम्भनमेव ब्रह्मनिर्वाणसुखं ब्रह्मसम्बन्धि यन्निर्वाणं, निर्वोणो मोक्षः तद्दशायामनुभूयमानमित्यर्थः । तत्सुखं यस्मिन् तादृशम् । यद्वा, निर्वाणं निरतिशयानन्दो ब्रह्मरूपं यन्निर्वाणं तस्य सुखमनुभवरूपं यस्मिन् तादृशं बुधाः ब्रह्मविदो विदुः । यतोऽनिष्टनिवर्तनेष्टप्रापणक्षमभगवत्प्राप्तिसाधनभूतः तद्भक्तियोगः, ततो यूयं हृदये हृद्गते, अयगतौ, हृदयस्थानगते जीवे इत्यर्थः। “हृदि ह्ययमात्मा प्रतिष्ठितः” (प्रश्र 3-1-6) इति श्रुतेः । तस्मिन्नीश्वरं नियन्तृतयावस्थितं 66हृदि हृदयपुण्डरीके भगवन्तं भजध्वम् । अनेन “तमात्मस्थं येऽनुपश्यन्तिधीरास्तेषां सुखं शाश्वतं नेतरेषाम्" (गुह्यका. उ. 44) इति श्रुत्यर्थः प्रत्यभिज्ञायते ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
कोऽतिप्रयासोऽसुरबालका हरे-
रुपासने स्वे हृदि छिद्रवत् सतः।
स्वस्यात्मनः सख्युरशेषदेहिनां
सामान्यतः किं विषयोपपादनैः॥
मूलम्
कोऽतिप्रयासोऽसुरबालका हरेरुपासने स्वे हृदि छिद्रवत्सतः।
67सस्यात्मनस्सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः॥ ३८ ॥
अनुवाद (हिन्दी)
असुरकुमारो! अपने हृदयमें ही आकाशके समान नित्य विराजमान भगवान्का भजन करनेमें कौन-सा विशेष परिश्रम है। वे समानरूपसे समस्त प्राणियोंके अत्यन्त प्रेमी मित्र हैं; और तो क्या, अपने आत्मा ही हैं। उनको छोड़कर भोगसामग्री इकट्ठी करनेके लिये भटकना—राम! राम! कितनी मूर्खता है॥ ३८॥
वीरराघवः
तदेवं निरतिशयानन्तस्थिरफलभगवत्प्राप्ति साधन68तद्धर्मानुष्ठानस्य दुश्शक69त्वशङ्कानिरासं “न ह्यच्युतं प्रीणयतो बह्वायासः” (भाग 7-6-19) इत्युपक्रम्य तद्धर्मतदनुष्ठानप्रकारकथनेन तदाशङ्कां निरस्य अथैवमस्मिन् सुकरे भगवद्धर्मानुष्ठाने न कोपि प्रयास इत्युपसंहरन्, वैराग्यजननाय स्वर्गस्वाराज्याद्यर्वाचीनपुरुषार्थस्य साति शयाल्पास्थिरत्वं वक्तुं तावत् दृष्टान्ततया वैषयिकस्य ऐहिकलौकिक सुखस्य तुच्छतामाह क इति द्वाभ्याम् । हे असुरबालकाः स्वे स्वकीये 70हृत्पुण्डरीके छिद्रवदाकाशवत् सतो वर्तमानस्य सत्यस्य सत्यकामत्वादि नित्याविर्भूत गुणाष्टकाश्रयस्य आत्मनः परमात्मन अशेषदेहिनां सामान्यतः साधारणतया सख्युः “द्वा सुपर्णौ” (मुण्ड. उ. 3-1-1) इत्यादिश्रुत्युक्तसख्ययुक्तस्य हरेरुपासनेन कोवाऽतीव प्रयासः ? न कोऽपीत्यर्थः । विषयाणां शब्दादीनामुपपादनैरर्जनैः किम् ? न किमपि तेऽतितुच्छा इति भावः । छिद्रवत्सत इत्यनेन “यावान्वाऽयमाकाशस्तावानेषोऽन्तहृदय आकाशः” (छान्दो. उ. 8-1-3) इति दहरविद्योदितः भूताकाशदृष्टान्तोऽभिमतः । तत्र हि भूताकाशस्येव अग्निवायुसूर्याचन्द्रमोविद्युन्नक्षत्रादिकृत्स्नजगदाधारत्वं हृत्पुण्डरीकस्थस्य दहराकाशस्य प्रतिपादितम् । “उमा वाग्निश्च वायुश्च सूर्याचन्द्रमसौ विद्युन्नक्षत्राणि यच्चाऽस्येहाऽस्ति यच्ट नास्ति सर्वं तदस्मिन् समाहितम्” (छान्दो. उ. 8-1-3) इति । एवं हृत्पुण्डरीके दहराकाशरूपेण वर्तमानस्याऽपहतपाप्मत्वादिगुणाष्टकयुक्तस्य हरे रुपासनं सुशकमित्यभिप्राय: ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
रायः कलत्रं पशवः सुतादयो
गृहा मही कुञ्जरकोशभूतयः।
सर्वेऽर्थकामाः क्षणभङ्गुरायुषः
कुर्वन्ति मर्त्यस्य कियत् प्रियं चलाः॥
मूलम्
रायः कलत्रं पशवस्सुतादयो गृहामहीकुञ्जरकोशभूतयः।
71सर्वेऽर्थकामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः॥ ३९ ॥
अनुवाद (हिन्दी)
अरे भाई! धन, स्त्री, पशु, पुत्र, पुत्री, महल, पृथ्वी, हाथी, खजाना और भाँति-भाँतिकी विभूतियाँ—और तो क्या, संसारका समस्त धन तथा भोगसामग्रियाँ इस क्षणभंगुर मनुष्यको क्या सुख दे सकती हैं। वे स्वयं ही क्षणभंगुर हैं॥ ३९॥
वीरराघवः
“किं विषयोपपादनैः” इत्यनेन सूचितं विषयाणामल्पास्थिरत्व 72सातिशयत्वरूपं तुच्छ72त्वमुपपादयति राय इति । रायो धनानि सुतादय इत्यादिशब्देनाऽन्ये पित्रादयो देहानुबन्धिनो विवक्षिताः । मही क्षेत्रम्, आजीविकारूपं विषयो वा, कुञ्जरा गजाः, तेषां कोशः शाला, धनकोशस्य राय इत्यनेनोक्तत्वात्, भूतयः भोग्यभोगोपकरणादि समृद्धयः । सर्वे च एते अर्थकामाः काम्यमाना अर्थाः क्षणेनाल्पकालेन क्षणभङ्गुरमायुरवस्थानं येषां ते अत एव चञ्चला अस्थिरः मर्त्यस्य मरणशीलस्य पुंसः कियत् प्रियं सुखं कुर्वन्ति जनयन्ति न कियदपि सातिशयमस्थिरमल्पमेव सुखं जनयन्ति, नतु निरतिशयमनन्तं स्थितञ्चेत्यर्थः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
एवं हि लोकाः क्रतुभिः कृता अमी
क्षयिष्णवः सातिशया न निर्मलाः।
तस्माददृष्टश्रुतदूषणं परं
भक्त्यैकयेशं भजतात्मलब्धये॥
मूलम्
एवं हि लोकाः क्रतुभिः कृता अमीक्षयिष्णवस्सातिशयाननिर्मलाः।
तस्माददृष्टश्रुतदूषणं परं भ73क्त्यैकयेशंभजताऽत्मलब्धये॥ ४० ॥
अनुवाद (हिन्दी)
जैसे इस लोककी सम्पत्ति प्रत्यक्ष ही नाशवान् है, वैसे ही यज्ञोंसे प्राप्त होनेवाले स्वर्गादि लोक भी नाशवान् और आपेक्षिक—एक-दूसरेसे छोटे-बड़े, नीचे-ऊँचे हैं। इसलिये वे भी निर्दोष नहीं हैं। निर्दोष हैं केवल परमात्मा। न किसीने उनमें दोष देखा है और न सुना है; अतः परमात्माकी प्राप्तिके लिये अनन्य भक्तिसे उन्हीं परमेश्वरका भजन करना चाहिये॥ ४०॥
वीरराघवः
अथैतदृष्टान्तेन स्वर्गादेरपि सातिशयाल्पास्थिरत्वान्याह - एवं हीति । यथा रैप्रभृतिजन्यानि सुखानि तुच्छानि एवं क्रतुभिःर्यागादि कर्मभिः कृता सञ्चिता अमी स्वर्गादयो लोका अपि क्षयिष्णवो नश्वराः सातिशया न निर्मलाः अनिर्मला दुःखमिश्राश्चेत्यर्थः । अत्र “तद्यथेह कर्मचितो लोकः क्षीयते एवमेवाऽमुत्र पुण्यचितो लोकः क्षीयते, प्लवाह्येते अदृढा यज्ञरूपाः, परीक्ष्य लोकान् कर्मचितान्” (छन्दो. उ. 8-1-6) इत्यादि श्रुत्यर्थोऽभिप्रेतः । यत एवं तस्माददृष्टश्रुतदूषणं न विद्यते दृष्टं श्रुतं वा दूषणं यस्य श्रुति स्मृतिभ्यामदूषितम्; किन्तु प्रशस्तमित्यर्थः । तं भक्त्यैवोपायेनलभ्यं परं परमपुरुषमात्मलब्धये 74भजत। आत्मलाभार्थं74, आत्मनः सत्ता75यै 76इत्यर्थः । अन्यथा संसरत आत्मनोऽन्ततः स्थावरत्वादि प्राप्त्या असत्प्रायतैव स्यादिति भावः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
यदध्यर्थ्येह कर्माणि विद्वन्मान्यसकृन्नरः।
करोत्यतो विपर्यासममोघं विन्दते फलम्॥
अनुवाद (हिन्दी)
इसके सिवा अपनेको बड़ा विद्वान् माननेवाला पुरुष इस लोकमें जिस उद्देश्यसे बार-बार बहुत-से कर्म करता है, उस उद्देश्यकी प्राप्ति तो दूर रही—उलटा उसे उसके विपरीत ही फल मिलता है और निस्सन्देह मिलता है॥ ४१॥
वीरराघवः
किञ्च, वैषयिकसुखलिप्सयाकुर्वन्नपि न तत्प्राप्नोति, तद्विपरीतं दुःखमेव । अत स्तत्परित्यज्य 79भगवन्तमेव79 भजतेत्याह - तदर्थ इति । विद्वन्मानी नरः, विद्वांसमात्मानं मन्यत इति विद्वन्मानी केवल कर्ममीमांसो पचितबुद्धिरित्यर्थः । 80नरो यदर्थं यद्वैषयिकसुखार्थमिहलोके असकृद्वारंवारं कर्माणि यागादीनि करोति । स ततोऽभिलषितसुखाद्विपरीतं फलं दुःखात्मक81मेवाऽमोघमवश्यं विन्दते प्राप्नोति ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः।
सदाऽऽप्नोतीहया दुःखमनीहायाः सुखावृतः॥
अनुवाद (हिन्दी)
कर्ममें प्रवृत्त होनेके दो ही उद्देश्य होते हैं—सुख पाना और दुःखसे छूटना। परन्तु जो पहले कामना न होनेके कारण सुखमें निमग्न रहता था, उसे ही अब कामनाके कारण यहाँ सदा-सर्वदा दुःख ही भोगना पड़ता है॥ ४२॥
वीरराघवः
तदेव दर्शयति - सचेति । यः पुमाननीहायां निमित्तभूतायां वैषयिकसुखार्थव्यापारारम्भात् प्राक् निर्व्यापाराद्धेतोः सुखावृतः सुखेन व्याप्त आसीत् । स एव ईहया आरब्धेन व्यापारेण हेतुना दुःख87मेवाऽऽप्नोति स्वर्गादि सुखार्थ यागादिव्यपारेण दुःखमेवाऽऽप्रोतीत्यर्थः । भगवत्प्राप्त्यर्थ भक्तियोगानुष्ठान दशायामपि निरतिशयानन्दभगवदनुभवरूपं सुखमेव प्राप्नोति । अन्ततस्तु नित्यनिरतिशय ब्रह्मानन्दमग्नो भवति । स्वर्गाद्यर्थयागादिकं कुर्वाणस्तु जीवद्दशायां वित्ताद्यार्जनेन तदनुष्ठानप्रयासरूपं दुःखम् अन्ततस्तु सातिशयाल्पास्थिरफलरूपं स्वर्गादिकं, तन्निमित्तपुण्य क्षयेतु नरकमिति वैषम्यमभिप्रेतम् ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
कामान्कामयते काम्यैर्यदर्थमिह पूरुषः।
स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च॥
अनुवाद (हिन्दी)
मनुष्य इस लोकमें सकाम कर्मोंके द्वारा जिस शरीरके लिये भोग प्राप्त करना चाहता है, वह शरीर ही पराया—स्यार-कुत्तोंका भोजन और नाशवान् है। कभी वह मिल जाता है तो कभी बिछुड़ जाता है॥ ४३॥
वीरराघवः
किञ्च, इह लोके पुरुषो यदर्थं यस्य देहस्य प्रयोजनाय 90कामान्, काम्यन्त इति कामाः, कर्मणि घञ्, तान् शब्दादीन् कामैः, करणे घञ्, कामोत्पत्ति साधनैः कामयते इच्छति स एवतु देहः पारक्यः श्व91सृगालादिभक्ष्यः भङ्गुरो नश्वरः उपैति कदाचिद्देहिनमालिङ्गति, कदाचिच्चाऽपैति जहातीत्यर्थः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
किमु व्यवहितापत्यदारागारधनादयः।
राज्यं कोशगजामात्यभृत्याप्ता ममतास्पदाः॥
अनुवाद (हिन्दी)
जब शरीरकी ही यह दशा है—तब इससे अलग रहनेवाले पुत्र, स्त्री, महल, धन, सम्पत्ति, राज्य, खजाने, हाथी-घोड़े, मन्त्री, नौकर-चाकर, गुरुजन और दूसरे अपने कहलानेवालोंकी तो बात ही क्या है॥ ४४॥
वीरराघवः
देहस्यैवेयमवस्था, किम्पुनर्देहानुबन्धिनां दारादीनामित्याह - किमिति । देहेनैव साक्षाद्रात्मनः सम्बन्धो दारादिभिस्तु देहद्वारेति व्यवहितेत्युक्तम् । व्यवहिता ये दारादयः अगारं मन्दिरं, आदिशब्देन पशुपुत्रादयः, कोशो वस्त्रादिपेटिकाबलं चतुरङ्गयुक्तं भृत्याः परिचारकाः, एते सर्वे ममतास्मदाः ममेमे इत्यभिमान विषयः उपयन्त्यपयान्तिचेति किमुक्तव्यमित्यर्थः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः।
अनर्थैरर्थसंकाशैर्नित्यानन्दमहोदधेः॥
मूलम्
किमेतैरात्मनस्तुच्छैस्सह देहेन नश्वरैः।
अनर्थैरर्थसङ्काशैर्नित्यानन्द94रसोदधेः॥ ४५ ॥
अनुवाद (हिन्दी)
ये तुच्छ विषय शरीरके साथ ही नष्ट हो जाते हैं। ये जान तो पड़ते हैं पुरुषार्थके समान, परन्तु हैं वास्तवमें अनर्थरूप ही। आत्मा स्वयं ही अनन्त आनन्दका महान् समुद्र है। उसके लिये इन वस्तुओंकी क्या आवश्यकता है?॥ ४५॥
वीरराघवः
ननु न देहा95र्थो विषयार्थोव्यापारः, किन्तु आत्मार्थ इति चेत् तर्हि नित्यानन्दसुखरूपस्यात्मनः समुद्रस्य विप्रुडिव किमेतद्वैषयिकं सुखमित्याह - किमेतैरिति । नित्यानन्दस्स एव रसः, स एवोदकं तस्याऽऽश्रयस्याऽऽत्मनः एतैर्देहेन साकं नश्वरैः अतएव तुच्छैरल्पैर्वस्तुतोऽनर्थैः पुरुषार्थत्वशून्यैरर्थसङ्काशैः पुरुषार्थाभासैः कामैः किं प्रयोजनम् ? तदनुभवजनितं सुखमतितुच्छमित्यर्थः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
निरूप्यतामिह स्वार्थः कियान्देहभृतोऽसुराः।
निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः॥
मूलम्
निरूप्यतामिह स्वार्थः कियान्दे96हभृतोऽसुराः।
निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः॥ ४६ ॥
अनुवाद (हिन्दी)
भाइयो! तनिक विचार तो करो—जो जीव गर्भाधानसे लेकर मृत्युपर्यन्त सभी अवस्थाओंमें अपने कर्मोंके अधीन होकर क्लेश-ही-क्लेश भोगता है, उसका इस संसारमें स्वार्थ ही क्या है॥ ४६॥
वीरराघवः
किञ्चाऽत्यायासेन आर्जितमपि वैषयिक97सुखमनुभूयमानदुःखापेक्षयाऽल्पमेव, तदनुभवावसराभावादित्याह - निरूप्यतामिति । हे असुराः । इह संसारे कर्मभिः प्राचीनैः क्लिश्यमानस्य दुःख्यतः देहभृतो, निषेकादिष्ववस्थासु स्त्रीसम्भोगाद्यवस्थासु स्वार्थ उत्पन्न आनन्दः कियान्, तन्निरूप्यताम्, दुःखापेक्षया सुखमल्पमिति भावः । यद्वा निषेकादिष्ववस्थासु पितृरेतोद्वारा मातृयोनिप्रवेशप्रभृतिषु श्मशानान्ताः तासु अवस्थासु प्राचीनैः कर्मभिः क्लिश्यमानस्य, अनेन दुःखप्राचुर्यमुक्तम् ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
कर्माण्यारभते देही देहेनात्मानुवर्तिना।
कर्मभिस्तनुते देहमुभयं त्वविवेकतः॥
मूलम्
कर्माण्यारभते देही देहेनात्मानुवर्तिना।
कर्मभिस्तनुते देहमुभयन्त्वविवेकतः॥ ४७ ॥
अनुवाद (हिन्दी)
यह जीव सूक्ष्मशरीरको ही अपना आत्मा मानकर उसके द्वारा अनेकों प्रकारके कर्म करता है और कर्मोंके कारण ही फिर शरीर ग्रहण करता है। इस प्रकार कर्मसे शरीर और शरीरसे कर्मकी परम्परा चल पड़ती है। और ऐसा होता है अविवेकके कारण॥ ४७॥
वीरराघवः
ननु निषेकाद्यवस्थायाः कर्मनिमित्तत्वात् 98निश्शेषकर्मक्षये प्रभूतं सुखं स्यादित्याशङ्कां निराकर्तुमन्तरेण परमात्मोपासनं न कदाचिदपि कर्म निवर्तते इत्याह - कर्माणीति । देही आत्मानुवर्तिना देहेन तावत् कर्माणि देहान्तरारम्भकाणि पुण्यपापात्मकानि कर्माणि कुरुते, तैश्चारब्धैः कर्मभिर्निमित्तभूतैर्देहं तनुते बिभर्ति, तेन पुनः कर्माणि तैश्च पुनर्देहमित्येवं बीजाङ्कुरतुल्या परिवृत्तिर्ननिवर्तत इति न कदाचिदपि निश्शेषकर्मक्षय इति भावः । 99कुतस्त्वियं परिवृत्तिस्तत्राह99 उभयन्तु देहेन कर्माणि, कर्मभिः देहः इत्येतदुभयमविवेकतः स्वात्मपरमात्मयाथात्म्याज्ञानादेव हेतोर्भवती100त्यर्थः ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः।
भजतानीहयाऽऽत्मानमनीहं हरिमीश्वरम्॥
मूलम्
तस्मा101दर्थाश्च 102कामाश्च 103धर्माश्च 104यदपाश्रयाः।
भजतानीहयाऽऽत्मानमनीहं हरिमीश्वरम्॥ ४८ ॥
अनुवाद (हिन्दी)
इसलिये निष्कामभावसे निष्क्रिय आत्मस्वरूप भगवान् श्रीहरिका भजन करना चाहिये। अर्थ, धर्म और काम—सब उन्हींके आश्रित हैं, बिना उनकी इच्छाके नहीं मिल सकते॥ ४८॥
वीरराघवः
एवं वैराग्योदयाय ऐहि105कामुष्मिकसुखस्य अल्पास्थिरत्वादि दुःखमिश्रत्वानर्थावहत्वादिकमभिधाय, अथेश्वरं भजतां यद्यपि सर्वेपुरुषार्थास्सुलभाः, तथापि अनन्य प्रयोजनत्वेनैव तद्भजनंश्रेय इत्याह - तस्मादिति । तस्माद्देहकर्मणोः परिवृत्तिरूपसंसारस्य कदाप्यनिर्मोक्षात्, वेषयिकसुखस्याल्पत्वात् अस्थिरत्वात् दुःखमिश्रत्वात् भूयस्त्वाच्च तन्निवृत्तये निश्शङ्कं सदाहरिमाश्रितानां संसृतेर्बन्धहर ईश्वरः । अनीहया निष्कामत्वेन भजेत । हरिं विशिनष्टि - धर्माश्चार्था106श्च का107माश्च यदपाश्रयाः, य स्त्रिवर्गस्याऽपि दाता तमित्यर्थः । तथा च श्रुतिः - “इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः” (मना. उ. 1-6) इति “कोह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्” (तैत्ति. आ. 2-7 इति च।) “य आत्मदा बलदा य एको बहूनां विदधाति कामान्” (तैत्ति. सं. 4-1-8) इति च, अर्थादयो यदपाश्रया स्तं हरिमनीहया भजेतेत्यनेन समस्तपुरुषार्थदोऽप्यनीहया भजतामनर्थहेतुं संसृतिबन्धं हरति, ईहयाभजतां त्वहितमात्रमेव ददातीति सूचितं 108भवति ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः।
भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः॥
मूलम्
सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः।
भूतैर्महद्भिः स्वकृतैः कृतानां 109बीजसंज्ञितः॥ ४९ ॥
अनुवाद (हिन्दी)
भगवान् श्रीहरि समस्त प्राणियोंके ईश्वर, आत्मा और परम प्रियतम हैं। वे अपने ही बनाये हुए पंचभूत और सूक्ष्मभूत आदिके द्वारा निर्मित शरीरोंमें जीवके नामसे कहे जाते हैं॥ ४९॥
वीरराघवः
अथ दैत्यकुमाराणा सर्वेषामात्मनां भगवद्भजनेऽनधिकारशङ्कां निराकुर्वन्ननीहया भजतामेवा निष्टनिवृत्तिरिष्टप्राप्तिश्चेति स्वदृष्टान्तेनाऽऽह - सर्वेषामपीतिद्वाभ्याम् । स्वकृतैः स्वसृष्टैः महद्भिर्भूतः पृथिव्यादिभिः कृतानां सृष्टानां भूतानां दे110हादीनां सर्वेषां भगवान् बीजसंज्ञितः आदिकारणभूतः आत्मा अतएव निरतिशयप्रिय ईश्वरोऽन्तः प्रविश्य नियन्ता तावद्भगवान् सर्वेषां साधारेण इति भावः ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव च।
भजन् मुकुन्दचरणं स्वस्तिमान् स्याद् यथा वयम्॥
मूलम्
देवोऽसुरो मनुष्यो वा 111यक्षो गन्धर्व एव 112च।
भजन्मुकुन्दचरणं स्वस्तिमान् स्याद्यथा113 वयम्॥ ५० ॥
अनुवाद (हिन्दी)
देवता, दैत्य, मनुष्य, यक्ष अथवा गन्धर्व—कोई भी क्यों न हो—जो भगवान्के चरणकमलोंका सेवन करता है, वह हमारे ही समान कल्याणका भाजन होता है॥ ५०॥
वीरराघवः
अतो देवादिजातिविभागमन्तरेण यः कश्चिन्मुकुन्दचरणं भजन् स्वस्तिमान्निवृत्तानिष्टः प्राप्तेष्टश्च स्यादेव यथा वयमिति । वयमसुरा अपि भगवन्तं भजन्तः स्वस्तिमन्तोऽभूम, तथेऽतरेऽपीत्यर्थः । यथा वयमिति दृष्टान्तस्वारस्यात् भगवतः सर्वभूतसाधारण्यप्रतिपादनस्वारस्याच्च निरुपाधिकोक्तविधात्मत्वादि सम्बन्धज्ञानपूर्वकमनन्य प्रयोजनेन भजन्तः स्वस्तिमन्तो भवेयुः अन्यथातु समीहितमात्रवन्त इति सूचितम् । तथा च श्रुतिः - “नाऽन्यः पन्था अयनाय विद्यते” (पु. सू. 7) इत्यादिका ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता॥
मूलम्
नाऽलं द्विजत्वं देवत्वमृषित्वं 114चासुरात्मजाः।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता॥ ५१ ॥
वीरराघवः
तदेतदुपपादयति- नाऽलमिति द्वाभ्याम् । हे असुरात्मजाः । द्विजत्वादयो मुकुन्दस्य प्रीणनाय प्रीतिजननाय नाऽलं न प्रभवः, किन्त्वमलया अनन्य प्रयोजनया भक्त्यैव हरिः प्रीयते । अन्यत् उपायान्तरन्तु विडम्बनं नटन मात्रम् । द्विजत्वमिति वर्णाधिक्योपलक्षकम्, देवत्वमिति जात्याधिक्यस्य, ऋषित्वमित्यतीन्द्रियद्रष्टृत्वादिरूपज्ञानाधिक्यस्योपलक्षकम् । बहुज्ञतेति तु शास्त्रजन्यज्ञानाधिक्यस्य, वृत्तं पित्रादि परम्परागता सद्वृत्तिः ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
न दानं न तपो नेज्या न शौचं न व्रतानि च।
प्रीयतेऽमलया भक्त्या हरिरन्यद् विडम्बनम्॥
मूलम्
न दानं न तपो नेज्या न शौचं न व्रतानि च।
प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम्॥ ५२ ॥
अनुवाद (हिन्दी)
दैत्यबालको! भगवान्को प्रसन्न करनेके लिये ब्राह्मण, देवता या ऋषि होना, सदाचार और विविध ज्ञानोंसे सम्पन्न होना तथा दान, तप, यज्ञ, शारीरिक और मानसिक शौच और बड़े-बड़े व्रतोंका अनुष्ठान पर्याप्त नहीं है। भगवान् केवल निष्काम प्रेम-भक्तिसे ही प्रसन्न होते हैं। और सब तो विडम्बना-मात्र हैं॥ ५१-५२॥
वीरराघवः
दानं पात्रे वित्तत्यागः, तपः कृच्छादि, इज्या यागः, शौचं स्नानादिकृतं शुचित्वं, व्रतानि प्राजापत्यादीनि ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
ततो हरौ भगवति भक्तिं कुरुत दानवाः।
आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे॥
मूलम्
ततो हरौ भगवति भक्तिं कुरुत दानवाः।
आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे॥ ५३ ॥
अनुवाद (हिन्दी)
इसलिये दानव-बन्धुओ! समस्त प्राणियोंको अपने समान ही समझकर सर्वत्र विराजमान, सर्वात्मा, सर्वशक्तिमान् भगवान्की भक्ति करो॥ ५३॥
वीरराघवः
यतो भक्त्यैव भगवान्प्रीयते नोपायान्तरेण, अतो हे दानवाः, यूयमाश्रितसंसारबन्धहारिणि सर्वभूतानामन्तरात्मनि भगवति ईश्वरे भक्तिमनन्यप्रयोजनां करुत कथम्भूताः ? सर्वत्रात्मौपम्येन स्वात्मतुल्यत्वदृष्ट्या स्वस्मिन्निव ईश्वरशरीरभूतेषु सर्वेषु दययोपलक्षिताः भगवद्भक्तिं कुरुतेत्यर्थः ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः।
खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः॥
मूलम्
115दैतेया यक्षरक्षांसि115 स्त्रियश्शूद्रा व्रजौकसः।
खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः॥ ५४ ॥
अनुवाद (हिन्दी)
भगवान्की भक्तिके प्रभावसे दैत्य, यक्ष, राक्षस, स्त्रियाँ, शूद्र, गोपालक अहीर, पक्षी, मृग और बहुत-से पापी जीव भी भगवद्भावको प्राप्त हो गये हैं॥ ५४॥
वीरराघवः
किमेवं भजन्तः केऽपि मुक्ता बभूवुरित्यपेक्षायां पापजातयोऽपि केनचिद्भगवत्सम्बन्धविशेषेणमुक्ताः, किं पुनरेवं भजन्तो मुच्यन्त इति वक्तव्यमित्याशयेनाऽऽह - दैतेया इति । रक्षांसि बककेश्यादयः, स्त्रियः पूतनादयः, व्रजौकसो नन्दादयः, शूद्राश्चाणूरादयः, खगाः जटायुप्रभृतयः, मृगाः मायामृगादयः - एवं विधाः पापजीवा अपि, अच्युततां भगवत्साधर्म्यं गताः प्राप्तास्सन्ति । हीति प्रसिद्धौ । त्रिकालज्ञत्वाद्भगवता प्रह्लादे नैवमुक्तम् ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
एतावानेव लोकेऽस्मिन्पुंसः स्वार्थः परः स्मृतः।
एकान्तभक्तिर्गोविन्दे यत् सर्वत्र तदीक्षणम्॥
मूलम्
एतावानेवलोकेऽस्मिन् पुंसः116 117स्वार्थः परः स्मृतः।
एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम्॥ ५५ ॥
अनुवाद (हिन्दी)
इस संसारमें या मनुष्य-शरीरमें जीवका सबसे बड़ा स्वार्थ अर्थात् एकमात्र परमार्थ इतना ही है कि वह भगवान् श्रीकृष्णकी अनन्यभक्ति प्राप्त करे। उस भक्तिका स्वरूप है सर्वदा, सर्वत्र सब वस्तुओंमें भगवान्का दर्शन॥ ५५॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यपुत्रानुशासनं नाम सप्तमोऽध्यायः॥ ७ ॥
वीरराघवः
अध्यायद्वयोक्तार्थं निष्कृष्योपसंहरति - एतावानिति । अस्मिन् लोके पुंसां परः उत्कृष्टः, स्वार्थः पुरुषार्थः, एतावानेव । कियान् यद्गोविन्देभगवति एकान्त भक्तिरनन्यप्रयोजनाभक्तिः यच्च सर्वेषु भूतेषु तदीक्षणं गोविन्देक्षणं भगवदात्म118कत्वदर्शनम् इत्येतावानेव निरतिशयपुरुषार्थसाधनभूत इत्यर्थः ॥ ५५ ॥
इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां सममोऽध्यायः ॥ ७ ॥
-
B नाम्ता ↩︎
-
M,Ma शासनम् ↩︎
-
M,Ma द्याग ↩︎
-
A,B,G,J,M,Ma,T दिष्ट्या ↩︎
-
A,B,G,J,M,Ma,T ति ↩︎
-
A,B,G,J,T मित्रा ↩︎
-
W omit सर्वेः ↩︎
-
A,B,G,J,T रुदतीं, M,Ma रुदन्ती ↩︎
-
A,B,G,J,M,Ma,T ददृश ↩︎
-
W न्तोः ↩︎
-
H,V,W चैनां ↩︎
-
H,V,W तुं नार्हः ↩︎
-
H,M,Ma,V सीम् ↩︎
-
W omit त्वं ↩︎
-
H,V,W प्रसवोयावत् ↩︎
-
W omits तिष्ठति ↩︎
-
A,B,G,J,M,Ma,T अयं ↩︎
-
A,B,T ईक्ष्यमाणस्य ↩︎
-
A,B,G,J,M,Ma,T नो मा ↩︎
-
A,B,G,J,M,Ma,T समानीयः ↩︎
-
H,V निः ↩︎
-
H,V द्धोह्येकः ↩︎
-
M,Ma क्वश्योव्याः ↩︎
-
M,Ma त ↩︎
-
A,B,T Omit देहात् ↩︎
-
A,B,T वस्तु तः ↩︎
-
A,B,T Omit नः ↩︎
-
A,B,T Omit नः ↩︎
-
A,B,T Omit न ↩︎
-
M,Ma नागताऽऽ ↩︎
-
M,Ma सरूपः ↩︎
-
M,Ma द्धत्तेगः ↩︎
-
M,Ma रिवाः ↩︎
-
A,B Omit त्रिभिः ↩︎
-
A,B,G,J,T इवेष्यते; W इवाप्यते । ↩︎
-
A,B त्मनः स्वं ↩︎
-
A,B,G,J,T व्य ↩︎
-
W संसृति ↩︎
-
W Omits सूच्यतेः ↩︎
-
A,B,G,J,T लब्धाः ↩︎
-
W तेषां भक्तानां ↩︎
-
M,Ma तत्पः ↩︎
-
W Omits कर्मणाः ↩︎
-
W पदाम्बुरुहयोः ↩︎
-
A,B Omit तत् ↩︎
-
H,V एभिर्नि, W इति नि ↩︎
-
W यथाऽनुल ↩︎
-
A,B add उत्तरोत्तर साक्षात्कारेच्छात्मिकया भक्तिपरम्परया यथावासुदेवे ध्यानात्मिकया भक्त्या ↩︎
-
A,B add तत् ↩︎
-
M,Ma दः ↩︎
-
A,B विग्रहैः ↩︎
-
H,V ति ↩︎
-
W र ↩︎
-
H,V प्रवाहेण ↩︎
-
W Omits उक्तविध ↩︎
-
H,V,W लम्ब, M,Ma लम्ब ↩︎
-
A,B omit हृदि ↩︎
-
A,B,G,J,T स्वस्या, M,Ma अस्या ↩︎
-
A,B omit तत् ↩︎
-
W त्वा ↩︎
-
A,B हृत्पद्मे ↩︎
-
M,Ma सर्वार्थ ↩︎
-
H,V कयातंभ; M,Ma कया सम्भ ↩︎
-
A,B add भजत ↩︎
-
A,B omit इत्यर्थ । ↩︎
-
A,B,G,J,T यदध्यर्थेह, M,Ma यदर्थ मिह । ↩︎
-
H,V विद्वान्मान्यस्य, M,Ma विध्यङ्गान्यसं ↩︎
-
W Omits नरः ↩︎
-
W Omits एव ↩︎
-
This half vene is not found in W. Edition. ↩︎
-
A,B,G,J,T कर्मिणः । ↩︎
-
H,V स आप्नो; W स चाऽऽन्तो । ↩︎
-
M,Ma,W यां ↩︎
-
M,Ma सुखोन्नतिम् । ↩︎
-
W Omits एव ↩︎
-
A,B,G,J,T,M,Ma,T यात्युपैतिच । ↩︎
-
A,B Omit कामान् ↩︎
-
A,B शृ ↩︎
-
H,V राष्ट्र । ↩︎
-
A,B,G,J,M,Ma,T गजां । ↩︎
-
A,B,G,J,M,Ma,T महा ↩︎
-
W र्थव्या ↩︎
-
W हं ↩︎
-
W कं ↩︎
-
W निषेक ↩︎
-
W Omits अर्थः ↩︎
-
W दर्थः ↩︎
-
W कामः ↩︎
-
W धर्म ↩︎
-
H,V यदु ↩︎
-
A कसुं ↩︎
-
W र्थ ↩︎
-
W मं ↩︎
-
W Omits भवति । ↩︎
-
A,B,G,H,J,V जीव ↩︎
-
A,B वा ↩︎
-
H,V रक्षो ↩︎
-
H,V वा ↩︎
-
H,V थोदयम् ↩︎
-
A,B,G,J,M,Ma,T वा ↩︎
-
M,Ma सां ↩︎
-
W स्वार्थपरः ↩︎
-
A,B Omit क ↩︎