[षष्ठोऽध्यायः]
भागसूचना
प्रह्लादजीका असुर-बालकोंको उपदेश
श्लोक-१
मूलम् (वचनम्)
प्रह्राद उवाच
विश्वास-प्रस्तुतिः
कौमार* आचरेत्प्राज्ञो धर्मान् भागवतानिह।
दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम्॥
मूलम्
कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह।
दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम्॥ १ ॥
पादटिप्पनी
- प्राचीन प्रतिमें प्रह्लादके वाक्यमें ‘कौमार आचरेत्प्राज्ञो’ इस श्लोकके पहले पाँच श्लोक और अधिक हैं। ये पाँच श्लोक भागवतके विख्यात टीकाकार श्रीविजयध्वजजीने भी माने हैं और उन्होंने उनपर टीका भी लिखी है। प्राचीन प्रतिका लेख कहीं-कहीं अस्पष्ट और खण्डित होनेके कारण ये पाँच श्लोक शुद्ध रूपमें नहीं लिये जा सके, अतः उनको विजयध्वजकी टीकाके अनुसार शुद्ध करके यहाँ उद्धृत किया जा रहा है।—
हन्तार्भका मे शृणुत वचो वः सर्वतः शिवम्।
वयस्यान् पश्यत मृतान् क्रीडान्धा मा प्रमाद्यथ॥
न पुरा विवशं बाला आत्मनोऽर्थे प्रियैषिणः।
गुरूक्तमपि न ग्राह्यं यदनर्थेऽर्थकल्पनम्॥
यदुक्त्या न प्रबुद्ध्येत सुप्तस्त्वज्ञाननिद्रया।
न श्रद्दध्यान्मतं तस्य यथान्धो ह्यन्धनायकः॥
कः शत्रुः क उदासीनः किं मित्रं चेह आत्मनः।
भवत्स्वपि नयैः किं स्याद्दैवं सम्पद्विपत्पदम्॥
यो न हिंस्याद्धर्मकाममात्मानं स्वजने वशः।
पुनः श्रीलोकयोर्हेतुः स मुक्तान्ध्योऽतिदुर्लभः॥
अनुवाद (हिन्दी)
प्रह्लादजीने कहा—मित्रो! इस संसारमें मनुष्य-जन्म बड़ा दुर्लभ है। इसके द्वारा अविनाशी परमात्माकी प्राप्ति हो सकती है। परन्तु पता नहीं कब इसका अन्त हो जाय; इसलिये बुद्धिमान् पुरुषको बुढ़ापे या जवानीके भरोसे न रहकर बचपनमें ही भगवान्की प्राप्ति करानेवाले साधनोंका अनुष्ठान कर लेना चाहिये॥ १॥
श्लोक-२
विश्वास-प्रस्तुतिः
यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम्।
यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत्॥
मूलम्
य1था हि पुरुषस्येह विष्णोः पादोपसर्पणम्।
यदेष सर्वभूतानां प्रिय आत्मेश्वरस्सुहृत्॥ २ ॥
अनुवाद (हिन्दी)
इस मनुष्य-जन्ममें श्रीभगवान्के चरणोंकी शरण लेना ही जीवनकी एकमात्र सफलता है। क्योंकि भगवान् समस्त प्राणियोंके स्वामी, सुहृद्, प्रियतम और आत्मा हैं॥ २॥
वीरराघवः
तत्र भागवतानेव धर्मानाचरेदित्यवधारणं तावदुपपादयति-यथा हीति । हि तथा हीत्यर्थः । यथाशब्दो योग्यताद्योतकः । इह मनुष्यजन्मनि विष्णोः परम2पुरुषस्य पादयोरुपसर्पणं भजनं यथायोग्यं तदेव युक्तमित्यर्थः । कुतः यद्यस्मात् एष परमपुरुषः सर्वभूतानामात्मेश्वरः अन्तःप्रविश्य प्रशासनपूर्वकं भर्ता शरीरस्याऽऽत्मानुवर्तनं युक्तमिति भावः । नन्वात्माऽपि अपुरुषार्थरूपत्वान्नाऽनुवर्तनीयोऽत आह-प्रिय इति । प्रियः इष्टतमः, निरतिशयानन्दरूप इत्यर्थः । आनन्द एव हीष्टः, स एव हि पुरुषार्थरूप इति भावः । न त्वेवम्भूतोऽपि निष्कृपत्वादनुवर्तमानान् प्रख्यापयेत्तत्राऽऽह-सुहृदिति । “एष ह्येव साधुकर्मकारयति तं यमेभ्यो लोकेभ्य उन्निनीषति" (कौ. षी. उ. 2-8) इति श्रुत्युक्तरीत्या स्वानुवृत्त्युपक्रममात्रेणाऽऽविर्भूतपरमकारुण्ययुक्त उत्तरोत्तरं स्वानुवृत्तिप्रवर्तनारूप हितकारीत्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम्।
सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः॥
मूलम्
सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम्।
सर्वत्र लभ्यते दैवा3द्यथादुःखमयत्नतः॥ ३ ॥
अनुवाद (हिन्दी)
भाइयो! इन्द्रियोंसेजो सुख भोगा जाता है, वह तो—जीव चाहे जिस योनिमें रहे—प्रारब्धके अनुसार सर्वत्र वैसे ही मिलता रहता है, जैसे बिना किसी प्रकारका प्रयत्न किये, निवारण करनेपर भी दुःख मिलता है॥ ३॥
वीरराघवः
विष्णोः पादोपसर्पणमेव युक्तमित्यनेन वैषयिकसुखसाधनयत्नो न युक्त इत्युक्तम् । तदेव सहेतुकं सदृष्टान्तञ्चोपपादयन्नहैवेत्यवधारणमप्युपपादयति-सुखमिति । हे दैत्याः ! देहिनां देहयोगेन देहसम्बन्धमात्रेण ऐन्द्रियकं सुखं सर्वत्र पश्वादिजन्मस्वपि आधुनिकयत्नमन्तरेणाऽपि दैवात्प्राचीनकर्मणैव लभ्यते । तत्र दृष्टान्तः यथाऽसुखमिति । असुखं दुःखं यथा यत्नमन्तरेणाऽपि दैवादेव लभ्यते, तथा वैषयिकं सुखमपीत्यर्थः । सर्वत्र लभ्यते इत्यनेन वैषयिकसुखलाभः सर्वजन्मसाधारणः । भगवद्धर्मलाभस्तु मनुष्यजन्मासाधारण इत्युक्तं भवति ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम्।
न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम्॥
अनुवाद (हिन्दी)
इसलिये सांसारिक सुखके उद्देश्यसे प्रयत्न करनेकी कोई आवश्यकता नहीं है। क्योंकि स्वयं मिलनेवाली वस्तुके लिये परिश्रम करना आयु और शक्तिको व्यर्थ गँवाना है। जो इनमें उलझ जाते हैं, उन्हें भगवान्के परम कल्याणस्वरूप चरणकमलोंकी प्राप्ति नहीं होती॥ ४॥
वीरराघवः
यतो वैषयिकं सुखं सर्वजन्मसाधारणं तच्च दैवादेव सुलभमसुखवत् । तस्मात्प्रयासो वैषयिकसुखप्रयासो न कर्तव्यः । एवमविजानताकृतोऽपि प्रयासः केवलमायुर्व्ययकर इत्याह-यत इति । यतो वैषयिकसुखार्थात्प्रयासात् परं केवलमायुःक्षय एव, नाऽन्यत्किञ्चिदस्ति प्रयोजनमित्यर्थः । ननु जन्मान्तरे पुनरैन्द्रियक सुखलाभाय कर्तव्य एव यत्नः । तत्राऽऽह-न-तथेति । यद्यपि कृतोऽपि तदर्थप्रयासो जन्मान्तरीयवैषयिकसुखसाधनः, तथाऽपि तथा तद्वत्क्षेमं न प्राप्नोति । कथम् ? यथा मुकुन्दचरणाम्बुजं, भजन्निति शेषः, यथा भगवच्चरणाम्बुजं भजन् पुमान् निश्शेषदुःखनिवृत्तिपूर्वकं नित्यनिरुपाधिकनिरतिशयापरिच्छिन्नब्रह्मानन्दानुभवरूपं क्षेमं प्राप्नोति तथा वैषयिकसुखार्थं यतमानस्तादृशं क्षेमं न विन्दते । किन्तु दुःखमिश्रानित्यसोपाधिकात्यल्पमिदानीमनुभूयमानसजातीयं प्राप्नोतीत्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
ततो यतेत कुशलः क्षेमाय भयमाश्रितः।
शरीरं पौरुषं यावन्न विपद्येत पुष्कलम्॥
मूलम्
ततो यतेत कुशलः क्षेमाय 5भवमाश्रितः।
शरीरं पौरुषं यावन्न विपद्येत पुष्कलम्॥ ५ ॥
अनुवाद (हिन्दी)
हमारे सिरपर अनेकों प्रकारके भय सवार रहते हैं। इसलिये यह शरीर—जो भगवत्प्राप्तिके लिये पर्याप्त है—जबतक रोग-शोकादिग्रस्त होकर मृत्युके मुखमें नहीं चला जाता, तभीतक बुद्धिमान् पुरुषको अपने कल्याणके लिये प्रयत्न कर लेना चाहिये॥ ५॥
वीरराघवः
ततः कारणाद्भवमनर्थावहं संसारमाश्रितः पुमान् कुशलः हेयोपादेयविभागकुशलस्सन् क्षेमायैव उक्तविधक्षेमार्थमेव यतेत । कौमार एवेत्युक्तमवधारणं प्रतिपादयितुं तदवतारयति - शरीरमिति । पौरुषं पुरुषस्य जीवस्य स्वस्य सम्बन्धिशरीरं यावत् पुष्कलं पटुतरमस्ति, न तु विपद्येत विपन्नं न भवति तावदेव क्षेमाय यतेतेति पूर्वेणान्वयः । बाल्यादारभ्यैव यतेतेति भावः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मनः।
निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः॥
मूलम्
पुंसो वर्षशतं ह्यायुस्त6दर्धमजितात्मनः।
निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः॥ ६ ॥
अनुवाद (हिन्दी)
मनुष्यकी पूरी आयु सौ वर्षकी है। जिन्होंने अपनी इन्द्रियोंको वशमें नहीं कर लिया है, उनकी आयुका आधा हिस्सा तो यों ही बीत जाता है। क्योंकि वे रातमें घोर तमोगुण—अज्ञानसे ग्रस्त होकर सोते रहते हैं॥ ६॥
वीरराघवः
एतदेव प्रतिपादयन् विषयासक्तस्य केवलं वृथायुर्व्ययमाह-पुंस इति । पुंसो मनुष्यस्य तावद्वर्षशतं ह्यायुः जीवनयोग्यकालः शतवर्षपरिमितः । तस्य शतवर्षपरिमितस्याऽऽयुषोऽर्धं पञ्चाशद्वर्षात्मकर्माजितेन्द्रियस्य निष्फलमेव यातीत्युत्तरेणान्वयः । नैष्फल्येन याने हेतुं वदन् पुमांसं विशिनष्टि-यदिति । यद्यस्मात् असावजितात्मा पुमान् रात्र्या मन्धतमः निद्रात्मकं प्रापित स्तृष्णी शेते । जितेन्द्रियः कौमर एवारब्धभक्तियोगरूपभगवद्ध7र्मयोगस्तु रात्र्यामपि मध्यमं यामद्वयं निद्रार्थमुपयोज्य पर्वोत्तरयोर्यामयोरनियतकालं भगवद्धर्ममाचरतीति भात्रः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः।
जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः॥
अनुवाद (हिन्दी)
बचपनमें उन्हें अपने हित-अहितका ज्ञान नहीं रहता, कुछ बड़े होनेपर कुमार अवस्थामें वे खेल-कूदमें लग जाते हैं। इस प्रकार बीस वर्षका तो पता ही नहीं चलता। जब बुढ़ापा शरीरको ग्रस लेता है, तब अन्तके बीस वर्षोंमें कुछ करने-धरनेकी शक्ति ही नहीं रह जाती॥ ७॥
वीरराघवः
एवं बाल्ये मुग्धस्य मूढस्य दशवर्षाणि कौमारे क्रीडतो दशवर्षाणीत्येवं विंशतिवर्षाणां याति । जितेन्द्रियः कुशलस्तु तस्यामपि विंशत्यां भगवद्धर्ममनुतिष्ठतीति भावः । एवमुत्तरत्राऽप्यूह्यम् । जरया ग्रस्तो देहो यस्य अत एवाऽकल्यस्य असमर्थस्य स्वानधीनदेहस्य वर्षाणां विंशतिर्याति, बाल्यात्प्रभृति आरब्धभगवद्धर्मस्तु तदभ्यासशिक्षितदेहत्वात्तस्यामपि विंशत्यां तमनुतिष्ठतीति भावः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
दुरापूरेण कामेन मोहेन च बलीयसा।
शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि॥
मूलम्
दुरापूरेण कामेन मोहेन च बलीयसा।
शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि॥ ८ ॥
अनुवाद (हिन्दी)
रह गयी बीचकी कुछ थोड़ी-सी आयु। उसमें कभी न पूरी होनेवाली बड़ी-बड़ी कामनाएँ हैं, बलात् पकड़ रखनेवाला मोह है और घर-द्वारकी वह आसक्ति है, जिससे जीव इतना उलझ जाता है कि उसे कुछ कर्तव्य-अकर्तव्यका ज्ञान ही नहीं रहता। इस प्रकार बची-खुची आयु भी हाथसे निकल जाती है॥ ८॥
वीरराघवः
एवमहर्भागात्मकार्धायुषञ्चत्वारिंशद्व10र्षाणि ग11तानि । शेषमवशिष्टं दशवर्षात्मकमायुः दुरापूरेण दुःखः समन्तादापूर्यमाणेन कामेन तदनुबन्धिना बलीयसा मोहेन, चकारात्क्रोधेन च, गृहेषु गृहधर्मेषु सक्तस्यात एव प्रमत्तस्य स्वहितमजानतोऽपयाति । जितेन्द्रियस्तु कुशलः कामाद्युपशमनेन तस्मिन्नपि दशवर्षात्मकवयसि भगवद्धर्ममनुतिष्ठतीति भावः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रियः।
स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम्॥
मूलम्
को गृहेषु पुमान् सक्तमात्मानमजितेन्द्रियः।
स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम्॥ ९ ॥
अनुवाद (हिन्दी)
दैत्यबालको! जिसकी इन्द्रियाँ वशमें नहीं हैं, ऐसा कौन-सा पुरुष होगा, जो घर-गृहस्थीमें आसक्त और माया-ममताकी मजबूत फाँसीमें फँसे हुए अपने-आपको उससे छुड़ानेका साहस कर सके॥ ९॥
वीरराघवः
एवमजितेन्द्रियस्य वैषयिकसुखरतस्य आयुषो वैफल्यमारब्धभक्तियोगस्य कुशलस्य जितेन्द्रियस्य तु निःश्रेयससाधनभगवद्धर्मप्रसाधनोपयुक्तत्वेन साफल्यं भागवतधर्माणामेव निरतिशयश्रेयस्साधनत्वं तेषाञ्च वर्तमानमनुष्यजन्मनैवाऽनुष्ठेयत्वञ्चोक्तम् । अथ वैराग्यमन्तरेणोपदिष्टोऽपि भागवतधर्मः प्रतिष्ठितो न भवतीति वैराग्येण तावदेषां भवितव्यं, तच्च सत्सङ्गतिमन्तरेण न सेत्स्यतीति तया भवितव्यम् । सा च त्रिषयासक्तचित्तजनसङ्गपरिहारमन्तरेण दुर्लभेत्यभिप्रेत्य तत्परिहारश्च गृहवित्तकलत्रापत्यादिष्वनुरक्तचित्तस्य यद्यप्यशक्यः तथाऽपि उपायेन विवेकात्मना दुस्सङ्गः परिहार्य इति वक्तुं तावत् गृहादिष्वनुरागस्य दुस्त्यजत्वमनर्थावहत्वाहकोगृहेष्वित्यादिना । तावद्गृहानुरागस्य दुस्त्यजत्वमाह क इति । गृहेष्वासक्तं ममेदं गृहमित्यभिमानयुक्तं दृढः दुर्मो12चैः स्नेहा एव पाशाः तैर्बद्धमात्मानं विमोचयितुमजितेन्द्रियश्च कः पुमानुत्सहेत, कोऽप्युत्साहं न कुर्यादित्यर्थः । जितेन्द्रियस्तत्सहेतैवेति भावः । अनेन “हित्वाऽऽत्मपातं गृहमन्धकूपम्” (भाग 7.5-5) इति पूर्वमुक्तगृहाभिनिवेशत्याग एव भगवदाश्रयणे प्रथमं कारणमित्युक्तम् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
कोन्वर्थतृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः।
यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक्॥
मूलम्
कोन्वर्थतृष्णां विसृजेत् प्राणेभ्योऽपि 13गरीयसीम्।
यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक्॥ १० ॥
अनुवाद (हिन्दी)
जिसे चोर, सेवक एवं व्यापारी अपने अत्यन्त प्यारे प्राणोंकी भी बाजी लगाकर संग्रह करते हैं और इसलिये उन्हें जो प्राणोंसे भी अधिक वांछनीय है—उस धनकी तृष्णाको भला कौन त्याग सकता है॥ १०॥
वीरराघवः
तदभिनिवेशत्यागश्च वित्तकलत्रापत्याद्यनुरागत्यागपूर्वकः, सोऽप्यजितेन्द्रियस्य दुश्शक इत्याह - कोन्विति । अर्थतृष्णां वित्तस्पृहां अजितेन्द्रियश्चेत् कः पुमान्विसृजेत् त्यजेत् ? दुस्त्यजत्वे हेतुं वदस्तां विशिनष्टि - य इति । योऽ14र्थः प्राणेभ्योऽपि गरीयसीमिति प्राणस्पृहापेक्षया गरीयसी दृढतरामित्यर्थः । प्राणेभ्योऽपि गरीयस्त्वमेव दृष्टान्तमुखेन दर्शयन्नर्थं विशिनष्टि-यमिति । यमर्थमसुभिः प्राणैः तस्करश्चोरः, सेवक आयुधोपजीवी, वणिक् नाविकश्च क्रीणाति प्राणहानिमङ्गीकृत्याऽपि तस्करादिर्यमर्थं साधयति तस्मिन्नर्थे तृष्णां को नु विसृजेदित्यर्थः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
कथं प्रियाया अनुकम्पितायाः
सङ्गं रहस्यं रुचिरांश्च मन्त्रान्।
सुहृत्सु च स्नेहसितः शिशूनां
कलाक्षराणामनुरक्तचित्तः॥
मूलम्
कथं प्रियाया अनुकम्पितायास्सङ्गं रहस्यं रुचिरांश्च मन्त्रान्।
सुहृत्सु 15तत्स्नेहसि16तश्शिशूनां
कलाक्षराणामनुरक्तचित्तः॥ ११ ॥
अनुवाद (हिन्दी)
जो अपनी प्रियतमा पत्नीके एकान्त सहवास, उसकी प्रेमभरी बातों और मीठी-मीठी सलाहपर अपनेको निछावर कर चुका है, भाई-बन्धु और मित्रोंके स्नेह-पाशमें बँध चुका है और नन्हें-नन्हें शिशुओंकी तोतली बोलीपर लुभा चुका है—भला, वह उन्हें कैसे छोड़ सकता है॥ ११॥
वीरराघवः
किञ्च, अनुकम्पिताया दयायुक्तायाः प्रियायाः रहसि भवं सङ्ग, रुचिरान् मनोज्ञान् हितालापांश्च, सृहत्सू च सङ्गतं स्मरन् कथं प्रियसङ्गादीस्त्यजेतेति तृतीयेनान्वयः । कथम्भूतः? तत्स्नेहसितः तेषां प्रियादीनां स्नेहेन सितो बद्धः कलानि मधुराण्यक्षराणि येषां तेषां शिशूनाञ्च, सङ्गमित्यनुषज्यते, सङ्गं तेष्वनुरक्तं चित्तं यस्य सः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
पुत्रान्स्मरंस्ता दुहितॄर्हृदय्या
भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ।
गृहान् मनोज्ञोरुपरिच्छदांश्च
वृत्तीश्च कुल्याः पशुभृत्यवर्गान्॥
मूलम्
17पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ।
गृहान्मनो18ज्ञोरुपरिच्छ18दांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान्॥ १२ ॥
अनुवाद (हिन्दी)
जो अपनी ससुराल गयी हुई प्रिय पुत्रियों, पुत्रों, भाई-बहिनों और दीन अवस्थाको प्राप्त पिता-माता, बहुत-सी सुन्दर-सुन्दर बहुमूल्य सामग्रियोंसे सजे हुए घरों, कुलपरम्परागत जीविकाके साधनों तथा पशुओं और सेवकोंके निरन्तर स्मरणमें रम गया है, वह भला-उन्हें कैसे छोड़ सकता है॥ १२॥
वीरराघवः
पुत्रान् हृदय्याः हृदयङ्गमा दुहितुः श्वशुरगृहे स्थिताः तथा भ्रातृृन्, स्वसृृः भगिनीश्च दीनो मातापितरौ च उरवः बहवः परिच्छदाः भोगोपकरणानि येषु तान् मनोज्ञान् गृहांश्च कुल्याः कुलक्रमागताः वृत्तीजीविकाश्च पशून् भृत्यवर्गांश्च कथं त्यजेत, कथन्तरां विरज्येत विरक्तः स्यात् ? ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
त्यजेत कोशस्कृदिवेहमानः
कर्माणि लोभादवितृप्तकामः।
औपस्थ्यजैह्व्यं बहु मन्यमानः
कथं विरज्येत दुरन्तमोहः॥
मूलम्
त्यजेत कोश19स्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः।
औपस्थ्यजै20ह्व्यं बहु मन्यमानः कथं विरज्येत दुरन्तमोहः॥ १३ ॥
अनुवाद (हिन्दी)
जो जननेन्द्रिय और रसनेन्द्रियके सुखोंको ही सर्वस्व मान बैठा है, जिसकी भोगवासनाएँ कभी तृप्त नहीं होतीं, जो लोभवश कर्म-पर-कर्म करता हुआ रेशमके कीड़ेकी तरह अपनेको और भी कड़े बन्धनमें जकड़ता जा रहा है और जिसके मोहकी कोई सीमा नहीं है—वह उनसे किस प्रकार विरक्त हो सकता है और कैसे उनका त्याग कर सकता है॥ १३॥
वीरराघवः
कथम्भूतः ? कोशस्कृदिव कोशकारी कीट इव कर्माणीहमानो यथा कोशस्कृद्गृहं कोशात्मकं 21गृहं कुर्वन्नात्मनो निर्गमाय द्वारमपि नाऽवशेषयति । तथा स्वबन्धकानि कर्माणि कुर्वाण इत्यर्थः । अवितृप्तः कामो यस्य तादृशः औपस्थ्यं 22जैह्व्यञ्च सुखं बह्वधिकं मन्यमानः अतो दुरन्तो मोहो यस्य ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
कुटुम्बपोषाय वियन् निजायु-
र्न बुध्यतेऽर्थं विहतं प्रमत्तः।
सर्वत्र तापत्रयदुःखितात्मा
निर्विद्यते न स्वकुटुम्बरामः॥
मूलम्
कुटुम्बपोषाय 23वियन्निजायुर्न बुध्यतेऽर्थं वि24हितं प्रमत्तः।
सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः॥ १४ ॥
वीरराघवः
दुरन्तमोहं दर्शयन् विशिनष्टि-कुटुम्बपोषणाय वियत्क्षीयमाणं निजायुः परिच्छिन्नायुः यस्य तादृशो विशेषेण हितमनुकूलमर्थं परमं पुरुषार्थं न वेद । विहतमिति पाठे विहतमपि स्वाभिप्रेतमर्थं न वेद, दृष्टान्तत्वेन नाऽनुसन्धते । सर्वत्र देशे काले च तापत्रयेण दुःखित आत्मा मनो यस्य तादृशो न निर्विद्यते । संसृतौ हेयत्वबुद्धिं न करोति, यतः स्वकुटुम्बे रामं रतिर्यस्य ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
वित्तेषु नित्याभिनिविष्टचेता
विद्वांश्च दोषं परवित्तहर्तुः।
प्रेत्येह चाथाप्यजितेन्द्रियस्त-
दशान्तकामो हरते कुटुम्बी॥
मूलम्
वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः।
प्रेत्येह 25चाऽथाप्यजितेन्द्रियस्तदशान्तकामो हरते कुटुम्बी॥ १५ ॥
अनुवाद (हिन्दी)
यह मेरा कुटुम्ब है, इस भावसे उसमें वह इतना रम जाता है कि उसीके पालन-पोषणके लिये अपनी अमूल्य आयुको गवाँ देता है और उसे यह भी नहीं जान पड़ता कि मेरे जीवनका वास्तविक उद्देश्य नष्ट हो रहा है। भला, इस प्रमादकी भी कोई सीमा है। यदि इन कामोंमें कुछ सुख मिले तो भी एक बात है; परन्तु यहाँ तो जहाँ-जहाँ वह जाता है, वहीं-वहीं दैहिक, दैविक और भौतिक ताप उसके हृदयको जलाते ही रहते हैं। फिर भी वैराग्यका उदय नहीं होता। कितनी विडम्बना है। कुटुम्बकी ममताके फेरमें पड़कर वह इतना असावधान हो जाता है, उसका मन धनके चिन्तनमें सदा इतना लवलीन रहता है कि वह दूसरेका धन चुरानेके लौकिक-पारलौकिक दोषोंको जानता हुआ भी कामनाओंको वशमें न कर सकनेके कारण इन्द्रियोंके भोगकी लालसासे चोरी कर ही बैठता है॥ १४-१५॥
वीरराघवः
प्रत्युत अकार्यं करोति इत्याह-वित्तेष्विति । परद्रव्यापहारिणो यो दोषः प्रेत्य मरणानन्तरं नरकलक्षणः इह च लोके दण्डरूपश्च तं विद्वान् जानन्नपि वित्तेषु नित्यमभिनिविष्टं चेतो यस्य सोऽजितेन्द्रियोऽशान्तकामः कुटुम्बी च सन् तत्परस्य वित्तं हरति ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
विद्वानपीत्थं दनुजाः कुटुम्बं
पुष्णन्स्वलोकाय न कल्पते वै।
यः स्वीयपारक्यविभिन्नभाव-
स्तमः प्रपद्येत यथा विमूढः॥
मूलम्
विद्वानपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै।
26यः स्वीयपारक्यविभिन्नभावस्तमः प्रपद्येत यथा विमूढः॥ १६ ॥
अनुवाद (हिन्दी)
भाइयो! जो इस प्रकार अपने कुटुम्बयोंके पेट पालनेमें ही लगा रहता है—कभी भगवद्भजन नहीं करता—वह विद्वान् हो, तो भी उसे परमात्माकी प्राप्ति नहीं हो सकती। क्योंकि अपने-परायेका भेद-भाव रहनेके कारण उसे भी अज्ञानियोंके समान ही तमःप्रधान गति प्राप्त होती है॥ १६॥
वीरराघवः
एवं को गृहेष्वित्यादिभिः सप्तभिः श्लोकैः गृहादिष्वनुरागो दुस्त्यज इत्युक्तम् । अथ तस्यानर्थावहत्वमाह विद्वानिति । हे दनुजाः । इत्थं विद्वानपि उक्तविधं संसारं जानन्नापि कुटुम्बं पुष्णन् बिभ्रत् यः स्वलोकाय आत्मयाथात्म्यदर्शनाय न कल्पते न समर्थो भवति । प्रकृतिपुरुषेश्वरयाथात्म्यावमर्शनपरो न भवति । किन्तु इदं स्वीयमिदं परकीयमित्येवं विभिन्नो भावो यस्य, सर्वस्य परमात्मशेषतामजानन्नित्यर्थः । यथावत् विमूढः स तमो नरकमेव प्रपद्येत । यद्वा तत्त्वविदपि कुटुम्बभरणासक्तो देहात्माभिमानस्वतन्त्रात्माभिमानयुक्तो मूढवत् नरकमेव प्रपद्यते; न मुक्तिम् । किम्पुनः केवलमूढ इत्याह विद्वानपीति । विद्वानपि प्रकृतिपुरुषेश्वरयाथात्म्यविर्दापि य पुनः स्वीयपारक्यविभिन्नभावः इत्थं कुटुम्बं पुष्णन् भवति, सः स्वर्लोकाय परमपदप्राप्तये न कल्पते, किन्तु नितरां मूढवत् तम एव प्रपद्येत । विदुष एवेयं गतिः, किं पुनरविदुष इति भावः । यथा विमूढ इति दृष्टान्तवशात्किम्पुनर्न्यायोऽत्र द्योत्यते ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
यतो न कश्चित् क्व च कुत्रचिद् वा
दीनः स्वमात्मानमलं समर्थः।
विमोचितुं कामदृशां विहार-
क्रीडामृगो यन्निगडो विसर्गः॥
मूलम्
यतो न कश्चित् क्व च कु27त्र विद्वान् 28दीनः स्वमात्मानमलं समर्थः।
विमोचितुं 29वामदृशां विहार क्रीडामृ30गो यन्निग31डो विसर्गः॥ १७ ॥
अनुवाद (हिन्दी)
जो कामिनियोंके मनोरंजनका सामान—उनका क्रीडामृग बन रहा है और जिसने अपने पैरोंमें सन्तानकी बेड़ी जकड़ ली है, वह बेचारा गरीब—चाहे कोई भी हो, कहीं भी हो—किसी भी प्रकारसे अपना उद्धार नहीं कर सकता॥ १७॥
वीरराघवः
एवं गृहाद्यासक्तेः दुस्त्यजत्वमनर्थावहत्वञ्चोक्तम् । अथ, उक्तमुपसंहरन् दुस्त्यजगृह्याद्यनुरागत्यागनिमित्तमसत्सङ्गं परित्यज्य सत्सङ्गादि32प्रणाड्या भगवन्तमाश्रयेतेत्याह-यत इति । यतः कश्चिदपि पुमान् गृहाद्यभिनिविष्टश्चेदात्मानं क्वचिदपि काले कुत्रचिदपि देशे मोचितुं मोचयितुमसमर्थः, तत इत्युत्तरेणाऽन्वयः । असामर्थ्ये हेतुः-अलमत्यर्थं दीनो विषयलम्पटः अ33तः वामा दृशो यासां तासां विहारे क्रीडामृगः क्रीडार्थं संवर्धितशाखामृगादितुल्यः । विहारमिति पृथक्पाठे विहारस्थानमात्मानमित्यन्वयः । वामदृशां विहारक्रीडामृगत्वं विशिनष्टि-यदिति । यत् यस्मात् वामदृशां क्रीडामृगत्वाद्धेतोः निगडरूपो विसर्गः संसारबन्धो भवति । अयमति वा छेदः । यत्क्रीडामृग इत्येतदयमेव निगडरूपस्संसार इत्यर्थः । यदिति छेदपक्षे यच्छब्देन वामदृशां वा परामर्शः । यत् यासु निगडः शृङ्खलारूपो विसर्गः पुत्रादिरूपः सर्ग इत्यर्थः । अविसर्ग इति वा छेदः । यद्यस्मात् क्रीडामृगत्वादविसर्गः, अविमोच्यो निगडः शृङ्खलातुल्यः संसारबन्धो भवतीत्यर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
ततो विदूरात् परिहृत्य दैत्या
दैत्येषु सङ्गं विषयात्मकेषु।
उपेत नारायणमादिदेवं
स मुक्तसङ्गैरिषितोऽपवर्गः॥
मूलम्
ततो विदूरात्परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु।
उपेत नारायणमादिदेवं स मुक्तसङ्गैरिषितोऽपवर्गः॥ १८ ॥
अनुवाद (हिन्दी)
इसलिये भाइयो! तुमलोग विषयासक्त दैत्योंका संग दूरसे ही छोड़ दो और आदिदेव भगवान् नारायणकी शरण ग्रहण करो! क्योंकि जिन्होंने संसारकी आसक्ति छोड़ दी है, उन महात्माओंके वे ही परम प्रियतम और परम गति हैं॥ १८॥
वीरराघवः
तत इति । ततः यतो गृहादिष्वासक्तः आत्मानं मोचितुमसमर्थस्ततो विषयेषु शब्दादिष्वेव आत्मा मनो येषां तेष्वसत्सु दैत्येषु सङ्गं दूरात्परिहृत्य आदिदेवं जगदुदयस्थितिलयलीलं स्वतेजसा दीप्यमानं नारायणं जीवानां प्राप्यं, प्रापकमाधारञ्च भगवन्तम् उपेत तत्सङ्गादिप्रणाड्या शरणं व्रजत । यद्यप्यत्र सत्सङ्गतेः कण्ठोत्तिर्नास्ति तथाऽपि स्वस्य सत्सङ्गरेव हेतोर्ज्ञानोदयस्य स्वेनैव वक्ष्यमाणत्वात् स्वसङ्गत्यैव तैः सत्सङ्गतेः कृतप्रायत्वाच्च तदनुक्तावपि साऽभिप्रेतैव । एवं गृहाद्यासङ्गस्य दुस्त्यजत्वदोषावहत्वादि कथनेनैव तेषां वैराग्यमुदेष्यतीति वैराग्यमपि सम्पादनीयमिति शब्दतो नोक्तं, स्वस्यैव ज्ञानोपदेष्टृत्वादाचार्यत्वेनावस्थितत्वात् गुर्वभिगमनमपि इह शब्दतः कर्तव्यत्वेन नोक्तम् । किन्तु श्रीशप्रपदनमात्रमेव कुरुतेति शब्देनोक्तम् । धर्मान् भागवतानिति भगवच्छब्देनाऽभिप्रेतं निष्फलत्वशङ्काव्युदासं व्यनक्ति-स इति । स उपेयो नारायणः अपवर्गः परमपुरुषार्थलक्षणापवर्गहेतुत्वेन मुक्तस्सङ्गो देहतदनुबन्धिषु यैस्तैरिषित इष्टः, स एव मुक्तसङ्गानामिष्टोऽपवर्गः फलरूप इत्यर्थः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः।
आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः॥
मूलम्
न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः।
आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वतः॥ १९ ॥
अनुवाद (हिन्दी)
मित्रो! भगवान्को प्रसन्न करनेके लिये कोई बहुत परिश्रम या प्रयत्न नहीं करना पड़ता। क्योंकि वे समस्त प्राणियोंके आत्मा हैं और सर्वत्र सबकी सत्ताके रूपमें स्वयंसिद्ध वस्तु हैं॥ १९॥
वीरराघवः
एतदेव प्रतिपादयितुं तावत्तत्समाश्रयणस्य दुश्शकत्वशङ्कां निराकुर्वन्नाह-न हीति । हे आसुरात्मजाः ! अच्युतं, सकृदाश्रयणादेव आश्रितान्न च्यावयतीति अच्युतः तं प्रीणयतः ? पुंसो बह्वायासो न हि विद्यते, देवतान्तरप्रीत्युत्पादक साधनानुष्ठानवद्भगवत्प्रीत्युत्पादकतद्धर्मानुष्ठानेनाऽऽयासो विद्यते इत्यर्थः । अनायासे हेतुः आत्मत्वादिति । सर्वभूतानामात्मत्वात्सर्वतःसिद्धत्वात्सुलभत्वात् । सर्वत इति सार्वविभक्तिकस्तसिः षष्ट्यर्थः । इह लोके सर्वतः सर्वेषां देवासुरादिस्त्रीपुंसवर्णाश्रमादिविभागमन्तरेण सर्वेषां सिद्धत्वादित्यर्थः । अयमभिप्रायः- न हि सुलभस्य तृणलोष्ठादेरन्वेषणाय विदूरगमनादिरूपः प्रयासोऽपेक्षितः, सर्वत्र सर्वेषां सुलभत्वात् । एवं सर्वेषामात्मत्वेन सर्वसुलभस्य प्रीणनेनाऽतीवायास इति । यद्वा सिद्धत्वादित्यस्य स्वर्गादिवन्न साध्यः पुरुषार्थः अपि तु सिद्धरूपः । साध्यपुरुषार्थसाधने हि यागाद्यनुष्ठानरूपप्रयासबाहुल्यम्, सिद्धस्य तु तल्लाभोपयुक्तप्रीणनोपायतत्समाश्रयणमात्रमपेक्षितमित्यर्थः । यद्वा, आत्मत्वादित्यनायासे पृथक्हेतुः, आत्मा हि स्वशरीरे निरतिशयप्रीतियुक्तस्तद्रक्षणशीलश्च लोके दृष्टः एवं सर्वेषां जीवानां परमात्मानं प्रति शरीरत्वात् तद्विषयकप्रीतेस्तस्य स्वतस्सिद्धाया अपि विपुलापराधैरनभिव्यक्तायाः तदभिव्यक्तयावहं किञ्चिदानुकूल्यादिकमात्रमपेक्षितमिति भावः । सिद्धत्वादिति तत्रैवाऽन्यो हेतुः । न हि सिद्धस्य हिरण्यनिधेस्तत्परिज्ञानमन्तरेण तल्लाभोपयुक्तोऽन्यः प्रयासोऽपेक्षितः । एवं परमात्मनोऽपि निरतिशयपुरुषार्थरूपस्य हृदये सिद्धत्वात् तल्लाभोपयुक्तस्वामित्वशेषत्वादितद्याथात्म्यज्ञानपूर्वकतत्समाश्रयणमात्रेण तस्य समाश्रितविषयकप्रीतिरुदेष्यतीति नाऽतीवाऽऽयासो विद्यते इत्यर्थः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु।
भौतिकेषु विकारेषु भूतेष्वथ महत्सु च॥
मूलम्
परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु।
भौतिकेषु विकारेषु भूतेष्वथ महत्सु च॥ २० ॥
वीरराघवः
“आत्मवत्सर्वभूतानाम्"(भाग 7-4-31) इत्येतदेव प्रपञ्चयति-परावरेष्विति चतुर्भिः । ब्रह्मा चतुर्मुखोऽन्तो येषां स्थावरा आदिर्येषां तेषु परावरेषु उच्चावचेषु भूतेषु चराचरात्मकदेहभाक्षु चेतनेष्वित्यर्थः । तथा भौतिकेषु पृथिव्यादिभूतपरिणामरूपेष्वचेतनेषु घटपटादिषु, महत्सु पृथिव्यादिमहाभूतेषु ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा।
एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः॥
मूलम्
गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा।
एक एव परो ह्यात्मा भगवानीश्वरोऽव्ययः॥ २१ ॥
अनुवाद (हिन्दी)
ब्रह्मासे लेकर तिनकेतक छोटे-बड़े समस्त प्राणियोंमें, पंचभूतोंसे बनी हुई वस्तुओंमें, पंचभूतोंमें, सूक्ष्म तन्मात्राओंमें, महत्तत्त्वमें, तीनों गुणोंमें और गुणोंकी साम्यावस्था प्रकृतिमें एक ही अविनाशी परमात्मा विराजमान हैं। वे ही समस्त सौन्दर्य, माधुर्य और ऐश्वर्योंकी खान हैं॥ २०-२१॥
वीरराघवः
गुणेषु सत्त्वादिषु गुणानां सत्त्वादीनां साम्यं यस्मिंस्तस्मिन्, प्रधाने मूलप्रकृतावित्यर्थः । गुणव्यतिकरे गुणवैषम्यवति महदहङ्कारादौ चेत्यर्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम्।
व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पितः॥
मूलम्
प्रत्यगात्मस्वरूपेण 34दृश्यरूपेण च स्वयम्।
व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पितः॥ २२ ॥
अनुवाद (हिन्दी)
वे ही अन्तर्यामी द्रष्टाके रूपमें हैं और वे ही दृश्य जगत्के रूपमें भी हैं। सर्वथा अनिर्वचनीय तथा विकल्परहित होनेपर भी द्रष्टा और दृश्य, व्याप्य और व्यापकके रूपमें उनका निर्वचन किया जाता है। वस्तुतः उनमें एक भी विकल्प नहीं है॥ २२॥
श्लोक-२३
विश्वास-प्रस्तुतिः
केवलानुभवानन्दस्वरूपः परमेश्वरः।
माययान्तर्हितैश्वर्य ईयते गुणसर्गया॥
मूलम्
केवलानुभवानन्दस्वरूपः परमेश्वरः।
माययान्तर्हितैश्वर्य ई35यते गुणसर्गया॥ २३ ॥
अनुवाद (हिन्दी)
वे केवल अनुभवस्वरूप, आनन्दस्वरूप एकमात्र परमेश्वर ही हैं। गुणमयी सृष्टि करनेवाली मायाके द्वारा ही उनका ऐश्वर्य छिप रहा है। इसके निवृत्त होते ही उनके दर्शन हो जाते हैं॥ २३॥
वीरराघवः
प्रत्यगात्मस्वरूपेण प्रत्यगात्मा जीवः स्वं स्वासाधारणं रूपं शरीरं यस्य तेन प्रत्यगात्मशरीरकत्वेनेत्यर्थः । दृश्यमचेतनं रूपं यस्य तेन अचेतनशरीरकत्वेन चेत्यर्थः । एकः स्वसमानरहित एव पर आत्मा परमात्मा, अन्तःप्रविश्य भर्ता, अव्ययः अस्पृष्टशरीरगतविकारः, निरस्तनिखिलदोषः षाड्गुण्य36परिपूर्णः, ईश्वरो जीवकर्मानुगुणं नियन्ता, व्याप्यव्यापकनिर्देश्यः व्याप्येषु व्यापकतया निर्देष्टव्यः अविकल्पितः जातिगुणादिरहितः । केवलोऽनुभवः दुःखप्रतिभटं ज्ञानम् आनन्दरूपं तदेव स्वरूपं यस्य सः, परमेश्वरः स्वव्यतिरिक्तेश्वरान्तररहितः गुणसर्गया संसारिणां मोहादिगुणान् सृजतीति तया मायया अन्तर्हितैश्वर्यः संसारिणामप्रकाशमानमहिमा ईयते गम्यते सदाचार्योपदेशेन ज्ञायत इत्यर्थः । उक्तविधतद्याथात्म्यज्ञानपूर्वकं तत्समाश्रयणमात्रमेव तत्प्राप्तिनिमित्ततत्प्रीतिहेतुरुपाय इति भावः । अत्र अविकल्पितः केवलानुभवानन्दस्वरूपः इति पदद्वयेन “अस्थूलमनण्वह्रस्वम्" (बृह.उ. 3-8-8) “सत्यं ज्ञानमनन्तम्” (तैत्ति. उ. 2-1-1) “विज्ञानमानन्दम्” (बृह.उ. 3-9-28) इति श्रुत्यर्थप्रत्यभिज्ञापनेन प्राप्यं ब्रह्मस्वरूपमुक्तम् । अवशिष्टैरेक एवेत्यादिभिः प्रथमान्तपदैः “प्रत्यगात्मस्वरूपेण, दृश्यरूपेण चे"ति पदद्वयेन च प्राप्यस्य गुणा उक्ताः “परावरेषु भूतेषु प्रत्यगात्मस्वरूपेण च” (भाग 7-6-20) इत्यनेन जीवस्य तच्छेषत्वापरपर्यायतच्छरीरत्वकथनेन प्राप्तृस्वरूपमुक्तम् । “गुणसर्गया माययाऽन्तर्हितैश्वर्यः" इत्यनेनाऽब्रह्मात्मकत्वस्वतन्त्रात्मत्वादिरूपमोहादि प्राकृतगुणगण एव प्राप्तिविरोधीति कथनेन विरोधस्वरूपमुक्तम् । तत्प्राप्तिफलन्तु तच्चरणकैङ्कर्यादिरूपं “सारञ्जुषां चरणयोः” (भाग 7-6-25) इति वक्ष्यति । एवमर्थपञ्चकमुपदिष्टं भवति । पूर्व “उपेत नारायणम्” इति तत्समाश्रयणं कर्तव्यत्वेन विहितम् । तस्य दुष्करत्वशङ्कापरिहारप्रसङ्गात् समाश्रयणोपयुक्तार्थपञ्चकज्ञानं सदाचार्योपदेशात् सम्पाद्यमित्युक्तम् । एवमर्थपञ्चकज्ञानपूर्वकतत्समाश्रयेणमात्रमेव तत्प्रसादजननद्वारा तत्प्राप्तिहेतुरित्यभिप्रेतम् । तत्समाश्रयणञ्च तद्भक्तिप्रपत्त्यन्यतरात्मकमधिकारभेदेन व्यवस्थितमिति तात्पर्यम् ॥ २२,२३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम्।
आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः॥
मूलम्
तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम्।
आसुरं भावमुन्मुच्य 37यया तुष्यत्यधोक्षजः॥ २४ ॥
अनुवाद (हिन्दी)
इसलिये तुमलोग अपने दैत्यपनेका, आसुरी सम्पत्तिका त्याग करके समस्त प्राणियोंपर दया करो। प्रेमसे उनकी भलाई करो। इसीसे भगवान् प्रसन्न होते हैं॥ २४॥
वीरराघवः
यदुक्तं “न ह्यच्युतं प्रीणयतो बह्वायासः” (भाग. 7-6-19) इति तदुपसंहरन् तत्प्रीतिनिमित्ततत्सन्तोषजनकं हेत्वन्तरमाह - तस्मादिति । यस्मात् सर्वान्तरात्मत्वादि प्राप्य ब्रह्मस्वरूपादिज्ञानपूर्वकतत्समाश्रयणमात्रमेव तत्प्राप्यावह तत्प्रीतिहेतुः । तस्मात् यूयं 38सर्वे आसुरं भावं भृतद्रोहशीलत्वादिरूपमुन्मुच्य समूलं त्यक्त्वा परमात्मशरीरेषु सर्वेषु भूतेषु ब्र39ह्मादिस्तम्बपर्यन्ते39षु यथोचितं दयां सौहृदञ्च कुरुत, यया दयया अधोक्षजो भगवां स्तुष्यति । तादृशी भूतेषु दयां कुरुतेत्यर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
तुष्टे च तत्र किमलभ्यमनन्त आद्ये
किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः।
धर्मादयः किमगुणेन च काङ्क्षितेन
सारंजुषां चरणयोरुपगायतां नः॥
मूलम्
तुष्टे च तत्र किमलभ्यमनन्त आद्य किन्तैर्गुणव्यति40करादिह ये स्व40सिद्धाः।
धर्मा41दयः किमगुणेन च काङ्क्षितेन सारञ्जुषाञ्चरणयोरुपगायतां नः॥ २५ ॥
अनुवाद (हिन्दी)
आदिनारायण अनन्तभगवान्के प्रसन्न हो जानेपर ऐसी कौन-सी वस्तु है, जो नहीं मिल जाती? लोक और परलोकके लिये जिन धर्म, अर्थ आदिकी आवश्यकता बतलायी जाती है—वे तो गुणोंके परिणामसे बिना प्रयासके स्वयं ही मिलनेवाले हैं। जब हम श्रीभगवान्के चरणामृतका सेवन करने और उनके नाम-गुणोंका कीर्तन करनेमें लगे हैं, तब हमें मोक्षकी भी क्या आवश्यकता है॥ २५॥
वीरराघवः
तुष्यत्यधोक्षजः ततः किम्-अतआह-तुष्ट इति । त42त्र तस्मिन्नाद्ये जगत्कारणभूते अनन्ते भगवति तुष्टे सति अलभ्यं किम् ? न किमपि, सर्वं तस्मिन् तुष्टे सति अभिलषितं सुलभमेवेत्यर्थः यद्यपि सुलभं तथाऽपि निरतिशयपुरुषार्थरूपतञ्चरणारविद्वानुभवरूपममृतमनुभवद्भिः मादृशैः धर्मैश्वर्यकामकैवल्यादिकममृतं पिबद्भिः ऊषरोदकमिव नेष्यते इत्यभिप्रयन्नाह- किमिति । नोऽस्माकं गुणव्यतिकरात् कर्मानु सत्त्वादिगुणपरिणामादेव स्वसिद्धाः अयत्नतस्सिद्धा ये धर्मादयः धर्मार्थकामाः तैः 43धर्मार्थकामैः43 किम् ? न किमपि प्रयोजनमित्यर्थः । कांक्षितेन अभिलषितेन अगुणेन गुणत्रयरहितेन कैवल्येन मोक्षेण वा किम् ? सोऽपि न पुरुषार्थ इत्यर्थः । नः कथम्भूतानाम् ? भगवञ्चरणयोः सारमनुभवात्मकममृतसारं जुषतां सेवमानानां उपगायतां, तद्गुणान् स्तुवतां, मनसा तच्चरणारविन्दानुभवामृतमनुभवतां वाक्श्रवणाभ्यां तद्गुणानुभवामृतञ्च अनुभवतामस्माकं धर्मादय ऊषरोदकप्राया इत्यर्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग
ईक्षा त्रयी नयदमौ विविधा च वार्ता।
मन्ये तदेतदखिलं निगमस्य सत्यं
स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः॥
मूलम्
धर्मार्थकाम इति 44योऽभिहित स्त्रिवर्ग ईक्षात्रयी नयदमौ विविधा च वार्ता।
मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः॥ २६ ॥
अनुवाद (हिन्दी)
यों शास्त्रोंमें धर्म, अर्थ और काम—इन तीनों पुरुषार्थोंका भी वर्णन है। आत्मविद्या, कर्मकाण्ड, न्याय (तर्कशास्त्र), दण्डनीति और जीविकाके विविध साधन—ये सभी वेदोंके प्रतिपाद्य विषय हैं; परन्तु यदि ये अपने परम हितैषी, परम पुरुष भगवान् श्रीहरिको आत्मसमर्पण करनेमें सहायक हैं, तभी मैं इन्हें सत्य (सार्थक) मानता हूँ। अन्यथा ये सब-के-सब निरर्थक हैं॥ २६॥
वीरराघवः
ननु, त्वदुक्तमेतत्सर्वं जानन्तोऽप्यस्मद्गुरवस्त्रिवर्गमेव पुरुषार्थत्वेनोपदिदिशुः । त्वन्तु त्रिवर्गमनादृत्य भगवच्चरणारविन्दाश्रयणमेव सारतमं मन्यसे । किञ्च, गुर्वनुशिक्षितान्वीक्षिक्यादिशास्त्रेषु न त्वदुक्तधर्मः कर्तव्यत्वेनोपलभ्यते । अतः किं तद्धर्मप्रमापकम् ? तत्राऽऽह - धर्मेति । धर्मादीनां समाहारद्वन्द्वः पुंस्त्वमार्षम् । धर्मोऽर्थः कामश्चेति यस्त्रिवर्गोऽभिहितः अस्मदाचार्यैः भार्गवादिभिरिति शेषः । यस्त्रिवर्गः पुरुषार्थत्वेन आचार्यैरुक्त इत्यर्थः । यच्च तत्प्रतिपादकेक्षादिरूपा विद्या च तदेतत्सर्वमहं मन्ये । तत्रेक्षा आन्वीक्षिकीसंज्ञा तर्कविद्या, त्रयी वेदपूर्वभागः नयदमौ दण्डनीति प्रतिपादके शास्त्रे, विविधा वर्ता कृष्याद्याजीविकाज्ञानजनकं शास्त्रम् । एतत्सर्वमहे मन्ये जानाम्येव । किन्तु यत्स्वसुहृदः परमस्य पुंसो निरुपाधिकसुहृदे परमपुरुषायेत्यर्थः । सम्प्रदानस्यैव शेषत्वविवक्षया षष्ठी । स्वात्मार्पणं भगवति स्वात्मसमर्पणं तदेतन्निगमस्य वेदोत्तरभागस्य, प्रमेयमिति शेषः । उपनिषद्भागस्य प्रतिपाद्यं सत्यं, नित्यम्, अक्षयिष्णुपुरुषार्थसाधनं, मन्य इत्यर्थः । अस्मद्गुरुभिः ज्ञातमप्यहं जानामि, नित्यनिरतिशयपुरुषार्थसाधनं भगवत्यात्मसमर्पणं वेदान्तप्रतिपाद्यं त्वधिकारं जानामीत्यर्थः । गुरवस्तु नैतज्जानन्तीत्यभिप्रायः । आपाततो जानन्तो वा महदनुग्रहाभावात् नाऽनुष्ठानोपयोगितया निस्संशयं जानन्तीति तात्पर्यम् । निगमस्येत्यनेनाऽस्मदुक्तार्थे वेदान्तमार्गः प्रमाणमित्युक्तम् । स च “ओमित्यात्मानं युञ्जीत मुमुक्षुर्वै शरणमहं प्रपद्ये” (म. ना. उ. 17-15) इत्यादिरूपः । स्वात्मार्पणमित्यनेन च उपेत नारायणम्, हरिमाश्रयेत इत्याद्युक्तमाश्रयणमात्मसमर्पणरूपमिति विवृतम् । भगवति स्वात्मसमर्पणं नाम स्वात्मनो भगवच्छेषतैक स्वभावत्वानुसन्धानपूर्वकं भगवति स्वात्मरक्षाभरसमर्पणरूपम् । एवं नारायणोपायनं नाम तच्छरणागतिरित्युक्तम्भवति । समनन्तराध्याये तदुपायनस्य तद्भक्त्यात्मकत्वं वक्ष्यति । एवञ्च यथाऽधिकारं भक्तिप्रपत्त्यन्यतरात्मकं भगवत्समाश्रयणं कर्तव्यमिति तात्पर्यम् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
ज्ञानं तदेतदमलं दुरवापमाह
नारायणो नरसखः किल नारदाय।
एकान्तिनां भगवतस्तदकिञ्चनानां
पादारविन्दरजसाऽऽप्लुतदेहिनां स्यात्॥
मूलम्
ज्ञानं तदेतद45खिलं दुरवापमाह नारायणो नरसखः किल नारदाय।
एकान्तिनां भगवतस्तदकिञ्चनानां पादारविन्दरजसाऽऽप्लुतदेहिनां स्यात्॥ २७ ॥46
अनुवाद (हिन्दी)
यह निर्मल ज्ञान जो मैंने तुम लोगोंको बतलाया है, बड़ा ही दुर्लभ है। इसे पहले नर-नारायणने नारदजीको उपदेश किया था और यह ज्ञान उन सब लोगोंको प्राप्त हो सकता है, जिन्होंने भगवान्के अनन्यप्रेमी एवं अकिंचन भक्तोंके चरणकमलोंकी धूलिसे अपने शरीरको नहला लिया है॥ २७॥
वीरराघवः
ननु गुरुभिरज्ञातमिदमन्तरेणाऽपि तदुपदेशेन कथं त्वं ज्ञातवानित्याशङ्कायां भगवतो नारदस्यानुग्रहादेवेति वक्तुं तस्य साम्प्रदायिकत्वमाह- ज्ञानमिति । तदेतद्दुरवापं दुर्लभं ज्ञानं नरस्य सखा भगवान्नारायणो बदरिकाश्रमवासी नारदायाऽऽह, उपदिष्टवान् । ननु यत्र नारदः श्रोता, नारायणो वक्ता, तस्मिन्मादृशानां कथमधिकार इति शङ्कां निराह - एकान्तिनामिति । एकान्तिनामकिञ्चनानामनन्यप्रयोजनानां भगवतः पादारविन्दरजसा आप्ल तानां स्नातानां देहिनां भगवत्सेवासक्तानां सर्वेषामपि तज्ज्ञानं स्यादेव, न तूत्तमानामेवेति नियमः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम्।
धर्मं भागवतं शुद्धं नारदाद् देवदर्शनात्॥
मूलम्
श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम्।
धर्मं भागवतं शुद्धं नारदादेव दर्शनात्॥ २८ ॥
अनुवाद (हिन्दी)
यह विज्ञानसहित ज्ञान विशुद्ध भागवतधर्म है। इसे मैंने भगवान्का दर्शन करानेवाले देवर्षि नारदजीके मुँहसे ही पहले-पहल सुना था॥ २८॥
वीरराघवः
अत एव मयाऽपि नारदाच्छ्रुतमित्याह - श्रुतमिति । विज्ञानेन विवेकादिजन्येन संयुतं ज्ञानं शास्त्रोत्थं विशुद्धं भागवतधर्मरूपं भगवद्याथात्म्यवेदिनो नारदाच्छ्रुतं श्रवणेन ज्ञातं भगवतो नारदस्य वचसां श्रवणात् मम ज्ञानविज्ञानसम्पत्तिरभूदित्यर्थः ॥ २८ ॥
श्लोक-२९
मूलम् (वचनम्)
दैत्यपुत्रा ऊचुः
विश्वास-प्रस्तुतिः
प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम्।
एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ॥
मूलम्
प्रह्लाद त्वं वयञ्चाऽपि नर्तेऽन्यं विद्महे गुरुम्।
एताभ्यां गुरुपुत्राभ्यां बाला47नामपि हीश्वरौ47॥ २९ ॥
अनुवाद (हिन्दी)
प्रह्लादजीके सहपाठियोंने पूछा—प्रह्लादजी! इन दोनों गुरुपुत्रोंको छोड़कर और किसी गुरुको तो न तुम जानते हो और न हम। ये ही हम सब बालकोंके शासक हैं॥ २९॥
वीरराघवः
तत्र विस्मिताः पृच्छन्ति दैत्यकुमाराः - प्रह्लादेति । हे प्रह्लाद ! त्वं वयञ्चाऽपि एताभ्यां गुरुपुत्राभ्यामृते विनाऽन्यं गुरुं न विद्महे । एतदागमनात्पूर्वमेवाऽऽहं नारदपार्श्वं गत इत्यत्राऽऽहुः - बालानामपि शिशूनामपि सतामस्माकमेतावेव ईश्वरौ नियन्तारौ, अतस्तवाऽन्यत्र गमनं न सम्भवति48 ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः।
छिन्धि नः संशयं सौम्य स्याच्चेद्विश्रम्भकारणम्॥
मूलम्
बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः।
छिन्धि नस्संशयं सौम्य स्याच्चे द्विश्रम्भकारणम्॥ ३० ॥
अनुवाद (हिन्दी)
तुम एक तो अभी छोटी अवस्थाके हो और दूसरे जन्मसे ही महलमें अपनी माँके पास रहे हो। तुम्हारा महात्मा नारदजीसे मिलना कुछ असंगत-सा जान पड़ता है। प्रियवर! यदि इस विषयमें विश्वास दिलानेवाली कोई बात हो तो तुम उसे कहकर हमारी शंका मिटा दो॥ ३०॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्रादानुचरिते षष्ठोऽध्यायः॥ ६ ॥
वीरराघवः
नारद एवात्राऽऽगत इ49त्यपि न सम्भवतीत्याहुः - बालस्येति । अन्तःपुरस्थस्य बालस्य तव महतो नारदस्य सङ्गो दुरन्वयो दुर्घटः । हे सौम्य, 50प्रह्लाद ! नोऽस्माकं संशयं छिन्धि अपनुद । विस्रम्भकारणं विश्वासहेतुः स्याञ्चेत् असम्भवितत्वेनाऽस्माभिविश्वसनीयां नारदसङ्गमः 51त्वदुक्तस्तत्र यद्यस्मद्विश्वासहेतुरस्ति चेत् तदुपपादनपूर्वकं तत्सङ्गतिविषयं संशयं छिन्धीत्यर्थः ॥ ३० ॥
इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवदुषालिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां षष्ठोऽध्यायः ॥ ६ ॥
-
M,Ma दा ↩︎
-
A,B,T पुरुषार्थस्वरूपस्य । ↩︎
-
H,V द्वृ ↩︎
-
A,B,G,J,T भय, M,Ma नय ↩︎
-
A,B,G,J,M,Ma,T दर्थञ्चा ↩︎
-
W मस्तु ↩︎
-
A,B,G,J,M,Ma,T कल्पस्य ↩︎
-
W र्षाः ↩︎
-
W ताः । ↩︎
-
A,B,T चनीचैः ↩︎
-
A,B,G,J,T य ईप्सितः ↩︎
-
W omits योऽर्थः । ↩︎
-
A,B,G,J,T च स्त्रे ↩︎
-
M,Ma वशः ↩︎
-
M,Ma प्रत्ताः ↩︎
-
M,Ma स्थ इवे ↩︎
-
W द्वं ↩︎
-
W omit गृहं ↩︎
-
W जहं ↩︎
-
M,Ma च य ↩︎
-
A,B,G,J,T,V ह ↩︎
-
M,Ma वा ↩︎
-
M,Ma यत्स्वी ↩︎
-
A,B,G,J,T त्र चिद्वा दी ↩︎
-
M,Ma नं ↩︎
-
A,B,G,H,J,T,V काम ↩︎
-
M,Ma गोऽयं नि ↩︎
-
H,V,W लो वि; M,Ma डोऽक्षि ↩︎
-
A,B,T प्रसक्त्या ↩︎
-
A,B,T omit अतः ↩︎
-
M,Ma काल ↩︎
-
M,Ma ड्य ↩︎
-
W omits परि ↩︎
-
M,Ma तया ↩︎
-
W omits सर्वे ↩︎
-
M,Ma दिभिः ↩︎
-
W omits तत्र ↩︎
-
M,Ma यो वि ↩︎
-
A,B,G,J,T म ↩︎
-
The following extra verse is found in H,V editions only शान्तो भयो विगततृदपरमात्मतत्त्व बोधोदयेन विधृतात्म परिभ्रमाक्षः । योनोऽवधूतवपुषापरमेण चष्टं सुप्तं समुत्थितमिथात्म विकल्पभेदम् । ↩︎
-
A,B,T add इति नः शङ्का वर्तत इत्यर्थः । ↩︎
-
A,B,T इति । ↩︎
-
W Omits प्राह्लाद! ↩︎
-
W Omits त्वत्। ↩︎