[प्रथमोऽध्यायः]
भागसूचना
नारद-युधिष्ठिर-संवाद और जय-विजयकी कथा
श्लोक-१
विश्वास-प्रस्तुतिः
समः प्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम्।
इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा॥
मूलम्
समः प्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम्।
इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा॥ १ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने पूछा—भगवन्! भगवान् तो स्वभावसे ही भेदभावसे रहित हैं—सम हैं, समस्त प्राणियोंके प्रिय और सुहृद् हैं; फिर उन्होंने, जैसे कोई साधारण मनुष्य भेदभावसे अपने मित्रका पक्ष ले और शत्रुओंका अनिष्ट करे, उसी प्रकार इन्द्रके लिये दैत्योंका वध क्यों किया?॥ १॥
वीरराघवः
पूर्वस्मिन् स्कन्धे अष्टादशेऽध्याये “हतपुत्रादितिः शक्रपार्ष्णिग्राहेण विष्णुना” (भाग. 6-18-23) इति विष्णोरि2न्द्रपक्षपातित्वमुक्तम् । तत्र सर्वान्तरात्मनः सर्वभूतसुहृदो निरतिशयप्रियरूपस्य अवाप्तकामस्य निरस्त3निखिलदोषस्य परमकारुणिकस्य श्रीभगवतः कथं प्राकृतवद्वैषम्यनैर्घृण्यादिकम् ? इति पृच्छति राजा सम इत्यादिना त्रिभिः श्लो4कः । यद्यपि तत्तज्जीव कर्मगुणानुगुण्येन अन्तरात्मतया नियन्तुर्न वैषम्यादि दोषप्रसक्तिरिति तत्र तत्र बहुवारमुक्तमिति न शङ्कावकाशः । तथाऽपि तत्र तत्र प्रसंगादुक्तमेव त5द्द्रयितुम । किं गुणानां कर्मणां च प्रत्येकं सुखदुःखादि निमित्तत्वं, उत समुच्चितानाम्, अथवा कर्मणामेव निमित्तत्वं, गुणानां तु तद्धेतृत्वम उत गुणानामेव तन्निमित्तत्वं कर्मणां तु गुणोपचयापचयादि निमित्तत्वमित्यादिशङ्कापरिहारान् श्रीतुं च प्रश्न.. सम इति । हे ब्रह्मन् ! भगवान् पूर्णषाड्गुण्यो निरस्तनिखिलदोषश्च अनेनाप्तकामत्वं सूचितम् । तत एव स्वप्रयोजन निरपेक्षत्वं च, समः निरस्तनिखिल दोषत्वादेव द्वेष्य-प्रिय-विभागरहितः स हि रागदेषादिमुलकः तदभावात्सम इति भावः । किञ्च सर्वभूतानां देवादीनां चासुरादीनां च सुहद्धितैषी आत्मत्वादिति भाव न ह्यात्मनः किञ्चिच्छरीरं हितं अन्यदहितमात्मत्वादेव च निरतिशयप्रियः एवम्भूतः स्वयं साक्षादेवेन्द्रस्यार्थे प्रयोजनाय कथं दैत्यानवधीत् हतवान्, यथा विषमो रागद्वेषादिप्राकृतगुणयुक्तः तद्वत् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
न ह्यस्यार्थः सुरगणैः साक्षान्निःश्रेयसात्मनः।
नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि॥
मूलम्
न ह्यस्यार्थः सुरगणैः साक्षान्निःश्रेयसात्मनः।
नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि॥ २ ॥
अनुवाद (हिन्दी)
वे स्वयं परिपूर्ण कल्याणस्वरूप हैं, इसीलिये उन्हें देवताओंसे कुछ लेना-देना नहीं है। तथा निर्गुण होनेके कारण दैत्योंसे कुछ वैर-विरोध और उद्वेग भी नहीं है॥ २॥
वीरराघवः
साक्षान्निश्श्रेयसात्मनः पुरुषार्थस्वरूपस्य निरतिशयानन्दरूपस्येत्यर्थः । अस्य भगवतः सुरगणेः इन्द्रादिभिनह्यर्थः तदनुगृहीतेन्द्रादिभिः साध्यः कश्चित्पुरुषार्थो न तस्यास्ति, स्वयमेव साक्षान्निश्श्रेयसात्मत्वा6दिति भावः । तथा असुरेभ्य उद्वेगो भयं तेषु 7विद्वेषश्च नास्त्येव तत्र हेतुं वदन् तं विशिनष्टि अगुणस्येति । हि यस्मादगुणस्य सत्त्वादिगुणतन्मूलकरागद्वेषभयरहितस्य ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
इति नः सुमहाभाग नारायणगुणान् प्रति।
संशयः सुमहाञ्जातस्तद्भवांश्छेत्तुमर्हति॥
मूलम्
इति नः सुमहाभाग! नारायणगुणान् प्रति।
संशस्सुमहाञ्जात8स्तं भवांश्छेत्तुमर्हति॥ ३ ॥
अनुवाद (हिन्दी)
भगवत्प्रेमके सौभाग्यसे सम्पन्न महात्मन्! हमारे चित्तमें भगवान्के समत्व आदि गुणोंके सम्बन्धमें बड़ा भारी सन्देह हो रहा है। आप कृपा करके उसे मिटाइये॥ ३॥
वीरराघवः
इतीत्थं हे महाभाग ! 9निर्गुणस्य श्रीनारायणस्य गुणान्प्रति गुणविषयको महान् संशयां जातो वर्तते । तद्गुणास्तु समत्वादयः, चेष्टा तु गुणाननुगुणेत्येतत्संशयात्म10कमज्ञानं छेत्तुमपोहितुं भवानेवार्हति 11नान्य इत्यर्थः11 ॥ ३ ॥
श्लोक-४
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
साधु पृष्टं महाराज हरेश्चरितमद्भुतम्।
यद् भागवतमाहात्म्यं भगवद्भक्तिवर्धनम्॥
मूलम्
साधु पृष्टं महा12भाग! हरेश्चरितमद्भुतम्।
यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम्॥ ४ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजीने कहा—महाराज! भगवान्के अद्भुत चरित्रके सम्बन्धमें तुमने बड़ा सुन्दर प्रश्न किया; क्योंकि ऐसे प्रसंग प्रह्लाद आदि भक्तोंकी महिमासे परिपूर्ण होते हैं, जिसके श्रवणसे भगवान्की भक्ति बढ़ती है॥ ४॥
वीरराघवः
एवमापुष्टो मुनिस्तावद्राज्ञः प्रश्नमभिनन्दति-साध्विति । हे महाराज ! अद्भुतं प्राकृतचेष्टासजातीयत्वेन चिन्तयितुमशक्यं हरेश्चरितं प्रति साधु पृष्टं हरिचरित्रविषयकसंशयोद्धाटनरूपत्वात् प्रश्नः साधीयानित्यर्थः । साधुत्वमेव प्रश्नस्य स्पष्टयितुं चरित्रं13 विशिनष्टि-यदिति । यद्धरेश्चरितं भागवतानां माहात्म्यं यस्मिन् तादृशम्, अस्त्वेवं, ततः किं तत्राह, भगवद्भक्तिं वर्धयतीति भगवद्भक्तिवर्धनं, भगवद्भक्तेर्वर्धनं वृद्धिर्यस्मादिति वा भागवतमाहात्म्येन भगवद्भक्तिवर्धकेन युक्तत्वात् भगवच्चरित्रस्य तद्विषयकः प्रश्नः साधुरिति भावः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
गीयते परमं पुण्यमृषिभिर्नारदादिभिः।
नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम्॥
मूलम्
गीयते परमं पुण्यमृषिभिर्नारदादिभिः।
नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम्॥ ५ ॥
अनुवाद (हिन्दी)
इस परम पुण्यमय प्रसंगको नारदादि महात्मागण बड़े प्रेमसे गाते रहते हैं। अब मैं अपने पिता श्रीकृष्ण-द्वैपायन मुनिको नमस्कार करके भगवान्की लीला-कथाका वर्णन करता हूँ॥ ५॥
वीरराघवः
अतः तत्परमं पुण्यं अतीव पुण्यतमं चरित्रं नारदादिभिः ऋषिभिः गीयते । यतः त्वत्प्रश्नः साधुः ततोऽहं कृष्णाय व्यासाय मुनये नत्वा हरेः कथां कथयिष्ये हरिगुणविषयक संशयरूप14त्वात्त्वत्प्रश्नस्य तद्गुणवर्णनरूप कथाकथनेनैवोत्तरयामीत्यभिप्रायेण कथां कथयष्ये इत्युक्तम् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः।
स्वमायागुणमाविश्य बाध्यबाधकतां गतः॥
मूलम्
निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान् प्रकृतेः परः।
स्वमायागुणमाविश्य बाध्यबाधकतां गतः॥ ६ ॥
अनुवाद (हिन्दी)
वास्तवमें भगवान् निर्गुण, अजन्मा, अव्यक्त और प्रकृतिसे परे हैं। ऐसा होनेपर भी अपनी मायाके गुणोंको स्वीकार करके वे बाध्य-बाधकभावको अर्थात् मरने और मारनेवाले दोनोंके परस्पर-विरोधी रूपोंको ग्रहण करते हैं॥ ६॥
वीरराघवः
एवं कथाकाथनं प्रतिज्ञाय अथ सत्त्वादिगुणोद्भवाभिभावादिना देवादीनां जयपराजयां सत्त्वादिगुणाश्च तत्तज्जीवकर्मायत्तोद्भवाभिभववन्तः प्रसिद्धाः “कर्मवश्या गुणा ह्येते सत्त्वाद्याः पृथिवीपते” (विष्णु. पु. 2-13-70) इत्यादिभिः । अतः स15र्वान्तरात्मतया अवस्थाय तत्तद्भोक्तृ-कर्मानुगुणं गुणान् प्रेरयतः ईश्वरस्य न वैषम्यादिकमिति परिहरति-निर्गुणोऽपीति । निर्गुणः हेयगुणरहितः रागद्वेषादिरहित इत्यर्थः । अव्यक्तः प्रमाणान्तराणामगोचरः अनेन प्रत्यक्षादि प्रमाणगोचर रागद्वेषादि हेयगुणयुक्त प्राकृतवैलक्षण्यम् उक्तम्, अत एव हि अजः कर्मायत्तोत्पत्त्यादि रहितः भगवान् पूर्णषाड्गुण्यः प्रकृतेः परः “भूमिरापोऽनलो वायुः" (भगी. 7-4) “अपरेयमितस्त्वन्याम् (भगी. 7-5) इत्युक्त चिदचिदात्मक प्रकृतिद्वयाद्विलक्षणः । अपिशब्देनैवंविधस्य वैषम्याद्यनर्हता सुच्यते । यद्यप्यवं विधः तथापि स्वमायागुणमाविश्य स्वांशभूतां गुणविशिष्टां प्रकृतिमाविश्येत्यर्थः । आवेशश्चात्र प्रेरणपर्यन्तः । “अन्तः प्रविष्टः शास्ता जनानाम्” (तैत्ति. उ. 3-11) इति श्रुतेः । ईरयतीति वक्ष्यमाणत्वाच्च बाध्यबाधकतां गतः बाध्यबाधक देवासुरवर्गयोरन्तरात्मतया तत्तच्छरीरकत्वेनावस्थित इत्यर्थः । गुणकर्मानुगुण-प्रेर्यमाणशरीरभृत देवासुरवर्गगतो बाध्यबाधकभावः, न प्रकृति द्वयविलक्षण तदात्मभूत परमात्मगतः । यथा, देहादिगतावस्थाः नात्मगतास्तथेति भावः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः।
न तेषां युगपद्राजन् ह्रास उल्लास एव वा॥
अनुवाद (हिन्दी)
सत्त्वगुण, रजोगुण और तमोगुण—ये प्रकृतिके गुण हैं, परमात्माके नहीं। परीक्षित्! इन तीनों गुणोंकी भी एक साथ ही घटती-बढ़ती नहीं होती॥ ७॥
वीरराघवः
एतदेव प्रपञ्चयितुं तावद्गुणानां प्रकृतेरेव सम्बन्धित्वं तेषां तत्तज्जीवकर्मानुसारेण परिणामस्वभावत्वं चाहसत्त्वमिति । सत्त्वादयः प्रकृतेरेव गुणाः, नत्वात्मनः परमात्मनः परमात्मशरीरभूतप्रकृति स्वरूपगताः न तु परमात्मस्वरूपगता इत्यर्थः । तेषां सत्त्वादीनां सर्वेषां ह्रासोऽभिभवः उल्लास उद्भवश्च युगपन्न भवति । किन्तु तत्तत्कर्मपरिपाककालानुगणं कदाचित्कस्यचिद्ध्रासः कदाचिदुल्लासश्च भवतीत्यर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
जयकाले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान्।
तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत्॥
अनुवाद (हिन्दी)
भगवान् समय-समयके अनुसार गुणोंको स्वीकार करते हैं। सत्त्वगुणकी वृद्धिके समय देवता और ऋषियोंका, रजोगुणकी वृद्धिके समय दैत्योंका और तमोगुणकी वृद्धिके समय वे यक्ष एवं राक्षसोंको अपनाते और उनका अभ्युदय करते हैं॥ ८॥
वीरराघवः
ततः कथं वैषम्यपरिहारः ? इत्यत आह जयकाले त्विति । सत्त्वस्य जयकाले उत्कर्षकाले कर्मायत्त सत्त्वगुणोपचयकाले इत्यर्थः । देवानृषींश्चाभजत्तदनुग्राहको भवति रजसो जयकाले इत्यनुषङ्गः, असुरानभजत्, तमसो जयकाले तु यक्षान् रक्षांसि च तत्कालानुगुणस्तत्तत्कर्म विपाककालानुगुणोऽभजत् । अयं भावः- “गुणप्रवाह पतितो भृतवर्गोऽपि यात्ययम् । (विष्णु पु. 2-13-69) कर्मवश्या गुणा ह्येते सत्त्वाद्याः पृथिवीपते" (विष्णु. पु. 2-13-70) इति भगवत्पराशरवचनात्, सत्त्वादिगुणानां तत्तज्जीवकर्मविपाककालानुगुणहासोल्लासरूपपरिणाम 19स्वभावत्वं सिद्धम् । “आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे । धरां रजः स्वभावेन” (भाग. 3-6-28) इत्याद्युक्तरीत्या देवादीनां स्वस्वकर्मायत्तसत्त्वादिगुणप्राचुर्यञ्च प्रसिद्धम् । सत्त्वादिगुणानामुल्लासः सुखदुःखमोहाद्यापादक इति भगवता गीतम्-“ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत । लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे कुरुनन्दन । अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे पुरुषर्षभ।” (भ.गी. 14-11-12,13) इति । ईश्वरस्य तु सर्वान्तरात्मत्वं बहुप्रमाणप्रतिपन्नम् । एवं सति एतदुक्तं भवति, सर्वान्तरात्मतयाऽवस्थित ईश्वरः सर्वदा कस्यचिदेव विजयं कस्यचित्सर्वदा पराजयं च न प्रतिदिशति, अपि तु तत्तद्देवादिकर्मपरिपाककालानुगुणसत्त्वादिगुणोद्भवकालेषु देवादीनां विजयं प्रतिदिशति, अन्येषां तु पराजयम्, सत्त्वाद्युद्भवाभिभवयोश्च कर्माधीनत्वात्तदनुरूप प्रवृत्तेः ईश्वरस्य न वैषम्यमिति । ननु, कर्मपरिपाककालानुगुणोल्लास सुखकरसत्त्वोपचयदशायां तद्गुणप्रचुराणां देवादीनां जयमावहतीति युक्तम्, इदन्त्वयुक्तम्, रजस्तमसोरुपचयदशायां असुररक्षादीन् भजत इति । तदुपचयस्य दुःखमोहादिफलकत्वेन पराजयाद्यावहत्त्वादुच्यते रजस्तमसारुल्लासकालेऽसुरादीन् भजतीत्यस्य तेषां जयमावहतीति नाऽर्थः । अपि तु रजस्तमसोरुल्लासफलभूत दुःखमोहादिनिमित्त पराजयादिकमावहतीति, एवञ्च यदेव सुरादीनामपि स्वकर्मावशेषपरिपाकानुगुणं सत्त्वोल्लासस्तदा जयं प्रदिशत्यन्यदा तु पराजयम्, एवं देवादीनामपि कर्मविशेषपरिपाकानुगुणसत्त्वोद्रेकदशायां जयं, तेषामेव पुनः कर्मविशेषपरपाकानुगुण रजस्तमसोरुल्लासे सति दुःखादिकरं पराजयादिकमिति । इयांस्तु विशेषः देवदीनां पुण्यकर्मणां सत्त्वप्रचुरत्वात्प्रायशः तस्यैवोल्लासात्प्रायशो विजयः कादाचित्कः पराजयः । असुरादीनां त्वपुण्येन रजस्तमः प्रचुरत्वात् तयोरेव प्रायश उल्लासात्, प्रायशः पराजयः कादाचित्को विजय इति ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते।
विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः॥
मूलम्
ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते।
विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः॥ ९ ॥
अनुवाद (हिन्दी)
जैसे व्यापक अग्नि काष्ठ आदि भिन्न-भिन्न आश्रयोंमें रहनेपर भी उनसे अलग नहीं जान पड़ती, परन्तु मन्थन करनेपर वह प्रकट हो जाती है—वैसे ही परमात्मा सभी शरीरोंमें रहते हैं, अलग नहीं जान पड़ते। परन्तु विचारशील पुरुष हृदय मन्थन करके—उनके अतिरिक्त सभी वस्तुओंका बाध करके अन्ततः अपने हृदयमें ही अन्तर्यामीरूपसे उन्हें प्राप्त कर लेते हैं॥ ९॥
वीरराघवः
“स्वमायागुणमाविश्य बाध्यबाधकतां गतः” (भाग 7-1-6) इत्यनेन तत्तद्बाध्यबाधकेषु देवासुरादिवर्गेषु ईश्वरस्यानुप्रवेश उक्तः कथमनुप्रविष्टो विज्ञायत इत्यपेक्षायां तत्तदनुप्रवेशे अनुप्रविष्टस्य विविच्य प्रष्टुमशक्यत्वे सम्यगुपायेन विवेचनीयत्वे च दृष्टान्तमाह ज्योतिरिति । काष्ठादिषु ज्योतिः प्रभृतिवस्तुवत् अनुप्रविष्टोऽप्याभाति तद्गतदोषाऽस्पृष्टः प्रकाशते । “अनश्नन्नन्यो अभिचाकशीति” (मुण्ड. उ. 3-1-1 श्वेता. उ 4-6) इति श्रुतेरिति भावः । संघातात्काष्ठादिसंघातादिव देहेन्द्रिय भोक्तृवर्गरूपसङ्घातात् न विविच्यते प्रकृतिपुरुषेश्वर तत्त्वयाथात्म्यविद्भिः प्रकृतिपुरुषाभ्यां विलक्षणत्वेन न ज्ञायत इत्यर्थः । कवयः तत्त्वत्रययाथात्म्यविदस्तु आत्मस्थ जीवात्मनि स्थितं “य आत्मनि तिष्ठन्” (बृह. उ. 3-7-22) यो विज्ञाने तिष्ठन्” (बृह. उ. 3-7-22) इति श्रुतेः । आत्मानं परमात्मानं मथित्वा विवेकपूर्वकं तद्भक्तियोगमभ्यस्येत्यर्थः । अन्ततोऽनेकजन्मावसाने विदन्ति साक्षात्कुर्वन्ति स्वमायागुणमाविश्येत्यनेन प्रेरणपर्यन्तानुप्रवेशोऽभिसंहितः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
यदा सिसृक्षुः पुर आत्मनः परो
रजः सृजत्येष पृथक् स्वमायया।
सत्त्वं विचित्रासु रिरंसुरीश्वरः
शयिष्यमाणस्तम ईरयत्यसौ॥
मूलम्
यदा सिसृक्षुः 20पुर आत्मनः परो रजः सृजत्येष पृथक् स्वमायया।
सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ॥ १० ॥
अनुवाद (हिन्दी)
जब परमेश्वर अपने लिये शरीरोंका निर्माण करना चाहते हैं, तब अपनी मायासे रजोगुणकी अलग सृष्टि करते हैं। जब वे विचित्र योनियोंमें रमण करना चाहते हैं, तब सत्त्वगुणकी सृष्टि करते हैं और जब वे शयन करना चाहते हैं, तब तमोगुणको बढ़ा देते हैं॥ १०॥
वीरराघवः
तदेव गुणप्रेरकत्वं विवृणोति-यदेति । एष परः पुरुषो भगवान् यदा स्वमायया स्वसङ्कल्परूपज्ञानेन प्रकृत्या वा आत्मनो जीवस्य, जात्यभिप्रायकमेकवचनम् आत्मनामित्यर्थः । पुरः शरीराणि सिसृक्षुः स्रष्टुमिच्छुः तदा रजः सृजति प्रेरयतीत्यर्थः । तमः ईरयतीत्यनेन ऐकार्थ्यात् यदा सृष्ट्यनन्तरं विचित्रासु पूर्षु देहेषु रिरंसुः रन्तुमिच्छु, रिरक्षिषुरित्यर्थ । तदा सत्त्व सृजति यदा चेश्वर शयिष्यमाण उपसञ्जिहीर्षु तदाऽसा परमपुरुषस्तम ईरयति ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
कालं चरन्तं सृजतीश आश्रयं
प्रधानपुम्भ्यां नरदेव सत्यकृत्।
य एष राजन्नपि काल ईशिता
सत्त्वं सुरानीकमिवैधयत्यतः।
तत्प्रत्यनीकानसुरान् सुरप्रियो
रजस्तमस्कान् प्रमिणोत्युरुश्रवाः॥
मूलम्
कालं चरन्तं सृजतीश आ21श्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत्।
य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्य22जः।
तत्प्रत्यनीकानसुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः॥ ११ ॥
अनुवाद (हिन्दी)
परीक्षित्! भगवान् सत्यसंकल्प हैं। वे ही जगत्की उत्पत्तिके निमित्तभूत प्रकृति और पुरुषके सहकारी एवं आश्रयकालकी सृष्टि करते हैं। इसलिये वे कालके अधीन नहीं, काल ही उनके अधीन है। राजन्! ये कालस्वरूप ईश्वर जब सत्त्वगुणकी वृद्धि करते हैं, तब सत्त्वमय देवताओंका बल बढ़ाते हैं और तभी वे परमयशस्वी देवप्रिय परमात्मा देवविरोधी रजोगुणी एवं तमोगुणी दैत्योंका संहार करते हैं। वस्तुतः वे सम ही हैं॥ ११॥
वीरराघवः
अथ 23तदा तत्कालानुगुणोऽभजदिति सूचित कालप्रेरकत्व विवृणोति - कालमिति । ह नरदेव । इश परमात्मा चरन्त प्रवर्तमानमाश्रय स्वव्याप्यतया शरीरभूत काल सृजति निमेषकाष्ठाद्यवस्थ कराति । एव काल सृष्ट्वा प्रधानपुरुषाभ्या चिदचित्समष्टिभ्या सत्त्यकृत् सत चिद्व्यष्टि, त्यत् अचिद्व्यष्टि तदुभय करोति इति तथा । सत्त्यच्छब्दयो चिदचिद्व्यष्टयो प्रयोग “तदनुप्रविश्य सच्च त्यच्चाभवत्" (तैति. उ. 2-6) इत्यादिश्रुता प्रसिद्ध तथा सत्त्यच्छब्दयो तत्परत्वे श्रुति । “अथ यद्देवेभ्य प्राणभ्यश्य तत्सत्, अथ यद्देवा प्राणाश्च तत्त्य तदकया वाचा समभिव्याह्रियते सत्यमिति" इति देवा देवाधिष्ठितानीन्द्रियाणि तेभ्य पर तत्सृष्टचेतन सत दवाद्यचिद्व्यष्टिस्तुत्य तदेतदुभय सत्त्यमित्येकया वाचा एकशब्देन समभिव्याह्रियते बोध्यत इति तदथ । एवमीश्वरस्य तत्तज्जीवकर्मपरिपाकानगुणकालप्रेरकत्व उक्तम्, तच्चात्मत्वन तदनुप्रवेशपूर्वकमिति च, ईश्वराधीन काला दवादीना तत्तत्कर्मपरिपाकानुगुणसत्त्वादिगुणवृद्धि हेतुरिति वदन सर्वान्तरात्मतया देवादिकमानुगण गुणान प्रेरयतो नेश्वरस्य वेषम्यमित्युत्तरमुपसंहरति-य इति । हे राजन्। 24तत कर्मानुगुण्येन ईश्वरस्य गुणकालप्ररकत्वात य एष गुणप्रेरक काल कालशरीरक तत्प्रेरकश्चेशिता ईश्वर सत्त्व कर्मपरिपाकायत्त काल25कृतान्मष सत्त्वगुण प्रचुर सुरानीकमिव सुरानीकमेव “इव शब्दोऽवधारणे” वर्धयति तस्येव जयमावहतीत्यर्थ । तद्गृद्ध तत्प्रतिपक्ष क्षपणपूर्वकत्वात्सुराणा प्रियस्सन् तत्प्रत्यनीकान् सुरानीकप्रतिपक्षरूपान् रजस्तम प्रचुरान् प्रमिणाति विनाशयति उरुश्रवा विपुलकीर्ति असुरानीकविनाशनेन वेषम्यादिसम्भावनया नापकीर्तिमानीश्वर, किन्तु विपुलतमकीर्तिमान26 इत्यर्थ ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा।
प्रीत्या महाक्रतौ राजन् पृच्छतेऽजातशत्रवे॥
अनुवाद (हिन्दी)
राजन्! इसी विषयमें देवर्षि नारदने बड़े प्रेमसे एक इतिहास कहा था। यह उस समयकी बात है, जब राजसूय यज्ञमें तुम्हारे दादा युधिष्ठिरने उनसे इस सम्बन्धमें एक प्रश्न किया था॥ १२॥
वीरराघवः
एव सर्वभूतसुहृद समस्येश्वरस्य देवासुरादिजयापजयहेतुत्वेऽपि कर्मानुगुण्याद्वैषम्याभाव उक्त । इदानी तस्य सर्वभूतसुहत्त्वे इतिहास दर्शयति अत्रेति । अत्रेव तस्य सर्वभूतसुहत्व एव, हे राजन! महाक्रता राजसय प्रीत्या अत्यादरेण पृच्छते अजातशत्रवे युधिष्ठिराय सुरर्षिणा नारदन इतिहास उदाहृत ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ।
वासुदेवे भगवति सायुज्यं चेदिभूभुजः॥
मूलम्
दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ।
वासुदेवे भगवति सायुज्यं चेदिभूभुजः॥ १३ ॥
अनुवाद (हिन्दी)
उस महान् राजसूय यज्ञमें राजा युधिष्ठिरने अपनी आँखोंके सामने बड़ी आश्चर्यजनक घटना देखी कि चेदिराज शिशुपाल सबके देखते-देखते भगवान् श्रीकृष्णमें समा गया॥ १३॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ।
पप्रच्छ विस्मितमना मुनीनां शृण्वतामिदम्॥
मूलम्
तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ।
पप्रच्छ विस्मितमना मुनी29नामुपशृण्वताम्॥ १४ ॥
अनुवाद (हिन्दी)
वहीं देवर्षि नारद भी बैठे हुए थे। इस घटनासे आश्चर्यचकित होकर राजा युधिष्ठिरने बड़े-बड़े मुनियोंसे भरी हुई सभामें; उस यज्ञमण्डपमें ही देवर्षि नारदसे यह प्रश्न किया॥ १४॥
वीरराघवः
प्रश्रं तन्निमित्तं च विवृणोति - दृष्ट्वेति । राजसूयाख्ये महाक्रतौ चेदिभूभुजः शिशुपालस्य भगवताछिन्न शिरसः वासुदेवे भगवति श्रीकृष्णे सायुज्यं संश्लेषं महाद्भुतं दृष्ट्वा विस्मितचित्तः पाण्डुसुतो राजा युधिष्ठिरः तत्र क्रतौ 30क्रतुसभायामासीनं उपविष्टं 31देवर्षि नारदं मुनीनां शृण्वतां सतां इदं वक्ष्यमाणं पप्रच्छ पृष्टवान् ॥ १३, १४ ॥
श्लोक-१५
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि।
वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः॥
मूलम्
अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि।
वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः॥ १५ ॥
अनुवाद (हिन्दी)
युधिष्ठिरने पूछा—अहो! यह तो बड़ी विचित्र बात है। परमतत्त्व भगवान् श्रीकृष्णमें समा जाना तो बड़े-बड़े अनन्य भक्तोंके लिये भी दुर्लभ है; फिर भगवान्से द्वेष करनेवाले शिशुपालको यह गति कैसे मिली?॥ १५॥
वीरराघवः
तदेवाह - अहो 32इति षड्भिः, अहो एतदत्यद्भुतम् । तदद्भुतत्वे हेतुः, एकान्तिनामनन्यप्रयोजनेन भगवन्तं भजतामपि दुर्लभं, किं तत् ? परे तत्त्वं प्रकृतिपुरुष विलक्षणेश्वरतत्त्वरूपे श्रीकृष्णे विद्विषः चेद्यस्य प्राप्तिरित्येतत् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
एतद्वेदितुमिच्छामः सर्व एव वयं मुने।
भगवन्निन्दया वेनो द्विजैस्तमसि पातितः॥
मूलम्
एतद्वेदितुमिच्छामः सर्व एव वयं मुने।
भगवन्निन्दया वेनो द्विजैस्तमसि पातितः॥ १६ ॥
अनुवाद (हिन्दी)
नारदजी! इसका रहस्य हम सभी जानना चाहते हैं। पूर्वकालमें भगवान्की निन्दा करनेके कारण ऋषियोंने राजा वेनको नरकमें डाल दिया था॥ १६॥
वीरराघवः
हे मुने! नारद! एतत्सर्वे वयं वेदितुमिच्छामः केनापि भावेन भगवन्तं स्मरतां तत्प्राप्तिर्भवत्येव किमत्रचित्रं, तत्राह-भगवन्निन्दयेति । वेनः पृथोः पिता भगवन्निन्दयैव निन्दामात्रेण हेतुना तमसि नरके द्विजैः ऋषिभिः पातितः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
दमघोषसुतः पाप आरभ्य कलभाषणात्।
सम्प्रत्यमर्षी गोविन्दे दन्तवक्त्रश्च दुर्मतिः॥
मूलम्
दमघोषसुतः पाप आरभ्य कलभाषणात्।
सम्प्रत्यमर्षी गोविन्दे दन्तवक्त्रश्च दुर्मतिः॥ १७ ॥
अनुवाद (हिन्दी)
यह दमघोषका लड़का पापात्मा शिशुपाल और दुर्बुद्धि दन्तवक्त्र—दोनों ही जबसे तुतलाकर बोलने लगे थे, तबसे अबतक भगवान्से द्वेष ही करते रहे हैं॥ १७॥
वीरराघवः
दमघोषसुतश्चैद्यस्तु कलभाषणात् बाल्यमधुरभाषणादारभ्य बाल्यादारभ्येत्यर्थः । सम्प्रति एतत्कालपर्यन्तं गोविन्दे श्रीकृष्णे अमर्षी क्रोधी । अतोऽयं नितरां पापात्मा तथा दन्तवक्त्रोऽपि दुरात्मा ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम्।
श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः॥
मूलम्
शपतोरसकृद्विष्णुं यद्ब्रह्म 33पदमव्ययम्।
श्वित्रो न जातो जिह्वायां नान्धं 34विविशतुस्तमः34॥ १८ ॥
अनुवाद (हिन्दी)
अविनाशी परब्रह्म भगवान् श्रीकृष्णको ये पानी पी-पीकर गाली देते रहे हैं। परन्तु इसके फलस्वरूप न तो इनकी जीभमें कोढ़ ही हुआ और न इन्हें घोर अन्धकारमय नरककी ही प्राप्ति हुई॥ १८॥
वीरराघवः
अनयोः परब्रह्मभूतं निर्विकारं श्रीकृष्णं असकृच्छपतोः शिशुपालदन्तवक्त्रयोः जिह्वायां श्वित्रः श्वेतकुष्ठरोगो वापि न जातः नाप्येतावन्धं तमोनरकमपि विविशतुः, किन्तु भगवन्तमेव विविशतुः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
कथं तस्मिन् भगवति दुरवग्राहधामनि।
पश्यतां सर्वलोकानां लयमीयतुरञ्जसा॥
मूलम्
कथं तस्मिन् भगवति दुरवग्रा35ह्यधामनि।
पश्यतां सर्वलोकानां लयमीयतुरञ्जसा॥ १९ ॥
अनुवाद (हिन्दी)
प्रत्युत जिन भगवान्की प्राप्ति अत्यन्त कठिन है, उन्हींमें ये दोनों सबके देखते-देखते अनायास ही लीन हो गये—इसका क्या कारण है?॥ १९॥
वीरराघवः
अतः सर्वलोकानां पश्यतां सतां दुरवग्राह्यधामनि दुरवगमज्योतिर्मयस्वरूपे भगवत्यञ्जसा अनायासेन तत्प्राप्तिसाधनानुष्ठानमन्तरेणेत्यर्थः । कथं लयमीयतुः ? भगवत्सायुज्यं कथं प्रापतुरित्यर्थः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
एतद् भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना।
ब्रूह्येतदद्भुततमं भगवांस्तत्र कारणम्॥
अनुवाद (हिन्दी)
हवाके झोंकेसे लड़खड़ाती हुई दीपककी लौके समान मेरी बुद्धि इस विषयमें बहुत आगा-पीछा कर रही है। आप सर्वज्ञ हैं, अतः इस अद्भुत घटनाका रहस्य समझाइये॥ २०॥
वीरराघवः
इतीत्थं वायुना दीपशिखेव 38मम बुद्धिः भ्राम्यति हे भगवन् । एतन्महदद्भुतं अतोऽत्र कारणं ब्रूहि39 ॥ २० ॥
श्लोक-२१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषिः।
तुष्टः प्राह तमाभाष्य शृण्वत्यास्तत्सदः कथाः॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—सर्वसमर्थ देवर्षि नारद राजाके ये प्रश्न सुनकर बहुत प्रसन्न हुए। उन्होंने युधिष्ठिरको सम्बोधित करके भरी सभामें सबके सुनते हुए यह कथा कही॥ २१॥
वीरराघवः
इत्थमापृष्टो नारदः प्राहेत्याह मुनिः राज्ञ इति । राज्ञो युधिष्ठिरस्य तत्प्रश्नरूपं वचः श्रुत्वा भगवान् ऋषिः नारदस्तुष्टः समीचीनप्रश्नेन हृष्टः सदसः सभायाः शृण्व41त्याः सत्याः तं युधिष्ठिरमाभाष्य स्ववचः श्रवणाभिमुखं कृत्वा कथां प्रश्नपरिहाररूपां कथां प्राह ॥ २१ ॥
श्लोक-२२
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
निन्दनस्तवसत्कारन्यक्कारार्थं कलेवरम्।
प्रधानपरयो राजन्नविवेकेन कल्पितम्॥
मूलम्
निन्दनस्तवसत्कारन्यक्कारार्थं कलेवरम्।
प्रधानपरयोराजन्नविवेकेन कल्पितम्॥ २२ ॥
अनुवाद (हिन्दी)
नारदजीने कहा—युधिष्ठिर! निन्दा, स्तुति, सत्कार और तिरस्कार—इस शरीरके ही तो होते हैं। इस शरीरकी कल्पना प्रकृति और पुरुषका ठीक-ठीक विवेक न होनेके कारण ही हुई है॥ २२॥
वीरराघवः
तामेवाह - निन्दनमित्यादिना दशभिरध्यायैः । अस्य प्रश्नस्य मुख्यं उत्तरं वक्तुं तावत्, संसारि चेतनानामिवेश्वरस्य देहात्माभिमानप्रयुक्तस्तुतिनिन्दाद्यभिमानित्वं नास्तीति चेद्यस्य मुक्तिं ददाविति कंचित्परिहारमाह-निन्दनेति, हे राजन् ! निन्दनं दोषकथनं, स्तवो गुणकथनं, सत्कारश्चन्दनलेपादिः न्यक्कारः पांसुक्षेपणादिरेषामर्थो विषयः कलेवरं प्रधानशब्दो देहावस्थप्रधानवचनः परशब्दो देहात्परजीववचनः तयोरविवेकेन परस्परविलक्षणत्वविषयके ज्ञानाभावेन देहात्माभिमानेनेति यावत् तेनाऽविवेकेन हेतुना कल्पितं कलेवरस्य निन्दनादिविषयत्वमविवेककृतं, न तु स्वतो जडत्वात्, नहि काष्ठं चन्दनलेपादिरूपसत्कारादिकं मन्यते इति तावन्निर्विवादमित्यर्थः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा।
वैषम्यमिह भूतानां ममाहमिति पार्थिव॥
मूलम्
हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा।
वैषम्यमिह भूतानां ममाऽहमिति पार्थिव॥ २३ ॥
अनुवाद (हिन्दी)
जब इस शरीरको ही अपना आत्मा मान लिया जाता है, तब ‘यह मैं हूँ और यह मेरा है’ ऐसा भाव बन जाता है। यही सारे भेदभावका मूल है। इसीके कारण ताड़ना और दुर्वचनोंसे पीड़ा होती है॥ २३॥
वीरराघवः
एवं स्थिते हे पार्थिव ! यथेह संसारे भूतानां देहात्माभिमानिनां देवमनुष्यादीनां ममाहमिति वैषम्यं ममेयं निन्दा निन्दितोऽहमिति अभिमानरूपवैषम्यं, तदभिमानेन ममेयं निन्दत्यभिमानेन दण्डपारुष्ययोर्निमित्तयाो हिंसा च स्यात् दण्डः ताडनं पारुष्यं निन्दनं परेण दण्डपारुष्ययोः कृतयोः सतोः तत्प्रयुक्ताो ममेयं निन्दानिन्दितोऽहं ममायंदण्डो दण्डितोहमित्येवरूपो नानाविधोऽभिमानस्तत्प्रयुक्तं परेषु निन्दादिकारिषु हिंसाचरणं च यथा लोकानां दृश्यते न तथा यस्येत्युत्तरेणान्वयः । देहविषयमपि दण्डपारुष्यादिकं परकृतं देहात्माभिमानेनात्मगतं मत्वा तदभिमानेन परेषु हिंसा स्यादित्यनेन यथा हिंसाकारिषु दण्डपारुष्यादिकं देहगतमेव नत्वात्मगतम्, देहात्मनोः अविवेकेन त्वात्मगतं मन्यते तथा हिंस्यमानेष्वपि हिंसा च देहगतैव नत्वात्मगता, देहात्माभिमानात्तृ हिंसितोऽहमित्यभिमान इति सूचितम् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः।
तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः।
परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते॥
मूलम्
यन्नि42बद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः।
तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः।
पर43स्य दमकर्तुर्हि हिंसा केनाऽस्य कल्प्यते॥ २४ ॥
अनुवाद (हिन्दी)
जिस शरीरमें अभिमान हो जाता है कि ‘यह मैं हूँ’, उस शरीरके वधसे प्राणियोंको अपना वध जान पड़ता है। किन्तु भगवान्में तो जीवोंके समान ऐसा अभिमान है नहीं; क्योंकि वे सर्वात्मा हैं, अद्वितीय हैं। वे जो दूसरोंको दण्ड देते हैं—वह भी उनके कल्याणके लिये ही, क्रोधवश अथवा द्वेषवश नहीं। तब भगवान्के सम्बन्धमें हिंसाकी कल्पना तो की ही कैसे जा सकती है॥ २४॥
तदेव स्पष्टमाह-यन्निबन्ध इति । अयमभिमानो दण्डितानां 44निन्दितानां च लोकानां यथा दण्डितोऽहं निन्दितोऽहमि45त्याद्यभिमानः यन्निबन्धो यद्धेतुको देहहेतुक इत्यर्थः । देहात्माभिमानस्य देहहेतुकत्वाद्देहात्माभिमान हेतुको दण्डितोऽहमि46त्याद्यभिमानोऽ47पि देहहेतुक एवेत्यभिप्रायेण यन्निबन्धोऽभिमानोऽयमित्युक्तम् । एवं तद्वधाद्धन्यमानेषु तस्य देहस्य वधादेव प्राणिनां देहात्माभिमानिनां वधः देहगत एव वधः नत्वात्मगतो देहात्माभिमानात्तृ हतोऽहमित्यभिमान इत्यर्थः । एवं संसारिणां निन्दनादिकं सर्व देहात्माभिमान कृतमित्युक्तम् । अथ उक्तार्थ 48विपर्ययमीश्वरे दर्शयति-तथेति । यथा संसारिणां देहात्माभिमानस्तन्मूलको निन्दितोऽहमित्याद्यभिमानश्च यस्येश्वरस्य नास्ति तस्यास्य अभिमानप्रयुक्ता परेषु हिंसा केन हेतुनावकल्प्यते इत्यन्वयः । अभिमानाभावे हेतुः अखिलात्मन इति । 49अखिलस्य जगतः आत्मत्वादभिमानो नास्तीत्यर्थः । ननु आत्मत्वेऽपि तस्य जीववदभिमानः स्यादेव तत्राह-कैवल्यादिति । निरस्तनिखिलदोषत्वादित्यर्थः । “अनृतेन हि प्रत्यूढाः" (छादो. उ. 8-3-2) इति श्रुत्युक्तरीत्या जीवानामनादिपुण्यपापात्मककर्ममूलको हि देहात्माभिमानः तस्य तु परमपुरुषस्य सर्वान्तरात्मनो निरस्तनिखिलकर्मवश्यत्वादि दोषत्वादभिमानाभाव इति भावः । निन्दितोऽहमित्याद्यभिमान एव नास्ति किम्पुनस्तत्प्रयुक्तं परंषु निन्दकेषु हिंसादिकरणं नास्तीत्याऽऽह हिंसा केनास्य-कल्प्यत इति । अस्य निन्दनादिना प्रयुक्ताभिमानरहितस्य हिंसा निन्दककर्मिका केन हेतुना कल्प्यते हिंसाहेतोरभिमानस्याभावाद्धेत्वन्तरस्यादर्शनात् सा नास्त्येवेत्यर्थः । ननु, कथमुच्यतेऽभिमानस्तत्प्रयुक्ता हिंसा च तस्य नास्तीति, यतोऽस्मदादि समक्षमेव निन्दकं चैद्यं हतवानित्यशङ्कां निराकुर्वन्नीश्वरं विशिनष्टि- परस्य दमकर्तुहीति । परस्य निन्दकादेः दमकर्तुः शिक्षाकर्तुः परस्य हितार्थमेव दण्डं कुर्वत इत्यर्थः । शिक्षया परस्मै हिताचरणं च चैद्यस्य 50निहीनां आसुरीं योनिं परिहाप्य निरतिशयपुरुषार्थस्वरूप स्वप्रापणेन इदानीमेव अस्मदादिभिः अपरोक्षं दृष्टमिति भावः । एवं देहात्माभिमानाभावात्परमपुरुषस्य संसारिणामिव स्तुतिनिन्दाद्यभिमानित्त्वराहित्यमुक्तम् एवञ्च निरभिमानत्वात् चैद्यस्य मुक्तिं ददौ इति कश्चित्परिहारः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा।
स्नेहात्कामेन वा युञ्ज्यात् कथञ्चिन्नेक्षते पृथक्॥
मूलम्
तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा।
स्नेहात्कामेन वा युञ्ज्यात् कथञ्चिन्नेक्षते पृथक्॥ २५ ॥
अनुवाद (हिन्दी)
इसलिये चाहे सुदृढ़ वैरभावसे या वैरहीन भक्तिभावसे, भयसे, स्नेहसे अथवा कामनासे—कैसे भी हो, भगवान्में अपना मन पूर्णरूपसे लगा देना चाहिये। भगवान्की दृष्टिसे इन भावोंमें कोई भेद नहीं है॥ २५॥
वीरराघवः
नन्वेवं भगवन्निन्दासु कस्यचिदपि पापं नस्यान्नच निन्दा प्रयुक्ताभिमानरहित निन्दया नितरां पापित्वप्रसङ्ग इति वाच्यम् । तादृशस्यापि चैद्यस्य परमपुरुषपाप्तिदर्शनेन 51निरभिमानिनो51 निन्दाया अपापरूपत्वादन्यथा तादृशे निरतिशये मुक्तिप्रतिबन्धे पापे सति तस्य मुक्त्यसम्भवात्, किञ्चैवं भगवत्स्तोत्रादिषु पुण्यमपि न स्यात् तथा च सर्वशास्त्रार्थ विरोधप्रसङ्गः । किञ्च, “मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु" (भ.गी. 16-18,19) इति भगद्वचनविरोधश्च स्यात् भगवतः स्तुतिनिन्दाभिमानित्वाभाव कथनाद्वेन चैद्ययोः वैषम्यञ्च न सिद्ध्यति, अतो वेन चै52द्य वैषम्यप्रश्नस्य किमुत्तरमित्यपेक्षायां साक्षात्परिहारमाह-तस्मादिति । निन्दादिभाक्संसारितुल्यत्वदोष प्रसङ्ग53निवारणार्थं संसारि चेतनानामिव देहस्तुतिनिन्दाद्यभिमानित्वं भगवतो नास्तीति तद्वैलक्षण्यमात्रमुक्तम् “निन्दनस्तवसत्कारे” (भाग 7-1-22) इत्यादिभिः श्लोकैः इतो वक्ष्यमाण एव साक्षात्परिहारो वेदितव्यः । तस्मादीश्वरस्यैवंविधस्वभावत्वात् वैरानुबन्धनिर्वैर भयस्नेहकामानां पञ्चानामन्यतमेन केनचिद्युञ्च्यात् भगवति मनो युञ्जीतेत्यर्थः । “यथा भक्त्येश्वरे मन आवेश्य" (भाग 7-1-29) इत्युत्तरग्रन्थैकार्थ्यात् वैरानुबन्धो वैराऽविच्छेदः निर्वैरेणेति न वैराभावो विवक्षितः, अपि तु भक्तिर्विवक्षिता । उत्तरग्रन्थे परिगणित हेतुषु पञ्चसु भक्तेरुक्तत्वात् । स्नेहः सौहार्दं बाल्यादारभ्यैतत्पर्यन्तमविच्छिन्नवैरेण भगवति मनो युञ्जतश्चैद्यस्य भगवत्प्राप्तिः । वेनस्य तु उक्तानामन्यतमेनापि भगवत्ययुक्तमनसो न मुक्तिः, प्रत्युतनिरयप्राप्तिरिति वैषम्यमितिभावः । मनो योजनस्य काष्ठामाह-कार्याञ्चन्नेक्षते पृथगिति । पृथग्भगवतोऽन्यद्वस्तु किञ्चिदपि केनापि प्रकारेण नेक्षते न विषयीकरोति मनस्तथातद्युञ्जीत । विजातीयप्रत्ययान्तराव्यवहितचित्तवृत्तिः भवेद्यथा तथेत्यर्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात्।
न तथा भक्तियोगेन इति मे निश्चिता मतिः॥
मूलम्
यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात्।
न तथा भक्तियोगेन इति मे निश्चिता मतिः॥ २६ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! मेरा तो ऐसा दृढ़ निश्चय है कि मनुष्य वैरभावसे भगवान्में जितना तन्मय हो जाता है, उतना भक्तियोगसे नहीं होता॥ २६॥
वीरराघवः
वस्तुतः प्रीतिपूर्वकानुध्यानात्मक भक्तियोगादपि वैरानुबन्धानुध्यानमेव श्रेय इति मया निश्चितमित्याह-यथेति । मर्त्यः संसारी जीवः भगवति यथा वैरानुबन्धेन आशु तन्मयतामियात् प्राप्नुयात् तथा भक्तियोगेन आशु नेयादिति मे मया मतिः बुद्धिः निश्चिता ममेवं, बुद्धिनिश्चय इत्यर्थः । तन्मयतां तच्चिन्तनप्रचुरतामित्यर्थः । विकारावयवार्थाऽसम्भवात् प्राचुर्यमेवात्र मयडर्थः । पूर्वपूर्वचिन्तनादुत्तरोत्तरचिन्तनस्य प्राचुर्य, तच्च प्रत्ययान्तराव्यवहितत्वरूपम् । यद्वा तन्मयतां तद्धर्मप्राचुर्यं प्राप्नुयादित्यर्थः । मुक्तानां प्राचुर्येण भगवद्धर्मसाम्यश्रवणात् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन्।
संरम्भभययोगेन विन्दते तत्सरूपताम्॥
मूलम्
कीटः पेशस्कृता रुद्धः 54कुड्यायां तमनुस्मरन्।
संरम्भभययोगेन विन्दते तत्सरूपताम्॥ २७ ॥
अनुवाद (हिन्दी)
भृंगी कीड़ेको लाकर भीतपर अपने छिद्रमें बंद कर देता है और वह भय तथा उद्वेगसे भृंगीका चिन्तन करते-करते उसके-जैसा ही हो जाता है॥ २७॥
वीरराघवः
यथा वैरानुबन्धयोगः श्रेयानेवं भययोगोऽपि भक्तियोगाच्छ्रेयानिति वदन् वैरानुबन्धभययोगयोः भगवद्विषयकचिन्तासन्तानात्मकयोस्तत्साम्यापत्तिहेतौ दृष्टान्तमाह-कीट इति । पेशस्कृता भ्रमरेण कुड्यायां रुद्धः कीटो यथा तमेव पेशस्कृतं संरम्भभययोगेन वैरानुबन्धभययोगाभ्याम् अनुस्मरन् तत्स्वरूपतां पेशस्कृत्साम्यं विन्दते तथा संरम्भभययोगिनौ भगवत्स्वरूपतां विन्देते इत्यर्थः । तस्येव स्वरूपं यस्य तत्स्वरूपस्तस्य भावः तत्स्वरूपता तां तुल्यरूपतां नत्वैक्यमित्यर्थः । न हि पेशस्कृता रुद्धः कीटः तेनैकीभवति उभयोरप्युपलभ्यमानत्वात्, अतः साम्यमेव दृष्टान्तात्सिद्ध्यति ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
एवं कृष्णे भगवति मायामनुज ईश्वरे।
वैरेण पूतपाप्मानस्तमापुरनुचिन्तया॥
मूलम्
एवं कृष्णे भगवति मायामनुज ईश्वरे।
वैरेण 55पूतपाप्मानस्तमापुरनुचिन्तया॥ २८ ॥
अनुवाद (हिन्दी)
यही बात भगवान् श्रीकृष्णके सम्बन्धमें भी है। लीलाके द्वारा मनुष्य मालूम पड़ते हुए ये सर्वशक्तिमान् भगवान् ही तो हैं। इनसे वैर करनेवाले भी इनका चिन्तन करते-करते पापरहित होकर इन्हींको प्राप्त हो गये॥ २८॥
वीरराघवः
उक्तार्थ दार्ष्टान्तिके दर्शयति-एवमिति । भगवति पूर्णषाङ्गुण्ये मायामानुषे स्वसंकल्पोपात्तमनुजाकृता साक्षादीश्वरे श्रीकृ56ष्णविषये वैरेणानुचिन्तया वैरपूर्वकानुध्यानेन पूतपाप्मानः निरस्तवेरादिदोषाः तं कृष्णमापुः प्रापुः, पूतपाप्मान इत्यास्यायमभिप्रायः । यद्यपि “यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्" (कठ. उ. 2-22) इति श्रुत्युक्तरीत्या निरतिशयप्रीतिरूपाया अविच्छिन्नस्मृतिसन्ततिरूपाया भगवद्भक्तरेव तत्प्राप्तिहेतुत्वम् । तथाचाोक्तम् भगवता “पुरुषः स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया” (भ.गी. 8-22) “भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन! ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुंच परन्तप” । (भ.गी. 11-54) “तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं यने मामुपयान्तिते” (भ.गी. 10-10) इति श्रुतिश्च “तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते” (पु. सू. 1-7) इत्यादिका । भक्तिश्च प्रीतिपूर्वकमविच्छिन्नमनुध्यानम् । “प्रीति पूर्वमनुध्यानं भक्तिरित्यभिधीयते" इति भक्तिलक्षणात् । संरम्भभययोगयोस्तु प्रीतिरूपत्वाभावात्प्रत्युत तद्विपरीतरूपत्वाच्च न भगवत्प्राप्तिहेतुत्वम् । तथाप्यत्यन्तसंरम्भभय कृत भावनाप्रकर्षेण स्वहेतुभूतसंरम्भभययोरपि विस्मरणाद्भावनायाश्च नितिशयानन्दावहशुभाश्रय विषयत्वेन प्रीतिरूपापन्नत्वात्तस्या अपि भगवत्प्राप्ति साधनत्वमिति । एवञ्च येषां भावनाप्रकर्षेण स्वहेतुभूत वेरादिविस्मरणाऽभावो वेनादिनां तेषा भगवन्निन्दादि प्रयुक्त भगवद्विषयकभावनाप्रकर्षाभावेन तन्मूलकनिन्दादिदोषाविस्मृतेः भगवत्प्राप्त्यभावः प्रत्युत तन्निन्दादि दोषेण निरयप्राप्तिश्चेति वेनचेद्ययोः वैषम्यमुक्तं भवति, अतएव न स्तुति निन्दयोः पुण्यापुण्यत्वप्रतिपादक शा57स्त्राऽर्थं विरोधोऽपि भावनाप्रकर्षेणाविस्मृतवैरादिदोषवत्पुरुषविषयत्वात् पुण्यापुण्य प्रतिपादक शास्त्राणाम् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
कामाद् द्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः।
आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः॥
मूलम्
कामाद्द्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः।
आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः॥ २९ ॥
अनुवाद (हिन्दी)
एक नहीं, अनेकों मनुष्य कामसे, द्वेषसे, भयसे और स्नेहसे अपने मनको भगवान्में लगाकर एवं अपने सारे पाप धोकर उसी प्रकार भगवान्को प्राप्त हुए हैं, जैसे भक्त भक्तिसे॥ २९॥
वीरराघवः
एवमुक्तार्थं दार्ष्टान्तिके निदर्श्यैवं कैश्चिल्लब्धमित्याह-कामादिति । यथा भक्तियोगेनेश्वरे मन आवेश्य भगवतो गतिं जग्मुः तथा कामादिभिरपि तस्मिन् मन आवेश्य तदघं मनस आवेशननिमित्तं कामादिरूपमघं हित्वा अत्यन्तभावनाप्रकर्षेण कामादिकं विस्मृत्येत्यर्थः । बहवः तद्गति प्राप्ताः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः।
सम्बन्धाद् वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो॥
मूलम्
गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः।
सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं 58नृप!॥ ३० ॥
अनुवाद (हिन्दी)
महाराज! गोपियोंने भगवान्से मिलनके तीव्र काम अर्थात् प्रेमसे, कंसने भयसे, शिशुपाल-दन्तवक्त्र आदि राजाओंने द्वेषसे, यदुवंशियोंने परिवारके सम्बन्धसे, तुमलोगोंने स्नेहसे और हमलोगोंने भक्तिसे अपने मनको भगवान्में लगाया है॥ ३०॥
वीरराघवः
एतदेवोदाहरणविशेषेषु दर्शयति-गोप्य इति । भगवति कामाद्गोप्यः तद्गतिं गता इत्यनुषङ्गः भयात्कंसः तद्गतिं गत इति विभक्तिविपरिणामः । यद्वा, गोप्यादयः सर्वे प्रतिनियतकामदिभिः उपायः तद्गतिं गता इति यौगपद्येनान्वयः । सम्बन्धाद्वृष्णयः, स्नेहाद्यूयमिति, वृष्णयो यूयञ्च देहसम्बन्धकृतस्नेहादित्यर्थः । अन्यथा पञ्चप्रकारान्तर्भावायोगात् । भक्त्या वयं नारदादयः । तत्र स्नेहस्तुल्यसन्निकृष्टविषयः प्रेमा, भक्तिरुत्कृष्ट विषयेति भेदः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
कतमोऽपि न वेनः स्यात्पञ्चानां पुरुषं प्रति।
तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत्॥
मूलम्
कतमोऽपि न 59वेनः स्यात्प59ञ्चानां 60पुरुषं प्रति।
तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत्॥ ३१ ॥
अनुवाद (हिन्दी)
भक्तोंके अतिरिक्त जो पाँच प्रकारके भगवान्का चिन्तन करनेवाले हैं, उनमेंसे राजा वेनकी तो किसीमें भी गणना नहीं होती (क्योंकि उसने किसी भी प्रकारसे भगवान्में मन नहीं लगाया था )। सारांश यह कि चाहे जैसे हो, अपना मन भगवान् श्रीकृष्णमें तन्मय कर देना चाहिये॥ ३१॥
वीरराघवः
एवं उक्तेनार्थेन सिद्धं वेनचैद्ययोः वैषम्यमाह-कतम इति । उक्तानां पञ्चानां कामुकद्वेषिबिभ्यत्स्नेहवद्भक्तरूपाणां पञ्चानां मध्ये वेनस्त्वीश्वरं परमपुरुषं प्रति कोऽपि न भवति कामुकाद्यन्यतमो न भवति । अतः तन्निन्दया निरयप्राप्तिरिति भावः । तस्मादुक्तानां पञ्चानां मध्ये केनाऽप्यन्यतमेनोपायेन भगवति श्रीकृष्णे मनो निवेशयेत् । निवेशिते च मनसि मनोनिवेशननिमित्तं कामादिकमपि विस्मृत्य तं प्राप्नोतीति भावः, अत एव हि श्रीविष्णुपुराणे “अपगतदोषानुबन्धो भगवन्तमवाप" इति ह्युक्तम् । ननु, संरम्भभययोगादीनामपि भक्तियोगवद्भगवत्प्राप्ति साधनत्वे यथा आरब्ध विच्छिन्न भगवद्भक्तियोगः पुनर्जन्मान्तरे “पूर्वाभ्यासेन कौन्तेय” (भ.गी. 6-44) इत्यादि भगवदुक्तरीत्या पूर्वाभ्यासेनोपसंहृतसम्पूर्णभगवद्भक्तियोगो भगवन्तं प्राप्नोति । एवमारब्धविच्छिन्नसंरम्भभयादि योगोऽपि जन्मान्तरे पूर्वाभ्यासेन परिपूर्ण तद्योगो भगवन्तं प्राप्नुयात् । न चैवं युक्तम् । अन्यथा विष्णु द्वेषिणां सर्वेषामपि मुक्तिप्रसङ्गः । एवञ्च यः पुत्रः पितरं द्वेष्टि तं विद्यादन्यरेतसम् । यो विष्णुं सततं द्वेष्टि तं विद्यादन्त्यरेतसम्" इत्यादि विष्णुदूषकनिन्दावचनानामनवकाशप्रसङ्गः । उच्यते, संरम्भभयादीनां तस्मिन्नेव जन्मनि स्वविस्मारकभावनाप्रकर्षावहानामेव मुक्तिहेतुत्वं, न तु विच्छिन्नानां जन्मान्तरसम्बन्धिनामपि प्रत्युत तेषां निरयहेतुत्वमेव । भक्तियोगस्य तु विच्छिन्नस्यापि पुनर्जन्मान्तरे भावनाप्रकर्षावहनद्वारा मुक्तिसाधनत्वमिति । न चात्र मानाभावः धर्मिग्राहकमानस्य सत्त्वात् । “पार्थनैवेह नामुत्र विनाशस्तस्य विद्यते” (भ.गी. 6-40) इत्यारभ्य “तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन । पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः” (भ.गी. 6-43,44) इत्यन्तेन भगवतैवारब्धस्यापि भक्तियोगस्य पुनः कालान्तरे फलसाधनत्वस्योक्तत्वात् । नत्वेवं संरम्भभयादीनां सकृदारब्धानां पुनर्जन्मान्तरे भगवत्प्राप्तिसाधनत्वप्रमापकं किञ्चिद्वचनं विद्यते, प्रत्युत “यो विष्णुम्” इत्यादि निन्दावचनान्येव सन्ति यदि भगवन्नि61न्दादिकारिणामपि सर्वेषां द्वेषादिविस्मारकभावनाप्रकर्षः स्यात्तर्हि स्यादेव तेषां मुक्तिरिति न कोऽपि विरोधः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
मातृष्वसेयो वश्चैद्यो दन्तवक्त्रश्च पाण्डव।
पार्षदप्रवरौ विष्णोर्विप्रशापात्पदाच्च्युतौ॥
मूलम्
मातृष्वसेयो वश्चैद्यो दन्तवक्त्रश्च 62पाण्डव।
पार्षदप्रवरौ विष्णोर्विप्रशापा63त्पदच्युतौ॥ ३२ ॥
अनुवाद (हिन्दी)
महाराज! फिर तुम्हारे मौसेरे भाई शिशुपाल और दन्तवक्त्र दोनों ही विष्णुभगवान्के मुख्य पार्षद थे। ब्राह्मणोंके शापसे इन दोनोंको अपने पदसे च्युत होना पड़ा था॥ ३२॥
वीरराघवः
एवं संरम्भयोगादीनामपि भगवत्प्राप्तिसाधनत्वेन चैद्यदन्तवक्त्रयोर्न मुक्तौ विस्मयः कार्य इत्यभिधाय न केवलं तयोर्भगवद्विषयक भावनाप्रकर्षे तद्विषयक 64संरम्भ एव हेतुः अपि तु पूर्वसिद्धं भगवदानुकूल्यं चेति वक्तुं इतिहासं प्रतुब्टूषुः प्रश्रावसर प्रदानाय तयोस्तावद्विष्णुपार्षदत्वं विप्रशापाद्भ्रंशं चाह-मातृष्वसेय इति । मातुः स्वसा भगिनी तस्या अपत्यं पुमान् मातृष्वसेयः हे पाण्डव! युधिष्ठर! यो भवतो मातृष्वसेयः चैद्यो दन्तवक्त्रश्च द्वाविमौ पूर्वं विष्णोः पार्षदप्रवरौ द्वारस्थितौ विप्रशापाद्धेतोः पदात्स्वस्थानात् च्युतौ भ्रष्टौ एवञ्च तयोः पाश्चात्य द्वेषातिशयात्प्राक्तनात्यन्तभगवदानुकूल्याञ्च शापन्ते भावनाप्रकर्षसिद्ध्या मुक्तिरितिभावः । अण्डान्तर्वर्तिन्युपेन्द्रादि विष्णु लोके कस्मिंश्चित् “तदुपर्यपि बादरायणः सम्भवात्” (ब्र.सू. 1-3-26) इति न्यायेनोपेन्द्राद्युपासनया तद्द्वारपत्यधिकारं गतौ कौचिज्जीवौ स्थितौ पश्चाद्विप्रशापात्पदच्युताविति नारदस्याशयः ॥ ३२ ॥
श्लोक-३३
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
कीदृशः कस्य वा शापो हरिदासाभिमर्शनः।
अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः॥
मूलम्
कीदृशः कस्य वा शापो हरिदासाभिमर्शनः।
अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः॥ ३३ ॥
अनुवाद (हिन्दी)
राजा युधिष्ठिरने पूछा—नारदजी! भगवान्के पार्षदोंको भी प्रभावित करनेवाला वह शाप किसने दिया था तथा वह कैसा था? भगवान्के अनन्य प्रेमी फिर जन्म-मृत्युमय संसारमें आयें, यह बात तो कुछ अविश्वसनीय-सी मालूम पड़ती है॥ ३३॥
वीरराघवः
इममाशयमजानान्नेवं प्रश्नावसरे दत्ते पृच्छति युधिष्ठिरः कीदृश इति द्वाभ्याम् । कीदृशः शाप इति शा65पाकारप्रश्नः । कस्य वेति तत्कर्तृप्रश्नः । तस्य विशेषणं हरिदासाभिमर्शिन इति हरिदासानाभिमृशति पराभवतीति हरिदासाभिमर्शी तस्य अनेन तस्यानौचित्यं सूचितम् । हरेरेकान्तभक्तानां 66निकटवर्तिनां66 भवाो जन्म अश्रद्धेय इव अनादर्तव्य इवाभाति प्रतीयते । अयं भावः “एतं देवयानं पन्थानमापद्य न च पुनरावर्तते न च पुनरावर्तते" (कौषी. उ. 1-3) इति श्रुत्युक्तरीत्या मुक्तानामेव पुनरावृत्तिर्न विद्यते । किम्पुनर्नित्यसिद्धानां भगवत्पार्षदानां भगवत्स्थानाद्भ्रंशाभाव इह जन्माभावश्चेति । अत इदं भगवत्पार्षदयोः । तत्पदाद्भ्रष्टयोरुच्यमानमिह जन्मानादर्तव्यम् । तज्जन्मप्रतिपादकं वाक्यं “जरद्गवः कम्बलपादुकाभ्यां" इत्यादिवाक्यवदसङ्गतार्थमिति ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम्।
देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि॥
मूलम्
देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम्।
देहसम्बन्धसम्ब67न्धमेतदाख्यातुमर्हसि॥ ३४ ॥
अनुवाद (हिन्दी)
वैकुण्ठके रहनेवाले लोग प्राकृत शरीर, इन्द्रिय और प्राणोंसे रहित होते हैं। उनका प्राकृत शरीरसे सम्बन्ध किस प्रकार हुआ, यह बात आप अवश्य सुनाइये॥ ३४॥
वीरराघवः
तयोः जन्मासम्भवमेव विवृण्वन्पृच्छति देहेन्द्रियासु हीनानामिति । कर्मायत्त प्राकृत देहेन्द्रिय प्राणरहितानां वैकुण्ठपुरवासिनां नित्यसिद्धानामित्यर्थः अनेन पूर्वमप्यसम्भावित प्राकृतदेहेन्द्रियप्राणसम्बन्धानामित्युक्तम् । एवं विधानां देहसम्बन्धः प्राकृतदेहसम्बन्धः तदनुबन्धिरागद्वेषादिसम्बन्धश्च तयोः समाहारः तदेतदघटमानं मह्यमाख्यातुं कथयितुमर्हसि ॥ ३४ ॥
श्लोक-३५
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
एकदा ब्रह्मणः पुत्रा विष्णोर्लोकं यदृच्छया।
सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम्॥
मूलम्
एकदा ब्रह्मणः पुत्रा विष्णोर्लोकं यदृच्छया।
सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम्॥ ३५ ॥
अनुवाद (हिन्दी)
नारदजीने कहा—एक दिन ब्रह्माके मानसपुत्र सनकादि ऋषि तीनों लोकोंमें स्वच्छन्द विचरण करते हुए वैकुण्ठमें जा पहुँचे॥ ३५॥
वीरराघवः
एवमापृष्टो भागवान्नारदः प्रश्रस्योत्तररूपमितिहासं वक्तुमुपक्रमते-एकदेत्यादिना ब्रह्मणः चतुर्मुखस्य पुत्राः सनन्दनादयः आदिशब्देन सनकसनत्कुमार-सनत्सुजाता विवक्षिताः । एते भुवनत्रयं सञ्चरन्तः कदाचिद्यदृच्छया विष्णोर्लोकं जग्मुःय, अयं विष्णुलोकशब्दः 68ब्रह्माण्डान्तर्गत विष्णुलोकविषयः, न तु मुक्तप्राप्यपरमव्योमविषयः “वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः” (भाग 8-5-4) इति वक्ष्यमाणत्वात् मुक्तप्राप्ये अर्चिरादिमार्गेणैव गम्ये परमव्योम्नि योगिनामपि सनकादीनां गमनासम्भवान्नित्यसिद्धानां इहोत्पत्त्यसम्भवाच्च ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः।
दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम्॥
मूलम्
पञ्चषड्वायनार्भाभाः पूर्वेषामपि पूर्वजाः।
दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम्॥ ३६ ॥
अनुवाद (हिन्दी)
यों तो वे सबसे प्राचीन हैं, परन्तु जान पड़ते हैं ऐसे मानो पाँच-छः बरसके बच्चे हों। वस्त्र भी नहीं पहनते। उन्हें साधारण बालक समझकर द्वारपालोंने उनको भीतर जानेसे रोक दिया॥ ३६॥
वीरराघवः
सनन्दनादीन् विशिंषन्नाह-पञ्चेति । पञ्च षड्वा हायना वत्सरा येषां ते अर्भा अर्भकाः तदा69भाः तद्वदवस्थिताः तान्, 70आभ शब्दाभिप्रेतं विवृणोति पूर्वेषां रुद्रादीनामपि पूर्वजातान्, दिग्वाससो दिगम्बरान् एवम्भूतांस्तान् सनन्दनादीन् शिशून् शिशुत्वेनालक्ष्य विष्णोर्द्वाःस्थौ द्वारि स्थितौ द्वारपौ प्रत्यषेधतां न्यवारयताम् ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
अशपन् कुपिता एवं युवां वासं न चार्हथः।
रजस्तमोभ्यां रहिते पादमूले मधुद्विषः।
पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः॥
मूलम्
अशपन् कुपिता एवं युवां वासं न चार्हथः।
रजस्तमोभ्यां रहिते पादमूले मधुद्विषः।
पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः॥ ३७ ॥
अनुवाद (हिन्दी)
इसपर वे क्रोधित-से हो गये और उन्होंने द्वारपालोंको यह शाप दिया कि ‘मूर्खो! भगवान् विष्णुके चरण तो रजोगुण और तमोगुणसे रहित हैं। तुम दोनों इनके समीप निवास करनेयोग्य नहीं हो। इसलिये शीघ्र ही तुम यहाँसे पापमयी असुरयोनिमें जाओ’॥ ३७॥
वीरराघवः
ताभ्यां प्रतिषिद्धास्ते कुपिताः सन्तः एवं वक्ष्यमाणरीत्या अशपन् । शापप्रकारमेवाह-युवामित्यादिना । रागद्वेषादिरहिते भगवतः पादमूले वासं कर्तु युवां नार्हथः । अप्राकृतं भगवत्पादारविन्दमूल71मुपाश्रित्याऽत्र स्थातुं प्राकृतरागद्वेषादियुक्तो युवां नार्हथः इत्यर्थः । किन्तु बालिशौ मूर्खौ युवामतो भगवत्स्थानादाशु शीघ्रं पापिष्ठां रागद्वेषादिबहुलां आसुरीं योनिं 72आसुरजन्मेत्यर्थः72 । यातं प्राप्नुतम् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
एवं शप्तौ स्वभवनात् पतन्तौ तैः कृपालुभिः।
प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम्॥
मूलम्
73एवं शप्तौ स्व74भवनात्पतन्तौ तैः कृपालुभिः।
प्रोक्तौ पुनर्जन्मभिर्वा त्रिभिर्लोकाय कल्पताम्॥ ३८ ॥
अनुवाद (हिन्दी)
उनके इस प्रकार शाप देते ही जब वे वैकुण्ठसे नीचे गिरने लगे, तब उन कृपालु महात्माओंने कहा—‘अच्छा, तीन जन्मोंमें इस शापको भोगकर तुमलोग फिर इसी वैकुण्ठमें आ जाना’॥ ३८॥
वीरराघवः
एवमित्थं शप्तौ तौ पार्षदौ स्वस्थानात्पतन्तौ कृपालुभिस्तैः सनकादिभिः प्रोक्तौ तदेवाह पुनरिति । पुनवौ युवयोस्त्रिभिः जन्मभिः लोकाय पुनरेतल्लोकप्राप्त्यै कल्पतां शापमाक्षे इति शेषः । तावता कालेन शापः समाप्यतामित्यर्थः ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः॥
मूलम्
जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः॥ ३९ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! वे ही दोनों दितिके पुत्र हुए। उनमें बड़ेका नाम हिरण्यकशिपु था और उससे छोटेका हिरण्याक्ष। दैत्य और दानवोंके समाजमें यही दोनों सर्वश्रेष्ठ थे॥ ३९॥
वीरराघवः
तावेव पार्षदौ विप्रैः शप्तौ इह लोके दितेः पुत्रौ जज्ञाते जातौ बभूवतुः । तत्र हिरण्यकशिपुः ज्येष्ठस्ततो हिरण्याक्षस्तस्यानुजः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा।
हिरण्याक्षो धरोद्धारे बिभ्रता सौकरं वपुः॥
मूलम्
हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा।
हिरण्याक्षो धरोद्धारे बिभ्रता सौकरं वपुः॥ ४० ॥
अनुवाद (हिन्दी)
विष्णुभगवान्ने नृसिंहका रूप धारण करके हिरण्यकशिपुको और पृथ्वीका उद्धार करनेके समय वराहावतार ग्रहण करके हिरण्याक्षको मारा॥ ४०॥
वीरराघवः
तत्र ज्येष्ठो हिरण्यकशिपुः नृसिंहरूपिणा भगवता हतः, हिरण्याक्षस्तु धरोद्धारे भूम्युद्धारे निमित्ते सौकरं वराहं वपुः बिभ्रता भगवता हतः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
हिरण्यकशिपुः पुत्रं प्रह्रादं केशवप्रियम्।
जिघांसुरकरोन्नाना यातना मृत्युहेतवे॥
मूलम्
हिरण्यकशिपुः पुत्रं प्रह्रादं 75केशवप्रियम्।
जिघांसुरकरोन्नाना यातना मृत्युहेतवे॥ ४१ ॥
अनुवाद (हिन्दी)
हिरण्यकशिपुने अपने पुत्र प्रह्लादको भगवत्प्रेमी होनेके कारण मार डालना चाहा और इसके लिये उन्हें बहुत-सी यातनाएँ दीं॥ ४१॥
वीरराघवः
हिरण्यकशिपुवृत्तान्तप्रश्नावतरणाय तद्वृत्तान्तं सङ्ग्रहेणाह-हिरण्यकशिपुरिति । स केशवस्य भगवतो निरतिशयप्रियं प्रह्लादं पुत्रं जिघांसुः हन्तुमिच्छुः पुत्रमरणनिमित्तं नानाविधा यातनाः अकरोत् ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
सर्वभूतात्मभूतं तं प्रशान्तं समदर्शनम्।
भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः॥
मूलम्
सर्वभूतात्मभूतं तं प्रशान्तं समदर्शनम्।
भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः॥ ४२ ॥
अनुवाद (हिन्दी)
परन्तु प्रह्लाद सर्वात्मा भगवान्के परम प्रिय हो चुके थे, समदर्शी हो चुके थे। उनके हृदयमें अटल शान्ति थी। भगवान्के प्रभावसे वे सुरक्षित थे। इसलिये तरह-तरहसे चेष्टा करनेपर भी हिरण्यकशिपु उनको मार डालनेमें समर्थ न हुआ॥ ४२॥
वीरराघवः
यातनाः कुर्वाणोऽपि हिरण्यकशिपुस्तं पुत्रं हन्तुमुद्यमैः सर्वोपायैरपि नाशक्रोत् । तत्र हेतुं वदंस्तं विशिनष्टि-भगवतस्तेजसा स्पृष्टं व्याप्तं, तत्र हेतुः, प्रशान्तमशनायापिपासादिरहितं प्रशान्तेष्वेव भगवत्तेजस्स्पर्श इति भावः । यद्वा, अत एव प्रशान्तं, तत्र हेतुः समदर्शनं सुखदुःखादिषु द्वन्द्वेषु समदृष्टिम्, यः समः स एव हि शान्त इति भावः । यद्वा, अत एव समदर्शनं सर्वभूतानामात्मा ईश्वरस्तद्भूतं तत्प्रकारतया तदात्मतामापन्नम् “शास्त्रदृष्ट्या तूपदेशो वामदेववत्” (ब्र.सू. 1-1-30) इत्युक्तरीत्या यथा वामदेवः “तद्धेतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चाहं कक्षीवान् ऋषिरस्मि विप्रः" (बृ. उ. 31-4-10) इति सर्वभूतान्तरात्मानं भगवन्तं स्वशरीरकं धीसात्कृत्य सर्वप्रकारतया स एवावस्थित इति प्रकारभेदेऽपि प्रकार्यैक्यात्तदभिप्रायेण वामदेवो मन्वादिभिः सहात्मनोऽभेदमनुसंहितवान् एवं प्रह्लादोऽपि “अहं हरिः सर्वमिदं जनार्दनः” इति प्रकार्यैक्याद्विशिष्टवस्त्वेकदेशत्वात् स्वम्मिन् स्वनिष्ठत्वाभावमालक्ष्याहमेव सर्वभूतान्तरात्मा भगवानित्यनुसंहितवानित्याशयेन तस्य विशेषणं सर्वभूतात्मभूतमित्युक्तम् ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ।
रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ॥
अनुवाद (हिन्दी)
युधिष्ठिर! वे ही दोनों विश्रवा मुनिके द्वारा केशिनी (कैकसी)-के गर्भसे राक्षसोंके रूपमें पैदा हुए। उनका नाम था रावण और कुम्भकर्ण। उनके उत्पातोंसे सब लोकोंमें आग-सी लग गयी थी॥ ४३॥
वीरराघवः
ततस्तावेव हिरण्यकशिपु हिरण्याक्षौ द्वितीये-जन्मनि कैकस्यां भार्यायां विश्रवस्सुतौ जाताौ । तत्र ज्येष्ठो रावणोऽनुजस्तु कुम्भकर्णः तावुभौ 78सर्वान् लोकानुपतापयतः खेदयत इति सर्वलोकोपतापनौ ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये।
रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात् प्रभो॥
मूलम्
तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये।
रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभो॥ ४४ ॥
अनुवाद (हिन्दी)
उस समय भी भगवान्ने उन्हें शापसे छुड़ानेके लिये रामरूपसे उनका वध किया। युधिष्ठिर! मार्कण्डेय मुनिके मुखसे तुम भगवान् श्रीरामका चरित्र सुनोगे॥ ४४॥
वीरराघवः
तत्रापि जन्मनि भगवान् राघवः 79श्रीरामो भूत्वा शापमुक्तये तयोः शापोत्तारणाय न्यहनत्, अनेन हितकारित्वं भगवतः सूचितम् । कोऽसौ राघवः ? कीदृशं 80तस्य वीर्यम् ? कथं वा हतवान् ? इत्यत्राह रामवीर्यमिति । वीर्यग्रहणं तज्जन्मादीनां अप्युपलक्षणं तदवतारतद्वीर्यादिकं सर्वं, हे प्रभो ! मार्कण्डेयमुखाच्छ्रोष्यसि, अतो नात्र तन्मया वितन्यते इति भावः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
तावेव क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव।
अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ॥
मूलम्
ता81वेव क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव।
अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ॥ ४५ ॥
अनुवाद (हिन्दी)
वे ही दोनों जय-विजय इस जन्ममें तुम्हारी मौसीके लड़के शिशुपाल और दन्तवक्त्रके रूपमें क्षत्रियकुलमें उत्पन्न हुए थे। भगवान् श्रीकृष्णके चक्रका स्पर्श प्राप्त हो जानेसे उनके सारे पाप नष्ट हो गये और वे सनकादिके शापसे मुक्त हो गये॥ ४५॥
वीरराघवः
तावेव रावणकुम्भकर्णावेवाद्य अधुना तृतीये जन्मनि तव मातृष्वस्रात्मजौ क्षत्रियौ शिशुपालदन्तवक्त्रौ जाता82वद्य शापेन निर्मुक्तौ श्रीकृष्णस्य चक्रेण हतमंहः पापमूलकं शरीरं ययोस्तौ ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम्।
नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ॥
मूलम्
वैरानुबन्धतीव्रेण ध्यानेनाच्युत 83सात्मताम्।
नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ॥ ४६ ॥
अनुवाद (हिन्दी)
वैरभावके कारण निरन्तर ही वे भगवान् श्रीकृष्णका चिन्तन किया करते थे। उसी तीव्र तन्मयताके फलस्वरूप वे भगवान्को प्राप्त हो गये और पुनः उनके पार्षद होकर उन्हींके समीप चले गये॥ ४६॥
वीरराघवः
वैरानुबन्धेन तीव्रमुत्कृष्टं यद्ध्यानं भगवद्विषयकं तेनाच्युतस्य भगवतः सात्मतां आत्मनो भावः प्रकारः आत्मता, समाना आत्मता सात्मता, तां साधर्म्यमित्यर्थः । नीतौ प्रापितौ पुनर्विष्णुपार्षदौ भूत्वा हरेः पार्श्व जग्मतुः ॥ ४६ ॥
श्लोक-४७
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि।
ब्रूहि मे भगवन्येन प्रह्रादस्याच्युतात्मता॥
मूलम्
विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि।
ब्रूहि मे भगवन्येन प्रह्रा84दस्याच्युतात्मता॥ ४७ ॥
अनुवाद (हिन्दी)
युधिष्ठिरजीने पूछा—भगवन्! हिरण्यकशिपुने अपने स्नेहभाजन पुत्र प्रह्लादसे इतना द्वेष क्यों किया? फिर प्रह्लाद तो महात्मा थे। साथ ही यह भी बतलाइये कि किस साधनसे प्रह्लाद भगवन्मय हो गये॥ ४७॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्रादचरितोपक्रमे प्रथमोऽध्यायः॥ १ ॥
वीरराघवः
यदुक्तं “हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् जिघांसुः” (भाग 7-1-41) इत्यादिना प्रह्लादस्य केशवप्रियत्वं 85पितुः हिरण्यकशिपोः प्रह्लादे मरणोद्योगपर्यन्तो द्वेषश्चेति तद्विस्तरेण बुभुत्सुः पृच्छति युधिष्ठिरः-विद्वेष इति । दयिते नितरां प्रीतिविषये तत्रापि महात्मनि सद्गुणाश्रये हिरण्यकशिपोः विद्वेषः कथमासीत्केन हेतुना आसीदित्यर्थः । तदेतत् या च येन कारणेन प्रह्लादस्य अच्युतात्मता अच्युते भगवति आत्मा मतिर्यस्य सोऽच्युतात्मा, तस्य भावस्तत्ता, तां च हे भगवन्! मे मह्यं ब्रूहि ॥ ४७ ॥
इति श्रीमद्भागवत सप्तमस्कन्धे श्रीवीरराघवदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां प्रथमोऽध्याय ॥ १ ॥
-
A,B न्द्रस्य प ↩︎
-
A,B स्ताखिल ↩︎
-
W omits श्लोकः ↩︎
-
A,B,T तद्द ↩︎
-
W दित्यर्थ । ↩︎
-
W omits वि ↩︎
-
A,B,G,J,T स्तद्भ ↩︎
-
W omits निर्गुणस्य ↩︎
-
W क ज्ञान ↩︎
-
A,B,G,J,M,Ma,T राजा ↩︎
-
W तं ↩︎
-
A,B,T त्वात्प्र ↩︎
-
A,B,T न्वा ↩︎
-
H,V सा ↩︎
-
M,Ma न ↩︎
-
A,B,T प्राचुर्यञ्च प्रसि ↩︎
-
H,V परमा ↩︎
-
M,Ma यः ↩︎
-
A,B,G,J,T तः ↩︎
-
W Omits तदा ↩︎
-
W अत ↩︎
-
A,B,T कृतगुणान्मे ↩︎
-
W adds एव ↩︎
-
A,B,G,J,M,Ma,T पूर्वम् ↩︎
-
H,V तं हत ↩︎
-
A,B,G,J,M,Ma,To नां शृण्वतामिदम् ↩︎
-
A,B,T यज्ञ ↩︎
-
W सुरर्षि ↩︎
-
W इत्यादिना ↩︎
-
A,B,G,J,M,Ma,T पर ↩︎
-
A,B,G,J,T ह ↩︎
-
A,B,G,J,M,Ma,T एतत् ↩︎
-
A,B,G,J,T वास्तव ↩︎
-
W omits मम ↩︎
-
A,B,T add इति ↩︎
-
A,B,G,J,T शृण्वत्यास्तत्सदः कथाः H,V शृण्वन्त्याः संसदः कथाः, M,Ma शृण्वत्यास्सदसः कथाम् ↩︎ ↩︎
-
A,B,T न्त्या ↩︎
-
A,B,G,J,T बद्धो ↩︎
-
M,Ma स्यंदम ↩︎
-
A,B,T omit निन्दितानां ↩︎
-
A,B,T त्यभि ↩︎
-
A,B,T त्यभि ↩︎
-
A,B,T omit अपि ↩︎
-
A,B,T विषयमी ↩︎
-
A,B,T सकलजगदात्म ↩︎
-
A,B,T हीनां ↩︎
-
A,B,T द्ययोर्वै ↩︎
-
A,B,T निराकार ↩︎
-
M,Ma कुड्ये यां ↩︎
-
M,Ma धृत ↩︎
-
B,W ष्णे ↩︎
-
A,B,T स्त्र वि ↩︎
-
A,B,G,J,M,Ma,T विभो ↩︎
-
M,Ma पू ↩︎
-
W omits आदि ↩︎
-
M,Ma पार्थिवा ↩︎
-
A,B,G,I,T त्पदाच्च्युतो ↩︎
-
A,B,T सम्बन्ध ↩︎
-
A,B,T पप्रका ↩︎
-
A,B,G,J,T द्ध ↩︎
-
W अण्डान्तं ↩︎
-
A,B,T भासाः ↩︎
-
A,B,T अर्भ ↩︎
-
W माश्रि ↩︎
-
W इति ↩︎
-
M,Ma भु ↩︎
-
भगवत्प्रि ↩︎
-
A,B,G,J,M,Ma,T केशिन्यां ↩︎
-
A,B,G,J,T कोपतापना; M,Ma कप्रतापिन ↩︎
-
A,B,T सर्वलो ↩︎
-
A,B,T omit श्रीरामः ↩︎
-
A,B,T तद्वी ↩︎
-
M,Ma वद्य ↩︎
-
W वधुना ↩︎
-
H,M,Ma,V,W साम्यताम् ↩︎
-
M,Ma देऽप्यच्यु ↩︎
-
A,B,T omit पितुः ↩︎