०४

[चतुर्थोऽध्यायः]

भागसूचना

हिरण्यकशिपुके अत्याचार और प्रह्लादके गुणोंका वर्णन

श्लोक-१

मूलम् (वचनम्)

1नारद उवाच

विश्वास-प्रस्तुतिः

एवं वृतः शतधृतिर्हिरण्यकशिपोरथ।
प्रादात्तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान्॥

मूलम्

एवं वृतः शतधृतिर्हिरण्यकशिपोरथ।
प्रादात्तत्तपसा प्रीतो वरांस्त2स्याऽऽशु दुर्लभान्॥ १ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं—युधिष्ठिर! जब हिरण्यकशिपुने ब्रह्माजीसे इस प्रकारके अत्यन्त दुर्लभ वर माँगे, तब उन्होंने उसकी तपस्यासे प्रसन्न होनेके कारण उसे वे वर दे दिये॥ १॥

वीरराघवः

एवं दैत्येन वृतान् वरान् ददौ ब्रह्मेत्याह भगवान्नारदः - एवमिति । एवमित्थं वृतो याचितः शतधृतिर्ब्रह्मा हिरण्यकशिपोस्तपसा तोषितः तस्य दुर्लभान् वरान् प्रादात् ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम।
तथापि वितराम्यङ्ग वरान् यदपि दुर्लभान्॥

मूलम्

तातेमे दुर्लभाः 3पुंसां यान् वृणीषे वरान् मम।
तथाऽपि वितराम्यङ्ग वरान् य4दतिदुर्लभान्॥ २ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने कहा—बेटा! तुम जो वर मुझसे माँग रहे हो, वे जीवोंके लिये बहुत ही दुर्लभ हैं; परन्तु दुर्लभ होनेपर भी मैं तुम्हें वे सब वर दिये देता हूँ॥ २॥

वीरराघवः

दत्वेदमाह - 5ब्रह्मा, हे तात! मम मत्तो यान् वरान् वृणीषे ते इमे वराः पुंसो यद्यपि दुर्लभाः, तथापि दुर्लभानपि तान् वरान् अङ्ग ! हे हिरण्यकशिपो! तुभ्यं वितरामि वर्तमानसामीप्ये लट् दत्तवानस्मीत्यर्थः ॥ २ ॥

श्लोक-३

मूलम् (वचनम्)

6श्रीशुक उवाच6

विश्वास-प्रस्तुतिः

ततो जगाम भगवानमोघानुग्रहो विभुः।
पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः॥

मूलम्

ततो जगाम भगवानमोघानुग्रहो विभुः।
पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः॥ ३ ॥

अनुवाद (हिन्दी)

[नारदजी कहते हैं—] ब्रह्माजीके वरदान कभी झूठे नहीं होते। वे समर्थ एवं भगवद्रूप ही हैं। वरदान मिल जानेके बाद हिरण्यकशिपुने उनकी पूजा की। तत्पश्चात् प्रजापतियोंसे अपनी स्तुति सुनते हुए वे अपने लोकको चले गये॥ ३॥

वीरराघवः

एवमुक्त्वा अमोघः सत्योऽनुग्रहो यस्य, स विभुः भगवान् ब्रह्मा असुरवर्येण पूजितः प्रजेश्वरैः भृगुदक्षाद्यैः स्तूयमानः स्वस्थानं जगाम ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः।
भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन्॥

मूलम्

एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः।
भगवत्यकरोद्द्वेषं भ्रातुर्वधमनुस्मरन्॥ ४ ॥

अनुवाद (हिन्दी)

ब्रह्माजीसे वर प्राप्त करनेपर हिरण्यकशिपुका शरीर सुवर्णके समान कान्तिमान् एवं हृष्ट-पुष्ट हो गया। वह अपने भाईकी मृत्युका स्मरण करके भगवान‍्से द्वेष करने लगा॥ ४॥

वीरराघवः

एवं लब्ध्वा वरा येन स दैत्यो हिरण्यवत्प्रकाशबहुलं देहं बिभ्राणो भ्रातुर्हिरण्याक्षस्य वधं भगवत्कृतं स्मरन् भागवतद्वेषसहितं भगवति द्वेषमकरोत् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः।
देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान्॥

मूलम्

स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः।
देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान्॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

सिद्धचारणविद्याध्रानृषीन् पितृपतीन् मनून्।
यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ॥

मूलम्

सिद्धचारणवि7द्याध्रानृषीन् पितृपतीन् 8मुनीन्।
यक्षरक्षःपिशाचेशान् 9प्रेतान् भूतपतीनपि9॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

सर्वसत्त्वपतीञ्जित्वा वशमानीय विश्वजित्।
जहार लोकपालानां स्थानानि सह तेजसा॥

मूलम्

सर्वसत्त्वपतीञ्जित्वा वशमानीय विश्वजित्।
जहार लोकपालानां स्थानानि सह तेजसा॥ ७ ॥

वीरराघवः

तदेव प्रपञ्चयितुमुपोद्धातमाह - इत्यादिना । स महासुरो हिरण्यकशिपुः त्रीन् लोकान् सर्वा दिशश्च विजित्य तथा देवादीन् सर्वसत्त्वपतीन् सर्वभूताध्यक्षांश्च जित्वा वशमानीय विश्वजिद्बभूव । लोकपालानां तेजसा सह स्थानानि जहार अपहृतवान् ॥ ५-७ ॥

अनुवाद (हिन्दी)

उस महादैत्यने समस्त दिशाओं, तीनों लोकों तथा देवता, असुर, नरपति, गन्धर्व, गरुड़, सर्प, सिद्ध, चारण, विद्याधर, ऋषि, पितरोंके अधिपति, मनु, यक्ष, राक्षस, पिशाचराज, प्रेत, भूतपति एवं समस्त प्राणियोंके राजाओंको जीतकर अपने वशमें कर लिया। यहाँतक कि उस विश्व-विजयी दैत्यने लोकपालोंकी शक्ति और स्थान भी छीन लिये॥ ५—७॥

वीरराघवः

देवोद्यानञ्च जहारेत्यनुषङ्गः । श्रिया सर्वसमृद्ध्या जुष्टं युक्तं त्रिविष्टपं स्वर्गमध्यास्ते स्म अधिष्ठितवान् “10अधिशीङ्स्थाऽऽसां कर्म" (अष्टा. 1-4-46) इति कर्मत्वम्10 । विश्वकर्मणा निर्मितं त्रैलोक्यलक्ष्म्या आयतनमाश्रयं भोग्यभोगोपकरणादिसर्वसमृद्धिमत् महेन्द्रस्य भवनं साक्षादध्युवास अध्युषितवान् ॥ ८ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम्।
महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा।
त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत्॥

मूलम्

देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम्।
महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा।
त्रैलोक्यलक्ष्म्यायतन मध्युवासाखिलर्द्धिमत्॥ ८ ॥

अनुवाद (हिन्दी)

अब वह नन्दनवन आदि दिव्य उद्यानोंके सौन्दर्यसे युक्त स्वर्गमें ही रहने लगा था। स्वयं विश्वकर्माका बनाया हुआ इन्द्रका भवन ही उसका निवासस्थान था। उस भवनमें तीनों लोकोंका सौन्दर्य मूर्तिमान् होकर निवास करता था। वह सब प्रकारकी सम्पत्तियोंसे सम्पन्न था॥ ८॥

श्लोक-९

विश्वास-प्रस्तुतिः

यत्र विद्रुमसोपाना महामारकता भुवः।
यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तयः॥

मूलम्

यत्र विद्रुमसोपाना महामारकता भुवः।
यत्र स्फाटिककुड्यानि वै11दूर्यस्तम्भपङ्क्तयः॥ ९ ॥

वीरराघवः

महेन्द्रभवनं विशिनष्टि-यत्र भवने विद्रुममयानि सोपानानि यासु ताः, भुवस्स्थलानि वेदिकादीनि महा12मरकताः इन्द्रनीलमय्यः, यत्र भवने स्फटिकमयानि कुड्यानि भित्तयः, यत्र वैदूर्यमणिमयाः स्तम्भपङ्क्तयः सन्ति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

यत्र चित्रवितानानि पद्मरागासनानि च।
पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः॥

मूलम्

यत्र चित्रवितानानि पद्मरागासनानि च।
पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः॥ १० ॥

अनुवाद (हिन्दी)

उस महलमें मूँगेकी सीढ़ियाँ, पन्नेकी गचें, स्फटिकमणिकी दीवारें, वैदूर्यमणिके खंभे और माणिककी कुर्सियाँ थीं। रंग-बिरंगे चँदोवे तथा दूधके फेनके समान शय्याएँ, जिनपर मोतियोंकी झालरें लगी हुई थीं, शोभायमान हो रही थीं॥ ९-१०॥

वीरराघवः

यत्र च चित्रवितानानि 13चित्रकविस्तराणि13 पद्मरागरत्नमयान्यासनानि च पयः फेननिभाः दुग्धफेनवन्मृदुलाः 14शुभ्राश्च शय्याः मुक्तादामानि परिच्छदाः परिकराः यासां ताः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

कूजद‍्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः।
रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम्॥

मूलम्

कूजद‍्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः।
रत्न15स्तम्भेषु पश्यन्ति सुद16त्यः सुन्दरं मुखम्॥ ११ ॥

अनुवाद (हिन्दी)

सर्वांगसुन्दरी अप्सराएँ अपने नूपुरोंसे रुन-झुन ध्वनि करती हुई रत्नमय भूमिपर इधर-उधर टहला करती थीं और कहीं-कहीं उसमें अपना सुन्दर मुख देखने लगती थीं॥ ११॥

वीरराघवः

यत्र च देव्यः देवानां सम्बन्धिन्यः सुदत्यः स्त्रियः कूजद्भिः ध्वनद्भिः नूपुरैः तत्र तत्र शब्दयन्त्यः शब्दं कुर्वत्यो रत्नस्थलीषु सुन्दरं स्वीयं मुखं पश्यन्ति ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

तस्मिन्महेन्द्रभवने महाबलो
महामना निर्जितलोक एकराट्।
रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः
प्रतापितैरूर्जितचण्डशासनः॥

मूलम्

तस्मिन्महेन्द्रभवने 17महाबलो महामना17 निर्जितलोक एकराट्।
रेमेऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः॥ १२ ॥

अनुवाद (हिन्दी)

उस महेन्द्रके महलमें महाबली और महामनस्वी हिरण्यकशिपु सब लोकोंको जीतकर, सबका एकच्छत्र सम्राट् बनकर बड़ी स्वतन्त्रतासे विहार करने लगा। उसका शासन इतना कठोर था कि उससे भयभीत होकर देव-दानव उसके चरणोंकी वन्दना करते रहते थे॥ १२॥

वीरराघवः

तस्मिन्नेवम्भूते महेन्द्रस्य भवनेऽधिवसन्नपारबलः महामनाः अव्याहतसङ्कल्पः अत एव निर्जितो लोको येन स्वयमेक एव राजा, ऊर्जितमधिकं चण्डं तापकं शासनं यस्य सः, अत एव प्रतापितैः सुरादिभिः वन्द्यौ अङ्घ्री यस्य तादृशो रेमे ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

तमङ्ग मत्तं मधुनोरुगन्धिना
विवृत्तताम्राक्षमशेषधिष्ण्यपाः।
उपासतोपायनपाणिभिर्विना
त्रिभिस्तपोयोगबलौजसां पदम्॥

मूलम्

तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः।
उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम्॥ १३ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! वह उत्कट गन्धवाली मदिरा पीकर मतवाला रहा करता था। उसकी आँखें लाल-लाल और चढ़ी हुई रहतीं। उस समय तपस्या, योग, शारीरिक और मानसिक बलका वह भंडार था। ब्रह्मा, विष्णु और महादेवके सिवा और सभी देवता अपने हाथोंमें भेंट ले-लेकर उसकी सेवामें लगे रहते॥ १३॥

वीरराघवः

अङ्ग ! हे युधिष्ठिर ! उरुगन्धिनोग्रगन्धेन मधुना सुरया मत्तमत एव विवृत्ते विघूर्णिते ताम्रे अक्षिणी यस्य तपोयोगस्य बलस्य देहबलस्य ओजस इन्द्रियबलस्य च पदमाश्रयं तं दैत्यं त्रिभिर्विना ब्रह्मविष्णुशिवैर्विना अन्ये सर्वे उपायनं पूजाद्रव्यं तद्युक्तपाणिभिरुपासत उपासितवन्तः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

जगुर्महेन्द्रासनमोजसा स्थितं
विश्वावसुस्तुम्बुरुरस्मदादयः।
गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहु-
र्विद्याधरा अप्सरसश्च पाण्डव॥

मूलम्

जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः।
गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुः विद्याधरा अप्सरसश्च पाण्डव!॥ १४ ॥

अनुवाद (हिन्दी)

जब वह अपने पुरुषार्थसे इन्द्रासनपर बैठ गया, तब युधिष्ठिर! विश्वावसु, तुम्बुरु तथा हम सभी लोग उसके सामने गान करते थे। गन्धर्व, सिद्ध, ऋषिगण, विद्याधर और अप्सराएँ बार-बार उसकी स्तुति करती थीं॥ १४॥

वीरराघवः

उपासनाप्रकारमेवाह- जगुरिति चतुर्भिः । ओजसा स्वबलेन महेन्द्रस्यासनमास्थितमधिष्ठितं तं दैत्यं विश्वावसुतुम्बुरुनारदादयश्च जगुर्गानञ्चक्रुः, तद्गुणान् जगुरित्यर्थः । गन्धर्वाः सिद्धाः ऋषयश्च विद्याधरा अप्सरसश्च मुहुर्मुहुरस्तुवन्, हे पाण्डव ! ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः।
इज्यमानो हविर्भागानग्रहीत् स्वेन तेजसा॥

मूलम्

स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः।
इज्यमानो हविर्भागानग्रहीत् स्वेन तेजसा॥ १५ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! वह इतना तेजस्वी था कि वर्णाश्रमधर्मका पालन करनेवाले पुरुष जो बड़ी-बड़ी दक्षिणावाले यज्ञ करते, उनके यज्ञोंकी आहुति वह स्वयं छीन लेता॥ १५॥

वीरराघवः

स एवाऽसुरो वर्णाश्रमनिष्ठैः ब्राह्मणगृहस्थादिभिः कर्तृभिः भूरिर्दक्षणा येषु तैः क्रतुभिः मुहुर्मुहुः इज्यमान आराध्यमान स्वबलेन हविर्भागानग्रहीत् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही।
तथा कामदुघा द्यौस्तु नानाश्चर्यपदं नभः॥

मूलम्

अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही।
तथा कामदुघा द्यौ18श्च नानाश्चर्य19प्रदं नभः॥ १६ ॥

अनुवाद (हिन्दी)

पृथ्वीके सातों द्वीपोंमें उसका अखण्ड राज्य था। सभी जगह बिना ही जोते-बोये धरतीसे अन्न पैदा होता था। वह जो कुछ चाहता, अन्तरिक्षसे उसे मिल जाता तथा आकाश उसे भाँति-भाँतिकी आश्चर्यजनक वस्तुएँ दिखा-दिखाकर उसका मनोरंजन करता था॥ १६॥

वीरराघवः

तस्यासुरस्य सम्बन्धिनी या सप्तद्वीपयुक्ता पृथिवी अकृष्टपच्या कर्षणेन विना फलिन्यभूत् 20तथा द्यौः स्वर्गाभिमानिनी देवता यथाकामं यथेष्टं दोग्धि इष्टार्थान् पूरयतीति तथा अभूत् तथा नभः अन्तरिक्षाभिमानिदेवता नानाश्चर्यमयं विविधविचित्रवस्तुप्रदमभूत् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

रत्नाकराश्च रत्नौघांस्तत्पत्न्यश्चोहुरूर्मिभिः।
क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदकाः॥

मूलम्

रत्नाकराश्च 21रत्नौघांस्तत्पत्न्यश्चोहुरूर्मिभिः।
क्षार22शीधुधृतक्षौद्रदधिक्षीरामृतोदकाः॥ १७ ॥

अनुवाद (हिन्दी)

इसी प्रकार खारे पानी, सुरा, घृत, इक्षुरस, दधि, दुग्ध और मीठे पानीके समुद्र भी अपनी पत्नी नदियोंके साथ तरंगोंके द्वारा उसके पास रत्नराशि पहुँचाया करते थे॥ १७॥

वीरराघवः

रत्नाकराः समुद्राः तत्पत्न्यो गङ्गादिनद्यश्च, ऊर्मिभिः तरङ्गैः रत्नसमूहानूहुः प्रापयामासुः । रत्नाकरानेवाह क्षारेति । सीधुः सुरा, क्षौद्रमिक्षुरसः, अमृतं शुद्धं क्षारादिमयान्युदकानि येषां ते 23क्रमोऽत्र न विवक्षितः23 ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः।
दधार लोकपालानामेक एव पृथग्गुणान्॥

मूलम्

24शैलाद्रोणीभिराक्रीडं सर्वर्तु25षु गु25णान् द्रुमाः।
दधार लोकपालानामेक एव पृथग्गुणान्॥ १८ ॥

अनुवाद (हिन्दी)

पर्वत अपनी घाटियोंके रूपमें उसके लिये खेलनेका स्थान जुटाते और वृक्ष सब ऋतुओंमें फूलते-फलते। वह अकेला ही सब लोकपालोंके विभिन्न गुणोंको धारण करता॥ १८॥

वीरराघवः

शैलः पर्वतः, जात्यभिप्रायकमेकवचनम् । द्रोणीभिः कन्दरैः, द्रुमान् दधार । कथम्भूतान् ? सर्वर्तुषु वसन्तादिषु षट्सु 26सर्वे स्वे स्वे गुणाः फलपुष्पादयो येषां तान् आक्रीडान् क्रीडास्थानोपयुक्तान्, सर्वर्तुषु सर्वान् वृक्षान्, सफलपुष्पानेव दधारेत्यर्थः । तदेव स्पष्टयति लोकपालानां तदाधिपत्यवेलायामित्यर्थः । एकां द्रुमः वसन्तादिकालनियमेन पृथग्गुणान् फलपुष्पादीन् दधार, अस्य त्वाधिपत्ये अनियतकालं सर्वान् गुणान् दधारेत्यर्थः । यद्वा, अयमसुर एक एव सर्वेषां लोकानां पृथग्गुणान् प्रतिनियतान् गुणान् दधार, सर्वेषामाधिपत्यमेक एव चकारेत्यर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

स इत्थं निर्जितककुबेकराड् विषयान् प्रियान्।
यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः॥

मूलम्

स इत्थं निर्जितककुबेकराट् विषयान् प्रियान्।
यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः॥ १९ ॥

अनुवाद (हिन्दी)

इस प्रकार दिग्विजयी और एकच्छत्र सम्राट् होकर वह अपनेको प्रिय लगनेवाले विषयोंका स्वच्छन्द उपभोग करने लगा। परन्तु इतने विषयोंसे भी उसकी तृप्ति न हो सकी। क्योंकि अन्ततः वह इन्द्रियोंका दास ही तो था॥ १९॥

वीरराघवः

इत्थं निर्जिताः ककुभो दिशो येन स दैत्यः एक एव राजा सन् यथोपजोषं यथाप्रीति प्रियानिष्टान् विषयाननुभवन्नपि नातृप्यत् न तृप्तवान्, यतोऽयं अजितेन्द्रियः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः।
कालो महान् व्यतीयाय ब्रह्मशापमुपेयुषः॥

मूलम्

एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः।
कालो महान् व्यतीयाय ब्रह्मशापमुपेयुषः॥ २० ॥

अनुवाद (हिन्दी)

युधिष्ठिर! इस रूपमें भी वह भगवान‍्का वही पार्षद है, जिसे सनकादिकोंने शाप दिया था। वह ऐश्वर्यके मदसे मतवाला हो रहा था तथा घमंडमें चूर होकर शास्त्रोंकी मर्यादाका उल्लंघन कर रहा था। देखते-ही-देखते उसके जीवनका बहुत-सा समय बीत गया॥ २०॥

वीरराघवः

इत्थमैश्वर्येण मत्तस्य अत एव दृप्तस्याऽत एव च उच्छास्त्रवर्तिनः वैदिकमार्गाननुवर्तिनः उत्पथप्रतिपन्नस्येत्यर्थः । ब्रह्मशापं सनकादीनां शापमुपेयुषः प्राप्तवतः महान् कालो बहुवर्षात्मकः कालः, व्यतीयाय अतिक्रान्तोऽभूत् । ब्रह्मशापमुपेयुष इत्यनेन तज्जन्मावसानकालः प्राप्त इति सूच्यते ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः।
अन्यत्रालब्धशरणाः शरणं ययुरच्युतम्॥

मूलम्

तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः।
अन्यत्रालब्धशरणाः शरणं ययुरच्युतम्॥ २१ ॥

अनुवाद (हिन्दी)

उसके कठोर शासनसे सब लोक और लोकपाल घबरा गये। जब उन्हें और कहीं किसीका आश्रय न मिला, तब उन्होंने भगवान‍्की शरण ली॥ २१॥

वीरराघवः

तदेव वक्तुं तन्निमित्तं तावदाह-तस्य दैत्यस्योग्रदण्डेन उग्रशासनेन संविग्नाः भीताः सपालकाः सर्वे लोकाः अन्यत्रालब्धं शरणं निवासस्थानं यैस्ते, अच्युतं भगवन्तं शरणं ययुः प्राप्ताः । अन्यत्रालब्धशरणा इत्यस्य अनन्यरक्षका इति वाऽर्थः । पूर्वं दैत्यतपः पीडिताः तदुपशमनाय ब्रह्माणं शरणं उपगम्य वरप्रदानेन स्वानिष्टमेव चक्रुः पुनरेतदनिष्टपरिहारो ब्रह्मणाऽपि कर्तुमशक्य इत्यालोच्य अनन्यशरणा भगवन्तमेव शरणं ययुरित्यर्थः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः।
यद‍्गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः॥

मूलम्

तस्यै नमोऽस्तु काष्ठायै यत्राऽऽत्मा हरिरीश्वरः।
27यद‍्गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनोऽमलाः॥ २२ ॥

अनुवाद (हिन्दी)

(उन्होंने मन-ही-मन कहा—) ‘जहाँ सर्वात्मा जगदीश्वर श्रीहरि निवास करते हैं और जिसे प्राप्त करके शान्त एवं निर्मल संन्यासी महात्मा फिर लौटते नहीं, भगवान‍्के उस परम धामको हम नमस्कार करते हैं’॥ २२॥

वीरराघवः

शरणवरणप्रकारमेवाह-तस्या इति । तस्यै काष्ठायै दिशे नमः । काष्ठां विशिंषन्ति-यत्रेति । यत्र यस्यां काष्ठायां ईश्वरः सर्वनियन्ता हरिराश्रितार्तिहरो भगवानास्ते । शान्ताः रागादिरहिताः, अत एव शुद्धन्तः करणाः सन्न्यासिनः न्यासविद्यानिष्ठाः यत् याञ्च काष्ठां गत्वा प्राप्य न निवर्तन्ते न पुनस्संसरन्ति तस्यै काष्ठायै नम इति यस्यां दिशि प्रणतार्तिहरो भगवानास्ते तद्दिगधीनोऽस्मद्रक्षणोपाय इत्यध्यवसायपूर्वकं भगवन्तं शरणं ययुः । काष्ठायै नमः इति दिक्शरणवरणकथनेन देवानामपि भगवत्स्वरूपं दुर्ग्रहमिति सूचितम् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

इति ते संयतात्मानः समाहितधियोऽमलाः।
उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः॥

मूलम्

इति ते संयतात्मानः समा28हितधियोऽमलाः।
उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः॥ २३ ॥

अनुवाद (हिन्दी)

इस भावसे अपनी इन्द्रियोंका संयम और मनको समाहित करके उन लोगोंने खाना-पीना और सोना छोड़ दिया तथा निर्मल हृदयसे भगवान‍्की आराधना की॥ २३॥

वीरराघवः

इतीत्थं ते देवाः संयतात्मानः स एव भगवान् रक्षिष्यतीति विस्रम्भयुक्तमनसः समाहितधियः, यद्वा संयतात्मान इति बाह्येन्द्रियजय उक्तः, समाहितधिय इत्यनेन अन्तरिन्द्रियजयः, वायुभोजना इत्यनेन प्राणजयः, विनिद्रा इत्यनेन कायजयः । एवंविधाः हृषीकेशमुपतस्थुः, तुष्टुवुः वक्ष्यमाणं मन्त्रं जेपुर्वा ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

तेषामाविरभूद्वाणी अरूपा मेघनिःस्वना।
सन्नादयन्ती ककुभः साधूनामभयङ्करी॥

मूलम्

तेषामाविरभूद्वाणी 29ह्यरूपा मेघनिस्वना।
सन्नादयन्ती ककुभः साधूनामभयङ्क30रा॥ २४ ॥

अनुवाद (हिन्दी)

एक दिन उन्हें मेघके समान गम्भीर आकाशवाणी सुनायी पड़ी। उसकी ध्वनिसे दिशाएँ गूँज उठीं। साधुओंको अभय देनेवाली वह वाणी यों थी—॥ २४॥

वीरराघवः

तेषां देवानामेवं उपतिष्ठतां वाणी 31शब्दः आविरभूत् तैः श्रुतेत्यर्थः । कथम्भूता ? अरूपा अदृष्टवक्तृका, मेघनिस्वना मेघघोष तुल्या, ककुभो दिशः, सन्नादयन्ती प्रतिध्वनयन्ती, साधूनामभयङ्करा32 ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः।
मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये॥

मूलम्

मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः।
मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये॥ २५ ॥

अनुवाद (हिन्दी)

‘श्रेष्ठ देवताओ! डरो मत। तुम सब लोगोंका कल्याण हो। मेरे दर्शनसे प्राणियोंको परम कल्याणकी प्राप्ति हो जाती है॥ २५॥

वीरराघवः

वाणीमेवाह - मा भैष्टेति । हे विबुधश्रेष्ठाः ! यूयं मा भैष्ट भयं मा कुरुत । वो युष्माकं सर्वेषां भद्रं सुखमेवास्तु । हि यस्मात् मम दर्शनं कटाक्षो भूतानां श्रेयसे उपपत्तये प्राप्तये भवति ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य च।
तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत॥

मूलम्

33ज्ञातं मे तस्य दौरात्म्यं दैतेयाप34शदस्य 35यत्।
तस्य शान्तिं करिष्यामि 36कालस्तावत्प्रतीक्ष्यताम्36॥ २६ ॥

अनुवाद (हिन्दी)

इस नीच दैत्यकी दुष्टताका मुझे पहलेसे ही पता है। मैं इसको मिटा दूँगा। अभी कुछ दिनोंतक समयकी प्रतीक्षा करो॥ २६॥

वीरराघवः

दैतेयाधमस्य तस्य हिरण्यकशिपोः यद्दौरात्म्यं तन्मया ज्ञातं विदितमेव तस्य दैत्यस्य शान्तिं वधं करिष्यामि कालः तद्वधोचितकालः तावत्प्रतीक्ष्यतां किञ्चित्कालविलम्बं सहध्वमित्यर्थः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु।
धर्मे मयि च विद्वेषः स वा आशु विनश्यति॥

मूलम्

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु।
धर्मे मयि च विद्वेषः स वा आशु विनश्यति॥ २७ ॥

अनुवाद (हिन्दी)

कोई भी प्राणी जब देवता, वेद, गाय, ब्राह्मण, साधु, धर्म और मुझसे द्वेष करने लगता है, तब शीघ्र ही उसका विनाश हो जाता है॥ २७॥

वीरराघवः

कोऽसौ तद्वधोचितः कालः ? तत्राह-यदेति । यस्मिन् काले देवादिषु तस्य नितरां द्वेषः तदा स आशु विनश्यति ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

निर्वैराय प्रशान्ताय स्वसुताय महात्मने।
प्रह्रादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम्॥

मूलम्

निर्वैराय प्रशान्ताय स्वसुताय महात्मने।
प्रह्लादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम्॥ २८ ॥

अनुवाद (हिन्दी)

जब यह अपने वैरहीन, शान्त और महात्मा पुत्र प्रह्लादसे द्रोह करेगा—उसका अनिष्ट करना चाहेगा, तब वरके कारण शक्तिसम्पन्न होनेपर भी इसे मैं अवश्य मार डालूँगा।’॥ २८॥

वीरराघवः

ननु देवादिषु विद्वेषेऽपि न तस्य नाशः, 37कथम् ? ब्रह्मवरेणोर्जितत्वादित्यत्राह - निर्वैरायेति । यदा प्रह्लादस्य द्रुह्येत्तदा वरैरूर्जितमपि हनिष्ये हनिष्यामि । कथम्भूताय ? मदात्मने अहमेवाऽऽत्मा यस्य स मदात्मा 38यद्वा, मय्यात्मा मतिर्यस्य स मदात्मा38 तस्मै निर्वैराय सर्वभूतसुहृदे प्रशान्ताय रागादिरहिताय स्वस्यात्मजाय निरतिशयप्रियभक्तविषये यदा द्रोहं करिष्यति, आश्वेव तदा हनिष्यामि मद्भक्तविषयापराधस्य मम नितरां असह्यत्वादिति भावः ॥ २८ ॥

श्लोक-२९

मूलम् (वचनम्)

39नारद उवाच39

विश्वास-प्रस्तुतिः

इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः।
न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम्॥

मूलम्

इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः।
न्यवर्तन्त गतोद्वेगा मेनिरे चाऽसुरं हतम्॥ २९ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं—सबके हृदयमें ज्ञानका संचार करनेवाले भगवान‍्ने जब देवताओंको यह आदेश दिया, तब वे उन्हें प्रणाम करके लौट आये। उनका सारा उद्वेग मिट गया और उन्हें ऐसा मालूम होने लगा कि हिरण्यकशिपु मर गया॥ २९॥

वीरराघवः

इतीत्थं लोकगुरुणा भगवता उक्ताः दिवौकसो देवाः भगवन्तं तं प्रणम्य गतोद्वेगाः गत उद्वेगो भयं येषां तादृशास्सन्तो न्यवर्तन्त भगवदुपस्थितेरिति शेषः । असुरं 40हिरण्यकशिपुं40 हतप्रायञ्च मेनिरे अमन्यन्त ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद‍्भुताः।
प्रह्रादोऽभून्महांस्तेषां गुणैर्महदुपासकः॥

मूलम्

तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद‍्भुताः।
प्रह्लादोऽभून्महांस्तेषां गुणैर्महदुपासकः॥ ३० ॥

अनुवाद (हिन्दी)

युधिष्ठिर! दैत्यराज हिरण्यकशिपुके बड़े ही विलक्षण चार पुत्र थे। उनमें प्रह्लाद यों तो सबसे छोटे थे, परन्तु गुणोंमें सबसे बड़े थे। वे बड़े संतसेवी थे॥ ३०॥

वीरराघवः

तस्य पूर्वमेव विप्रशापमुपेयुषः उचितकाले हनिष्यामीत्येवंविधभगवत्सङ्कल्पविषयस्य दैत्यपतेः हिरण्यकशिपोः परमाद्भुताः चत्वारः प्रह्लादानुह्लादसंह्लादाहादाख्याः पुत्राः तेषां मध्ये प्रह्लादो गुणैरक्राधादिभिः महान् श्रेष्ठोऽभूत् माहात्म्यावहगुणैस्तं विशिनष्टि महदुपासक इत्यादिना । महतां भागवतानां उपासकः भागवत भक्तिपर्यन्तभगवद्भक्तिनिष्ठः; इयमेव भगवद्भक्तेः परा काष्ठेति भावः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः।
आत्मवत्सर्वभूतानामेकः प्रियसुहृत्तमः॥

मूलम्

ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः।
आत्मवत्सर्वभूतानामेकः प्रियसुहृत्तमः॥ ३१ ॥

अनुवाद (हिन्दी)

ब्राह्मणभक्त, सौम्यस्वभाव, सत्यप्रतिज्ञ एवं जितेन्द्रिय थे तथा समस्त प्राणियोंके साथ अपने ही समान समताका बर्ताव करते और सबके एकमात्र प्रिय और सच्चे हितैषी थे॥ ३१॥

वीरराघवः

ब्रह्मण्यः ब्राह्मणकुले साधुरनुकूलो ब्रह्मण्यः । यद्वा ब्रह्मणि परस्मिन्नितरां साधुः ब्रह्मण्यः शीलेन सुस्वभावसद्वृत्त्यात्मकेन युक्तः सत्यसन्धः सत्यप्रतिज्ञः जितानि इन्द्रियाणि अन्तर्बाह्यानि येन सर्वभूतानामात्मना तुल्यमात्मवत् एक एव असाधारणः प्रियतमः सुहृत्तमश्च प्रियसुहत्तमः । आत्मा यथा प्रियतमः स्वहितैकैषी च तद्वदयमपि सर्वभूतविषयकप्रीतियुक्तस्तद्धितैषीत्यर्थः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

दासवत्संनतार्याङ्घ्रिः पितृवद्दीनवत्सलः।
भ्रातृवत्सदृशे स्निग्धो गुरुष्वीश्वरभावनः।
विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः॥

मूलम्

दासवत्संनतार्याङ्घ्रिः पितृवद्दीनवत्सलः।
भ्रातृवत्सदृशे41 स्निग्धो गुरुष्वीश्वरभावनः।
विद्यार्थरूप 42जन्मादि मानस्तम्भविवर्जितः॥ ३२ ॥

अनुवाद (हिन्दी)

बड़े लोगोंके चरणोंमें सेवककी तरह झुककर रहते थे। गरीबोंपर पिताके समान स्नेह रखते थे। बराबरीवालोंसे भाईके समान प्रेम करते और गुरुजनोंमें भगवद‍्भाव रखते थे। विद्या, धन, सौन्दर्य और कुलीनतासे सम्पन्न होनेपर भी घमंड और हेकड़ी उन्हें छूतक नहीं गयी थी॥ ३२॥

वीरराघवः

दासवत् सम्यङ्गताः नमस्कृताः आर्याणां महतां अङ्घ्रयो येन पितृवद्दीनेषु वात्सल्ययुक्तः, भ्रातृवत्सदृशेषु स्वतुल्येषु स्निग्धोऽनुरागयुक्तः, गुरुषु ईश्वरत्वेन भावना दृष्टिर्यस्य, विद्यादिभिः हेतुभिः योऽभिमानो गर्वो दम्भश्च ताभ्यां विवर्जितः । तत्रार्थो वित्तं रूपं सौन्दर्यं जन्माऽऽभिजात्यम् आदिशब्दः प्रकारार्थः विद्यादिसदृशमन्यदपि मानादिनिमित्तं विवक्षितम् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

नोद्विग्नचित्तो व्यसनेषु निःस्पृहः
श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक्।
दान्तेन्द्रियप्राणशरीरधीः सदा
प्रशान्तकामो रहितासुरोऽसुरः॥

मूलम्

नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक्।
दान्तेन्द्रियप्राणशरीरधीस्सदा प्रशान्तकामो रहितासुरोऽसुरः॥ ३३ ॥

अनुवाद (हिन्दी)

बड़े-बड़े दुःखोंमें भी वे तनिक भी घबराते न थे। लोक-परलोकके विषयोंको उन्होंने देखा-सुना तो बहुत था, परन्तु वे उन्हें निःसार और असत्य समझते थे। इसलिये उनके मनमें किसी भी वस्तुकी लालसा न थी। इन्द्रिय, प्राण, शरीर और मन उनके वशमें थे। उनके चित्तमें कभी किसी प्रकारकी कामना नहीं उठती थी। जन्मसे असुर होनेपर भी उनमें आसुरी सम्पत्तिका लेश भी नहीं था॥ ३३॥

वीरराघवः

व्यसनेषु दुःखहेतुषु नोद्विग्नमभीतं चित्तं यस्य, दृष्टेष्वैहिकेषु श्रुतेष्वामुष्मिकेषु च स्वर्गस्वाराज्यादिषु गुणेषु विषयेष्ववस्तुदृक् अनित्यबुद्धियुक्तोऽत एव तेषु स्पृहादिरहितः सदा दान्ताः नियमेन वशीकृताः इन्द्रियादयो यस्य, प्रशान्ताः कामां यस्य । निस्स्पृह इत्यनेन सन्निहितेषु विषयेषु इच्छाराहित्यमुक्तम्; प्रशान्तकाम इत्यनेन तु असन्निहितेष्वित्यतो न पौनरुक्त्यम् । स्वयमसुरोऽपि रहितासुरः मात्सर्याद्यासुरभावरहितः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

यस्मिन्महद‍्गुणा राजन् गृह्यन्ते कविभिर्मुहुः।
न तेऽधुनापिधीयन्ते यथा भगवतीश्वरे॥

मूलम्

यस्मिन्म43हागुणा राजन् 44गृह्यन्ते कविभिर्मुहुः।
न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे॥ ३४ ॥

अनुवाद (हिन्दी)

जैसे भगवान‍्के गुण अनन्त हैं, वैसे ही प्रह्लादके श्रेष्ठ गुणोंकी भी कोई सीमा नहीं है। महात्मालोग सदासे उनका वर्णन करते और उन्हें अपनाते आये हैं। तथापि वे आज भी ज्यों-के-त्यों बने हुए हैं॥ ३४॥

वीरराघवः

हे राजन् ! यस्मिन् प्रह्लादे गुणा उक्ता वक्ष्यमाणा अन्ये च कविभिः मुहुर्मुहुः महद्यथा भवति तथा गृह्यन्ते बहुमन्यन्त इत्यर्थः । महदिति क्रियाविशेषणमन्यथा समानाधिकरणसमासे “आन्महतः" (अष्ठा. 6-3-46) इत्यात्वापत्तिः महतः प्रह्लादस्य गुणा इत्यर्थे यस्मिन्नित्यनेन पौनरुक्त्यापत्तिः महतां गुणा इति वा, ते गुणाः अधुना अद्यापि नापिधीयन्ते न तिरोहिता भवन्ति, न विस्मृता भवन्ति इति यावत् । यथा भगवति ईश्वरे गुणाः पुनः पुनः कविभिः गृह्यन्ते नापिधीयन्ते तद्वत् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

यं साधुगाथासदसि रिपवोऽपि सुरा नृप।
प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः॥

मूलम्

यं साधुगाथासदसि रिपवोऽपि सुरा नृप।
प्रतिमानं प्रकुर्वन्ति किमुताऽन्ये भवादृशाः॥ ३५ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! यों तो देवता उनके शत्रु हैं; परन्तु फिर भी भक्तोंका चरित्र सुननेके लिये जब उन लोगोंकी सभा होती है, तब वे दूसरे भक्तोंको प्रह्लादके समान कहकर उनका सम्मान करते हैं। फिर आप-जैसे अजातशत्रु भगवद‍्भक्त उनका आदर करेंगे, इसमें तो सन्देह ही क्या है॥ ३५॥

वीरराघवः

हे नृप ! युधिष्ठिर ! साधु गाथासदसि साधुकथाप्रसङ्गवत्यां सभायां रिपवः शत्रवोऽपि यं प्रह्लादं प्रतिमान साधनत्वे दृष्टान्तं कुर्वन्ति किं पुनर्भवादृशा अन्ये प्रतिमानं कुर्वन्तीति ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

गुणैरलमसंख्येयैर्माहात्म्यं तस्य सूच्यते।
वासुदेवे भगवति यस्य नैसर्गिकी रतिः॥

मूलम्

45गुणैरलमसंख्येयैः माहात्म्यं तस्य सूच्यते।
वासुदेवे भगवति यस्य नैसर्गिकी रतिः॥ ३६ ॥

अनुवाद (हिन्दी)

उनकी महिमाका वर्णन करनेके लिये अगणित गुणोंके कहने-सुननेकी आवश्यकता नहीं। केवल एक ही गुण—भगवान् श्रीकृष्णके चरणोंमें स्वाभाविक, जन्मजात प्रेम उनकी महिमाको प्रकट करनेके लिये पर्याप्त है॥ ३६॥

वीरराघवः

मया परं केवलं असंख्येयैः गुणैः तस्य माहात्म्यं सूच्यते, न साकल्येन तद्गुणा वर्णयितुं शक्या इति भावः । अलमिति पाठेऽधिकं तस्य माहात्म्यं सूच्यते । मया दिङ्मात्रं गुणप्रदर्शनेन माहात्म्यं सूच्यते । न तु एतावत्तस्य माहात्म्यमित्युच्यते इत्यर्थः । अपारमाहात्म्ये हेतुं वदन् विशिनष्टि-वासुदेवेति । यस्य प्रह्लादस्य वासुदेवे भगवति नैसर्गिकी स्वाभाविकी उत्पत्तिसिद्धेत्यर्थः । रतिः स्वभावतः वासुदेवे रतानां वासुदेवस्येव अनन्तं माहात्म्यमिति भावः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया।
कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम्॥

मूलम्

न्यस्तक्रीडनको बालो जडवत्तन्म46नस्तथा।
कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम्॥ ३७ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! प्रह्लाद बचपनमें ही खेल-कूद छोड़कर भगवान‍्के ध्यानमें जडवत् तन्मय हो जाया करते। भगवान् श्रीकृष्णके अनुग्रहरूप ग्रहने उनके हृदयको इस प्रकार खींच लिया था कि उन्हें जगत‍्की कुछ सुध-बुध ही न रहती॥ ३७॥

वीरराघवः

नैसर्गिकलिङ्गानि वदन् विशिनष्टि-न्यस्तेत्यादि षड्भिः । बाल एव बाल्यात्प्रभृतीत्यर्थः । तन्मनस्कतया भगवद्गतहृदयत्वेन न्यस्तक्रीडनकः परित्यक्तबालक्रीडः कृष्णग्रहः श्रीकृष्ण एव ग्रहस्तेन गृहीत आत्मा-मनो यस्य ग्रहगृहीतवद्वर्तमान इत्यर्थः । अत एव जगदीदृशं न वेद बाह्यवस्तुविषयकचिन्तारहित इत्यर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

आसीनः पर्यटन् नश्नन् शयानः प्रपिबन् ब्रुवन्।
नानुसन्धत्त एतानि गोविन्दपरिरम्भितः॥

मूलम्

आसीनः पर्यटन्नश्नन् शयानः प्रपिबन् ब्रुवन्।
नानुस47न्दध एतानि गोविन्दपरिरम्भितः॥ ३८ ॥

अनुवाद (हिन्दी)

उन्हें ऐसा जान पड़ता कि भगवान् मुझे अपनी गोदमें लेकर आलिंगन कर रहे हैं। इसलिये उन्हें सोते-बैठते, खाते-पीते, चलते-फिरते और बातचीत करते समय भी इन बातोंका ध्यान बिलकुल न रहता॥ ३८॥

वीरराघवः

एतदेव प्रपञ्चयति - आसीन इति । आसनाद्यवस्थावस्थितोऽपि एतान्यासनादीनि नानुसन्दधे नानुसंहितवान् । तत्र हेतुः यतो गोविन्देन भगवता, परिरम्भितः संश्लिष्टः गोविन्दानुसन्धानरूपतत्परिरम्भविस्मृतदेहधर्म 48इत्यर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

क्वचिद्रुदति वैकुण्ठचिन्ताशबलचेतनः।
क्वचिद्धसति तच्चिन्ताह्लाद उद‍्गायति क्वचित्॥

मूलम्

क्वचि49द्रुदति वैकुण्ठ49चिन्ता50शबलचेतनः।
क्वचिद्धसति तच्चिन्ताह्लाद उद‍्गायति क्वचित्॥ ३९ ॥

अनुवाद (हिन्दी)

कभी-कभी भगवान् मुझे छोड़कर चले गये, इस भावनामें उनका हृदय इतना डूब जाता कि वे जोर-जोरसे रोने लगते। कभी मन-ही-मन उन्हें अपने सामने पाकर आनन्दोद्रेकसे ठठाकर हँसने लगते। कभी उनके ध्यानके मधुर आनन्दका अनुभव करके जोरसे गाने लगते॥ ३९॥

वीरराघवः

क्वचिद्गोविन्दानुसन्धानविच्छेददशायां रुदति रोदिति आर्षत्वाच्छब्लुक् । इड्गुणाभावश्च । गोविन्दचिन्तया शबला व्यामिश्रा क्षुभिता चेतना बुद्धिर्यस्य तादृशः क्वचिद्धसति, क्वचित्तचिन्तया आह्लादो यस्य तादृश उच्चैर्गायति, गोविन्दगुणानिति शेषः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित्।
क्वचित्तद‍्भावनायुक्तस्तन्मयोऽनुचकार ह॥

मूलम्

नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित्।
क्वचित्तद‍्भावनायुक्तस्तन्मयोऽनुचकार ह॥ ४० ॥

अनुवाद (हिन्दी)

वे कभी उत्सुक हो बेसुरा चिल्ला पड़ते। कभी-कभी लोक-लज्जाका त्याग करके प्रेममें छककर नाचने भी लगते थे। कभी-कभी उनकी लीलाके चिन्तनमें इतने तल्लीन हो जाते कि उन्हें अपनी याद ही न रहती, उन्हींका अनुकरण करने लगते॥ ४०॥

वीरराघवः

क्वचित्तच्चिन्ताह्लाद एव नदति ध्वनति क्वचिदुत्कण्ठः कण्ठोपरिव्याप्तहर्षः विगतलज्जो नृत्यति उत्कण्ठो मुक्तकण्ठस्सन् ध्वनतीति वा क्वचित्तद्भावनया भगवदनुस्मृत्या युक्तस्तन्मयः तदात्मकः स्वात्मानं तदपृथक् सिद्धत्वेन पश्यन्नपि तदपि तदनुसन्धानेन विस्मृत्य तद्रूपतामित्यभिमानेन अनुचकारानुकरोति भगवानिव चेष्टते इत्यर्थः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः।
अस्पन्दप्रणयानन्दसलिलामीलितेक्षणः॥

मूलम्

क्वचिदुत्पुलकस्तूष्णी51मास्ते संस्पर्शनिर्वृतः51
अस्पन्द52प्राणयानन्दसलिलामीलितेक्षणः॥ ४१ ॥

अनुवाद (हिन्दी)

कभी भीतर-ही-भीतर भगवान‍्का कोमल संस्पर्श अनुभव करके आनन्दमें मग्न हो जाते और चुपचाप शान्त होकर बैठ रहते। उस समय उनका रोम-रोम पुलकित हो उठता। अधखुले नेत्र अविचल प्रेम और आनन्दके आँसुओंसे भरे रहते॥ ४१॥

वीरराघवः

क्वचिच्च संस्पर्शेनाऽविच्छिन्नानुध्यानेन निर्वृतः सुखितः अस्पन्दः स्थिरो यः प्रणयः स्नेहस्तेन य आनन्दस्तेन यत्सलिलं तेनाऽऽमीलितं ईषन्मीलिते ईक्षणे यस्य, उत्पुलकः उदञ्चितरोमा तूष्णीमास्ते ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

स उत्तमश्लोकपदारविन्दयो-
र्निषेवयाकिञ्चनसङ्गलब्धया।
तन्वन् परां निर्वृतिमात्मनो मुहु-
र्दुःसङ्गदीनान्यमनःशमं व्यधात्॥

मूलम्

स उत्तमश्लोकपदारविन्दयोः निषेवयाऽकिञ्चन सङ्गलब्धया।
तन्वन् परां निर्वृतिमात्मनो मुहुः दुस्सङ्ग53दीनस्य मनःशमं व्यधात्॥ ४२ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णके चरणकमलोंकी यह भक्ति अकिंचन भगवत्प्रेमी महात्माओंके संगसे ही प्राप्त होती है। इसके द्वारा वे स्वयं तो परमानन्दमें मग्न रहते ही थे; जिन बेचारोंका मन कुसंगके कारण अत्यन्त दीन-हीन हो रहा था, उन्हें भी बार-बार शान्ति प्रदान करते थे॥ ४२॥

वीरराघवः

स प्रह्लादः अकिञ्चनसङ्गः निरुपाधिकस्नेहः तेन लब्धया उत्तमश्लोकस्य भगवतः पादारविन्दयोः निषेवया मुहुर्मुहुरात्मनः स्वस्य परां निर्वृतिमानन्दं 54तन्वन् वितन्वन्, मन इत्यार्षत्वाल्लुप्तषष्ठीकं पृथक् पदम् । यद्वा, तत एव सविशेषणस्याऽपि समासः, विषयासङ्गेन दीनस्य मनसः शमं शान्तिं रागादिराहित्यं व्यधाच्चक्रे दुस्सङ्गदीनस्येति विशेषणं लोकपरिपाटीकृतं, न तु तस्य कदाचिदपि विषयासक्तमभून्मन इति भावः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

तस्मिन्महाभागवते महाभागे महात्मनि।
हिरण्यकशिपू राजन्नकरोदघमात्मजे॥

मूलम्

तस्मिन् महाभागवते महाभागे महात्मनि।
हिरण्यकशिपू राजन् अकरोदघमात्मजे॥ ४३ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! प्रह्लाद भगवान‍्के परम प्रेमी भक्त, परम भाग्यवान् और ऊँची कोटिके महात्मा थे। हिरण्यकशिपु ऐसे साधु पुत्रको भी अपराधी बतलाकर उनका अनिष्ट करनेकी चेष्टा करने लगा॥ ४३॥

वीरराघवः

हे राजन् ! तस्मिन्नेवम्भूते महाभागवतश्रेष्ठे महाविवेकिनि महात्मनि उक्तविधमाहात्म्ये तत्राप्यात्मजे हिरण्यकशिपुरघं द्रोहमकरोत् ॥ ४३ ॥

श्लोक-४४

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

देवर्ष एतदिच्छामो वेदितुं तव सुव्रत।
यदात्मजाय शुद्धाय पितादात् साधवे ह्यघम्॥

मूलम्

देवर्ष एतदिच्छामो वेदितुं तव सुव्रत।
यदात्मजाय शुद्धाय पिताऽदात् साधवे 55ह्यघम्॥ ४४ ॥

अनुवाद (हिन्दी)

युधिष्ठिरने पूछा—नारदजी! आपका व्रत अखण्ड है। अब हम आपसे यह जानना चाहते हैं कि हिरण्यकशिपुने पिता होकर भी ऐसे शुद्ध हृदय महात्मा पुत्रसे द्रोह क्यों किया॥ ४४॥

वीरराघवः

एवंविधस्य द्रोहानर्हत्वशङ्कया पृच्छति युधिष्ठिरः - देवर्ष इति । हे देवर्षे ! एतद्वेदितुं ज्ञातुमिच्छामः, किं तत्? हे सुव्रत ! शुद्धाय निरपराधाय साधवे 56महाभागवताय56 तत्राप्यात्मजाय, अनेन द्रोहानर्हविषयत्वमुक्तम् । पितेत्यनेन द्रोग्धृत्वानर्हत्वम्, अघं द्रोहमधाच्चक्रे इत्येतत् ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः।
उपालभन्ते शिक्षार्थं नैवाघमपरो यथा॥

मूलम्

57पुत्रान् विप्रतिकूलान्स्वान्57 पितरः पुत्रवत्सलाः।
उपालभन्ते शिक्षार्थं नैवाऽघमप58रो यथा॥ ४५ ॥

अनुवाद (हिन्दी)

पिता तो स्वभावसे ही अपने पुत्रोंसे प्रेम करते हैं। यदि पुत्र कोई उलटा काम करता है, तो वे उसे शिक्षा देनेके लिये ही डाँटते हैं, शत्रुकी तरह वैर-विरोध तो नहीं करते॥ ४५॥

वीरराघवः

उक्तविशेषणलब्धार्थमेव विशदयति - पुत्रेष्विति । प्रतिकूलेषु पुत्रेषु विषयभूतेषु पुत्रवत्सलाः पितरः शिक्षार्थं केवलमुपालभन्ते आक्षिपन्ति । अपरे यथा शत्रव इव अघं द्रोहं नैव कुर्वन्ति । प्रतिकूलानपि पुत्रान् केवलं शिक्षार्थं उपालभन्ते न तेभ्यो द्रुह्यन्ति, किम्पुनरनुकूलान् साधून् । गुरुः पितैव दैवतं येषां तानुपालभन्ते न तु तेभ्यो द्रुह्यन्ति इति 59भावः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

किमुतानुवशान् साधूंस्तादृशान् गुरुदेवतान्।
एतत् कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो।
पितुः पुत्राय यद् द्वेषो मरणाय प्रयोजितः॥

मूलम्

किमुतानुवशान् साधूंस्तादृशान् गुरुदेवतान्।
एतत् कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो।
पितुः पुत्राय 60यो द्वेषो मरणाय प्रयोजितः॥ ४६ ॥

अनुवाद (हिन्दी)

फिर प्रह्लादजी-जैसे अनुकूल, शुद्धहृदय एवं गुरुजनोंमें भगवद‍्भाव करनेवाले पुत्रोंसे भला, कोई द्वेष कर ही कैसे सकता है। नारदजी! आप सब कुछ जानते हैं। हमें यह जानकर बड़ा कौतूहल हो रहा है कि पिताने द्वेषके कारण पुत्रको मार डालना चाहा। आप कृपा करके मेरा यह कुतूहल शान्त कीजिये॥ ४६॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरिते चतुर्थोऽध्यायः॥ ४ ॥

वीरराघवः

अतो हे ब्रह्मन् ! अस्माकमेतत्कौतूहलम् एतत्प्रश्नकौतूहलं विधम अपनय । हे प्रभो ! पुत्राय यः पितुर्द्वेषः स मरणाय पितुर्मरणाय प्रयोजितः प्रयोजकोऽभूदिति यदेतत्प्रश्नकौतूहलमित्यन्वयः । पितुः पुत्रविषयकद्वेषः स्वस्यैव मरणप्रयोजकः कथमभूदित्येवंविधप्रश्नविषयकौतूहलं विधमेत्यर्थः ॥ ४६ ॥

इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां चतुर्भोऽध्यायः ॥ ४ ॥


  1. H,V श्रीशुक उवाच ↩︎

  2. A,B,G,J,M,Ma,T स्य सु ↩︎

  3. M,Ma पुंसां ↩︎

  4. A,B,G,J,M,Ma,T दपि दु ↩︎

  5. A,T omit ब्रह्मा ↩︎

  6. A,B,G,J,M,Ma,T,W omit ↩︎ ↩︎

  7. H,V साध्यादी ↩︎

  8. A,B,G,J,M,Ma,T मनून् ↩︎

  9. A,B,G,J,T प्रेतभूतपतीनथ, M, Ma प्रेतभूतपतीनपि ↩︎ ↩︎

  10. H,V omit ↩︎ ↩︎

  11. H,V डू ↩︎

  12. A,B,T मा ↩︎

  13. W omit ↩︎ ↩︎

  14. A,B,T शुभा ↩︎

  15. A,B,G,J,T स्थलीषु; M,Ma स्थलेषु ↩︎

  16. A,B,G,H,J,M,Ma,T ती ↩︎

  17. M,Ma महाऽसुरो महाबलो ↩︎ ↩︎

  18. A,B,G,J,T स्तृ ↩︎

  19. A,B,G,J,M,Ma,T पदं ↩︎

  20. W omits तथा ↩︎

  21. M,Ma रत्नानि त ↩︎

  22. A,B,G,J,M,Ma,T,W सी ↩︎

  23. W क्रमस्त्वविवक्षितः ↩︎ ↩︎

  24. H,V,W शैलो ↩︎

  25. H,V,W र्तु स्वगु ↩︎ ↩︎

  26. W omits सर्वे ↩︎

  27. H,V यं ग ↩︎

  28. H,V श्शान्त ↩︎

  29. A,B,G,J,T,M,Ma,T अ ↩︎

  30. A,B,G,J,M,Ma,T री ↩︎

  31. W omits शब्दः ↩︎

  32. A,B,T री ↩︎

  33. A,B,G,J,M,Ma,T ज्ञातमेत ↩︎

  34. A,B,G,J,M,Ma,T स ↩︎

  35. A,B,G,J,T च ↩︎

  36. A,B,G,J,T कालं तावत्प्रतीक्षत ↩︎ ↩︎

  37. W omits कथम् ? ↩︎

  38. A,B,T omit ↩︎ ↩︎

  39. H,V omit ↩︎ ↩︎

  40. W omits ↩︎ ↩︎

  41. H,V,W श स्त्रि ↩︎

  42. A,B,G,J,T जन्माढ्यो; H,V जनरूपाद्यैः; M,Ma जन्माद्यैः ↩︎

  43. A,B,G,J,T,W हद्गुणा ↩︎

  44. H,V दृश्यन्ते ↩︎

  45. W गुणे पर ↩︎

  46. M,Ma नास्सदा ↩︎

  47. A,B,G,J,T न्धत्त ↩︎

  48. W omits इत्यर्थः । ↩︎

  49. M,Ma द्रोदिति गोविन्द ↩︎ ↩︎

  50. M,Ma चञ्चल ↩︎

  51. M,Ma मशेष स्पर्श निःस्पृहः ↩︎ ↩︎

  52. M,Ma प्राण आ ↩︎

  53. A,B,G,J,T दीनान्य; M,Ma हीनः स्व ↩︎

  54. W omits तन्वन् ↩︎

  55. M,Ma अ ↩︎

  56. W omits ↩︎ ↩︎

  57. H,M,Ma,V पुत्रान् विप्रतिकूलां श्च, W पुत्रेषु प्रतिकूलेषु ↩︎ ↩︎

  58. A,B,G,J,T रो ↩︎

  59. W omits भावः ↩︎

  60. A,B,G,J,M,Ma,T यद्गे ↩︎