०५

[पञ्चमोऽध्यायः]

भागसूचना

हिरण्यकशिपुके द्वारा प्रह्लादजीके वधका प्रयत्न

श्लोक-१

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः।
शण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके॥

मूलम्

पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः।
शण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके॥ १ ॥

वीरराघवः

एवमापृष्टद्वेषनिमित्तस्तद्वक्तुं तावदुपोद्धातमाह भगवान्नारदः - पौरोहित्यायेत्यादिना । भगवान् काव्यः शुक्रः पौरोहित्याय पुरोहितकर्मकर्तुमसुरैः वृतः, किलेति प्रसिद्धिं द्योतयति । तस्य काव्यस्य सुतौ शण्डामर्काख्यौ दैत्यराजस्य हिरण्यकशिपोः गृहसमीपे, आस्तामिति शेषः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

तौ राज्ञा प्रापितं बालं प्रह्रादं नयकोविदम्।
पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान्॥

मूलम्

तौ राज्ञा प्रापितं बालं प्रह्रादं नयकोविदम्।
पाठयामासतुः पाठ्यानन्यांश्चासुरबालकान्॥ २ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं—युधिष्ठिर! दैत्योंने भगवान् श्रीशुक्राचार्यजीको अपना पुरोहित बनाया था। उनके दो पुत्र थे—शण्ड और अमर्क। वे दोनों राजमहलके पास ही रहकर हिरण्यकशिपुके द्वारा भेजे हुए नीतिनिपुण बालक प्रह्लादको और दूसरे पढ़ानेयोग्य दैत्य-बालकोंको राजनीति, अर्थनीति आदि पढ़ाया करते थे॥ १-२॥

वीरराघवः

तौ च शण्डामर्कौ दैत्यराजेन प्रापितं नीतिशास्त्रपठनार्थं प्रापितं प्रह्लादमन्यांश्चासुरबालकांश्च पाठ्यान् दण्डनीत्यादीन् पाठयामासतुः पठनं कारितवन्तौ । 1अत्र नयकोविदमितिक्रियाविशेषणं, यथानयकोविदाः नीतिशास्त्रनिपुणा भवन्ति तथा पाठयामासतुः इति ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च।
न साधु मनसा मेने स्वपरासद‍्ग्रहाश्रयम्॥

मूलम्

यत्तत्र गुरुणा प्रोक्तं शुश्रु2वेऽनुपपाठ च।
न साधु मनसा मेने 3स्वपरासद‍्ग्रहाश्रयम्॥ ३ ॥

अनुवाद (हिन्दी)

प्रह्लाद गुरुजीका पढ़ाया हुआ पाठ सुन लेते थे और उसे ज्यों-का-त्यों उन्हें सुना भी दिया करते थे। किन्तु वे उसे मनसे अच्छा नहीं समझते थे। क्योंकि उस पाठका मूल आधार था अपने और परायेका झूठा आग्रह॥ ३॥

वीरराघवः

तत्र एवं स्थिते प्रह्लादो यद्गुरुणा प्रोक्तं तच्छुश्रुवे श्रुतवान् अनुपठितवांश्च परन्तु तत्प्रोक्तं मनसा साधु यथा तथा न मेने । तत्र हेतुं वदन् प्रोक्तं विशिनष्टि-स्वपरासद्ग्रहाश्रयम् अयं स्वः स्वकीयो मित्रम्, अयन्तु परः शत्रुरित्येवं रूपो योऽसद्ग्रहो वृथाग्रहरूपोऽभिमानस्तस्याश्रयं हेतुभूतम् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

एकदासुरराट् पुत्रमङ्कमारोप्य पाण्डव।
पप्रच्छ कथ्यतां वत्स मन्यते साधु यद‍्भवान्॥

मूलम्

एकदाऽसुरशट् पुत्रमङ्कमारोप्य पाण्डव।
पप्रच्छ कथ्यतां वत्स मन्यते साधु यद‍्भवान्॥ ४ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! एक दिन हिरण्यकशिपुने अपने पुत्र प्रह्लादको बड़े प्रेमसे गोदमें लेकर पूछा—‘बेटा! बताओ तो सही, तुम्हें कौन-सी बात अच्छी लगती है?’॥ ४॥

वीरराघवः

एवं स्थिते, हे पाण्डव ! कदाचिदसुरराट् पुत्रं प्रह्लादमङ्कमारोप्य उत्सङ्गे निधाय, हे वत्स ! हे पुत्र ! भवानाचार्यप्रोक्तेषु मध्ये यत्साधु मन्यते तत्कथ्यताम् इत्येवं पप्रच्छ ॥ ४ ॥

श्लोक-५

मूलम् (वचनम्)

प्रह्राद उवाच

विश्वास-प्रस्तुतिः

तत्साधु मन्येऽसुरवर्य देहिनां
सदा समुद्विग्नधियामसद‍्ग्रहात्।
हित्वाऽऽत्मपातं गृहमन्धकूपं
वनं गतो यद्धरिमाश्रयेत॥

मूलम्

तत्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद‍्ग्रहात्।
हित्वाऽऽत्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत॥ ५ ॥

अनुवाद (हिन्दी)

प्रह्लादजीने कहा—पिताजी! संसारके प्राणी ‘मैं’ और ‘मेरे’ के झूठे आग्रहमें पड़कर सदा ही अत्यन्त उद्विग्न रहते हैं। ऐसे प्राणियोंके लिये मैं यही ठीक समझता हूँ कि वे अपने अधःपतनके मूल कारण,घाससे ढके हुए अँधेरे कूएँके समान इस घरको छोड़कर वनमें चले जायँ और भगवान् श्रीहरिकी शरण ग्रहण करें॥ ५॥

वीरराघवः

एवं दैत्येन पृष्टः प्रह्लादस्तमाह - तदित्येकेन । हे असुरवर्य ! दैत्यराज ! असद्ग्रहात् देहात्माभिमान-स्वतन्त्राभिमान-तन्मूलशब्दादिविषयाभिनिवेशादिरूपादसद्ग्रहाद्धेतोः सदा नित्यं समुद्विग्ग्रा नितरां भीता धीर्येषां तेषां देहिनां कुत्सितदेहधारिणां आत्मपातं पतन्त्यनेनेति पातम् आत्मनः अधःपतनहेतुमन्धकूपतुल्यं गृहं त्यक्त्वा वनं अरण्यं प्रविष्टो हरिम् आश्रितबन्धहरं भगवन्तमाश्रयेतेति यत्तदेव साधु मन्ये इति । हित्वेति पदेन हेयसंक्षेपः हरिमाश्रयेतेत्यनेन उपादेयतत्त्वतदनुष्ठानसंक्षेपः, वनं गत इति विविक्तदेशोपलक्षणम् ॥ ५ ॥

श्लोक-६

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः।
जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः॥

मूलम्

श्रुत्वा पुत्रगिरो दैत्यः पर4पक्ष5समाहिताः।
जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः॥ ६ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं—प्रह्लादजीके मुँहसे शत्रुपक्षकी प्रशंसासे भरी बात सुनकर हिरण्यकशिपु ठठाकर हँस पड़ा। उसने कहा—‘दूसरोंके बहकानेसे बच्चोंकी बुद्धि यों ही बिगड़ जाया करती है॥ ६॥

वीरराघवः

एवमुक्तो दैत्यराजः किमाहेत्याह-6नारदः-श्रुत्वेति । परपक्षसमाहिताः परपक्षे विष्णौ समाहिताः परिनिष्ठिताः पुत्रस्य प्रह्लादस्य, गिरः श्रुत्वा दैत्यो जहास हासपूर्वकमुवाचेत्यर्थः । तदेवाह-बालानां बुद्धिः परबुद्धिभिः परस्मिन् शत्रौ विष्णौ बुद्धिर्येषां तैर्भिद्यते अन्यथा क्रियते, विपरीता क्रियते इत्यर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः।
विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा॥

मूलम्

सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभिः।
विष्णुप7क्षैः प्रतिच्छन्नैः न भिद्येतास्य धीर्यथा॥ ७ ॥

अनुवाद (हिन्दी)

जान पड़ता है गुरुजीके घरपर विष्णुके पक्षपाती कुछ ब्राह्मण वेष बदलकर रहते हैं। बालककी भलीभाँति देख-रेख की जाय, जिससे अब इसकी बुद्धि बहकने न पाये॥ ७॥

वीरराघवः

नूनं गुरुगेहे प्रतिच्छन्नैः विष्णोर्भक्तैः द्विजातिभिः ब्राह्मणैः अयं बालो भिद्यते विपरीतबुद्धिः क्रियते, अतोऽस्य बालस्य बुद्धिर्यथा न भिद्येत तथा सम्यग्विधार्यतां विचार्यतामिति8 ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः।
प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः॥

मूलम्

गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः।
प्रशस्य श्लक्ष्णया वाचा 9तमपृच्छन्हि9 सामभिः॥ ८॥

अनुवाद (हिन्दी)

जब दैत्योंने प्रह्लादको गुरुजीके घर पहुँचा दिया, तब पुरोहितोंने उनको बहुत पुचकारकर और फुसलाकर बड़ी मधुर वाणीसे पूछा॥ ८॥

वीरराघवः

ततो दैत्ययाजकाः दैत्यपुरोहिताः स्वगृहम्प्रति दैत्यभटेरानीतं प्रापितं प्रह्लादमाहूय प्रशस्य प्रस्तुत्य सामोक्तिभिः श्लक्ष्णया मृद्व्या उक्त्या च सम्यगपृच्छन् ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा।
बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः॥

मूलम्

वत्स, प्रह्राद! भद्रं ते सत्यं कथय मा मृषा।
बालानति कुतस्तुभ्यमेष बुद्धिविपर्ययः॥ ९ ॥

अनुवाद (हिन्दी)

बेटा प्रह्लाद! तुम्हारा कल्याण हो। ठीक-ठीक बतलाना। देखो, झूठ न बोलना। यह तुम्हारी बुद्धि उलटी कैसे हो गयी? और किसी बालककी बुद्धि तो ऐसी नहीं हुई॥ ९॥

वीरराघवः

प्रश्नमेवाह-वत्सेति द्वाभ्याम् । हे वत्स! प्रह्लाद ! ते तव भद्रमस्तु । न त्वां ताडयाम इति भावः । सत्यं यथार्थं कथय, मृषा 10मिथ्या मा कथय । किं कथयेयम् ? तत्राऽऽहुः 11बालानिति । बालानति अतिक्रम्य सर्वान् बालान् विहाय तुभ्यं तवैव एष बुद्धिविपर्यासः कुतो हेतोः अभूत् इति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

बुद्धिभेदः परकृत उताहो ते स्वतोऽभवत्।
भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन॥

मूलम्

बुद्धिभेदः परकृत उताहो ते स्व12तोऽभवत्।
भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन!॥ १० ॥

अनुवाद (हिन्दी)

कुलनन्दन प्रह्लाद! बताओ तो बेटा! हम तुम्हारे गुरुजन यह जानना चाहते हैं कि तुम्हारी बुद्धि स्वयं ऐसी हो गयी या किसीने सचमुच तुमको बहका दिया है?॥ १०॥

वीरराघवः

किमयं बुद्धिविपर्यासः परैर्विष्णुपक्षपातिभिः कृतः उताहो आहोस्वित् स्वत एव तवाऽभवत्, दैत्यकुलनन्दन ! त्वद्गुरूणां श्रोतुकामानामस्माकं भण्यतां कथ्यतामिति ॥ १० ॥

श्लोक-११

मूलम् (वचनम्)

प्रह्राद उवाच

विश्वास-प्रस्तुतिः

स्वः परश्चेत्यसद‍्ग्राहः पुंसां यन्मायया कृतः।
विमोहितधियां दृष्टस्तस्मै भगवते नमः॥

मूलम्

13स्वः परश्चेत्य13सद‍्ग्राहः पुंसां यन्मायया कृतः।
विमोहितधियां दृष्टस्तस्मै भगवते नमः॥ ११ ॥

अनुवाद (हिन्दी)

प्रह्लादजीने कहा—जिन मनुष्योंकी बुद्धि मोहसे ग्रस्त हो रही है, उन्हींको भगवान‍्की मायासे यह झूठा दुराग्रह होता देखा गया है कि यह ‘अपना’ है और यह ‘पराया’। उन मायापति भगवान‍्को मैं नमस्कार करता हूँ॥ ११॥

वीरराघवः

एवमुक्त आह प्रह्लादः - पर इत्यादिना चतुर्भिः । यत्पृष्टं बुद्धिभेदः परकृत उत स्वाभाविक इति तत्र तमिमं स्वपरविभागं देहात्माभिमानरूपाज्ञानमूलकं भगवन्मायामोहितानामिति निन्दितुं तावत् देहात्माभिमानादिरूपमोहनिमित्तविचित्रमायशक्तियुक्तं भगवन्तं नमस्करोति - पर इति । यस्येश्वरस्य मायया हेतुना स्वः परश्चेत्यसद्ग्राहः इदं मित्रमयं 14शत्रुः अयं देवो मनुष्यो ब्राह्मण इत्यादि देहात्मभ्रमः कृतः सम्पादितः, विमोहितधियां भगवन्मायया विमोहिता धीर्येषां तेषां भवतामेव दृष्टौ न ममेति भावः, तस्मै पूर्णषाड्गुण्याय नमः । विमोहितधियामित्यनेन “दैवी ह्येषा गुणमयी मम माया दुरत्यया” (भ.गी. 7-14) इति भगवदुक्तरीत्या भगवदप्रपन्नानां भवतामेवासद्ग्राहः, न तु तत्प्रपन्नस्य मम इति सूचितम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते।
अन्य एष तथान्योऽहमिति भेदगतासती॥

मूलम्

स यदानु15वृतः पुंसां पशुबुद्धिर्विभिद्यते।
अन्य एष तथाऽन्योऽहमिति भेदगता सती॥ १२ ॥

अनुवाद (हिन्दी)

वे भगवान् ही जब कृपा करते हैं, तब मनुष्योंकी पाशविक बुद्धि नष्ट होती है। इस पशुबुद्धिके कारण ही तो ‘यह मैं हूँ और यह मुझसे भिन्न है’ इस प्रकारका झूठा भेदभाव पैदा होता है॥ १२॥

वीरराघवः

तदेव व्यञ्जयन्नसद्ग्राहं निन्दति - स इति । स भगवान् यदा पुम्भिस्तु 16वृतः आश्रितः तदा पुंसां पशुबुद्धिः पशुष्विव बुद्धिः देहात्माभिमानरूपा बुद्धिः विपद्यते निरस्यते । काऽसौ पशुबुद्धिः ? या अन्य एषः अन्योऽहम् इत्येवंरूपा सर्वशरीरेषु ज्ञानैकाकारतया परमात्मशरीरतया चावस्थितानात्मनो विस्मरतां स्वः पर इत्ये17वंरूपा भेदगता अनात्मभूतदेवासुरमनुष्यादिशरीरगता अत एवासती दुष्टा अनर्थावहा सैषा पशुबुद्धिरित्यर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

स एष आत्मा स्वपरेत्यबुद्धिभि-
र्दुरत्ययानुक्रमणो निरूप्यते।
मुह्यन्ति यद्वर्त्मनि वेदवादिनो
ब्रह्मादयो ह्येष भिनत्ति मे मतिम्॥

मूलम्

स एष आत्मा स्वपरेत्यबुद्धिभिः दुर18न्वयानुक्रमणो 19निरूप्यते।
मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम्॥ १३ ॥

अनुवाद (हिन्दी)

वही परमात्मा यह आत्मा है। अज्ञानीलोग अपने और परायेका भेद करके उसीका वर्णन किया करते हैं। उनका न जानना भी ठीक ही है; क्योंकि उसके तत्त्वको जानना बहुत कठिन है और ब्रह्मा आदि बड़े-बड़े वेदज्ञ भी उसके विषयमें मोहित हो जाते हैं। वही परमात्मा आपलोगोंके शब्दोंमें मेरी बुद्धि ‘बिगाड़’ रहा है॥ १३॥

वीरराघवः

एवं स्वपरविभागहेतुभूतदेहात्मभ्रमादेः भगवन्मायाहेतुकत्वकथनेन तद्वरणात्तन्निवृत्तिकथनेन च भगवत एवाज्ञानप्रदत्वं तन्निवर्तकत्वं चोक्तम् । अथ ज्ञानप्रदातृत्वमपि तस्यैवेत्यह - इति । स 20उक्तविध एष आत्मा प्रकृतः परमात्मा स्वपरेत्यबुद्धिः, स्वः पर इति बुद्धिरहितः सर्वान्तरात्मतया सर्वत्र समत्वादित्यर्थः । दुरन्वयं पुरुषान्तरेष्वघटमानमनुक्रमणं व्यापारो यस्य तादृशो निरूप्यते अन्यैरशक्यं सर्वं सर्वशक्तिलीलया करोतीत्यर्थः । यस्य वर्त्मनि मार्गे यत्स्वरूपविमर्शने वेदवादिनो ब्रह्मादयोऽपि मुह्यन्ति स एष एव परमात्मा मम मतिं बुद्धिं भिन21त्तीत्यर्थः। स्वपरेत्यबुद्धिरित्यनेन देवासुरादिविभागमन्तरेण सर्वेषां ज्ञानप्रदत्वमुक्तम् । दुर22न्वयानुक्रमण इत्यनेन सर्वशक्तित्वं वैषम्यादिराहित्यञ्चोक्तम् । यद्वर्त्मनि ब्रह्मादयोऽपि मुह्यन्तीत्यनेन तत्प्रसादादेव ब्रह्मादीनामपि ज्ञानोदयः, अन्यथा केवलं तेषामपि मोह एवेत्युक्तम् । स्वपरेत्यबुद्धिभिरिति 23तृतीयान्तमपि23 पाठान्तरम् । तत्र स्वः पर इति न विद्यते बुद्धिर्येषां तैः स्वपरविभागात्मक विवेकरहितैरित्यर्थः । तादृशैः दुरन्वयानुक्रमणोऽनितरसाधारणव्यापारो निरूप्यते, ज्ञायत इत्यर्थः । तत्प्रसादान्निवृत्तदेहात्माभिमानादिभिः, ज्ञानाज्ञानादिप्रदत्वेन परमात्मा ज्ञायते इत्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ।
तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया॥

मूलम्

यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ।
तथा मे भिद्यते चेतश्चक्र24पाणेर्यदृच्छया॥ १४ ॥

अनुवाद (हिन्दी)

गुरुजी! जैसे चुम्बकके पास लोहा स्वयं खिंच आता है, वैसे ही चक्रपाणिभगवान‍्की स्वच्छन्द इच्छाशक्तिसे मेरा चित्त भी संसारसे अलग होकर उनकी ओर बरबस खिंच जाता है॥ १४॥

वीरराघवः

एवं ज्ञानप्रदत्वमुक्तम् । अथ तस्यैव तत्प्रसादनेन स्वस्य प्रवर्तकत्वमाह - यथेति । आकर्षसन्निधौ अयस्कान्तसन्नि25धाने अयोलोहं स्वयमेव यथा भ्रमति, भ्राम्यति चञ्चलं भवतीत्यर्थः । तथा मम चेतोऽपि 26चक्रं पाणौ यस्य तस्य हरेः सन्निधौ26 यदृच्छया हेत्वन्तरनिरपेक्षं भिद्यते तत्प्रसादायत्ततत्सान्निध्यादेव ममैवंविधा बुद्धिवृत्तिरभूदित्यर्थः । अनेन “बुद्धिभेदः परकृतः उताहो ते स्वतोऽभवत्” (भाग 7-5-10) इति प्रश्नस्योत्तरमुक्तं भवति ॥ १४ ॥

श्लोक-१५

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

एतावद‍्ब्राह्मणायोक्त्वा विरराम महामतिः।
तं निर्भर्त्स्याथ कुपितः स दीनो राजसेवकः॥

मूलम्

एतावद‍्ब्राह्मणा27योक्त्वा विरराम महामतिः।
तं 28सुनिर्भर्त्स्य28 कुपितः 29स दीनो राजसेव30कः॥ १५ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं—परमज्ञानी प्रह्लाद अपने गुरुजीसे इतना कहकर चुप हो गये। पुरोहित बेचारे राजाके सेवक एवं पराधीन थे। वे डर गये। उन्होंने क्रोधसे प्रह्लादको झिड़क दिया और कहा—॥ १५॥

वीरराघवः

31एवमुक्तो गुरुराहेत्याह मुनिः - एतावदिति31 । ब्राह्मणान् दैत्ययाजकान्प्रत्येवम् एतावदेवोक्त्वा महामतिः स प्रह्लादो विरराम तूष्णीम्बभूव ततो दीनः उपायान्तरेण तं स्ववशीकर्तुमशक्तो गुरुः तं निर्भर्त्स्य कुपितस्सन् राजसेवकमुवाचेति शेषः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

आनीयतामरे वेत्रमस्माकमयशस्करः।
कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दमः॥

मूलम्

आनीयतामरे वेत्रमस्माकमयश32स्कृतः।
कुलाङ्गारस्य दुर्बुद्धेश्चतु33र्थोऽस्योदितो दमः॥ १६ ॥

अनुवाद (हिन्दी)

‘अरे, कोई मेरा बेंत तो लाओ। यह हमारी कीर्तिमें कलंक लगा रहा है। इस दुर्बुद्धि कुलांगारको ठीक करनेके लिये चौथा उपाय दण्ड ही उपयुक्त होगा॥ १६॥

वीरराघवः

तदेवाह - आनीयतामिति द्वाभ्याम् । अरे! हे राजभट ! वेत्रं प्रहरणसाधनयष्टिविशेषः आनीयताम् अस्माकमयशोऽपकीर्तिं करोतीत्ययशस्कृत् तस्य, अत एव कुलस्य दैत्यकुलस्य अङ्गारवन्नाशकः तस्य दुर्बुद्धेरितः परं दमः शिक्षणोपायः चतुर्थ एव स्यात्, दण्ड एवोपायः कर्तव्यो न सामादिरित्यर्थः । “चतुर्थोऽस्योदितो दम" इति पाठे उदितः शास्त्रेषूक्तः चतुर्थो दण्डोपाय एवाऽस्य दमो दमनसाधनमित्यर्थः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः।
यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः॥

मूलम्

दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः।
34यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भकः॥ १७ ॥

अनुवाद (हिन्दी)

दैत्यवंशके चन्दनवनमें यह काँटेदार बबूल कहाँसे पैदा हुआ? जो विष्णु इस वनकी जड़ काटनेमें कुल्हाड़ेका काम करते हैं, यह नादान बालक उन्हींकी बेंट बन रहा है; सहायक हो रहा है॥ १७॥

वीरराघवः

कुलनाशकत्वं व्यनक्ति-दैतेया एव चन्दनद्रुमाः, तेषां वनेऽयं कण्टकद्रुमतुल्यो जातः, तन्मूलेऽपि एषां दैतेयचन्दनवनानां यानि मूलानि, तेषामुन्मूलने छेदने परशोः परशुस्थानीयस्य विष्णोः अयमर्भको नालायितः नालवदाचरितवान् । यथा परशोश्छेदकत्वे 35कर्बुरादिद्रुमनिर्मितो दण्डः सहकारी, तं विना छेदनासम्भवात् । तथा अयं विष्णोः दैत्यमूलस्य छेत्तुः सहकारी जात इत्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः।
प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम्॥

मूलम्

इति तं विविधोपायैः भीषयंस्तर्जनादिभिः।
प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम्॥ १८ ॥

अनुवाद (हिन्दी)

इस प्रकार गुरुजीने तरह-तरहसे डाँट-डपटकर प्रह्लादको धमकाया और अर्थ, धर्म एवं कामसम्बन्धी शिक्षा दी॥ १८॥

वीरराघवः

इति इत्थं वदन् तर्जनादिभिः नानोपायैः भीषयन् प्रह्लादं तं त्रिवर्गस्योपपादनं धर्मार्थकामप्रतिपादकं शास्त्रं ग्राहयामास ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम्।
दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम्॥

मूलम्

तत 36एनं गुरुर्ज्ञात्वा 37ज्ञातज्ञेयचतुष्टयम्।
दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम्॥ १९ ॥

अनुवाद (हिन्दी)

कुछ समयके बाद जब गुरुजीने देखा कि प्रह्लादने साम, दान, भेद और दण्डके सम्बन्धकी सारी बातें जान ली हैं, तब वे उन्हें उनकी माँके पास ले गये। माताने बड़े लाड़-प्यारसे उन्हें नहला-धुलाकर अच्छी तरह गहने कपड़ोंसे सजा दिया। इसके बाद वे उन्हें हिरण्यकशिपुके पास ले गये॥ १९॥

वीरराघवः

ततो गुरुरेनं प्रह्लादं ज्ञानं ज्ञेयानामुपायानां सामादीनां चतुष्टयं यस्य तादृशं ज्ञात्वा आलक्ष्य मात्रा मृष्टं उद्वर्त्यस्त्रापितं अलङ्कृतञ्च प्रह्लादं दैत्येन्द्रं प्रति दर्शयामास पितृसन्निधिं प्रापयामासेत्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः।
परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम्॥

मूलम्

पादयोः पतितं बालं प्रतिनन्द्याऽऽशिषाऽसुरः।
परिष्वज्य चिरं दोर्भ्यां पर38मां प्राप निर्वृतिम्॥ २० ॥

अनुवाद (हिन्दी)

प्रह्लाद अपने पिताके चरणोंमें लोट गये। हिरण्यकशिपुने उन्हें आशीर्वाद दिया और दोनों हाथोंसे उठाकर बहुत देरतक गलेसे लगाये रखा। उस समय दैत्यराजका हृदय आनन्दसे भर रहा था॥ २०॥

वीरराघवः

ततः पादयोः प्रणमन्तं नमस्कुर्वन्तं 39बालं आशिषा आशीः पूर्वकं प्रतिनन्द्य असुरो हिरण्यकशिपुः दोर्भ्यां भुजाभ्यां (पुत्रस्य शिरः) परिष्वज्य परमां निर्वृतिं आनन्दं प्राप्तवान् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः।
आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर॥

मूलम्

आरोप्याऽङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः।
आसिञ्चन्विकसद्वक्त्रमिदमाह युधिष्ठिर!॥ २१ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! हिरण्यकशिपुने प्रसन्नमुख प्रह्लादको अपनी गोदमें बैठाकर उनका सिर सूँघा। उनके नेत्रोंसे प्रेमके आँसू गिर-गिरकर प्रह्लादके शरीरको भिगोने लगे। उसने अपने पुत्रसे पूछा॥ २१॥

वीरराघवः

हे युधिष्ठिर ! उत्सङ्गे निधाय मूर्धन्युपाघ्राय च अश्रुक40लाम्बुभिः हर्षाश्रुजलबिन्दुभिः आसिञ्चन् विकस41द्वदनं यस्य तादृशो 42दैत्यः सुतं प्रति42 43इत्थं वक्ष्यमाणमाह ॥ २१ ॥

श्लोक-२२

मूलम् (वचनम्)

44हिरण्यकशिपुरुवाच44

विश्वास-प्रस्तुतिः

प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम्।
कालेनैतावताऽऽयुष्मन् यदशिक्षद् गुरोर्भवान्॥

मूलम्

प्रह्ला45दानूच्यतां तात स्वधीतं किञ्चिदुत्तमम्।
कालेनैतावताऽऽयुष्मन् यदशिक्षद्गुरोर्भवान्॥ २२ ॥

अनुवाद (हिन्दी)

हिरण्यकशिपुने कहा—चिरंजीव बेटा प्रह्लाद! इतने दिनोंमें तुमने गुरुजीसे जो शिक्षा प्राप्त की है, उसमेंसे कोई अच्छी-सी बात हमें सुनाओ॥ २२॥

वीरराघवः

तदेवाऽऽह प्रह्लादेति । हे आयुष्मन्! 46तात! पुत्र46 ! प्रह्लाद ! भवानेतावता कालेन गुरोस्सकाशाद्यदुपाशिक्षत् अधीतवान् 47इत्यर्थः । तन्मध्ये किञ्चिदुत्तमं स्वधीतं सम्यगावृत्त्या गृहीतं तत् हे तात ! प्रह्लाद ! अनूच्यतां सम्य48गनुक्रमेण पठ्यताम् ॥ २२ ॥

श्लोक-२३

मूलम् (वचनम्)

प्रह्राद उवाच

विश्वास-प्रस्तुतिः

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्॥

मूलम्

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा।
क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमम्॥

मूलम्

इति पुंसाऽर्पिता विष्णौ भक्तिश्चेन्नवलक्षणा।
क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमम्॥ २४ ॥

अनुवाद (हिन्दी)

प्रह्लादजीने कहा—पिताजी! विष्णुभगवान‍्की भक्तिके नौ भेद हैं—भगवान‍्के गुण-लीला-नाम आदिका श्रवण, उन्हींका कीर्तन, उनके रूप-नाम आदिका स्मरण, उनके चरणोंकी सेवा, पूजा-अर्चा, वन्दन, दास्य, सख्य और आत्मनिवेदन। यदि भगवान‍्के प्रति समर्पणके भावसे यह नौ प्रकारकी भक्ति की जाय, तो मैं उसीको उत्तम अध्ययन समझता हूँ॥ २३-२४॥

वीरराघवः

यदुत्तममधीतमध्ये किञ्चिदनूच्यतामिति तत्राऽऽह श्रवणमिति । यदुक्तं पूर्वं “वनं गतो यद्धरिमाश्रयेत” इति तदेकाश्रयणं विवृणोति-श्रवणमिति द्वाभ्याम् । पुंसां श्रवणादीनि नव लक्षणानि यस्याः सा भक्तिश्चेन्नवलक्षणा भक्तिप्रतिपादकशास्त्रमधीतञ्चेत् तदेव स्वधीतमुत्तमं मन्ये, न त्वधुना गुरोः सकाशादधीतं; तत्तु ‘गुरुभिर्नाध्यापितमिति भावः । स्वधीत प्रश्नोत्तरनिगमनमुत्तममधीतमिति । श्रवणमित्यादि तु पूर्वोक्ताश्रयणविवरणपरम् । भगवत्यद्धा क्रियते चेत् अधीतविद्या प्रतिपाद्या नवलक्षणा भक्तिः निष्कपटभावेन भगवति क्रियत इति यत्कृताऽपि सा भक्तिर्विष्णावर्पितेति यच्च तदेतदुत्तमं मन्ये । न केवलं नवलक्षणा भक्तिप्रतिपादक शास्त्राऽध्ययनमात्रमेवोत्तमं, अपि तु तदर्थानुष्ठानं, अनुष्ठितस्येश्वरे समर्पणञ्चे49त्यत्युत्तमं मन्ये, केवलाध्ययनमात्रस्य व्यर्थत्वादितिभावः । अर्पिता विष्णावित्यनेन भक्तेरनन्यप्रयोजनत्वेन कर्तव्यतोक्ता । तत्र विष्णोः श्रवणं तत्स्वरूपरूपगुणविभूतिश्रवणं, कीर्तनं नामोच्चारणाद्यात्मकम्, स्मरणं स्वरूपादिविषयकमेव । पादसेवनार्चन वन्दनदास्यसख्यानि तु तदीयपर्यन्तानि । वन्दनं नमस्कारः, पादसेवनं पादयोः संवाहनं, तच्च अर्चाविग्रहतदीयपादयोश्चेति वेदितव्यम् । परव्यूहविभवादेरतीन्द्रियत्वेन तत्पाद50सेवनासम्भवात् । यद्वा भगवद्विषये मानसिकं तदीयविषये तु कायिकं विवक्षितम् । आत्मनिवेदनम् “ओमित्यात्मानं युञ्जीत” (म.ना.उ. 17-15) इति श्रुत्युक्तरीत्या तच्छेषत्वानुसन्धानम् । यद्यपि भक्तिर्नामध्यानोपासनादि शब्दवाच्याऽहरहरभ्यासाधेयातिशया आप्रयाणादनुवर्तमानाविवेकादि साधनसप्तकानुगृहीता तैलधारावदविच्छिन्नस्मृतिसन्तानात्मिका प्रीत्यात्मिका प्रत्यक्षतापन्ना ध्रुवाऽनुस्मृतिः न तु श्रवणादिरूपेण नवलक्षणा, तथाऽपि उक्तविधाया भक्तेरेव कर्मज्ञानयोगादिवच्छमदमादिवच्च श्रवणादीन्ययविलम्बेन निवर्तकान्युच्यन्ते । यद्वा, नवलक्षणा लक्ष्यते एभिरिति लक्षणानि चिह्नानि ज्ञापकानि भक्तियोगपरिपाकावस्था ज्ञापकानीति यावत् । उक्तविधभक्तियोगनिष्ठेन रागत एव श्रवणादीनि क्रियन्ते । लोकेऽपि हि यद्वस्तुविषया प्रीतिस्तद्विषयकश्रवणादीनि स्वत एव प्राप्तानीति न तत्र यत्नेन भवितव्यम् । अतः श्रवणादीनि प्रीत्यात्मकभक्तियोगकारितावस्थाविशेषरूपाणि तन्निष्पत्तिसूचकानि इति तात्पर्यम् । एवं प्रीतिकारितश्रवणादि पर्यन्तभक्तियोगानुष्ठानमेव “वनङ्गतो यद्धरिमाश्रयेत” (भाग 7-5-5) इत्युक्तमाश्रयणमित्युक्तं भवति ॥ २३, २४ ॥

श्लोक-२५

मूलम् (वचनम्)

51नारद उवाच51

विश्वास-प्रस्तुतिः

निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा।
गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः॥

मूलम्

निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा।
गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः॥ २५ ॥

अनुवाद (हिन्दी)

प्रह्लादकी यह बात सुनते ही क्रोधके मारे हिरण्यकशिपुके ओठ फड़कने लगे। उसने गुरुपुत्रसे कहा—॥ २५॥

वीरराघवः

एतदेवंविधं सुतस्य वचो निशम्याकर्ण्य तदा हिरण्यकशिपुः रुषा प्रस्फुरितः कम्पमानः अधरोष्ठो यस्य तादृश इदं वक्ष्यमाणं गुरुपुत्रं प्रत्युवाच ॥ २५ ॥

श्लोक-२६

मूलम् (वचनम्)

52हिरण्यकशिपुरु52वाच

विश्वास-प्रस्तुतिः

ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता।
असारं ग्राहितो बालो मामनादृत्य दुर्मते॥

मूलम्

ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयताऽसता।
असारं ग्राहितो बालो मामनादृत्य दुर्मते॥ २६ ॥

अनुवाद (हिन्दी)

रे नीच ब्राह्मण! यह तेरी कैसी करतूत है; दुर्बुद्धि! तूने मेरी कुछ भी परवाह न करके इस बच्चेको कैसी निस्सार शिक्षा दे दी? अवश्य ही तू हमारे शत्रुओंके आश्रित है॥ २६॥

वीरराघवः

तदेवाऽऽह- हे ब्रह्मबन्धो ! ब्राह्मणाभास ! किमेतत्ते त्वया, कृतमिति शेषः । अतीवानुचितमेतत्कृतमित्यर्थः । किं तत् ? यन्मामनादृत्य विपक्षं शत्रुपक्षमाश्रयता, अत एव असता मह्यमहितकारिणा त्वया हे दुर्मते ! असारं ग्राहितो बाल इति एतत् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः।
तेषामुदेत्यघं काले रोगः पातकिनामिव॥

मूलम्

सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः।
तेषामुदेत्यघं काले रोगः पातकिनामिव॥ २७ ॥

अनुवाद (हिन्दी)

संसारमें ऐसे दुष्टोंकी कमी नहीं है, जो मित्रका बाना धारणकर छिपे-छिपे शत्रुका काम करते हैं। परन्तु उनकी कलई ठीक वैसे ही खुल जाती है, जैसे छिपकर पाप करनेवालोंका पाप समयपर रोगके रूपमें प्रकट होकर उनकी पोल खोल देता है॥ २७॥

वीरराघवः

मित्रत्वेन वर्तमानस्यापि तव विरोधाचरणं नासम्भावितमित्याह - सन्तीति । दुष्टं मैत्रमित्रत्वं येषां ते, अत एव असाधवः छद्मवेषिणः कपटवेषधारिणो भवादृशा अपि हि लोके सन्ति तेषामयं द्रोहः काले उचित काले प्रकटो भवति रोगः पातकिनामिव । यथा- “ब्रह्महा क्षयरोगी स्यात् सुरापी श्यावदन्तकः । स्वर्णहारी तु कुनखी दुश्चर्मा गुरुतल्पगः” (याज्ञ. स्मृ. 3-209) इति स्मृत्युक्तः पातकिनां रोगः उचितकाले उदेति तथा तेषामघं द्रोहादिकमुचितकाले उदेतीत्यर्थः ॥ २७ ॥

श्लोक-२८

मूलम् (वचनम्)

गुरुपुत्र उवाच

विश्वास-प्रस्तुतिः

न मत्प्रणीतं न परप्रणीतं
सुतो वदत्येष तवेन्द्रशत्रो।
नैसर्गिकीयं मतिरस्य राजन्
नियच्छ मन्युं कददाः स्म मा नः॥

मूलम्

न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो!
नैसर्गिकीयं मतिरस्य राजन् नियच्छ मन्युं 53कददाः स्म मा53 नः॥ २८ ॥

अनुवाद (हिन्दी)

गुरुपुत्रने कहा—इन्द्रशत्रो! आपका पुत्र जो कुछ कह रहा है, वह मेरे या और किसीके बहकानेसे नहीं कह रहा है। राजन्! यह तो इसकी जन्मजात स्वाभाविक बुद्धि है। आप क्रोध शान्त कीजिये। व्यर्थमें हमें दोष न लगाइये॥ २८॥

वीरराघवः

एवमुपालब्धः आह गुरुपुत्रः - नेति । न मया पाठितं, नाऽपि परेण । किन्तु केवलमेष तव पुत्र एव वदत्येवम् । हे इन्द्रशत्रो ! तव ब्राह्मणेष्वाग्रहोऽनुचितोऽविषयत्वादिति भावः । ननु न परप्रणीतञ्चेत्कुतोऽस्याभूदियं मतिः ? तत्राऽऽह नैसर्गिकीति । हे राजन्! अस्य त्वत्पुत्रस्य इयं मतिः नैसर्गिकी स्वाभाविकी; न तु परैरुत्पादिता । अतो मन्युं क्रोधं नियच्छ उपसंहार । नोऽस्मभ्यं कत् कुत्सितं दुःखमित्यर्थः, मास्मदाः न देहीत्यर्थः, माङ्योगेऽप्यडार्षः । कदनात्मनां नः इति पाठान्तरम् । तत्र कदनात्मनां दीनात्मनां न मन्युं मद्विषयं क्रोधं नियच्छेत्यर्थः ॥ २८ ॥

श्लोक-२९

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम्।
न चेद‍्गुरुमुखीयं ते कुतोऽभद्रासती मतिः॥

मूलम्

गुरुणैवं प्रतिप्रोक्तो भूय एवाऽसुरः सुतम्।
न चेद‍्गुरुमुखीयं ते कुतो भद्राऽसती मतिः॥ २९ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं—युधिष्ठिर! जब गुरुजीने ऐसा उत्तर दिया, तब हिरण्यकशिपुने फिर प्रह्लादसे पूछा—‘क्यों रे! यदि तुझे ऐसी अहित करनेवाली खोटी बुद्धि गुरुमुखसे नहीं मिली तो बता, कहाँसे प्राप्त हुई?’॥ २९॥

वीरराघवः

इत्थं गुरुणा प्रत्युक्तो दैत्यः सुतं 54प्रह्लादमाहेत्याह 55नारदः - गुरुणेति। तदेवाऽऽह-न चेदिति । हे अभद्र ! इयं बुद्धिः गुरुमुखी गुरूपदेश56जा न चेत् तव कुतो हेतोस्तवाऽसती दुष्टा मतिरभूत् ॥ २९ ॥

श्लोक-३०

मूलम् (वचनम्)

प्रह्राद उवाच

विश्वास-प्रस्तुतिः

मतिर्न कृष्णे परतः स्वतो वा
मिथोऽभिपद्येत गृहव्रतानाम्।
अदान्तगोभिर्विशतां तमिस्रं
पुनः पुनश्चर्वितचर्वणानाम्॥

मूलम्

मतिर्न कृष्णे परतः स्व57तो वा मि58थोऽभिपद्येत गृहव्रतानाम्।
अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम्॥ ३० ॥

अनुवाद (हिन्दी)

प्रह्लादजीने कहा—पिताजी! संसारके लोग तो पिसे हुए को पीस रहे हैं, चबाये हुएको चबा रहे हैं। उनकी इन्द्रियाँ वशमें न होनेके कारण वे भोगे हुए विषयोंको ही फिर-फिर भोगनेके लिये संसाररूप घोर नरककी ओर जा रहे हैं। ऐसे गृहासक्त पुरुषोंकी बुद्धि अपने-आप किसीके सिखानेसे अथवा अपने ही जैसे लोगोंके संगसे भगवान् श्रीकृष्णमें नहीं लगती॥ ३०॥

वीरराघवः

एवमुक्त आह प्रह्लादः - मतिरिति । यत्पृष्टं कुतस्तवेयं मतिरिति, तत्र महतामनुग्रह एवेदृशी मतिहेतुरिति वक्तुं तावन्महद्भिरनुगृहीतानां भवादृ59शानामीदृशी मतिर्दुर्लभेत्याह - मतिरिति । गार्हस्थ्यरतानां स्वतः परतो वा मिथोऽन्योन्यस्माद्वा कृष्णे मतिः भक्त्यात्मिका नाऽभिपद्येत 60न सम्पद्येत60 । तत्र हेतुं वदन् गृहव्रतान्विशिनष्टि- अदान्तगोभिः अदान्तैरजितैर्गोभिरिन्द्रियैर्हेतुभिस्तमिस्त्रं निरयरूपं संसारं पुनः पुनर्विशतां चर्वितमनुभुक्तं तस्यैव पुनःश्चर्वणमुपभोगो येषां, पूर्वपूर्वैर्भुक्तमेव विषयं भुञ्जानानां पूर्वेद्युर्भुक्तानेव वनितादीन् विषयान् पुनः अपरेद्युर्भुञ्जानानामिति वा । एवं विषयासक्तचित्तनां त्वादृशां कृष्णे मतिर्दुर्लभा इत्युक्तम्, 61यद्वा, चर्वितचर्वणाः पशवः तत्तुल्यानामिति61 ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

न ते विदुः स्वार्थगतिं हि विष्णुं
दुराशया ये बहिरर्थमानिनः।
अन्धा यथान्धैरुपनीयमाना
वाचीशतन्त्यामुरुदाम्नि बद्धाः॥

मूलम्

न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थ62मानिनः।
अन्धा यथान्धैरुपनीयमाना वाचीशतन्त्यामुरुदाम्नि बद्धाः॥ ३१ ॥

अनुवाद (हिन्दी)

जो इन्द्रियोंसे दीखनेवाले बाह्य विषयोंको परम इष्ट समझकर मूर्खतावश अन्धोंके पीछे अन्धोंकी तरह गड्ढेमें गिरनेके लिये चले जा रहे हैं और वेदवाणीरूप रस्सीके—काम्यकर्मोंके दीर्घ बन्धनमें बँधे हुए हैं, उनको यह बात मालूम नहीं कि हमारे स्वार्थ और परमार्थ भगवान् विष्णु ही हैं—उन्हींकी प्राप्तिसे हमें सब पुरुषार्थोंकी प्राप्ति हो सकती है॥ ३१॥

वीरराघवः

माऽस्तु कृष्णे मतिः, स्वश्रेयोऽपि न स्वयं जानन्तीत्याह - नेति । स्वार्थश्च गतिश्च स्वार्थगतिः, तं स्वस्य पुरुषार्थभूतं तदुपायभूतञ्च विष्णुं ते गृहव्रता न विदुः । तत्र हेतुं वदन् तान् विशिनष्टि-बहिरर्थमानिनः बहिः शब्दादिविषयेषु अर्थमानिनः पुरुषार्थाभिमानिनः, अतस्ते अन्धैरुपनीयमाना अन्धा यथा पन्थानं न विदुः, किन्तु श्वभ्रे पतन्ति तथा तेऽपि 63ईशस्य तन्त्यां वेदलक्षणायां स्थूलरज्ज्वामुरुदाम्नि वर्णाश्रमधर्मादिरूपनानाविधकण्ठसूत्रे बद्धा भवन्ति वेदोक्तकेवलं काम्यकर्मण्यासक्तैः प्रलोभितास्तत्रैवासक्ताः पुनः पुनस्संसरन्तो दुःखमेव प्राप्नुवन्ति न तु निरतिशयानन्दरूपं 64परमपुरुषार्थलक्षणं भगवन्तं प्राप्नुवन्तीत्यर्थः ! ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

नैषां मतिस्तावदुरुक्रमाङ्घ्रिं
स्पृशत्यनर्थापगमो यदर्थः।
महीयसां पादरजोऽभिषेकं
निष्किञ्चनानां न वृणीत यावत्॥

मूलम्

नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः।
महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत्॥ ३२ ॥

अनुवाद (हिन्दी)

जिनकी बुद्धि भगवान‍्के चरणकमलोंका स्पर्श कर लेती है, उनके जन्म-मृत्युरूप अनर्थका सर्वथा नाश हो जाता है। परन्तु जो लोग अकिंचन भगवत्प्रेमी महात्माओंके चरणोंकी धूलमें स्नान नहीं कर लेते, उनकी बुद्धि काम्यकर्मोंका पूरा सेवन करनेपर भी भगवच्चरणोंका स्पर्श नहीं कर सकती॥ ३२॥

वीरराघवः

तदेव व्यनक्ति नैषामिति । एषामुक्तविधानां विषयासक्तचित्तानां मतिर्बुद्धिः उरुक्रमस्य निरतिशयमहिमशालिनो भगवतां निरतिशयपुरुषार्थरूपमङ्घ्रिं न स्पृशति न विषयीकरोति तदङ्घ्रिस्पर्शनं विशिनष्टि-यदर्थं यस्योरुक्रमाङ्घ्रिस्पर्शनस्य अर्थः प्रयोजनं फलमनर्थापगमः दुःखनिरासरूपः कियत्पर्यन्तं न स्पृशति, तत्राऽऽह यावन्निष्किञ्चनानामनन्यप्रयोजनानां महीयसां महाभागवतानां पादरजस्सेवां न वृणीत न वृणुयात् महत्सेवां न कुर्यात् तावन्न स्पृशतीत्यर्थः । मम मातृगर्भावस्थानदशायामेव महीयसः श्रीनारदस्याऽनुग्रहादियं बुद्धिरुरुक्रमाङ्घ्रि विषयाभूदिति गूढोऽभिप्रायः ॥ ३२ ॥

श्लोक-३३

मूलम् (वचनम्)

65नारद उवाच65

विश्वास-प्रस्तुतिः

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा।
अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले॥

मूलम्

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा।
अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले॥ ३३ ॥

अनुवाद (हिन्दी)

प्रह्लादजी इतना कहकर चुप हो गये। हिरण्यकशिपुने क्रोधके मारे अन्धा होकर उन्हें अपनी गोदसे उठाकर भूमिपर पटक दिया॥ ३३॥

वीरराघवः

इतीत्थमुक्त्वोपरतं तूष्णीमासीनं पुत्रं रुषा क्रोधेनान्धीकृतः आत्मा विवेको यस्य स हिरण्यकशिपुः स्वस्योत्सङ्गात् महीतले निरस्य 66तं पातयित्वा, आह चेत्युत्तरेणाऽन्वयः । निरस्यतीति पाठे न्यपातयदित्यर्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

आहामर्षरुषाविष्टः कषायीभूतलोचनः।
वध्यतामाश्वयं वध्यो निःसारयत नैर्ऋताः॥

मूलम्

आहामर्षरुषाविष्टः कषायी67भूतलोचनः।
वध्यतामाश्वयं वध्यो निस्सारयत नैर्ऋताः॥ ३४ ॥

अनुवाद (हिन्दी)

प्रह्लादकी बातको वह सह न सका। रोषके मारे उसके नेत्र लाल हो गये। वह कहने लगा—‘दैत्यो! इसे यहाँसे बाहर ले जाओ और तुरंत मार डालो। यह मार ही डालने योग्य है॥ ३४॥

वीरराघवः

अमर्षः असहनं, तत्सहितया रुषा आविष्टो व्याप्तः, अत एव कषायीभूते आताम्रे लोचने यस्य स आह च उक्तवांश्च । तदेवाऽऽह-वध्यतामिति । हे नैऋताः, इत एनं निस्सारयत बहिर्गमयत । अयं बालो वध्यो वधार्हः, अतः आशु वध्यतां हन्यताम् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

अयं मे भ्रातृहा सोऽयं हित्वा स्वान् सुहृदोऽधमः।
पितृव्यहन्तुर्यः पादौ विष्णोर्दासवदर्चति॥

मूलम्

अयं मे भ्रातृहा 68नूनं हित्वा स्वान् सुहृदोऽधमः।
पितृव्यहन्तुर्यः पादौ विष्णोर्दासवदर्चति॥ ३५ ॥

अनुवाद (हिन्दी)

देखो तो सही—जिसने इसके चाचाको मार डाला, अपने सुहृद्-स्वजनोंको छोड़कर यह नीच दासके समान उसी विष्णुके चरणोंकी पूजा करता है! हो-न-हो, इसके रूपमें मेरे भाईको मारनेवाला विष्णु ही आ गया है॥ ३५॥

वीरराघवः

वध्यत्वे हेतुः यतोऽयं मे मम भ्रातुर्हन्ता । कुतः ? योऽयमधमः बालः स्वान् स्वकीयान् सुहृदोऽस्मान् हित्वा पितृव्यस्य 69पितृभ्रातुर्हिरण्यक्षस्य69 हन्तुः विष्णोः पादौ चरणौ दासवदर्चति, तत्पक्षपातीत्यर्थः । अतस्स एवाऽयमित्यन्वयः । “हित्वाऽसून् सुहृद” इति पाठे, अयं मे भ्रातृहा, कुतः ? यद्यस्मात् अधमोऽयं सुहृदः प्रियानसून् प्राणान् हित्वा विष्णवे समर्प्य दासवत्तत्यादावर्चति । अतोऽयमेव प्रह्लादो मे भ्रातृहा इत्यर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः।
सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः॥

मूलम्

विष्णोर्वा साध्वसौ कि नु करिष्यत्यसमञ्जसः।
सौहृदं दुस्त्यजं पित्रो70रहाद्यः पञ्चहायनः॥ ३६ ॥

अनुवाद (हिन्दी)

अब यह विश्वासके योग्य नहीं है। पाँच बरसकी अवस्थामें ही जिसने अपने माता-पिताके दुस्त्यज वात्सल्य स्नेहको भुला दिया—वह कृतघ्न भला विष्णुका ही क्या हित करेगा॥ ३६॥

वीरराघवः

मद्दृष्टान्तेन विष्णोरप्यसावसमञ्जसोऽननुकूलः साधु करिष्यति किन्तु ? न करिष्यत्येव अव्यवस्थितचित्तत्वादिति भावः । यतोऽसौ पञ्चहायनः पञ्चवर्षवयस्क एव सन् दुस्त्यजं त्यक्तुमशक्यं पित्रोः मातापित्रोः सौहृदमहात् अत्याक्षीत् ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

परोऽप्यपत्यं हितकृद्यथौषधं
स्वदेहजोऽप्यामयवत्सुतोऽहितः।
छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं
शेषं सुखं जीवति यद्विवर्जनात्॥

मूलम्

परोऽ71प्यपत्यं हितकृद्यथौषधं स्वदेहजोऽप्यामयवत्सुतोऽहितः।
छिन्द्यात्तदङ्गं यदुताऽऽत्मनोऽहितं शेषं सुखं जीवति यद्वि72वर्जनात्॥ ३७ ॥

अनुवाद (हिन्दी)

कोई दूसरा भी यदि औषधके समान भलाई करे तो वह एक प्रकारसे पुत्र ही है। पर यदि अपना पुत्र भी अहित करने लगे तो रोगके समान वह शत्रु है। अपने शरीरके ही किसी अंगसे सारे शरीरको हानि होती हो तो उसको काट डालना चाहिये। क्योंकि उसे काट देनेसे शेष शरीर सुखसे जी सकता है॥ ३७॥

वीरराघवः

ननु तवाऽयं पुत्रः, तत्कथं वध्यः ? तत्राह - परोऽपीति । परोऽपि शत्रुपक्षप्रभवोऽपि यथौषधं तथा हितकृत् हितकारी चेत्तर्हि सोऽपत्यं पुत्र एव । देहाज्जातोऽपि आमयवदहितो दुःखकृञ्चेत्तर्हि आमयवत्परित्याज्यः । आस्तां, ममतास्पदस्य कथा हि यस्मादङ्गं करचरणादिकमपि सर्पदंशव्रणादिदूषितं सदात्मनोऽहितं दुःखकृच्चेत्तर्हि तदङ्गं छिन्द्यादेव यस्य दुष्टाङ्गस्य विसर्जनात्परिहारात् शेषमवशिष्टमङ्गं सुखं जीवति ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः।
सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम्॥

मूलम्

सर्वैरुपायैर्हन्तव्यः सम्भो73जशयनासनैः।
सुहृल्लिङ्धरश्शत्रुर्मुनेर्दुष्टमिवेन्द्रियम्॥ ३८ ॥

अनुवाद (हिन्दी)

यह स्वजनका बाना पहनकर मेरा कोई शत्रु ही आया है। जैसे योगीकी भोगलोलुप इन्द्रियाँ उसका अनिष्ट करती हैं, वैसे ही यह मेरा अहित करनेवाला है। इसलिये खाने, सोने, बैठने आदिके समय किसी भी उपायसे इसे मार डालो’॥ ३८॥

वीरराघवः

अतोऽयं सुहृल्लिङ्गधरः पुत्रवेषधारी शत्रुः यथा दुष्टमिन्द्रियं मुनेः शत्रुः, तद्वद्वर्तमानः सर्वैः गरलादिमिश्रितसम्भोजनादिभिरुपायैर्हन्तव्यः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

नैर्ऋतास्ते समादिष्टा भर्त्रा वै शूलपाणयः।
तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः॥

मूलम्

नैर्ऋता74स्ते समादिष्टा74 भर्त्रा 75वै शूलपाणयः।
तिग्म76दंष्ट्राकरालास्या ताम्रश्मश्रु शिरोरुहाः॥ ३९ ॥

वीरराघवः

एवं भर्त्रा दैत्येन्द्रेण समादिष्टाः ते नैऋताः शूलपाणयः तिग्माः तीक्ष्णाः 77दंष्ट्राः दन्ताः येषां, करालानि आस्यानि येषां, ताम्राणि श्मश्रूणि शिरोरुहाणि च येषां तादृशः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

नदन्तो भैरवान्नादांश्छिन्धि भिन्धीति वादिनः।
आसीनं चाहनन् शूलैः प्रह्रादं सर्वमर्मसु॥

मूलम्

नदन्तो भैर78वान्नादांश्छिन्धि भिन्धीति वादिनः।
आसी79नञ्चाऽहनन् शूलैः प्रह्रादं सर्व80मर्मसु॥ ४० ॥

अनुवाद (हिन्दी)

जब हिरण्यकशिपुने दैत्योंको इस प्रकार आज्ञा दी, तब तीखी दाढ़, विकराल वदन, लाल-लाल दाढ़ी-मूँछ एवं केशोंवाले दैत्य हाथोंमें त्रिशूल ले-लेकर ‘मारो, काटो’—इस प्रकार बड़े जोरसे चिल्लाने लगे। प्रह्लाद चुपचाप बैठे हुए थे और दैत्य उनके सभी मर्मस्थानोंमें शूलसे घाव कर रहे थे॥ ३९-४०॥

वीरराघवः

भैरवान् भयङ्करान्नादान् नदन्तः कुर्वन्तः छिन्धि भिन्धि इति च वदन्तः आसीनमुपविष्टं प्रह्लादं सर्वेषु मर्मस्थानेषु शूलै रहनन् 81हतवन्तः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि।
युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः॥

मूलम्

परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि।
युक्तात्मन्यफला आस्रन्नपुण्यस्येव 82सत्क्रियाः॥ ४१ ॥

अनुवाद (हिन्दी)

उस समय प्रह्लादजीका चित्त उन परमात्मामें लगा हुआ था, जो मन-वाणीके अगोचर, सर्वात्मा, समस्त शक्तियोंके आधार एवं परब्रह्म हैं। इसलिये उनके सारे प्रहार ठीक वैसे ही निष्फल हो गये, जैसे भाग्यहीनोंके बड़े-बड़े उद्योग-धंधे व्यर्थ होते हैं॥ ४१॥

वीरराघवः

अनिर्देश्ये चेतनाचेतनसजातीयत्वेन निर्देष्टुमशक्ये अखिलात्मनि हन्तृहन्तव्याद्यन्तरात्मनि पूर्णषाड्गुण्ये परे ब्रह्मणि युक्तः 83नियुक्तः आत्मा मनो यस्य तस्मिन् प्रह्लादे नैऋतैः कृता 84अपि शूलघातादयो मारणोपायाः अफलाः व्यर्थाः बभूवुः । मरणहेतवो दुःखहेतवश्च न बभूवुरित्यर्थः । यथा अपुण्यस्य पापरतस्य कृता अपि सत्क्रियाः सन्ध्योपासनादयः अफलास्तद्वत्, वैफल्यहेतुगर्भं विशेषणम् । अखिलात्मनि युक्तात्मनीति | अयं भावः - कर्मायत्तदेहसम्बन्ध प्रयुक्तसुखदुःखभोक्तृत्व तदनुगुणपुण्यपापकर्तृत्वानुगुणं जीवपर्यन्तदेहेन्द्रियादिप्रेरणरूपमखिलात्मत्वमत्र विवक्षितम् । तत्र हन्त्रान्तरात्मतया हन्तव्यदुःखजननानुगुणव्यापारानुगुणं नियमयन्नपि पुनर्हन्तव्यस्य हन्तृव्यापारजन्यदुःखाननुभावानुगुणतया नियमयतीति, कथमेकस्य एवंविधं परस्परविरुद्धं नियमनमिति शङ्कानिराचिकीर्षयाऽनिर्देश्य इत्युक्तम् । लोकविलक्षणविविधविचित्रशक्तेरीदृशं नियन्तृत्वमुपपन्नमित्यभिप्रायः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

प्रयासेऽपहते तस्मिन्दैत्येन्द्रः परिशङ्कितः।
चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर॥

मूलम्

प्रयासेऽपहते तस्मिन् दैत्येन्द्रः परिशङ्कितः।
चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर!॥ ४२ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! जब शूलोंकी मारसे प्रह्लादके शरीरपर कोई असर नहीं हुआ, तब हिरण्यकशिपुको बड़ी शंका हुई। अब वह प्रह्लादको मार डालनेके लिये बड़े हठसे भाँति-भाँतिके उपाय करने लगा॥ ४२॥

वीरराघवः

एवं शूलघातादिरूपमरणोद्योगरूपे प्रयासे अपहते व्यर्थे सति दैत्येन्द्रो हिरण्यकशिपुः परिशङ्कितः किमहो ! अयं शूलघातादिभिरपि नाऽहन्यत किम् ? अस्मादेव मम मृत्युर्भविष्यतीत्याशङ्कितः, हे ! युधिष्ठिर ! निर्बन्धेन तस्य प्रह्लादस्य वधोपायान् चक्रे ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

दिग्गजैर्दन्दशूकैश्च अभिचारावपातनैः।
मायाभिः संनिरोधैश्च गरदानैरभोजनैः॥

मूलम्

दिग्गजैर्दन्द85शूकेन्द्रैः 86अभिचारावपातनैः।
मायाभिस्सन्निरोधैश्च गरदानैरभोजनैः॥ ४३ ॥

अनुवाद (हिन्दी)

उसने उन्हें बड़े-बड़े मतवाले हाथियोंसे कुचलवाया, विषधर साँपोंसे डँसवाया, पुरोहितोंसे कृत्या राक्षसी उत्पन्न करायी, पहाड़की चोटीसे नीचे डलवा दिया, शम्बरासुरसे अनेकों प्रकारकी मायाका प्रयोग करवाया, अँधेरी कोठरियोंमें बंद करा दिया, विष पिलाया और भोजन बंद कर दिया॥ ४३॥

वीरराघवः

विविधोपायानेव प्रपञ्चयंस्तैरप्यहतत्वमाह दिग्गजैरिति । दिग्गजाक्रमणैः दन्दशूकेन्द्रैः सर्पश्रेष्ठदंशनेः, अभिचारैः मारणहोमैः अवपातनैः गिरिशृङ्गेभ्योऽधः पातनैः मायाभिः अकस्मादशनिपातनादिभिः सन्निरोधैः नवरन्ध्रपिधानैः गरदानैः विषप्रयोगैः अभोजनैरुपवासैः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि।
न शशाक यदा हन्तुमपापमसुरः सुतम्।
चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत॥

मूलम्

हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि।
चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाऽभ्यपद्यत।
न शशाक यदा हन्तुमपापमसुरस्सुतम्॥ ४४ ॥

अनुवाद (हिन्दी)

बर्फीली जगह, दहकती हुई आग और समुद्रमें बारी-बारीसे डलवाया, आँधीमें छोड़ दिया तथा पर्वतोंके नीचे दबवा दिया; परन्तु इनमेंसे किसी भी उपायसे वह अपने पुत्र निष्पाप प्रह्लादका बाल भी बाँका न कर सका। अपनी विवशता देखकर हिरण्यकशिपुको बड़ी चिन्ता हुई। उसे प्रह्लादको मारनेके लिये और कोई उपाय नहीं सूझ पड़ा॥ ४४॥

वीरराघवः

हिमादिषु पातनैः, पर्वताक्रमणैः पर्वतानां तदुपरिनिक्षेपैः एवं विधैरुपायैरसुरैः प्रयोज्यकर्तृभिः यदा 87निरपराधं87 सुतं हन्तुं न शशाक नाऽशक्नोत् तदा तत्कर्तुं तद्धननं कर्तुं नाऽभ्यपद्यत उपायान्तरं न लेभे इत्यर्थः । प्रत्युत दीर्घतमां चिन्तां प्राप्तः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः।
तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा॥

मूलम्

एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः।
तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा॥ ४५ ॥

अनुवाद (हिन्दी)

वह सोचने लगा—‘इसे मैंने बहुत कुछ बुरा-भला कहा, मार डालनेके बहुत-से उपाय किये। परन्तु यह मेरे द्रोह और दुर्व्यवहारोंसे बिना किसीकी सहायतासे अपने प्रभावसे ही बचता गया॥ ४५॥

श्लोक-४६

विश्वास-प्रस्तुतिः

वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम्।
न विस्मरति मेऽनार्यं शुनःशेप इव प्रभुः॥

मूलम्

वर्तमानोऽविदूरे 88वा बालोऽप्यजडधीरयम्।
न विस्मरति 89मेऽनार्यं शुनश्शे90प इव प्रभुः॥ ४६ ॥

अनुवाद (हिन्दी)

यह बालक होनेपर भी समझदार है और मेरे पास ही निःशंक भावसे रहता है। हो-न-हो इसमें कुछ सामर्थ्य अवश्य है। जैसे शुनःशेप* अपने पिताकी करतूतोंसे उसका विरोधी हो गया था, वैसे ही यह भी मेरे किये अपकारोंको न भूलेगा॥ ४६॥

पादटिप्पनी
  • शुनःशेप अजीगर्तका मँझला पुत्र था। उसे पिताने वरुणके यज्ञमें बलि देनेके लिये हरिश्चन्द्रके पुत्र रोहिताश्वके हाथ बेच दिया था तब उसके मामा विश्वामित्रजीने उसकी रक्षा की; और वह अपने पितासे विरुद्ध होकर उनके विपक्षी विश्वामित्रजीके ही गोत्रमें हो गया। यह कथा आगे ‘नवम स्कन्ध’ के सातवें अध्यायमें आवेगी।
वीरराघवः

चिन्तामेव प्रपञ्चयति - एष इति । एष बालो में मया बह्वसाधु यथा भवति यथोक्तः तथा वधोपायाश्च निर्मिताः कारिताः । असद्धर्मैरभिचारादिभिः तैस्तैर्द्रोहैः शूलघातादिभिश्च मुक्तोऽविहतः स्वेनैव तेजसा माहात्म्येन उक्तोपायेभ्योऽविदूर एव वर्तमानो बालोऽप्यय मजडा निपुणा धीर्यस्य तादृशः मे मम अनार्यं द्रोहं न स्मरति । शुनश्शेफ इव यथा शुनश्शेफाख्यः पितृभ्यां हरिश्चन्द्राय विक्रीतस्सन् तयोरपकारं विस्मरन् तद्विपक्षं विश्वामित्रमाश्रित्य गोत्रान्तरमापन्नः, तद्वत् । यद्वा स्वभावापरित्यागे दृष्टान्तः - शुनश्शेफः पुच्छमिवेति । प्रभुः जितेन्द्रियः ॥ ४५,४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

अप्रमेयानुभावोऽयमकुतश्चिद‍्भयोऽमरः।
नूनमेतद्विरोधेन मृत्युर्मे भविता न वा॥

मूलम्

अप्रमेयानुभावोऽयमकुतश्चिद‍्भयोऽमरः।
नूनमेतद्विरोधेन मृत्युर्मे भविता न वा॥ ४७ ॥

अनुवाद (हिन्दी)

न तो यह किसीसे डरता है और न इसकी मृत्यु ही होती है। इसकी शक्तिकी थाह नहीं है। अवश्य ही इसके विरोधसे मेरी मृत्यु होगी। सम्भव है, न भी हो’॥ ४७॥

वीरराघवः

अप्रमेयोऽपरिमेयोऽनुभावो यस्य, न कुतश्चिद्भयं यस्य, अतएवाऽमरो मरणरहितः, एतस्य विरोधेन हेतुना नूनं ममैव मृत्युः भविता भविष्यति न वा भविता एतद्विरोधेन मम मृत्य्वभावे हेत्वन्तरेण नैव भविष्यतीत्यर्थः ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

इति तं चिन्तया किञ्चिन्म्लानश्रियमधोमुखम्।
शण्डामर्कावौशनसौ विविक्त इति होचतुः॥

मूलम्

इति 91तच्चिन्तया किञ्चिन्म्लानश्रियमधोमुखम्।
शण्डामार्का वौशनसौ विविक्त इति होचतुः॥

अनुवाद (हिन्दी)

इस प्रकार सोच-विचार करते-करते उसका चेहरा कुछ उतर गया। शुक्राचार्यके पुत्र शण्ड और अमर्कने जब देखा कि हिरण्यकशिपु तो मुँह लटकाकर बैठा हुआ है, तब उन्होंने एकान्तमें जाकर उससे यह बात कही—॥ ४८॥

वीरराघवः

इतीत्थं तच्चिन्तया पुत्रविषयकचिन्तया म्लानश्रियं निस्तेजस्कं किञ्चिदधः कृतमुखं तं हिरण्यकशिपुमौशनसौ उशनसः 92शुक्रस्य पुत्रौ 93शण्डामार्काख्यौ विविक्ते निर्जने देशे 94तस्य प्रतिष्ठाभङ्गादिति भावः94 । इति वक्ष्यमाणप्रकारेण ऊचतुः ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

जितं त्वयैकेन जगत्त्रयं भ्रुवो-
र्विजृम्भणत्रस्तसमस्तधिष्ण्यपम्।
न तस्य चिन्त्यं तव नाथ चक्ष्महे
न वै शिशूनां गुणदोषयोः पदम्॥

मूलम्

जितं त्वयैकेन जगत्त्रयं 95भ्रुवोर्विजृम्भणत्रस्तसमस्तधिष्ण्यपम्।
न तस्य चिन्त्यं तव नाथ चक्ष्महे न वै शिशूनां गुणदोषयोः पदम्॥ ४९ ॥

अनुवाद (हिन्दी)

‘स्वामी! आपने अकेले ही तीनों लोकोंपर विजय प्राप्त कर ली। आपके भौंहें टेढ़ी करनेपर ही सारे लोकपाल काँप उठते हैं। हमारे देखनेमें तो आपके लिये चिन्ताकी कोई बात नहीं है। भला, बच्चोंके खिलवाड़में भी भलाई-बुराई सोचनेकी कोई बात है॥ ४९॥

वीरराघवः

तदेवाऽऽह - जितमिति । तव भ्रुवोर्विजृम्भणेन चलनमात्रेण त्रस्ता भीतास्सर्वे धिष्ण्यपाः लोकपालाः यस्मिन् तज्जगत्रयं त्वयैकेनाऽसहायेन जितम्, एवम्भूतस्य तव हे नाथ! प्रभो ! 96चिन्त्यं चिन्तनीयं न चक्ष्महे न पश्यामः, शिशूनां वृत्तमिति शेषः । तद्गुणदोषयोः पदं विषयो न वै न भवतीत्यर्थः ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

इमं तु पाशैर्वरुणस्य बद्ध्या
निधेहि भीतो न पलायते यथा।
बुद्धिश्च पुंसो वयसाऽऽर्यसेवया
यावद् गुरुर्भार्गव आगमिष्यति॥

मूलम्

इमन्तु पाशैर्वरुणस्य 97बद्धं निधेहि भीतो न पलायते यथा।
बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति॥ ५० ॥

अनुवाद (हिन्दी)

जबतक हमारे पिता शुक्राचार्यजी नहीं आ जाते, तबतक यह डरकर कहीं भाग न जाय। इसलिये इसे वरुणके पाशोंसे बाँध रखिये। प्रायः ऐसा होता है कि अवस्थाकी वृद्धिके साथ-साथ और गुरुजनोंकी सेवासे बुद्धि सुधर जाया करती है’॥ ५०॥

वीरराघवः

अत इमं बालं यावद्गुरुर्भगवान् भार्गवः शुक्रं आगमिष्यति तावद्वरुणस्य पाशैः बद्धं निधेहि कुरु भीतोऽयं यथा न पलायते तथा बद्धं निधेहीत्यर्थः । ततः किम् ? तत्रऽऽहतुः वयसा आर्याणां सेवया च पुंसो बुद्धिर्भविष्यति ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत्।
धर्मा ह्यस्योपदेष्टव्या राज्ञां ये गृहमेधिनाम्॥

मूलम्

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत्।
धर्मा ह्यस्योपदेष्टव्याः राज्ञां ये गृहमेधिनाम्॥ ५१ ॥

अनुवाद (हिन्दी)

हिरण्यकशिपुने ‘अच्छा, ठीक है’ कहकर गुरुपुत्रोंकी सलाह मान ली और कहा कि ‘इसे उन धर्मोंका उपदेश करना चाहिये, जिनका पालन गृहस्थ नरपति किया करते हैं’॥ ५१॥

वीरराघवः

एवं गुरुपुत्रोक्तं तथेत्यनुज्ञायाऽङ्गीकृत्य दैत्येन्द्र इदं वक्ष्यमाणमब्रवीत् । तदेवाऽऽह-धर्मा इति अस्य बालस्य धर्मा उपदेष्टव्याः । के ते? ये राज्ञां, ये च गृहस्थानां, ते ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

धर्ममर्थं च कामं च नितरां चानुपूर्वशः।
प्रह्रादायोचतू राजन् प्रश्रितावनताय च॥

मूलम्

धर्ममर्थञ्च कामञ्च नित98रामनुपूर्वशः।
प्रह्लादायोचतू राजन् प्रश्रितावनताय च॥ ५२ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! इसके बाद पुरोहित उन्हें लेकर पाठशालामें गये और क्रमशः धर्म, अर्थ और काम—इन तीन पुरुषार्थोंकी शिक्षा देने लगे। प्रह्लाद वहाँ अत्यन्त नम्र सेवककी भाँति रहते थे॥ ५२॥

वीरराघवः

एवमुक्तौ गुरुपुत्रौ तथैवोपदिदिशतुरित्याह नारदः - धर्ममिति । धर्मार्थकामस्वरू99पाणि साध100नानि नितरामत्यन्तमनुपूर्वशः । हे राजन्! प्रश्रयेण विनयेन अवनताय नम्राय प्रह्लादायोचतुरुपदिदिशतुः ॥ ५२ ॥

श्लोक-५३

विश्वास-प्रस्तुतिः

यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम्।
न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम्॥

मूलम्

यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम्।
न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम्॥ ५३ ॥

अनुवाद (हिन्दी)

परन्तु गुरुओंकी वह शिक्षा प्रह्लादको अच्छी न लगी। क्योंकि गुरुजी उन्हें केवल अर्थ, धर्म और कामकी ही शिक्षा देते थे। यह शिक्षा केवल उन लोगोंके लिये है, जो राग-द्वेष आदि द्वन्द्व और विषयभोगोंमें रस ले रहे हों॥ ५३॥

वीरराघवः

तद्यथावत् त्रिवर्गमात्मने स्वस्मै उपशिक्षितमपि साधु न मेने नाऽमन्यत तच्छिक्षां च कुतः ? द्वन्द्वै रागद्वेषादिभिः विषयेष्वारमणं येषां तैरुपवणिताम् ॥ ५३ ॥

श्लोक-५४

विश्वास-प्रस्तुतिः

यदाऽऽचार्यः परावृत्तो गृहमेधीयकर्मसु।
वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः॥

मूलम्

101यदाऽऽचार्यः परावृत्तो गृहमेधीयकर्मसु।
वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः॥ ५४ ॥

अनुवाद (हिन्दी)

एक दिन गुरुजी गृहस्थीके कामसे कहीं बाहर चले गये थे। छुट्टी मिल जानेके कारण समवयस्क बालकोंने प्रह्लादजीको खेलनेके लिये पुकारा॥ ५४॥

वीरराघवः

किञ्च । यदा आचार्यः गार्हस्थ्यधर्मेषु परावृत्तः परोक्षं प्रवृत्तः, व्यासङ्गान्तरपर इत्यर्थः । तदा कृतक्षणैः लब्धावकाशैः वयस्यैः समानवयस्कैः बालैः तत्रोपहूतः सः प्रह्लादः ॥ ५४ ॥

श्लोक-५५

विश्वास-प्रस्तुतिः

अथ ताञ्श्लक्ष्णया वाचा प्रत्याहूय महाबुधः।
उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव॥

मूलम्

अथ तान् श्लक्ष्णया वाचा प्रत्याहूय 102महाबुधः।
उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव॥ ५५ ॥

अनुवाद (हिन्दी)

प्रह्लादजी परम ज्ञानी थे, उनका प्रेम देखकर उन्होंने उन बालकोंको ही बड़ी मधुर वाणीसे पुकारकर अपने पास बुला लिया। उनसे उनके जन्म-मरणकी गति भी छिपी नहीं थी। उनपर कृपा करके हँसते हुए-से उन्हें उपदेश करने लगे॥ ५५॥

वीरराघवः

महान् सुधीर्विद्वान् श्लक्ष्णया मधुरया वाचा तान् बालकान् प्रत्याहूय सम्बोध्य कृपया प्रहसन्निव तन्निष्ठां विज्ञानमार्गनिष्ठाम् उवाच ॥ ५५ ॥

श्लोक-५६

विश्वास-प्रस्तुतिः

ते तु तद‍्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः।
बाला न दूषितधियो द्वन्द्वारामेरितेहितैः॥

मूलम्

ते तु तद‍्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदाः।
बाला 103अदूषितधियो द्वन्द्वारामेरितेहितैः॥ ५६ ॥

वीरराघवः

ते तु बालकास्सर्वे तद्गौरवात् तद्वचनगौरवात् त्यक्ताः क्रीडापरिच्छदाः क्रीडोपकरणानि यैः द्वन्द्वारामाणामीरितैरीहितैश्च न दूषिता धीर्येषां ते ॥ ५६ ॥

श्लोक-५७

विश्वास-प्रस्तुतिः

पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः।
तानाह करुणो मैत्रो महाभागवतोऽसुरः॥

मूलम्

पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः।
तानाह करुणो मैत्रो महाभागवतोऽसुरः॥ ५७ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! वे सब अभी बालक ही थे, इसलिये राग-द्वेषपरायण विषयभोगी पुरुषोंके उपदेशोंसे और चेष्टाओंसे उनकी बुद्धि अभी दूषित नहीं हुई थी। इसीसे, और प्रह्लादजीके प्रति आदर-बुद्धि होनेसे उन सबने अपनी खेल-कूदकी सामग्रियोंको छोड़ दिया तथा प्रह्लादजीके पास जाकर उनके चारों ओर बैठ गये और उनके उपदेशमें मन लगाकर बड़े प्रेमसे एकटक उनकी ओर देखने लगे। भगवान‍्के परम प्रेमी भक्त प्रह्लादका हृदय उनके प्रति करुणा और मैत्रीके भावसे भर गया तथा वे उनसे कहने लगे॥ ५६-५७॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते पञ्चमोऽध्यायः॥ ५ ॥

वीरराघवः

हे राजेन्द्र ! तस्मिन्नेव प्रह्लादे न्यस्तं हृदयं मन ईक्षणञ्च यैस्ते तं प्रह्लादमेव पर्युपासत शुश्रूषवः परिवेष्ट्योपविविशुरित्यर्थः । तान्पर्युपासीनान् कारुण्यमैत्र्ययुक्तो महाभागवतोऽसुरः प्रह्लाद आह ॥ ५७ ॥

इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां पञ्चमोऽध्यायः ॥ ५ ॥


  1. W omits अत्र ↩︎

  2. M,Ma वे न ↩︎

  3. M,Ma स्वरूपा ↩︎

  4. H,V पक्षो ↩︎

  5. M,Ma समी ↩︎

  6. A,B,T देवर्षिः ↩︎

  7. M,Ma क्षप्र ↩︎

  8. A,B,T add अर्थः ↩︎

  9. A,B,G,J,M,Ma,T,W समपृच्छन्त ↩︎ ↩︎

  10. W omits मिथ्या ↩︎

  11. A,B,J ह ↩︎

  12. M,Ma भवेत् ↩︎

  13. H,V परस्स्वात्मेत्य ↩︎ ↩︎

  14. W अमित्रः ↩︎

  15. A,B,G,J,T व्रतः; M,Ma गतः ↩︎

  16. A,B,T व्रतः ↩︎

  17. A,B,T क ↩︎

  18. A,B,G,J,T त्य ↩︎

  19. M,Ma निरुच्यते ↩︎

  20. W omits उक्तविधः ↩︎

  21. W omits इत्यर्थः ↩︎

  22. A,B,T त्यया ↩︎

  23. W omits ↩︎ ↩︎

  24. M,Ma पाणो य ↩︎

  25. W धौ ↩︎

  26. W चक्रपाणेः सन्निधौ ↩︎ ↩︎

  27. W नु ↩︎

  28. A,B,G,J,M,Ma,T निर्भर्त्स्याथ ↩︎ ↩︎

  29. M,Ma सु ↩︎

  30. W कम् ↩︎

  31. W omits ↩︎ ↩︎

  32. A,B,G,J,M,Ma,T स्करः ↩︎

  33. W र्थस्स्यादितो ↩︎

  34. M,Ma त ↩︎

  35. A,T ब ↩︎

  36. H,V एवं ↩︎

  37. H,V जातोपाय ↩︎

  38. A,B,G,J,M,Ma,T मामाप ↩︎

  39. W omits बालम् ↩︎

  40. W णा ↩︎

  41. W द्वक्त्रं ↩︎

  42. W omits ↩︎ ↩︎

  43. W इदं ↩︎

  44. M,Ma omit ↩︎ ↩︎

  45. M,Ma द उच्य ↩︎

  46. W omits ↩︎ ↩︎

  47. A,B,T omit इत्यर्थः ↩︎

  48. W omits अनुक्रमेण ↩︎

  49. W प्य ↩︎

  50. W पीडना ↩︎

  51. A,B,G,J,T omit ↩︎ ↩︎

  52. A,B,G,J,T omit ↩︎ ↩︎

  53. M,Ma क्व तदात्म ↩︎ ↩︎

  54. A,B,T omit प्रह्लादं ↩︎

  55. A,B,T देवर्षिः ↩︎

  56. A,B,T जाता ↩︎

  57. M,Ma तोऽपि ↩︎

  58. M,Ma थो विपद्येत ↩︎

  59. W शमी ↩︎

  60. A,B,T omit ↩︎ ↩︎

  61. W omits ↩︎ ↩︎

  62. M,Ma भावाः। ↩︎

  63. W ईश्वरस्य ↩︎

  64. A,B,T omit परम ↩︎

  65. A,B,G,H,J,T,V,W omit ↩︎ ↩︎

  66. W omits ↩︎

  67. M,Ma कृत ↩︎

  68. A,B,G,J,T सोऽय, M,Ma शोच्या ↩︎

  69. W omits ↩︎ ↩︎

  70. H,V रजहात्, M,Ma रत्यजत प ↩︎

  71. M,Ma प्यवश्य ↩︎

  72. M,Ma स ↩︎

  73. M,Ma ग, W ज्य ↩︎

  74. H,V,W स्त्ववमादिष्टा, M,Ma स्ते समुद्दिष्टा ↩︎ ↩︎

  75. H,V,W त ↩︎

  76. A,B,G,J,T दष्ट्र ↩︎

  77. W omits दंष्ट्राः ↩︎

  78. M,Ma वनाद ↩︎

  79. H,V,W नमह ↩︎

  80. M,Ma व ↩︎

  81. W omits हतवन्तः ↩︎

  82. M,Ma त ↩︎

  83. W निहितः ↩︎

  84. W omits अपि ↩︎

  85. A,B,G,J,T शूकैश्च ↩︎

  86. H,V आ ↩︎

  87. W omits ↩︎ ↩︎

  88. A,B,G,J,M,Ma,T वै ↩︎

  89. H,V,W माऽः ↩︎

  90. H,V फ ↩︎

  91. A,B,G,J,T तं चि ↩︎

  92. W omits शुक्रस्य ↩︎

  93. W शण्डामाकौ ↩︎

  94. W omits ↩︎ ↩︎

  95. H,V प्रभो ↩︎

  96. A,B,T omit चिन्त्ये ↩︎

  97. A,B,G,J,M,Ma,T बद्ध्वा ↩︎

  98. A,B,G,J,M,Ma,T राञ्चानु ↩︎

  99. W पान् ↩︎

  100. W नान् ↩︎

  101. व्यावहारप्रसिद्ध्यर्थं विकल्पोऽत्र नृभिः कृतः । यथा भात्यस्य सत्यार्थे प्रत्याभासश्च दिग्भ्रमः ॥ The above additional verse is found between V 53 & 54 in H,V editions only. ↩︎

  102. W महान्सुधीः ↩︎

  103. A,B,G,J,M,Ma,T न दू ↩︎