१८ मरुदुत्पत्तिकथनम्

[अष्टादशोऽध्यायः]

भागसूचना

अदिति और दितिकी सन्तानोंकी तथा मरुद‍्गणोंकी उत्पत्तिका वर्णन

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम्।
अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान्॥

मूलम्

पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम्।
अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान्॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! सविताकी पत्नी पृश्निके गर्भसे आठ सन्तानें हुईं—सावित्री, व्याहृति, त्रयी, अग्निहोत्र, पशु, सोम, चातुर्मास्य और पंचमहायज्ञ॥ १॥

वीरराघवः

एवं दाक्षायण्याः कश्यपस्य भार्याया अदितैर्वंशमुपक्रम्य विवस्वदर्यमपूष्णां तत्पुत्राणां वंशमभिधाय ततस्त्वष्टुर्वंशस्तदनु प्रयुक्तञ्चाभिहितम् अथ सवित्रादीनां वंशमुपक्रमते मुनिः - पृश्निरित्यादिना । सवितुः पत्नी पृश्निः सावित्र्याद्यभिमानिदेवताः प्रासूतेत्युत्तरस्यानुषङ्गः पशुं पशुयागं तदभिमानिदेवताः प्रासूतेत्युत्तरस्यानुषङ्गः । पशुं पशुयागं तदभिमानिदेवताविशेषमिति एवमुत्तरत्रापि महामखान् पञ्चमहायज्ञान् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम्।
आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम्॥

मूलम्

सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम्।
आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम्॥ २ ॥

अनुवाद (हिन्दी)

भगकी पत्नी सिद्धिने महिमा, विभु और प्रभु—ये तीन पुत्र और आशिष् नामकी एक कन्या उत्पन्न की। यह कन्या बड़ी सुन्दरी और सदाचारिणी थी॥ २॥

वीरराघवः

एवं भगस्य भार्या सिद्धिरिति प्रसिद्धा अङ्गादींश्चतुरः पुत्रान् सुव्रतां सुशीलां वरारोहामत्यन्तसुन्दरीमाशीर्नाम्नीं कन्याञ्च प्रासूत ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

धातुः कुहूः सिनीवाली राका चानुमतिस्तथा।
सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात्॥

मूलम्

धातुः कुहूः सिनीवाली राका चानुमतिस्तथा।
सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात्॥ ३ ॥

अनुवाद (हिन्दी)

धाताकी चार पत्नियाँ थीं—कुहू, सिनीवाली, राका और अनुमति। उनसे क्रमशः सायं, दर्श, प्रातः और पूर्णमास—ये चार पुत्र हुए॥ ३॥

वीरराघवः

धातुः पत्न्यः कुहूप्रभृतयश्चतस्रः अनुक्रमात् सायादीन् चतुरः पुत्रान् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

अग्नीन् पुरीष्यानाधत्त क्रियायां समनन्तरः।
चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः॥

मूलम्

अग्नीन् पुरीष्यानाधत्त क्रियायां समनन्तरः।
चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः॥ ४ ॥

अनुवाद (हिन्दी)

धाताके छोटे भाईका नाम था—विधाता, उनकी पत्नी क्रिया थी। उससे पुरीष्य नामके पाँच अग्नियोंकी उत्पत्ति हुई। वरुणजीकी पत्नीका नाम चर्षणी था। उससे भृगुजीने पुनः जन्म ग्रहण किया। इसके पहले वे ब्रह्माजीके पुत्र थे॥ ४॥

वीरराघवः

तथा धातुः समनन्तरो विधाता क्रियायां पत्न्यामग्नीन्पुरीष्यसंज्ञकानिष्टकचिताग्नीनाधत्त जनयामास ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

वाल्मीकिश्च महायोगी वल्मीकादभवत्किल।
अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोर्ऋषी॥

मूलम्

वाल्मीकिश्च महायोगी वल्मीकादभवत्किल।
अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोर्ऋषी॥ ५ ॥

वीरराघवः

वरुणस्य चर्षणीति प्रसिद्धा भार्या आसीत् भृगुः पूर्वं ब्रह्मणः पुत्रो यस्यां चर्षण्यां पुनर्जातः तथा वरुणस्यैव पुत्रो वाल्मीकिर्महायोगी वल्मीकादभवत् एतौ वरुणस्यासाधारणौ पुत्रौ ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम्।
रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात्॥

मूलम्

रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम्।
रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात्॥ ६ ॥

अनुवाद (हिन्दी)

महायोगी वाल्मीकिजी भी वरुणके पुत्र थे। वल्मीकसे पैदा होनेके कारण ही उनका नाम वाल्मीकि पड़ गया था। उर्वशीको देखकर मित्र और वरुण दोनोंका वीर्य स्खलित हो गया था। उसे उन लोगोंने घड़ेमें रख दिया। उसीसे मुनिवर अगस्त्य और वसिष्ठजीका जन्म हुआ। मित्रकी पत्नी थी रेवती। उसके तीन पुत्र हुए—उत्सर्ग, अरिष्ट और पिप्पल॥ ५-६॥

वीरराघवः

तथा रेवत्यां भार्यायां मित्रस्योत्सर्गादयोऽसाधारणाः सुताः उभयोस्साधारणौ सुतौ अगस्त्यवसिष्ठौ ऋषी, कथमेकैकस्योभयसुतत्वम् ? तत्राह - रेत इति । कदाचिन्मित्रावरुणौ ऊर्वश्या अप्सरसः सन्निधौ द्रुतं स्खलितं रेतः कुम्भे घटे सिषिचतुः सिक्तवन्तौ तत्र कुम्भे वसिष्ठागस्त्यौ जातौ इति भावः । रेवत्यामित्यर्द्धं व्याख्यातप्रायं व्यधात् जनयामासेत्यर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति नः श्रुतम्।
जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः॥

मूलम्

पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति नः श्रुतम्।
जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः॥ ७ ॥

अनुवाद (हिन्दी)

प्रिय परीक्षित्! देवराज इन्द्रकी पत्नी थीं पुलोमनन्दिनी शची। उनसे हमने सुना है, उन्होंने तीन पुत्र उत्पन्न किये—जयन्त, ऋषभ और मीढ्वान्॥ ७॥

वीरराघवः

हे तात, प्रभुरिन्द्रशक्रः पौलोम्यां शच्यां पत्न्याञ्जयन्तमृषभं तृतीयं मीढुषम् इति श्रीन्पुत्रानजनयदिति नोऽस्माभिः श्रुतम् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

उरुक्रमस्य देवस्य मायावामनरूपिणः।
कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन् सौभगादयः॥

मूलम्

उरुक्रमस्य देवस्य मायावामनरूपिणः।
कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन् सौभगादयः॥ ८ ॥

अनुवाद (हिन्दी)

स्वयं भगवान् विष्णु ही (बलिपर अनुग्रह करने और इन्द्रका राज्य लौटानेके लिये) मायासे वामन (उपेन्द्र)-के रूपमें अवतीर्ण हुए थे। उन्होंने तीन पग पृथ्वी माँगकर तीनों लोक नाप लिये थे। उनकी पत्नीका नाम था कीर्ति। उससे बृहच्छ्लोक नामका पुत्र हुआ। उसके सौभग आदि कई सन्तानें हुईं॥ ८॥

वीरराघवः

तथोरुक्रमस्य त्रिभिः पादक्रमैः लोकत्रयमाकान्तवतो मायया आत्मीयसङ्कल्पेन वामनरूपेणावतीर्णस्य कीर्त्त्याख्यायां भार्यायां बृहच्छ्लोकः पुत्र आसीत् तस्य बृहच्छ्लोकस्य सौभगादयः पुत्रा आसन् ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः।
पश्चाद्वक्ष्यामहेऽदित्यां यथा वावततार ह॥

मूलम्

तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः।
पश्चाद्वक्ष्यामहेऽदित्यां यथा वावततार ह॥ ९ ॥

अनुवाद (हिन्दी)

कश्यपनन्दन भगवान् वामनने माता अदितिके गर्भसे क्यों जन्म लिया और इस अवतारमें उन्होंने कौन-से गुण, लीलाएँ और पराक्रम प्रकट किये—इसका वर्णन मैं आगे (आठवें स्कन्धमें) करूँगा॥ ९॥

वीरराघवः

काश्यपस्य कश्यपपुत्रस्य महात्मनः उरुक्रमस्य तानि प्रसिद्धानि कर्माणि पदत्रयेण लोकत्रययाच्छनादीनि गुणाः स्वभक्तविषयकानुग्रहादयः सर्वशक्त्यादयश्च वीर्याणि उत्कृष्टगुणैरन्येभ्यः उत्कर्षो हि वीर्यं तद्रूपाणि वीर्याणि च पश्चादष्टमस्कन्धे वक्ष्यामहे तथा अदित्यां यथा येन प्रकारेण अवततार अवतीर्णवान् तञ्च प्रकारं तत्रैव वक्ष्यामह इत्यर्थः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते।
यत्र भागवतः श्रीमान् प्रह्रादो बलिरेव च॥

मूलम्

अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते।
1त्र भागवतः श्रीमान् प्रह्रादो बलिरेव च॥ १० ॥

अनुवाद (हिन्दी)

प्रिय परीक्षित्! अब मैं कश्यपजीकी दूसरी पत्नी दितिसे उत्पन्न होनेवाली उस सन्तानपरम्पराका वर्णन सुनाता हूँ, जिसमें भगवान‍्के प्यारे भक्त श्रीप्रह्लादजी और बलिका जन्म हुआ॥ १०॥

वीरराघवः

एवं साकल्येनादितेर्वंशमनुक्रम्याथ दितेर्वंशस्यानुक्रमं प्रतिजानीते - अथेति । काश्यपादीनां विवस्वदादीनामादितेयानां दायादान् सपिण्डान् शत्रून्वा दैतेयान् दितेः पुत्रान् ते तुभ्यं कीर्तयामि कथयामि तद्वंशे भागवतानामभावान्न तच्छ्रवणं ममापेक्षितमिति राज्ञोऽभिप्रायमालोच्याह - यत्रेति । यत्र दितेर्वंशे श्रीमान् भगवता तुल्यं कल्याणगुणसंयुक्तः महाभागवतः प्रह्लादः बलिश्च बभूवतुः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ।
हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ॥

मूलम्

दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ।
हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ॥ ११ ॥

अनुवाद (हिन्दी)

दितिके दैत्य और दानवोंके वन्दनीय दो ही पुत्र हुए—हिरण्यकशिपु और हिरण्याक्ष। इनकी संक्षिप्त कथा मैं तुम्हें (तीसरे स्कन्धमें) सुना चुका हूँ॥ ११॥

वीरराघवः

तर्हि कथयेत्यत्राह - दितेरिति । दितेर्द्वावेव दायादौ काश्यपानां देवानां शत्रू मरुतामदायादत्वस्य वक्ष्यमाणत्वाद् द्वावेवेत्युक्तः पुत्रौ दैत्यैस्तत्पुत्रपौत्रादिभिर्दानवैश्च वन्दितौ बभूवतुः । तौ च हिरण्यकशिपुर्हिरण्याक्षश्चेति कीर्तितौ प्रख्यातौ ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी।
जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान्॥

मूलम्

हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी।
जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान्॥ १२ ॥

वीरराघवः

तत्र हिरण्यकशिपोर्भार्या जन्मस्य दुहिता दानवी दनुवंशोद्भवा कयाधुरिति प्रसिद्धा सा कयाधुः प्रह्लादादीन् चतुरः सुतान् सुषुवे ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

संह्रादं प्रागनुह्रादं ह्रादं प्रह्रादमेव च।
तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत्॥

मूलम्

संह्रादं प्रागनुह्रादं ह्रा2दं प्रह्लादमेव च।
तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत्॥ १३ ॥

अनुवाद (हिन्दी)

हिरण्यकशिपुकी पत्नी दानवी कयाधु थी। उसके पिता जम्भने उसका विवाह हिरण्यकशिपुसे कर दिया था। कयाधुके चार पुत्र हुए—संह्राद, अनुह्राद, ह्राद और प्रह्राद। इनकी सिंहिका नामकी एक बहिन भी थी। उसका विवाह विप्रचित्ति नामक दानवसे हुआ। उससे राहु नामक पुत्रकी उत्पत्ति हुई॥ १२-१३॥

वीरराघवः

प्राक् प्रथमं प्रह्लादं ततः क्रमेणानुह्लादसंह्लादह्लादान् सुषुवे इत्यर्थः । तत्स्वसा तेषां प्रह्लादादीनां चतुर्णां स्वसा भगिनी सिंहिकेति प्रसिद्धा बभूव सा विप्रचितः विप्रचितेर्भर्तुर्दानवात्सकाशाद्राहुं पुत्रमग्रहीत् सुषुव इत्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम्।
संह्रादस्य कृतिर्भार्यासूत पञ्चजनं ततः॥

मूलम्

शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम्।
संह्रादस्य कृ3तिर्भार्यासूत पञ्चजनं ततः॥ १४ ॥

अनुवाद (हिन्दी)

यह वही राहु है, जिसका सिर अमृतपानके समय मोहिनीरूपधारी भगवान‍्ने चक्रसे काट लिया था। संह्रादकी पत्नी थी कृति। उससे पंचजन नामक पुत्र उत्पन्न हुआ॥ १४॥

वीरराघवः

राहुं विशिनष्टि - शिर इति । यस्य राहोरमृतं पिबतः शिरश्चक्रेण चिच्छेद संह्लादस्य हिरण्यकशिपोस्सुतस्य मतिर्नाम भार्या पञ्चजनाख्यं सुतमसूत सुषुवे ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम्।
योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः॥

मूलम्

ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम्।
योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः॥ १५ ॥

अनुवाद (हिन्दी)

ह्रादकी पत्नी थी धमनि। उसके दो पुत्र हुए—वातापि और इल्वल। इस इल्वलने ही महर्षि अगस्त्यके आतिथ्यके समय वातापिको पकाकर उन्हें खिला दिया था॥ १५॥

वीरराघवः

तथा ह्लादस्य भार्या धमनीति प्रसिद्धा वातापिमिल्वलञ्चासूत, इल्वलं विशिनष्टि — य इति, अतिथये आतिथ्यार्थं निमन्त्रितायातिथये अगस्त्याय इल्वलो मेषरूपं वातापिं पेचे पपाच तमिल्वलमित्यन्वयः । वातापिमिल्वल इति प्रथमान्तपाठस्तु सुगमः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

अनुह्रादस्य सूर्म्यायां बाष्कलो महिषस्तथा।
विरोचनस्तु प्राह्रादिर्देव्यास्तस्याभवद‍्बलिः॥

मूलम्

अनुह्रादस्य सू4र्म्यायां बाष्कलो महिषस्तथा।
विरोचनस्तु प्राह्रादिर्देव्यास्तस्याभवद‍्बलिः॥ १६ ॥

अनुवाद (हिन्दी)

अनुह्रादकी पत्नी सूर्म्या थी, उसके दो पुत्र हुए—बाष्कल और महिषासुर। प्रह्रादका पुत्र था विरोचन। उसकी पत्नी देवीके गर्भसे दैत्यराज बलिका जन्म हुआ॥ १६॥

वीरराघवः

तथा अनुह्लादस्य सूर्म्यायां भार्यायां बाष्कलो महिष इति द्वौ पुत्रौ बभूवतुः तथा धुन्यां प्रह्लादस्य भार्यायां विरोचनः प्राह्लादिः प्रह्लादस्थापत्यं पुमान् बभूव, तस्य विरोचनस्य पुत्रो बलिरभवत् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत्।
तस्यानुभावः सुश्लोक्यः पश्चादेवाभिधास्यते॥

मूलम्

बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत्।
तस्यानुभावः सुश्लोक्यः पश्चादेवाभिधास्यते॥ १७ ॥

अनुवाद (हिन्दी)

बलिकी पत्नीका नाम अशना था। उससे बाण आदि सौ पुत्र हुए। दैत्यराज बलिकी महिमा गान करनेयोग्य है। उसे मैं आगे (आठवें स्कन्धमें) सुनाऊँगा॥ १७॥

वीरराघवः

ततो बलेः शमनायां भार्यायां बाणः ज्येष्ठो यस्य तत्पुत्राणां शतमभवत् तस्य प्रह्लादस्य बलेर्वा अनुभावः प्रभावः सुश्लोक्यः अतीव वर्णनीयः स पश्चादेव सप्तमेऽष्टमे वा अभिधास्यते कथयिष्यते ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

बाण आराध्य गिरिशं लेभे तद‍्गणमुख्यताम्।
यत्पार्श्वे भगवानास्ते ह्यद्यापि पुरपालकः॥

मूलम्

बाण आराध्य गिरिशं लेभे तद‍्गणमुख्यताम्।
यत्पार्श्वे भगवानास्ते ह्यद्यापि पुरपालकः॥ १८ ॥

अनुवाद (हिन्दी)

बलिका पुत्र बाणासुर भगवान् शंकरकी आराधना करके उनके गणोंका मुखिया बन गया। आज भी भगवान् शंकर उसके नगरकी रक्षा करनेके लिये उसके पास ही रहते हैं॥ १८॥

वीरराघवः

बाणस्तु गिरिशं रुद्रमाराध्य तद्भृत्यवर्गेषु मुख्यतां लेभे तदेव व्यञ्जयन् बाणं विशिनष्टि, यस्य बाणस्य पार्श्वे अद्यापि पुरेपालकः स भगवान् गिरिश आस्ते ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

मरुतश्च दितेः पुत्राश्चत्वारिंशन्नवाधिकाः।
त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम्॥

मूलम्

मरुतश्च दितेः पुत्राश्चत्वारिंशन्नवाधिकाः।
त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम्॥ १९ ॥

अनुवाद (हिन्दी)

दितिके हिरण्यकशिपु और हिरण्याक्षके अतिरिक्त उनचास पुत्र और थे। उन्हें मरुद‍्गण कहते हैं। वे सब निःसन्तान रहे। देवराज इन्द्रने उन्हें अपने ही समान देवता बना लिया॥ १९॥

वीरराघवः

अन्यानपि दितेः पुत्रानाह - मरुतश्चेति । चकारो हिरण्यकशिपुहिरण्याक्षयोस्समुच्चयार्थः । मरुतो मरुद्गणाः चत्वारिंशन्नवाधिकाः एकोनपञ्चाशत्संख्याकाः दितेः पुत्रा एव ते सर्वे मरुतः अप्रजाः अपुत्राः आसन् ते चेन्द्रेण सात्मतां समानरूपत्वं देवत्वमिति यावत् नीताः प्रापिताः । अतो न देवानां दायादा इति भावः ॥ १९ ॥

श्लोक-२०

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो।
इन्द्रेण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः॥

मूलम्

कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो।
इन्द्रेण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः॥ २० ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—भगवन्! मरुद‍्गणने ऐसा कौन-सा सत्कर्म किया था, जिसके कारण वे अपने जन्मजात असुरोचित भावको छोड़ सके और देवराज इन्द्रके द्वारा देवता बना लिये गये?॥ २०॥

वीरराघवः

एतदेव शुश्रूषुः पृच्छति राजा - कथमिति द्वाभ्यां हे गुरो ! मुने, ते मरुतः कथमौत्पत्तिकं जन्मसिद्धमासुरम्भावमपोह्य त्यक्त्वा इन्द्रेण सात्म्यं देवत्वं प्रापिताः देवत्वप्राप्तौ तैर्मरुद्भिः किं तस्येन्द्रस्य साधु हितं कृतम् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह।
परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि॥

मूलम्

इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह।
परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि॥ २१ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! मेरे साथ यहाँकी सभी ऋषिमण्डली यह बात जाननेके लिये अत्यन्त उत्सुक हो रही है। अतः आप कृपा करके विस्तारसे वह रहस्य बतलाइये॥ २१॥

वीरराघवः

न केवलमिदमहमेव शुश्रूषुरपि तु हे ब्रह्मन्, इमे ऋषयोऽपि परिज्ञानाय वेदितुं श्रद्दधते श्रद्धां कुर्वन्ति, अतो हे भगवन्, नोऽस्मभ्यं व्याख्यातुं कथयितुमर्हसि ॥ २१ ॥

श्लोक-२२

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

तद्विष्णुरातस्य स बादरायणि-
र्वचो निशम्यादृतमल्पमर्थवत्।
सभाजयन् संनिभृतेन चेतसा
जगाद सत्रायण सर्वदर्शनः॥

मूलम्

तद्विष्णुरातस्य स बादरायणिर्वचो निशम्यादृतमल्पम5र्थवत्।
सभाज6यन् संनिभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः॥ २२ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—शौनकजी! राजा परीक्षित् का प्रश्न थोड़े शब्दोंमें बड़ा सारगर्भित था। उन्होंने बड़े आदरसे पूछा भी था। इसलिये सर्वज्ञ श्रीशुकदेवजी महाराजने बड़े ही प्रसन्न चित्तसे उनका अभिनन्दन करके यों कहा॥ २२॥

वीरराघवः

एवमापृष्टो मुनिः प्रश्नमभिनन्दयन् यथावदाचख्यौ इत्याह सूतः - तदिति । बादरायणस्यापत्यं पुमान् । विष्णुरातः श्रीशुकः अल्पं मिताक्षरमर्थवदाशयगर्भं तस्य राज्ञस्तद्वचः आदृतं सादरं यथा भवति तथा निशम्य निभृतेन चेतसा पूर्णेनान्तःकरणेन तं राजानं संभावयन् सम्मानयन् सर्वज्ञो मुनिः हे सत्रायण, सत्रं ब्रह्मसत्रम् अयनमाश्रयो यस्य स ब्रह्मसत्रेण दीक्षित इत्यर्थः । तस्य सम्बोधनं है शौनक, जगाद ॥ २२ ॥

श्लोक-२३

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

हतपुत्रा दितिः शक्रपार्ष्णिग्राहेण विष्णुना।
मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत्॥

मूलम्

हतपुत्रा दितिः शक्रपार्ष्णिग्राहेण विष्णुना।
मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत्॥ २३ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहने लगे—परीक्षित्! भगवान् विष्णुने इन्द्रका पक्ष लेकर दितिके दोनों पुत्र हिरण्यकशिपु और हिरण्याक्षको मार डाला। अतः दिति शोककी आगसे उद्दीप्त क्रोधसे जलकर इस प्रकार सोचने लगी॥ २३॥

वीरराघवः

तदेवाह - हतपुत्रेति । शक्रपार्ष्णिग्राहेण शक्रमिन्द्रं पार्ष्णिं पक्षं स्वीयत्वेन ग्राहिणा ग्रहीतवता विष्णुना हतौ पुत्रौ हिरण्याक्षहिरण्यकशिपू यस्याः सा दितिः अत एव शोकेन दीप्तो यो मन्युः क्रोधस्तेन ज्वलन्ती परितपन्ती पर्यचिन्तयत् परितश्चिन्तामकरोत् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम्।
अक्लिन्नहृदयं पापं घातयित्वा शये सुखम्॥

मूलम्

कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम्।
अक्लिन्नहृदयं पापं घातयित्वा शये सुखम्॥ २४ ॥

अनुवाद (हिन्दी)

‘सचमुच इन्द्र बड़ा विषयी, क्रूर और निर्दयी है। राम! राम! उसने अपने भाइयोंको ही मरवा डाला। वह दिन कब होगा, जब मैं भी उस पापीको मरवाकर आरामसे सोऊँगी॥ २४॥

वीरराघवः

चिन्तामेव वर्णयति - कदेति । भ्रात्रोर्हिरण्यकशिपुर्हिरण्याक्षयोः हन्तारं विष्णुद्वारा हन्तारं, तत्र हेतुः इन्द्रियारामं केवलवैषयिकसुखासक्तम् उल्बणं क्रूरम् अक्लिन्नहृदयम् अनार्द्रचित्तम् अत एव पापं पापात्मानम् इन्द्रं धातयित्वा कथमहं सुखं यथा तथा स्वपे सञ्जातनिद्रा भवेयम् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

कृमिविड्भस्मसंज्ञाऽऽसीद्यस्येशाभिहितस्य च।
भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः॥

मूलम्

कृमिविड्भस्मसंज्ञाऽऽसीद्यस्येशाभिहितस्य च।
भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः॥ २५ ॥

अनुवाद (हिन्दी)

लोग राजाओंके, देवताओंके शरीरको ‘प्रभु’ कहकर पुकारते हैं; परन्तु एक दिन वह कीड़ा, विष्ठा या राखका ढेर हो जाता है, इसके लिये जो दूसरे प्राणियोंको सताता है, उसे अपने सच्चे स्वार्थ या परमार्थका पता नहीं है; क्योंकि इससे तो नरकमें जाना पड़ेगा॥ २५॥

वीरराघवः

ननु, सर्वोऽपि लोकः स्वसुखाय परस्याहितमाचरति, किमनेनाक्रोशेन ? तत्राह - कृमीति । ईशाभिहितस्य “ईश्वरोहमहं भोगी” इत्युक्तरीत्या स्वेनैवेशत्वेनाभिहितस्य ईशं मन्यमानस्यापि यस्य पुंसः मरणानन्तरं देहस्य दाहाभावे कृमिरिति, तत्समये श्वादिभिर्भक्षितस्य विष्ठेति, दग्धस्य तु भस्मेति, संज्ञा आसीत् तत्कृते तादृशदेहसुखार्थं भूतध्रुक् भूतहिंसाकारी स किं स्वार्थं पुरुषार्थं वेद न वेदैवेत्यर्थः । कुतः ? यतो भूतद्रोहाद्धेतोस्तस्यां ततो निरयो नरक एव अतो भूतधुक् स्वार्थमपि न जानात्येवेति भावः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः।
मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे॥

मूलम्

आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः।
मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे॥ २६ ॥

मूलम् - कर्णावती

आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः।
मदशोषक इन्द्रस्य भूयाद् येन सुतो हि मे॥ २६ ॥

अनुवाद (हिन्दी)

मैं समझती हूँ इन्द्र अपने शरीरको नित्य मानकर मतवाला हो रहा है। उसे अपने विनाशका पता ही नहीं है। अब मैं वह उपाय करूँगी, जिससे मुझे ऐसा पुत्र प्राप्त हो, जो इन्द्रका घमण्ड चूर-चूर कर दे’॥ २६॥

वीरराघवः

इदं शरीरमेवाशासानस्य आत्मानं मन्यमानस्य उन्नद्धमुच्छृङ्खलं चेतो यस्य तस्येन्द्रस्य यो मदस्तस्य शोषकृत्पुत्रो मम येन कारणेन ध्रुवं नूनं भूयात् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

इति भावेन सा भर्तुराचचारासकृत्प्रियम्।
शुश्रूषयानुरागेण प्रश्रयेण दमेन च॥

मूलम्

इति भावेन सा भर्तुराचचारासकृत्प्रियम्।
शुश्रूषयानुरागेण प्रश्रयेण दमेन च॥ २७ ॥

अनुवाद (हिन्दी)

दिति अपने मनमें ऐसा विचार करके सेवा-शुश्रूषा, विनय-प्रेम और जितेन्द्रियता आदिके द्वारा निरन्तर अपने पतिदेव कश्यपजीको प्रसन्न रखने लगी॥ २७॥

वीरराघवः

हे राजन्, इत्थं भावेनाभिप्रायेण सा दितिर्भर्त्तुः कश्यपस्य शुश्रूषादिभिरसकृत्प्रियं हितम् आचचार आचरितवतीत्यर्थः । तत्र शुश्रूषा सेवा परिचर्येति यावत्, अनुरागः स्नेहः प्रश्रयो विनयः दमः इन्द्रियनिग्रहः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः।
मनो जग्राह भावज्ञा सुस्मितापाङ्गवीक्षणैः॥

मूलम्

भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः।
मनो जग्राह भावज्ञा सुस्मितापाङ्गवीक्षणैः॥ २८ ॥

अनुवाद (हिन्दी)

वह अपने पतिदेवके हृदयका एक-एक भाव जानती रहती थी और परम प्रेमभाव, मनोहर एवं मधुर भाषण तथा मुसकान भरी तिरछी चितवनसे उनका मन अपनी ओर आकर्षित करती रहती थी॥ २८॥

वीरराघवः

भावज्ञा दितिर्वल्गुभाषितैः मधुरालापैः सस्मितैः मन्दहाससहितैः अपाङ्गवीक्षणैः कश्यपस्य मनो जग्राह स्ववशीकृतवती बभूव ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

एवं स्त्रिया जडीभूतो विद्वानपि विदग्धया।
बाढमित्याह विवशो न तच्चित्रं हि योषिति॥

मूलम्

एवं स्त्रिया जडीभूतो विद्वानपि विदग्धया।
बाढमित्याह विवशो न तच्चित्रं हि योषिति॥ २९ ॥

अनुवाद (हिन्दी)

कश्यपजी महाराज बड़े विद्वान् और विचारवान् होनेपर भी चतुर दितिकी सेवासे मोहित हो गये और उन्होंने विवश होकर यह स्वीकार कर लिया कि ‘मैं तुम्हारी इच्छा पूर्ण करूँगा।’ स्त्रियोंके सम्बन्धमें यह कोई आश्चर्यकी बात नहीं है॥ २९॥

वीरराघवः

कथं जितेन्द्रियस्य तस्य विदुषः स्त्रीवश्यता ? तत्राह - एवमिति । विद्वानपि विदग्धया पुरुषवञ्चननैपुण्ययुक्तया स्त्रिया दित्या जडीभूतः मोहं प्रापितः । अत एव विवशः परवशः बाढमित्याह सम्भोगार्थमङ्गीकृतवानित्यर्थः । योषिति स्वयङ्कामयमानायां स्त्रियां पुरुषस्य तद्बाढमिति वचो न चित्रं हीति लोकचरित्रप्रदर्शनम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः।
स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता॥

मूलम्

विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापतिः।
स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता॥ ३० ॥

अनुवाद (हिन्दी)

सृष्टिके प्रभातमें ब्रह्माजीने देखा कि सभी जीव असंग हो रहे हैं, तब उन्होंने अपने आधे शरीरसे स्त्रियोंकी रचना की और स्त्रियोंने पुरुषोंकी मति अपनी ओर आकर्षित कर ली॥ ३०॥

वीरराघवः

प्रजापतिः कश्यपः आदौ प्रथमं भूतानि स्त्रीपुंसरूपाणि भूतानि एकान्तभूतानि एकान्तरूपाणि । एकान्तान्येकदेश इवाविभागेन लक्ष्यमाणानि एकान्तभूतानि विलोक्य परस्परमेकशरीरवन्मिलितानि भवन्तीत्यालोच्येत्यर्थः । स्वयमपि स्त्रियं स्वदेहस्यार्द्धम् अर्द्धांशञ्चक्रे मिथुनीभूतो बभूवेत्यर्थः । एवं करणे हेतुं वदन् सामान्यतः स्त्रियं विशिनष्टि - यया स्त्रिया पुंसां मतिर्हृता भवतीति लोकरीत्युक्तिः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया।
प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च॥

मूलम्

एवं शु7श्रूषितस्तात भगवान् कश्यपः स्त्रिया।
प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च॥ ३१ ॥

अनुवाद (हिन्दी)

हाँ, तो भैया! मैं कह रहा था कि दितिने भगवान् कश्यपकी बड़ी सेवा की। इससे वे उसपर बहुत ही प्रसन्न हुए। उन्होंने दितिका अभिनन्दन करते हुए उससे मुसकराकर कहा॥ ३१॥

वीरराघवः

भगवान् कश्यपः स्त्रिया दित्या एवं सम्भोगेन शुश्रूषितः परिचरितः अत एव नितरां प्रीतः अभिनन्द्य तस्याः सम्भोगकौशलमभिनन्द्य प्रहस्य दितिं प्रति इदं वक्ष्यमाणमाह ॥ ३१ ॥

श्लोक-३२

मूलम् (वचनम्)

कश्यप उवाच

विश्वास-प्रस्तुतिः

वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते।
स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः॥

मूलम्

वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते।
स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः॥ ३२ ॥

अनुवाद (हिन्दी)

कश्यपजीने कहा—अनिन्द्यसुन्दरी प्रिये! मैं तुमपर प्रसन्न हूँ। तुम्हारी जो इच्छा हो, मुझसे माँग लो। पतिके प्रसन्न हो जानेपर पत्नीके लिये लोक या परलोकमें कौन-सी अभीष्ट वस्तु दुर्लभ है॥ ३२॥

वीरराघवः

तदेवाह - वरमिति । हे वामोरु ! हे अनिन्दिते ! वरमभीष्टं वरय कामयस्व भर्तरि स्त्रियाः नितरां प्रीते सति इह लोके चकारात्परत्र च लोके अगमोऽप्राप्यः कामः को वा ? न कोऽप्यस्तीत्यर्थः । स्त्रियाऽप्राप्य इति वान्वयः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

पतिरेव हि नारीणां दैवतं परमं स्मृतम्।
मानसः सर्वभूतानां वासुदेवः श्रियः पतिः॥

मूलम्

पतिरेव हि नारीणां दैवतं परमं स्मृतम्।
मानसः सर्वभूतानां वासुदेवः श्रियः पतिः॥ ३३ ॥

अनुवाद (हिन्दी)

शास्त्रोंमें यह बात स्पष्ट कही गयी है कि पति ही स्त्रियोंका परमाराध्य इष्टदेव है। प्रिये! लक्ष्मीपति भगवान् वासुदेव ही समस्त प्राणियोंके हृदयमें विराजमान हैं॥ ३३॥

वीरराघवः

ननु, कर्मवश्येऽनीश्वरे भर्त्तरि प्रीते सति कथं सर्वत्र सर्वकामसौलभ्यम् ? तत्राह - पतिरिति । नारीणां पतिरेव हि सर्वोत्कृष्टं दैवतम् परमदैवप्रीणनेन सर्वकामसौलभ्यमिति भावः । ननु, “तं देवतानां परमञ्च दैवतम्” इति श्रुत्युक्तरीत्या श्रियः पतिर्हि परमं दैवतं न भर्ता, तत्राह मानस इति, यः सर्वभूतानां मानसः मनसः साक्षी वासुदेवः सर्वान्तरात्मा श्रियः पतिः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

स एव देवतालिङ्गैर्नामरूपविकल्पितैः।
इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक्॥

मूलम्

स एव देवतालिङ्गैर्नामरूपविकल्पितैः।
इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक्॥ ३४ ॥

अनुवाद (हिन्दी)

विभिन्न देवताओंके रूपमें नाम और रूपके भेदसे उन्हींकी कल्पना हुई है। सभी पुरुष—चाहे किसी भी देवताकी उपासना करें—उन्हींकी उपासना करते हैं। ठीक वैसे ही स्त्रियोंके लिये भगवान‍्ने पतिका रूप धारण किया है। वे उनकी उसी रूपमें पूजा करती हैं॥ ३४॥

वीरराघवः

स एव भगवान्नामरूपाभ्यां विकल्पितैः विभिन्नैर्देवतालिङ्गैः अग्नीन्द्रादिदेवतारूपैः शरीरैरिज्यते इदं दृष्टान्तार्थं “तदेवाग्निस्तद्वायुस्तत्सूर्य” इत्यादिश्रुत्युक्तरीत्या पुंभिर्यष्टृभिरग्न्यादिशरीरैर्द्वारभूतैर्यथा तदनन्तरात्मा भगवानिज्यते यागादिभिराराध्यते तथा स्त्रीभिरपि पतिरूपधृक् पतिशरीरकः परमात्मैव नानोपचारैस्तोष्यत इत्यर्थः । भगवति तुष्टे सति सर्वे कामाः सुलभाः इति भावः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

तस्मात्पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे।
यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम्॥

मूलम्

तस्मात्पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे।
यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम्॥ ३५ ॥

अनुवाद (हिन्दी)

इसलिये प्रिये! अपना कल्याण चाहनेवाली पतिव्रता स्त्रियाँ अनन्य प्रेमभावसे अपने पतिदेवकी ही पूजा करती हैं; क्योंकि पतिदेव ही उनके परम प्रियतम आत्मा और ईश्वर हैं॥ ३५॥

वीरराघवः

यत एवं तस्मात् हे सुमध्यमे ! श्रेयस्कामाः पतिव्रता नार्यः अनन्यभावेन अनन्यार्हशेषत्वेन ईश्वरात्मकं पतिमेवाराधयन्ति ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

सोऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः।
तत्ते सम्पादये काममसतीनां सुदुर्लभम्॥

मूलम्

सोऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः।
तत्ते सम्पादये काममसतीनां सुदुर्लभम्॥ ३६ ॥

अनुवाद (हिन्दी)

कल्याणी! तुमने बड़े प्रेमभावसे, भक्तिसे मेरी वैसी ही पूजा की है। अब मैं तुम्हारी सब अभिलाषाएँ पूर्ण कर दूँगा। असतियोंके जीवनमें ऐसा होना अत्यन्त दुर्लभ है॥ ३६॥

वीरराघवः

हे भद्रे ! यतोऽहमीदृशभावेन अनन्यभावेन भक्तितश्च त्वया अर्चितः तस्मात्ते तव काममिष्टं सम्पादये सिद्धवत्करोमि । कथंम्भूतमसतीनामपतिव्रतानां सुतरां दुर्लभं लब्धुमशक्यम् ॥ ३६ ॥

श्लोक-३७

मूलम् (वचनम्)

दितिरुवाच

विश्वास-प्रस्तुतिः

वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे।
अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ॥

मूलम्

वरदो8 यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे।
अमृत्युं मृ9तपुत्राहं येन मे घातितौ सुतौ॥ ३७ ॥

अनुवाद (हिन्दी)

दितिने कहा—ब्रह्मन्! इन्द्रने विष्णुके हाथों मेरे दो पुत्र मरवाकर मुझे निपूती बना दिया है। इसलिये यदि आप मुझे मुँहमाँगा वर देना चाहते हैं तो कृपा करके एक ऐसा अमर पुत्र दीजिये, जो इन्द्रको मार डाले॥ ३७॥

वीरराघवः

एवं वराय चोदिता दितिराह - वरद इति । हे ब्रह्मन् ! मम यदि त्वं वरदः वरं दद्यास्तर्ह्यमत्यैर्देवैः हतौ पुत्रौ यस्याः सा अहम् इन्द्रस्य हन्तारं पुत्रं वृणे येनेन्द्रेण प्रयोजकते भगवता प्रयोज्यकर्त्रा मे सुतौ हिरण्याक्षहिरण्यकशिपू घातितौ मारितौ ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत।
अहो अधर्मः सुमहानद्य मे समुपस्थितः॥

मूलम्

निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत।
अहो अधर्मः सुमहानद्य मे समुपस्थितः॥ ३८ ॥

अनुवाद (हिन्दी)

परीक्षित्! दितिकी बात सुनकर कश्यपजी खिन्न होकर पछताने लगे। वे मन-ही-मन कहने लगे—‘हाय! हाय! आज मेरे जीवनमें बहुत बड़े अधर्मका अवसर आ पहुँचा॥ ३८॥

वीरराघवः

एवं तस्याः दितेः वचो निशम्य विप्रः कश्यपः विमनाः खिन्नः । पर्यतप्यत परितापञ्चकार, तमेव परितापप्रकारमाह - अहो इति । अद्य महानधर्मो मम प्राप्तः । अहो इति खेदे ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

अहो अद्येन्द्रियारामो योषिन्मय्येह मायया।
गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम्॥

मूलम्

अहो अद्येन्द्रियारामो योषिन्म10य्येह मायया।
गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम्॥ ३९ ॥

अनुवाद (हिन्दी)

देखो तो सही, अब मैं इन्द्रियोंके विषयोंमें सुख मानने लगा हूँ। स्त्रीरूपिणी मायाने मेरे चित्तको अपने वशमें कर लिया है। हाय! हाय! आज मैं कितनी दीन-हीन अवस्थामें हूँ। अवश्य ही अब मुझे नरकमें गिरना पड़ेगा॥ ३९॥

वीरराघवः

अहो अस्मादधर्मादहं नरके ध्रुवं नूनं पतिष्ये कथम्भूतः इन्द्रियारामः अत एव योषिद्रूपया भगवन्मायया गृहीतं चेतो यस्य स अत एव कृपणः दीनः ॥ ३६ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः।
धिङ् मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः॥

मूलम्

कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः।
धि11ङ्मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः॥ ४० ॥

अनुवाद (हिन्दी)

इस स्त्रीका कोई दोष नहीं है; क्योंकि इसने अपने जन्मजात स्वभावका ही अनुसरण किया है। दोष मेरा है—जो मैं अपनी इन्द्रियोंको अपने वशमें न रख सका, अपने सच्चे स्वार्थ और परमार्थको न समझ सका। मुझ मूढको बार-बार धिक्‍कार है॥ ४०॥

वीरराघवः

स्वभावं स्त्रीस्वभावमनुवर्तमानायाः योषितः कोऽतिक्रमः न कश्चिद्दोषः, अपि तु मामेव स्वार्थमप्यजानन्तं धिक् अहमेव स्वार्थमप्यजानन्निन्द्य इत्यर्थः । कुतः ? यद्यस्मादहं लालितानीन्द्रियाणि येन तादृशः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम्।
हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम्॥

मूलम्

शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम्।
हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम्॥ ४१ ॥

अनुवाद (हिन्दी)

सच है, स्त्रियोंके चरित्रको कौन जानता है। इनका मुँह तो ऐसा होता है जैसे शरद्ऋतुका खिला हुआ कमल। बातें सुननेमें ऐसी मीठी होती हैं, मानो अमृत घोल रखा हो। परन्तु हृदय, वह तो इतना तीखा होता है कि मानो छुरेकी पैनी धार हो॥ ४१॥

वीरराघवः

स्त्रीणां स्वभावं प्रकाशयन्परितप्यते - शरदिति । अहो स्त्रीणां वक्त्रं मुखं शरच्चन्द्रतुल्यं तथा वचश्च श्रवणयोः कर्णयोरमृततुल्यं हृदयं तु धारासदृशम्, अतस्तासां चेष्टितं को वेद ? न कोपीत्यर्थः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम्।
पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च॥

मूलम्

न हि कश्चित्प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम्।
पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च॥ ४२ ॥

अनुवाद (हिन्दी)

इसमें सन्देह नहीं कि स्त्रियाँ अपनी लालसाओंकी कठपुतली होती हैं। सच पूछो तो वे किसीसे प्यार नहीं करतीं। स्वार्थवश वे अपने पति, पुत्र और भाईतकको मार डालती हैं या मरवा डालती हैं॥ ४२॥

वीरराघवः

न हि स्त्रीणाम् अञ्जसा सम्यक् कश्चिदपि पुमान् प्रियोस्ति तत्र हेतुः, स्वाशिषात्मनां स्वाशिषि स्वापेक्षित एवार्थे आत्मा चित्तं यासां तासां स्वाशिषात्मत्वादिति भावः, अत एवार्थे स्वापेक्षितार्थनिमित्तं पतिं पुत्रं भ्रातरं वा घ्नन्ति मारयन्ति ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत्।
वधं नार्हति चेन्द्रोऽपि तत्रेदमुपकल्पते॥

मूलम्

प्रतिश्रुतं 12ददामीति वचस्तन्न मृषा भवेत्।
वधं नार्हति चेन्द्रोऽपि तत्रेदमुपकल्पते॥ ४३ ॥

अनुवाद (हिन्दी)

अब तो मैं कह चुका हूँ कि जो तुम माँगोगी, दूँगा। मेरी बात झूठी नहीं होनी चाहिये। परन्तु इन्द्र भी वध करनेयोग्य नहीं है। अच्छा, अब इस विषयमें मैं यह युक्ति करता हूँ’॥ ४३॥

वीरराघवः

इदं महत्-सङ्कटम् इत्य् आह - ददामीति । यत् प्रतिश्रुतं प्रतिज्ञा-रूपं मम वचः न मृषा भवेत् मिथ्या भवितुं नार्हति वचसो ऽनृतत्व-भयेन दास्यामि चेद् इन्द्रो हन्येत इन्द्रो ऽपि वधं प्रति नार्हति अत इदं महत्-सङ्कटम् इति भावः । तत्रैतस्मिन् सङ्कटे इदं मया वक्ष्यमाणम् एतत्-सङ्कट-निवृत्तये उपकल्पते योग्यं भवति ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

इति संचिन्त्य भगवान‍् मारीचः कुरुनन्दन।
उवाच किञ्चित् कुपित आत्मानं च विगर्हयन्॥

मूलम्

इति संचिन्त्य भगवान‍् मारीचः कुरुनन्दन।
उवाच किञ्चित् कुपित आत्मानं च विगर्हयन्॥ ४४ ॥

अनुवाद (हिन्दी)

प्रिय परीक्षित्! सर्वसमर्थ कश्यपजीने इस प्रकार मन-ही-मन अपनी भर्त्सना करके दोनों बात बनानेका उपाय सोचा और फिर तनिक रुष्ट होकर दितिसे कहा॥ ४४॥

वीरराघवः

हे कुरु-नन्दन ! भगवान् मारीचः कश्यपः इतीत्थं सञ्चिन्त्यालोच्य किञ्चित् कुपितः मनसैवात्मानं गर्हयन्न् उवाच ॥ ४४ ॥

श्लोक-४५

मूलम् (वचनम्)

कश्यप उवाच

विश्वास-प्रस्तुतिः

पुत्रस्ते भविता भद्रे इन्द्रहा देवबान्धवः।
संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि॥

मूलम्

पुत्रस्ते भविता भद्रे इन्द्रहा देवबान्धवः।
संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि॥ ४५ ॥

अनुवाद (हिन्दी)

कश्यपजी बोले—कल्याणी! यदि तुम मेरे बतलाये हुए व्रतका एक वर्षतक विधिपूर्वक पालन करोगी तो तुम्हें इन्द्रको मारनेवाला पुत्र प्राप्त होगा। परन्तु यदि किसी प्रकार नियमोंमें त्रुटि हो गयी तो वह देवताओंका मित्र बन जायगा॥ ४५॥

वीरराघवः

तदेवाह - पुत्र इति । हे भद्रे ! इदं मयोच्यमानं व्रतम् अञ्जः सम्यक् संवत्सर-पर्यन्तं यदि धारयिष्यसि करिष्यसि तर्हि इन्द्रस्य हन्ता पुत्रस् तव भविष्यति, नोचेद् देवानां बान्धवो भविष्यतीति ॥ ४५ ॥

श्लोक-४६

मूलम् (वचनम्)

दितिरुवाच

विश्वास-प्रस्तुतिः

धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे।
यानि चेह निषिद्धानि न व्रतं घ्नन्ति यानि तु॥

मूलम्

धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे।
यानि चेह निषिद्धानि न व्रतं घ्नन्ति 13यानि तु॥ ४६ ॥

अनुवाद (हिन्दी)

दितिने कहा—ब्रह्मन्! मैं उस व्रतका पालन करूँगी। आप बतलाइये कि मुझे क्या-क्या करना चाहिये, कौन-कौनसे काम छोड़ देने चाहिये और कौन-से काम ऐसे हैं, जिनसे व्रत भंग नहीं होता॥ ४६॥

वीरराघवः

तद्-वचः श्रुत्वाह दितिः - धारयिष्येति । हे ब्रह्मन् ! व्रतम् अहं धारयिष्ये, मे कार्याणि मया कर्त्तव्यानि, तानि प्रवृत्ति-निवृत्ति-रूपाणि यानि च कर्माणि व्रतं न घ्नन्ति न मारयन्ति, व्रत-घ्नानि न भवन्ति, व्रत-घ्नानि निवृत्ति-रूपाणि च कार्याणि मे ब्रूहि ॥ ४६ ॥

श्लोक-४७

मूलम् (वचनम्)

कश्यप उवाच

विश्वास-प्रस्तुतिः

न हिंस्याद‍्भूतजातानि न शपेन्नानृतं वदेत्।
नच्छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम्॥

मूलम्

न हिंस्याद‍्भूतजातानि न शपेन्नानृतं वदेत्।
नच्छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम्॥ ४७ ॥

मूलम् - कर्णावती

न हिंस्याद‍्भूतजातानि न शपेन्नानृतं वदेत्।
न च्छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम्॥ ४७ ॥

अनुवाद (हिन्दी)

कश्यपजीने उत्तर दिया—प्रिये! इस व्रतमें किसी भी प्राणीको मन, वाणी या क्रियाके द्वारा सताये नहीं, किसीको शाप या गाली न दे, झूठ न बोले, शरीरके नख और रोएँ न काटे और किसी भी अशुभ वस्तुका स्पर्श न करे॥ ४७॥

वीरराघवः

एवम् उक्तस् तावद् व्रताङ्ग-तन्-निवृत्ति-रूपान् नियमान् आह कश्यपः - नेति । भूत-जातानि प्राणि-समूहान् न हिंस्यात्, न हन्यात्, कञ्चन न शपेत्, नाक्रोशेत् तथा अनृतम् असत्यं न वदेत्, यद् अमङ्गलं केश-कपालास्थि-तुष-भस्मादि, तन् न स्पृशेत् ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः।
न वसीताधौतवासः स्रजं च विधृतां क्वचित्॥

मूलम्

नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः।
न वसीताधौतवासः स्रजं च विधृतां क्वचित्॥ ४८ ॥

अनुवाद (हिन्दी)

जलमें घुसकर स्नान न करे, क्रोध न करे, दुर्जनोंसे बातचीत न करे, बिना धुला वस्त्र न पहने और किसीकी पहनी हुई माला न पहने॥ ४८॥

वीरराघवः

अप्सु जलेषु प्रविश्य न स्नायात्, कस्मै-चिद् अपि न कुप्येत्, दुर्जनैर् न सम्भाषेत, अधौतम् अक्षालितं वासो वस्त्रं न वसीत, नाच्छादयेत्, न बिभृयाच् च, पूर्वं विधृतां त्यक्तां स्रजं च न पुनर् धारयेत् ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम्।
भुञ्जीतोदक्यया दृष्टं पिबेदञ्जलिना त्वपः॥

मूलम्

नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम्।
भुञ्जीतोदक्यया दृष्टं पिबेदञ्जलिना त्वपः॥ ४९ ॥

अनुवाद (हिन्दी)

जूठा न खाय, भद्रकालीका प्रसाद या मांसयुक्त अन्नका भोजन न करे। शूद्रका लाया हुआ और रजस्वलाका देखा हुआ अन्न भी न खाय और अंजलिसे जलपान न करे॥ ४९॥

वीरराघवः

भोजने पञ्च निषिद्धान्य् आह - उच्छिष्टं चण्डिकान्नं भद्रकाल्यै निवेदितं सामिषं पिपीलिकादि-दूषितं वृषलाहृतं शूद्रानीतं उदक्यया रजस्वलया दृष्टं चान्नं न भुञ्जीत, अञ्जलिना अपो जलं न पिबेत् ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा।
अनर्चितासंयतवाङ्नासंवीता बहिश्चरेद्॥

मूलम्

नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा।
अनर्चितासंयतवाङ्नासंवीता बहिश्चरेद्॥ ५० ॥

मूलम् - कर्णावती

नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा।
अनर्चितासंयतवाङ्नासंवीता बहिश्चरेत्॥ ५० ॥

अनुवाद (हिन्दी)

जूठे मुँह, बिना आचमन किये, सन्ध्याके समय, बाल खोले हुए , बिना शृंगारके, वाणीका संयम किये बिना और बिना चद्दर ओढ़े घरसे बाहर न निकले॥ ५०॥

वीरराघवः

उच्छिष्टा चेद् अस्पृष्ट-सलिला न भवेत्, किन्तु जलं स्पृशेद् इत्य् अर्थः । सन्ध्ययोः सायं प्रातः मुक्ता मूर्द्धजा केशा यया तादृशी तथा अनर्चितानलङ्कृता च न भवेत्, असंयत-वाक् न भवेत्, असंवीता अप्रावृता बहिर् न चरेत् ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

नाधौतपादाप्रयता नार्द्रपान्नो उदक्शिराः।
शयीत नापराङ्नान्यैर्न नग्ना न च सन्ध्ययोः॥

मूलम्

नाधौतपादाप्रयता ना14र्द्रपान्नो उदक्शिराः।
शयीत ना15पराङ्नान्यैर्न नग्ना न च सन्ध्ययोः॥ ५१ ॥

अनुवाद (हिन्दी)

बिना पैर धोये, अपवित्र अवस्थामें गीले पाँवोंसे, उत्तर या पश्चिम सिर करके, दूसरेके साथ, नग्नावस्थामें तथा सुबह-शाम सोना नहीं चाहिये॥ ५१॥

वीरराघवः

अधौत-पादौ यया सा, अप्रयतासमाहित-चित्ता न शयीत, तथा आर्द्र-पादा यस्याः, उदग्-उत्तर-दिशि-शिरा अपरा पश्चिम-शिराश् च न शयीत, तथा ऽन्यैस् सह नग्ना विवसना च, तथा सन्ध्ययोर् अपि न शयीत ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

धौतवासाः शुचिर्नित्यं सर्वमङ्गलसंयुता।
पूजयेत्प्रातराशात्प्राग्गोविप्राञ् श्रियमच्युतम्॥

मूलम्

धौतवासाः शुचिर्नित्यं सर्वमङ्गलसंयुता।
पूजयेत्प्रातराशात्प्राग्गोविप्राञ् श्रियमच्युतम्॥ ५२ ॥

अनुवाद (हिन्दी)

इस प्रकार इन निषिद्ध कर्मोंका त्याग करके सर्वदा पवित्र रहे, धुला वस्त्र धारण करे और सभी सौभाग्यके चिह्नोंसे सुसज्जित रहे। प्रातःकाल कलेवा करनेके पहले ही गाय, ब्राह्मण, लक्ष्मीजी और भगवान् नारायणकी पूजा करे॥ ५२॥

वीरराघवः

धौत-वासा नित्यं सदा शुचिः सर्वैर् मङ्गलैर् हरिद्रा-चन्दनादिभिर् मङ्गल-द्रव्यैः संयुता, प्रातराशात् प्रातर्-भोजनात् प्राग् एव गाः विप्रान् श्रियं महा-लक्ष्मीम् अच्युतं च पूजयेत् ॥ ५२ ॥

श्लोक-५३

विश्वास-प्रस्तुतिः

स्त्रियो वीरवतीश्चार्चेत् स्रग्गन्धबलिमण्डनैः।
पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम्॥

मूलम्

स्त्रियो वीरवतीश्चार्चेत् स्रग्गन्धबलिमण्डनैः।
पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम्॥ ५३ ॥

अनुवाद (हिन्दी)

इसके बाद पुष्पमाला, चन्दनादि सुगन्धद्रव्य, नैवेद्य और आभूषणादिसे सुहागिनी स्त्रियोंकी पूजा करे तथा पतिकी पूजा करके उसकी सेवामें संलग्न रहे और यह भावना करती रहे कि पतिका तेज मेरी कोखमें स्थित है॥ ५३॥

वीरराघवः

तथा वीरवतीः पुत्रवतीः जीवद्-भर्तृकाः नारीश् च स्रगादिभिर् अर्चयेत्, बलिर् उपायनं मण्डनम् अलङ्कारः तथा पतिं च अर्च्य संपूज्य उपसमीपे तिष्ठेत्, तं पतिं कोष्ठ-गतं ध्यायेत्, स्व-पतिम् एव स्वोदर-गतं ध्यायेत् ॥ ५३ ॥

श्लोक-५४

विश्वास-प्रस्तुतिः

सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम्।
धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः॥

मूलम्

सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम्।
धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः॥ ५४ ॥

अनुवाद (हिन्दी)

प्रिये! इस व्रतका नाम ‘पुंसवन’ है। यदि एक वर्षतक तुम इसे बिना किसी त्रुटिके पालन कर सकोगी तो तुम्हारी कोखसे इन्द्रघाती पुत्र उत्पन्न होगा॥ ५४॥

वीरराघवः

एतद्-अङ्ग-कलापेन युक्तं पुंसवनाख्यम् इदं सांवत्सरं संवत्सर-पर्यन्तं कार्यं व्रतम् अविप्लुतम् अविकलं यथा तथा धारयिष्यसि चेद् इन्द्रस्य हन्ता पुत्रस् तव भविष्यति ॥ ५४ ॥

श्लोक-५५

विश्वास-प्रस्तुतिः

वाढमित्यभिप्रेत्याथ दिती राजन् महामनाः।
काश्यपं गर्भमाधत्त व्रतं चाञ्जो दधार सा॥

मूलम्

बाढमित्य16भिप्रेत्याथ दिती राजन् महामनाः।
काश्यपं17 गर्भमाधत्त व्रतं चा18ञ्जो दधार सा॥ ५५ ॥

अनुवाद (हिन्दी)

परीक्षित्! दिति बड़ी मनस्विनी और दृढ़ निश्चयवाली थी। उसने ‘बहुत ठीक’ कहकर उनकी आज्ञा स्वीकार कर ली। अब दिति अपनी कोखमें भगवान् कश्यपका वीर्य और जीवनमें उनका बतलाया हुआ व्रत धारण करके अनायास ही नियमोंका पालन करने लगी॥ ५५॥

वीरराघवः

इत्य् एवम् उक्ता दितिः, हे राजन् ! बाढम् इत्य् अङ्गीकृत्य अथ महा-मना उक्त-व्रतासक्त-मनाः सती कश्यपाद् गर्भम् आधत्त दधार तथा अञ्जः सम्यग्-व्रतञ् च दधार ॥ ५५ ॥

श्लोक-५६

विश्वास-प्रस्तुतिः

मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद।
शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कविः॥

मूलम्

मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद।
शुश्रूषणेनाश्रमस्थां दितिं पर्यच19रत्कविः॥ ५६ ॥

अनुवाद (हिन्दी)

प्रिय परीक्षित्! देवराज इन्द्र अपनी मौसी दितिका अभिप्राय जान बड़ी बुद्धिमानीसे अपना वेष बदलकर दितिके आश्रमपर आये और उसकी सेवा करने लगे॥ ५६॥

वीरराघवः

तत इन्द्रः कविर् विद्वान् अत एव मातृ-भगिन्या दितेर् अभिप्रायं ज्ञात्वा, हे मानद ! आश्रम-स्थां व्रत-स्थां कश्यपस्याश्रम-स्थां वा दितिं शुश्रूषणेन पर्यचरत् ॥ ५६ ॥

श्लोक-५७

विश्वास-प्रस्तुतिः

नित्यं वनात्सुमनसः फलमूलसमित्कुशान्।
पत्राङ्‍कुरमृदोऽपश्च काले काल उपाहरत्॥

मूलम्

नित्यं वनात्सुमनसः फलमूलसमित्कुशान्।
पत्राङ्‍कुरमृदोऽपश्च काले काल उपाहरत्॥ ५७ ॥

अनुवाद (हिन्दी)

वे दितिके लिये प्रतिदिन समय-समयपर वनसे फूल-फल, कन्द-मूल, समिधा, कुश, पत्ते, दूब, मिट्टी और जल लाकर उसकी सेवामें समर्पित करते॥ ५७॥

वीरराघवः

तद् एव आह - नित्यम् अहर्-अहः सुमनसः पुष्पाणि फलानि च मूलानि च समिधश् च कुशाश् च तान् पत्राणि किसलयानि च दूर्वांकुराश् च मृदः मृत्स्नाश् च आपश् च ताः काले काले उचित-काले उपाहरत् आनीय समर्पितवान् ॥ ५७ ॥

श्लोक-५८

विश्वास-प्रस्तुतिः

एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप।
प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः॥

मूलम्

एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप।
प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः॥ ५८ ॥

अनुवाद (हिन्दी)

राजन्! जिस प्रकार बहेलिया हरिनको मारनेके लिये हरिनकी-सी सूरत बनाकर उसके पास जाता है, वैसे ही देवराज इन्द्र भी कपटवेष धारण करके व्रतपरायणा दितिके व्रतपालनकी त्रुटि पकड़नेके लिये उसकी सेवा करने लगे॥ ५८॥

वीरराघवः

एवं तस्यां दितौ व्रत-स्थायां सत्यां हे नृप ! हरिर् इन्द्रः व्रतस्य छिद्रं वैकल्यं प्रेप्सुः कामयमानः अत एव जिह्मः कुटिल-चित्तः पर्यचरत्, यथा, मृगस्येवाकृतिर्यस्य सः मृगाणां हन्ता मृगान् अनुवर्तते तथा ॥ ५८ ॥

श्लोक-५९

विश्वास-प्रस्तुतिः

नाध्यगच्छद‍्व्रतच्छिद्रं तत्परोऽथ महीपते।
चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह॥

मूलम्

नाध्यगच्छद‍्व्रतच्छिद्रं तत्परोऽथ महीपते।
चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह॥ ५९ ॥

मूलम् - कर्णावती

नाध्यगच्छद‍् व्रतच्छिद्रं तत्परोऽथ महीपते।
चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह॥ ५९ ॥

अनुवाद (हिन्दी)

सर्वदा पैनी दृष्टि रखनेपर भी उन्हें उसके व्रतमें किसी प्रकारकी त्रुटि न मिली और वे पूर्ववत् उसकी सेवा-टहलमें लगे रहे। अब तो इन्द्रको बड़ी चिन्ता हुई। वे सोचने लगे—मैं ऐसा कौन-सा उपाय करूँ, जिससे मेरा कल्याण हो?॥ ५९॥

वीरराघवः

हे मही-पते ! तत् परः व्रत-च्छिद्र-पर्यालोचन-परो ऽपि व्रत-च्छिद्रं नाध्यगच्छन् नापश्यत् अथ नितरां चिन्तां प्राप्तः केन हेतुना मम शिवं भद्रं स्याद् इति तीव्रां चिन्तां प्राप्तः ॥ ५९ ॥

श्लोक-६०

विश्वास-प्रस्तुतिः

एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता।
अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता॥

मूलम्

एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता।
अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता॥ ६० ॥

अनुवाद (हिन्दी)

दिति व्रतके नियमोंका पालन करते-करते बहुत दुर्बल हो गयी थी। विधाताने भी उसे मोहमें डाल दिया। इसलिये एक दिन सन्ध्याके समय जूठे मुँह, बिना आचमन किये और बिना पैर धोये ही वह सो गयी॥ ६०॥

वीरराघवः

एकदा सा दितिः व्रत-कर्शिता अत एवाशक्त्या न स्पृष्टं वारि जलं यया सा अधौतावप्रक्षालितावङ्घ्री यया सा तादृशी अत एव उच्छिष्टा सन्ध्यायां सायङ्-काले विधिना दैवेन मोहिता सती सुष्वाप ॥ ६० ॥

श्लोक-६१

विश्वास-प्रस्तुतिः

लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः।
दितेः प्रविष्ट उदरं योगेशो योगमायया॥

मूलम्

लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः।
दितेः प्रविष्ट उदरं योगेशो योगमायया॥ ६१ ॥

अनुवाद (हिन्दी)

योगेश्वर इन्द्रने देखा कि यह अच्छा अवसर हाथ लगा। वे योगबलसे झटपट सोयी हुई दितिके गर्भमें प्रवेश कर गये॥ ६१॥

वीरराघवः

तदा तद् अन्तरं व्रत-च्छिद्रं लब्ध्वा शक्रो निद्रया अपहृतं चेतो यस्यास् तस्याः दितेर् उदरं प्रविष्टः, कथं पर-काय-प्रवेश-सामर्थ्यन् तस्य ? इत्य् अत्राह - योगेशः पर-काय-प्रवेश-सामर्थ्यापादक-योग-युक्तः अत एव योग-मायया विचित्र-योग-सामर्थ्येनोदरं प्रविष्ट इत्यर्थः ॥ ६१ ॥

श्लोक-६२

विश्वास-प्रस्तुतिः

चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम्।
रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः॥

मूलम्

चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम्।
रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः॥ ६२ ॥

अनुवाद (हिन्दी)

उन्होंने वहाँ जाकर सोनेके समान चमकते हुए गर्भके वज्रके द्वारा सात टुकड़े कर दिये। जब वह गर्भ रोने लगा, तब उन्होंने ‘मत रो, मत रो’ यह कहकर सातों टुकड़ोंमेंसे एक-एकके और भी सात टुकड़े कर दिये॥ ६२॥

वीरराघवः

उदरे प्रविष्टः शक्रो वज्रायुधेन तं कनक-प्रभं गर्भं सप्तधा चिच्छेद । रुदन्तम् एकैकं गर्भस्य भागं मा रोदीर् इति वदन् तान् खण्डान् पुनः सप्तधा एकैकं चिच्छेद यतो मा रोदीर् इति तान् चिच्छेद, अत एव निमित्तान् मरुच्-छब्दस्य तेषु प्रवृत्तिः आर्षत्वान् मा-शब्दस्य ह्रस्वः । “रुदेर् भावे क्विप्” मा न विद्यते इन्द्र-वाक्यात् रुत् रोदनं येषां ते मरुतः ॥ ६२ ॥

श्लोक-६३

विश्वास-प्रस्तुतिः

ते तमूचुः पाट्यमानाः सर्वे प्राञ्जलयो नृप।
नो जिघांससि किमिन्द्र भ्रातरो मरुतस्तव॥

मूलम्

ते तमूचुः पाट्यमानाः सर्वे प्राञ्जलयो नृप।
नो20 जिघांससि किमिन्द्र भ्रातरो मरुतस्तव॥ ६३ ॥

अनुवाद (हिन्दी)

राजन्! जब इन्द्र उनके टुकड़े-टुकड़े करने लगे, तब उन सबोंने हाथ जोड़कर इन्द्रसे कहा—‘देवराज! तुम हमें क्यों मार रहे हो? हम तो तुम्हारे भाई मरुद‍्गण हैं’॥ ६३॥

वीरराघवः

हे नृप ! ते छिद्यमानाः सर्वे गर्भस्य भागाः तथैव प्रविभक्त-पाणि-पादाद्यवयवाः प्राञ्जलयस् सन्तः तम् इन्द्रम् ऊचुः, तद् एवाह — किम् इति; हे इन्द्र ! तव भ्रातरो मरुतः मरुत्-संज्ञान् नो ऽस्मान् किं किमर्थं जिघांससि हन्तुम् इच्छसि ॥ ६३ ॥

श्लोक-६४

विश्वास-प्रस्तुतिः

मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः।
अनन्यभावान् पार्षदानात्मनो मरुतां गणान्॥

मूलम्

मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः।
अनन्यभावान् पार्षदानात्मनो मरुतां गणान्॥ ६४ ॥

अनुवाद (हिन्दी)

तब इन्द्रने अपने भावी अनन्यप्रेमी पार्षद मरुद‍्गणसे कहा—‘अच्छी बात है, तुमलोग मेरे भाई हो। अब मत डरो!’॥ ६४॥

वीरराघवः

इति तैर् उक्तः कौशिकः शक्रो यदि यूयं मह्यं मम भ्रातरः तर्हि मा भैष्ट भयं मा कुरुतेत्याह, तत आत्मनः स्वस्य पार्षदान् पार्षद त्वं प्राप्तान् अनन्य-भावान् अनन्य-स्वामित्वाभिप्रायकान् मरुतां गणन् आहेति पूर्वेणान्वयः ॥ ६४ ॥

श्लोक-६५

विश्वास-प्रस्तुतिः

न ममार दितेर्गर्भः श्रीनिवासानुकम्पया।
बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान्॥

मूलम्

न ममार दितेर्गर्भः श्रीनिवासानुकम्पया।
बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान्॥ ६५ ॥

अनुवाद (हिन्दी)

परीक्षित्! जैसे अश्वत्थामाके ब्रह्मास्त्रसे तुम्हारा कुछ भी अनिष्ट नहीं हुआ, वैसे ही भगवान् श्रीहरिकी कृपासे दितिका वह गर्भ वज्रके द्वारा टुकड़े-टुकड़े होनेपर भी मरा नहीं॥ ६५॥

वीरराघवः

ततो दितेर् गर्भः कुलिशेन वज्रेण बहुधा छिन्नो ऽपि श्रीनिवासस्य भगवतो ऽनुकंपया या अनुकंपा-पूर्वकानुग्रह-विशेषेण न ममार न मृतः यथा भवान् परीक्षित् अश्वत्थाम्नो ऽस्त्रेण दग्ध-देहो ऽपि भगवता रक्षितस् तद्वत् ॥ ६५ ॥

श्लोक-६६

विश्वास-प्रस्तुतिः

सकृदिष्ट्वाऽऽदिपुरुषं पुरुषो याति साम्यताम्।
संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः॥

मूलम्

सकृदिष्ट्वाऽऽदिपुरुषं पुरुषो याति साम्यताम्।
संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः॥ ६६ ॥

मूलम् - कर्णावती

सकृदिष्ट्वाऽऽदिपुरुषं पुरुषो याति साम्यताम्।
संवत्सरं किञ्चिदूनं दित्या यद्धरिरतर्चितः॥ ६६ ॥

अनुवाद (हिन्दी)

इसमें तनिक भी आश्चर्यकी बात नहीं है। क्योंकि जो मनुष्य एक बार भी आदि पुरुष भगवान् नारायणकी आराधना कर लेता है, वह उनकी समानता प्राप्त कर लेता है; फिर दितिने तो कुछ ही दिन कम एक वर्षतक भगवान‍्की आराधना की थी॥ ६६॥

श्लोक-६७

विश्वास-प्रस्तुतिः

सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतोऽभवन्।
व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः॥

मूलम्

सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतोऽभवन्।
व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः॥ ६७ ॥

अनुवाद (हिन्दी)

अब वे उनचास मरुद‍्गण इन्द्रके साथ मिलकर पचास हो गये। इन्द्रने भी सौतेली माताके पुत्रोंके साथ शत्रुभाव न रखकर उन्हें सोमपायी देवता बना लिया॥ ६७॥

वीरराघवः

अस्मिन्न् अर्थे उपपत्तिम् आह — सकृद् इति । पुमान् सकृद् अप्य आदि-पुरुषं भगवन्तम् इष्ट्वा आराध्य तन्-माहात्म्येन शनैः सात्मतां समान-रूपतां याति किं पुनर् असकृद् इष्ट्वेति भावः । यतः किञ्चिद् ऊनं संवत्सरम् एव दित्या आराधितः इन्द्रेण सह जुषते सेवत इति सजूः इन्द्रेण सह वर्तमान इत्य् अर्थः । हरिर् भगवान् उपेन्द्रः अभ्ययात् आगत्य गर्भस्य खण्डान् अजीवयद् इत्य् अर्थः । ततः ते पञ्चाशत् एकोनपञ्चाशत् अन्यथा “मरुतश् च दितेः पुत्राश् चत्वारिंशन् नवाधिकाः । चकर्त्त सप्तधा गर्भम्” पुनर् एकैकं सप्तधा चकर्तेति पूर्वोक्त-संख्या-विरोधापत्तेः । मरुतो मरुत्-संज्ञकाः मातुर् दोषम् आसुरत्वापदेशं त्यक्त्वा देवा अभवन् ते च हरिणा इन्द्रेण भगवता वा सोम-पाः सोमं पिबन्तीति तथा यज्ञीय-भागार् हाः कृता इत्य् अर्थः ॥ ६६-६७ ॥

श्लोक-६८

विश्वास-प्रस्तुतिः

दितिरुत्थाय ददृशे कुमाराननलप्रभान्।
इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता॥

मूलम्

दितिरुत्थाय ददृशे कुमाराननलप्रभान्।
इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता॥ ६८ ॥

अनुवाद (हिन्दी)

जब दितिकी आँख खुली, तब उसने देखा कि उसके अग्निके समान तेजस्वी उनचास बालक इन्द्रके साथ हैं। इससे सुन्दर स्वभाववाली दितिको बड़ी प्रसन्नता हुई॥ ६८॥

वीरराघवः

ततो दितिर् उत्थाय कुमारान् अग्नि-तुल्य-प्रकाशान् इन्द्रेण सहितान् ददृशे । दृष्ट्वा च देवी दितिर् अनिन्दिता वस्तुतः सु-स्वभावा पर्यतुष्यत् ॥ ६८ ॥

श्लोक-६९

विश्वास-प्रस्तुतिः

अथेन्द्रमाह ताताहमादित्यानां भयावहम्।
अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम्॥

मूलम्

अथेन्द्रमाह ताताहमादित्यानां भयावहम्।
अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम्॥ ६९ ॥

अनुवाद (हिन्दी)

उसने इन्द्रको सम्बोधन करके कहा—‘बेटा! मैं इस इच्छासे इस अत्यन्त कठिन व्रतका पालन कर रही थी कि तुम अदितिके पुत्रोंको भयभीत करनेवाला पुत्र उत्पन्न हो॥ ६९॥

वीरराघवः

अथानन्तरं इन्द्रम् उवाच, तद् एवाह - हे तात इन्द्र ! आदित्यानाम् अदितेर् अपत्यानां युष्माकं भयापादकम् एकम् अपत्यम् अहम् इच्छन्ती सु-दुष्करम् एतत् पुंसवनं व्रतम् अचरम् आचरितवत्य् अस्मि ॥ ६९ ॥

श्लोक-७०

विश्वास-प्रस्तुतिः

एकः सङ्कल्पितः पुत्रःसप्त सप्ताभवन् कथम्।
यदि ते विदितं पुत्र सत्यं कथय मा मृषा॥

मूलम्

एकः सङ्कल्पितः पुत्रःसप्त सप्ताभवन् कथम्।
यदि ते विदितं पुत्र सत्यं कथय मा मृषा॥ ७० ॥

मूलम् - कर्णावती

एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम्।
यदि ते विदितं पुत्र सत्यं कथय मा मृषा॥ ७० ॥

अनुवाद (हिन्दी)

मैंने केवल एक ही पुत्रके लिये संकल्प किया था, फिर ये उनचास पुत्र कैसे हो गये? बेटा इन्द्र! यदि तुम्हें इसका रहस्य मालूम हो, तो सच-सच मुझे बतला दो। झूठ न बोलना’॥ ७०॥

वीरराघवः

मया त्व एकः पुत्रः सङ्कल्पितः कथं सप्त-सप्त एकोनपञ्चाशद् अभवन् हे पुत्र, एतद् यदि तव विदितं तर्हि सत्यं कथय मृषा मिथ्या मा कथय ॥ ७० ॥

श्लोक-७१

मूलम् (वचनम्)

इन्द्र उवाच

विश्वास-प्रस्तुतिः

अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम्।
लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मवित्॥

मूलम्

अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम्।
लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न 21धर्मवित्॥ ७१ ॥

अनुवाद (हिन्दी)

इन्द्रने कहा—माता! मुझे इस बातका पता चल गया था कि तुम किस उद्देश्यसे व्रत कर रही हो। इसीलिये अपना स्वार्थ सिद्ध करनेके उद्देश्यसे मैं स्वर्ग छोड़कर तुम्हारे पास आया। मेरे मनमें तनिक भी धर्मभावना नहीं थी। इसीसे तुम्हारे व्रतमें त्रुटि होते ही मैंने उस गर्भके टुकड़े-टुकड़े कर दिये॥ ७१॥

वीरराघवः

एवम् उक्तः शक्रस् ताम् आह - हे अम्ब, ते तव व्यवसितम् अभिप्रेतम् उपधार्य ज्ञात्वा ऽहं तवान्तिकं समीपं गतः प्राप्तः लब्धम् अन्तरं व्रत-छिद्रं येन तादृशोहं गर्भम् अच्छिदं छिन्नवान् अस्मि यतो ऽहम् अर्थे वैषयिक-पुरुषार्थ एव बुद्धिर् यस्य न धर्म-वित् ॥ ७१ ॥

श्लोक-७२

विश्वास-प्रस्तुतिः

कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः।
तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे॥

मूलम्

कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः।
तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे॥ ७२ ॥

अनुवाद (हिन्दी)

पहले मैंने उसके सात टुकड़े किये थे। तब वे सातों टुकड़े सात बालक बन गये। इसके बाद मैंने फिर एक-एकके सात-सात टुकड़े कर दिये। तब भी वे न मरे, बल्कि उनचास हो गये॥ ७२॥

वीरराघवः

यतो ऽहम् ईदृशस् ततो मे मया तावत् सप्तधा गर्भः कृत्तश् छिन्नः । कृत इति पाठे वज्रेणेति शेषः । एवं सप्तधा कृतो ऽपि गर्भः तावत् सप्त कुमारा आसन् ते ऽपि पुनर् एकैकशो वृक्णाः छिन्नाः सप्तधा बभूवुः नापि मम्रिरे न मृताश् च ॥ ७२ ॥

श्लोक-७३

विश्वास-प्रस्तुतिः

ततस्तत्परमाश्चर्यं वीक्ष्याध्यवसितं मया।
महापुरुषपूजायाः सिद्धिः काप्यनुषङ्गिणी॥

मूलम्

ततस्तत्परमाश्चर्यं वीक्ष्याध्यवसितं मया।
महापुरुषपूजायाः सिद्धिः काप्यनुषङ्गिणी॥ ७३ ॥

अनुवाद (हिन्दी)

यह परम आश्चर्यमयी घटना देखकर मैंने ऐसा निश्चय किया कि परमपुरुष भगवान‍्की उपासनाकी यह कोई स्वाभाविक सिद्धि है॥ ७३॥

वीरराघवः

ततो ऽनन्तरम् इदं महद्-आश्चर्यं विलोक्य मया निश्चितम् अध्यवसितं निश्चितम् आह – महा-पुरुषस्य भगवतः पूजायाः कार्यं पूजकाभिलषितं प्रयोजनं तदानुषङ्गिकम् अप्रधानं फलं यस्यास् सा ठक उपसर्जनत्वे ऽपि ङीवार्षः । सिद्धिर्-मुक्तिर् भवतीति असमाप्ताया अपि महा-पुरुष-पूजायाः पूजकाभिलषित-प्रयोजनावहत्वम् अधुनावलोक्यामुक्त्यर्थत्वेनापि कृतायास् तत् पूजायाः परिपूर्णायाः मुक्तिर् एव प्रधानं फलं, पूजकाभिलषितं तु आनुषङ्गिकम् इति मया निश्चितम् इत्य् अर्थः । यद्वा, महा-पुरुषस्य पूजायाः स-काम-पूजायाः सिद्धिः परिसमाप्तिर् एव कार्यानुषङ्गिकी-कार्येण प्रयोजनेनानुषज्यते अनुबध्यते पूजकाभिलषित-प्रयोजनावहा भवति न त्व् अपरिपूर्णा, सा तु विपरीत-फलदैवेति मया निश्चितम् इत्य् अर्थः ॥ ७३ ॥

श्लोक-७४

विश्वास-प्रस्तुतिः

आराधनं भगवत ईहमाना निराशिषः।
ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः॥

मूलम्

आराधनं भगवत ईहमाना निराशिषः।
ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः॥ ७४ ॥

अनुवाद (हिन्दी)

जो लोग निष्कामभावसे भगवान‍्की आराधना करते हैं और दूसरी वस्तुओंकी तो बात ही क्या, मोक्षकी भी इच्छा नहीं करते, वे ही अपने स्वार्थ और परमार्थमें निपुण हैं॥ ७४॥

वीरराघवः

अत एव ये पुरुषाः निराशिषो निष्कामाः भगवत आराधनं कुर्वाणाः परं मोक्षम् अपि नेच्छन्ति त एव स्वार्थे स्वस्य निरतिशय-पुरुषार्थे कुशलाः स्वस्य निरतिशय-पुरुषार्थ-प्रसाधन-कुशलाः स्मृताः ॥ ७४ ॥

श्लोक-७५

विश्वास-प्रस्तुतिः

आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम्।
को वृणीते गुणस्पर्शं बुधः स्यान्नरकेऽपि यत्॥

मूलम्

आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम्।
को वृणीते गुणस्पर्शं बुधः स्यान्नरकेऽपि यत्॥ ७५ ॥

अनुवाद (हिन्दी)

भगवान् जगदीश्वर सबके आराध्यदेव और अपने आत्मा ही हैं। वे प्रसन्न होकर अपने-आपतकका दान कर देते हैं। भला, ऐसा कौन बुद्धिमान् है, जो उनकी आराधना करके विषयभोगोंका वरदान माँगे। माताजी! ये विषयभोग तो नरकमें भी मिल सकते हैं॥ ७५॥

वीरराघवः

एवम् अनभिसंहित-फलं भगवद्-आराधनं प्रस्तुत्याभिसंहित-फलं निन्दति - आरध्येति । आत्म-प्रदं निरतिशय-पुरुषार्थ-रूपम् आत्मानं निरतिशय-प्रियम् ईश्वरं देवं भगवन्तं तम् आराध्य बुधो विवेकी चेत् कः पुमान् गुण-स्पर्शं शब्दादि-विषयानुभवं कः पुमान् वृणीत कामयेत, गुण-स्पर्शं विशिनष्टि - स्याद् इति, यद् गुण-स्पर्शनं नरके ऽपि स्यात् सम्भवेत् ॥ ७५ ॥

श्लोक-७६

विश्वास-प्रस्तुतिः

तदिदं मम दौर्जन्यं बालिशस्य महीयसि।
क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः॥

मूलम्

तदिदं मम दौर्जन्यं बालिशस्य महीयसि।
क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः॥ ७६ ॥

अनुवाद (हिन्दी)

मेरी स्नेहमयी जननी! तुम सब प्रकार मेरी पूज्या हो। मैंने मूर्खतावश बड़ी दुष्टताका काम किया है। तुम मेरे अपराधको क्षमा कर दो। यह बड़े सौभाग्यकी बात है कि तुम्हारा गर्भ खण्ड-खण्ड हो जानेसे एक प्रकार मर जानेपर भी फिरसे जीवित हो गया॥ ७६॥

वीरराघवः

स्वापराध-क्षमार्थं तां प्रार्थयते — तद् इति । हे महीयसि पूज्ये ! बालिशस्य मूर्खस्य मम तद् इदं गर्भ-च्छेदनादि-रूपं दौर्जन्यं दुर्जनस्य कर्मं हे मातः ! त्वं क्षन्तुम् अर्हसि । मातुर् असह्यो ऽपराधो नास्तीत्य् अभिप्रायेण मातर् इति सम्बोधनं दिष्ट्या दैवात् मृतो ऽपि तव गर्भः पुनर् उत्थितो जीवितः ॥ ७६ ॥

श्लोक-७७

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया।
मरुद‍्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः॥

मूलम्

इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया।
मरुद‍्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः॥ ७७ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! दिति देवराज इन्द्रके शुद्धभावसे सन्तुष्ट हो गयी। उससे आज्ञा लेकर देवराज इन्द्रने मरुद‍्गणोंके साथ उसे नमस्कार किया और स्वर्गमें चले गये॥ ७७॥

वीरराघवः

एवम् उक्तया विशुद्ध-भावेन निष्कपट-भावेन तुष्टया तया दित्या अभ्यनुज्ञातः तां नत्वा मरुद्भिस् सह प्रभुर् इन्द्रः त्रि-दिवं स्वर्गं जगाम ॥ ७७ ॥

श्लोक-७८

विश्वास-प्रस्तुतिः

एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
मङ्गलं मरुतां जन्म किं भूयः कथयामि ते॥

मूलम्

एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
मङ्गलं मरुतां जन्म किं भूयः कथयामि ते॥ ७८ ॥

अनुवाद (हिन्दी)

राजन्! यह मरुद‍्गणका जन्म बड़ा ही मंगलमय है। इसके विषयमें तुमने मुझसे जो प्रश्न किया था, उसका उत्तर समग्ररूपसे मैंने तुम्हें दे दिया। अब तुम और क्या सुनना चाहते हो?॥ ७८॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे मरुदुत्प22त्तिकथनं नामाष्टादशोऽध्यायः॥ १८ ॥

वीरराघवः

एवं यत्-पृष्टं “कथं त आसुरं भावम्” इत्यादिना तस्योत्तरम् उक्तम् इत्य् आह - एवम् इति । यन् मरुतां जन्म त्वं मां परिपृच्छसि पर्यपृच्छः तच् शृण्वतां मङ्गलावहं सर्वं स-प्रपञ्चं यथा तथा ते तुभ्यं मया आख्यातं कथितं भूयः किं कथयामि यदि किञ्चिच् छुश्रूषितम् अस्ति तर्हि तत् कथयामीति प्रश्न-प्रोत्साहः ॥ ७८ ॥

इति श्रीमद्-भागवते महा-पुराणे षष्ठ-स्कन्धे श्रीमद्-वीरराघवाचार्य-कृत-भागवत-चन्द्रचन्द्रिकायाम् अष्टादशो ऽध्यायः ॥ १८ ॥


  1. प्रा. पा. - अत्र । ↩︎

  2. प्रा. पा. - प्रह्लादं ह्लादमेव च । ↩︎

  3. प्रा. पा. - सती । ↩︎

  4. प्रा. पा. - सूर्यायां । ↩︎

  5. प्रा. पा. - मर्थदृक् । ↩︎

  6. प्रा. पा. - जयंस्तं निभृतेन तेजसा । ↩︎

  7. प्रा. पा. - विमोहित । ↩︎

  8. प्रा. पा. – दोऽसि यदि ब्रहम । ↩︎

  9. प्रा. पा. - हतपुत्रा । ↩︎

  10. प्रा. पा. – मध्येव । ↩︎

  11. प्रा. पा. - विप्लावितो ध्रुवार्थेषु यदहं । ↩︎

  12. प्रा. पा. - ददानीति । ↩︎

  13. प्रा. पा. - यान्युत । ↩︎

  14. प्रा. पा. - नार्द्रपादा । ↩︎

  15. प्रा. पा. - नापराह्णे वै नग्ना च न च । ↩︎

  16. प्रा. पा. – त्यभ्युपेत्या । ↩︎

  17. प्रा. पा. - कश्यपाद्गर्भ । ↩︎

  18. प्रा. पा. - राजन् । ↩︎

  19. प्रा. पा. - चरद्धरिः । ↩︎

  20. प्रा. पा. - किन्नः शक्र जिघांससि भ्रातः । ↩︎

  21. प्रा. पा. धर्मदृक् । ↩︎

  22. प्रा. पा. - त्पत्तिरष्टादशो । ↩︎