[द्वितीयोऽध्यायः]
भागसूचना
हिरण्याक्षका वध होनेपर हिरण्यकशिपुका अपनी माता और कुटुम्बियोंको समझाना
श्लोक-१
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना।
हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा॥
मूलम्
भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना।
हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा॥ १ ॥
अनुवाद (हिन्दी)
नारदजीने कहा—युधिष्ठिर! जब भगवान्ने वराहावतार धारण करके हिरण्याक्षको मार डाला, तब भाईके इस प्रकार मारे जानेपर हिरण्यकशिपु रोषसे जल-भुन गया और शोकसे सन्तप्त हो उठा॥ १॥
वीरराघवः
एवं तयोः केशवात्मत्वविद्वेषविस्तर बुभुत्सुना पृष्टो भगवान्नारद आह-भ्रातरीति । एवं देवपक्षपातिना क्रोडमूर्तिना वराहरूपिणा भगवता भ्रातरि हिरण्याक्षे विनिहते सति, हे राजन् ! 1रोषेण शुचा शोकेन च 2अर्पितो व्याप्तैः2 पर्यतप्यत् 3परितापञ्चकार3 ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
आह चेदं रुषा घूर्णः सन्दष्टदशनच्छदः।
कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम्॥
मूलम्
आह चेदं रुषा 4घूर्णः सन्दष्टदशनच्छदः।
कोपोज्ज्व5लद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम्॥ २ ॥
अनुवाद (हिन्दी)
वह क्रोधसे काँपता हुआ अपने दाँतोंसे बार-बार होठ चबाने लगा। क्रोधसे दहकती हुई आँखोंकी आगके धूएँसे धूमिल हुए आकाशकी ओर देखता हुआ वह कहने लगा॥ २॥
वीरराघवः
इदं वक्ष्यमाण6माह च । कथम्भूत आह तत्राऽऽह, रुषा पूर्णः अत एव सन्दष्टः दशनच्छदः अधरो येन कोपेन उदतिशयेन ज्वलद्भ्यां चक्षुर्भ्यां धूम्रमम्बरं आकाशं कोपाग्निधूमेनैव धूम्रमम्बरं निरीक्षमाणः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः।
शूलमुद्यम्य सदसि दानवानिदमब्रवीत्॥
मूलम्
करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः।
शूलमुद्यम्य सदसि दानवानिदमब्रवीत्॥ ३ ॥
वीरराघवः
करालदंष्ट्राभिः भयङ्करदंष्ट्राभिः युक्तया उग्रया दृष्ट्या दुष्प्रेक्ष्यं दुर्निरीक्ष्यं भ्रुकुटीयुक्तं मुखं यस्य सदसि सभायां शूलमुद्यम्य उद्धृत्य 7अनेन स्वसामर्थ्यं सूचि7तम् । दानवान्प्रति इदमुवाच ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
भो भो दानवदैतेया द्विमूर्धंस्त्र्यक्ष शम्बर।
शतबाहो हयग्रीव नमुचे पाक इल्वल॥
मूलम्
भो भो दानवदैतेया द्विमूर्धंस्त्र्यक्ष शम्बर।
शतबाहो हयग्रीव नमुचे पाक इल्वल॥ ४ ॥
वीरराघवः
तदेवाह भो भो इति । सामान्येन तावत्सम्बोधनं भो भो दानवा दैतेयाश्चेति, विशेषतः सम्बोधनं द्विमूर्धन्नित्यादिना ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
विप्रचित्ते मम वचः पुलोमन् शकुनादयः।
शृणुतानन्तरं सर्वे क्रियतामाशु मा चिरम्॥
मूलम्
विप्रचित्ते मम वचः पुलोमन् शकुनादयः।
शृणुतानन्तरं 8सर्वे क्रियतामाशु मा चिरम्॥ ५ ॥
अनुवाद (हिन्दी)
उस समय विकराल दाढ़ों, आग उगलनेवाली उग्र दृष्टि और चढ़ी हुई भौंहोंके कारण उसका मुँह देखा न जाता था। भरी सभामें त्रिशूल उठाकर उसने द्विमूर्धा, त्र्यक्ष, शम्बर, शतबाहु, हयग्रीव, नमुचि, पाक, इल्वल, विप्रचित्ति, पुलोमा और शकुन आदिको सम्बोधन करके कहा—‘दैत्यो और दानवो! तुम सब लोग मेरी बात सुनो और उसके बाद जैसे मैं कहता हूँ, वैसे करो॥ ३—५॥
वीरराघवः
9एते सर्वे यूयं प्रथमं मम वचः शृणुत । ततः श्रव10णसमनन्तरमेव मदुक्तमाशु युष्माभिः क्रियतां चिरं विलम्बं मा कुरुत ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत्।
पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः॥
मूलम्
सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत्।
पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः॥ ६ ॥
अनुवाद (हिन्दी)
तुम्हें यह ज्ञात है कि मेरे क्षुद्र शत्रुओंने मेरे परम प्यारे और हितैषी भाईको विष्णुसे मरवा डाला है। यद्यपि वह देवता और दैत्य दोनोंके प्रति समान है, तथापि दौड़-धूप और अनुनय-विनय करके देवताओंने उसे अपने पक्षमें कर लिया है॥ ६॥
वीरराघवः
किं तत्तत्राह-सपत्नैरिति । समेन देवासुरवर्गयोः समेनाऽपि उपधावनैः अनुवर्तमानैः पार्ष्णिग्राहेण पृष्ठोपोद्वलकेन देवानां सहायभूतेनेत्यर्थः । हरिणा प्रयोज्यकर्त्रा मत्सपत्नैः प्रयोजककर्तृभिः क्षुद्रैः अल्पबलैः देवैः प्रियः सुहृच्च मे भ्राता हिरण्याक्षो घार्तितः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः।
भजन्तं भजमानस्य बालस्येवास्थिरात्मनः॥
मूलम्
तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः।
भजन्तं भजमानस्य बालस्येवास्थिरात्मनः॥ ७ ॥
अनुवाद (हिन्दी)
यह विष्णु पहले तो बड़ा शुद्ध और निष्पक्ष था। परन्तु अब मायासे वराह आदि रूप धारण करने लगा है और अपने स्वभावसे च्युत हो गया है। बच्चेकी तरह जो उसकी सेवा करे, उसीकी ओर हो जाता है। उसका चित्त स्थिर नहीं है॥ ७॥
वीरराघवः
तस्य हरेः -कथम्भूतस्य घृणेः सूर्यवत्तेजोमयविग्रहस्यापि मायावनौकसः मायोपात्तवराहरूपस्य अत एव त्यक्तः स्वभावो येन तस्य, देवतारूपत्यागादिति भावः । भजन्तं स्वमनुवर्तमानं भजमानस्य अनुवर्तमानस्य बालस्येवास्थिरात्मनः अव्यवस्थितचित्तस्य ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै।
रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः॥
मूलम्
मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै।
11रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः॥ ८ ॥
अनुवाद (हिन्दी)
अब मैं अपने इस शूलसे उसका गला काट डालूँगा और उसके खूनकी धारासे अपने रुधिरप्रेमी भाईका तर्पण करूँगा। तब कहीं मेरे हृदयकी पीड़ा शान्त होगी॥ ८॥
वीरराघवः
एवम्भूतस्य हरर्मम शूलेन भिन्ना ग्रीवा यस्य तस्य भूरिणा रुधिरेण रुधिरप्रियं मम भ्रातरं गतव्यथोऽहं यावत्तर्पयिष्ये तावद्यूयं भुवं यातेत्यन्वयः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
तस्मिन् कूटेऽहिते नष्टे कृत्तमूले वनस्पतौ।
विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः॥
मूलम्
तस्मिन् कूटेऽहिते नष्टे 12कृत्तमूले वनस्पतौ।
विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः॥ ९ ॥
अनुवाद (हिन्दी)
उस मायावी शत्रुके नष्ट होनेपर, पेड़की जड़ कट जानेपर डालियोंकी तरह सब देवता अपने-आप सूख जायँगे। क्योंकि उनका जीवन तो विष्णु ही है॥ ९॥
वीरराघवः
ननु देवैः तद्वधः कारितः । अतस्ते किं न हन्यन्ते ? तत्राह-तस्मिन्निति । अस्माकमहिते शत्रौ कूटे देवानामाश्रये तस्मिन् विष्णौ नष्टे सति यथा वनस्पतौ छिन्नं मूलं यस्य तस्मिन् सति शाखाः शुष्यन्ति, तद्वद्विष्णुरेव प्राणो जीवनहेतुः येषां ते, दिवौकसः देवाः स्वयमेव नङ्क्ष्यन्ति अतः तन्नाशाय न पृथग्यत्रः कार्य इति भावः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तावद्यात भुवं यूयं विप्रक्षत्रसमेधिताम्।
सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानिनः॥
अनुवाद (हिन्दी)
इसलिये तुमलोग इसी समय पृथ्वीपर जाओ। आजकल वहाँ ब्राह्मण और क्षत्रियोंकी बहुत बढ़ती हो गयी है। वहाँ जो लोग तपस्या, यज्ञ, स्वाध्याय, व्रत और दानादि शुभ कर्म कर रहे हों, उन सबको मार डालो॥ १०॥
वीरराघवः
यावत्तर्पयिष्ये तावद्यूयं ब्रह्मक्षत्रकुलाभ्यां समेधितां ब्रह्मक्षत्रबहुलामित्यर्थः । भुवं पृथिवीं यात । 15गत्वा किं कर्तव्यम् ? तत्राह-सूदयध्वमिति । तप आदीनां द्वन्द्वे ततो मत्वर्थीय इनिः तप आदिभिः युक्तान् सूदयध्वं घातयत ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान्।
देवर्षिपितृभूतानां धर्मस्य च परायणम्॥
मूलम्
विष्णुर्द्विजक्रियामू16लो यज्ञो धर्ममयः पुमान्।
देवर्षि पितृभूतानां धर्मस्य च परायणम्॥ ११ ॥
अनुवाद (हिन्दी)
विष्णुकी जड़ है द्विजातियोंका धर्म-कर्म; क्योंकि यज्ञ और धर्म ही उसके स्वरूप हैं। देवता, ऋषि, पितर, समस्त प्राणी और धर्मका वही परम आश्रय है॥ ११॥
वीरराघवः
ननु तैः किमपराद्धम् ? तत्राह-विष्णुरिति । द्विजानां क्रियामूलो यो यज्ञः स एव धर्मस्तन्मयस्तदाकृतिः पुमान् विष्णुर्द्विजक्रिया मूल इति भिन्नपदत्वे द्विजानां क्रिया स्मार्ती मूलं यस्य श्रौतयज्ञरूपधर्ममयश्चेत्यर्थः । पुमान् श्रौतस्मार्तधर्मशरीरक इत्यर्थः । तथा देवर्षिपितृभूतानां धर्मः देवाद्युद्देश्यको यो धर्मस्तस्य च परायणं परमआश्रयः निर्वाहकः देवाद्युद्देश्यको यो धर्मस्तदाश्रय इत्यर्थः । द्विजेषु तत्तत्कर्तृकयज्ञादिधर्मेषु च विनाशितेषु शरीरविनाशेन विष्णुरपि विनाशितो भवति तद्विनाशे चाश्रयविनाशादाश्रिते धर्मे विनष्टे सति यज्ञधर्मीयचरुपुरोडाशादिहविर्भागादिरूपजीविकाया अभावाद्देवादयोऽपि स्वयमेव विनष्टा भवन्तीति भावः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
यत्र यत्र द्विजा गावो वेदा वर्णाश्रमाः क्रियाः।
तं तं जनपदं यात सन्दीपयत वृश्चत॥
मूलम्
यत्र यत्र द्विजा गावो वेदा वर्णाश्रमाः क्रियाः।
तं तं जनपदं यात सन्दीपयत वृश्चत॥ १२ ॥
अनुवाद (हिन्दी)
जहाँ-जहाँ ब्राह्मण, गाय, वेद, वर्णाश्रम और धर्म-कर्म हों, उन-उन देशोंमें तुमलोग जाओ, उन्हें जला दो, उजाड़ डालो’॥ १२॥
वीरराघवः
तस्माद्यत्र यत्र देशे ब्राह्मणादयो वर्तन्ते तं तं जनपदं देशं यात गच्छत सन्दीपयत दहत वृश्चत लुनीत ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
इति ते भर्तृनिर्देशमादाय शिरसाऽऽदृताः।
तथा प्रजानां कदनं विदधुः कदनप्रियाः॥
मूलम्
इति ते भर्तृनिर्देशमादाय शिरसाऽऽदृताः।
17तदा प्रजानां कदनं विदधुः कदनप्रियाः॥ १३ ॥
अनुवाद (हिन्दी)
दैत्य तो स्वभावसे ही लोगोंको सताकर सुखी होते हैं। दैत्यराज हिरण्यकशिपुकी आज्ञा उन्होंने बड़े आदरसे सिर झुकाकर स्वीकार की और उसीके अनुसार जनताका नाश करने लगे॥ १३॥
वीरराघवः
इतीत्थं भर्तुर्हिरण्यकशिपोः निर्देशमाज्ञां आदृता आदरयुक्ताः शिरसा आदाय स्वीकृत्य कदनप्रियाकदनं भूतद्रोहस्तद्दुःखं वा तदेव प्रियं येषां ते दानवा दैतेयाश्च प्रजानां कदनं चक्रुः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान्।
खेटखर्वटघोषांश्च ददहुः पत्तनानि च॥
मूलम्
पुरग्रामव्रजोद्यान क्षेत्रारामाश्रमाकरान्।
खेटख18र्पटघोषांश्च ददहुः पत्तनानि च॥ १४ ॥
अनुवाद (हिन्दी)
उन्होंने नगर, गाँव, गौओंके रहनेके स्थान, बगीचे, खेत, टहलनेके स्थान, ऋषियोंके आश्रम, रत्न आदिकी खानें, किसानोंकी बस्तियाँ, तराईके गाँव, अहीरोंकी बस्तियाँ और व्यापारके केन्द्र बड़े-बड़े नगर जला डाले॥ १४॥
वीरराघवः
कदनक्रियामेव प्रपञ्चयति-पुरेति । तत्र पुरं हट्टादिमत्, ग्रामस्तद्रहितः, व्रजो गवां वासः, उद्यानं कृत्रिमं वनं, क्षेत्रं व्रीह्यादेः, आरामः अकृत्रिमं वनं, आश्रमं ऋषीणां स्थानं, आकरो रत्नानां वासः, खेटः कर्षकग्रामः, 19खर्पटा गिरिद्रोण्याश्रयो ग्रामः, घोष आभीराणां वासः, प20त्तनं राजधानी एतानि केचिद्ददहुः अग्निप्रक्षेपेण दग्धवन्तः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान्।
आजीव्यांश्चिच्छिदुर्वृक्षान् केचित्परशुपाणयः।
प्रादहन् शरणान्यन्ये प्रजानां ज्वलितोल्मुकैः॥
मूलम्
केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान्।
आजीव्यांश्चिच्छिदुर्वृक्षान् केचित्परशुपाणयः।
प्रादहन् शरणा21न्यन्ये 22प्रजानां ज्वलितोल्मुकैः22॥ १५ ॥
अनुवाद (हिन्दी)
कुछ दैत्योंने खोदनेके शस्त्रोंसे बड़े-बड़े पुल, परकोटे और नगरके फाटकोंको तोड़-फोड़ डाला तथा दूसरोंने कुल्हाड़ियोंसे फले-फूले, हरे-भरे पेड़ काट डाले। कुछ दैत्योंने जलती हुई लकड़ियोंसे लोगोंके घर जला दिये॥ १५॥
वीरराघवः
केचित्खनित्रैः खननसाधनैः सेतून् प्राकारान् गोपुरां23श्च बिभिदुः तत्र सेतवो जलब24न्धनार्थ निर्मितास्तटाकादयः, केचिच्च परशुः पाणौ येषां ते आजीव्यान् उपजीव्यान् फलिनश्चूतादिवृक्षांश्च चिच्छिदुः, अन्ये च शरणानि गृहान् प्रादहन् प्रदग्धवन्तः, केचिच्चोल्मुकैः सांगारकाष्ठैः प्रजानां जनानां (प्रजाः जनाः) जज्वलुः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः।
दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः॥
मूलम्
एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः।
दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः॥ १६ ॥
अनुवाद (हिन्दी)
इस प्रकार दैत्योंने निरीह प्रजाका बड़ा उत्पीड़न किया। उस समय देवतालोग स्वर्ग छोड़कर छिपे रूपसे पृथ्वीमें विचरण करते थे॥ १६॥
वीरराघवः
एवं दैत्येन्द्रस्य हिरण्यकशिपोरनुचरैः मुहुर्मुहुः लोके विप्रकृते उपद्रुते सति सर्वे देवाः स्वर्ग परित्यज्य असुरैः अलक्षिताः तत्र तत्र भुवि प्रदेशे विचेरुः जग्मुः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः।
कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत्॥
मूलम्
हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः।
कृत्वा 25कटोदकादीनि भ्रातृपुत्रानसान्त्वयत्॥ १७ ॥
वीरराघवः
ततो दुःखितो हिरण्यकशिपुः सम्परेतस्य मृतस्य भ्रातुः 26हिरण्याक्षस्य26 करोदकादीनि प्रेतोद्देशेन करेण हस्तेन देयं सलिलं जलं करोदकं तत्प्रभृतीनि प्रेतोद्देशेन कर्तव्यानि कृत्वा भ्रातुः हिरण्याक्षस्य पुत्रान् असान्त्वयत् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
शकुनिं शम्बरं धृष्टं भूतसन्तापनं वृकम्।
कालनाभं महानाभं हरिश्मश्रुमथोत्कचम्॥
अनुवाद (हिन्दी)
युधिष्ठिर! भाईकी मृत्युसे हिरण्यकशिपुको बड़ा दुःख हुआ था। जब उसने उसकी अन्त्येष्टि क्रियासे छुट्टी पा ली, तब शकुनि, शम्बर, धृष्ट, भूतसन्तापन, वृक, कालनाभ, महानाभ, हरिश्मश्रु और उत्कच अपने इन भतीजोंको सान्त्वना दी॥ १७-१८॥
वीरराघवः
भ्रातुः पुत्रानुद्दिशति-शकुनिमिति ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
तन्मातरं रुषाभानुं दितिं च जननीं गिरा।
श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर॥
अनुवाद (हिन्दी)
उनकी माता रुषाभानुको और अपनी माता दितिको देश-कालके अनुसार मधुर वाणीसे समझाते हुए कहा॥ १९॥
वीरराघवः
तथा देशकालाभिज्ञोऽसुरेश्वरो हिरण्यकशिपुस्तेषां शकुन्यादीनां मातरं रुषद्भानुं स्वमातरं दितिञ्च श्लक्ष्णया मृद्व्या निपुणया वा गिरा इदं वक्ष्यमाणमाह ॥ १९ ॥
श्लोक-२०
मूलम् (वचनम्)
हिरण्यकशिपुरुवाच
विश्वास-प्रस्तुतिः
अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम्।
रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः॥
मूलम्
अम्बाम्ब! हे वधूः पुत्रा वीरं मार्हथ शोचितुम्।
रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः॥ २० ॥
अनुवाद (हिन्दी)
हिरण्यकशिपुने कहा—मेरी प्यारी माँ, बहू और पुत्रो! तुम्हें वीर हिरण्याक्षके लिये किसी प्रकारका शोक नहीं करना चाहिये। वीर पुरुष तो ऐसा चाहते ही हैं कि लड़ाईके मैदानमें अपने शत्रुके सामने उसके दाँत खट्टे करके प्राण त्याग करें; वीरोंके लिये ऐसी ही मृत्यु श्लाघनीय होती है॥ २०॥
वीरराघवः
तदेवाह-अम्बाम्बेत्यादिना, यावदध्याय समाप्ति । अम्बाम्बेति दितेः सम्बोधनम्, हे वधूरिति भ्रातु32र्भार्यायाः, हे पुत्रा इति तत्पुत्राणाम्, वीरं हिरण्याक्षं प्रति शोचितुं यूयं नार्हथ कुतो यतो रिपोरभिमुखे शूराणां वधः श्लाघ्यः प्रशस्तः ईप्सितः प्रशस्तत्वेनाभिमत इत्यर्थः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
भूतानामिह संवासः प्रपायामिव सुव्रते।
दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः॥
मूलम्
भूतानामिह संवासः प्रपायामिव सुव्रते।
दैवेनैकत्र नीतानामुन्नीतानां 33स्वकर्मभिः॥ २१ ॥
अनुवाद (हिन्दी)
देवि! जैसे प्याऊपर बहुत-से लोग इकट्ठे हो जाते हैं, परन्तु उनका मिलना-जुलना थोड़ी देरके लिये ही होता है—वैसे ही अपने कर्मोंके फेरसे दैववश जीव भी मिलते और बिछुड़ते हैं॥ २१॥
वीरराघवः
भवतु नाम तस्य वधः श्लाघ्यः तथापि अस्माकं तावद्वन्धुर्गत एवेत्यत्राह-भूतानामिति । इह संसारे भृतानां संवासः सहावस्थानं प्रपायामिव प्रपिबन्त्यस्यामितिप्रपा, पान्थानां पिपासूनां जलादिपानेन विश्रान्त्यर्थ धार्मिकैर्निर्मिता शाला, तस्यां यथा पान्थानां सहावस्थांनं अस्थिरं तद्वदिह भूतानामपीत्यर्थः । अस्थिरत्वे हेतुं वदन् भूतानि विशिनष्टि, स्वकर्मभिः हेतुभिः दैवेन तत्तज्जीवकर्मानुगणं प्रवृत्तेनेश्वरेणेत्यर्थः । एकत्र नीतानां संयोजितानां पुनरन्यत्र उन्नीतानां वियोजितानाम् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित्परः।
धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान्॥
मूलम्
नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित्परः।
धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान्॥ २२ ॥
अनुवाद (हिन्दी)
वास्तवमें आत्मा नित्य, अविनाशी, शुद्ध, सर्वगत, सर्वज्ञ और देह-इन्द्रिय आदिसे पृथक् है। वह अपनी अविद्यासे ही देह आदिकी सृष्टि करके भोगोंके साधन सूक्ष्मशरीरको स्वीकार करता है॥ २२॥
वीरराघवः
ननु जीवतामेव संयोगवियोगौ प्रपादिषु दृष्टौ, कथं पुनरजीवितोऽत्रैव दग्धस्य तत्र तत्र संयोगवियोगौ ? इत्यत्राह-नित्य इति । देहस्यास्थिरत्वेऽप्यात्मनः स्थिरत्वात् तत्तत्कर्मायत्तशरीरत्यागोपादानाभ्यां तैस्तैः संयोगवियोगौ उपपन्नाविति भावः । तदेतदुपपाद्यते, आत्मा नित्यस्तत्र हेतुरव्ययः विनाशाद्यवस्थारहितः, तत्कुतः ? शुद्धः प्रकृतिपरिणामानाश्रयस्वरूपः प्रकृतिपरिणामो हि प्रकृतिगतः तत्कुतः परदेहाद्विलक्षणः, तत्कुतः सर्ववित् देहेन्द्रियमनः प्राणादीनां वित् अजडत्वेन देहाद्विलक्षण इति भावः । कथमेकदेशस्थः सर्व वेत्ति ? तत्राह-सर्वगः स्वधर्मभूतज्ञानद्वारा कृत्स्नदेहादिव्यापीति भावः । स्वतः एवम्भूतोऽप्यसावात्मा मायया स्वसम्बन्धिविचित्रपुण्य पापात्मककर्मणा गुणान् सत्त्वादीन् विसृजन् कर्मानुरूपं क्षोभयन्नित्यर्थः । आत्मनः स्वस्य कर्मफलभोगार्थमिति शेषः । लिङ्गं शरीरं धत्ते बिभर्ति गुणक्षोभस्य कर्मानुगुणत्वात् कर्मणः स्वात्मनः कर्तृत्वात् गुणवसर्गेऽपि कर्तृत्वमुक्तम्-गुणान्विसृजन्निति । उक्तविधोप्यनादिपुण्यपापात्मककर्मफलभोगाय तदनुगुणपरिणामसत्त्वादिगुणपरिणामात्मकं देहं बिभर्ति इत्यर्थः । तथा च तस्य तत्र तत्र कर्मायत्तदेहसौलभ्यात्तत्प्रयुक्तावेकस्यैव संयोगवियोगौ सम्भवत इति भावः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
यथाम्भसा प्रचलता तरवोऽपि चला इव।
चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः॥
मूलम्
यथाम्भसा प्रचलता तरवोऽपि चला इव।
चक्षुषा भ्राम्यमाणेन दृश्यते 34चलतीव भूः॥ २३ ॥
वीरराघवः
ननु नायमात्मा देहाद्विलक्षणः किन्तु स एव यतो देवोऽहं मनुष्योऽहमिति देहाद्यभेदेन प्रतीयते तत्राह-यथेति । देवोऽहमित्यादिप्रतीतिः भ्रान्तिरूपा न प्रमितिरूपेति भावः । तदेवोपपादयति-यथेति । यथा प्रचलता अम्भसा उदकेनोपधिना तरवो वृक्षा अपि चला इव कम्पमाना इव दृश्यन्ते यथा च भ्राम्यमाणेन चक्षुषा 35भूमिरपि चलतीव दृश्यते, यथा तरुभूम्यादिचलनप्रतीतिः भ्रान्तिरूपेत्यर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान्।
याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव॥
मूलम्
एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान्।
याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव॥ २४ ॥
अनुवाद (हिन्दी)
जैसे हिलते हुए पानीके साथ उसमें प्रतिबिम्बित होनेवाले वृक्ष भी हिलते-से जान पड़ते हैं और घुमायी जाती हुई आँखके साथ सारी पृथ्वी ही घूमती-सी दिखायी देती है, कल्याणी! वैसे ही विषयोंके कारण मन भटकने लगता है और वास्तवमें निर्विकार होनेपर भी उसीके समान आत्मा भी भटकता हुआ-सा जान पड़ता है। उसका स्थूल और सूक्ष्म-शरीरोंसे कोई भी सम्बन्ध नहीं है, फिर भी वह सम्बन्धी-सा जान पड़ता है॥ २३-२४॥
वीरराघवः
एवं तथा हे भद्रे, गुणैः सत्त्वादिगुणपरिणामात्मकैः देहेन्द्रियादिभिः सह, मनसि भ्राम्यमाणे व्यापृतवति, यद्वा, गुणैः शब्दा36दिभिः विषयैः हेतुभिः, तदर्थमित्यर्थः । मनसि भ्राम्यमाणे देहं विषयीकुर्वति सति पुमान् जीवः स्वयमविकलोऽपि निरवयवोऽपि देहाद्भिन्नोऽपीत्यर्थः । तत्साम्यतां देहतुल्यतां याति देवोऽहं मनुष्योऽहं इति देहरूपेणात्मानं प्रत्येति इत्यर्थः । तत्तां यातीत्यनुक्त्वा तत्साम्यतां यातीति वदतोऽयमभिप्रायः । देवोऽहं मनुष्योऽहं इति देहाकारमात्मानं मन्यमानस्याऽपि कदाचित्तद्व्यतिरेक प्रतिपत्तिरस्त्येवेति, तदेव विशदयति-अलिङ्गो लिङ्गवानिवेति । लिङ्गाच्छरीरादन्यः अलिङ्गः आत्मा लिङ्गवानिवात्मानं प्रत्येति ममेदं शरीरं इत्येवंरूपेण लिङ्गप्रतिसम्बन्धीवात्मानं प्रत्येतीत्यर्थः । ममेदं शरीरमिति शरीराद्व्यतिरिक्तत्वेनात्मनः प्रतीतावपि देहात्मभ्रान्तिमतां तत्प्रतीतेः अस्फुटत्वद्योतनाय लिङ्गवानिवेति इवशब्दः प्रयुक्तः । अयं भावः, यद्यात्मनो देहाकारत्वेन प्रतीतिः प्रमितिरूपा स्यात्तर्हि तद्भिन्नत्वेन प्रतीतिः भ्रान्तिरूपा स्यात्, तच्चायुक्तम्, शरीरप्रतिभासदशायां तदप्रतीतिदशायां च सुषुप्त्यादौ अहमर्थस्यात्मनोऽनुवृत्तत्वेन प्रतीयमानत्वादिति ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना।
एष प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः॥
अनुवाद (हिन्दी)
सब प्रकारसे शरीररहित आत्माको शरीर समझ लेना—यही तो अज्ञान है। इसीसे प्रिय अथवा अप्रिय वस्तुओंका मिलना और बिछुड़ना होता है। इसीसे कर्मोंके साथ सम्बन्ध हो जानेके कारण संसारमें भटकना पड़ता है॥ २५॥
वीरराघवः
एवं देहाद्विलक्षणस्य नित्यस्य आत्मनः कर्मपरिपाकानुगुणसत्त्वादिगुणपरिणामरूप देहसम्बन्धस्तदनुध्याननिमित्तस्तदभिन्नत्व प्रत्ययश्च भ्रमरूप इत्युक्तम् । अथ यथा देहसम्बन्धः तदनुध्याननिमित्ततदभेदभ्रमश्च यथा कर्ममूलकः एवं सुखदुःखादिकमपि सर्व कर्म मूलकमेवेत्याह-एष इति । अलिङ्गे लिङ्गादन्यस्मिन् शरीराद्भिन्ने आत्मनि लिङ्गभावना देहत्वेनानुध्यानं देवोऽहमित्यादि देहाभेदप्रतीतिरित्येष आत्मनाो विपर्यय अन्यथा प्रतीतिः कर्मसंसृतिः कर्मकृतसंसारो 39भवतीत्यर्थः39 । एवं प्रियाप्रियैरिष्टानिष्टवस्तुभिर्योगो वियोगश्च सुखदुः40खस्वरूप इत्यर्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः।
अविवेकश्च चिन्ता च विवेकास्मृतिरेव च॥
मूलम्
सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः।
अविवेकश्च चिन्ता च विवे41कास्मृतिरेव च॥ २६ ॥
अनुवाद (हिन्दी)
जन्म, मृत्यु, अनेकों प्रकारके शोक, अविवेक, चिन्ता और विवेककी विस्मृति—सबका कारण यह अज्ञान ही है॥ २६॥
वीरराघवः
सम्भवः उत्पत्तिः विनाशो मरणं नानाविधः शोकः अविवेकः चिदचिदीश्वरयाथात्म्याविवेचनं चिन्ता विषयानुध्यानं विवेकस्यास्मृतिः क्वचिदाप्तोपदेशादिना जातस्यापि विवेकस्याननुसन्धानञ्चेत्येष सर्वोऽपि कर्मसंसृतिरेव कर्मकृतसंसाररूप एव स्मृतः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
यमस्य प्रेतबन्धूनां संवादं तं निबोधत॥
मूलम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
यमस्य प्रेतबन्धूनां संवादं तं निबोधत॥ २७ ॥
अनुवाद (हिन्दी)
इस विषयमें महात्मालोग एक प्राचीन इतिहास कहा करते हैं। वह इतिहास मरे हुए मनुष्यके सम्बन्धियोंके साथ यमराजकी बातचीत है। तुमलोग ध्यानसे उसे सुनो॥ २७॥
वीरराघवः
अत्र शोकनिमित्तमन्तरेणापि यः शोकः स व्यर्थ एवेत्यस्मिन्नर्थे इतिहासमप्युदाहरन्ति तत्त्वविदः । इतिहासं विशिनष्टि - पुरातनं न त्वाधुनिककपोलपरिकल्पितं यमस्य प्रेतबन्धूनां च संवादरूपं तमितिहासं निबोधत 42मत्तः शृणुत ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः।
सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत॥
मूलम्
उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः।
सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत॥ २८ ॥
अनुवाद (हिन्दी)
उशीनर देशमें एक बड़ा यशस्वी राजा था। उसका नाम था सुयज्ञ। लड़ाईमें शत्रुओंने उसे मार डाला। उस समय उसके भाई-बन्धु उसे घेरकर बैठ गये॥ २८॥
वीरराघवः
इतिहासमेवाह- उशीनरेष्वित्यादिना । उशीनरेषु देशेषु सुयज्ञ इति प्रसिद्धः कश्चिद्राजा बभूव । स च सपनैः शत्रुभिर्युद्धे निहतः तं निहतं ज्ञातयः सपिण्डाः उपासत परिवृत्योपविविशुः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम्।
शरनिर्भिन्नहृदयं शयानमसृगाविलम्॥
मूलम्
विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम्।
शरनिर्भिन्नहृदयं शयानमसृगाविलम्॥ २९ ॥
वीरराघवः
कथम्भूतं विशीर्णं रत्नमयं कवचं यस्य, विभ्रष्टान्याभरणानि स्रक्च यस्माच्छरैर्नितरां भिन्नं हृदयं यस्य, असृजा रुधिरेण आविलं व्याप्तम् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम्।
रजःकुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे॥
अनुवाद (हिन्दी)
उसका जड़ाऊ कवच छिन्न-भिन्न हो गया था। गहने और मालाएँ तहस-नहस हो गयी थीं। बाणोंकी मारसे कलेजा फट गया था। शरीर खूनसे लथपथ था। बाल बिखर गये थे। आँखें धँस गयी थीं। क्रोधके मारे दाँतोंसे उसके होठ दबे हुए थे। कमलके समान मुख धूलसे ढक गया था। युद्धमें उसके शस्त्र और बाँहें कट गयी थीं॥ २९-३०॥
वीरराघवः
प्रकीर्णाः केशा यस्य, स्तब्धे निश्चले अक्षिणी यस्य, संरम्भेण क्षोभेण दष्टो दच्छदः दन्तच्छदः ओष्ठो येन, रजसा कुण्ठमावृतं मुखाम्भोजं यस्य, मृधे युद्धे छिन्नमायुधं भुजञ्च यस्य तम् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
उशीनरेन्द्रं विधिना तथा कृतं
पतिं महिष्यः प्रसमीक्ष्य दुःखिताः।
हताः स्म नाथेति करैरुरो भृशं
घ्नन्त्यो मुहुस्तत्पदयोरुपापतन्॥
मूलम्
उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः।
हताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपाऽऽपतन्॥ ३१ ॥
अनुवाद (हिन्दी)
रानियोंको दैववश अपने पतिदेव उशीनर नरेशकी यह दशा देखकर बड़ा दुःख हुआ। वे ‘हा नाथ! हम अभागिनें तो बेमौत मारी गयीं।’ यों कहकर बार-बार जोरसे छाती पीटती हुई अपने स्वामीके चरणोंके पास गिर पड़ीं॥ ३१॥
वीरराघवः
विधिना दैवेनैवं कृतमुक्तदशां प्रापितम् उशीनरेन्द्रं पतिं भर्तारं प्रसमीक्ष्य तत्पत्न्यः अतीव दुःखिताः । हे नाथ! वयं हताः स्मेति वदन्त्यः करैः पाणिभिः भृशं नितरामुरो मुहुर्मुहुर्घ्नन्त्यः तस्य भर्तुः पदयोश्चरणयो रुपापतन् समीपे समन्तादापतन् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं
सिञ्चन्त्य अस्रैः कुचकुङ्कुमारुणैः।
विस्रस्तकेशाभरणाः शुचं नृणां
सृजन्त्य आक्रन्दनया विलेपिरे॥
मूलम्
रुद46न्त्य उच्चैर्दयिताङ्घ्रिपङ्कजं सिञ्चन्त्य अस्रैः कुचकुङ्कुमारुणैः।
विस्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे॥ ३२ ॥
अनुवाद (हिन्दी)
वे जोर-जोरसे इतना रोने लगीं कि उनके कुच-कुंकुमसे मिलकर बहते हुए लाल-लाल आँसुओंने प्रियतमके पादपद्म पखार दिये। उनके केश और गहने इधर-उधर बिखर गये। वे करुण-क्रन्दनके साथ विलाप कर रही थीं, जिसे सुनकर मनुष्योंके हृदयमें शोकका संचार हो जाता था॥ ३२॥
वीरराघवः
तत उच्चैस्स्वरेण रुदन्त्यः कुचकुङ्कुमेनारुणैः कुचयोः पतित्वा ततः प्रस्रवद्धिरिति भावः । अस्त्रैः शोकजलबिन्दुभिः दयितस्य पत्युरङ्घ्रिपङ्कजं सिञ्चन्त्यः विभ्रष्टाः केशाः आभरणानि च यासां ताः शृण्वतां नृणामपि शुचं सृजन्त्यः उत्पादयन्त्यः आक्रन्दनया रोदनेन सह विलेपिरे विलापं चक्रुः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
अहो विधात्राकरुणेन नः प्रभो
भवान् प्रणीतो दृगगोचरां दशाम्।
उशीनराणामसि वृत्तिदः पुरा
कृतोऽधुना येन शुचां विवर्धनः॥
मूलम्
अहो विधात्राऽकरुणेन नः 47प्रभो भवान् प्रणीतो 48दृगगोचरां49 दशाम्।
उशीनराणाम50सि वृत्तिदः पुरा, कृतोऽधुना येन शुचां विवर्धनः॥ ३३ ॥
अनुवाद (हिन्दी)
‘हाय! विधाता बड़ा क्रूर है। स्वामिन्! उसीने आज आपको हमारी आँखोंसे ओझल कर दिया। पहले तो आप समस्त देशवासियोंके जीवनदाता थे। आज उसीने आपको ऐसा बना दिया कि आप हमारा शोक बढ़ा रहे हैं॥ ३३॥
वीरराघवः
विलापमेवाह-अहो इति द्वाभ्याम् । 51नः अस्माकं प्रभो ! हे भर्तः! अकरुणेन निष्कृपेण विधात्रा ब्रह्मणा दृगगोचरां दशां भवान्नीतो गमितः नः दृशामगोचरां द52शां अव53स्थां प्रणीत इति वान्वयः । येन विधात्रा पुरा उशीनराणां तद्देशोद्भवानां जनानां वृत्तिदः जीव54नप्रदः कृतो भवानधुना तेनैव विधात्रा शुचां शोकानां विवर्धनः कृतोऽसि ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
त्वया कृतज्ञेन वयं महीपते
कथं विना स्याम सुहृत्तमेन ते।
तत्रानुयानं तव वीर पादयोः
शुश्रूषतीनां दिश यत्र यास्यसि॥
मूलम्
त्वया कृतज्ञेन वयं महीपते, कथं विना स्याम सुहृत्तमेन ते55।
तत्रानुयानं तव वीर पादयोः शुश्रूषतीनां दिश यत्र यास्यसि॥ ३४ ॥
अनुवाद (हिन्दी)
पतिदेव! आप हमसे बड़ा प्रेम करते थे, हमारी थोड़ी-सी सेवाको भी बड़ी करके मानते थे। हाय! अब आपके बिना हम कैसे रह सकेंगी। हम आपके चरणोंकी चेरी हैं। वीरवर! आप जहाँ जा रहे हैं, वहीं चलनेकी हमें भी आज्ञा दीजिये’॥ ३४॥
वीरराघवः
हे महीपते ! सुहृत्तमेन कृतज्ञेन च त्वया विना ते तव सम्बन्धिन्यो वयं कथं स्याम कथं जीवेमेत्यर्थः । अतस्त्वं यत्र यास्यसि तत्रैव, हे वीर ! तव पादयोः शुश्रूषतीनां सेवां कर्तुं इच्छन्तीनां अस्माकम् अनुयानं सहगमनं दिश देहि ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
एवं विलपतीनां वै परिगृह्य मृतं पतिम्।
अनिच्छतीनां निर्हारमर्कोऽस्तं संन्यवर्तत॥
मूलम्
एवं विलपतीनां वै परिगृह्य मृतं पतिम्।
अनिच्छ56तीनां निर्हारमर्कोऽस्तं सन्न्यवर्तत॥ ३५ ॥
अनुवाद (हिन्दी)
वे अपने पतिकी लाश पकड़कर इसी प्रकार विलाप करती रहीं। उस मुर्देको वहाँसे दाहके लिये जाने देनेकी उनकी इच्छा नहीं होती थी। इतनेमें ही सूर्यास्त हो गया॥ ३५॥
वीरराघवः
एवं मृतं पतिं परिगृह्य विलपन्तीनां निर्हारं दाहार्थ नयनमनिच्छन्तीनां सतीनां अर्कः सूर्यः अस्तं अस्ताचलं प्रति सन्न्यवर्तत सन्निकृष्टो बभूव ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम्।
आह तान् बालको भूत्वा यमः स्वयमुपागतः॥
मूलम्
तत्र ह प्रेतबन्धूनामाश्रुत्य परिदे57वितम्।
आह तान् बालको भूत्वा यमः स्वयमुपागतः॥ ३६ ॥
अनुवाद (हिन्दी)
उस समय उशीनरराजाके सम्बन्धियोंने जो विलाप किया था, उसे सुनकर वहाँ स्वयं यमराज बालकके वेषमें आये और उन्होंने उन लोगोंसे कहा—॥ ३६॥
वीरराघवः
प्रेतस्य मृतस्य ये बन्धवस्तेषां परिदेवितं रोदनमाश्रुत्य स्वपुर्यामेव श्रुत्वा भगवान् यमः स्वयमेव बालको भूत्वा तत्राक्रन्दनस्थाने समुपागतस्तानाह, 58हेत्याश्चर्ये58 ॥ ३६ ॥
श्लोक-३७
मूलम् (वचनम्)
यम उवाच
विश्वास-प्रस्तुतिः
अहो अमीषां वयसाधिकानां
विपश्यतां लोकविधिं विमोहः।
यत्रागतस्तत्र गतं मनुष्यं
स्वयं सधर्मा अपि शोचन्त्यपार्थम्॥
मूलम्
अहो अमीषां वयसाधिकानां, विपश्यतां लोक59गतिं विमोहः।
60यत्रोद्भवस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम्॥ ३७ ॥
अनुवाद (हिन्दी)
यमराज बोले—बड़े आश्चर्यकी बात है! ये लोग तो मुझसे सयाने हैं। बराबर लोगोंका मरना-जीना देखते हैं, फिर भी इतने मूढ़ हो रहे हैं। अरे! यह मनुष्य जहाँसे आया था, वहीं चला गया। इन लोगोंको भी एक-न-एक दिन वहीं जाना है। फिर झूठमूठ ये लोग इतना शोक क्यों करते हैं?॥ ३७॥
वीरराघवः
तदेवाह-अहो इत्यादिना । अहो इत्याश्चर्ये । किं तत् यद्वयसा मत्तः अधिकानामपि लोकविधिं जन्ममरणादिलोकपरिपाटीं पश्यतामप्यमीषां प्रेतबन्धूनां 61विमोहः विशिष्टो मोह इत्येतत् विमोहमेवाह-यत्र भवि सम्भवः उत्पत्तिः तत्रैव गतं पुनस्तत्रैव लीनं मनुष्यं प्रति स्वयं सधर्माः मृतेन तुल्यं जन्ममरणादिभाजोऽपि अपार्थं मुधा शोचन्ति ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
अहो वयं धन्यतमा यदत्र
त्यक्ताः पितृभ्यां न विचिन्तयामः।
अभक्ष्यमाणा अबला वृकादिभिः
स रक्षिता रक्षति यो हि गर्भे॥
मूलम्
अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः।
अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भे॥ ३८ ॥
अनुवाद (हिन्दी)
हम तो तुमसे लाख गुने अच्छे हैं, परम धन्य हैं; क्योंकि हमारे माँ-बापने हमें छोड़ दिया है। हमारे शरीरमें पर्याप्त बल भी नहीं है, फिर भी हमें कोई चिन्ता नहीं है। भेड़िये आदि हिंसक जन्तु हमारा बाल भी बाँका नहीं कर पाते। जिसने गर्भमें रक्षा की थी, वही इस जीवनमें भी हमारी रक्षा करता रहता है॥ ३८॥
वीरराघवः
न्यूनवयस्का अपि वयमेवाहो धन्याः श्रेष्ठाः, कुतः ? यतः पितृभ्यां मातापितृभ्यां त्यक्ता अपि वयं न विचिन्तयामः चिन्तां न कुर्मः । अबला दुर्बला अपि बाला अपीति वा वृकादिभिरभक्ष्यमाणा वयम्, तत्र हेतुः, यो हि गर्भे रक्षति जन्मनः पश्चादपि स एव हि ईश्वरो रक्षिता रक्षिष्यति ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
य इच्छयेशः सृजतीदमव्ययो
य एव रक्षत्यवलुम्पते च यः।
तस्याबलाः क्रीडनमाहुरीशितु-
श्चराचरं निग्रहसङ्ग्रहे प्रभुः॥
मूलम्
य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते 62च यः।
तस्याबलाः क्रीडनमाहुरीशितुश्चराचरं निग्रहसङ्ग्रहे प्रभुः॥ ३९ ॥
अनुवाद (हिन्दी)
देवियो! जो अविनाशी ईश्वर अपनी मौजसे इस जगत्को बनाता है, रखता है और बिगाड़ देता है—उस प्रभुका यह एक खिलौना मात्र है। वह इस चराचर जगत्को दण्ड या पुरस्कार देनेमें समर्थ है॥ ३९॥
वीरराघवः
कोऽसौ रक्षिता ? तत्राह-य इति । य ईश्वरः स्वेच्छयैव न तु कर्मणा इदं कृत्स्नं जगत्सृजति, तर्हि सोप्यस्मदादिवत्किं जन्ममरणादिभाक् ? नेत्याह-अव्ययः अपक्षयादिविकाररहितः कर्मायत्तप्राकृतदेहरहित इत्यर्थः । यश्च स्वेन सृष्टं जगद्रक्षति यश्च स्वेन रक्षितं जगत्पुनरवलुम्पते संहरति तर्ह्येवंविध ईश्वरः कर्मवश्य इवेत्थं किमर्थ करोति ? तत्राह-हे अबलाः । तस्यैवं जगदुत्पत्यादिकर्तुरीशितुरीश्वरस्यान्तरात्मतया अवस्थितस्य चराचरात्मकमिदं जगत् क्रीडनं क्रीडापरिकरं जगद्व्यापारस्तस्य क्रीडारूप इति भावः । अत एव निग्रहसङ्ग्रहयोः निग्रहानुग्रहयोः प्रभुः समर्थः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
पथि च्युतं तिष्ठति दिष्टरक्षितं
गृहे स्थितं तद्विहतं विनश्यति।
जीवत्यनाथोऽपि तदीक्षितो वने
गृहेऽपि गुप्तोऽस्य हतो न जीवति॥
मूलम्
पथिच्युतं तिष्ठति दिष्टरक्षितं गृह63स्थितं तद्विहतं विनश्यति।
जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽपि 64गुप्तोऽस्य हतो न जीवति॥ ४० ॥
अनुवाद (हिन्दी)
भाग्य अनुकूल हो तो रास्तेमें गिरी हुई वस्तु भी ज्यों-की-त्यों पड़ी रहती है। परन्तु भाग्यके प्रतिकूल होनेपर घरके भीतर तिजोरीमें रखी हुई वस्तु भी खो जाती है। जीव बिना किसी सहारेके दैवकी दयादृष्टिसे जंगलमें भी बहुत दिनोंतक जीवित रहता है, परंतु दैवके विपरीत होनेपर घरमें सुरक्षित रहनेपर भी मर जाता है॥ ४०॥
वीरराघवः
प्रभुत्वमेवान्वयव्यतिरेकाभ्यां दर्शयति पथीति । यथा पथिच्युतं विस्रस्तमपि दिष्टेन दैवेन ईश्वरेण रक्षितमनुगृहीतं सत् तिष्ठति पुनर्लब्धं भवतीत्यर्थः । गृहे स्थितमपि तेन दिष्टेन विहतं सद्विनश्यति । एवमरण्ये अनाथः रक्षकान्तररहितोऽपि तेन दिष्टेन ईक्षितो जीवति तत्सङ्कल्पेन जीवति । गृहे गुप्तोऽप्यस्य हतो अनेनोपेक्षितो न जीवति किन्तु विनश्यत्येव ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
भूतानि तैस्तैर्निजयोनिकर्मभि-
र्भवन्ति काले न भवन्ति सर्वशः।
न तत्र हात्मा प्रकृतावपि स्थित-
स्तस्या गुणैरन्यतमो निबध्यते॥
मूलम्
भूतानि तैस्तैर्निजयोनिकर्मभिः भवन्ति काले न भवन्ति सर्वशः।
न तत्र हात्मा प्रकृतावपि स्थितः तस्या गुणैरन्यतमो निबध्यते॥ ४१ ॥
अनुवाद (हिन्दी)
रानियो! सभी प्राणियोंकी मृत्यु अपने पूर्वजन्मोंकी कर्मवासनाके अनुसार समयपर होती है और उसीके अनुसार उनका जन्म भी होता है। परन्तु आत्मा शरीरसे अत्यन्त भिन्न है, इसलिये वह उसमें रहनेपर भी उसके जन्म-मृत्यु आदि धर्मोंसे अछूता ही रहता है॥ ४१॥
वीरराघवः
किं तर्हि अयमीश्वरोऽपि विषमः ? नेत्याह-भूतानीति । सर्वाणि भूतानि देवमनुष्यादीनि तैस्तैः निजयोनिकर्मभिः स्वस्वजातिप्राप्तिनिमित्तकर्मभिः काले निजयोनिकर्मपरिपाककाले भवन्ति पुनस्तत्कर्मक्षयेन भवन्ति देवमनुष्यादिभूतानां भावाभावौ तत्तत्कर्मानुगुणप्रवृत्तेश्वरायत्तौ, इति न तस्य वैषम्यमिति भावः । ननु, मास्तु वैषम्यं तस्यापि तु अन्तरात्मतयाऽवस्थितः स्वानर्थरूपं संसारं स्वयमेवोपपादयन् किमयमज्ञः ? नेत्याह-नेति । तत्र प्रकृतौ देवादिशरीरे जीवान्तरात्मतया स्थितोऽप्यात्मा परमात्मा न बध्यते न संसरतीत्यर्थः । हेति विस्मये । देहे स्थितस्याप्येकस्य न बन्धः अन्यतरस्य तु बन्धः इति विस्मयः, इतरस्य बन्धमेवाह-तस्याः प्रकृतेः गुणैः देवोऽहं स्थूलोऽहं इत्यादिरूपप्रतीतिविषयैः देहगतदेवत्वमनुष्यत्वादिभिः देहात्मभ्रमादिभिरित्यर्थः । अन्यतमो देहेन्द्रियादीनां अन्यतमो जीव इह परमात्मनोऽपीति च बोध्यम् । निबद्ध्यते निबद्धो भवति संसरतीत्यर्थः । यद्वा, गुणैः शब्दादिभिर्विषयैः हेतुभिः तद्भोगहेतुभूतेषु वस्तुषु निबध्यत इत्यर्थः । तद्भोग एव हि तस्य संसृतौ कारणमिति भावः । तथा च श्रुतिः “तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति” (मुण्ड. उ. 3-1-1) ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
इदं शरीरं पुरुषस्य मोहजं
यथा पृथग्भौतिकमीयते गृहम्।
यथौदकैः पार्थिवतैजसैर्जनः
कालेन जातो विकृतो विनश्यति॥
मूलम्
इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भौतिकमीयते गृहम्।
65तथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति॥ ४२ ॥
अनुवाद (हिन्दी)
जैसे मनुष्य अपने मकानको अपनेसे अलग और मिट्टीका समझता है, वैसे ही यह शरीर भी अलग और मिट्टीका है। मोहवश वह इसे अपना समझ बैठता है। जैसे बुलबुले आदि पानीके विकार, घड़े आदि मिट्टीके विकार और गहने आदि स्वर्णके विकार समयपर बनते हैं, रूपान्तरित होते हैं तथा नष्ट हो जाते हैं, वैसे ही इन्हीं तीनोंके विकारसे बना हुआ यह शरीर भी समयपर बन-बिगड़ जाता है॥ ४२॥
वीरराघवः
एवं सर्वभूतानां उत्पत्तिलयादेः तत्तत्कर्मानुगणप्रवृत्तेश्वरायत्तत्वात् न शोकः कार्य इत्यभिधाय इदानीं देहस्य विनाशस्वभावत्वादात्मनस्तु तद्विपरीतरूपत्वादुभावपि न शोकविषयाविति वक्तुं तावद्देहात्मनोः परस्पर वैलक्षण्यमाह-इदमिति द्वाभ्याम् । इदं परिदृश्यमानं राजादिशरीरं पुरुषस्य जीवस्य मोहजमविद्यासञ्चितकर्मकृतं पुरुषस्य मोहजं इदं शरीरम् इति व्यतिरेकनिर्देशेन देहात्मनोः परस्परभेदो दर्शितः । तत्र देहस्य अनात्मत्वं दृष्टान्तेनाह- यथा गृहं गृहिणः पृथक् भिन्नं तथा भौतिकं भूतसंघातपरिणाममिदं शरीरमपि पृथक् शरीरिणो भिन्नमीयते अवगम्यत इत्यर्थः । यथा गृहस्य गृहिस्वरूपत्वमत्यन्तासम्भावितं तद्वत् देहस्य देहिस्वरूपत्वमिति दृष्टान्ताभिप्रायः । एवं गृहदृष्टान्तेन जीवाद्देहस्य भेद उक्तः, तेनैव दृष्टान्तेन देहस्य विनाशिस्वभावत्वं चाह-तथेति । यथा मृत्काष्ठादिविकारात्मकं गृहं कालेन विनश्यति तथा औदकैः पार्थिवैः तैजसैश्चेदं वायवीयाकाशीययोरप्युपलक्षणम् । उदकादीनामंशैः कालेन तत्तद्देवादिजातिप्राप्तिनिमित्तकर्म61फलपरिपाककालेनेत्यर्थः । जातो जनो देहः जन्मनः पश्चादपि विकृतः बाल्ययौवनस्थविरत्वादिभिः अवस्थाभिः विकारं प्राप्तः पुनः स्वारम्भककर्मविनाशकाले विनश्यति ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
यथानलो दारुषु भिन्न ईयते
यथानिलो देहगतः पृथक् स्थितः।
यथा नभः सर्वगतं न सज्जते
तथा पुमान् सर्वगुणाश्रयः परः॥
मूलम्
यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक्स्थितः।
यथा नभः सर्वगतं न सज्जते तथा 66पुमान् सर्वगुणाश्रयः परः॥ ४३ ॥
अनुवाद (हिन्दी)
जैसे काठमें रहनेवाली व्यापक अग्नि स्पष्ट ही उससे अलग है, जैसे देहमें रहनेपर भी वायुका उससे कोई सम्बन्ध नहीं है, जैसे आकाश सब जगह एक-सा रहनेपर भी किसीके दोष-गुणसे लिप्त नहीं होता—वैसे ही समस्त देहेन्द्रियोंमें रहनेवाला और उनका आश्रय आत्मा भी उनसे अलग और निर्लिप्त है॥ ४३॥
वीरराघवः
अथात्मनो देहाद्भेदं सदृष्टान्तमाह-यथेति । यथाऽनलोऽग्निर्दारुषु स्थितो भिन्न ईयते दारुगतहस्वत्वदीर्घत्वकुटिलत्वादिधर्मरहितस्तेभ्ये भिन्न एव दृश्यते । यथा च देहगतोऽप्यनिलः ततः पृथगेव दृश्यते यथा च नभः 67सर्वगतं सर्वत्र व्याप्तमपि न सज्जते सर्वगतधर्मैः न सम्बध्नाति तथा सर्वगुणाश्रयः सत्त्वादिसर्वगुण परिणामरूपदेहेन्द्रियाश्रयोऽपि पुमान् जीवः परः गुणेभ्यः 68परः देहाद्भिन्नः 69इत्यर्थः । देहगतजन्ममरणादिभिः अविकृतस्तस्माद्विलक्षणत्वेनावतिष्ठत इत्यर्थः । अविभागेनावस्थितस्याऽपि तद्गतधर्मस्पर्शे आद्यं निदर्शनं, विजातीयस्यापि सहावस्थाने द्वितीयं तृतीयं तु तदवस्थानेऽपि पुनस्तद्वतधर्मास्पर्श इति भेदः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ।
यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित्॥
मूलम्
सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ।
यः श्रोता योऽनुवक्तेह समदृश्येत कर्हिचित्॥ ४४ ॥
अनुवाद (हिन्दी)
मूर्खो! जिसके लिये तुम सब शोक कर रहे हो, वह सुयज्ञ नामका शरीर तो तुम्हारे सामने पड़ा है। तुमलोग इसीको देखते थे। इसमें जो सुननेवाला और बोलनेवाला था, वह तो कभी किसीको नहीं दिखायी पड़ता था। फिर आज भी नहीं दिखायी दे रहा है, तो शोक क्यों?॥ ४४॥
वीरराघवः
एवं देहात्मनोः परस्परविलक्षणस्वरूपयोरभिहितयोरप्यतीव देहात्मभ्रान्त्याऽनुशोचतां शोकमपनेतुं कः शोकविषय इत्याशङ्क्य प्रतिक्षिपति-सुयज्ञ इति । हे मूढ ! भवत्पक्षे यमनुशोचथ सोऽयं सुयज्ञः शेते युष्माभिः शोच्यः सुयज्ञः शेते विद्यत एव किमर्थं शोक इति भावः । ननु, भवत्पक्षे शयान एव हि सुयज्ञ इति शङ्कार्थस्तत्प्रतिक्षिपति-य इति । यः श्रोता भवद्विलापश्रवणक्षमो यश्चानुवक्ता प्रतिवचनक्षमश्च स इह कर्हिचिदपि चिरं सुसूक्ष्मं निरीक्षमाणोऽपि न दृश्यते शयानो देह एव सुयज्ञश्चेद्भवद्विलपितं किमिति न शृणोति न प्रति वक्तीत्यर्थः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः।
यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः॥
मूलम्
न श्रोता नानु70वक्ता वा मुख्योऽप्यत्र महानसुः।
यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः॥ ४५ ॥
अनुवाद (हिन्दी)
(तुम्हारी यह मान्यता कि ‘प्राण ही बोलने या सुननेवाला था, सो निकल गया’ मूर्खतापूर्ण है; क्योंकि सुषुप्तिके समय प्राण तो रहता है, पर न वह बोलता है न सुनता है।) शरीरमें सब इन्द्रियोंकी चेष्टाका हेतुभूत जो महाप्राण है, वह प्रधान होनेपर भी बोलने या सुननेवाला नहीं है; क्योंकि वह जड है। देह और इन्द्रियोंके द्वारा सब पदार्थोंका द्रष्टा जो आत्मा है, वह शरीर और प्राण दोनोंसे पृथक् है॥ ४५॥
वीरराघवः
मुख्यः प्राणोऽपि श्रवणप्रतिवचनक्षमो न स्यात् किम्पुनर्देहो न क्षम इत्याह-नेति । मुख्योऽप्यसुः प्राणो वा न श्रोता न भवद्विलपितस्य श्रोता नाऽप्यनुवक्ता किं पुनर्देह इत्यर्थः । ननु श्रोतारं प्रतिवक्तारं प्रत्येवानुशोचाम इत्यत्राह-यस्त्विति । यस्त्विन्द्रियवान् श्रवणप्रतिवचनादिसाधनश्रोत्रवागादीन्द्रिययुक्तः सत्वात्मा इह शरीरे प्राणदेहाभ्यामन्य एवाऽऽसीत् स तु तत् तेभ्यो देहेभ्यः अन्य एव सन्नित्यर्थः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः।
भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा॥
मूलम्
भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः।
भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा॥ ४६ ॥
अनुवाद (हिन्दी)
यद्यपि वह परिच्छिन्न नहीं है, व्यापक है—फिर भी पंचभूत, इन्द्रिय और मनसे युक्त नीचे-ऊँचे (देव, मनुष्य, पशु, पक्षी आदि) शरीरोंको ग्रहण करता और अपने विवेकबलसे मुक्त भी हो जाता है। वास्तवमें वह इन सबसे अलग है॥ ४६॥
वीरराघवः
स्वेन तेजसा ज्ञानेनोपलक्षितां भूतैः पृथिव्यादिभिः इन्द्रियैः ज्ञानकर्मोभयेन्द्रियैः मनसा च लिङ्ग्यन्ते लक्ष्यन्ते इति तथा तान् उच्चावचान् उत्कृष्टापकृष्टान् देहान् भजति बिभर्ति उत्सृजति त्यजति च । अपि हीत्यनुभवं प्रमाणयति । इन्द्रियवानात्मा देहत्याग तदुपादानशीलः शयानमिमं देहं त्यक्त्वा गत इति सोऽपि इदानीं न शोच्यत इति भावः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
यावल्लिङ्गान्वितो ह्यात्मा तावत् कर्म निबन्धनम्।
ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते॥
मूलम्
यावल्लिङ्गान्वितो ह्यात्मा तावत्कर्मनिबन्ध71नम्।
ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते॥ ४७ ॥
अनुवाद (हिन्दी)
जबतक वह पाँच प्राण, पाँच कर्मेन्द्रिय, पाँच ज्ञानेन्द्रिय, बुद्धि और मन—इन सत्रह तत्त्वोंसे बने हुए लिंगशरीरसे युक्त रहता है, तभीतक कर्मोंसे बँधा रहता है और इस बन्धनके कारण ही मायासे होनेवाले मोह और क्लेश बराबर उसके पीछे पड़े रहते हैं॥ ४७॥
वीरराघवः
ननु अस्माकमुपभोग्यमिमं देहमन्तरेणाऽपि हेतुं त्यक्त्वा गत इत्यनुशोचामस्तत्राह-तावदिति । यावन्निबन्धनं देहसम्बन्धकारणं कर्म पुण्यापुण्यात्मकं कर्म वर्तते ताल्लिङ्गान्वितः देहेनान्वितो भवति । आत्मा तत एव देहान्वयादेव हेतोः विपर्ययो देहात्मभ्रान्तिः ततः क्लेशः इत्येवंरूपो मायायोगः प्रकृतसम्बन्धरूपसंसृतिरनुवर्तते, अयं भावः- सति देहसम्बन्धनिमित्ते कर्माणि देहेनान्वयः तस्मिंश्च सति ममायं पतिरहमस्य भार्या इत्याद्यात्मको देहात्मभ्रमः । तस्मिंश्च सति क्लेशः तत्र निदानस्य कर्मण एव निवृत्तत्वान्नास्यात्मनः पुनः शयानदेहसम्बन्धस्यैवाभावान्निर्हेतुको व्यर्थश्च शोकः । देहसम्बन्धावहकर्मनिवृत्तिरेव च देहोत्सर्गे हेतुरिति ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
वितथाभिनिवेशोऽयं यद् गुणेष्वर्थदृग्वचः।
यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा॥
मूलम्
वितथाऽभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः।
यथा मनोरथः 72स्वप्नः सर्वमैन्द्रियकं मृषा॥ ४८ ॥
अनुवाद (हिन्दी)
प्रकृतिके गुणों और उनसे बनी हुई वस्तुओंको सत्य समझना अथवा कहना झूठमूठका दुराग्रह है। मनोरथके समयकी कल्पित और स्वप्नके समयकी दीख पड़नेवाली वस्तुओंके समान इन्द्रियोंके द्वारा जो कुछ ग्रहण किया जाता है, सब मिथ्या है॥ ४८॥
वीरराघवः
देहस्योपभोग्यत्वं प्रतिक्षिपति वितथेति । अयमभिनिवेशोऽभिमानो वितथो व्यर्थः, देहादेः अपुरुषार्थरूपत्वादिति भावः । कोऽसावभिनिवेशः ? यद्गुणेषु सत्त्वादिगुणपरिणामात्मकेषु देहादिषु तदुपभोग्येषु शब्दादिषु चार्थदृग्वचः प्रयोजनत्वदर्शनवचने इत्येषः देहादिषूपभोग्यत्वज्ञानं तद्व्यवहारश्चेत्यभिमानो व्यर्थः । वैतथ्यमेव दृष्टान्तमुखेन विशदयति-यथेति । यथा मनोरथरूपः स्वाप्नः स्वप्नद्रष्टृकर्मानुगुणमनोवृत्तिरूपः सङ्कल्पविकल्पात्मक स्वप्नानुगुणतयेश्वरसृष्टपदार्थः मृषा अनित्यः स्वप्नकालमात्रावस्थायी तथा सर्वमैन्द्रियिकं बाह्येन्द्रियविषयं शब्दादिकमपि मृषा अनित्यः अनित्यत्वादपुरुषार्थः स्वप्नद्रष्ट्रेकानुभाव्यतत्कालमात्रावस्थायिपदार्थसृष्टिनिमित्तकर्मानुगुणमीश्वरसृष्टं स्वाप्नं पदार्थ प्रतीव जाग्रदवस्थानुभाव्यसर्वेन्द्रियगम्यभोक्तृदृष्ट समानकालिकपदार्थं प्रत्युपभोग्यत्वाद्यभिमानो व्यर्थः, अनित्यत्वेनापुरुषार्थरूपत्वादिति भावः । मृषाशब्दस्यानित्यत्ववाचित्वं “अथ नित्यमनित्यञ्च” (भाग 7-2-49) इत्यनन्तरग्रन्थादवगम्यते । “अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते" (विष्णु.पु.2-14-24) इति । पराशर73वचनाच्च परमार्थानाश्यादि शब्दानामनाशिपरत्वमवगम्यते ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः।
नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति॥
अनुवाद (हिन्दी)
इसलिये शरीर और आत्माका तत्त्व जाननेवाले पुरुष न तो अनित्य शरीरके लिये शोक करते हैं और न नित्य आत्माके लिये ही। परन्तु ज्ञानकी दृढ़ता न होनेके कारण जो लोग शोक करते रहते हैं, उनका स्वभाव बदलना बहुत कठिन है॥ ४९॥
वीरराघवः
एवं देहात्मनोरुभयोरपि शोकाविषयत्वमुक्तम्, सहेतुकमुपसंहरति- अथेति । अथ हे अबलाः ! नित्यमात्मानं अनित्यं देहं प्रत्यपि तद्विदः देहात्मयाथात्म्यविदो न शोचन्ति । कुतः ? इतिशब्दो हेत्वर्थकः, यस्मात्स्वभावः वस्तुनः स्वाभाविको धर्मः शोचतामपि शोचद्भिरप्यन्यथा कर्तुं न शक्यते । न ह्यात्मनः स्वाभाविकं नित्यत्वमपनीय अनित्यत्वं केनचिच्छोकाद्युपायेनापादयितुं शक्यं, न वा देहस्य अनित्यत्वमपनुद्य नित्यत्वम्, न हि वह्नेरौष्ण्यापनयेन शैत्यमापादयितुं शक्यमिति भावः ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
लुब्धको विपिने कश्चित् पक्षिणां निर्मितोऽन्तकः।
वितत्य जालं विदधे तत्र तत्र प्रलोभयन्॥
मूलम्
लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः।
वितत्य जालं विदधे तत्र तत्र प्रलोभ76नम्॥ ५० ॥
अनुवाद (हिन्दी)
किसी जंगलमें एक बहेलिया रहता था। वह बहेलिया क्या था, विधाताने मानो उसे पक्षियोंके कालरूपमें ही रच रखा था। जहाँ-कहीं भी वह जाल फैला देता और ललचाकर चिड़ियोंको फँसा लेता॥ ५०॥
वीरराघवः
यदुक्तं ‘स्वयं सधर्मा अपि शोचन्ति" (भाग 7-2-37) इति तत्र दृष्टान्ततयेतिहासं प्रस्तौति लुब्धक इति । कश्चिल्लुब्धको व्याधः पक्षिणामन्तकः मृत्युः निर्मितः ईश्वरेण मृत्युत्वेन निर्मितः, अत एव स तत्र तत्र जालं वितत्य पक्षिणां प्रलोभनं वञ्चकं विदधे कृतवान् ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
कुलिङ्गमिथुनं तत्र विचरत्समदृश्यत।
तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता॥
मूलम्
कुलिङ्गमिथुनं तत्र विचरत्समदृश्यत।
तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता॥ ५१ ॥
अनुवाद (हिन्दी)
एक दिन उसने कुलिंग पक्षीके एक जोड़ेको चारा चुगते देखा। उनमेंसे उस बहेलियेने मादा पक्षीको तो शीघ्र ही फँसा लिया॥ ५१॥
वीरराघवः
एवं लुब्धको प्रलोभयति सति तत्र समीपे कुलिङ्गयोः पक्षिणोः मिथुनं द्वन्द्वं सञ्चरत्सत् लुब्धकेनादृश्यत तयोः स्त्रीपुंसयोः मध्ये कुलिङ्गी स्त्री सहसा वञ्चनोपायेन लुब्धकेन प्रलोभिता बभूव ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
सासज्जत शिचस्तन्त्यां महिषी कालयन्त्रिता।
कुलिङ्गस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः।
स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत्॥
मूलम्
साऽसज्जत77शिचस्तन्त्यां महि78षी कालयन्त्रि79ता।
कुलिङ्गस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः।
स्नेहादक80ल्पः 81कृपणः कृपणां पर्यदेवयत्81॥ ५२ ॥
अनुवाद (हिन्दी)
कालवश वह जालके फंदोंमें फँस गयी। नर पक्षीको अपनी मादाकी विपत्तिको देखकर बड़ा दुःख हुआ। वह बेचारा उसे छुड़ा तो सकता न था, स्नेहसे उस बेचारीके लिये विलाप करने लगा॥ ५२॥
वीरराघवः
सा महिषी कुलिङ्गभार्या कालवशा सती शिचस्तन्त्यां जालसूत्रे असज्जत लग्ना बभूव । अथ ततस्तां आपन्नां आपदं प्राप्तां दीनां कर्मानुगुणेन कालेन यन्त्रितां शिचस्तन्त्याम् आसञ्जितां महिषी भार्या कुलुङ्गी वीक्ष्य कुलिङ्गः पुमान् स्नेहादतीव दुःखितोऽकल्पो विमोचनेऽदक्षः अत एव केवलं स्वयमप्यातुरः दीनस्सन् 82कृपणं दीनं यथा तथा82 पर्यदेवयत् परितस्तप्तो बभूव ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
अहो अकरुणो देवः स्त्रियाऽऽकरुणया विभुः।
कृपणं मानुशोचन्त्या दीनया किं करिष्यति॥
मूलम्
अहो अकरुणो देवः स्त्रि83याऽऽकरुणया विभुः।
कृपणं माऽनुशोचन्त्या दीनया किं करिष्यति॥ ५३ ॥
अनुवाद (हिन्दी)
उसने कहा—‘यों तो विधाता सब कुछ कर सकता है। परन्तु है वह बड़ा निर्दयी। यह मेरी सहचरी एक तो स्त्री है, दूसरे मुझ अभागेके लिये शोक करती हुई बड़ी दीनतासे छटपटा रही है। इसे लेकर वह करेगा क्या॥ ५३॥
वीरराघवः
तदेवाह-अहो इति 84त्रिभिः। अहो देवो विधाता अकरुणो निर्घृणः, अकरुणत्वमेवाविष्करोति-स्त्रिया आकरुणयेति छेदः । अकरुणया सर्वतोऽनुकम्प्यया स्त्रिया मम भार्यया नितरां कृपणं दीनं मां प्रत्यनुशोचन्त्या दीनया कुलिङ्ग्या विभुर्देवः किं करिष्यति, न किमपि तस्य प्रयोजनम्, किन्तु मय्यकारुण्येन मां वियोज्य स्त्रियं नीतवान् इति भावः ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
कामं नयतु मां देवः किमर्धेनात्मनो हि मे।
दीनेन जीवता दुःखमनेन विधुरायुषा॥
मूलम्
कामं नयतु मां देवः किमर्धेनात्मनो हि मे।
दीनेन जीवता 85दुःखं मन्देन विधुरायुषा॥ ५४ ॥
अनुवाद (हिन्दी)
उसकी मौज हो तो मुझे ले जाय। इसके बिना मैं अपना यह अधूरा विधुर जीवन, जो दीनता और दुःखसे भरा हुआ है, लेकर क्या करूँगा॥ ५४॥
वीरराघवः
यतो मय्यकरुणो देवस्ततो मामपि कामं यथेष्टं नयतु आत्मनोऽर्धेन मम किं प्रयोजनम् ? एकस्मिन्मयि अर्धं भार्याख्यं नष्टम् अवशिष्टेनार्धेन न किमपि प्रयोजनमस्तीत्यर्थः । अर्धं विशिनष्टि, दीनेन कृपणेन दुःखं यथा भवति तथा जीवता प्राणान्धारयता विधुरायुषा विधुरं भार्यारहितमायुः यस्य तेन भार्याशून्यजीवितयुक्तेनेत्यर्थः । 86अनेनेति निःस्पृहत्वमुक्तम्, कार्योपयोगित्वाभावादिति भावः86 ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम्।
मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः॥
मूलम्
कथं 87त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम्।
मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः॥ ५५ ॥
अनुवाद (हिन्दी)
अभी मेरे अभागे बच्चोंके पर भी नहीं जमे हैं। स्त्रीके मर जानेपर उन मातृहीन बच्चोंको मैं कैसे पालूँगा? ओह! घोंसलेमें वे अपनी माँकी बाट देख रहे होंगे’॥ ५५॥
वीरराघवः
किञ्च, अजातौ पक्षौ येषां तान्, मात्रा हीनान् रहितान् 88शाबकान् कथमहं बिभर्मि पुष्णामि, किञ्च मे मम प्रजाः नीडे मातरं प्रतीक्षन्ते ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
एवं कुलिङ्गं विलपन्तमारात्
प्रियावियोगातुरमश्रुकण्ठम्।
स एव तं शाकुनिकः शरेण
विव्याध कालप्रहितो विलीनः॥
मूलम्
एवं कुलिङ्गं वि89लपन्तमारात् प्रियावियोगातुरमश्रुकण्ठम्।
90स एव तं शाकुनिकः शरेण विव्याध कालप्रहितो 91विलीनः॥ ५६ ॥
अनुवाद (हिन्दी)
इस तरह वह पक्षी बहुत-सा विलाप करने लगा। अपनी सहचरीके वियोगसे वह आतुर हो रहा था। आँसुओंके मारे उसका गला रुँध गया था। तबतक कालकी प्रेरणासे पास ही छिपे हुए उसी बहेलियेने ऐसा बाण मारा कि वह भी वहींपर लोट गया॥ ५६॥
वीरराघवः
एवं प्रियाया वियोगेनातुरं दुःखितं अतो विशेषेण रुदन्तम् अश्रुकण्ठमश्रुपूर्णकण्ठं तं कुलिङ्गं स एव शाकुनिकः शकुनीन् हन्तीति शाकुनिकः लुब्धकः, आरात्समीपे निलीनः तिरोहितस्सन् कालेन कर्मानुगुणेन प्रहितः प्रेरितः शरेण विव्याथ ताडितवान् ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
एवं यूयमपश्यन्त्य आत्मापायमबुद्धयः।
नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि॥
मूलम्
एवं यूयमपश्यन्त्य आत्मापायमबुद्धयः।
नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि॥ ५७ ॥
अनुवाद (हिन्दी)
मूर्ख रानियो! तुम्हारी भी यही दशा होनेवाली है। तुम्हें अपनी मृत्यु तो दीखती नहीं और इसके लिये रो-पीट रही हो! यदि तुमलोग सौ बरसतक इसी तरह शोकवश छाती पीटती रहो, तो भी अब तुम इसे नहीं पा सकोगी॥ ५७॥
वीरराघवः
एवमितिहासं प्रस्तुत्य प्रकृतोपयोगित्वेनोपसंहरति- एवमिति । एवं यथा कुलिङ्गस्तथा यूयमप्यात्मापायं स्वमृत्युमपश्यन्त्यः अनालोचयन्त्योऽत एव अबुद्धयः विवेकशून्याः वर्षशतैरपि शोचन्त्यः एनं पतिं न प्राप्स्यथ ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
हिरण्यकशिपुरुवाच
बाल एवं प्रवदति सर्वे विस्मितचेतसः।
ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम्॥
मूलम्
हिरण्यकशिपुरुवाच
बाल एवं प्रवदति सर्वे विस्मितचेतसः।
ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम्॥ ५८ ॥
अनुवाद (हिन्दी)
हिरण्यकशिपुने कहा—उस छोटेसे बालककी ऐसी ज्ञानपूर्ण बातें सुनकर सब-के-सब दंग रह गये। उशीनर-नरेशके भाई-बन्धु और स्त्रियोंने यह बात समझ ली कि समस्त संसार और इसके सुख-दुःख अनित्य एवं मिथ्या हैं॥ ५८॥
वीरराघवः
एवं प्रेतबन्धुयमसंवादरूपमितिहासं प्रस्तुत्य उपसंहरति दैत्य बाल इति द्वाभ्याम् । एवं इत्थं बाले प्रवदति सति सर्वे ज्ञातयः सुयज्ञस्य सपिण्डाः विस्मितं चेतो येषां ते अयथोत्थितं अपुरुषार्थत्वेनाप्रतीतं किन्तु पुरुषार्थत्वेन विपरीतरूपेण प्रतीतं सर्वं देहादिकमनित्यमस्थिरमपुरुषार्थरूपं मेनिरै निश्चितवन्तः इत्यर्थः ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
यम एतदुपाख्याय तत्रैवान्तरधीयत।
ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्साम्परायिकम्॥
मूलम्
यम एतदुपाख्याय तत्रैवान्तरधीयत।
ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्साम्परायिकम्॥ ५९ ॥
अनुवाद (हिन्दी)
यमराज यह उपाख्यान सुनाकर वहीं अन्तर्धान हो गये। भाई-बन्धुओंने भी सुयज्ञकी अन्त्येष्टि-क्रिया की॥ ५९॥
वीरराघवः
यमस्त्वेतदुक्तमुपाख्याय कथयित्वा तत्रैवाऽन्तर्दधे । ततो ज्ञातयः सुयज्ञस्य यत्कर्तव्यं साम्परायिकं मृतोद्देशेन कर्तव्यं कर्म तत् चक्रुः ॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
ततः शोचत मा यूयं परं चात्मानमेव च।
क आत्मा कः परो वात्र स्वीयः पारक्य एव वा।
स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम्॥
मूलम्
92अतः शोचत मा यूयं परं चात्मानमेव च।
क आत्मा कः परो वाऽत्र स्वीयः पारक्य एव 93वा।
स्वपराभिनिवेशेन विना ज्ञानेन देहि94नाम्॥ ६० ॥
अनुवाद (हिन्दी)
इसलिये तुमलोग भी अपने लिये या किसी दूसरेके लिये शोक मत करो। इस संसारमें कौन अपना है और कौन अपनेसे भिन्न? क्या अपना है और क्या पराया? प्राणियोंको अज्ञानके कारण ही यह अपने-परायेका दुराग्रह हो रहा है, इस भेद-बुद्धिका और कोई कारण नहीं है॥ ६०॥
वीरराघवः
एवमितिहासमुपसंहृत्य तत्फलितार्थमुपदिशन्नुपसंहरति- तत इति । यतो देहात्मनोरेवंविधस्स्वभावोऽतो हिरण्याक्षादिरूपं परमन्यमात्मानं स्वं प्रति वा यूयं मा शोचत, अहो मां विहाय स गत स्तं विहायाऽहं कथं जीवामीत्येवं स्वं परं प्रति वा माशोचतेत्यर्थः । स्वः पर इर्त्याभनिवेशोऽभिमानो यस्मात्तेनाज्ञानेन अनाद्यज्ञानमूलकेन कर्मणा विना देहिनां कः परः को वाऽऽत्मा, कश्च 95स्वकीयः पारक्यो वा स्वपरविभागाः स्वीयपरकीयविभागाश्च सर्वोऽप्यनाद्यविद्यामूलककर्मायत्तदेहसम्बन्धप्रयुक्तदेहात्माभिमानप्रयुक्त औपाधिकः, आत्मनस्तु केनाऽपि प्रकारेण स्वाभाविकसम्बन्धः शोकहेतुर्न विद्यते अतो मा शोचत इत्यभिप्रायः ॥ ६० ॥
श्लोक-६१
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा।
पुत्रशोकं क्षणात्त्यक्त्वा तत्त्वे चित्तमधारयत्॥
मूलम्
इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा।
पुत्रशोकं क्षणात्त्यक्त्वा तत्त्वे चित्तमधारयत्॥ ६१ ॥
अनुवाद (हिन्दी)
नारदजीने कहा—युधिष्ठिर! अपनी पुत्रवधूके साथ दितिने हिरण्यकशिपुकी यह बात सुनकर उसी क्षण पुत्रशोकका त्याग कर दिया और अपना चित्त परमतत्त्वस्वरूप परमात्मामें लगा दिया॥ ६१॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे दितिशोकापनयनं नाम द्वितीयोऽध्यायः॥ २ ॥
वीरराघवः
उपरितनं दैत्यस्य वृत्तान्तं वक्तुं तावद्वाक्यमुपसंहरन् दितेरवस्थितिप्रकारमाह भगवान् नारदः- इतीति । इतीत्थं दैत्यपतेर्हिरण्यकशिपोर्वाक्यमाकर्ण्य स्नुषया पुत्रस्य भार्यया सहितादितिः क्षणमात्रेण पुत्रशोकं त्यक्त्वा तत्त्वे देहात्मयाथात्म्ये चित्तमधारयत् तत्त्वचिन्तनपरा बभूवेत्यर्थः ॥ ६१ ॥
इति श्रीमद्भागवते सप्तमस्कन्धे श्रीवीरराघवदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां द्वितीयोऽध्यायः ॥ २ ॥
-
W रुषा ↩︎
-
M,Ma पूर्णः ↩︎
-
H,M,Ma,V लाभ्यां ↩︎
-
W मुवाच ↩︎
-
M,Ma सर्वेः ↩︎
-
W omits एते ↩︎
-
A,B,T णान ↩︎
-
M,Ma युद्धप्रियं ↩︎
-
M,Ma कृन्त ↩︎
-
A,B,G,J,T विप्र ↩︎
-
M,Ma दानकान् ↩︎
-
A,T यात्वा ↩︎
-
W मूल ↩︎
-
A,B,G,J,M,Ma,T तथा ↩︎
-
A,B,G,J,M,Ma,T र्व ↩︎
-
A,B,T र्व ↩︎
-
W ट्ट ↩︎
-
M,Ma न ↩︎
-
A,B,T add सेत्वादीश्च ↩︎
-
A,B,T न्धार्थ ↩︎
-
H,V तिलोद, W करोद ↩︎
-
A,B,G,J,M,Ma,T धृष्टं ↩︎
-
M,Ma नेमि ↩︎
-
A,B,G,J,T श्रुमथोत्कचम; M,Ma श्रुमथोकलं ↩︎
-
A,B,G,J,T रुषा भानुं, M,Ma रुशद्भानुं ↩︎
-
W तृभ्रा ↩︎
-
M,Ma तथाऽध्रुवः ↩︎
-
M,Ma भ्रमतीव ↩︎
-
A,B,T भूरपि ↩︎
-
A,B,T दिवि ↩︎
-
H,V लिङ्गो ↩︎
-
A,B,G,J,T एष ↩︎
-
W ख इ ↩︎
-
M,Ma क ↩︎
-
A,B,T omit मत्त ↩︎
-
M,Ma वि ↩︎
-
A,B,G,J,T ध्वस्ताक्षं ↩︎
-
M,Ma संरम्भाद्द ↩︎
-
A,B,G,J,T त्य ↩︎
-
M,Ma प्रभुः ↩︎
-
M,Ma धिग ↩︎
-
M,Ma रं दृशाम् ↩︎
-
M,Ma मपि ↩︎
-
A,B,T omit नः ↩︎
-
A,B,T omit दशां ↩︎
-
W omits अवस्थां ↩︎
-
W नद ↩︎
-
H,M,Ma,V omit ते ↩︎
-
A न्ती ↩︎
-
H,V वनम् ↩︎
-
A,B,G,J,M,Ma,T विधि ↩︎
-
A,B,G,J,T यत्रागत ↩︎
-
M,Ma omit च ↩︎
-
A,B,G,J,M,Ma,T हे ↩︎
-
H,V गुप्तो विहतो ↩︎
-
A,B,G,J,T यथौ, M,Ma तथो ↩︎
-
M,Ma गुणैः ↩︎
-
A,B,T omit सर्वगतं ↩︎
-
A,B,T omit परः ↩︎
-
A,B,T omit इत्यर्थः ↩︎
-
A,B,G,J,M,Ma,T वक्ताऽयं ↩︎
-
M,Ma नः ↩︎
-
W स्वा ↩︎
-
A,B,T रोक्तेश्च ↩︎
-
A,B,G,J,M,Ma,T नेह ↩︎
-
A,B,G,H,J,M,Ma,T,V मिति ↩︎
-
A,B,G,J,T यन् ↩︎
-
M,Ma शिचा तन्त्या ↩︎
-
W षा ↩︎
-
M,Ma ताम् ↩︎
-
H,V ल्यः ↩︎
-
M,Ma या कृपणया ↩︎
-
W omits त्रिभिः ↩︎
-
A,B,G,J,T दुःखमनेन ↩︎
-
H,V स्व, W न ↩︎
-
A,B,T बालकान् ↩︎
-
M,Ma रुवन्त ↩︎
-
M,Ma तदैव ↩︎
-
M,Ma नि ↩︎
-
A,B,G,J,M,Ma,T ततः ↩︎
-
M,Ma च ↩︎
-
M,Ma नः ↩︎
-
W स्वीयः ↩︎