१७ चित्रकेतुशापः

[सप्तदशोऽध्यायः]

भागसूचना

चित्रकेतुको पार्वतीजीका शाप

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः।
विद्याधरश्चित्रकेतुश्चचार गगनेचरः॥

मूलम्

यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः।
विद्याधरश्चित्रकेतुश्चचार गगनेचरः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! विद्याधर चित्रकेतु, जिस दिशामें भगवान् संकर्षण अन्तर्धान हुए थे, उसे नमस्कार करके आकाशमार्गसे स्वच्छन्द विचरने लगे॥ १॥

वीरराघवः

तत उपरितनं चित्रकेतोर्वृत्तान्तमाह - मुनिः, यत इति । यतः यस्यां दिशि सङ्कर्षणोऽन्तर्हितवान् तस्यै दिशे नमस्कृत्वा स विद्याधरः विद्याधरत्वं प्राप्तः विद्याधरैरिति पाठे तैः सह चित्रकेतुर्गगनचारी भूत्वा तत्र तत्र चचार ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः।
स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः॥

मूलम्

स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः।
स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः॥ २ ॥

वीरराघवः

तदेवाह - स इति । महायोगी भगवान्स चित्रकेतुरव्याहतं बलं येषां तानीन्द्रियाणि यस्य तादृशो लक्षवर्षाणां लक्षबहुकालमित्यर्थः । मुनिभिः सिद्धैश्चारणैश्च स्तूयमानः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु।
रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम्॥

मूलम्

कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु।
रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम्॥ ३ ॥

अनुवाद (हिन्दी)

महायोगी चित्रकेतु करोड़ों वर्षोंतक सब प्रकारके संकल्पोंको पूर्ण करनेवाली सुमेरु पर्वतकी घाटियोंमें विहार करते रहे। उनके शरीरका बल और इन्द्रियोंकी शक्ति अक्षुण्ण रही। बड़े-बड़े मुनि, सिद्ध, चारण उनकी स्तुति करते रहते। उनकी प्रेरणासे विद्याधरोंकी स्त्रियाँ उनके पास सर्वशक्तिमान् भगवान‍्के गुण और लीलाओंका गान करती रहतीं॥ २-३॥

वीरराघवः

नानाविधाः स्वसङ्कल्पानुसारिण्यः सिद्धयः भोग्यभोगोपकरणादिसिद्धयो यासु कुलाचलेन्द्रस्य मेर्वादेर्द्रोणीषु विद्याधरस्त्रिभिरीश्वरं हरिं गापयन् गानं कारयन् रेमे ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

एकदा स विमानेन विष्णुदत्तेन भास्वता।
गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः॥

मूलम्

एकदा स1 विमानेन विष्णुदत्तेन भास्वता।
गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः॥ ४ ॥

वीरराघवः

स चित्रकेतुरेकदा कदाचिद्विष्णुदत्तेन यथा सङ्कल्पं भगवता दत्तेन भास्वता प्रकाशमानेन विमानेन तत्र तत्र गच्छन् सञ्चरमाणः सिद्धैर्योगिभिश्च परीतं परिवृतं गिरिशं रुद्रं ददृशे ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि।
उवाच देव्याः शृण्वत्या जहासोच्चैस्तदन्तिके॥

मूलम्

आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि।
उवाच देव्याः शृण्वत्या जहासोच्चैस्तदन्तिके॥ ५ ॥

अनुवाद (हिन्दी)

एक दिन चित्रकेतु भगवान‍्के दिये हुए तेजोमय विमानपर सवार होकर कहीं जा रहे थे। इसी समय उन्होंने देखा कि भगवान् शङ्कर बड़े-बड़े मुनियोंकी सभामें सिद्ध-चारणोंके बीच बैठे हुए हैं और साथ ही भगवती पार्वतीको अपनी गोदमें बैठाकर एक हाथसे उन्हें आलिंगन किये हुए हैं, यह देखकर चित्रकेतु विमानपर चढ़े हुए ही उनके पास चले गये और भगवती पार्वतीको सुना-सुनाकर जोरसे हँसने और कहने लगे॥ ४-५॥

वीरराघवः

कथंभूतं रुद्रम् अङ्के उत्सङ्गे कृतां निधापितां देवीमम्बिकां बहुना आलिंग्य मुनीनां मननशीलानां संसदि सभायां स्थितमिति शेषः । ततो देव्यां शृण्वन्त्यां सत्याम् उवाच जहास च हसितवांश्च ॥ ५ ॥

श्लोक-६

मूलम् (वचनम्)

चित्रकेतुरुवाच

विश्वास-प्रस्तुतिः

एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम्।
आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया॥

मूलम्

एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम्।
2आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया॥ ६ ॥

अनुवाद (हिन्दी)

चित्रकेतुने कहा—अहो! ये सारे जगत‍्के धर्मशिक्षक और गुरुदेव हैं। ये समस्त प्राणियोंमें श्रेष्ठ हैं। इनकी यह दशा है कि भरी सभामें अपनी पत्नीको शरीरसे चिपकाकर बैठे हुए हैं॥ ६॥

वीरराघवः

तदेवाह एष इति त्रिभिः । एष रुद्रः साक्षाल्लोकानां गुरुर्हितोपदेष्टा किञ्च शरीरिणां धर्मं वक्ता मुख्यः प्रधानः स्वयमीदृशस्सन् सभायां भार्यया सह मिथुनीभूयाऽऽस्ते ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः।
अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा॥

मूलम्

जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः।
अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा॥ ७ ॥

मूलम् - कर्णावती

जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः।
अङ्गीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा॥ ७ ॥

अनुवाद (हिन्दी)

जटाधारी, बहुत बड़े तपस्वी एवं ब्रह्मवादियोंके सभापति होकर भी साधारण पुरुषके समान निर्लज्जतासे गोदमें स्त्री लेकर बैठे हैं॥ ७॥

वीरराघवः

किञ्च जटाः बिभर्तीति तथा तीत्रमुग्रं नितान्तं वा तपो यस्य स ब्रह्मवादी ब्रह्मज्ञानोपदेष्टाऽथ च सभायाः पतिः प्रधानः एवंभूतोऽपि लज्जाहीनः अङ्के स्त्रियं कृत्वा निधाप्याऽऽस्ते उपविष्टवान् यथा प्राकृतः अत्यन्तमूढस्तद्वत् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति।
अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम्॥

मूलम्

प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति।
अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम्॥ ८ ॥

अनुवाद (हिन्दी)

प्रायः साधारण पुरुष भी एकान्तमें ही स्त्रियोंके साथ उठते-बैठते हैं, परन्तु ये इतने बड़े व्रतधारी होकर भी उसे भरी सभामें लिये बैठे हैं॥ ८॥

वीरराघवः

किश्च प्राकृता अपि बहुशो रहस्येव स्त्रीयमङ्के बिभ्रति निधापयन्ति अयं तु महाघ्रतधरोपि सदसि सभायामेव स्त्रियमङ्के बिभर्ति महान् व्यत्यास इति भावः ॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप।
तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः॥

मूलम्

भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप।
तूष्णीं बभूव सदसि 3सभ्याश्च तदनुव्रताः॥ ९ ॥

वीरराघवः

ततस्तचित्रकेतोर्वचः श्रुत्वाऽपि भगवान् रुद्रः अगाधा गम्भीरा धीर्यस्य तादृशोऽत एव प्रहस्य तूष्णीं बभूव, हे नृप, तथा तं रुद्रमनुव्रतास्तदनुव्रताः सभ्याश्च तूष्णीं बभूवुः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम्।
रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने॥

मूलम्

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम्।
रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने॥ १० ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! भगवान् शंकरकी बुद्धि अगाध है। चित्रकेतुका यह कटाक्ष सुनकर वे हँसने लगे, कुछ भी बोले नहीं। उस सभामें बैठे हुए उनके अनुयायी सदस्य भी चुप रहे। चित्रकेतुको भगवान् शंकरका प्रभाव नहीं मालूम था। इसीसे वे उनके लिये बहुत कुछ बुरा-भला बक रहे थे। उन्हें इस बातका घमण्ड हो गया था कि ‘मैं जितेन्द्रिय हूँ।’ पार्वतीजीने उनकी यह धृष्टता देखकर क्रोधसे कहा—॥ ९-१०॥

वीरराघवः

अतद्वीर्यविदुषि न तस्य रुद्रस्य वीर्यं प्रभावं ‘तेजीयसां न दोषाय’ इति न्यायेन तेजोविशेषं विद्वांस्तस्मिन् अतद्वीर्यविदुषि चित्रकेतौ इति इत्थं ब्रह्म ब्रह्मात्मकं शोभनं शिवं प्रतिब्रुवाणे सति देव्यंबिका निर्जितात्माभिमानिने जितेन्द्रियत्वाभिमानवतेऽत एव दुष्टाय चित्रकेतवे रुषा क्रोधेनोवाच ननु, तदनुत्रताः सभ्यास्तूष्णीं बभूवुः । कथं स । तमनुव्रता भवेति श्रुत्या तदनुव्रता देवी चित्रकेतुं शप्तवतीत्याशंक्य रुपेत्युक्तम् ॥ १० ॥

श्लोक-११

मूलम् (वचनम्)

4पार्वत्युवाच

विश्वास-प्रस्तुतिः

अयं किमधुना लोके शास्ता दण्डधरः प्रभुः।
अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत्॥

मूलम्

अयं किमधुना लोके शास्ता दण्डधरः प्रभुः।
अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत्॥ ११ ॥

मूलम् - कर्णावती

अयं किमधुना लोके शास्ता दण्डधरः प्रभुः।
अस्मद्विधानां दुष्टानां निर्लञ्जानां च विप्रकृत्॥ ११ ॥

अनुवाद (हिन्दी)

पार्वतीजी बोलीं—अहो! हम-जैसे दुष्ट और निर्लज्जोंका दण्डके बलपर शासन एवं तिरस्कार करनेवाला प्रभु इस संसारमें यही है क्या?॥ ११॥

वीरराघवः

तदेवाह — अयमित्यादिना, किल्बिषमित्यन्तेन । तावत्तमुपालभते अयमिति द्वाभ्याम् । अयमधुना किमर्थमागत इति शेषः । अहोऽस्मान्दण्डयितुमधुनायमागत इत्युपालंभः तदेवाह, अहो निर्लज्जानामस्मद्विधानां दुष्टानामयं शास्ता, हिताहितयोर्विविच्य शापकः शासनातिवर्तित्वे दण्डधरः दण्डयिता प्रभुर्दण्डने समर्थश्चात एव विप्रकृत् दमनकारी ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

न वेद धर्मं किल पद्मयोनि-
र्न ब्रह्मपुत्रा भृगुनारदाद्याः।
न वै कुमारः कपिलो मनुश्च
ये नो निषेधन्त्यतिवर्तिनं हरम्॥

मूलम्

न वेद धर्मं किल पद्मयोनिर्न ब्रह्मपुत्रा भृगुनारदा5द्याः।
न वै 6कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम्॥ १२ ॥

अनुवाद (हिन्दी)

जान पड़ता है कि ब्रह्माजी, भृगु, नारद आदि उनके पुत्र, सनकादि परमर्षि, कपिलदेव और मनु आदि बड़े-बड़े महापुरुष धर्मका रहस्य नहीं जानते। तभी तो वे धर्ममर्यादाका उल्लंघन करनेवाले भगवान् शिवको इस कामसे नहीं रोकते॥ १२॥

वीरराघवः

अहो पद्मयोन्यादयो धर्मं न विदन्ति यतस्तेऽतिवर्तिनं मर्यादातिवर्तिनं हरं रुद्रं नो निषेधन्ति न निषेधन्ति अयं त्वधुना निषेधति इत्युपालम्भः तत्र पद्मयोनिर्ब्रह्मा कुमारः सनत्कुमारः मनुः स्वायंभुवः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

एषामनुध्येयपदाब्जयुग्मं
जगद‍्गुरुं मङ्गलमङ्गलं स्वयम्।
यः क्षत्रबन्धुः परिभूय सूरीन्
प्रशास्ति धृष्टस्तदयं हि दण्ड्यः॥

मूलम्

एषामनुध्येयपदाब्जयुग्मं जगद‍्गुरुं मङ्गलमङ्गलं स्वयम्।
7यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः॥ १३ ॥

अनुवाद (हिन्दी)

ब्रह्मा आदि समस्त महापुरुष जिनके चरणकमलोंका ध्यान करते रहते हैं, उन्हीं मंगलोंको मंगल बनानेवाले साक्षात् जगद‍्गुरु भगवान‍्का और उनके अनुयायी महात्माओंका इस अधम क्षत्रियने तिरस्कार किया है और शासन करनेकी चेष्टा की है। इसलिये यह ढीठ सर्वथा दण्डका पात्र है॥ १३॥

वीरराघवः

तमेवमुपालभ्यावश्यमयं निग्राह्य इत्याह – एषामिति द्वाभ्याम् । तावत्पतिपारम्यदृष्ट्या रुद्रं विशिनष्टि, एषां पद्मयोन्यादीनामनुध्येयं ध्यातुं योग्यं पदाब्जयुग्मं यस्य जगद्गुरुं जगद्धितोपदेष्टारं स्वयं साक्षान्मङ्गलानामपि मङ्गलम् ईदृशं हरं सूरीनृषीश्चायं क्षत्रियाधमः परिभूय यद्यस्मात्प्रशास्ति तत्तस्मादयं दुष्टो दुरात्मा दण्ड्य एव सूरीन्परिभूय जगद्गुरुं गिरिशं प्रशास्तीति वान्वयः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

नायमर्हति वैकुण्ठपादमूलोपसर्पणम्।
सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम्॥

मूलम्

नायमर्हति वैकुण्ठपादमूलोपसर्पणम्।
सम्भावि8तमतिः स्तब्धः साधुभिः पर्युपासितम्॥ १४ ॥

अनुवाद (हिन्दी)

इसे अपने बड़प्पनका घमण्ड है। यह मूर्ख भगवान् श्रीहरिके उन चरणकमलोंमें रहनेयोग्य नहीं है, जिनकी उपासना बड़े-बड़े सत्पुरुष किया करते हैं॥ १४॥

वीरराघवः

ननु, भगवद्भक्तोयं न दण्ड्य इत्यत्राह - नायमिति । साधुभिः परिसेवितं सत्कृतं यद्वैकुण्ठस्य भगवतः पादमूलस्य उपसर्पणमनुसरणं सेवेति यावत् तत्प्रति अयं क्षत्रबन्धुर्नार्हति कुतः ? यतोऽयं सम्भावितात्माऽहमधिक इत्यभिमानवती मतिर्यस्य सः अत एव स्तब्धः निश्चल इव स्थितः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

अतः पापीयसीं योनिमासुरीं याहि दुर्मते।
यथेह भूयो महतां न कर्ता पुत्र किल्बिषम्॥

मूलम्

अतः पापीयसीं योनिमासुरीं याहि दुर्मते।
यथेह भूयो महतां न 9कर्ता पुत्र किल्बिषम्॥ १५ ॥

अनुवाद (हिन्दी)

[चित्रकेतुको सम्बोधन कर] अतः दुर्मते! तुम पापमय असुर योनिमें जाओ। ऐसा होनेसे बेटा! तुम फिर कभी किसी महापुरुषका अपराध नहीं कर सकोगे॥ १५॥

वीरराघवः

एवं दण्ड्यतामभिधायाथ शपति - अत इति । अतः भगवत्सेवानर्हत्वात् हे दुर्मते ! त्वमासूरीं पापीयसीं योनिं याहि हे पुत्र, यथा भूयो महतां किल्बिषमपराधं न कर्ता न करिष्यसि तथा याहीति ॥ १५ ॥

श्लोक-१६

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः।
प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत॥

मूलम्

एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः।
प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत॥ १६ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! जब पार्वतीजीने इस प्रकार चित्रकेतुको शाप दिया, तब वे विमानसे उतर पड़े और सिर झुकाकर उन्हें प्रसन्न करने लगे॥ १६॥

वीरराघवः

हे भारत ! एवम् इत्थं शप्तः स चित्रकेतुर्विमानादवरुह्य सतीमम्बिकां नम्रेण मूर्द्ध्ना प्रसादयामास प्रसन्नामकरोत् ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

चित्रकेतुरुवाच

विश्वास-प्रस्तुतिः

प्रतिगृह्णामि ते शापमात्मनोऽञ्जलिनाम्बिके।
देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत्॥

मूलम्

प्रतिगृह्णामि ते शापमात्मनोऽञ्जलिनाम्बिके।
देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत्॥ १७ ॥

अनुवाद (हिन्दी)

चित्रकेतुने कहा—माता पार्वतीजी! मैं बड़ी प्रसन्नतासे अपने दोनों हाथ जोड़कर आपका शाप स्वीकार करता हूँ। क्योंकि देवतालोग मनुष्योंके लिये जो कुछ कह देते हैं, वह उनके प्रारब्धानुसार मिलनेवाले फलकी पूर्व सूचना मात्र होती है॥ १७॥

वीरराघवः

तदेवाह - प्रतिगृह्णामीत्यादिना, क्षम्यतां सतीत्यन्तेन । तावत्तवेव मम रोषो नास्तीति सूचयन् शापं स्वीकरोमीत्याह - प्रतिगृह्णामीति । हे अम्बिके ! ते त्वया दत्तं शापमात्मनोऽञ्जलिना प्रतिगृह्णाम्यंजलिबन्धपूर्वकं स्वीकरोमि मयि महाननुग्रहस्त्वया कृतो न तु निग्रह इति भावः । तदेव स्पष्टयति — देवैरिति । देवैर्यद्यत्प्रोक्तं निग्रहरूपमनुग्रहरूपं वा तत्सर्वं मैत्र्यैव प्रोक्तं, कुतः ? हि यस्मात्तद्देवैः प्रोक्तं तस्य निग्राह्यस्यानुग्राह्यस्य वा जन्तोः पूर्वदिष्टं प्राचीनकर्मप्रयुक्तं मोक्षविरोधिप्राचीनकर्मणा एवं भ्राम्यतो नितरां मुमुक्षोर्ममाशु तद्विरोधिप्राचीनकर्मफलरूपत्वाच्छापानुभवेन निःशेषनिरस्तकर्मबन्धस्य भगवत्प्राप्त्या नित्यनिरतिशयानन्दरूपमहाभ्युदयलाभात्त्वयानुग्रह एव कृत इति भावः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

संसारचक्र एतस्मिञ्जन्तुरज्ञानमोहितः।
भ्राम्यन् सुखं च दुःखं च भुङ्‍क्ते सर्वत्र सर्वदा॥

मूलम्

संसारचक्र एतस्मिञ्जन्तुरज्ञानमोहितः।
10भ्राम्यन् सुखं च दुःखं च भुङ्‍क्ते सर्वत्र सर्वदा॥ १८ ॥

अनुवाद (हिन्दी)

देवि! यह जीव अज्ञानसे मोहित हो रहा है और इसी कारण इस संसारचक्रमें भटकता रहता है तथा सदा-सर्वदा सर्वत्र सुख और दुःख भोगता रहता है॥ १८॥

वीरराघवः

एतदेव स्फुटयितुं तावज्जन्तूनां कर्मभिर्भ्रमणमाह - संसारचक्र इति । एतस्मिंश्चक्रवत्परिवृत्तिशीले गर्भजन्मजरामरणादिरूपे संसारे अज्ञानेन ज्ञानेतरेणानादिपुण्यपापात्मकेन कर्मणा मोहितः स्वात्मपरमात्मयाथात्म्यज्ञानरहितः केवलदेहात्माभिमानी जन्तुर्भ्राम्यन्पुनः पूर्वपूर्ववासनानुरूपाण्युत्तरोत्तरसुखदुःखादिहेतुभूतानि कर्माणि कुर्वन् तत्फलं सुखं दुःखञ्च भुङ्क्ते एतन्न केवलमन्येषामेव जन्तूनां, किन्तु तवापीत्याशयेनाह — सर्वस्य सर्वदेति । सर्वस्यान्यस्य तव मम च सर्वदा यावण्मुक्ति एतत्समानमिति भावः, अन्यथा मत्कृतहेलनात्तवानादिकर्मप्रयुक्तदेहात्माभिमानमूलकः क्रोध एव न स्यादिति तात्पर्यम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः।
कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च॥

मूलम्

नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः।
कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च॥ १९ ॥

अनुवाद (हिन्दी)

माताजी! सुख और दुःखको देनेवाला न तो अपना आत्मा है और न कोई दूसरा। जो अज्ञानी हैं, वे ही अपनेको अथवा दूसरेको सुख-दुःखका कर्ता माना करते हैं॥ १९॥

वीरराघवः

यत एव सत्कारन्यक्कारसुखदुःखादिकं सर्वमनादिकर्मनिमित्तमत एव त्वत्तिरस्कर्त्तुर्मम मां शपन्त्यास्तव च न दोष इत्याह - नैवेति । सुखदुःखयोः कर्ता कारकः सुखदुःखापादक इत्यर्थः । आत्मा स्वयं परोऽन्यश्च न स्यान्न भवति, किन्तु तयोः कर्मैव निमित्तमिति भावः, कर्मणः क्षणिकत्वाज्जडत्वाच्च कथं तत् कालान्तरभावि सुखदुःखनिमित्तं ? तत्राह - कर्तारमिति । प्राज्ञः पुण्यपापयाथात्म्यवित् परमात्मानं परमपुरुषमेव सुखदुःखयोः कर्त्तारं मन्यते, अयं भावः, पुण्यपापे हि परमात्मनो निग्रहानुग्रहरूपे, तत्र श्रुतिस्मृत्याद्यात्मकशास्त्रार्थानुवर्त्तिन्यनुग्रहः परमपुरुषस्य, स एव हि पुण्यं नाम, अननुवर्त्तिनि तु निग्रहः, स एव हि पापं, एवञ्च परमपुरुष एव स्वशास्त्रानुवृत्यननुवृत्तिनिमित्तानुग्रहनिग्रहरूपपुण्यपापफलभूतयोः सुखदुःखयोः कर्तेति ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

गुणप्रवाह एतस्मिन् कः शापः को न्वनुग्रहः।
कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा॥

मूलम्

गुणप्रवाह एतस्मिन् कः शापः को11न्वनुग्रहः।
कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा॥ २० ॥

अनुवाद (हिन्दी)

यह जगत् सत्त्व, रज आदि गुणोंका स्वाभाविक प्रवाह है। इसमें क्या शाप, क्या अनुग्रह, क्या स्वर्ग, क्या नरक और क्या सुख, क्या दुःख॥ २०॥

वीरराघवः

एवं वैषयिकसुखदुःखयोः पुरुषार्थत्वापुरुषार्थत्वाभ्युपगमेन कर्मानुसारेणेश्वरसत्कर्त्तेत्युक्तम्, इदानीं वैषयिकसुखं विषमिश्रक्षीरवदन्ततो दुःखहेतुत्वादपुरुषार्थरूपमेवेत्याह - गुणप्रवाह इति । गुणानां प्रकृतेर्गुणानां सत्त्वरजस्तमसां प्रवाहरूपे परिणामरूपे एतस्मिन् प्रकृतिमण्डले जन्तूनां, कः शापः ? को वानुग्रहः ? उभयोर्वैलक्षण्यमेव दुर्वचमेवेति भावः; ननु, न दुर्वचन्तयोः स्वरूपं स्वर्गहेतुरनुग्रहः नरकहेतुर्निग्रह इति सुवचमेवेत्यत्राह — कः स्वर्गो नरकः को वेति स्वर्गनरकयोरपि स्वरूपं दुर्वचमेवेति भावः । ननु, स्वर्गः सुखं, दुःखं नरकमिति सुवचमित्यत्राह - किं सुखं दुःखमेव वेति, तदप्यव्यवस्थितमित्यर्थः । स्वर्गस्य सुखरूपत्वे तस्य दुःखगर्भत्वं न स्यात् नरकस्य दुःखरूपत्वे वा तस्य सुखगर्भता न स्यात् स्वर्गोप्यन्ततो दुःखहेतुः नरकोऽप्यन्ततः किञ्चित्सुखहेतुर्दृष्टः अत उभयोरुभयगर्भत्वात् न परस्परस्य व्यवस्थितिरिति भावः । शापनरकदुःखानि दृष्टान्तार्थतया उपात्तानि यथा, तेषु पुरुषार्थत्वं तद्धेतुत्वञ्च नास्ति तथानुग्रहः स्वर्गसुखेष्वित्यर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

एकः सृजति भूतानि भगवानात्ममायया।
एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः॥

मूलम्

एकः सृजति भूतानि भगवानात्ममायया।
एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः॥ २१ ॥

अनुवाद (हिन्दी)

एकमात्र परिपूर्णतम भगवान् ही बिना किसीकी सहायताके अपनी आत्मस्वरूपिणी मायाके द्वारा समस्त प्राणियोंकी तथा उनके बन्धन, मोक्ष और सुख-दुःखकी रचना करते हैं॥ २१॥

वीरराघवः

नन्वेवंविधसुखदुःखभाञ्जि भूतानि किमकस्मात्स्वयमेवोत्पद्यन्ते ? नेत्याह — एक इति । भगवान्निरस्तनिखिलदोषः षाड्गुण्यपूर्णः परमपुरुषः आत्मनः स्वस्य मायया स्वयमेकः निस्समाभ्यधिकः स्वसमाभ्यधिककर्त्रन्तरोपकरणान्तरनिरपेक्ष एव भूतानि देवमनुष्यादीनि चिदचिदात्मकानि आब्रह्मस्तम्बपर्यन्तानि सृजति, न तु तान्यकस्मादुत्पद्यन्त इति भावः; तर्हि किं कुलालादिवत्कर्मायत्तदेही भगवान् ? नेत्याह - निष्कलः कर्मायत्तपाणिपादाद्यवयवात्मकदेहरहितः, तस्य वैषम्यनैर्घृण्यादिदोषपरिहाराय भूतानि विशिनष्टि — येषामिति, येषां भूतानां स्वस्वकर्मानुगुणबन्धमोक्षादिकं भवति तानि सृजतीत्यन्वयः, बन्धमोक्षमिति द्वितीयान्तपाठे येषां भूतानां तत्तत्कर्मानुसारेण बन्धादिकञ्च सृजति, स एव तानि भूतान्यपि सृजति, न ततोऽस्य वैषम्यादिदोष इत्यर्थः एषामितीदंशब्दपाठे बन्धमित्यादीनाञ्च द्वितीयान्तपाठे तु सृष्टानामेतेषां भूतानां तत्तत्कर्मानुसारेण बन्धादिकमपि सृजतीत्यर्थः । एवं बन्धादिकं देवमनुष्यादिवैचित्र्यञ्च तत्तज्जीवकर्मानुसारेण तेषां तेषामीश्वरकृतमौपाधिकं न स्वरूपप्रयुक्तमित्युक्तं भवतीत्यर्थः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

न तस्य कश्चिद्दयितः प्रतीपो
न ज्ञातिबन्धुर्न परो न च स्वः।
समस्य सर्वत्र निरञ्जनस्य
सुखे न रागः कुत एव रोषः॥

मूलम्

न तस्य कश्चिद्दयितः 12प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः।
समस्य सर्वत्र13 निरञ्जनस्य सुखे न रागः कुत एव रोषः॥ २२ ॥

अनुवाद (हिन्दी)

माताजी! भगवान् श्रीहरि सबमें सम और माया आदि मलसे रहित हैं। उनका कोई प्रिय-अप्रिय, जाति-बन्धु, अपना-पराया नहीं है। जब उनका सुखमें राग ही नहीं है, तब उनमें रागजन्य क्रोध तो हो ही कैसे सकता है॥ २२॥

वीरराघवः

कीदृशं तर्हि जीवस्य स्वरूपं ? कुतस्तस्य कर्म ? यतो देवादिवैचित्र्यं बन्धादिकं चेत्यपेक्षायामाह - न कस्येति । वस्तुतः कस्यापि जीवस्य कश्चिदपि दयितादिर्नास्ति, कुतः ? सर्वत्र देवादिशरीरेषु समस्य समत्वेनावस्थितस्य ज्ञानैकाकारतया ज्ञानानन्दस्वरूपत्वेन चावस्थितस्येत्यर्थः । परस्परतारतम्ये हि प्रियाप्रियादिविभागः सर्वेषामात्मनामेकरूपत्वान्न स्वरूपकृतः प्रियाप्रियादिविभाग इति भावः । ननु, देवादिरूपेण वैचित्र्यात्कथं समत्वम् ? तत्राह - निरञ्जनस्येति । अञ्जनं रूपान्तरापत्तिः तद्रहितस्य देवादिवैचित्र्यस्य प्रकृतिगतत्वाज्जीवस्वरूपगतत्वाभावात्स सर्वत्र सम इति भावः; यत एव समो निरञ्जनश्च, अत एव तस्य वैषयिकसुखे न रागः नासक्तिः सुखैकतानस्वरूपत्वेन वैषयिकसुखलेशे न तस्य राग इति भावः यत एव सुखे न तस्य रागः कुतस्तराम् ? तस्य वैषयिकसुखलाभप्रतिबन्धकविषयो रोषः स्यादित्यर्थः । तत्र दयितः प्रीतिविषयः अनुकूल इति यावत् प्रतीपः प्रतिकूलः ज्ञातिः सपिण्डः बन्धुर्वैवाहिकादिसम्बन्धवान् परोऽन्यदीयः स्वः स्वकीयः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

तथापि तच्छक्तिविसर्ग एषां
सुखाय दुःखाय हिताहिताय।
बन्धाय मोक्षाय च मृत्युजन्मनोः
शरीरिणां संसृतयेऽवकल्पते॥

मूलम्

तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय।
बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतयेऽवकल्पते॥ २३ ॥

अनुवाद (हिन्दी)

तथापि उनकी मायाशक्तिके कार्य पाप और पुण्य ही प्राणियोंके सुख-दुःख, हित-अहित, बन्ध-मोक्ष, मृत्यु-जन्म और आवागमनके कारण बनते हैं॥ २३॥

वीरराघवः

एवं प्रकृतिविलक्षणं स्वाभाविकं जीवस्वरूपमुक्तमथैवंभूतस्य दैवादिवैचित्र्यं बन्धादिकं चोपपादयति - तथापीति । यद्यप्येवंभूता जीवाः तथाप्येषां शरीरिणां जीवानां तच्छक्तिविसर्ग एव तस्य तज्जीवसम्बन्धिकर्मणो या शक्तिर्वासनारूपा शक्तिः तस्या विसर्गः सृष्टिरुत्तरोत्तरकर्मैव सुखादिरूपसंसृतये मोक्षाय चावकल्पते समर्थं भवति तन्निमित्तमित्यर्थः, अयं भावः, स्वभावतः पूर्वोक्तविधानामपि बीजाङ्कुरन्यायेनादिकर्मवासनामात्रावशेषिनां कल्पान्ते परमात्मन्युपसंहृतानां पुनः कल्पादौ परमकारुणिकेनेश्वरेण स्वाराधनेनैते निस्तरेयुरित्यनुजिघृक्षुणा प्रदत्तकरणकलेवरधर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयतत्साधनाववोधिवेदाख्यशास्त्राणामप्यनादिवासनया “अन्नं भोज्यं मनुष्याणां, श्वपशूविट्तृणाहारौ” इत्याद्युक्तरीत्या ईहमानानां पुण्यपापरूपकर्मोपनिपाततत्फलानुभवपुनस्तदर्थकर्मोपनिपाततत्फलानुभवादिपरंपरया सर्वमुपपन्नमिति, तत्र हिताहिताय सुखदुःखहेतुभूतधर्माधर्माय मृत्युजन्मनोः जन्ममरणाभ्यामित्यर्थः । तादर्थ्यस्य बन्धसामान्यत्वेन विवक्षया षष्ठी प्रयुक्ता मोक्षाय च तच्छक्तिविसर्ग एवावकल्पत इत्यनेन भगवत्प्रसादहेतुः कश्चिद्यादृच्छिकानुषङ्गिकप्रासंगिकाद्यन्यतमः पुण्यपापकर्मविशेष एव मोक्षोपायोपसंहारहेतुरिति सूचितम् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

अथ प्रसादये न त्वां शापमोक्षाय भामिनि।
यन्मन्यसे असाधूक्तं मम तत्क्षम्यतां सति॥

मूलम्

अथ14 प्रसादये न त्वां शापमोक्षाय भामिनि।
यन्मन्यसे असाधूक्तं मम तत्क्षम्यतां सति॥ २४ ॥

अनुवाद (हिन्दी)

पतिप्राणा देवि! मैं शापसे मुक्त होनेके लिये आपको प्रसन्न नहीं कर रहा हूँ। मैं तो यह चाहता हूँ कि आपको मेरी जो बात अनुचित प्रतीत हुई हो, उसके लिये क्षमा करें॥ २४॥

वीरराघवः

एवं वस्तुस्थितिमभिधाय त्वच्छापोऽनुग्रह एवेति वदन् स्वापराधं प्रतिक्षमापयति - अत इति । अतः वस्तुस्थितेरेवंविधत्वात्, हे भामिनि, शापनिर्हरणाय त्वां न प्रसादये न प्रार्थये, किन्तु हे सति, मम मया यदुक्तमसाधु यथा तथा मन्यसे तत् क्षम्यतामिति त्वां प्रसादये ॥ २४ ॥

श्लोक-२५

मूलम् (वचनम्)

श्रीशुक15 उवाच

विश्वास-प्रस्तुतिः

इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम।
जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः॥

मूलम्

इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम।
जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः॥ २५ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! विद्याधर चित्रकेतु भगवान् शंकर और पार्वतीजीको इस प्रकार प्रसन्न करके उनके सामने ही विमानपर सवार होकर वहाँसे चले गये। इससे उन लोगोंको बड़ा विस्मय हुआ॥ २५॥

वीरराघवः

इतीत्थं गिरिजां पार्वतीं प्रसाद्य प्रसन्नां कृत्वा चित्रकेतुः हे अरिन्दम, स्मयतोः आश्चर्यं प्राप्तयोः तयोर्भवभवान्योः पश्यतोस्सतोः विमानेन गमनसाधनेन जगाम ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत्।
देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम्॥

मूलम्

ततस्तु भगवान् रुद्रो रुद्राणीमि16दमब्रवीत्।
देवर्षिदैत्यसिद्धानां पार्षदानां च शृ17ण्वताम्॥ २६ ॥

अनुवाद (हिन्दी)

तब भगवान् शंकरने देवता, ऋषि, दैत्य, सिद्ध और पार्षदोंके सामने ही भगवती पार्वतीजीसे यह बात कही॥ २६॥

वीरराघवः

ततश्चित्रकेतोर्गमनानन्तरं रुद्रः रुद्राणीमम्बिकां प्रति इदं वक्ष्यमाणं देवर्षिप्रभृतीनां स्वपार्षदानाञ्च शृण्वतां सतामब्रवीत् ॥ २६ ॥

श्लोक-२७

मूलम् (वचनम्)

18श्रीरुद्र उवाच

विश्वास-प्रस्तुतिः

दृष्टवत्यसि सुश्रोणि हरेरद‍्भुतकर्मणः।
माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम्॥

मूलम्

दृष्टवत्यसि सुश्रोणि हरेरद‍्भुतकर्मणः।
माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम्॥ २७ ॥

अनुवाद (हिन्दी)

भगवान् शंकरने कहा—सुन्दरि! दिव्यलीला-विहारी भगवान‍्के निःस्पृह और उदारहृदय दासानुदासोंकी महिमा तुमने अपनी आँखों देख ली॥ २७॥

वीरराघवः

तदेवाह - दृष्टवतीत्यादिना, समदर्शिष्वित्यन्तेन । हे सुश्रोणि ! अद्भुतकर्मणः विविधविचित्रस्वाभाविकक्रियाशक्तेर्हरेर्भगवतो भृत्यवर्गाणां माहात्म्यं दृष्टवत्यसि कथंभूतानां निःस्पृहाणां वैषयिकं सुखमनिच्छूनां महात्मनाम् अपकर्तृष्वप्युपकर्तृत्वबुद्धीनां सुखदुःखयोः समबुद्धीनाञ्चेत्यर्थः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

नारायणपराः सर्वे न कुतश्चन बिभ्यति।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः॥

मूलम्

नारायणपराः सर्वे न कुतश्चन बिभ्यति।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः॥ २८ ॥

अनुवाद (हिन्दी)

जो लोग भगवान‍्के शरणागत होते हैं, वे किसीसे भी नहीं डरते। क्योंकि उन्हें स्वर्ग, मोक्ष और नरकोंमें भी एक ही वस्तुके—केवल भगवान‍्के ही समानभावसे दर्शन होते हैं॥ २८॥

वीरराघवः

एतद्दृष्टान्तेन अन्यानपि भगवद्भक्तानीदृशानेवाऽहो इत्याह नारायणपरा इति । सर्वे नारायण एव परः परतत्त्वं येषां ते कुतश्चन अर्वाचीनस्य निग्रहादेर्न बिभ्यति भयं न कुर्वन्ति, कुतः ? यतस्ते स्वर्गादिष्वपि तुल्यार्थदर्शिनः तुल्यप्रयोजनदर्शिनः विषमार्थदर्शनमेव भयहेतुरिति भावः । अपवर्गोऽत्र कैवल्यं मोक्षस्य भगवदनुभवरूपत्वेन तेषां तस्य स्वर्गादितुल्यत्वकथनानुपपत्तेः यद्वा अपवर्गो मुक्तिरेव भगवद्दास्यमन्तरेण तेषां न प्रयोजनं किं पुनस्स्वर्गादिस्तेषां न प्रयोजनमिति सूचनार्थं वा अपवर्गशब्दः प्रयुक्तः स्वर्गस्यापि नरकतुल्यताख्यापनाय नरकशब्दः, यथा नरकस्तथा स्वर्गोपीत्यर्थः, तथा चोक्तम् - “एते वै निरयास्तात स्थानस्य परमात्मनः” इति । “वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय ! देवेन्द्रत्वादिकं फलम् ।” इति च स्वर्गादिषु तुल्यार्थदर्शिन इत्यनेन विषमदर्शनं भयहेतुरिति सूचितम् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

देहिनां देहसंयोगाद् द्वन्द्वानीश्वरलीलया।
सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च॥

मूलम्

देहिनां देहसंयोगाद् द्वन्द्वानीश्वरलीलया।
सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च॥ २९ ॥

अनुवाद (हिन्दी)

जीवोंको भगवान‍्की लीलासे ही देहका संयोग होनेके कारण सुख-दुःख, जन्म-मरण और शाप-अनुग्रह आदि द्वन्द्व प्राप्त होते हैं॥ २९॥

वीरराघवः

तत्र समदर्शननिमित्तं वक्तुं तावद्विषमदर्शननिमित्तमाह - देहिनामिति द्वाभ्याम् । तावद्देहिनां जीवानाम् ईश्वरलीलया हेतुभूतया ईश्वरस्य लीलात्मिकया जगत्सृष्ट्या यो देहसम्बन्धः तस्मादेव सुखदुःखादीनि द्वन्द्वानि भवन्ति, न तु स्वरूपत इति निर्विवाद, देहसंयोगमात्र एवेश्वरलीलाहेतुभूता, न तु द्वन्द्वेषु वा देहयोगवैचित्र्ये वा हेतुरिति तात्पर्यम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि।
गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः॥

मूलम्

अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि।
गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः॥ ३० ॥

अनुवाद (हिन्दी)

जैसे स्वप्नमें भेद-भ्रमसे सुख-दुःख आदिकी प्रतीति होती है और जाग्रत्-अवस्थामें भ्रमवश मालामें ही सर्पबुद्धि हो जाती है—वैसे ही मनुष्य अज्ञानवश आत्मामें देवता, मनुष्य आदिका भेद तथा गुण-दोष आदिकी कल्पना कर लेता है॥ ३०॥

वीरराघवः

तर्हि तत्र को हेतुः ? तत्राह - अविवेककृत इति । आत्मनि ज्ञानैकाकारे जीवे अर्थभेद इव देवमनुष्यत्वादिभेद इव गुणदोषविकल्पः भेदः गुणाः सुखजन्यानुग्रहा दोषा दुःखमृतिशापा एषां विकल्पः अविवेककृतः अनादिकर्मनिमित्तो यो देहात्मभ्रान्तिस्वतन्त्रात्मभ्रान्तिरूपोऽविवेकः तेन कृतः तन्निमित्त इत्यर्थः । अर्थभेदस्याविवेककृतत्वसिद्धवत्कारेण सदृष्टान्ततः उभयमप्यविवेककृतमिति तात्पर्यम् । अत एवार्थभेदस्याविवेकृतत्वं देवात्मभ्रान्तिमतां पुरुषाणामप्रसिद्धमिति, तस्य दृष्टान्तत्वमस्वरसमित्यभिप्रेत्य तत्प्रसिद्धं दृष्टान्तान्तरमाह - भिदेव स्वप्नकल्पितेति । यथा स्वप्नकल्पिता भिदा भेदः अविवेककृतः तथा गुणदोषविकल्पोप्यविवेककृत इत्यर्थः । यथाऽपवरकादिषु शयानस्य एकस्य पुरुषस्य स्वप्नद्रष्टुः स्वस्मिन्वस्तुतोऽविद्यमान एव गजस्कन्धारोहणदेशान्तरगमनराज्याभिषेकशिरच्छेदाद्यर्हदेहभेदस्तन्मात्रानुभाव्यः तत्कालमात्रावसायी च तत्तत्कर्मनिमित्तदेहात्मभ्रान्त्याद्यनुगुणमीश्वरकल्पितोऽविवेककृतः तथा जाग्रदवस्थानुभाव्यसुखदुःखादिद्वन्द्वजालानि देवादिवैचित्र्याणि च तत्तत्कर्मतन्मूलकदेहात्माभिमानाद्यनुगुणमीश्वरकृतान्यप्यविवेकमूलकान्येवेतिभावः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

वासुदेवे भगवति भक्तिमुद्वहतां नृणाम्।
ज्ञानवैराग्यवीर्याणां नेह कश्चिद् व्यपाश्रयः॥

मूलम्

वासुदेवे भगवति भक्तिमुद्वहतां नृणाम्।
ज्ञानवैराग्यवीर्याणां नेह कश्चिद् व्यपाश्रयः॥ ३१ ॥

अनुवाद (हिन्दी)

जिनके पास ज्ञान और वैराग्यका बल है और जो भगवान् वासुदेवके चरणोंमें भक्तिभाव रखते हैं, उनके लिये इस जगत‍्में ऐसी कोई भी वस्तु नहीं है, जिसे वे हेय या उपादेय समझकर राग-द्वेष करें॥ ३१॥

वीरराघवः

एवं भयनिमित्ते विषमदर्शनेऽविवेक एव हेतुरित्युक्तम् अथ नारायणपरायणानामीदृशाविवेकाभावात्कचित्कदाचिदुपजातस्याप्यविवेकस्य पुनः स्वात्मपरमात्मयाथात्म्यावमर्शने तदपोहात्तन्मूलकं विषमदर्शनन्तन्मूलकं भयञ्च नास्तीत्याह – वासुदेव इति । ज्ञानं शास्त्रजन्यं प्रकृतिपुरुषेश्वरयाथात्म्यावमर्शनरूपं तत्प्रयुक्तं वैराग्यं शब्दादिविषयेष्वनासक्तिरूपम् एतदुभयमेव । वीर्यं बलं येषां तेषां वासुदेवेः भगवति निरतिशयानन्दरूपे भक्तिमुद्वहतां कुर्वतां नृणां कुतश्चिदपि हेतोर्व्यपाश्रयः व्यपगत आश्रयः यस्मात्तद्वयपाश्रयं यस्मात् विषमदर्शनादाश्रयः आश्रीयमाणः परमात्मा व्यपगतो भवति विस्मृतो भवति तादृशं विषमदर्शनं नास्तीत्यर्थः । निरन्तरं प्रकृतिपुरुषेश्वरयाथात्म्यावलोकनतत्प्रयुक्तवैराग्यबलविस्मृतदेहतदनुबन्धितद्धर्माणां निरतिशयानन्दरुपभगवद्भक्तिनिर्वृतानामविवेकाभावात्क्वचित्कदाचित आपतितस्याप्युक्तविधज्ञानवैराग्यबलेन तन्निरसनशीलत्वाच्च तेषां विषमदर्शनमेव नास्ति, कुतः, तन्निमित्तं भयमिति भावः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

नाहं विरिञ्चो न कुमारनारदौ
न ब्रह्मपुत्रा मुनयः सुरेशाः।
विदाम यस्येहितमंशकांशका
न तत्स्वरूपं पृथगीशमानिनः॥

मूलम्

नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः।
विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः॥ ३२ ॥

अनुवाद (हिन्दी)

मैं, ब्रह्माजी, सनकादि, नारद, ब्रह्माजीके पुत्र भृगु आदि मुनि और बड़े-बड़े देवता—कोई भी भगवान‍्की लीलाका रहस्य नहीं जान पाते। ऐसी अवस्थामें जो उनके नन्हे-से-नन्हे अंश हैं और अपनेको उनसे अलग ईश्वर मान बैठे हैं, वे उनके स्वरूपको जान ही कैसे सकते हैं?॥ ३२॥

वीरराघवः

एवं स्वभार्यायै नारायणपरायणानां माहात्म्यमजानत्यै तत्प्रदर्शितं रुद्रेण, अथ स्त्रीस्वभावत्वात्सर्वेश्वरे सर्वकारणे त्वयि त्वद्भक्तेषु वा त्वत्सृज्यत्वन्नियाम्यनारायणस्य तद्भक्तानां वा समुद्रे विप्रुडिव कियदेतन्माहात्म्यमित्याशङ्कमानां प्रत्याह - नाहमिति । अहं रुद्रः अस्मदादयो यस्य नारायणस्य ईहितं ‘भावे क्तः’ ईहां चेष्टां तत्स्वरूपञ्च न विदामः न जानीमः ईहा च जगद्व्यापाररूपा चेष्टा । अज्ञाने हेतुः, अंशांशकाः तदाहिततज्ज्ञानशक्तिलेशयुक्ताः तन्मात्रेणैव वयमपि पृथगीश्वरा इत्यभिमानयुक्ताः, अनेन स्वस्मिन् सर्वेश्वरत्वशङ्का निवारिता । ईहितं न विदामेत्यनेन कारणत्वशङ्कापि, सृष्ट्यादिव्यापारस्य तत्कर्तृकत्वकथनात् । स्वरूपं न विदामेत्यनेन तत्स्वरूपस्यानन्तमहिमशालित्वमपरिच्छिन्नत्वञ्चोक्तम् । तत्र विरिञ्चो ब्रह्मा कुमारः सनत्कुमारः ब्रह्मपुत्राः मरीच्यादयः मुनयः तद्व्यतिरिक्ता अन्ये मुनयः सुरेशाः इन्द्रादयः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा।
आत्मत्वात्सर्वभूतानां सर्वभूतप्रियो हरिः॥

मूलम्

न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा।
आत्मत्वात्सर्वभूतानां सर्वभूतप्रियो हरिः॥ ३३ ॥

अनुवाद (हिन्दी)

भगवान‍्को न कोई प्रिय है और न अप्रिय। उनका न कोई अपना है और न पराया। वे सभी प्राणियोंके आत्मा हैं, इसलिये सभी प्राणियोंके प्रियतम हैं॥ ३३॥

वीरराघवः

यद्ययं सर्वेश्वरः सर्वकारणभूतः तर्ह्यस्य प्राकृतस्येवाश्रितेष्वेव विशिष्योक्तविधमाहात्म्यापादकः किमयं पक्षपातः तत्राह न हीति । अस्य नारायणस्यातीव प्रियादिः कश्चिन्नास्ति, तत्र हेतुः, आत्मत्वात्सर्वभूतानां ब्रह्मादिस्तम्बपर्यन्तानां चिदचिदात्मकानां भूतानामात्मत्वादन्तरात्मत्वात् न ह्यात्मनः एकं शरीरं प्रियमेकमप्रियं भवतीति भावः, यत एवात्मा सर्वभूतानामतस्तेषामाश्रयः धारकः अन्तः प्रविश्य भर्तेत्यर्थः । सर्वभूताश्रय इत्यनेन शरीराणां सर्वभूतानाम् आत्मभूतपरमात्मानुवर्तनं युक्तमेवेति सूचितम्, न हि शरीरमात्मानमननुवृत्यावतिष्ठते शरीरस्यात्मानुवर्त्तनस्वभावत्वात्, हरिरित्यनेन स्वानुवर्त्यार्तिहरत्वं सूचितम् । एवञ्च ये स्वाभाविकं जीवपरमात्मनोः शरीरात्मभावं जानन्तस्तमनुवर्त्तन्ते तेषु तस्यानुग्रहः इतरेषु तदभाव इति तात्पर्यम् अत एव तस्य वैषम्यमित्यपि सूचितं न ह्यननुवर्तिष्वननुग्रहमात्रेण तस्य वैषम्यं न ह्याश्रिताभीष्टप्रदस्य सुरद्रुमस्यानाश्रिताभीष्टाप्रदानमात्रेण तस्य वैषम्यमापादयितुं शक्यम् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तस्य चायं महाभागश्चित्रकेतुः प्रियोऽनुगः।
सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः॥

मूलम्

तस्य चायं महाभागश्चित्रकेतुः प्रियोऽनुगः।
सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः॥ ३४ ॥

अनुवाद (हिन्दी)

प्रिये! यह परम भाग्यवान् चित्रकेतु उन्हींका प्रिय अनुचर, शान्त एवं समदर्शी है और मैं भी भगवान् श्रीहरिका ही प्रिय हूँ॥ ३४॥

वीरराघवः

यत एवायमात्मा भूतानामाश्रितानामभीष्टार्थदोऽविषमश्चात एव चित्रकेतुवदहमपि तमेवोपासे इत्याह - तस्येति । यथा महाभागः विवेकी सर्वत्र समदृक् शान्तश्च चित्रकेतुस्तस्य नारायणस्यानुगः भृत्यः भक्तः अत एव प्रियः निरतिशयप्रीतिविषयः तथा अहमप्यच्युतस्य प्रियः तन्निमित्तभक्तिमांश्च ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु।
महापुरुषभक्तेषु शान्तेषु समदर्शिषु॥

मूलम्

तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु।
महापुरुषभक्तेषु शान्तेषु समदर्शिषु॥ ३५ ॥

अनुवाद (हिन्दी)

इसलिये तुम्हें भगवान‍्के प्यारे भक्त, शान्त, समदर्शी, महात्मा पुरुषोंके सम्बन्धमें किसी प्रकारका आश्चर्य नहीं करना चाहिये॥ ३५॥

वीरराघवः

तस्मान्नारायणप्रियमाहात्म्ये न विस्मयः कार्य इति वदन्नुपसंहरति — तस्मादिति । यस्मान्नारायणस्तद्भक्ताश्च अस्मदादिभ्यो विलक्षणप्रभावाः तस्मान्महापुरुषस्य भगवतः भक्तेषु महात्मसु प्रकृतिपुरुषेश्वरयाथात्म्यावमर्शनप्रवणचित्तेष्वत एव समदर्शिषु शान्तेषु विरक्तेषु पुरुषेषु न विस्मयः कार्यः ॥ ३५ ॥

श्लोक-३६

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम्।
बभूव शान्तधी राजन् देवी विगतविस्मया॥

मूलम्

इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम्।
बभूव शान्तधी राजन् देवी विगतविस्मया॥ ३६ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! भगवान् शंकरका यह भाषण सुनकर भगवती पार्वतीकी चित्तवृत्ति शान्त हो गयी और उनका विस्मय जाता रहा॥ ३६॥

वीरराघवः

भगवतः शिवस्येत्थम् एवमभिभाषितं वचः श्रुत्वा गौरी देवी विगतविस्मया विस्मयरहिता शान्तधीः क्रोधरहिता च बभूव ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः।
मूर्ध्ना सञ्जगृहे शापमेतावत्साधुलक्षणम्॥

मूलम्

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः।
मूर्ध्ना सञ्जगृहे शापमेतावत्साधुलक्षणम्॥ ३७ ॥

अनुवाद (हिन्दी)

भगवान‍्के परमप्रेमी भक्त चित्रकेतु भी भगवती पार्वतीको बदलेमें शाप दे सकते थे, परन्तु उन्होंने उन्हें शाप न देकर उनका शाप सिर चढ़ा लिया! यही साधु पुरुषका लक्षण है॥ ३७॥

वीरराघवः

ततो भागवतश्चित्रकेतुगौर्याः प्रतिशप्तुं प्रतिशापङ्कर्तुम् अलन्तमः समर्थोपि तस्याः शापं मूर्द्ध्ना सञ्जगृहे शिरसोवाह साधूनां लक्षणमेतावदेव हि, अपकर्तृष्वप्युपकर्तृत्त्वबुद्धिमत्त्वमेव हि साधूनां लक्षणमित्यर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः।
वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः॥

मूलम्

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः।
वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः॥ ३८ ॥

अनुवाद (हिन्दी)

यही विद्याधर चित्रकेतु दानवयोनिका आश्रय लेकर त्वष्टाके दक्षिणाग्निसे पैदा हुए। वहाँ इनका नाम वृत्रासुर हुआ और वहाँ भी ये भगवत्-स्वरूपके ज्ञान एवं भक्तिसे परिपूर्ण ही रहे॥ ३८॥

वीरराघवः

यत्पृष्टं राज्ञा वृत्रस्यासुरस्वभावस्य “नारायणे भगवति कथमासीदृढामतिः” इति तस्योत्तरं सङ्गमयति - जज्ञ इति । योऽयमुक्तविधश्चित्रकेतुः स एव त्वष्टुः संकल्पाद्दक्षिणाग्नौ जज्ञे जातः स एवासुरी योनिमासुरं भावमाश्रितः वृत्र इत्यभितः विख्यातः प्रसिद्धः स पूर्वजन्मसिद्धभगवद्भक्त्याऽस्मिन्नपि जन्मनि ज्ञानविज्ञानाभ्यां युक्तः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः॥

मूलम्

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः॥ ३९ ॥

अनुवाद (हिन्दी)

तुमने मुझसे पूछा था कि वृत्रासुरका दैत्ययोनिमें जन्म क्यों हुआ और उसे भगवान‍्की ऐसी भक्ति कैसे प्राप्त हुई। उसका पूरा-पूरा विवरण मैंने तुम्हें सुना दिया॥ ३९॥

वीरराघवः

एवं त्वत्प्रश्नोत्तरमुक्तमित्याह - एतदिति । षत्त्वमसुरजातेर्वृत्रस्य भगवति स्मृतेर्भक्तेः कारणं परिपृच्छसि पर्यपृच्छः तस्योत्तरमेतत्सर्वं सप्रपञ्चं ते तुभ्यं मया आख्यातं कथितम् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः।
माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते॥

मूलम्

इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः।
माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते॥ ४० ॥

अनुवाद (हिन्दी)

महात्मा चित्रकेतुका यह पवित्र इतिहास केवल उनका ही नहीं, समस्त विष्णुभक्तोंका माहात्म्य है; इसे जो सुनता है, वह समस्त बन्धनोंसे मुक्त हो जाता है॥ ४०॥

वीरराघवः

अस्य चित्रकेत्वितिहासस्य श्रवणादिफलमाह - इतिहासमिति । महात्मनश्चित्रकेतोः सम्बन्धिनं पुण्यमिममितिहासं विष्णुभक्तानां माहात्म्यसूचकं श्रुत्वा बन्धात्संसारबन्धाद्विमुच्यते मुक्तो भवेत् ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

य एतत्प्रातरुत्थाय श्रद्धया वाग्यतः पठेत्।
इतिहासं हरिं स्मृत्वा स याति परमां गतिम्॥

मूलम्

य एतत्प्रातरुत्थाय श्र19द्धया वाग्यतः पठेत्।
इतिहासं हरिं स्मृत्वा स याति परमां गतिम्॥ ४१ ॥

अनुवाद (हिन्दी)

जो पुरुष प्रातःकाल उठकर मौन रहकर श्रद्धाके साथ भगवान‍्का स्मरण करते हुए इस इतिहासका पाठ करता है, उसे परमगतिकी प्राप्ति होती है॥ ४१॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रके20तुशापो नाम सप्तदशोऽध्यायः॥ १७ ॥

वीरराघवः

यः पुमान् प्रातरुत्थाय श्रद्धावान् वाग्यतः नियमितवाक् हरिं स्मृत्वा एतमितिहासं पठेत् । स परमां गतिं सर्वोत्कृष्टं भगवत्सायुज्यं प्राप्नुयात् श्रवणपठनाभ्यां शनैः परिनिष्पन्नभक्तियोगो मुक्तो भवेदिति भावः ॥ ४१ ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां सप्तदशोऽध्यायः ॥ १७ ॥


  1. प्रा. पा. – स्ववि । ↩︎

  2. प्रा. पा. - आर्यमुख्यः सत्सभायां । ↩︎

  3. प्रा. पा. - सभ्याश्चासन्ननुव्रताः । ↩︎

  4. प्राचीने पाठे ‘पार्वत्युवाच’ पाठो न । ↩︎

  5. प्रा. पा. - दादयः । ↩︎

  6. प्रा. पा. – कुमारो मुनिवृन्दवन्द्यो । ↩︎

  7. प्रा. पा. - यत् । ↩︎

  8. प्रा. पा. वित्तोऽतिसंस्तब्धः । ↩︎

  9. प्रा. पा. - कर्तामुत्र । ↩︎

  10. प्रा. पा. - भ्रमन् । ↩︎

  11. प्रा. पा. - कस्त्व । ↩︎

  12. प्रा. पा. - यितो न प्रती । ↩︎

  13. प्रा. पा. - सर्वस्व । ↩︎

  14. प्रा. पा. - अतः । ↩︎

  15. प्राचीने पाठे ‘श्रीशुक उवाच’ पाठो न । ↩︎

  16. प्रा. पा. - मिति चा । ↩︎

  17. प्रा. पा. - सिद्धये । ↩︎

  18. प्रा. पा. - देव उवाच । ↩︎

  19. प्रा. पा. - श्रद्धावान् । ↩︎

  20. प्रा. पा. - केतुपाख्याने सप्तदशः । ↩︎