[एकोनविंशोऽध्यायः]
भागसूचना
पुंसवन-व्रतकी विधि
श्लोक-१
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम्।
तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने पूछा—भगवन्! आपने अभी-अभी पुंसवन-व्रतका वर्णन किया है और कहा है कि उससे भगवान् विष्णु प्रसन्न हो जाते हैं। सो अब मैं उसकी विधि जानना चाहता हूँ॥ १॥
वीरराघवः
किं भूयः कथयामीति प्रश्नार्थं चोदितः पृच्छति राजा - व्रतम् इति । हे ब्रह्मन् ! भवता यद् उदीरितं पुंसवनाख्यं व्रतं तस्य पुंसवनस्य प्रपञ्चम् इति शेषः । ज्ञातुम् इच्छामि येन पुंसवनेन तच् छ्रवणेन वा भगवान् प्रसीदति ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
श्रीशुक3 उवाच
विश्वास-प्रस्तुतिः
शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया।
आरभेत व्रतमिदं सार्वकामिकमादितः॥
मूलम्
शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया।
आरभेत व्रतमिदं सार्वकामिकमादितः॥ २ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजीने कहा—परीक्षित्! यह पुंसवन-व्रत समस्त कामनाओंको पूर्ण करनेवाला है। स्त्रीको चाहिये कि वह अपने पतिदेवकी आज्ञा लेकर मार्गशीर्ष शुक्ल प्रतिपदासे इसका आरम्भ करे॥ २॥
वीरराघवः
एवम् आपृष्टः स-प्रपञ्चं व्रतम् आह मुनिः - शुक्ले इत्य्-आदिना । मार्गशिरे मासि शुक्ले पक्षे कस्यञ्चिच् छुभतिथौ भर्तुर् अनुज्ञया योषिद् इदं वक्ष्यमाणं सार्वकामिकम् अभिलषित-सर्व-पुरुषार्थ-साधनं पुंसवनाख्यं व्रतम् आरभेत ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च।
स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे।
पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह॥
मूलम्
निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च।
स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे।
पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह॥ ३ ॥
अनुवाद (हिन्दी)
पहले मरुद्गणके जन्मकी कथा सुनकर ब्राह्मणोंसे आज्ञा ले। फिर प्रतिदिन सबेरे दाँतुन आदिसे दाँत साफ करके स्नान करे, दो श्वेत वस्त्र धारण करे और आभूषण भी पहन ले। प्रातःकाल कुछ भी खानेसे पहले ही भगवान् लक्ष्मी-नारायणकी पूजा करे॥ ३॥
वीरराघवः
तत्रादितः प्रथमं मरुतां जन्म उत्पत्तिं श्रुत्वा ब्राह्मणाननु मन्त्र्यानुज्ञाप्य तैर् अनुज्ञातेत्य् अर्थः । स्नात्वा शुक्लाः धौताः दन्ताः यस्याः सा धौतदन्तेत्य् अर्थः । अहते नूतने शुक्ले च अम्बरे वसित्वा प्रातराशात् प्राग् एव भगवन्तं श्रिया लक्ष्म्या सह स-लक्ष्मीं पूजयेत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तुते।
महाविभूतिपतये नमः सकलसिद्धये॥
मूलम्
अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तुते।
महाविभूतिपतये नमः सकलसिद्धये॥ ४ ॥
अनुवाद (हिन्दी)
(इस प्रकार प्रार्थना करे—) ‘प्रभो! आप पूर्णकाम हैं। अतएव आपको किसीसे भी कुछ लेना-देना नहीं है। आप समस्त विभूतियोंके स्वामी और सकल-सिद्धिस्वरूप हैं। मैं आपको बार-बार नमस्कार करती हूँ॥ ४॥
वीरराघवः
तावन्-नमस्कार-मन्त्रान् आह त्रिभिः - ते तुभ्यम् अलं पर्याप्तम् एव न किञ्चिद् अन्यैः कृत्यम् अस्ति तत्र हेतुः, हे पूर्ण-काम अवाप्त-समस्त-काम ! अत एव निरपेक्षाय ते तुभ्यं नमः । पूर्णकामत्वम् एव विशदयन्स् तं विशिनष्टि — महाविभूत्योर् नित्य-लीला-विभूत्योर् अधिपतये अत एव सकलास् सिद्धयः अभिलषितानि यस्मात् तस्मै ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
यथा त्वं कृपया भूत्या तेजसा महिनौजसा।
जुष्ट ईश गुणैः सर्वैस्ततोऽसि भगवान् प्रभुः॥
मूलम्
यथा त्वं कृपया भूत्या तेजसा महिनौजसा।
जुष्ट ईश गुणैः सर्वैस्ततोऽसि भगवान् प्रभुः॥ ५ ॥
अनुवाद (हिन्दी)
मेरे आराध्यदेव! आप कृपा, विभूति, तेज, महिमा और वीर्य आदि समस्त गुणोंसे नित्ययुक्त हैं। इन्हीं भगों—ऐश्वर्योंसे नित्ययुक्त रहनेके कारण आपको भगवान् कहते हैं। आप सर्वशक्तिमान् हैं॥ ५॥
वीरराघवः
हे ईश ! यथा यतः त्वं कृपादिभिः सर्वैर् गुण-गणैर् जुष्टः युक्तः ततस् त्वं भगवान् प्रभुर् असि तत्र कृपा स्वार्थानपेक्ष-पर-दुःख-निराचिकीर्षा भूतिर् ऐश्वर्यं तेजः पराभिभवन-सामर्थ्य महिमा लोकोत्तर-प्रभावः ओजो बलं सर्वैर् इत्य् अनेनान्ये सर्वज्ञत्व-सर्वशक्तित्वादयो गुणाः अभिप्रेताः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
विष्णुपत्नि महामाये महापुरुषलक्षणे।
प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते॥
मूलम्
विष्णुपत्नि महामाये महापुरुषलक्षणे।
प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते॥ ६ ॥
अनुवाद (हिन्दी)
माता लक्ष्मीजी! आप भगवान्की अर्द्धांगिनी और महामाया-स्वरूपिणी हैं। भगवान्के सारे गुण आपमें निवास करते हैं। महाभाग्यवती जगन्माता! आप मुझपर प्रसन्न हों। मैं आपको नमस्कार करती हूँ’॥ ६॥
वीरराघवः
हे विष्णुपत्नि ! हे महा-माये महाश्चर्य-शक्ति-युक्ते ! लक्ष्यते ऽनयेति लक्षणा महा-पुरुष-चिह्न-भूतेत्य् अर्थः तथा महा-पुरुषस्य प्रिये, हे धामे, सर्व-लोक-सम्पद्-आश्रय-भूते, हे लोकानां मातः, ते तुभ्यं नमः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहराणीति। अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नानवासउपवीतविभूषणगन्धपुष्पधूपदीपोपहाराद्युपचारांश्च समाहित उपाहरेत्॥
मूलम्
ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहराणीति । अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नानवासउपवीतविभूषणगन्धपुष्पधूपदीपोपहाराद्युपचारांश्च समाहित उपाहरेत्॥ ७ ॥
अनुवाद (हिन्दी)
परीक्षित्! इस प्रकार स्तुति करके एकाग्रचित्तसे ‘ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहराणि।’ ‘ओंकारस्वरूप, महानुभाव, समस्त महाविभूतियोंके स्वामी भगवान् पुरुषोत्तमको और उनकी महाविभूतियोंको मैं नमस्कार करती हूँ और उन्हें पूजोपहारकी सामग्री समर्पण करती हूँ’—इस मन्त्रके द्वारा प्रतिदिन स्थिरचित्तसे विष्णुभगवान्का आवाहन, अर्घ्य, पाद्य, आचमन, स्नान, वस्त्र, यज्ञोपवीत, आभूषण, गन्ध, पुष्प, धूप, दीप और नैवेद्य आदि निवेदन करके पूजन करे॥ ७॥
वीरराघवः
पूजामन्त्रम् आह – ॐ नम इति । भगवते पूर्ण-षाड्गुण्याय निरस्त-निखिल-दोषाय महा-पुरुषाय पुरुष-सूक्त-प्रतिपाद्य-माहात्म्य-युक्ताय महानुभावाय लोक-विलक्षण-प्रभावाय महा-विभूतेः महालक्ष्म्याः पतये विभूतिभिः सह स-पार्षदायेत्य् अर्थः, तुभ्यं बलिम् अर्घ्यादिकम् उपहरामि समर्पयामीत्य् अनेन मन्त्रेण अहरहः विष्णोर् आवाहनाद्य्-उपचारान् उपाहरेत् । तत्रोपस्पर्शनम् आचमनम् उपहारो नैवेद्यं हविः आदि-शब्देन तांबूल-नीराजनादिकं विवक्षितं शेषं भगवते निवेदितं हविर् अनले द्वादशाहुतीः जुहुयात् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
हविःशेषं तु जुहुयादनले द्वादशाहुतीः।
ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति॥
मूलम्
हविःशेषं तु जुहुयादनले द्वादशाहुतीः।
ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति॥ ८ ॥
अनुवाद (हिन्दी)
जो नैवेद्य बच रहे, उससे ‘ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहा।’ ‘महान् ऐश्वर्योंके अधिपति भगवान् पुरुषोत्तमको नमस्कार है। मैं उन्हींके लिये इस हविष्यका हवन कर रही हूँ।’—यह मन्त्र बोलकर अग्निमें बारह आहुतियाँ दे॥ ८॥
वीरराघवः
तत्र मन्त्रम् आह - ॐ नम इति ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ।
भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः॥
मूलम्
श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ।
भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः॥ ९ ॥
अनुवाद (हिन्दी)
परीक्षित्! जो सब प्रकारकी सम्पत्तियोंको प्राप्त करना चाहता हो, उसे चाहिये कि प्रतिदिन भक्तिभावसे भगवान् लक्ष्मीनारायणकी पूजा करे; क्योंकि वे ही दोनों समस्त अभिलाषाओंके पूर्ण करनेवाले एवं श्रेष्ठ वरदानी हैं॥ ९॥
वीरराघवः
यदि सर्व-सम्पदः इच्छेत् कामयेच् चेदेवं श्रियं लक्ष्मीं विष्णुं च आशिषां प्रभवौ प्रभवन्त्य्-आभ्याम् इति प्रभवौ उभौ भक्त्या सम्यक् पूजयेत् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा।
दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत्॥
मूलम्
प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा।
दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत्॥ १० ॥
अनुवाद (हिन्दी)
इसके बाद भक्तिभावसे भरकर बड़ी नम्रतासे भगवान्को साष्टांग दण्डवत् करे। दस बार पूर्वोक्त मन्त्रका जप करे और फिर इस स्तोत्रका पाठ करे—॥ १०॥
वीरराघवः
भक्त्या प्रह्वेण नम्रेण शिरसेति शेषः, चेतसा च दण्डवद् भूमौ प्रणमेत्, ततो मन्त्रम्, ओं नमो भगवते महानुभावाय महा-विभूति-पतये इति मन्त्रं दश-वारं जपेत् ततो वक्ष्यमाणं स्तोत्रम् उदीरयेत् पठेत् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
युवां तु विश्वस्य विभू जगतः कारणं परम्।
इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया॥
मूलम्
युवां तु विश्वस्य विभू जगतः कारणं परम्।
इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया॥ ११ ॥
मूलम् - कर्णावती
युवां तु विश्वस्य विभू जगतः कारणं परम्।
इयं हि प्रकृतिः सूक्ष्मा माया शक्तिर्दुरत्यया॥ ११ ॥
अनुवाद (हिन्दी)
‘हे लक्ष्मीनारायण! आप दोनों सर्वव्यापक और सम्पूर्ण चराचर जगत्के अन्तिम कारण हैं—आपका और कोई कारण नहीं है। भगवन्! माता लक्ष्मीजी आपकी मायाशक्ति हैं। ये ही स्वयं अव्यक्त प्रकृति भी हैं। इनका पार पाना अत्यन्त कठिन है॥ ११॥
वीरराघवः
तम् एवाह - युवाम् इति । युवां विश्वस्य विभू, विभुश् च विभ्वी च विभू, ‘पुमान् स्त्रियत्य्’ एकशेषः, जगतः परं कारणं स्वयं कारणान्तर-रहित-कारण-भूतौ इत्य् अर्थः । इयं लक्ष्मीः प्रकृतिः, “स्त्री-नाम्नी लक्ष्मीर् मैत्रेय” इत्य् उक्त-प्रकारेण प्रकृत्य्-आदि-स्त्री-नामक-पदार्थ-विभूति-मत्त्वात् प्रकृतिर् इत्य् उच्यते । प्रकृति-पुरुषादि-पदार्थानां स्त्री-पुंस्-आत्मकानां तयोर् विभूतित्व-वर्णनात्मकम् इदं स्तोत्रं विभूति-भूतां प्रकृतिं विशिनष्टि, सूक्ष्मा कारणावस्थायां निरतिशय-सूक्ष्मा दुरवबोध-स्वरूपा वा माया आश्चर्य-रूपा शक्तिः कार्योपयुक्ता भगवद्-अपृथक्-सिद्ध-विशेषण-भूता दुरत्यया भगवद्-अप्रपन्नैर् अनति-लङ्घ्या, कथं भगवद्-विभूति-भूतायाः प्रकृतेर् लक्ष्मी-विभूतित्वम् इति न शङ्कनीयं कृत्स्नस्य कार्य-कारणात्मकस्य जगत उभयोर् अपि विशेषणत्वात् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
तस्या अधीश्वरः साक्षात्त्वमेव पुरुषः परः।
त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान्॥
मूलम्
तस्या अधीश्वरः साक्षात्त्वमेव पुरुषः परः।
त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान्॥ १२ ॥
अनुवाद (हिन्दी)
प्रभो! आप ही इन महामायाके अधीश्वर हैं और आप ही स्वयं परमपुरुष हैं। आप समस्त यज्ञ हैं और ये हैं यज्ञ-क्रिया। आप फलके भोक्ता हैं और ये हैं उसको उत्पन्न करनेवाली क्रिया॥ १२॥
वीरराघवः
तस्याः प्रकृतेर् अधीश्वरस् त्वम् एव हे पुरुषोत्तम ! त्वम् एव सर्व-यज्ञः, इज्या त्व् इयम् लक्ष्मीः तत्र यज्ञः प्रधान-यागः, इज्या त्व् अङ्ग-भूता दीक्षणीयेष्ट्य् आदिका तथा स्मार्त्त-क्रिया च इयं लक्ष्मीर् एव तादात्म्यम् अत्र तत्-फल-प्रदातृत्वेन तद् आराध्यत्वेन च तद्-विभूतित्व-प्रयुक्तं, तद् एवाह - फलभुग् इति, त्वम् इयं लक्ष्मीश् च यज्ञियं यत् फलं चरु-पुरोडाशादिकं तद् भुङ्क्ते इति तथा यद् वा, क्रियेयं लक्ष्मीः फलभुक्, क्रिया-फल-भोक्ता तु त्वम् इति वान्वयः क्रिया लक्ष्म्याः विभूतिः, कर्ता तु त्वद्-विभूतिर् इत्य् अर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान्।
त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशया।
नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः॥
मूलम्
गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान्।
त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशया।
नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः॥ १३ ॥
अनुवाद (हिन्दी)
माता लक्ष्मीजी तीनों गुणोंकी अभिव्यक्ति हैं और आप उन्हें व्यक्त करनेवाले और उनके भोक्ता हैं। आप समस्त प्राणियोंके आत्मा हैं और लक्ष्मीजी शरीर, इन्द्रिय और अन्तःकरण हैं। माता लक्ष्मीजी नाम एवं रूप हैं और आप नाम-रूप दोनोंके प्रकाशक तथा आधार हैं॥ १३॥
वीरराघवः
तथा गुण-व्यक्तिर् इयं देवी लक्ष्मीः, या सर्व-वस्तु-गता गुणाभिव्यक्तिः सा लक्ष्मीः तद्-विभूतिर् इत्य् अर्थः । भोग्यत्व-भोगोपकरणत्वादि-गुणानां सर्व-वस्तु-गतानाम् अभिव्यञ्जकस् तु भवान् त्वद्-विभूतिर् इत्य् अर्थः तथा गुणभुग् भवान्, भुक्तिस् त्व् इयं देवी इत्य् अपि बोध्यम् त्वं सर्व-शरीरिणाम् आत्मा शरीरं यस्य तादृशः, सर्व-शरीरिणो जीवास् त्वद्-विभूति-भूताः, श्रीर् लक्ष्मीः सर्वेन्द्रिय-बुद्धि-रूपा तद्-विभूतिमती इत्य् अर्थः तथा नाम-रूपे भगवती लक्ष्मीः, प्रत्ययः नाम-रूप-विषयकः प्रकाशः, अपाश्रयः आधारः, नाम-रूपयोर् निर्वोढा च त्वम् इत्य् अर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ।
तथा म उत्तमश्लोक सन्तु सत्या महाशिषः॥
मूलम्
यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ।
तथा म उत्तमश्लोक सन्तु सत्या महाशिषः॥ १४ ॥
अनुवाद (हिन्दी)
प्रभो! आपकी कीर्ति पवित्र है। आप दोनों ही त्रिलोकीके वरदानी परमेश्वर हैं। अतः मेरी बड़ी-बड़ी आशा-अभिलाषाएँ आपकी कृपासे पूर्ण हों’॥ १४॥
श्लोक-१५
विश्वास-प्रस्तुतिः
इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह।
तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत्॥
मूलम्
इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह।
तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत्॥ १५ ॥
अनुवाद (हिन्दी)
परीक्षित्! इस प्रकार परम वरदानी भगवान् लक्ष्मीनारायणकी स्तुति करके वहाँसे नैवेद्य हटा दे और आचमन कराके पूजा करे॥ १५॥
वीरराघवः
एवं तौ स्तुत्वा तयोर् उक्त-धर्म-वैशिष्ट्यवत्-प्रार्थनाया अपि सत्यत्वं प्रतिजानीते - यथेति । युवां यथा त्रि-लोकस्य वरदौ परमेष्ठिनौ च यथेदम् असत्यं न भवतीति भावः । हे उत्तम-श्लोक ! तथा ममाशिषः त्वद्-विषय-प्रार्थनाः सर्वाः सत्यास् सन्तु श्रिया लक्ष्म्या सह सहितं श्री-निवासं वर-प्रदम् इत्यम् अभिष्टूय तत आवाहित-भगवत्-सकाशाद् उपहरणम् अविशिष्टं पूजा-द्रव्यं निस्-सार्य अपनीय भगवते आचमनं समर्प्य सम्यक् पुनर् अर्चयेत् ॥ १४-१५॥
श्लोक-१६
विश्वास-प्रस्तुतिः
ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा।
यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम्॥
मूलम्
ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा।
यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम्॥ १६ ॥
अनुवाद (हिन्दी)
तदनन्तर भक्तिभावभरित हृदयसे भगवान्की स्तुति करे और यज्ञावशेषको सूँघकर फिर भगवान्की पूजा करे॥ १६॥
वीरराघवः
ततः पुनः स्तोत्रेण स्तुवानाः स्तोत्रं कुर्वाणाः भक्ति-कृत-प्रह्वी-भावेन चेतसा यज्ञोच्छिष्टम् आघ्राय पुनर् अपि हरिम् अर्चयेत् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
पतिं च परया भक्त्या महापुरुषचेतसा।
प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः।
बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च॥
मूलम्
पतिं च परया भक्त्या महापुरुषचेतसा।
प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः।
बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च॥ १७ ॥
अनुवाद (हिन्दी)
भगवान्की पूजाके बाद अपने पतिको साक्षात् भगवान् समझकर परम प्रेमसे उनकी प्रिय वस्तुएँ सेवामें उपस्थित करे। पतिका भी यह कर्तव्य है कि वह आन्तरिक प्रेमसे अपनी पत्नीके प्रिय पदार्थ ला-लाकर उसे दे और उसके छोटे-बड़े सब प्रकारके काम करता रहे॥ १७॥
वीरराघवः
महा-पुरुष-चेतसा ईश्वर-बुद्ध्या परया भक्त्या तैस् तैः प्रियैर् वस्तुभिश् च पतिम् उपनमेत् भजेत् पतिर् अपि भार्यायां स्वयं प्रेम-शीलस् सन् पत्न्याः कर्माणि सर्वाणि बिभृयात् पोषयेत्, उक्त-धर्मानुकूलो भवेद् इत्य् अर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
कृतमेकतरेणापि दम्पत्योरुभयोरपि।
पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहितः॥
मूलम्
कृतमेकतरेणापि दम्पत्योरुभयोरपि।
पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहितः॥ १८ ॥
अनुवाद (हिन्दी)
परीक्षित्! पति-पत्नीमेंसे एक भी कोई काम करता है, तो उसका फल दोनोंको होता है। इसलिये यदि पत्नी (रजोधर्म आदिके समय) यह व्रत करनेके अयोग्य हो जाय तो बड़ी एकाग्रता और सावधानीसे पतिको ही इसका अनुष्ठान करना चाहिये॥ १८॥
वीरराघवः
एवम् अन्योन्यानुकूल्ये कारणम् आह कृतम् इति । दम्पत्योर् अन्यतरेणापि कृतं कर्म उभयोर् अपि फलदं भवति, यतस् ततो ऽन्योन्यानुकूल्येन भाव्यम् इति भावः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात् कथञ्चन।
विप्रान्स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः।
अर्चेदहरहर्भक्त्या देवं नियममास्थितः॥
मूलम्
विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात् कथञ्चन।
विप्रान्स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः।
अर्चेदहरहर्भक्त्या देवं नियममास्थितः॥ १९ ॥
अनुवाद (हिन्दी)
यह भगवान् विष्णुका व्रत है। इसका नियम लेकर बीचमें कभी नहीं छोड़ना चाहिये। जो भी यह नियम ग्रहण करे, वह प्रतिदिन माला, चन्दन, नैवेद्य और आभूषण आदिसे भक्तिपूर्वक ब्राह्मण और सुहागिनी स्त्रियोंका पूजन करे तथा भगवान् विष्णुकी भी पूजा करे॥ १९॥
वीरराघवः
अत एव पत्न्याम् अनर्हायाम् अशक्तायां सत्यां पतिर् एव एतद् व्रतं समाहितः समाहित-चित्तस् सन् कुर्यात्, पत्न्यशक्ता चेत् कर्तुं भर्ता कुर्याद् इत्य् अर्थः । विष्णोर् इदं व्रतं बिभ्रत् केनापि हेतुना न विहन्यात्, अन्तरितं न कुर्यात् विप्रान्, वीरवतीः, पुत्रवतीः, जीवत्-भर्तृकाश् च स्त्रियः स्रगादिभिः अहरहः एवं व्रतम् आस्थितः पुमान् अभ्यर्चयेत् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः।
अद्यादात्मविशुद्ध्यर्थं सर्वकामर्द्धये तथा॥
मूलम्
उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः।
अद्यादात्मविशुद्ध्यर्थं सर्वकामर्द्धये तथा॥ २० ॥
अनुवाद (हिन्दी)
इसके बाद भगवान्को उनके धाममें पधरा दे, विसर्जन कर दे। तदनन्तर आत्म-शुद्धि और समस्त अभिलाषाओंकी पूर्तिके लिये पहलेसे ही उन्हें निवेदित किया हुआ प्रसाद ग्रहण करे॥ २०॥
वीरराघवः
ततो देवं भगवन्तं स्वे धाम्नि स्वस्थाने हृदादाव् इत्य् अर्थः, उद्-वास्य अग्रतः तस्मै भगवते निवेदितं हविः आत्मनो विशुद्ध्य्-अर्थं सर्व-काम-प्राप्त्य्-अर्थं च अद्याद् अश्नीयात् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
एतेन पूजाविधिना मासान् द्वादश हायनम्।
नीत्वाथोपचरेत्साध्वी कार्तिके चरमेऽहनि॥
मूलम्
एतेन पूजाविधिना मासान् द्वादश हायनम्।
नीत्वाथोपचरेत्साध्वी कार्तिके चरमेऽहनि॥ २१ ॥
अनुवाद (हिन्दी)
साध्वी स्त्री इस विधिसे बारह महीनोंतक—पूरे सालभर इस व्रतका आचरण करके मार्गशीर्षकी अमावास्याको उद्यापनसम्बन्धी उपवास और पूजन आदि करे॥ २१॥
वीरराघवः
अनेन उक्तेन पूजा-विधानेन द्वादशमासान् हायनं वत्सरं नीत्वा कार्तिके मासि चरमे अहनि उपचरेत् व्रतोद्यापनाङ्गम् उपचारं कुर्यात् । द्वादशमासान् इत्य् उक्ते कदाचित् तन्मध्ये मलमासे सति तेन सह द्वादशसङ्ख्यायां सत्यां शुद्धस्यैकस्य त्यागः स्यात्, हायनम् इत्य् उक्ते तन्मध्यपातिनस् तस्यापि प्रसङ्गः स्यात्, तद् उभयं वारयितुं द्वादशमासान् सम्वत्सरम् इत्य् उभयोर् ग्रहणम् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् ।
पयःशृतेन जुहुयाच्चरुणा सह सर्पिषा।
पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः॥
मूलम्
श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् ।
पयःशृतेन जुहुयाच्चरुणा सह सर्पिषा।
पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः॥ २२ ॥
अनुवाद (हिन्दी)
उस दिन प्रातःकाल ही स्नान करके पूर्ववत् विष्णुभगवान्का पूजन करे और उसका पति पाकयज्ञकी विधिसे घृतमिश्रित खीरकी अग्निमें बारह आहुति दे॥ २२॥
वीरराघवः
उपचारम् एवाह - श्वोभूत इति । श्वोभूते प्रातः अप उपस्पृश्य स्नात्वा पूर्ववद् भगवन्तम् अभ्यर्च्य पयः-श्रुतेन पयसि क्षीरे पक्वेन चरुणा “श्रुतं पाकः” इति निपातितः श्रुत-शब्दः सह-सर्पिषा सर्पस् सहितेन पाक-यज्ञ-विधिना द्वादशैवाहुतीः पतिर् जुहुयात् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः।
प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया॥
मूलम्
आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः।
प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया॥ २३ ॥
अनुवाद (हिन्दी)
इसके बाद जब ब्राह्मण प्रसन्न होकर उसे आशीर्वाद दें, तो बड़े आदरसे सिर झुकाकर उन्हें स्वीकार करे। भक्तिभावसे माथा टेककर उनके चरणोंमें प्रणाम करे और उनकी आज्ञा लेकर भोजन करे॥ २३॥
वीरराघवः
द्विजैस् समीरिताः प्रयुक्ताः आशिषः शिरसा धारयन् तेभ्यः प्रणम्य ततस् तद्-अनुज्ञया स्वयं भुञ्जीत ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः।
दद्यात्पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम्॥
मूलम्
आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः।
दद्यात्पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम्॥ २४ ॥
अनुवाद (हिन्दी)
पहले आचार्यको भोजन कराये, फिर मौन होकर भाई-बन्धुओंके साथ स्वयं भोजन करे। इसके बाद हवनसे बची हुई घृतमिश्रित खीर अपनी पत्नीको दे। वह प्रसाद स्त्रीको सत्पुत्र और सौभाग्य दान करनेवाला होता है॥ २४॥
वीरराघवः
ततो बन्धुभिस् सह आचार्यम् अग्रतः पुरः कृत्वा उपवेश्य सु-प्रज-त्व-सौभगत्व-फलकं चरोर् हविः-शेषं पत्न्यै दद्यात् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
एतच्चरित्वा विधिवद्व्रतं विभो-
रभीप्सितार्थं लभते पुमानिह।
स्त्री त्वेतदास्थाय लभेत सौभगं
श्रियं प्रजां जीवपतिं यशो गृहम्॥
मूलम्
एतच्चरित्वा विधिवद्व्रतं विभोरभीप्सितार्थं लभते पुमानिह।
स्त्री त्वेतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम्॥ २५ ॥
अनुवाद (हिन्दी)
परीक्षित्! भगवान्के इस पुंसवन-व्रतका जो मनुष्य विधिपूर्वक अनुष्ठान करता है, उसे यहीं उसकी मनचाही वस्तु मिल जाती है। स्त्री इस व्रतका पालन करके सौभाग्य, सम्पत्ति, सन्तान, यश और गृह प्राप्त करती है तथा उसका पति चिरायु हो जाता है॥ २५॥
वीरराघवः
एवं सविस्तरं व्रतम् उपवर्ण्य तद् अनुष्ठान-फलम् आह - एतद् इति । एतद् विभोः परमात्मनः व्रतं यथाविधि कृत्वा पुमान् इह लोके अभीप्सितार्थं लभते स्त्री तु तद् व्रतम् अनुष्ठाय सौभाग्य-सम्पत्-पुत्र-पति-दीर्घ-जीवन-कीर्ति-गृहान् लभते ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
कन्या च विन्देत समग्रलक्षणं
वरं त्ववीरा हतकिल्बिषा गतिम्।
मृतप्रजा जीवसुता धनेश्वरी
सुदुर्भगा सुभगा रूपमग्र्यम्॥
मूलम्
कन्या च विन्देत समग्रलक्षणं वरं त्ववीरा हतकिल्बिषा गतिम्।
मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम्॥ २६ ॥
वीरराघवः
अवीरा अलब्धभर्तृका कन्या तु एतद् व्रतम् आस्थाय समग्राणि लक्षणानि यस्य तं पतिं विन्देत लभेत यद् वा अवीरा विधवा तु हतं किल्बिषं यस्याः तां गतिं सद्-गतिं लभेत । मृता प्रजा पुत्रो यस्यास् सा जीवः सुतो यस्याः सा भवेत् तथा सु-दुर्भगा सौभाग्य-रहिता सु-भगा भवेत् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
विन्देद् विरूपा विरुजा विमुच्यते
य आमयावीन्द्रियकल्पदेहम्।
एतत्पठन्नभ्युदये च कर्म-
ण्यनन्ततृप्तिः पितृदेवतानाम्॥
मूलम्
विन्देद् विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्पदेहम्।
एतत्पठन्नभ्युदये च कर्मण्यनन्ततृप्तिः पितृदेवतानाम्॥ २७ ॥
अनुवाद (हिन्दी)
इस व्रतका अनुष्ठान करनेवाली कन्या समस्त शुभ लक्षणोंसे युक्त पति प्राप्त करती है और विधवा इस व्रतसे निष्पाप होकर वैकुण्ठमें जाती है। जिसके बच्चे मर जाते हों, वह स्त्री इसके प्रभावसे चिरायु पुत्र प्राप्त करती है। धनवती किन्तु अभागिनी स्त्रीको सौभाग्य प्राप्त होता है और कुरूपाको श्रेष्ठ रूप मिल जाता है। रोगी इस व्रतके प्रभावसे रोगमुक्त होकर बलिष्ठ शरीर और श्रेष्ठ इन्द्रियशक्ति प्राप्त कर लेता है। जो मनुष्य मांगलिक श्राद्धकर्मोंमें इसका पाठ करता है, उसके पितर और देवता अनन्त तृप्ति लाभ करते हैं॥ २६-२७॥
वीरराघवः
विरूपा ऽग्र्यं श्रेष्ठं रूपं विन्देत यः पुमान् आमयावी रोगी सन्न् एतद् व्रतं कृत्वा विरुजः नानाविध-रोगाद् विमुच्यते, इन्द्रिय-कल्प-देहं पटुतरेन्द्रिय-देहं विन्देत । एवम् एतद् व्रत-कल्पम् अभ्युदये कर्मणि पठन् यो वर्तते तस्य पितॄणां देवानां चानन्त-तृप्तिर् भवति ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
तुष्टाः प्रयच्छन्ति समस्तकामान्
होमावसाने हुतभुक् श्रीर्हरिश्च।
राजन् महन्मरुतां जन्म पुण्यं
दितेर्व्रतं चाभिहितं महत्ते॥
मूलम्
तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीर्हरिश्च।
राजन् महन्मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत्ते॥ २८ ॥
अनुवाद (हिन्दी)
वे सन्तुष्ट होकर हवनके समाप्त होनेपर व्रतीकी समस्त इच्छाएँ पूर्ण कर देते हैं। ये सब तो सन्तुष्ट होते ही हैं, समस्त यज्ञोंके एकमात्र भोक्ता भगवान् लक्ष्मीनारायण भी सन्तुष्ट हो जाते हैं और व्रतीकी समस्त अभिलाषाएँ पूर्ण कर देते हैं। परीक्षित्! मैंने तुम्हें मरुद्गणकी आदरणीय और पुण्यप्रद जन्म-कथा सुनायी और साथ ही दितिके श्रेष्ठ पुंसवन-व्रतका वर्णन भी सुना दिया॥ २८॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां षष्ठस्कन्धे पुंसवनव्रतकथनं नामैकोनविंशोऽध्यायः॥ १९ ॥
॥ इति षष्ठः स्कन्धः समाप्तः ॥
॥ हरिः ॐ तत्सत् ॥
वीरराघवः
ते च पितरो देवाश् च तस्मै पठते सर्वान् कामान् प्रयच्छन्ति पितृ-दैवतयोर्-होमयोर् अवसाने साक्षाद् धरिः श्रीश् च हुतभुग् भवेत् ताव् अपि प्रसन्नौ भवेताम् इत्य् अर्थः । उक्तम् उपसंहरति - राजन्न् इति । हे राजन्, मरुतां महत्-पुण्यं जन्म तथा महत्-पुण्यं दितेर् व्रतं पुंसवनं च ते तुभ्यं मया अभिहितम् ॥ २८ ॥
इति श्री-वत्सान्वय-पयः-पारावार-राका-सुधाकरस्य सर्व-विद्या-निधेः श्री-शैल-गुरोः सुतेन, तत्-चरण-कमल-परिचर्या-प्रसन्न-तत्-सूक्ति-समधिगत-श्रीमद्-भागवतार्थ-हृदयेन श्री-वैष्णव-दासेन श्री-वात्स्य-श्री-वीर-राघव-विदुषा विरचितायां श्रीमद्-भागवत-चन्द्र-चन्द्रिकायां श्रीमद्-भागवत-व्याख्यायां षष्ठे स्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥
समाप्तोऽयं षष्ठ-स्कन्धः ॥ ६ ॥