०३ हिरण्यकशिपोर्वरयाचनम्

[तृतीयोऽध्यायः]

भागसूचना

हिरण्यकशिपुकी तपस्या और वरप्राप्ति

श्लोक-१

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

हिरण्यकशिपू राजन्नजेयमजरामरम्।
आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत॥

मूलम्

हिरण्यकशिपू राजन्नजेयमजरामरम्।
आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत॥ १ ॥

अनुवाद (हिन्दी)

नारदजीने कहा—युधिष्ठिर! अब हिरण्यकशिपुने यह विचार किया कि ‘मैं अजेय, अजर, अमर और संसारका एकछत्र सम्राट् बन जाऊँ, जिससे कोई मेरे सामने खड़ातक न हो सके’॥ १॥

वीरराघवः

एवं तत्त्वोपदेशेनदित्यादीनां शोकं परिहृतवतो दैत्यस्योपरितनं वृत्तान्तमाह भगवान्नारदः - हिरण्यकशिपुरित्यादिना । हे राजन्! युधिष्ठिर! हिरण्यकशिपुरात्मानं व्यधित्सत विधातुमैच्छत् । कथम्भृतम् ? अजेयमितरैर्जेतुमशक्यम्, जरामरणरहितम् अप्रतिद्वन्द्वं प्रतिपक्षरहितं, एकराजं एकः स्वयमेवराजा 1इत्येक राजः तमेवम्भूतमात्मानं साधयितुमैच्छदित्यर्थः । येन साधनेन स्वयमुक्तविधो भवेत्तादृशं साधनं कर्तुमैच्छदिति यावत् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

स तेपे मन्दरद्रोण्यां तपः परमदारुणम्।
ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः॥

मूलम्

स तेपे मन्दरद्रोण्यां तपः परमदारुणम्।
ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः॥ २ ॥

अनुवाद (हिन्दी)

इसके लिये वह मन्दराचलकी एक घाटीमें जाकर अत्यन्त दारुण तपस्या करने लगा। वहाँ हाथ ऊपर उठाकर आकाशकी ओर देखता हुआ वह पैरके अँगूठेके बल पृथ्वीपर खड़ा हो गया॥ २॥

वीरराघवः

तत्साधनानुष्ठानप्रकारमेव प्रपञ्चयति - इति । सः दैत्यः मन्दरगिरेर्द्रोण्यां अत्युग्रं तपस्तेपे कृतवान् । कथम्भूतस्सन् ऊर्ध्वौ बाहू यस्य । नभसि दृष्टिः यस्य, पादाङ्गुष्ठेनाश्रिताऽवनिः भूमिः येन ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

जटादीधितिभी रेजे संवर्तार्क इवांशुभिः।
तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे॥

मूलम्

जटादीधितिभी रेजे संवर्तार्क इवांशुभिः।
तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे॥ ३ ॥

अनुवाद (हिन्दी)

उसकी जटाएँ ऐसी चमक रही थीं, जैसे प्रलयकालके सूर्यकी किरणें। जब वह इस प्रकार तपस्यामें संलग्न हो गया, तब देवतालोग अपने-अपने स्थानों और पदोंपर पुनः प्रतिष्ठित हो गये॥ ३॥

श्लोक-४

विश्वास-प्रस्तुतिः

तस्य मूर्ध्नः समुद‍्भूतः सधूमोऽग्निस्तपोमयः।
तिर्यगूर्ध्वमधोलोकानतपद्विष्वगीरितः॥

मूलम्

तस्य मूर्ध्नः समुद‍्भूतः स2धूमोऽग्निस्तपोमयः।
तिर्यगूर्ध्वमधोलोका न3तपद्विष्वगीरितः॥ ४ ॥

अनुवाद (हिन्दी)

बहुत दिनोंतक तपस्या करनेके बाद उसकी तपस्याकी आग धूएँके साथ सिरसे निकलने लगी। वह चारों ओर फैल गयी और ऊपर-नीचे तथा अगल-बगलके लोकोंको जलाने लगी॥ ४॥

वीरराघवः

एवं तपः कुर्वन् दैत्यो जटानां दीधितिभिः कान्तिभिः अंशुभिः रश्मिभिः सांवर्तकः प्रलयकालिकः सूर्य इव रेजे रराज । तस्मिन् दैत्ये एवं तपः कुर्वति सति ये देवाः पूर्वं 4राक्षसैः अलक्षितास्सन्तः भुवि चेरुः ते स्थानानि 5स्वस्थानानि5 भेजिरे प्रापुः । प्रतिपक्षस्यासुरस्य तपस्स्थिततत्वात् उपद्रवाभावात् स्वस्थानानि भेजिरे इति भावः, तस्य दैत्यस्य मूर्ध्नः सकाशात्समुद्भूतः निष्क्रान्तस्तपोमयः तपस आगतः तपोमयः तत आगत इत्यर्थ “मयट् च” इति मयट् । तपः कार्यभूत इत्यर्थः । धूमेनसहितोऽग्निः प्रवृध्दः तिर्यगूर्ध्वमधश्च सर्वतो लोकानतपत् तताप ॥ ३,४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः।
निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश॥

मूलम्

चुक्षुभुर्नद्युदन्वन्तः 6साद्रिद्वीपा 6चचाल भूः।
निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश॥ ५ ॥

अनुवाद (हिन्दी)

उसकी लपटसे नदी और समुद्र खौलने लगे। द्वीप और पर्वतोंके सहित पृथ्वी डगमगाने लगी। ग्रह और तारे टूट-टूटकर गिरने लगे तथा दसों दिशाओंमें मानो आग लग गयी॥ ५॥

वीरराघवः

नद्यः उदन्वन्तः समुद्राश्च चुक्षुभुः द्वीपैरद्रिभिश्च सहिता भूः भूमिः चचाल, ग्रहैः सहिता स्ताराः नक्षत्राणि निपेतुः, दश दिशो जज्वलुश्च ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः।
धात्रे विज्ञापयामासुर्देवदेव जगत्पते॥

मूलम्

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः।
धात्रे विज्ञापयामासुर्देवदेव जगत्पते॥ ६ ॥

वीरराघवः

तेन तप्ता अग्निना तप्ता देवाः दिवं स्वर्गं त्यक्त्वा सत्यलोकं ययुः धात्रे ब्रह्मणे विज्ञापयामासुश्च । विज्ञप्तिमेवाह हे देवदेव, देवानामिन्द्रादीनामपि देव ! हे जगत्पते ! दैत्येन्द्रस्य तपसा तप्ताः वयं दिवि द्युलोके स्थातुं न शक्नुमः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः।
तस्य चोपशमं भूमन् विधेहि यदि मन्यसे।
लोका न यावन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः॥

मूलम्

दैत्येन्द्रतपसा 7तप्ते दिवि स्थातुं न शक्नुमः।
तस्यचोपशमं भूमन् विधेहि यदि मन्यसे।
लोका न यावन्नङ्क्ष्यन्ति बलिहारा8स्तवाभिभोः॥ ७ ॥

अनुवाद (हिन्दी)

हिरण्यकशिपुकी उस तपोमयी आगकी लपटोंसे स्वर्गके देवता भी जलने लगे। वे घबराकर स्वर्गसे ब्रह्मलोकमें गये और ब्रह्माजीसे प्रार्थना करने लगे—‘हे देवताओंके भी आराध्यदेव जगत्पति ब्रह्माजी! हमलोग हिरण्यकशिपुके तपकी ज्वालासे जल रहे हैं। अब हम स्वर्गमें नहीं रह सकते। हे अनन्त! हे सर्वाध्यक्ष! यदि आप उचित समझें तो अपनी सेवा करनेवाली जनताका नाश होनेके पहले ही यह ज्वाला शान्त कर दीजिये॥ ६-७॥

वीरराघवः

हे भूमन् ! यदि त्वं लोकानां क्षेमं मन्यसे तर्हि हे अभिभो । सर्वाभिभवक्षम ! तव बलिहाराः हविभागप्रदाः पूजाकारिणो वा सर्वे लोकाः यावन्न नङ्क्ष्यन्ति नाशं न यास्यन्ति तावदेव ततः पूर्वमेव, तस्य दैत्येन्द्रतपोग्रेरुपशमं 9वरप्रदानरूपोपायेन9 विधेहि कुरु ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

श्लोक-८
तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः।
श्रूयतां किं न विदितस्तवाथापि निवेदितः॥

मूलम्

तस्याऽयं किल सङ्कल्पश्चरतो दुश्चरं तपः।
श्रूयतां 10किन्न्वविदितं10 तवाथापि निवे11द्यते॥ ८ ॥

वीरराघवः

दैत्यस्य गूढाभिसन्धिं ब्रह्मणः तस्मिन् द्वेषमुत्पादयितुं विज्ञाप12यन्त आहुः12 तस्येति । दुश्चरमन्यैः कर्तुमशक्यं तपश्चरतः कुर्वतः तस्य दैत्यस्यायं किल सङ्कल्पः यद्यपि सर्वज्ञस्य तवाविदितं किन्नु, किमपि नास्ति तथाप्यस्मिन्निवेदितं श्रूयतां त्वयेति शेषः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

सृष्ट्वा चराचरमिदं तपोयोगसमाधिना।
अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम्॥

मूलम्

सृष्ट्वा चराचरमिदं तपोयोगसमाधिना।
अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम्॥ ९ ॥

वीरराघवः

कोऽसौ सङ्कल्पः, तत्राहुः - सृष्ट्वेति । सर्वधिष्ण्येभ्यः इन्द्रादिस्थानेभ्यः परमे स्थाने तिष्ठतीति परमेष्ठी ब्रह्मा, तपोयोगे यस्समाधिः निष्ठा तेन चराचरात्मकमिदं 13कृत्स्नं जगत्सृष्ट्वा यन्निजासनं सर्वोत्कृष्टं सत्यलोकमध्यास्ते ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

तदहं वर्धमानेन तपोयोगसमाधिना।
कालात्मनोश्च नित्यत्वात्साधयिष्ये तथाऽऽत्मनः॥

मूलम्

तदहं वर्धमानेन तपोयोगसमाधिना।
कालात्मनोश्च नित्यत्वात्साधयिष्ये तथाऽऽत्मनः॥ १० ॥

अनुवाद (हिन्दी)

भगवन्! आप सब कुछ जानते ही हैं, फिर भी हम अपनी ओरसे आपसे यह निवेदन कर देते हैं कि वह किस अभिप्रायसे यह घोर तपस्या कर रहा है। सुनिये, उसका विचार है कि ‘जैसे ब्रह्माजी अपनी तपस्या और योगके प्रभावसे इस चराचर जगत‍्की सृष्टि करके सब लोकोंसे ऊपर सत्यलोकमें विराजते हैं, वैसे ही मैं भी अपनी उग्र तपस्या और योगके प्रभावसे वही पद और स्थान प्राप्त कर लूँगा। क्योंकि समय असीम है और आत्मा नित्य है। एक जन्ममें नहीं, अनेक जन्म; एक युगमें न सही, अनेक युगोंमें॥ ८—१०॥

वीरराघवः

तदेवासनमहमात्मनो मम वर्धमानेन तपोयोगसमाधिना साधयिष्ये इति । ननु ब्रह्मणा दीर्घायुषा तपस्तप्त्वा तत्साधितम् अन्यः कथं तत्साधयेत्, तत्राहुः - कालात्मनोश्च नित्यत्वादिति । यद्यप्यायुरल्पं तथाऽपि कालस्य आत्मनश्च नित्यत्वात् बहुभिर्जन्मभिः साधयिष्ये इत्यभिसन्धिरित्यर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

अन्यथेदं विधास्येऽहमयथापूर्वमोजसा।
किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः॥

मूलम्

अन्यथेदं विधास्येऽहमयथापूर्वमोजसा।
किमन्यैः कालनिर्धूतैः क14ल्पान्ते वैष्णवादिभिः॥ ११ ॥

अनुवाद (हिन्दी)

अपनी तपस्याकी शक्तिसे मैं पाप-पुण्यादिके नियमोंको पलटकर इस संसारमें ऐसा उलट-फेर कर दूँगा, जैसा पहले कभी नहीं था। वैष्णवादि पदोंमें तो रखा ही क्या है। क्योंकि कल्पके अन्तमें उन्हें भी कालके गालमें चला जाना पड़ता है’*॥ ११॥

पादटिप्पनी
  • यद्यपि वैष्णवपद (वैकुण्ठादि नित्यधाम) अविनाशी हैं, परन्तु हिरण्यकशिपु अपनी आसुरी बुद्धिके कारण उनको कल्पके अन्तमें नष्ट होनेवाला ही मानता था। तामसी बुद्धिमें सब बातें विपरीत ही दीखा करती हैं।
वीरराघवः

अभिसन्ध्यन्तरमाहुः - अन्यथेति । तपोबलेनाहमिदं जगदन्यथा अधरोत्तरमयथापूर्वं देवासुरादिव्यत्ययञ्च करिष्ये कल्पान्तैः कल्पावधिभिरत एव कालेन निर्धूतैर्विनाश्यैर्वैष्णवादिभिः पदैर्वैकुण्ठादिभिः किं प्रयोजनं, न किमपि 15प्रयोजनम्1516त्यर्थः । अनेन “सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ, तामसी (भ. ग. 18-32) इत्युक्तरीत्या स्थायिनो वैष्णवपदस्य अस्थिरत्वं सत्यादिलोकानां स्थिरत्वं चाभिसंहितवतो दैत्यस्य केवलतामसबुद्धिमत्त्वमावेदितम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

इति शुश्रुम निर्बन्धं तपः परममास्थितः।
विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर॥

मूलम्

इति शुश्रुम निर्बन्धं तपः परममास्थितः।
विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर॥ १२ ॥

अनुवाद (हिन्दी)

हमने सुना है कि ऐसा हठ करके ही वह घोर तपस्यामें जुटा हुआ है। आप तीनों लोकोंके स्वामी हैं। अब आप जो उचित समझें, वही करें॥ १२॥

वीरराघवः

इतीत्थं त्वत्पदापहरणे तस्य निर्बन्धमभिसन्धिरूपं शुश्रुमः तदर्थमेव परमं तप आस्थितः । अतो हे त्रिभुवनेश्वर ! अत्र कर्तुं यद्युक्तं तदनन्तरमाश्वेव स्वयमेव विधत्स्व 17विधेहि ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते।
भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च॥

मूलम्

तवासनं 18द्विजगवां पारमेष्ठ्यं जगत्पते।
भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च॥ १३ ॥

अनुवाद (हिन्दी)

ब्रह्माजी! आपका यह सर्वश्रेष्ठ परमेष्ठि-पद ब्राह्मण एवं गौओंकी वृद्धि, कल्याण, विभूति, कुशल और विजयके लिये है। (यदि यह हिरण्यकशिपुके हाथमें चला गया, तो सज्जनोंपर संकटोंका पहाड़ टूट पड़ेगा)’॥ १३॥

वीरराघवः

हे जगत्पते! तवेदं पारमेष्ठ्यं सर्वोत्कृष्ठमासनं स्थानं द्विजानां गवाञ्च भवाद्यर्थं, तव स्थानभ्रंशे 19द्विजानां गवाञ्च19 न भवादिकमस्तीति भावः । तत्र भवः अलभ्यलाभः, क्षेमो लब्धपालनं, श्रेयो धर्मादिपुरुषार्थः, भूतिरैश्वर्यं, विजयः उत्कर्षः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

इति विज्ञापितो देवैर्भगवानात्मभूर्नृप।
परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम्॥

मूलम्

इति विज्ञापितो देवैर्भगवानात्मभूर्नृप।
परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम्॥ १४ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! जब देवताओंने भगवान् ब्रह्माजीसे इस प्रकार निवेदन किया, तब वे भृगु और दक्ष आदि प्रजापतियोंके साथ हिरण्यकशिपुके आश्रमपर गये॥ १४॥

वीरराघवः

इतीत्थं दैवैर्विज्ञापितां भगवानात्मभूः परमात्मनो जातो ब्रह्मा 20भृगुदक्षादिभिः20 परिवृतो दैत्येश्वरस्याऽऽश्रमं प्रति ययौ ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः।
पिपीलिकाभिराचीर्णमेदस्त्वङ्मांसशोणितम्॥

मूलम्

21न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः।
पिपीलिकाभिरा22चीर्णमेदस्त्वङ्मांसशोणितम्॥ १५ ॥

अनुवाद (हिन्दी)

वहाँ जानेपर पहले तो वे उसे देख ही न सके; क्योंकि दीमककी मिट्टी, घास और बाँसोंसे उसका शरीर ढक गया था। चींटियाँ उसकी मेदा, त्वचा, मांस और खून चाट गयी थीं॥ १५॥

वीरराघवः

23वल्मीकादिभिः23 वल्मीकैस्तृणैः, कीचकैः वेणुभिश्च प्रतिच्छनं तं दैत्यं प्रथमं हंसवाहनो ब्रह्मा न ददर्श । ततश्च पश्चात्कथञ्चिद्विलक्ष्य विस्मितः 24प्रहसन् तं प्राहेति द्वयोरन्वयः । कथम्भूतं विलक्ष्य ? पिपीलिकाभिः आचीर्णम् आसमन्ताद्भक्षितं मेदश्च त्वक्च मांसञ्च शोणितं च यस्य ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

तपन्तं तपसालोकान्यथाभ्रापिहितं रविम्।
विलक्ष्य विस्मितः प्राह प्रहसन् हंसवाहनः॥

मूलम्

तपन्तं तपसा लोकान् यथा25भ्रपिहितं रविम्।
विलक्ष्य विस्मितः प्राह 26हसंस्तं हंसवाहनः॥ १६ ॥

अनुवाद (हिन्दी)

बादलोंसे ढके हुए सूर्यके समान वह अपनी तपस्याके तेजसे लोकोंको तपा रहा था। उसको देखकर ब्रह्माजी भी विस्मित हो गये। उन्होंने हँसते हुए कहा॥ १६॥

वीरराघवः

तपसा तपोऽग्निना लोकां स्तपन्तं, कमिव विलक्ष्य ? अभ्रैः पिहितं छन्नं रविं यथा सूर्यमिव ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धोऽसि काश्यप।
वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः॥

मूलम्

उत्तिष्ठोत्तिष्ठ भद्रं ते तपस्सिद्धोऽसि काश्यप।
वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः॥ १७ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने कहा—बेटा हिरण्यकशिपु! उठो, उठो। तुम्हारा कल्याण हो। कश्यपनन्दन! अब तुम्हारी तपस्या सिद्ध हो गयी। मैं तुम्हें वर देनेके लिये आया हूँ। तुम्हारी जो इच्छा हो, बेखटके माँग लो॥ १७॥

वीरराघवः

27उक्तिमेवाह- उत्तिष्ठेति । हे काश्यप !, उत्तिष्ठोत्तिष्ठ ते तव भद्रं कुशलमभीष्ठमिति यावत् भविष्यति । यतस्त्वं तपस्सिद्धः तपसा सिद्धः फलपर्यन्ततपस्सम्पन्न अत एव च वरदस्त्वदभीष्टदोऽहमनुप्राप्तः, अत ईप्सित इष्टोऽर्थो व्रियतां याच्यताम् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

अद्राक्षमहमेतत्ते हृत्सारं महदद‍्भुतम्।
दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते॥

मूलम्

अद्राक्षमहमेतत्ते हृत्सारं महदद‍्भुतम्।
दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते॥ १८ ॥

अनुवाद (हिन्दी)

मैंने तुम्हारे हृदयका अद‍्भुत बल देखा। अरे, डाँसोंने तुम्हारी देह खा डाली है। फिर भी तुम्हारे प्राण हड्डियोंके सहारे टिके हुए हैं॥ १८॥

वीरराघवः

ते तवैतत् हृत्सारं धैर्यं, महदद्भुतमद्राक्षम् दृष्टवानस्मि, हि यस्माद्दंशैः भक्षितो देहो यस्य, तस्य प्राणा अस्थिषु शेरते अस्थीनि भक्ष28यन्तः तिष्ठन्ती28त्यर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे।
निरम्बुर्धारयेत्प्राणान् को वै दिव्यसमाः शतम्॥

मूलम्

नैतत्पूर्वर्षयश्चक्रुः न करिष्यन्ति चापरे।
निर29म्बुर्धारयेत्प्राणान् को वै दिव्यसमाः शतम्॥ १९ ॥

अनुवाद (हिन्दी)

ऐसी कठिन तपस्या न तो पहले किसी ऋषिने की थी और न आगे ही कोई करेगा। भला ऐसा कौन है जो देवताओंके सौ वर्षतक बिना पानीके जीता रहे॥ १९॥

वीरराघवः

पूर्वर्षयो भृग्यादयोऽपि नैवं विधाः तपश्चक्रुः अपरे अर्वाचीना न करिष्यन्तीति किम्पुनर्वक्तव्यम् । को वै पुमान् देवमानेन शतं समाः वर्षाणि निरम्बु त्यक्तोदकं यथा भवति तथा प्राणान् धारयेत् न कोऽपीत्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम्।
तपोनिष्ठेन भवता जितोऽहं दितिनन्दन॥

मूलम्

व्यवसायेन 30तेऽनैव दुष्करेण मनस्वि31भिः।
तपोनिष्ठेन भवता जितोऽहं दितिनन्दन॥ २० ॥

अनुवाद (हिन्दी)

बेटा हिरण्यकशिपु! तुम्हारा यह काम बड़े-बड़े धीर पुरुष भी कठिनतासे कर सकते हैं। तुमने इस तपोनिष्ठासे मुझे अपने वशमें कर लिया है॥ २०॥

वीरराघवः

हे दितिनन्दन ! मनस्विभिः योगिभिरपि दुष्करेण तेनानेन 32अध्यवसायेनैव32 तावज्जितोऽहं तपोनिष्ठेन भवता तु सुतरां जितः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव।
मर्त्यस्य ते अमर्त्यस्य दर्शनं नाफलं मम॥

मूलम्

ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव।
मर्त्यस्य ते 33ह्यमर्त्यस्य दर्शनं 34नाफलं मम34॥ २१ ॥

अनुवाद (हिन्दी)

दैत्यशिरोमणे! इसीसे प्रसन्न होकर मैं तुम्हें जो कुछ माँगो, दिये देता हूँ। तुम हो मरनेवाले और मैं हूँ अमर! अतः तुम्हें मेरा यह दर्शन निष्फल नहीं हो सकता॥ २१॥

वीरराघवः

यतोऽहं जितेस्ततस्ते तुभ्यं हे असुरश्रेष्ठ! सर्वा आशिषः इष्टार्थान्ददामि मत्यस्य 35मरणधर्मवतस्त35 तव, अमर्त्यस्य 36तद्रहितस्य36 मम दर्शनमफलसाधनं न भवति, किन्तु सफलमेवेत्यर्थः ॥ २१ ॥

श्लोक-२२

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

इत्युक्त्वाऽऽदिभवो देवो भक्षिताङ्गं पिपीलिकैः।
कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा॥

मूलम्

इत्युक्त्वाऽऽदिभवो देवो भक्षिताङ्गं पिपीलिकैः।
कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा॥ २२ ॥

अनुवाद (हिन्दी)

नारदजी कहते हैं—युधिष्ठिर! इतना कहकर ब्रह्माजीने उसके चींटियोंसे खाये हुए शरीरपर अपने कमण्डलुका दिव्य एवं अमोघ प्रभावशाली जल छिड़क दिया॥ २२॥

वीरराघवः

इतीत्थमुक्त्वा आदिदेवो ब्रह्मा, अमोघराधसा अमोघप्रभावेन दिव्येन कमण्डलुजलेन पिपीलिकैर्भक्षितमङ्गं यस्य तं दैत्यम् औक्षत्प्रोक्षितवान् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

स तत्कीचकवल्मीकात् सहओजोबलान्वितः।
सर्वावयवसम्पन्नो वज्रसंहननो युवा।
उत्थितस्तप्तहेमाभो विभावसुरिवैधसः॥

मूलम्

37ततः कीचकवल्मीकात् सह ओजो बलान्वितः।
सर्वावयवसम्पन्नो वज्रसंहननो युवा।
उत्थितस्तप्तहेमाभो विभावसुरिवैधसः॥ २३ ॥

अनुवाद (हिन्दी)

जैसे लकड़ीके ढेरमेंसे आग जल उठे, वैसे ही वह जल छिड़कते ही बाँस और दीमकोंकी मिट्टीके बीचसे उठ खड़ा हुआ। उस समय उसका शरीर सब अवयवोंसे पूर्ण एवं बलवान् हो गया था, इन्द्रियोंमें शक्ति आ गयी थी और मन सचेत हो गया था। सारे अंग वज्रके समान कठोर एवं तपाये हुए सोनेकी तरह चमकीले हो गये थे। वह नवयुवक होकर उठ खड़ा हुआ॥ २३॥

वीरराघवः

ततः प्रोक्षणानन्तरं कीचकाच्छन्नवल्मीकादेधसः काष्ठनिचयाद्विभावसुरग्निरिव उत्थितः 38वल्मीकं भित्त्वा बहिर्निर्गत इत्यर्थः38। कथम्भूतः ? सहसा प्राण्बलेन ओजसा इन्द्रियबलेन देहबलेन चान्वितः तथा सर्वैः अवयवैः पाणिपादादिभिः सम्पन्नो युक्तः वज्रवत्संहनन मङ्गदार्ढ्यं यस्य स युवा यौवनयुक्तश्च तप्तस्य हेम्न इवाभा यस्य सः तप्तसुवर्णं तुल्यकान्ति39रित्यर्थः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

स निरीक्ष्याम्बरे देवं हंसवाहमवस्थितम्।
ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः॥

मूलम्

स निरीक्ष्याम्बरे देवं हंसवाह40मधिष्टितम्।
ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः॥ २४ ॥

अनुवाद (हिन्दी)

उसने देखा कि आकाशमें हंसपर चढ़े हुए ब्रह्माजी खड़े हैं। उन्हें देखकर उसे बड़ा आनन्द हुआ। अपना सिर पृथ्वीपर रखकर उसने उनको नमस्कार किया॥ २४॥

वीरराघवः

एवं विधः उत्थायाम्बरे हंसवाहनमवस्थितमधिष्टितं देवं ब्रह्माणं निरीक्ष्य स दैत्यस्तस्य ब्रह्मणो दर्शनेन महानुत्सवः सन्तोषो यस्य तादृशः शिरसा भूमौ ननाम ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम्।
हर्षाश्रुपुलकोद‍्भेदो गिरा गद‍्गदयागृणात्॥

मूलम्

उत्थाय प्राञ्जलिः 41प्रह्व प्रेक्षमाणो दृशा विभुम्।
हर्षाश्रुपुलकोद‍्भेदो गिरा गद‍्गद42याऽगृणात्42॥ २५ ॥

अनुवाद (हिन्दी)

फिर अंजलि बाँधकर नम्रभावसे खड़ा हुआ और बड़े प्रेमसे अपने निर्निमेष नयनोंसे उन्हें देखता हुआ गद‍्गद वाणीसे स्तुति करने लगा। उस समय उसके नेत्रोंमें आनन्दके आँसू उमड़ रहे थे और सारा शरीर पुलकित हो रहा था॥ २५॥

वीरराघवः

तत उत्थाय प्राञ्जलिः बद्धाञ्जलिः प्रह्नः नम्रः, दृशा चक्षुषा, विभुं ब्रह्माणं निरीक्षमाणः हर्षेण अश्रूणि पुलकोद्भेदो रोमोद्गमञ्च यस्य तादृशः गद्गदया गिरा अगृणात् 43अस्तौषीत् ॥ २५ ॥

श्लोक-२६

मूलम् (वचनम्)

हिरण्यकशिपुरुवाच

विश्वास-प्रस्तुतिः

कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम्।
अभिव्यनग् जगदिदं स्वयंज्योतिः स्वरोचिषा॥

मूलम्

कल्पान्तेकालसृष्टेन योऽन्धेन तमसाऽऽवृतम्।
अभिव्यनग् जगदिदं स्वयंज्योतिः स्वरोचिषा॥ २६ ॥

अनुवाद (हिन्दी)

हिरण्यकशिपुने कहा—कल्पके अन्तमें यह सारी सृष्टि कालके द्वारा प्रेरित तमोगुणसे, घने अन्धकारसे ढक गयी थी। उस समय स्वयंप्रकाशस्वरूप आपने अपने तेजसे पुनः इसे प्रकट किया॥ २६॥

वीरराघवः

तदेवाह कल्पान्तइत्यादि नवभिः । तामसत्वाद्ब्रह्माणमेव सर्वकारणं सर्वेश्वरञ्च मत्वा स्तौति । यद्वा परमेश्वरधर्मारोपेण 44स्तौति - कल्पान्त इति । कल्पान्ते दैनान्दिनकल्पान्ते कालेन निमित्तेन सृष्टेनान्धेन तमसाऽऽवृतमिदं जगत्पुनर्यः स्वयंज्योतिः स्वप्रकाशरूपः स्वरोचिषा अभिव्यनक् अभिव्यक्तमकरोत् 45तस्मै नमः इत्युत्तरेणान्वयः45 ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति।
रजःसत्त्वतमोधाम्ने पराय महते नमः॥

मूलम्

आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति।
रजस्सत्त्वतमोधाम्ने पराय महते नमः॥ २७ ॥

अनुवाद (हिन्दी)

आप ही अपने त्रिगुणमय रूपसे इसकी रचना, रक्षा और संहार करते हैं। आप रजोगुण, सत्त्वगुण और तमोगुणके आश्रय हैं। आप ही सबसे परे और महान् हैं। आपको मैं नमस्कार करता हूँ॥ २७॥

वीरराघवः

यश्च त्रिवृता सृष्ट्यादिशक्तित्रयवता आत्मना स्वेनैव इदं जगत्सृजति रक्षति लुम्पति संहरति च तस्मै रज-आदिगुणत्रयस्य धा46म्ने आश्रयाय, पराय सर्वोत्कृष्टाय, महते भूरिगुणाय, तुभ्यं नमः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये।
प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे॥

मूलम्

नम आद्याय बीजाय 47नमोविज्ञानमूर्तये।
प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे॥ २८ ॥

अनुवाद (हिन्दी)

आप ही जगत‍्के मूल कारण हैं। ज्ञान और विज्ञान आपकी मूर्ति हैं। प्राण, इन्द्रिय, मन और बुद्धि आदि विकारोंके द्वारा आपने अपनेको प्रकट किया है॥ २८॥

वीरराघवः

यत एवमत एवं आद्याय बीजाय कारणकारणाय ज्ञानविज्ञानमूर्तये शास्त्रविवेकोत्थज्ञानगम्यमृर्तये प्राणैरिन्द्रियैरुभयेन्द्रियैः मनसा बुद्ध्या विकारैः पृथिव्यादिभूतैश्च व्यक्तिं कार्यरूपताम् ईयुषे प्राप्तवते तुभ्यं नमः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

त्वमीशिषे जगतस्तस्थुषश्च
प्राणेन मुख्येन पतिः प्रजानाम्।
चित्तस्य चित्तेर्मनइन्द्रियाणां
पतिर्महान् भूतगुणाशयेशः॥

मूलम्

त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम्।
चित्तस्य 48चित्तेर्मन इन्द्रियाणां पतिर्म49हान् भूतगुणाशयेशः॥ २९ ॥

अनुवाद (हिन्दी)

आप मुख्यप्राण सूत्रात्माके रूपसे चराचर जगत‍्को अपने नियन्त्रणमें रखते हैं। आप ही प्रजाके रक्षक भी हैं। भगवन्! चित्त, चेतना, मन और इन्द्रियोंके स्वामी आप ही हैं। पंचभूत, शब्दादि विषय और उनके संस्कारोंके रचयिता भी महत्तत्त्वके रूपमें आप ही हैं॥ २९॥

वीरराघवः

एवं कार्यकारणरूपेण अवस्थितत्वमुक्तम् । अथान्तरात्मत्वमाह - त्वमिति । जगतो जङ्गमस्य, तस्थुषः स्थावरस्य च त्वमेव ईशिषे, अन्तरात्मतया नियमनधारकत्वमाह - प्राणेन मुख्येन मुख्यप्राणेनोपलक्षितस्त्वमेव । मुख्यप्राणनिर्वाहकस्त्वमेवेत्यर्थः । अत एव प्रजापतिः प्रजानां पतिः, यत एव मनः पर्यन्त50सकलेन्द्रियधारकमुख्यप्राणनिर्वाहकस्तत एव चित्तस्य चित्तेः बुद्धेर्मनसः इन्द्रियाणां च पतिः निर्वाहकः, न केवलं घटादे भूतलादिवद्धारकः किन्तु महाभूतानां पृथिव्यादीनां गुणानां शब्दादिगुणग्राहकाणां इन्द्रियाणामाशयस्य अन्तः करणस्य च ईशोऽन्तः प्रविश्य नियन्ताऽन्तः प्रविश्य प्रशासनेन धारक इत्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

त्वं सप्ततन्तून् वितनोषि तन्वा
त्रय्या चातुर्होत्रकविद्यया च।
त्वमेक आत्माऽऽत्मवतामनादि-
रनन्तपारः कविरन्तरात्मा॥

मूलम्

त्वं सप्ततन्तून् वितनोषि तन्वा त्रय्या 51चतुर्होत्रकविद्यया च।
त्वमेक52 आत्माऽऽत्मवता मनादिरनन्तपारः कवि53रन्तरात्मा॥ ३० ॥

अनुवाद (हिन्दी)

जो वेद होता, अध्वर्यु, ब्रह्मा और उद‍्गाता—इन ऋत्विजोंसे होनेवाले यज्ञका प्रतिपादन करते हैं, वे आपके ही शरीर हैं। उन्हींके द्वारा अग्निष्टोम आदि सात यज्ञोंका आप विस्तार करते हैं। आप ही सम्पूर्ण प्राणियोंके आत्मा हैं। क्योंकि आप अनादि, अनन्त, अपार, सर्वज्ञ और अन्तर्यामी हैं॥ ३०॥

वीरराघवः

अन्तरात्मत्वमेव प्रपञ्चयति । सप्ततन्तून् सप्तविधान् तन्तून् तन्यन्ते विस्तार्यन्ते इति तन्तवः वैदिकाः क्रियाः पशुसोमेष्टिसत्राहीन होमेष्टकचिदग्निरूपेण सप्तविधांस्तान् यद्वा सप्तभिस्तन्यन्ते इति तथा तान् अध्वर्यु-होतृ-प्रस्तोतृप्रतिहर्त्रृृद्गातृ ब्रह्मयजमानैः सप्तभिः वितन्यन्त इति वा सप्ततन्तवस्तान् सप्त संस्था वा वितनोषि अन्तरात्मतया प्रवर्तयसि । कया? त्रय्या वेदत्रयेण, कथम्भूतया ? चतुर्होतृकविद्यया चतुर्होत्रादिसंज्ञकमन्त्रविद्यायुक्तया । अनेन यज्ञादिकर्तृकत्वमन्तरात्मतयोक्तम्, अथोपासनात्मकज्ञानप्रवर्तकत्वमाह - आत्मवतां प्रशस्तमनस्कानां योगिनां त्वमेक एव आत्मा अन्तरात्मतया योगप्रवर्तक इति भावः । त्वमेव सत्यादिवाक्यप्रतिपाद्यस्वरूप इत्याह - अनादीति । अनादिः कालतः परिच्छेदरहितः अनन्तपारः अन्तो देशतः परिच्छेदः पारो वस्तुतः परिच्छेदः तदुभयं यस्य नास्ति सोऽनन्तपारः अनेनानन्तशब्दार्थ उक्तः, कविः सर्वज्ञः अनेन ज्ञानशब्दार्थ उक्तः, अन्तरात्मान्तर्व्याप्य 54व्याप्यगतविकारास्मर्शेन नियन्ता त्वमेव, अनेन सत्यशब्दार्थ उक्तः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

त्वमेव कालोऽनिमिषो जनाना-
मायुर्लवाद्यावयवैः क्षिणोषि।
कूटस्थ आत्मा परमेष्ठ्यजो महां-
स्त्वं जीवलोकस्य च जीव आत्मा॥

मूलम्

त्वमेव कालोऽनिमिषो जनानामायुर्लवाद्यावयवैः क्षिणोषि।
कूटस्थ आत्मा परमेष्ठ्यजो महांस्त्वं जीवलोकस्य च जीव आत्मा॥ ३१ ॥

अनुवाद (हिन्दी)

आप ही काल हैं। आप प्रतिक्षण सावधान रहकर अपने क्षण, लव आदि विभागोंके द्वारा लोगोंकी आयु क्षीण करते रहते हैं। फिर भी आप निर्विकार हैं। क्योंकि आप ज्ञानस्वरूप, परमेश्वर, अजन्मा, महान् और सम्पूर्ण जीवोंके जीवनदाता अन्तरात्मा हैं॥ ३१॥

वीरराघवः

अथ कालान्तरात्मतया तन्नियन्तृत्वमाह - त्वमेवेति । त्वमेव अनिमिषः, कालः कालशरीरकस्तन्नियन्ता, अत एव लवाद्यैः कालावयवैस्त्वमेव जनानामायुर्जीवनं क्षिणोषि क्षपयसि, त्वमेव कूटस्थो निर्विकारः, आत्मा परमात्मा, परमेष्ठी निरतिशयस्थानवर्ती, अजः कर्मायत्तजन्मादिशून्यः । “महानज आत्मा” इति श्रुत्यर्थोऽत्राभिसंहितः कृस्त्नस्य जीवलोकस्य जीवः जीवयिता आत्मा त्वमेव “को ह्येवान्यात्कः प्राण्यात्” ( तैत्ति. उ. 2-7) इति श्रुत्यर्थोऽत्राभिसंहितः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

त्वत्तः परं नापरमप्यनेज-
देजच्च किञ्चिद् व्यतिरिक्तमस्ति।
विद्याः कलास्ते तनवश्च सर्वा
हिरण्यगर्भोऽसि बृहत्त्रिपृष्ठः॥

मूलम्

त्वत्तः परं नापरमप्यने55जज्जगच्च किञ्चित् व्यतिरिक्तमस्ति।
विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत्रिपृष्ठः॥ ३२ ॥

अनुवाद (हिन्दी)

प्रभो! कार्य, कारण, चल और अचल ऐसी कोई भी वस्तु नहीं है, जो आपसे भिन्न हो। समस्त विद्या और कलाएँ आपके शरीर हैं। आप त्रिगुणमयी मायासे अतीत स्वयं ब्रह्म हैं। यह स्वर्णमय ब्रह्माण्ड आपके गर्भमें स्थित है। आप इसे अपनेमेंसे ही प्रकट करते हैं॥ ३२॥

वीरराघवः

किं बहुना यत्किञ्चिदेजञ्चरम्, अनेजत् स्थावरञ्च त्वत्तः परमुत्कृष्टमपरं तुल्यञ्च नास्ति तथा व्यतिरिक्तेम् अत्वदात्मकञ्च नास्ति, त्वत्तोऽपकृष्टं त्वदात्मकञ्च सर्वं चराचरं जगदित्यर्थः । एवं रूपस्य तदात्मकत्वमुक्तम्, अथ नाम्नः तदात्मकत्वमाह - विद्या वेदाः, कलाः उपवेदादयः सर्वाः शब्दात्मिकाः ते तव तनवः शरीरभूताः हिरण्यगर्भोऽसि 56हिरण्यात्मकं ब्रह्माण्डं गर्भे यस्य तथाभूतोऽसि - “हिरण्यगर्भः समवर्तताग्रे" (तैत्ति. सं. 4-1-8-3) इत्याद्यष्टर्च प्रतिपाद्यस्वरूपोऽसीत्यर्थः । स्वरूपेण गुणैश्च बृहत् त्रयाणां लोकानां 57पृष्ठो बहिर्भूतः परमव्योमनिलय इत्यर्थः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

व्यक्तं विभो स्थूलमिदं शरीरं
येनेन्द्रियप्राणमनोगुणांस्त्वम्।
भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये
अव्यक्त आत्मा पुरुषः पुराणः॥

मूलम्

व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम्।
58भुङ्क्षे स्थितो धामनि पारमे59ष्ट्ये ह्यव्यक्त आत्मा पुरुषः पुराणः॥ ३३ ॥

अनुवाद (हिन्दी)

प्रभो! यह व्यक्त ब्रह्माण्ड आपका स्थूल शरीर है। इससे आप इन्द्रिय, प्राण और मनके विषयोंका उपभोग करते हैं। किन्तु उस समय भी आप अपने परम ऐश्वर्यमय स्वरूपमें ही स्थित रहते हैं। वस्तुतः आप पुराणपुरुष, स्थूल-सूक्ष्मसे परे ब्रह्मस्वरूप ही हैं॥ ३३॥

वीरराघवः

यदुक्तं कृत्स्नस्य तच्छरीरत्वं तस्य सर्वान्तरात्मत्वञ्च तदुपसंहरन् नमस्करोति - व्यक्तमिति द्वाभ्याम् । हे विभो ! देव ! स्थूलं चिदचिदात्मकमिदं जगत्तव व्यक्तं शरीरं स्थूलशरीरमित्यर्थः । तर्हि किं सूक्ष्मं शरीरम् ? तत्राह - अव्यक्तः प्राकृतैरिन्द्रियेरगम्यः आत्मा सर्वान्तरात्मा जगत्कारणपुरुषः । एवं विधस्त्वं येन शरीरेण चतुर्मुखशरीरेण परमेष्ट्ये स्थाने स्थितः इन्द्रियादीनां गुणान् विषयान् शब्दादीन् भुङ्क्षे, तत्सूक्ष्ममिति शेषः । येन शरीरेण जीवानामिन्द्रियादीन् सृष्ट्वा तद्व्यापारान् लीलारसत्वेन भुङ्क्षे अनुभवसि तत्सूक्ष्मं शरीरमित्यर्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

अनन्ताव्यक्तरूपेण येनेदमखिलं ततम्।
चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः॥

मूलम्

अनन्ताव्यक्तरूपेण येनेदमखिलं ततम्।
चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः॥ ३४ ॥

अनुवाद (हिन्दी)

आप अपने अनन्त और अव्यक्त स्वरूपसे सारे जगत‍्में व्याप्त हैं। चेतन और अचेतन दोनों ही आपकी शक्तियाँ हैं। भगवन्! मैं आपको नमस्कार करता हूँ॥ ३४॥

वीरराघवः

अनन्तं त्रिविधपरिच्छेदरहितमतीन्द्रियं यत्स्वरूपं तदनन्ताव्यक्तरूपं, येनानन्ताव्यक्तरूपेण इदमखिलं जगदन्तरात्मतया ततं व्याप्तं तस्मै चिदचिच्छक्तभ्यां कार्योपयुक्ताऽपृथक् सिद्धस्वविशेषेण भूताभ्यां चेतनाचेतनाभ्यां युक्ताय, तच्छरीरकायेत्यर्थः । भगवते पूर्णषाड्गुण्याय तुभ्यं नमः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

यदि दास्यस्यभिमतान् वरान्मे वरदोत्तम।
भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो॥

मूलम्

यदि दास्यस्याभिमतान् वरान्मे वरदोत्तम।
भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्माभून्मम प्रभो॥ ३५ ॥

वीरराघवः

एवं परमात्मत्वाभिमानेन तद्धर्मारोपेण वा तद्गुणयुक्तत्वेन परम् 60आत्माऽऽवेशावताररूपं ब्रह्माणं स्तुत्वाऽथ वरान् वृणुते - यदीति । हे वरदश्रेष्ठ ! यदि ममाभिमतान् वरान् दास्यसि तर्हि तावत्वया सृष्टेभ्यो भूतेभ्यः सकाशात् मम मृत्युर्मरणं माभूत् । एव मनुगृहा61णेत्यर्थः । विष्णोरपि चतुर्मुखसृष्टत्वाभिमानेन त्वद्विसृष्टेभ्य इत्युक्तम् ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः।
न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि॥

मूलम्

नान्तर्बहिर्दिवा नक्त मन्यस्मादपि चायुधैः।
न भूमौ नाऽम्बरे मृत्युर्न नरैर्न मृगैरपि॥ ३६ ॥

वीरराघवः

तथान्तः गृहादीनामन्तः, तेभ्यो बहिः, दिवा अह्नि, नक्तं रात्रौ, अन्यस्मात् त्वत्सृष्टव्यतिरिक्तात् त्वत्तोऽप्यायुधैरपि भूमौ 62पृथिव्याम्, अम्बरे च आकाशे, मृगैर्नरैश्च ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

व्यसुभिर्वासुमद‍्भिर्वा सुरासुरमहोरगैः।
अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम्॥

मूलम्

व्यसुभिर्वाऽसुमद‍्भिर्वा सुरासुरमहोरगैः।
अप्रतिद्वन्द्व63तां युद्धे 64ह्यैकपत्यं च देहिनाम्॥ ३७ ॥

अनुवाद (हिन्दी)

प्रभो! आप समस्त वरदाताओंमें श्रेष्ठ हैं। यदि आप मुझे अभीष्ट वर देना चाहते हैं, तो ऐसा वर दीजिये कि आपके बनाये हुए किसी भी प्राणीसे—चाहे वह मनुष्य हो या पशु, प्राणी हो या अप्राणी, देवता हो या दैत्य अथवा नागादि किसीसे भी मेरी मृत्यु न हो। भीतर-बाहर,दिनमें, रात्रिमें, आपके बनाये प्राणियोंके अतिरिक्त और भी किसी जीवसे, अस्त्र-शस्त्रसे, पृथ्वी या आकाशमें—कहीं भी मेरी मृत्यु न हो। युद्धमें कोई मेरा सामना न कर सके। मैं समस्त प्राणियोंका एकच्छत्र सम्राट् होऊँ॥ ३५—३७॥

वीरराघवः

व्यसुभिरप्राणैः असुमद्भिः प्राणिभिश्च सुरैरसुरैः 65महोरगैः महासर्पैश्च 66मम मृत्युर्माभूत् अयमेको वरः । वरान्तरञ्च याचते अप्रतिद्वन्द्वतामिति युद्धे अप्रतिद्वन्द्वताम् अप्रतिपक्षताम्, अयं द्वितीयः । देहिनां प्रजानामैकपत्यं एकाधिपतित्वम्, अयं तृतीयो वरः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

सर्वेषां लोकपालानां महिमानं यथाऽऽत्मनः।
तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित्॥

मूलम्

सर्वेषां लोकपालानां महिमानं 67तथाऽऽत्मनः।
तपोयोगप्रभा68वाणां यन्नरिष्यति कर्हिचित्॥ ३८ ॥

अनुवाद (हिन्दी)

इन्द्रादि समस्त लोकपालोंमें जैसी आपकी महिमा है, वैसी ही मेरी भी हो। तपस्वियों और योगियोंको जो अक्षय ऐश्वर्य प्राप्त है, वही मुझे भी दीजिये॥ ३८॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे हिरण्यकशिपोर्वरयाचनं नाम तृतीयोऽध्यायः॥ ३ ॥

वीरराघवः

तथा आत्मनो मम सर्वेषां लोकपालानाम् इन्द्रादीनां महिमानं माहात्म्यम् अयं चतुर्थः । किञ्च तपसा योगेन च प्रभावो येषां तेषां योगिनां यन्नरिष्यति न नङ्क्ष्यति अणिमाद्यैश्वर्यं, तदपि देहीति शेषः । प69ञ्चमोऽयं वरः69 ॥ ३८ ॥

इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां तृतीयोऽध्यायः ॥ ३ ॥


  1. W omits इति ↩︎

  2. M,Ma धूम्रो ↩︎

  3. H,V सकृ ↩︎

  4. A,B,T दैत्यैः ↩︎

  5. A,B,T omit ↩︎ ↩︎

  6. A,B,G,J,M,Ma,T सद्वीपाद्रिश्च ↩︎ ↩︎

  7. A,B,G,J,M,Ma,T तप्ता ↩︎

  8. A,B,G,J,T स्तवाभिभूः, M,Ma स्तवप्रभोः ! ↩︎

  9. W omits ↩︎ ↩︎

  10. A,B,G,J,T किन विदितः, M,Ma कि न विदितं ↩︎ ↩︎

  11. A,B,G,J‚T दितः ↩︎

  12. W यन्ति ↩︎ ↩︎

  13. A,B,T सर्व ↩︎

  14. M,Ma ल्पान्तैः ↩︎

  15. A,B,T omit ↩︎ ↩︎

  16. W omits अर्थः ↩︎

  17. A,B,T कुरु ↩︎

  18. M,Ma हि जगतां ↩︎

  19. W द्विजगवां ↩︎ ↩︎

  20. A,B,T भृग्याद्यैः ↩︎ ↩︎

  21. M,Ma तं ↩︎

  22. M,Ma कीर्ण ↩︎

  23. W omits ↩︎ ↩︎

  24. W omits प्र ↩︎

  25. A,B,G,J,T भ्रापिहितं, M,Ma भाविततं ↩︎

  26. A,B,G,J,T प्रहसन ह ↩︎

  27. A,B,T उक्त ↩︎

  28. A,B,T यन्तीत्यर्थः ↩︎ ↩︎

  29. W म्वृधा ↩︎

  30. A,B,G,J,T तेऽनेन, M,Ma तेनेन ↩︎

  31. A,B,G,J,T नाम ↩︎

  32. W व्यवसाये नैव ↩︎ ↩︎

  33. A,B,G,J,T अम ↩︎

  34. M,Ma न च निष्फलं ↩︎ ↩︎

  35. W omits ↩︎ ↩︎

  36. W omits ↩︎ ↩︎

  37. A,B,G,J,M,Ma,T स तत् ↩︎

  38. W omits ↩︎ ↩︎

  39. W omits इत्यर्थः ↩︎

  40. A,B,G,H,T,V मवस्थितम् M,Ma नमास्थितम् ↩︎

  41. A,B,G,J,M,Ma,T प्रह्वईक्ष ↩︎

  42. या गुणन, M,Ma याऽगृणत् ↩︎ ↩︎

  43. W अस्तावीत ↩︎

  44. W स्तुतिः ↩︎

  45. W omits ↩︎ ↩︎

  46. W omits धाम्ने ↩︎

  47. A,B,G,J,M,Ma,T ज्ञान वि ↩︎

  48. M,Ma चित्ति ↩︎

  49. M,Ma हाभृ ↩︎

  50. W सर्वेन्द्रिय ↩︎

  51. A,B,G,J,T चा ↩︎

  52. A व ↩︎

  53. M,Ma ख्ययात्मा ↩︎

  54. A,B,T omit व्याप्य ↩︎

  55. A,B,G,J,M,Ma,T जज ↩︎

  56. W हिरण्मयात्मकं ↩︎

  57. W omits पृष्ठो ↩︎

  58. M,Ma भुङ्क्ते ↩︎

  59. A,B,G,J,M,Ma,T ष्ट्ये अ ↩︎

  60. A,B,T आवेशा ↩︎

  61. W omits इत्यर्थः ↩︎

  62. W omits पृथिव्याम् ↩︎

  63. M,Ma ता ↩︎

  64. A,B,G,J,M,Ma,T ऐक ↩︎

  65. W omits महोरगः ↩︎

  66. W omits मम ↩︎

  67. A,B,G,J,T,V य ↩︎

  68. M,Ma वेन यो न ↩︎

  69. W omits ↩︎ ↩︎