१६ परमात्मदर्शनम्

[षोडशोऽध्यायः]

भागसूचना

चित्रकेतुका वैराग्य तथा संकर्षणदेवके दर्शन

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

अथ देवऋषी राजन् सम्परेतं नृपात्मजम्।
दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम्॥

मूलम्

अथ देवऋषी राजन् सम्परेतं नृपात्मजम्।
दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम्॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! तदनन्तर देवर्षि नारदने मृत राजकुमारके जीवात्माको शोकाकुल स्वजनोंके सामने प्रत्यक्ष बुलाकर कहा॥ १॥

वीरराघवः

एवमुपदेक्ष्यमाणमंत्रोपनिषद्ग्रहणे तस्य रुचिमुत्पाद्याङ्गिरसोपदिष्टेषु वैराग्यापादकेष्वर्थेषु चित्रकेतुप्रभृतीनां विस्रंभद्योतनाय मृतके पुनर्जीवं स्वयोगमहिम्नाऽऽवेश्य तन्मुखेनाङ्गिरसोपदिष्टानर्थानवीवदद्भगवान्नारद इत्याह मुनिः — अथेति । हे राजन्, स देवर्षिर्नारदः सम्परेतं मृतं नृपात्मजमनुशोचतां ज्ञातीनां चित्रकेत्त्वादीनां दर्शयित्वा योगप्रभावेनाविष्टजीवं प्रदर्श्य इति वक्ष्यमाणम् उवाच हेत्याश्चर्ये अहो भगवतो नारदस्य प्रभावो यन्मृतमपि पुनरजीवयदिति ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते।
सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम्॥

मूलम्

जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते।
सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम्॥ २ ॥

अनुवाद (हिन्दी)

देवर्षि नारदने कहा—जीवात्मन्! तुम्हारा कल्याण हो। देखो, तुम्हारे माता-पिता, सुहृद्-सम्बन्धी तुम्हारे वियोगसे अत्यन्त शोकाकुल हो रहे हैं॥ २॥

वीरराघवः

उक्तमेवाह- जीवात्मन्निति द्वाभ्याम् । हे जीवात्मन् ! भद्रं प्रविष्टशरीरस्य ते तव मातरं पितरं सुहृदो बान्धवांश्च त्वन्निमित्तया शुचा भृशन्तप्तान्पश्य बान्धवास्तप्ता इति प्रथमान्तपाठे मातरं पितरं च पश्य बान्धवाः सुहृदश्च त्वत्कृतया शुचा भृशं तप्ताः अतस्तानपि पश्येत्यन्वयः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः।
भुङ्क्ष्व भोगान् पितृप्रत्तानधितिष्ठ नृपासनम्॥

मूलम्

कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः।
भुङ्क्ष्व भोगान् पितृप्रत्तानधितिष्ठ नृपासनम्॥ ३ ॥

अनुवाद (हिन्दी)

इसलिये तुम अपने शरीरमें आ जाओ और शेष आयु अपने सगे-सम्बन्धियोंके साथ ही रहकर व्यतीत करो। अपने पिताके दिये हुए भोगोंको भोगो और राजसिंहासनपर बैठो॥ ३॥

वीरराघवः

शेषमवशिष्टमायुर्जीवनं यस्य तत्कलेवरं समाविश्य, अपमृत्युना मृतत्वाच्छेषमायुरित्युक्तं सुहृद्भिः परिवृतत्वं नृपासनमधितिष्ठन् पितृप्रत्तान् पित्रा दत्तान् भोगान् भुङ्क्ष्व ॥ ३ ॥

श्लोक-४

मूलम् (वचनम्)

जीव उवाच

विश्वास-प्रस्तुतिः

कस्मिञ्जन्मन्यमी मह्यं पितरो मातरोऽभवन्।
कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु॥

मूलम्

कस्मिञ्जन्मन्यमी मह्यं पितरो मातरोऽभवन्।
कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु॥ ४ ॥

अनुवाद (हिन्दी)

जीवात्माने कहा—देवर्षिजी! मैं अपने कर्मोंके अनुसार देवता, मनुष्य, पशु-पक्षी आदि योनियोंमें न जाने कितने जन्मोंसे भटक रहा हूँ। उनमेंसे ये लोग किस जन्ममें मेरे माता-पिता हुए?॥ ४॥

वीरराघवः

भुङ्क्ष्वेत्युक्तो जीवस्तत्कलेवरमाविश्यावददित्याह - कस्मिन्नित्यादिना दृगीश्वर इत्यन्तेन, तावत्पितृपुत्रत्वादिसम्बन्धस्यानियतत्वमाह — कस्मिन्निति । देवतिर्यङ्मनुष्ययोनिषु कर्मभिः पुण्यपापरूपैः भ्राम्यमाणस्य जायमानस्य अत एव तत्र तत्र तत्तत्पुरुषविशेषान्प्रति तत्तन्निरूपितबन्ध्यादिभावं प्राप्तस्य मह्यं मम विभक्तिव्यत्यय आर्षः । अमी चित्रकेत्वादयः कस्मिन् जन्मनि पितरः मातरश्चाभवन् ? न सर्वेषु जन्मस्वभवन्, किन्त्वेतस्मिन्नेव अतः पितृपुत्रत्वादिसम्बन्धौ न नियत इति भावः । यद्वा कस्मिन् जन्मन्यमी पितरो मातरश्चाऽभवन् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः।
सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः॥

मूलम्

बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः।
सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः॥ ५ ॥

अनुवाद (हिन्दी)

विभिन्न जन्मोंमें सभी एक-दूसरेके भाई-बन्धु, नाती-गोती, शत्रु-मित्र, मध्यस्थ, उदासीन और द्वेषी होते रहते हैं॥ ५॥

वीरराघवः

ननु, सर्वेष्वपि जन्मस्वभवन्नित्यत्राह - बन्ध्विति । सर्वे जीवाः सर्वेषां जीवानां क्रमशः जन्मपरम्पराभिः मिथः अन्योन्यं बन्ध्वादयो भवन्तीत्यन्वयः । तत्र बन्धवो विवाहादिभिः सम्बन्धिनः ज्ञातयः सपिण्डाः अरयो धातुकाः मित्राणि रक्षकाः मध्यस्था उभयव्यतिरिक्ताः विद्विषो द्रव्यादिनिमित्तेन द्वेषिणः उदासीनास्तद्व्यतिरिक्ता इति भेदः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः।
पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु॥

मूलम्

यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः।
पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु॥ ६ ॥

अनुवाद (हिन्दी)

जैसे सुवर्ण आदि क्रय-विक्रयकी वस्तुएँ एक व्यापारीसे दूसरेके पास जाती-आती रहती हैं, वैसे ही जीव भी भिन्न-भिन्न योनियोंमें उत्पन्न होता रहता है॥ ६॥

वीरराघवः

कर्मभिर्भ्राम्यमाणत्वे दृष्टान्तमाह - यथेति । यथा पण्यानि क्रयाद्यर्हाणि हैमादीनि हेमविकाररूपादीनि कटकाङ्गुलीयकादीनि वस्तूनि कर्तृषु व्यवहर्तृषु नरेष्वितस्ततः पर्यटन्ति एवं जीवा अपि देवतिर्यङ्मनुष्ययोनिषु भ्रमन्ति संसरन्ति ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु।
यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि॥

मूलम्

नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु।
यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि॥ ७ ॥

अनुवाद (हिन्दी)

इस प्रकार विचार करनेसे पता लगता है कि मनुष्योंकी अपेक्षा अधिक दिन ठहरनेवाले सुवर्ण आदि पदार्थोंका सम्बन्ध भी मनुष्योंके साथ स्थायी नहीं, क्षणिक ही होता है; और जबतक जिसका जिस वस्तुसे सम्बन्ध रहता है, तभीतक उसकी उस वस्तुसे ममता भी रहती है॥ ७॥

वीरराघवः

एकस्मिन्नपि जन्मनि सम्बन्धस्यानियतत्त्वं सदृष्टान्तमाह – नित्यस्येतिद्वाभ्याम् । नित्यस्याविप्लुतस्य जीवत इति यावत् तस्य पश्चादेरर्थस्य अनित्यः अनियतः सम्बन्धो नृषु दृष्टः विक्रयादिना पूर्वस्वामिसम्बन्धस्य निवृत्तेरुत्तरस्वामिसम्बन्धदर्शनादेकस्मिन्नपि जन्मनि सम्बन्धो न नियत इति भावः । तदेवोपपादयति - यावदिति, यस्य पुंसो येन पश्चादिना यावत्सम्बन्धः क्रयादिनिमित्तसम्बन्धोस्ति तस्य ममत्वं स्वामित्वादिसम्बन्धस्तावदेव हीत्यनेन लोकप्रसिद्धिं द्योतयति ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

एवं योनिगतो जीवः स नित्यो निरहङ्कृतः।
यावद्यत्रोपलभ्येत तावत्स्वत्वं हि तस्य तत्॥

मूलम्

एवं योनिगतो जीवः स नित्यो निरहङ्कृतः।
यावद्यत्रोपलभ्येत तावत्स्वत्वं हि तस्य 1तत्॥ ८ ॥

अनुवाद (हिन्दी)

जीव नित्य और अहंकार रहित है। वह गर्भमें आकर जबतक जिस शरीरमें रहता है, तभीतक उस शरीरको अपना समझता है॥ ८॥

वीरराघवः

एवं दृष्टान्ते उपपादितमर्थं दार्ष्टान्तिके दर्शयति - एवमिति । स प्रसिद्धो निरहंकृतिः वस्तुतो देहात्माभिमानरहितोपि जीवः कर्मणा योनिगतदेवादिशरीरेष्वनुप्रविष्टस्सन् यत्र देवादिशरीरे नित्योऽपरित्यक्तदेहो यावदुपलभ्यते तावदेव तस्य स्वत्वं स्वीयत्वं, तावदेव हि तस्य पित्रादयः स्वीया भवन्ति, तावदेव तस्येतरैः पितृपुत्रत्वादिसम्बन्ध इति यावत् तत्तस्मात्तत्रोपलभ्यमानत्वादित्यर्थः । यद्वा यत्र शरीरे यावदुपलभ्येत तस्य शरीरस्य तावन्तं कालं जीवात्मानं प्रतिस्वत्वं तत्तस्मात्तत्रोपलभ्यमानत्वादित्यर्थः । अनुपलम्भे तु आत्मनिरूपितस्वत्वस्यैव शरीरेऽभावाच्छरीरनिरूपितपितृपुत्रत्वादिसम्बन्धो दूरादपेत इति भावः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक्।
आत्ममायागुणैर्विश्वमात्मानं सृजति प्रभुः॥

मूलम्

एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः 2स्वदृक्।
आत्ममायागुणैर्विश्वमात्मानं सृजति प्रभुः॥ ९ ॥

अनुवाद (हिन्दी)

यह जीव नित्य अविनाशी, सूक्ष्म (जन्मादिरहित), सबका आश्रय और स्वयं प्रकाश है। इसमें स्वरूपतः जन्म-मृत्यु आदि कुछ भी नहीं हैं। फिर भी यह ईश्वररूप होनेके कारण अपनी मायाके गुणोंसे ही अपने-आपको विश्वके रूपमें प्रकट कर देता है॥ ९॥

वीरराघवः

तर्हि कीदृशं तस्य स्वरूपं ? यत्स्वरूपगतो न भवत्यनियतः पितृपुत्रत्वादिसम्बन्ध इत्यत्राह एष इति । एष जीवो नित्त्यः आद्यन्तरहितः कुतः ? अव्ययः नाशरहितः तत्कुतः ? सूक्ष्मः निरतिशयसूक्ष्मः विनाशकैरव्याप्यः निरतिशयसूक्ष्मत्वात् । विनाकाहिजलाग्निविषशस्त्रादयो विनाश्यं व्याप्य विनाशयन्ति अस्य तु निरतिशयसूक्ष्मतया सर्वान्तःप्रवेशेनस्वभावत्वेनाव्याप्यत्वादयव्ययः एकः ज्ञानैकाकारः “एको व्रीहिः सुसम्पन्नः" इतिवज्जात्यभिप्रायकत्वकथनं न तु जीवस्वरूपैकत्वाभिप्रायकं तत्स्वरूपनानात्वस्य बहुप्रमाणप्रतिपन्नत्वात् सर्वाश्रयः सर्वेषां बुद्धीन्द्रियमनः प्राणादीनामाश्रयो धारकः स्वमात्मानं पश्यतीति स्वदृक् प्रत्यग्रूपः यद्वा स्वेनैव दृश्यत इति स्वदृक् स्वयंप्रकाशः अस्त्वीदृशं तस्य स्वरूपं किमयं स्वानर्थावहं देवमनुष्यादिशरीरं स्वयमेव सृष्ट्वा तत्र प्रविष्टोऽनर्थमनुभवति उत स्वकीयकर्मणा सृष्टे प्रविष्टोऽनुभवतीत्यत्राह - आत्मेति, न स्वानर्थावहं शरीरं स्वयं सृजति नापि केवलं कर्म, अपि तु परः परमपुरुषः आत्मनः स्वस्य मायया तस्य गुणैः सत्त्वादिभिरात्मानं प्रत्यगात्मानं विश्वं देवमनुष्यादिविश्वाकारं सृजति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

न ह्यस्यातिप्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा।
एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः॥

मूलम्

न ह्यस्यातिप्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा।
एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः॥ १० ॥

अनुवाद (हिन्दी)

इसका न तो कोई अत्यन्त प्रिय है और न अप्रिय, न अपना और न पराया। क्योंकि गुण-दोष (हित-अहित) करनेवाले मित्र-शत्रु आदिकी भिन्न-भिन्न बुद्धि-वृत्तियोंका यह अकेला ही साक्षी है; वास्तवमें यह अद्वितीय है॥ १०॥

वीरराघवः

ननु, कौसौ परः पुरुषः यदि कश्चित्सिध्यति तर्हि सोपीदृशदेवादिविषमसृष्टिं गर्भजन्मजरामरणाद्यनतदुःखगर्भा कुर्वन्वैषम्यनैर्घृण्ययुक्तः संसृष्टजीवान्नातिरिच्येत ? तत्राह - नहीति । अस्य परमपुरुषस्य कश्चिदतीव प्रीतिविषय कश्चिच्चाप्रियः स्वीयः परकीयो वा नास्ति किंतु सर्वेषु समदृष्टिरिति भावः । तर्हि कथं विषमं सृजति ? तत्राह एक इति, गुणादोषयोः पुण्यपापयोः कर्तृृणां जीवानां सर्वबुद्धिवृत्तीनां एक एव सन् द्रष्टा भवति । तस्य सामान्येन स्रष्टृत्त्वेपि देवादिवैषम्यतत्तज्जीवसंबन्धिपुण्यपापमूलकत्त्वान्न तस्य वैषम्यादिदोषप्रसक्तिरिति भावः । सर्वधियां द्रष्टेत्यनेन तस्या सर्वज्ञत्वं पुण्यपापकर्तृत्त्वं, तत्फलभोक्तृत्वं चाभिप्रेतम् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम्।
उदासीनवदासीनः परावरदृगीश्वरः॥

मूलम्

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम्।
उदासीनव3दासीनः परावरदृगीश्वरः॥ ११ ॥

अनुवाद (हिन्दी)

यह आत्मा कार्य-कारणका साक्षी और स्वतन्त्र है। इसलिये यह शरीर आदिके गुण-दोष अथवा कर्मफलको ग्रहण नहीं करता, सदा उदासीनभावसे स्थित रहता है॥ ११॥

वीरराघवः

तदेवाह - नादत्त इति । आत्मा परमपुरुषो गुणदोषौ नादत्ते न स्वीकरोति गुणदोषकर्तृत्त्वमात्मनि न मन्यते अत एव क्रियाफलं सुखदुःखादिकं नादत्ते किन्तूदासीनवदासीनः उदासीनवज्जीवान्तरात्मतया स्थितः वत्करणेनात्यन्तोदासीनत्वमपि नास्तीत्यावेदितं गुणदोषयोस्तस्य प्रयोजककर्तृत्त्वात्साक्षात्कर्तृत्वाभावादुदासीनत्वं तत्तत्पूर्वककर्मवासनानुसारेण प्रयोजयितृत्वाच्चानुदासितृत्वमपि विषयभेदादुभयोरेकस्मिन्न विरोध इति भावः । ननु, जीवस्यापि न गुणदोषयोः साक्षात्कर्तृत्वं तस्य निष्क्रियत्वाद्देहस्यैव साक्षात्कर्तृत्वात् किन्तु देहेन्द्रियादिनियमनरूपमेव तस्य कर्तृत्वम् एवञ्च प्रयोजयितृत्वं जीवपरयोरुभयोरप्यवशिष्टमिति कथमन्यतरस्य क्रियाफलोपादानमन्यतरस्य नेति विभागस्तत्राह - परावरदृगीश्वर इति, स्वयमीश्वरो जीवप्रभृतिदेहेन्द्रियमनःप्राणपर्यन्तानां नियन्ता सन् परावरदृक् परं प्रकृतिपुरुषाभ्यां विलक्षणं स्वस्वरूपमपरं जीवस्वरूपं प्रकृतिस्वरूपं च एतत्त्रितयं यथावत्पश्यतीति परावरदृक् जीवस्तु कर्मणा तिरोहितस्वभावः प्रकृतिमेवात्मानं मत्वा तद्गतं कर्तृत्वं साक्षात्स्वस्मिन्मनुत इति स क्रियाफलभोक्ता भवति परमात्मा तु नित्यासङ्कुचितापरिच्छिन्नानुभूत्या स्वपरयाथात्म्यवित्वाद्देहात्मभ्रमाभावेन क्रियाफलभोक्तेतिभावः । नहीत्यादिश्लोकद्वयं जीवपरतयापि वर्णयितुं शक्यं तथा हि, पूर्वप्रस्तुतं जीवस्वरूपमेव विशोधयति - नहीति, अस्य जीवस्य स्वतः प्रियाप्रियौ न भवतः अपि तु कर्मकृतावित्यर्थः तथा स्वपरविभागोपि न । एकः एकरूपः ज्ञानैकाकारः देहगतविकारैरस्पृष्टत्वेन सवैकरूप इति वा गुणदोषयोः कर्तॄणां हेतुभूतानां सर्वधियां दृष्टा आश्रयः नादत्त इति विवेकज्ञानवान् आत्मा गुणदोषान्वयं नाभिमन्यत इत्यर्थः । ईश्वरः देहादिनियमनपरः परावरदृक् स्वस्वरूपप्रकृतिस्वरूपयोर्द्रष्टेत्युक्तवानाविष्टो जीवः ॥ ११ ॥

श्लोक-१२

मूलम् (वचनम्)

श्रीशु4क उवाच

विश्वास-प्रस्तुतिः

इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा।
विस्मिता मुमुचुः शोकं छित्त्वाऽऽत्मस्नेहशृङ्खलाम्॥

मूलम्

इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा।
विस्मिता मुमुचुः शोकं छित्त्वाऽऽत्मस्नेहशृङ्खलाम्॥ १२ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—वह जीवात्मा इस प्रकार कहकर चला गया। उसके सगे-सम्बन्धी उसकी बात सुनकर अत्यन्त विस्मित हुए। उनका स्नेह-बन्धन कट गया और उसके मरनेका शोक भी जाता रहा॥ १२॥

वीरराघवः

तत उपरितनं वृत्तान्तमाह मुनिः - इतीति । इतीत्यमुदीर्योक्त्वा पुनर्जीव कलेवराद्विनिष्क्रम्य गतः तस्य मृतस्य ये ज्ञातयः ते तथा विस्मृतास्सन्तः आत्मनां स्वेषां यः पुत्रादिविषयकः स्नेहः स एव शृङ्खला तां छित्वाऽपोह्य शोकं मुमुचुः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः।
तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम्॥

मूलम्

निर्हृत्य ज्ञातयो 5ज्ञातेर्देहं कृत्वोचिताः क्रियाः।
तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम्॥ १३ ॥

अनुवाद (हिन्दी)

इसके बाद जातिवालोंने बालककी मृत देहको ले जाकर तत्कालोचित संस्कार और और्ध्वदैहिक क्रियाएँ पूर्ण कीं और उस दुस्त्यज स्नेहको छोड़ दिया, जिसके कारण शोक, मोह, भय और दुःखकी प्राप्ति होती है॥ १३॥

वीरराघवः

ततो ज्ञातयः तं शवमग्नौ निर्हृत्य दग्ध्वा उचिताः मृतोद्देशेन कर्तव्याः क्रियाः कृत्वा शोकमोहादिप्रदं दुस्त्यजं स्नेहमनुरागं तत्यजुः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः।
बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन्निरूपितम्।
यमुनायां महाराज स्मरन्त्यो द्विजभाषितम्॥

मूलम्

बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः।
बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन्निरूपितम्।
यमुनायां महाराज स्मरन्त्यो द्विजभाषितम्॥ १४ ॥

अनुवाद (हिन्दी)

परीक्षित्! जिन रानियोंने बच्चेको विष दिया था, वे बालहत्याके कारण श्रीहीन हो गयी थीं और लज्जाके मारे आँखतक नहीं उठा सकती थीं। उन्होंने अंगिरा ऋषिके उपदेशको याद करके (मात्सर्यहीन हो) यमुनाजीके तटपर ब्राह्मणोंके आदेशानुसार बालहत्याका प्रायश्चित्त किया॥ १४॥

वीरराघवः

ततो बालघ्न्यः याः गरलदानेन बालं हतवत्यः तास्सर्वाः द्विजेनाङ्गिरसा भाषितं स्मरन्त्यो व्रीडिताः लज्जिताः बालहत्यया हताः प्रभाः यासां ताः, यद्बालहत्याव्रतं बालहत्यापनोदकं व्रतं ब्राह्मणैर्निरूपितं कर्त्तव्यत्वेन चोदितं तद्यमुनायां हे महाराज, चेरुरनुष्ठितवत्यः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः।
गृहान्धकूपान्निष्क्रान्तः सरःपङ्कादिव द्विपः॥

मूलम्

स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः।
गृहान्धकूपान्निष्क्रान्तः सरःपङ्कादिव द्विपः॥ १५ ॥

अनुवाद (हिन्दी)

परीक्षित्! इस प्रकार अंगिरा और नारदजीके उपदेशसे विवेकबुद्धि जाग्रत् हो जानेके कारण राजा चित्रकेतु घर-गृहस्थीके अँधेरे कुएँसे उसी प्रकार बाहर निकल पड़े, जैसे कोई हाथी तालाबके कीचड़से निकल आये॥ १५॥

वीरराघवः

ततः स चित्रकेतुः इत्थं द्विजोक्तिभिरङ्गिरस उक्तिभिः जीवेन संवादिताभिर्नारदोक्तिभिश्च प्रतिबुद्धः उदितः आत्मविवेको यस्य तादृशः सरसः पङ्काद्गज इव गृहमेवान्धकूपस्तस्माद्विनिष्क्रान्तः निर्गतः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः।
मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत॥

मूलम्

कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः।
मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत॥ १६ ॥

अनुवाद (हिन्दी)

उन्होंने यमुनाजीमें विधिपूर्वक स्नान करके तर्पण आदि धार्मिक क्रियाएँ कीं। तदनन्तर संयतेन्द्रिय और मौन होकर उन्होंने देवर्षि नारद और महर्षि अंगिराके चरणोंकी वन्दना की॥ १६॥

वीरराघवः

कालिन्द्यां यमुनायां विध्युक्तप्रकारेण स्नात्वा कृताः पुण्याः जलक्रियाः पितृतर्पणादयो येन तादृशः मौनेन परमात्मस्वरूपसंशीलनेन हेत्वर्थे तृतीया मौनार्थं संयतप्राणः नियमितान्तर्बाह्येन्द्रियः इतरैः सम्भाषणराहित्यरूपेण मौनेन वाः ब्रह्मपुत्रौ नारदाङ्गिरसौ अवन्दत दण्डवन्ननाम ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने।
भगवान्नारदः प्रीतो विद्यामेतामुवाच ह॥

मूलम्

अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने।
भगवान्नारदः प्रीतो विद्यामेतामुवाच ह॥ १७ ॥

अनुवाद (हिन्दी)

भगवान् नारदने देखा कि चित्रकेतु जितेन्द्रिय, भगवद‍्भक्त और शरणागत हैं। अतः उन्होंने बहुत प्रसन्न होकर उन्हें इस विद्याका उपदेश किया॥ १७॥

वीरराघवः

ततस्तस्मै प्रपन्नाय यथाविधिं गुरूपसत्तिं कृत्वा स्थिताय भक्ताय गुरुभक्तियुक्ताय प्रयतात्मने श्रवणादियुक्तप्रयतमनस्काय भगवान्नारदः प्रीतः शिष्यलक्षणैर्हर्षितः एतां वक्ष्यमाणां विद्यां मन्त्रोपनिषदमुवाचोपदिदेश ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च॥

मूलम्

ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च॥ १८ ॥

अनुवाद (हिन्दी)

(देवर्षि नारदने यों उपदेश किया—) ‘ॐकारस्वरूप भगवन्! आप वासुदेव, प्रद्युम्न, अनिरुद्ध और संकर्षणके रूपमें क्रमशः चित्त, बुद्धि, मन और अहंकारके अधिष्ठाता हैं। मैं आपके इस चतुर्व्यूहरूपका बार-बार नमस्कारपूर्वक ध्यान करता हूँ॥ १८॥

वीरराघवः

नारदेनोपदिष्टां विद्यामेवाह - नम इत्यादिना, परमेष्ठिन्नमस्त इत्यन्तेन । तावत्सकलेतरविलक्षणं परमात्मानं विशोध्य प्रणमति वासुदेवादिचतुर्व्यूहात्मनावस्थिताय तस्मै तुभ्यं भगवते नमः एवंभूतं त्वां धीमहि ध्यायेमहि ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

नमो विज्ञानमात्राय परमानन्दमूर्तये।
आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये॥

मूलम्

नमो विज्ञानमात्राय परमानन्दमूर्तये।
आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये॥ १९ ॥

अनुवाद (हिन्दी)

आप विशुद्ध विज्ञानस्वरूप हैं। आपकी मूर्ति परमानन्दमयी है। आप अपने स्वरूपभूत आनन्दमें ही मग्न और परम शान्त हैं। द्वैतदृष्टि आपको छूतक नहीं सकती। मैं आपको नमस्कार करता हूँ॥ १९॥

वीरराघवः

विज्ञानमात्राय क्वचिदपि जाड्यरहिताय निरतिशयानन्दस्वरूपाय आत्मारामायात्मन्येव रममाणाय सुखान्तरनिरपेक्षायेत्यर्थः । शान्ताय रागादिरहिताय निवृत्तद्वैतसृष्टये सृष्टिरुदयः निवृत्ता द्वैतसृष्टिः जात्यादिकल्पना यस्य तस्मै जात्यादि कल्पनारहितायेत्यर्थः । निवृत्तद्वैतदृष्टय इति पाठे निवृत्ता द्वैतदृष्टिः स्थूलत्वाणुत्वादिभेददर्शनं यस्मिन् तथा च श्रूयते “अस्थूलमनण्वह्रस्वमदीर्घमगोत्रमचक्षुःश्रोत्रं तदपाणिपादम्” इत्यादि । एवंभूताय भगवते षड्गुणपूर्णाय नम इत्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः।
हृषीकेशाय महते नमस्ते विश्वमूर्तये॥

मूलम्

आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः।
हृषीकेशाय महते नमस्ते विश्वमूर्तये॥ २० ॥

अनुवाद (हिन्दी)

अपने स्वरूपभूत आनन्दकी अनुभूतिसे ही आपने मायाजनित राग-द्वेष आदि दोषोंका तिरस्कार कर रखा है। मैं आपको नमस्कार करता हूँ। आप सबकी समस्त इन्द्रियोंके प्रेरक, परम महान् और विराट्स्वरूप हैं। मैं आपको नमस्कार करता हूँ॥ २०॥

वीरराघवः

स्वात्मानन्दानुभवेनैव न्यस्ताः शक्त्या स्वबलेन ऊर्मयः अशनायापिपासाशोकमोहजरामरणरूपाः षडूर्मयो यस्य तस्मै हृषीकाणामिन्द्रियाणां तदधिपतेश्च ईशाय नियन्त्रे करणाधिपायेत्यर्थः । महते स्वरूपेण गुणैश्च निरतिशयबृहते विविधविचित्रानन्तशक्तये तुभ्यं नमः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

वचस्युपरतेऽप्राप्य य एको मनसा सह।
अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः॥

मूलम्

वचस्युपरतेऽप्राप्य य एको मनसा सह।
अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः॥ २१ ॥

अनुवाद (हिन्दी)

मनसहित वाणी आपतक न पहुँचकर बीचसे ही लौट आती है। उसके उपरत हो जानेपर जो अद्वितीय, नाम-रूपरहित, चेतनमात्र और कार्य-कारणसे परेकी वस्तु रह जाती है—वह हमारी रक्षा करे॥ २१॥

वीरराघवः

एवं नमनं विधायाथ तस्मात्स्वरक्षां प्रार्थयते - वचसीति । मनसा सह वचसि उपरते निवृत्ते सत्यवधेरभावाद्वाङ्मनसयोर्निवृत्तयोस्सतोः यः प्राप्यः अपरिच्छिन्नतया अनुसन्धेयः अतएवैकः निःसमाभ्यधिकः प्राप्येत्यविभक्तिकपाठे अप्राप्येति छेदः तदा मनसा सहाप्राप्यावधिं वचस्युपरते सति यः अपरिच्छिन्नानन्दरूप इति शेषः । वाङ्मनसापरिच्छेद्यापरिच्छिन्नानन्दरूप इत्यर्थः । चिन्मात्रः ज्ञानैकाकार; अत एवैकः निःसमाभ्यधिकः कर्मकृतनामरूपरहितः सदसत्परः चेतनाचेतनाभ्यां विलक्षणः सः प्रसिद्धः भगवान्नोऽस्मान् रक्षतु अत्र प्रतिपदमुपनिषदर्था अभिप्रेताः विज्ञानमात्राय परमानन्दमूर्त्तय इत्यनेन “विज्ञानमानन्दं ब्रह्म” इति श्रुत्यर्थः । आत्मारामायेत्यनेन “सर्वेश्वर्यसम्पन्नः शम्भुराकाशमध्यगः” इति निवृत्तद्वैतदृष्टये इत्यनेन अनामरूपश्चेत्यनेन च “अस्थूलमनणु” इति आत्मानन्देत्यादिना “योऽशनाया पिपासे शोकमोहौ जरामृत्यू अत्येति” इति हृषीकेशायेत्यनेन “सकारणं करणाधिपाधिपः" इति महत इत्यनेन “सत्यं ज्ञानमनन्तं ब्रह्म” इति अनन्तशक्तय इत्यनेन “परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इति वचस्युपरत इत्यादिना “यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणः" इति एक इत्यनेन “न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते” इति सदसत्पर इत्यनेन “भोक्ता भोग्यं प्रेरितारं च मत्वा, क्षरात्मा नावीशते देव एकः, योव्यक्तमन्तरे सञ्चरन्यस्याव्यक्तं शरीरं, योक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरम्” इति श्रुत्यर्था अभिप्रेताः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते।
मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः॥

मूलम्

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते।
मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः॥ २२ ॥

अनुवाद (हिन्दी)

यह कार्य-कारणरूप जगत् जिनसे उत्पन्न होता है, जिनमें स्थित है और जिनमें लीन होता है तथा जो मिट्टीकी वस्तुओंमें व्याप्त मृत्तिकाके समान सबमें ओत-प्रोत हैं—उन परब्रह्मस्वरूप आपको मैं नमस्कार करता हूँ॥ २२॥

वीरराघवः

एवं सकलेतरविलक्षणमौपनिषदं ब्रह्म विशोध्य प्रणम्य ततः स्वानिष्टनिवृत्तिं प्रार्थ्य अथ तदेव ब्रह्म जगज्जन्मादिकारणत्वेनोपलक्ष्य प्रणमति यस्मिन्निति । सदसत्पर इत्यस्योदाहृतश्रुत्यर्थप्रत्यभिज्ञापकतया उक्तविधस्वरूपस्य परस्य ब्रह्मणश्चिदचिच्छरीरकत्वप्रत्यभिज्ञापितोपनिषद्भिरेव प्रतिपन्नमित्यभिप्रेत्य चिदचिद्विशिष्टस्य जगत्कारणत्वलक्षणमत्रोच्यते, इदं स्थूलचिदचिदात्मकं जगत् यतः सूक्ष्मचिदचिद्विशिष्टाद्ब्रह्मणो जायते यस्मिन्नप्येति लीयते यस्मिन्नुक्तविधे ब्रह्मस्वरूपे तिष्ठति आधेयतया वर्त्तते “ब्रह्म वनं ब्रह्म सवृक्ष आसीद्यतो द्यावापृथिवीनिष्टत्तक्षुः” इति श्रुत्युक्तरीत्या आधारोपि ब्रह्मैवेति भावः । तत्र दृष्टान्तः मृणमयेष्विव मृज्जातिरिति मृजातिशब्दो मृज्जातीयपरः यथा मृण्मयेषु मृज्जातीयघटशरावादिकारणभूतेषु मृद्विकाररूपमृत्पिण्डेषु मृज्जातीयो घटादिर्जायते अपादानस्याधिकरणत्वविवक्षया सप्तमी मृण्मयेभ्यो यथा मृज्जातिर्जायत इत्यर्थः । यद्वा मृण्मयेष्विति निमित्तसप्तमी निमित्तमत्रोपादानकारणं तथा च मृण्मयेभ्यो मृत्पिण्डेभ्य उपादानभूतेभ्यो मृज्जातीयघटादिर्जायत इत्यर्थः, अथवा मृण्मयेष्विति पदमेव मृद्विकारघटादिपरं मृज्जातिर्मृत्पिण्डः मृण्मयेषु घटादिषु कारणतयाऽनुस्यूतः अथवा यस्मिन्नधितिष्ठतीत्यत्रैव दृष्टान्तः मृण्मयेषु घटादिषु मृज्जाति मृत्त्वमधितिष्ठति अपृथक्सिद्धप्रकारतया वर्त्तते तद्वदिदं विश्वं चिदचिदात्मकमपृथक्सिद्धप्रकारतया यस्मिन्वर्त्तते तस्मै ब्रह्मणे नमः अत्रापि “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयान्ति” इत्यादिश्रुत्यर्थोऽनुसन्धेयः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः।
अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम्॥

मूलम्

यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः।
अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम्॥ २३ ॥

अनुवाद (हिन्दी)

यद्यपि आप आकाशके समान बाहर-भीतर एकरस व्याप्त हैं, तथापि आपको मन, बुद्धि और ज्ञानेन्द्रियाँ अपनी ज्ञानशक्तिसे नहीं जान सकतीं और प्राण तथा कर्मेन्द्रियाँ अपनी क्रियारूप शक्तिसे स्पर्श भी नहीं कर सकतीं। मैं आपको नमस्कार करता हूँ॥ २३॥

वीरराघवः

एवं प्रतिपदमौपनिषदर्थं प्रत्यभिज्ञापनेन उपनिषदैकगम्यं परं ब्रह्मेति सूचितं तदेव दृढीकर्त्तुं तदिवरप्रमाणाविषयत्वं वदन्प्रणमति - यमिति । “अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः” इति श्रुत्युक्तरीत्या कृत्स्नं जगदन्तर्बहिश्च विततं व्याप्य स्थितमपि व्योमव्योमशरीरकम् “आकाशशरीरं ब्रह्म” इति श्रुतेः यं मनोबुद्धीन्द्रियासवो न स्पृशन्ति न विदुः तत्र कर्मेन्द्रियाण्यसवः प्राणाश्च क्रियाशक्तिप्रधाना न स्पृशन्ति न विषयीकुर्वन्ति मनश्च बुद्धिश्च चक्षुरादीनि ज्ञानेन्द्रियाणि च यं न विदुरित्यन्वयः । बुद्धीन्द्रियाद्यविषयत्वेन तन्मूलकप्रत्यक्षादिप्रमाणाविषयमिति भावः । अतीन्द्रियत्वे हेतुः व्योमेति । व्योमशरीरकत्वेन तदन्तः प्रवेशयोग्यतया ततोषि सूक्ष्मत्वादिन्द्रियाविषयमिति भावः । तद्ब्रह्म त्वामहं नतोऽस्मि ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

देहेन्द्रियप्राणमनोधियोऽमी
यदंशविद्धाः प्रचरन्ति कर्मसु।
नैवान्यदा लोहमिवाप्रतप्तं
स्थानेषु तद् द्रष्ट्रपदेशमेति॥

मूलम्

देहेन्द्रियप्राणमनोधियोऽमी यदंशविद्धाः प्रचरन्ति कर्मसु।
नैवान्यदा लोहमिवाप्रतप्तं स्थानेषु तद् द्रष्ट्रपदेशमेति॥ २४ ॥

अनुवाद (हिन्दी)

शरीर, इन्द्रिय, प्राण, मन और बुद्धि जाग्रत् तथा स्वप्न अवस्थाओंमें आपके चैतन्यांशसे युक्त होकर ही अपना-अपना काम करते हैं तथा सुषुप्ति और मूर्च्छाकी अवस्थाओंमें आपके चैतन्यांशसे युक्त न होनेके कारण अपना-अपना काम करनेमें असमर्थ हो जाते हैं—ठीक वैसे ही जैसे लोहा अग्निसे तप्त होनेपर जला सकता है, अन्यथा नहीं। जिसे ‘द्रष्टा’ कहते हैं, वह भी आपका ही एक नाम है; जाग्रत् आदि अवस्थाओंमें आप उसे स्वीकार कर लेते हैं। वास्तवमें आपसे पृथक् उनका कोई अस्तित्व नहीं है॥ २४॥

वीरराघवः

किञ्च मन आदयः तदाहितज्ञानक्रियादिशक्तिमत्वेन तं न विषयीकुर्वन्तीति सदृष्टान्तमाह – देहेति । अमी देहेन्द्रियादयः यदंशविद्धाः यस्य “परास्य शक्तिर्विविधैव श्रूयते स्वाभाविका ज्ञानबलक्रिया च” इत्युक्तज्ञानक्रियादिशक्तिमतो ब्रह्मणोऽशेन ज्ञानक्रियादिशक्तिलेशेन अनुविद्धाः व्याप्ताः कर्मसु स्वस्वव्यापारेषु प्रचरन्ति प्रवर्तन्ते अन्यथा यदंशेनानुविद्धास्तु न प्रचरन्ति तेषामचेतनपरिणामरूपत्वेन वस्तुतो ज्ञानशक्तिविरहादिति, भावः तत्र दृष्टान्तः लोहमिति । यथा प्रतप्तं लोहं दहति दाहकशक्तिनाग्निनानुविद्धमेव लोहमितरद्दहदप्यग्निं न दहति अग्निनानुविद्धन्तु इतरदपि न दहति तद्वत्परमात्मनि आहितज्ञानक्रियाशक्तयो देहेन्द्रियादयः स्वस्वविषयेषु प्रचरन्ति न परमात्मनि अनाहितशक्तयस्तु स्वस्वकर्मस्वपि न प्रचरन्तीत्यर्थः । नन्विन्द्रियाणि स्वतो ज्ञानशक्तिविरहात्तं मा विषयीकुर्वन्तु जीवस्तु स्वभावतो ज्ञानशक्तिमत्त्वात्तं विद्यादित्यत्राह स्थानेष्विति, तत्तेन जीवोपि स्थानेषु द्रष्ट्रपदेशमेति दृष्टृत्वव्यपदेशमेति गच्छति ईश्वरसङ्कल्पादेव जीवस्य ज्ञानविकास इत्यर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलकुड्मलोपलालितचरणारविन्दयुगल परम परमेष्ठिन्नमस्ते॥

मूलम्

ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलकु6ड्मलोपलालितचरणारविन्दयुगल परमपरमेष्ठिन्नमस्ते॥ २५ ॥

अनुवाद (हिन्दी)

ॐकारस्वरूप महाप्रभावशाली महाविभूतिपति भगवान् महापुरुषको नमस्कार है। श्रेष्ठ भक्तोंका समुदाय अपने करकमलोंकी कलियोंसे आपके युगल चरणकमलोंकी सेवामें संलग्न रहता है। प्रभो! आप ही सर्वश्रेष्ठ हैं। मैं आपको बार-बार नमस्कार करता हूँ’॥ २५॥

वीरराघवः

भगवते पूर्णषाड्गुण्याय पुरुषाय पुरुषसूक्तप्रतिपाद्यमहापुरुषाय अत एव महानुभावाय महाविभूत्योर्नित्यलीलाविभूत्योरधिपतये तुभ्यं नमः । सकलाः ये सात्वतपरिवृढा भागवतश्रेष्ठास्तेषां समूहस्तेषां करकमलानां कुड्मलैर्मुकुलैरुपलालितं चरणारविन्दयुगलं यस्य तस्य सम्बोधनं परम निःसमाभ्यधिक, परमेष्ठिन् परमे स्थाने स्थित, ते तुभ्यं नमः ॥ २५ ॥

श्लोक-२६

मूलम् (वचनम्)

श्रीशुक7 उवाच

विश्वास-प्रस्तुतिः

भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः।
ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो॥

मूलम्

भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः।
ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो॥ २६ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! देवर्षि नारद अपने शरणागत भक्त चित्रकेतुको इस विद्याका उपदेश करके महर्षि अंगिराके साथ ब्रह्मलोकको चले गये॥ २६॥

वीरराघवः

हे प्रभो राजन्, भक्ताय प्रपन्नाय चित्रकेतवे एवमेतां विद्यामुपदिश्याङ्गिरसा सह नारदः स्वायम्भुवं धाम सत्यलोकं ययौ । पूर्वं नारदेन सहाङ्गिरा आजगामेति प्राधान्येनोक्तोङ्गिराः चित्रकेतोः पुत्रदत्वेन तस्य प्रथमं वैराग्यजननद्वारोपकारकत्वादिह नारदोङ्गिरसा साकं ययौ इति नारदः प्राधान्येन निर्द्दिष्टः विद्योपदेशेन तस्य महोपकारकत्वात् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम्।
धारयामास सप्ताहमब्भक्षः सुसमाहितः॥

मूलम्

चित्रकेतुस्तु वि8द्यां तां यथा नारदभाषिताम्।
धारयामास सप्ताहमब्भक्षः सुसमाहितः॥ २७ ॥

अनुवाद (हिन्दी)

राजा चित्रकेतुने देवर्षि नारदके द्वारा उपदिष्ट विद्याका उनके आज्ञानुसार सात दिनतक केवल जल पीकर बड़ी एकाग्रताके साथ अनुष्ठान किया॥ २७॥

वीरराघवः

एवमुपदिष्टश्चित्रकेतुस्तां नारदेन भाषितां उपदिष्टां विद्यां यथाविधि सुसमाहितचित्तोऽप एव भक्षयन् सप्त दिवसान् धारयामास जजाप ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

ततश्च सप्तरात्रान्ते विद्यया धार्यमाणया।
विद्याधराधिपत्यं स लेभेऽप्रतिहतं नृपः॥

मूलम्

ततश्च9 सप्तरात्रान्ते विद्यया धार्यमाणया।
विद्याधराधिपत्यं स लेभेऽप्रतिहतं नृपः॥ २८ ॥

अनुवाद (हिन्दी)

तदनन्तर उस विद्याके अनुष्ठानसे सात रातके पश्चात् राजा चित्रकेतुको विद्याधरोंका अखण्ड आधिपत्य प्राप्त हुआ॥ २८॥

वीरराघवः

ततः सप्तरात्रान्ते धार्यमाणया विद्यया तत्प्रभावेनेत्यर्थः । नृपश्चित्रकेतुः अविभक्तिकपाठे हे नृप ! विद्याधराणामाधिपत्यञ्च लेभे चशब्दोऽन्वाचयपरः आनुषङ्गिकं विद्याधराधिपत्यं फलं लब्धवानित्यर्थः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः।
जगाम देवदेवस्य शेषस्य चरणान्तिकम्॥

मूलम्

ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः।
जगाम देवदेवस्य शेषस्य चरणान्तिकम्॥ २९ ॥

अनुवाद (हिन्दी)

इसके बाद कुछ ही दिनोंमें इस विद्याके प्रभावसे उनका मन और भी शुद्ध हो गया। अब वे देवाधिदेव भगवान् शेषजीके चरणोंके समीप पहुँच गये॥ २९॥

वीरराघवः

प्रधानं फलमाह - तत इति । ततः कतिपयैरहोभिर्विद्यया इद्धेन दीप्तेन मनसा गतिर्यस्य विद्याप्रभावेन यथेष्टगतिरित्यर्थः । देवदेवस्य शेषस्य सङ्कर्षणस्य चरणसमीपं जगाम पाताललोकादधः स्थितसङ्कर्षणसमीपं गतवानित्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

मृणालगौरं शितिवाससं स्फुरत्
किरीटकेयूरकटित्रकङ्कणम्।
प्रसन्नवक्त्रारुणलोचनं वृतं
ददर्श सिद्धेश्वरमण्डलैः प्रभुम्॥

मूलम्

मृणालगौरं शितिवाससं स्फुरत्किरीटकेयूरकटित्रकङ्कणम्।
प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम्॥ ३० ॥

अनुवाद (हिन्दी)

उन्होंने देखा कि भगवान् शेषजी सिद्धेश्वरोंके मण्डलमें विराजमान हैं। उनका शरीर कमलनालके समान गौरवर्ण है। उसपर नीले रंगका वस्त्र फहरा रहा है। सिरपर किरीट, बाँहोंमें बाजूबंद, कमरमें करधनी और कलाईमें कंगन आदि आभूषण चमक रहे हैं। नेत्र रतनारे हैं और मुखपर प्रसन्नता छा रही है॥ ३०॥

वीरराघवः

सङ्कर्षणं वर्णयन् तं ददर्शेत्याह - मृणालेति । मृणालवत्पद्मतन्तुवद्वौरं शुद्धं शितिवाससं नीलाम्बरं स्फुरन्ति किरीटादीनि यस्य कटित्रं कटिसूत्रं प्रसन्नानि वक्त्राणि यस्य अरुणानि लोचनानि यस्य तं सिद्धेश्वराणां समूहैर्वृतं परिवेष्टितं विभुं सङ्कर्षणं ददर्श ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तद्दर्शनध्वस्तसमस्तकिल्बिषः
स्वच्छामलान्तःकरणोऽभ्ययान्मुनिः।
प्रवृद्धभक्त्या प्रणयाश्रुलोचनः
प्रहृष्टरोमानमदादिपूरुषम्॥

मूलम्

तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वच्छामलान्तःकरणोऽभ्ययान्मु10निः।
प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमानमदादिपूरुषम्॥ ३१ ॥

अनुवाद (हिन्दी)

भगवान् शेषका दर्शन करते ही राजर्षि चित्रकेतुके सारे पाप नष्ट हो गये। उनका अन्तःकरण स्वच्छ और निर्मल हो गया। हृदयमें भक्तिभावकी बाढ़ आ गयी। नेत्रोंमें प्रेमके आँसू छलक आये। शरीरका एक-एक रोम खिल उठा। उन्होंने ऐसी ही स्थितिमें आदिपुरुष भगवान् शेषको नमस्कार किया॥ ३१॥

वीरराघवः

ततस्तस्य संङ्कर्षणस्य दर्शनेन ध्वस्तं किल्बिषं यस्य अत एव स्वच्छमन्तःकरणं यस्यात एव प्रवृद्धया भक्त्या प्रणयाश्रु आनन्दबाष्पं लोचनयोर्यस्य प्रवृष्ठान्युदञ्चितानि रोमाणि च यस्य तादृशः आदिपूरुषं पुराणपुरुषं सङ्कर्षणमभ्ययादभिमुखं जगाम आनमत्प्रणतवान् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

स उत्तमश्लोकपदाब्जविष्टरं
प्रेमाश्रुलेशैरुपमेहयन्मुहुः।
प्रेमोपरुद्धाखिलवर्णनिर्गमो
नैवाशकत्तं प्रसमीडितुं चिरम्॥

मूलम्

स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेह11यन्मुहुः।
प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत्तं प्रसमीडितुं चिरम्॥ ३२ ॥

अनुवाद (हिन्दी)

उनके नेत्रोंसे प्रेमके आँसू टप-टप गिरते जा रहे थे। इससे भगवान् शेषके चरण रखनेकी चौकी भीग गयी। प्रेमोद्रेकके कारण उनके मुँहसे एक अक्षर भी न निकल सका। वे बहुत देरतक शेषभगवान‍्की कुछ भी स्तुति न कर सके॥ ३२॥

वीरराघवः

ततः स चित्रकेतुरुत्तमश्लोकस्य संकर्षणस्य पदाब्जविष्टरं पादपीठं प्रेमाश्रुलेशैरानन्दबाष्पकणैः मुहुर्मुहुरुपसेचयन्प्रमोदेन प्रेम्णा उपरुद्धः अखिलानां वर्णानामक्षराणां निर्गमम् उच्चारणं यस्यात एव भगवन्तं तं प्रसमीडितुं चिरं नैवाशकन्नाशक्नोत् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

ततः समाधाय मनो मनीषया
बभाष एतत्प्रतिलब्धवागसौ।
नियम्य सर्वेन्द्रियबाह्यवर्तनं
जगद‍्गुरुं सात्वतशास्त्रविग्रहम्॥

मूलम्

ततः समाधाय मनो मनीषया बभाष एतत्प्रतिलब्धवागसौ।
नियम्य सर्वेन्द्रियबाह्यवर्तनं जगद‍्गुरुं सात्वतशास्त्रविग्रहम्॥ ३३ ॥

अनुवाद (हिन्दी)

थोड़ी देर बाद उन्हें बोलनेकी कुछ-कुछ शक्ति प्राप्त हुई। उन्होंने विवेकबुद्धिसे मनको समाहित किया और सम्पूर्ण इन्द्रियोंकी बाह्यवृत्तिको रोका। फिर उन जगद‍्गुरुकी, जिनके स्वरूपका पांचरात्र आदि भक्तिशास्त्रोंमें वर्णन किया गया है, इस प्रकार स्तुति की॥ ३३॥

वीरराघवः

ततो मनीषया बुद्ध्या मनः समाधाय स्ववशीकृत्य प्रतिलब्धा वाग्येनासौ चित्रकेतुः प्रतिलब्धवाग्रस इति पाठान्तरं तत्र प्रतिलब्धवागमृतः सर्वेन्द्रियाणां बाह्यवर्त्तनं बाह्यव्यापारं नियम्य अपोह्येत्यर्थः । सात्वतशास्त्रं पञ्चरात्रशास्त्रं (१) तत्प्रतिपाद्यो विग्रहो यस्य तं जगद्गुरुं सात्वततन्त्रोपदेष्टारं सङ्कर्षणं प्रति एतद्रक्ष्यमाणं बभाषे वक्ष्यमाणां स्तुतिमकरोदित्यर्थः ॥ ३३ ॥

श्लोक-३४

मूलम् (वचनम्)

चित्रकेतुरुवाच

विश्वास-प्रस्तुतिः

अजित जितः सममतिभिः
साधुभिर्भवान् जितात्मभिर्भवता।
विजितास्तेऽपि च भजता-
मकामात्मनां य आत्मदोऽतिकरुणः॥

मूलम्

अजित जितः सममतिभिः साधुभिर्भवान् जितात्मभिर्भवता।
विजितास्तेऽपि च भजतामकामात्मनां य आत्मदोऽतिकरुणः॥ ३४ ॥

अनुवाद (हिन्दी)

चित्रकेतुने कहा—अजित! जितेन्द्रिय एवं समदर्शी साधुओंने आपको जीत लिया है। आपने भी अपने सौन्दर्य, माधुर्य, कारुण्य आदि गुणोंसे उनको अपने वशमें कर लिया है। अहो, आप धन्य हैं! क्योंकि जो निष्कामभावसे आपका भजन करते हैं, उन्हें आप करुणापरवश होकर अपने-आपको भी दे डालते हैं॥ ३४॥

वीरराघवः

तामेवाह - अजितेत्यादिना, सहस्रमूर्ध्न इत्यन्तेन, तावदाश्रयणसौकर्यापादकसौलभ्यवात्सल्यमहौदार्यगुणविशिष्टं स्तौति - अजितेति । हे अजित ! इतरैः स्वाधीनं कर्तुमशक्य हे दुर्लभेत्यर्थः । तथापि साधुभिर्जितः भवान् सुलभ इत्यर्थः । कथम्भूतैः साधुभिर्विजितः आत्मा मनो यैस्सममतिभिः कृत्स्नं जगद्ब्रह्मात्मकत्वेन पश्यद्भिः कथमेतत्साधुभिर्विजितोऽहमिति तत्राह - यो भवान् भजतामकामात्मनाम् अनन्यप्रयोजनेन भजतामात्मानं स्वं स्वरूपं ददातीत्यात्मदः स्वपर्यन्तदातेत्यर्थः । एवं सौलभ्यमुक्तम् आत्मद इत्यनेन महौदार्यञ्च; अथ वात्सल्यमाह - भवता त्वया ते साधवो विजिताः कुतः ? यतस्त्वमतिकरुण आश्रितवात्सल्यविवशः अत्यन्तवात्सल्येन त्वया साधवोऽपि वशीकृता इत्यर्थः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

तव विभवः खलु भगवन्
जगदुदयस्थितिलयादीनि।
विश्वसृजस्तेंऽशांशा
स्तत्र मृषा स्पर्धन्ते पृथगभिमत्या॥

मूलम्

तव विभवः खलु भगवन् जगदुदयस्थितिल12यादीनि।
विश्वसृजस्तेंऽशांशास्तत्र मृषा स्पर्धन्ते पृथगभिमत्या॥ ३५ ॥

अनुवाद (हिन्दी)

भगवन्! जगत‍्की उत्पत्ति, स्थिति और प्रलय आपके लीला-विलास हैं। विश्वनिर्माता ब्रह्मा आदि आपके अंशके भी अंश हैं। फिर भी वे पृथक्-पृथक् अपनेको जगत्कर्ता मानकर झूठमूठ एक-दूसरेसे स्पर्धा करते हैं॥ ३५॥

वीरराघवः

ननु, परत्वे सत्युक्तं गुणत्रयमाश्रयणसौकर्यापादकमन्यथा तृणस्येव सौलभ्यं दरिद्रस्येवौदार्यं पित्रादेरिव कारुण्यमकिञ्चित्करं स्यादित्यत्र परत्वविशिष्टं स्तौति - तवेति । हे भगवन् ! जगतः उत्पत्तिस्थितिलयादीनि आदिशब्देन महानन्दरूपमोक्षान्तर्नियमनादिर्विवक्षितः तव विभवः ऐश्वर्यम् अतस्त्वत्तः परो नास्तीत्यर्थः । एवं परत्वं तत एव निरुपाधिकस्वामित्वञ्चोक्तं ननु, जगदुत्पत्त्यादीनि ब्रह्मरुद्रादीनां विभवो न ममेत्यत्राह विश्वसृज इति । विश्वसृजो ब्रह्मादयः ते तवांशांशाः अग्नेर्विस्फुलिङ्गा इव त्वदंशांशभूतत्वान्न तेषां विभवो जगदुत्पत्त्यादिरित्यर्थः । त्वन्नियोगेन ते जगदुत्पत्त्यादिकर्त्तार इति भावः । ननु, तेपि वयं विश्वस्य स्रष्ट्यादिकर्त्तार इति स्पर्द्धन्ते तत्राह - तत्रेति । तत्र तेषां त्वदंशांशत्वे सति तावन्मात्रेणैव वयमपि पृथगीश्वरा इत्यभिमानेन मद्गतमीशितृत्वं परमपुरुषायत्तम् इत्यज्ञात्वा मुधा व्यर्थमेव स्पर्द्धन्ते तेषां स्पर्द्धामात्रमवशिष्यते न त्वीशत्वं सिद्ध्यतीति भावः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

परमाणुपरममहतो-
स्त्वमाद्यन्तान्तरवर्ती त्रयविधुरः।
आदावन्तेऽपि च सत्त्वानां
यद् ध्रुवं तदेवान्तरालेऽपि॥

मूलम्

परमाणुपरममहतोस्त्वमाद्यन्तान्तरवर्ती त्रयविधुरः।
आदावन्तेऽपि च सत्त्वानां यद् ध्रुवं तदेवान्तरालेऽपि॥ ३६ ॥

अनुवाद (हिन्दी)

नन्हे-से-नन्हे परमाणुसे लेकर बड़े-से-बड़े महत्तत्त्वपर्यन्त सम्पूर्ण वस्तुओंके आदि, अन्त और मध्यमें आप ही विराजमान हैं तथा स्वयं आप आदि, अन्त और मध्यसे रहित हैं। क्योंकि किसी भी पदार्थके आदि और अन्तमें जो वस्तु रहती है, वही मध्यमें भी रहती है॥ ३६॥

वीरराघवः

जगदुत्पत्त्यादेस्तदेकविभवत्वं दृष्टान्तमुखेन विशदयन्स्तौति - परमाण्विति । परमाणुपरममहतोरल्पीयसो विपुलस्य च वस्तुनो याऽन्याद्यन्तान्तराणि सृष्टिसंहारस्थित्यवस्था इत्यर्थः । तेषु वर्त्तत इतिवर्त्ती अन्तरात्मतया व्याप्य स्थितः त्रयविधुरः आद्यन्तमध्यरहितः त्वमेव कार्यस्य वस्तुनः कारणात्मतया यदादाववतिष्ठतेऽन्ते च यदवशिष्यते तद्विभवत्वमेव हि कार्यस्य वस्तुनो दृष्टं यथा मृत्सुवर्णात्मकघटकटकादाविति दृष्टान्तोऽभिप्रेतः । एवं समष्टिव्यष्ट्यात्मकस्य कृत्स्नस्य कार्यजातस्यादौ कारणत्वेनावस्थानादन्ते चावशेषात्त्वद्विभव एव जगदुत्पत्यादिः न तु मध्यस्थचतुर्मुखादेरिति भावः । कार्यं वस्तु मध्यस्थस्य विभवो नेति किं वक्तव्यमित्याह - आदाविति । सत्त्वानां कार्यत्वेनावस्थितानां पदार्थानामादावन्ते च यत् ध्रुवं स्थिरम् आदौ कार्यत्वेनावस्थितम् अन्ते चावशिष्टमित्यर्थः । अन्तरालेपि तदेव अन्तरालावस्था तद्विभव एव आद्यन्तयोर्यदस्ति तस्य मध्यस्थविभवकत्वं किं पुनर्न्यायसिद्धमिति भावः । एवं कालत्रयवर्ती त्वमेवेति भावः । अनेन कालतोऽपरिच्छिन्नत्वमप्युक्तम् अथ सर्वदा सर्वत्रान्तरात्मतया व्याप्य स्थितिकथनेन सर्ववस्तुसामानाधिकरण्यरूपवस्त्वपरिच्छेदोप्युक्तः सर्ववस्तुसामानाधिकरण्यमेव हि वस्त्वपरिच्छेदः यद्वा स्वापेक्षयोत्कृष्टगुणवत्वन्तरराहित्यं वस्त्वपरिच्छेदः स हि जगत्कारणत्वतदुपयुक्तसार्वज्ञ्यसत्यसङ्कल्पत्वाद्याक्षिप्तगुणजातस्य कथनेनाभिहितप्राय एव ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

क्षित्यादिभिरेष किलावृतः
सप्तभिर्दशगुणोत्तरैराण्डकोशः।
यत्र पतत्यणुकल्पः
सहाण्डकोटिकोटिभिस्तदनन्तः॥

मूलम्

क्षित्यादिभिरेष किलावृतः सप्तभिर्दशगुणोत्तरैराण्डकोशः।
यत्र पतत्यणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः॥ ३७ ॥

अनुवाद (हिन्दी)

यह ब्रह्माण्डकोष, जो पृथ्वी आदि एक-से-एक दसगुने सात आवरणोंसे घिरा हुआ है, अपने ही समान दूसरे करोड़ों ब्रह्माण्डोंके सहित आपमें एक परमाणुके समान घूमता रहता है और फिर भी उसे आपकी सीमाका पता नहीं है। इसलिये आप अनन्त हैं॥ ३७॥

वीरराघवः

एवं द्विविधपरिच्छेदराहित्यमुक्तमथ देशपरिच्छेदरहितत्वं वदन्नेतत्त्रिविधपरिच्छेदराहित्यमेव त्वय्यनन्तशब्दस्य प्रवृत्तौ निमित्तमित्याह - क्षित्यादिभिरिति । पूर्वस्मात्पूर्वस्माद्दशगुणमुत्तरैरधिकैः क्षित्यादिभिः पृथिव्यग्निवाय्वाकाशाहङ्कारमहद्भिः सप्तभिरावृतः एष परिदृश्यमानोऽण्डकोशः ईदृशीभिरण्डकोटिभिः सह सहितो यतस्त्वं ततोऽनन्त ! विभूत्यानन्त्यादनन्तत्वात्त्वमनन्तशब्दवाच्य इत्यर्थः । एतमण्डकोशं विशिनष्टि यत्र एतस्मिन्नण्डकोशेऽणुकल्पः जीवः पतति संसरति यद्वा यस्मादीदृशीभिरण्डकोटिभिः सह एषोऽण्डकोशः यत्र यस्मिन् त्वयि अणुकल्पः पतति परिभ्रमति ततस्त्वमनन्तः सर्वस्य चेतनाचेतनात्मकाण्डकोशरूपदेशस्य त्वद्व्याप्यत्वादिदमत्र नास्तीत्येवंरूपदेशपरिच्छेदरहितस्त्वमिति देशाऽपरिच्छेद उक्तः एतत्त्रिविधपरिच्छेदराहित्यमपि परत्वापादकं भवतीत्यर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

विषयतृषो नरपशवो
य उपासते विभूतीर्न परं त्वाम्।
तेषामाशिष ईश
तदनु विनश्यन्ति यथा राजकुलम्॥

मूलम्

विषयतृषो नरपशवो य उपासते विभूतीर्न परं त्वाम्।
तेषामाशिष ईश तदनु विनश्यन्ति यथा राजकुलम्॥ ३८ ॥

अनुवाद (हिन्दी)

जो नरपशु केवल विषयभोग ही चाहते हैं, वे आपका भजन न करके आपके विभूतिस्वरूप इन्द्रादि देवताओंकी उपासना करते हैं। प्रभो! जैसे राजकुलका नाश होनेके पश्चात् उसके अनुयायियोंकी जीविका भी जाती रहती है, वैसे ही क्षुद्र उपास्यदेवोंका नाश होनेपर उनके दिये हुए भोग भी नष्ट हो जाते हैं॥ ३८॥

वीरराघवः

एवं तस्य समाश्रयणीयोपयुक्तगुणवस्तुत्वाद्देवतान्तरस्य तदभावं वदन् तमेव स्तौति - विषयतृष इति, ये विषयेषु शब्दादिषु तृट् तृष्णाभिलाषो येषां ते फलकामा नरा एव पशवः ते विभूतीः त्वद्विभूतिभूतान् रुद्रादीनुपासते न तु परं सर्वोत्कृष्टं विभूतिपतिमुपासते हे ईश ! तेषां विषयतृषां विभूतीरुपासीनानामाशिषस्त्वद्विभूतिभिर्दत्ता अर्वाचीनाः स्वर्गादिफलरूपाः पुरुषार्थाः तदनु विभूतिविनाशमनु नश्यन्ति यथा राजकुलं यथा राजकुलविनाशमनु तत्सेवकानामाशिषो नश्यन्ति तद्वत् उक्तं च त्वयैव । “यो यां यां तनुं भक्तः” इत्यारभ्य ‘लभते च ततः कामान्मयैव विहितान् हि तान् । अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्” इत्यन्तेनेति भावः । त्वद्विभूतीनां परत्वादिगुणपूर्त्यभावादिति तात्पर्यम् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

कामधियस्त्वयि रचिता
न परम रोहन्ति यथा करम्भबीजानि।
ज्ञानात्मन्यगुणमये
गुणगणतोऽस्य द्वन्द्वजालानि॥

मूलम्

कामधियस्त्वयि रचिता न परम रोहन्ति यथा करम्भबीजानि।
ज्ञानात्मन्यगुणमये गुणगणतोऽस्य द्वन्द्वजालानि॥ ३९ ॥

अनुवाद (हिन्दी)

परमात्मन्! आप ज्ञानस्वरूप और निर्गुण हैं। इसलिये आपके प्रति की हुई सकाम भावना भी अन्यान्य कर्मोंके समान जन्म-मृत्युरूप फल देनेवाली नहीं होती, जैसे भुने हुए बीजोंसे अंकुर नहीं उगते। क्योंकि जीवको जो सुख-दुःख आदि द्वन्द्व प्राप्त होते हैं, वे सत्त्वादि गुणोंसे ही होते हैं, निर्गुणसे नहीं॥ ३९॥

वीरराघवः

त्वदेकप्रयोजनत्वेन कृतास्त्वत्सेवास्तु निरतिशयनित्यफलजनकत्वान्न नश्यन्तीत्याह - कामधिय इति । त्वयि विषयभूते रचिताः कृताः याः कामधियः त्वदेवकप्रयोजनास्त्वद्विषया उपासनाः परम, पुनर्न रोहन्ति न बन्धाय भवन्ति नित्यनिरतिशयत्वादनुभवरूपानन्दापादका एव भवन्ति न पुनर्जन्ममरणादिरूपबन्धाय भवन्तीत्यर्थः । पुनररोहे दृष्टान्तः यथा करम्भबीजानीति यथा भर्जितबीजानि पुर्नन रोहन्ति नाङ्कुरीभवन्ति तद्वत् पुनररोहे हेतुं वदंस्तं विशिनष्टि - ज्ञानात्मनीति, गुणमयः सत्त्वादिप्रकृतिगुणविकारः स न विद्यते यस्य सोऽगुणमयस्तथाभूते नित्यासंकुचितापरिच्छिन्नज्ञानस्वरूपे त्वयि गुणमूलककर्मावश्यत्वात्तन्मूलकसङ्कुचितज्ञानत्वाकर्मसाध्यमोक्षाधिपत्यप्रणतजनानिष्टपरिहारकत्वात्तदिष्टप्राणसमर्थत्वादिगुणयुक्तत्वात्त्वयि रचिताः कामधियो न पुनरनर्थरूपबन्धाय भवन्ति देवतान्तराणान्तूक्तविपरीतगुणत्वात्तेषु रचिताः स्वर्गादिकामधियो नश्यन्तीति भावः । तदेवाह - गुणगणत इति, अस्य विरश्चिप्रभृत्यकिञ्चनपर्यन्तस्य जीववर्गस्य गुणानां सत्त्वादिप्रकृतिगुणानां ये गणा विकाररूपाः सङ्घाः तेभ्यः गुणगणतः द्वन्द्वजालानि सुखदुःखादीनि द्वन्द्वजालानि भवन्ति उपास्यदेवतान्तरस्यापि उपासकवत्कर्मवश्यत्वादियुक्तत्वात्तत्सेवाशृङ्खलितस्य पुंसस्तादृशसेवावदनिष्टपरिहारेष्टप्रापणक्षमा न भवतीति भावः । एवं ज्ञानशक्त्याद्याश्रितकार्यापादकगुणपूर्त्तिरप्युक्ता । एवं समाश्रयणीयत्वोपयुक्तपरत्वादिगुणपूर्णत्वेन देवतान्तरेभ्यो वैलक्षण्यं तस्यैव समाश्रयणीयत्वं चोक्तं भवति ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

जितमजित तदा भवता
यदाऽऽह भागवतं धर्ममनवद्यम्।
निष्किञ्चना ये मुनय
आत्मारामा यमुपासतेऽपवर्गाय॥

मूलम्

जितमजित तदा भवता यदाऽऽह भागवतं धर्ममनवद्यम्।
निष्किञ्चना ये मुनय आत्मारामा यमुपासतेऽपवर्गाय॥ ४० ॥

अनुवाद (हिन्दी)

हे अजित! जिस समय आपने विशुद्ध भागवतधर्मका उपदेश किया था, उसी समय आपने सबको जीत लिया। क्योंकि अपने पास कुछ भी संग्रह-परिग्रह न रखनेवाले, किसी भी वस्तुमें अहंता-ममता न करनेवाले आत्माराम सनकादि परमर्षि भी परम साम्य और मोक्ष प्राप्त करनेके लिये उसी भागवतधर्मका आश्रय लेते हैं॥ ४०॥

वीरराघवः

अथ यत एव भवानितरेभ्यः परः अत एव त्वदाराधनात्मकस्त्वदभिहितो धर्मः तदनुष्ठातारश्चेतरदेवताराधनरूपधर्मतदनुष्ठातृभ्यो विलक्षणा इत्याह - जितमिति त्रिभिः, हे अजित, अजितशब्दप्रवृत्तिनिमित्ताश्रय, भवता यथा जितं सर्वं स्ववशीकृत्य तस्मात्परत्वेनावस्थितम् एतदेवाजितशब्दप्रवृत्तिनिमित्तमित्यपि सूचितं तथा धर्मेणेति शेषः । त्वदाराधनभूतधर्मेणापि जितमित्यर्थः । सोऽपि सर्वोत्कृष्ट इत्यर्थः । कौसौ धर्मः ? तत्राह - यं भागवतं भगवतस्तवाराधनरूपमनवद्यं निर्दुष्टं धर्मं भवानाह पञ्चरात्रगीतादिमुखेनोक्तवान् यञ्च धर्मं निष्किञ्चनाः अनन्यप्रयोजनाः आत्मारामाः ब्रह्मगुणानुभवपरा ये मुनयः अपवर्गाय मुक्तय उपासतेऽनुतिष्ठन्ति ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

विषममतिर्न यत्र नृणां
त्वमहमिति मम तवेति च यदन्यत्र।
विषमधिया रचितो यः
स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः॥

मूलम्

विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र।
विषमधिया रचितो यः स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः॥ ४१ ॥

अनुवाद (हिन्दी)

वह भागवतधर्म इतना शुद्ध है कि उसमें सकाम धर्मोंके समान मनुष्योंकी वह विषमबुद्धि नहीं होती कि ‘यह मैं हूँ, यह मेरा है, यह तू है और यह तेरा है।’ इसके विपरीत जिस धर्मके मूलमें ही विषमताका बीज बो दिया जाता है, वह तो अशुद्ध, नाशवान् और अधर्मबहुल होता है॥ ४१॥

वीरराघवः

यत्र च धर्मे त्वमहं तव ममेति च या नृणामन्यत्रान्यस्मिन् धर्मे विषमा मतिः अहङ्कारममकाररूपा सा नास्ति स इत्यर्थः । सर्वज्ञेन भ्रमविप्रलिप्सादिदोषरहितेन परमकारुणिकेन भगवताऽविहितत्वादहङ्कारममकारप्रयुक्तहिंसादिगर्भत्वाभावात्सर्वस्य ब्रह्मात्मकत्वानुसन्धानगर्भत्वान्निरतिशयानन्दहेतुत्वाच्च त्वदाराधनरूपो धर्मः सर्वोत्कृष्टः तथा तदनुष्ठातारोपि शब्दादिविषयसुखार्थदम्भमात्सर्यहिंसादिस्वभावत्वाभावात्सर्वभूतसुहृत्त्वादि गुणयुक्तत्वाच्च उत्कृष्टा इतरधर्मतदनुष्ठातारस्तूक्तविपरिता इति भावः । तदेवाह - विषमधियेति, अहं ममेत्याद्यहं ममाभिमानेन रचितो यो देवतान्तराराधनरूपः स ह्यविशुद्धः रागद्वेषादिगर्भत्वाद्धर्मप्रचुरः शत्रुमरणादिकामनागर्भत्वात् क्षयिष्णुरस्थिरफलश्च ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

कः क्षेमो निजपरयोः
कियानर्थः स्वपरद्रुहा धर्मेण।
स्वद्रोहात् तव कोपः
परसम्पीडया च तथाधर्मः॥

मूलम्

कः क्षेमो निजपरयोः कियानर्थः स्वपरद्रुहा धर्मेण।
स्वद्रोहात् तव कोपः परसम्पीडया च तथाधर्मः॥ ४२ ॥

अनुवाद (हिन्दी)

सकाम धर्म अपना और दूसरेका भी अहित करनेवाला है। उससे अपना या पराया—किसीका कोई भी प्रयोजन और हित सिद्ध नहीं होता। प्रत्युत सकाम धर्मसे जब अनुष्ठान करनेवालेका चित्त दुखता है, तब आप रुष्ट होते हैं और जब दूसरेका चित्त दुखता है, तब वह धर्म नहीं रहता—अधर्म हो जाता है॥ ४२॥

वीरराघवः

विषयधिया रचित धर्ममेव निन्दति - क इति । स्वपरद्रुहो स्वं कर्तारं परञ्च दुह्यतीति स्वपरध्रुक् अत्यन्तशरीरायासकारित्वादन्ततः संसृतिरूपानर्थहेतुत्वाच्च स्वध्रुक् शत्रुहिंसादिकामनागर्भत्वात्परध्रुक्तेन धर्मेण देवतान्तराराधनरूपेण निजपरयोः कः क्षेमः किं दुःखं न किञ्चिदपी[[??]]त्यर्थः । परग्रहणं दृष्टान्तार्थं यथाऽभिचारादिकर्मणा मुमूर्षोर्न क्षेमस्तथा तत्कर्तुरपीत्यर्थः । अस्तु वा कर्तुस्तादात्विकः कश्चित्क्षेमस्तथापि स कियानर्थः पुरुषार्थः अतितुच्छ इत्यर्थः । क्षयिष्णुत्वादिति भावः । एवं पुरुषार्थहेतुर्भवतीत्युक्तं प्रत्युतानर्थहेतुश्चेत्याह – स्वद्रोहादिति, स्वद्रोहात्स्वस्यैवाहितकरणाद्धेतोस्तवेश्वरस्य कोपः निग्रहः स्यादयं स्वस्यैवाहितमाचरति किमुत परस्येत्यतोऽयमतीव निग्राह्य इत्येवं तव कोपः स्यात् - “आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् । अहङ्कारं बलं दर्पं कामं क्रोधञ्च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ।” इत्यादिना प्रतिज्ञातो निग्रहः स्यादिति भावः । तव कोपः स्यान्न वा अवश्यं परसम्पीडया परस्य द्रोहाद्धेतोरधर्मस्तथा स्यादेव स्वकृतेन धर्मेण परस्य यादृशी पीडा भवेत्तादृशी पीडा हेतुरधर्मोपि स्वानुष्ठितधर्ममनुस्यादित्यर्थः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

न व्यभिचरति तवेक्षा
यया ह्यभिहितो भागवतो धर्मः।
स्थिरचरसत्त्वकदम्बे-
ष्वपृथग्धियो यमुपासते त्वार्याः॥

मूलम्

न व्यभिचरति तवेक्षा यया ह्यभिहितो भागवतो धर्मः।
स्थिरचरसत्त्वकदम्बेष्वपृथग्धियो यमुपासते त्वार्याः॥ ४३ ॥

अनुवाद (हिन्दी)

भगवन्! आपने जिस दृष्टिसे भागवतधर्मका निरूपण किया है, वह कभी परमार्थसे विचलित नहीं होती। इसलिये जो संत पुरुष चर-अचर समस्त प्राणियोंमें समदृष्टि रखते हैं, वे ही उसका सेवन करते हैं॥ ४३॥

वीरराघवः

एवं धर्मान्तरस्य न केवलमपुरुषार्थहेतुत्वं प्रत्युतानर्थहेतुत्वञ्चोक्तं त्वदाराधनरूपधर्मस्य त्वनिष्टपरिहारेष्टप्राप्तिहेतुत्वमव्यभिचरितमित्याह - नेति । तव “सत्यकामः सत्यसङ्कल्पः” इति श्रुत्युक्तसत्यसङ्कल्पस्य तवेक्षा- “ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते । तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थमय्यावेशितचेतसाम् ।” इति कृतः सङ्कल्प इत्यर्थः । न व्यभिचरत्ययथार्था न भवति । यथा हेतुभूतयेक्षया भागवतस्तव सम्बन्धी त्वदाराधनरूपो धर्मोऽभिहितः प्रोक्तः पञ्चरात्रादिमुखेनेति शेषः । भागवतधर्माभिधाने उक्तविधे ईक्षैव हेतुरन्यथा त्वद्धर्मानभिज्ञतया केवलविषयासक्ते सति सर्वस्मिन् लोके समुद्धर्त्तव्याभावादीक्षा निर्विषयादिति भावः । एवञ्चेक्षायाः सत्यत्वात्तद्विषयत्वापादकभागवतधर्मोप्यनिष्टपरिहारेष्टप्राप्तिहेतुत्वं न व्यभिचरतीति तात्पर्यं यत एवमत एव आर्याः त्वदीक्षाभिज्ञास्तद्विषयापादिकया चराचरात्मकभूतसमूहेष्वपृथग्धिया त्वदात्मकबुद्ध्याऽमृतत्वाय मुक्तये उपासते धर्ममितिविभक्तिपरिणामेनानुषङ्गः अनुतिष्ठन्तीत्यर्थः । त्वामिति वा शेषः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

न हि भगवन्नघटितमिदं
त्वद्दर्शनान्नृणामखिलपापक्षयः।
यन्नामसकृच्छ्रवणात्
पुल्कसकोऽपि विमुच्यते संसारात्॥

मूलम्

न हि भगवन्नघटितमिदं 13त्वद्दर्शनान्नृणामखिलपापक्षयः।
यन्नामसकृच्छ्रवणात् पुल्कसकोऽपि विमुच्यते संसारात्॥ ४४ ॥

अनुवाद (हिन्दी)

भगवन्! आपके दर्शनमात्रसे ही मनुष्योंके सारे पाप क्षीण हो जाते हैं, यह कोई असम्भव बात नहीं है; क्योंकि आपका नाम एक बार सुननेसे ही नीच चाण्डाल भी संसारसे मुक्त हो जाता है॥ ४४॥

वीरराघवः

एवं समाश्रयणोपयुक्तसमाश्रितकार्यापादकगुणपूर्तिकथनमुखेन तदाराधनरूपधर्मस्यैव निरतिशयश्रेयःसाधनमुक्तम् इदानीं स्वस्य कृतार्थतामाविष्कर्तुं तद्दर्शनस्य कृतार्थतापादकत्त्वं कैमुत्यन्यायेनाह — नहीति । हे भगवन्, नृणां भवद्दर्शनादखिलपापक्षयो भवतीति इदमघटितं न हि किन्तु युक्तमेव, कुतः ? यद्यस्मान्नाम्नस्त्वन्नाम्नः सकृदेव श्रवणादेव पुल्कसोपि हीनजातिरपि संसारबन्धाद्विमुच्यते नामश्रवणस्यैवेदृशं माहात्म्यं किं पुनः साक्षात्त्वद्दर्शनस्येति भावः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

अथ भगवन् वयमधुना
त्वदवलोकपरिमृष्टाशयमलाः।
सुरऋषिणा यदुदितं
तावकेन कथमन्यथा भवति॥

मूलम्

अथ भगवन् वयमधुना त्वदवलोकपरिमृष्टाशयमलाः।
सुरऋषिणा यदुदितं 14तावकेन कथमन्यथा भवति॥ ४५ ॥

अनुवाद (हिन्दी)

भगवन्! इस समय आपके दर्शनमात्रसे ही मेरे अन्तःकरणका सारा मल धुल गया है, सो ठीक ही है। क्योंकि आपके अनन्यप्रेमी भक्त देवर्षि नारदजीने जो कुछ कहा है, वह मिथ्या कैसे हो सकता है॥ ४५॥

वीरराघवः

अथाचार्यकृतं महोपकारं स्मरन्स्वस्य कृतार्थतामाह - अथेति । हे भगवन्, अधुना तवावलोकनेन परिमृष्टा निरस्ता आशये चित्ते मलाः येषां तादृशा वयं कृतार्था जाता इति भावः । यस्मात्तावकेन “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः” इति त्वदुक्तरीत्या तव निरतिशयप्रियेण सुरर्षिणा श्रीनारदेनोदितं त्वद्दर्शनेन मम कृतार्थत्वे निमित्तं मन्त्ररूपं वचो गदितं तत एवमधुना जातम् अन्यथा महोपकर्तृसदाचार्यानुग्रहेण कथं भवति एवंविधः परमोभ्युदयस्तदनर्हस्य मम कथं भवेदित्यर्थः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

विदितमनन्त समस्तं
तव जगदात्मनो जनैरिहाचरितम्।
विज्ञाप्यं परमगुरोः
कियदिव सवितुरिव खद्योतैः॥

मूलम्

विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम्।
विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः॥ ४६ ॥

अनुवाद (हिन्दी)

हे अनन्त! आप सम्पूर्ण जगत‍्के आत्मा हैं। अतएव संसारमें प्राणी जो कुछ करते हैं, वह सब आप जानते ही रहते हैं। इसलिये जैसे जुगनू सूर्यको प्रकाशित नहीं कर सकता, वैसे ही परमगुरु आपसे मैं क्या निवेदन करूँ॥ ४६॥

वीरराघवः

कथं भवेदित्यनेनेदृशाभ्युदयानर्हत्वं स्वस्य सूचितं तच्च भवता सर्वज्ञेन सर्वं विदितमेव किं मया विज्ञाप्यमधुना विशिष्यत इत्याह - विदितमिति । हे अनन्त ! इह लोके जनैर्यद्यदाचरितं तत्समस्तं जगदात्मनः कृत्स्नजगदन्तर्यामितया सर्वेषां बुद्धिवृत्तीर्युगपत्साक्षात्कुर्वतस्तव विदितमेव ततो माहशैर्विज्ञाप्यं परमगुरोस्तव कियत्, यथा सवितुः खद्योतैः, यद्वा अनन्तकल्याणगुणाकारस्य तव गुणैकदेशमपि स्तोतुमहमसमर्थ इति त्वया विदितेमेवेत्याह - विदितमिति । हे अनन्त त्रिविधपरिच्छेदरहित ! इह लोके जनैर्जननमरणभाग्भिस्त्वदाहितज्ञानशक्तिभिर्मादृशैर्यद्यदाचरितमन्तर्बाह्येन्द्रियैर्व्यापृतं तत्सर्वं जगदन्तरात्मनः सर्वज्ञस्य तव विदितमेव परिच्छिन्नमतेर्मम वाङ्मनश्चानन्तस्वरूपस्य सर्वज्ञस्य तव गुणवर्णने यावद्गच्छति तत्त्वया विदितमेवेत्यर्थः । अतः परमगुरोर्ज्ञानप्रदानां नारदादीनामपि ज्ञानदस्य तवेह मया विज्ञाप्यं विज्ञापनीयं कियत मया कर्त्तव्यं गुणस्तवनं तव कियदत्यल्पमित्यर्थः । यथा सवितुर्लोकत्रयप्रकाशकस्य खद्योतैः कीटविशेषैः कृतं द्योतनं कियदल्पं तद्वदित्यर्थः ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

नमस्तुभ्यं भगवते
सकलजगत्स्थितिलयोदयेशाय।
दुरवसितात्मगतये
कुयोगिनां भिदा परमहंसाय॥

मूलम्

नमस्तुभ्यं भगवते सकलजगत्स्थितिलयोदयेशाय।
दुरवसितात्मगतये कुयोगिनां भिदा परमहंसाय॥ ४७ ॥

अनुवाद (हिन्दी)

भगवन्! आपकी ही अध्यक्षतामें सारे जगत‍्की उत्पत्ति, स्थिति और प्रलय होते हैं। कुयोगीजन भेददृष्टिके कारण आपका वास्तविक स्वरूप नहीं जान पाते। आपका स्वरूप वास्तवमें अत्यन्त शुद्ध है। मैं आपको नमस्कार करता हूँ॥ ४७॥

वीरराघवः

एवं स्वस्य तत्स्तुतावनधिकारमाविष्कृत्य कांश्चित्तद्गुणाननुस्मरन् केवलं नमस्करोति - नमः इति द्वाभ्याम् । भगवते षाड्गुण्यपरिपूर्णाय निरस्तनिखिलदोषाय सकलस्य जगतः स्थितिलययोः इदमुत्पत्तेरप्युपलक्षणम् उत्पत्तिस्थितिलयानामीशाय कर्त्रे कुयोगिनां कर्त्तरि षष्ठी कुयोगिर्भिभिदा अब्रह्मात्मकस्वतन्त्रवस्तुदृष्ट्या दुरवसिता ज्ञातुमशक्या आत्मनो गतिः स्वरूपं स्वभावश्च यस्य ज्ञातुमशक्यस्वरूपस्वभावायेत्यर्थः । परमहंसायात्यन्तपरिशुद्धाय तुभ्यं नमः ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति
यं चेकितानमनु चित्तय उच्चकन्ति।
भूमण्डलं सर्षपायति यस्य मूर्ध्नि
तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने॥

मूलम्

यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति यं चेकितानमनु चित्तय उच्चकन्ति।
भूमण्डलं सर्षपायति यस्य मूर्ध्नि तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने॥ ४८ ॥

अनुवाद (हिन्दी)

आपकी चेष्टासे शक्ति प्राप्त करके ही ब्रह्मा आदि लोकपालगण चेष्टा करनेमें समर्थ होते हैं। आपकी दृष्टिसे जीवित होकर ही ज्ञानेन्द्रियाँ अपने-अपने विषयोंको ग्रहण करनेमें समर्थ होती हैं। यह भूमण्डल आपके सिरपर सरसोंके दानेके समान जान पड़ता है। मैं आप सहस्रशीर्षा भगवान‍्को बार-बार नमस्कार करता हूँ॥ ४८॥

वीरराघवः

अनन्तगुणमाहात्म्यं कथयन्नमस्करोति - यमिति । “श्वसन्तं बहु स्याम्" इति सङ्कल्पतो व्याक्रियमाणं यं त्वामनु विश्वसृजः ब्रह्मादयः स्वसन्ति प्राणन्ति त्वदायत्तस्वसत्तालाभेन व्याक्रियन्तः इत्यर्थः । चेकितानं सर्वं पश्यन्तं यं चित्तयः चित्तवृत्तयः अनूज्ञकन्ति प्रसरन्ति ज्ञानमपि त्वदधीनमित्यर्थः । यस्य तव मूर्द्ध्नि कृत्स्नं भूमण्डलं सर्षपायति सर्षपवदाचरति यं कृत्स्नभूमण्लभारमपि सर्षपवनमन्यत इत्यर्थः । तस्मै सहस्रशिरसे भगवते तुभ्यं नमोऽस्तु मे नमनं भवानाङ्गीकरोत्वित्यर्थः ॥ ४८ ॥

श्लोक-४९

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

संस्तुतो भगवानेवमनन्तस्तमभाषत।
विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह॥

मूलम्

संस्तुतो भगवानेवमनन्तस्तमभाषत।
विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह॥ ४९ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! जब विद्याधरोंके अधिपति चित्रकेतुने अनन्तभगवान‍्की इस प्रकार स्तुति की, तब उन्होंने प्रसन्न होकर उनसे कहा॥ ४९॥

वीरराघवः

चित्रकेतुनेत्थं स्तुतो भगवाननन्तस्तमभाषतेत्याह - मुनिः, संस्तुत इति । इत्थमनन्तगुणमाहात्म्येन स्तुतो भगवाननन्तः प्रीतस्सन् हे कुरूद्वह, ते विद्याधराणां पतिं चित्रकेतुमभाषत ॥ ४९ ॥

श्लोक-५०

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम्।
संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे॥

मूलम्

यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम्।
संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे॥ ५० ॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—चित्रकेतो! देवर्षि नारद और महर्षि अंगिराने तुम्हें मेरे सम्बन्धमें जिस विद्याका उपदेश दिया है, उससे और मेरे दर्शनसे तुम भलीभाँति सिद्ध हो चुके हो॥ ५०॥

वीरराघवः

तदेवाह - यदित्यादिना सिद्धोसीत्यन्तेन । नारदाङ्गिरोभ्यां ते तुभ्यं यद्व्याहृतमुक्तं तदनुशासनं प्रकृतिपुरुषेश्वरस्वरूपविषयकं विविच्य ज्ञापनरूपं वचः मे ममैव सत्सम्बन्ध्येवान्तरात्मभूतमत्सङ्कल्पादेव ताभ्यां ते व्याहृतम् - “ईश्वरस्य च सौहार्द्दं यदृच्छा सुकृतं तथा । विष्णोः कटाक्षः अद्वेष आनुकूल्यं च सात्विकैः । सम्भाषणं षडेतानि ह्याचार्यप्राप्तिहेतवः” । इत्युक्तरीत्या मदनुग्रहमन्तरेण सदाचार्यप्राप्तेदुर्लभत्वादिति भावः । अतो हे राजन्, तथा नारदोपदिष्टया मन्त्रविद्यया मम दर्शनाच्च संसिद्धोसि ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

अहं वै सर्वभूतानि भूतात्मा भूतभावनः।
शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू॥

मूलम्

अहं वै सर्वभूतानि भूतात्मा भूतभावनः।
शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू॥ ५१ ॥

अनुवाद (हिन्दी)

मैं ही समस्त प्राणियोंके रूपमें हूँ, मैं ही उनका आत्मा हूँ और मैं ही पालनकर्ता भी हूँ। शब्दब्रह्म (वेद) और परब्रह्म दोनों ही मेरे सनातन रूप हैं॥ ५१॥

वीरराघवः

ननु, मह्यमुपदिशतमिति न तौ प्रतित्वमुक्तवानतः कथं तद्व्याहृतं त्वदनुशासनमेवेति जानीयां किञ्च तयोरेव वचोऽहमशृणवं न तु तवेत्यत्राह - अहं हीति । तावत्सर्वाणि भूतान्यहमेव सर्वाण्यपि भूतानि मदभिन्नान्येव, किमुत “आचार्यं मां विजानीयात् “ज्ञानीत्वात्मैव मे मतम्” इत्युक्तात्माभिन्नाभिमानविषयावंगिरोनारदौ मदभिन्नाविति भावः । अतस्तद्व्याहृतं मदनुशासनमेवेति तात्पर्यम् । ननु, सर्वभूतान्यहमेवेत्युक्तोऽभेदः किं मृदात्मको घट इति वत्स्वरूपाभेदरूपस्तथात्वे सर्वविकाराश्रयत्वापत्तिस्तत्राह - भूतात्मा सर्वभूतानामन्तरात्मा आत्मा देवो जात इत्यादिवच्छरीरात्मभावप्रयुक्तः सर्वभूतैः सह ममाभेदः विकाराणां शरीरगतानां जीवे बाल्यादीनामिव न मयि प्रसक्तिरिति तात्पर्यम् । शरीरात्मभावनिबन्धनोऽभेदव्यपदेशो बहुशो दृष्टः ब्राह्मणोहं कृशोहं स्थूलोहमित्यादि न चेदं रजतमिति तद्बाधितोयं व्यपदेशः नीलो घट इत्याद्यभेदव्यपदेशस्यापि बाध्यत्त्वापत्तेः अथ जातिगुणादीनां व्यक्तिगुण्यप्रधक्सिद्धप्रकारतया तद्बुद्धितच्छब्दयोर्व्यक्तिगुणिपर्यन्तत्त्वान्न बाधस्तर्हि शरीरस्याप्यात्मा पृथक्सिद्धप्रकारत्वेन तद्बुद्धितच्छब्दयोरपि तात्पर्यं तत्वादप्यबाधित एव, ननु, जात्यादेर्व्यक्त्यादीन् प्रति अप्रधक्सिद्धप्रकारत्वं प्रत्यक्षगम्यं जातिव्यक्त्योरुभयोरपि प्रत्यक्षविषयत्वात् आत्मनस्तु तदविषयत्वात्कथं शरीरस्यात्मा पृथक्सिद्धविशेषणत्वमिति चेत् मास्तु जातिव्यक्त्योरिव शरीरात्मनोरेकप्रमाणविषयत्वम् अथाप्यात्मा पृथक्सिद्धप्रकरत्वं शरीरस्याक्षतमेव न हि भिन्नसामग्रीवेद्यत्वमात्रेण तद्व्याहर्तुं शक्यम् अन्यथा चक्षुर्घ्राणेन्द्रियविद्ययोः पृथ्वीगन्धयोरपि नियतप्रकारप्रकारिभावानुपपत्तेरित्यन्यत्र विस्तरः न केवलं शरीरात्मभावनिबन्धन एव भूतैर्ममाभेदः, अपि तु कार्यकारणभावनिबन्धनश्चेत्याह - भूतभाव इति, भूतानि चिदचिदात्मकानि देवमनुष्यादीनि भावयत्युत्पादयति स्वस्मादेवोपादनभूतादिति भूतभावनः कार्यकारणयोरभेदरत्वारम्भणाधिकरणादिभाष्ये बहूपपत्तिभिर्निरूपितः यदा शङ्कितं तयोरेववचो शृणवं नतु तवेति तत्राह - शब्देति । शब्दात्मकं यद्ब्रह्म परं शब्देन वाच्यमर्थात्मकत्वं च यद्ब्रह्म इमे ब्रह्मणी मम शाश्वती तनू यावत्सत्तमपृथक्सिद्धे मम शरीरभूते इत्यर्थः । स्वस्मिन्मुख्यवृत्तो ब्रह्मशब्दः शब्दार्थात्मकयोः प्रपञ्चदलयोः स्वशरीरत्वादुपचरितः परब्रह्मणः स्वतनुत्वकथनं दृष्टान्तार्थं यथा परब्रह्मान्तर्गतनारदांगिरसोर्मच्छरीरत्वम् एवं शब्दब्रह्मान्तर्गततद्वचसोऽपि मत्तनुत्वमित्यर्थः । यद्यपि स्वस्य सर्वभूतात्मकत्वकथनेनैव सर्वभूतवचसां स्ववचरत्वमपि कथितप्रायं तथापि नामरूपयोरुभयोरपि स्वशरीरकत्वज्ञापनाय पृथगुक्तमित्यगन्तव्यम् ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

लोके विततमात्मानं लोकं चात्मनि सन्ततम्।
उभयं च मया व्याप्तं मयि चैवोभयं कृतम्॥

मूलम्

लोके विततमात्मानं लोकं चात्मनि सन्ततम्।
उभयं च मया व्याप्तं मयि चैवोभयं कृतम्॥ ५२ ॥

अनुवाद (हिन्दी)

आत्मा कार्य-कारणात्मक जगत‍्में व्याप्त है और कार्य-कारणात्मक जगत् आत्मामें स्थित है तथा इन दोनोंमें मैं अधिष्ठानरूपसे व्याप्त हूँ और मुझमें ये दोनों कल्पित हैं॥ ५२॥

वीरराघवः

ननु, सर्वेषां भूतशब्दवाच्यानां देवादिशरीराणामात्मा जीवः स एव किं भवान्नेत्याह - लोक इति । लोके परिदृश्यमानाचित्प्रपञ्चे देवादिशरीररूपे विततं व्याप्तमन्तःप्रविश्य धारकतया व्याप्तं प्रत्यगात्मानं द्वितीयान्तानां पश्येत्यव्याहृतेनान्वयः । तथा आत्मनि प्रत्यगात्मनि सन्ततं प्रोतं धार्यत्वेनावस्थितं लोकं केत्येतदुभयं मया परमात्मनाऽतःप्रविश्य भर्त्रा व्याप्तम् उक्तमुभयं मयि कृतं च मदाधेयं कृतमित्यर्थः । लोके विततमात्मानमित्यनेन चेतने जीवस्य व्याप्तिरुक्ता । लोकं चात्मनीत्यनेनाचेतनस्य जीवधार्यत्वमुक्तम् । उभयमित्यनेन चेतनाचेतनयोरीश्वरधार्यत्वं व्याप्यत्वमीश्वरस्य स्वस्य धारकत्वं व्यापकत्वञ्चोक्तम् अतो नाहं जीवः भूतात्मेत्यत्र भूतशब्दोऽचेतनविशिष्टचेतनपरः इति भावः । आत्मानमित्येकवचनं जात्यभिप्रायकं यद्वा एकामेव जीवव्यक्तिमुपादाय क्रमप्राप्तेषु देवादिशरीरेषु व्याप्तिरुच्यते, अतोऽत्र जीवैक्यवादभ्रमो न कर्त्तव्यः ॥ ५२ ॥

श्लोक-५३

विश्वास-प्रस्तुतिः

यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि।
आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः॥

मूलम्

यथा सुषु15प्तः पुरुषो विश्वं पश्यति चात्मनि।
आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः॥ ५३ ॥

वीरराघवः

ननु, कथमेतद्विमर्शनीयं सर्वाण्यचेतनानि प्रत्यगात्मभिर्व्याप्तानि उभयं तु त्वया व्याप्तमित्यपेक्षायां बुद्धिनैपुण्येनेति सदृष्टान्तमाह - यथेत्यादिचतुर्भिः । तावज्जीवस्वरूपविमर्शनाय दृष्टान्तं शिक्षयति यथेति, यथा सुषुप्तः स्वप्नद्रष्टा पुरुषः सुषुप्त इति न सुषुप्त्यवस्थो जीव उच्यते स्वप्न उत्थितः इत्यनन्तरोक्तत्वात् सुषुप्तौ विश्वदर्शनानुपपत्तेश्च स्वप्ने स्वप्नावस्थायामेकस्मिन्नेव स्वप्नदृष्टर्यात्मनि विश्वं पश्यति गजस्कन्धारोहणदेशान्तरगमनराज्याभिषेकशिरच्छेदाद्यर्हं शरीरजातं पश्यति प्रकृत्युपाधिकं पश्यतीत्यर्थः । दृष्टान्ते मायामात्राणीति वक्ष्यमाणत्वात् उत्थितो जाग्रदवस्थां प्राप्तस्त्वात्मानमेकदेशस्थं क्वचिदपवराकादिशयानशरीरमात्रवर्तिनं मन्यते स्वप्नावस्था न स्वप्नदृष्टृस्वरूपप्रयुक्ता अपि तु स्वप्नजाग्रदवस्थाद्वयान्वितप्रकृत्युपाधिकस्वप्नदृष्टैकजीवकर्मानुगुणमीश्वरसृष्टगजादिपदार्थानुप्रवेशपूर्वकतत्तद्दर्शनरूपेति दृष्टान्ते विवक्षितोऽर्थः ॥ ५३ ॥

श्लोक-५४

विश्वास-प्रस्तुतिः

एवं जागरणादीनि जीवस्थानानि चात्मनः।
मायामात्राणि विज्ञाय तद्‍द्रष्टारं परं स्मरेत्॥

मूलम्

एवं जागरणादीनि जीवस्थानानि चात्मनः।
मायामात्राणि विज्ञाय तद्‍द्रष्टारं 16परं स्मरेत्॥ ५४ ॥

अनुवाद (हिन्दी)

जैसे स्वप्नमें सोया हुआ पुरुष स्वप्नान्तर होनेपर सम्पूर्ण जगत‍्को अपनेमें ही देखता है और स्वप्नान्तर टूट जानेपर स्वप्नमें ही जागता है तथा अपनेको संसारके एक कोनेमें स्थित देखता है, परन्तु वास्तवमें वह भी स्वप्न ही है, वैसे ही जीवकी जाग्रत् आदि अवस्थाएँ परमेश्वरकी ही माया हैं—यों जानकर सबके साक्षी मायातीत परमात्माका ही स्मरण करना चाहिये॥ ५३-५४॥

वीरराघवः

इममर्थं दार्ष्टान्तिके दर्शयति - एवमिति । एवं स्वप्नावस्थावज्जागरणादीनि च जीवस्थानानि एकस्य जीवस्य स्थानान्यवस्थानानि अवस्था इत्यर्थः । स्वप्नावस्थावज्जागराद्यन्वयोऽपि नात्मस्वरूपप्रयुक्तः अपि तु प्रकृत्युपाधिकः स्वरूपप्रयुक्तत्वे तस्य सर्वावस्थानुगतत्वेन तत्प्रयुक्ताः पूर्वपूर्वावस्थाः उत्तरोत्तरावस्थासूपलभेत न च प्रकृत्यवस्थतद्द्रष्टभेद उपपादयितुं शक्यः कर्मानुस्मृतिशब्दविध्यनुपपत्तेः । कर्मं तावत्सुषुप्तेन पूर्वकृतं पुण्यपापरूपं तत्वज्ञानात्प्राक्तेनैव भोक्तव्यम् अनुस्मृतिरपि य एवाहं सुप्तः स एव प्रतिबुद्धोऽस्मीति शब्दः श्रुतिरपि सुप्तं प्रबुद्धं स एवेति दर्शयति “त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तथा भवन्ति” इति । विधयश्च मोक्षार्थाः सुप्तस्य पुनरनुत्थितौ अनर्थकाः स्युः अस्त्वेवं स्वप्नावस्थावज्जागरादयो न जीवस्वरूपप्रयुक्ताः अपि तु प्रकृत्युपाधिका इति । तथापि जीवस्वरूपविमर्शने किमायातं ? तत्राह - आत्मन इति । जागरादीन्यवस्थानान्यात्मनो मायामात्राणि परमात्मसम्बन्धिप्रकृत्युपाधिकानि न स्वरूपप्रयुक्तानीति ज्ञात्वा आत्मनो मायामात्राणीत्यनेन जीवस्य स्वप्नावस्था परमात्मायत्तेति दर्शितं मद्द्रष्टारं तत्तदवस्थासाक्षिणं परं प्रकृतिविलक्षणं जीवात्मानं स्मरेत् अचेतनस्य तत्तदवस्थाद्रष्टृत्वानुपपत्तेः कर्मानुस्मृत्याद्यनुपपत्तेश्च एकैकं शरीरमेकैकेन जीवेन व्याप्यं तत्स्वरूपञ्च तत्तदवस्थाद्रष्टत्वपूर्वपूर्वावस्थानुस्मर्तृत्वं हि प्रत्ययगोचरत्वादिभिर्द्धमैर्निपुणतरविवेकेनावगन्तव्यमिति भावः ॥ ५४ ॥

श्लोक-५५

विश्वास-प्रस्तुतिः

येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा।
सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम्॥

मूलम्

येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा।
सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम्॥ ५५ ॥

अनुवाद (हिन्दी)

सोया हुआ पुरुष जिसकी सहायतासे अपनी निद्रा और उसके अतीन्द्रिय सुखका अनुभव करता है, वह ब्रह्म मैं ही हूँ; उसे तुम अपनी आत्मा समझो॥ ५५॥

वीरराघवः

एवं परमात्मस्वरूपविमर्शनप्रकारमाह - येनेति । येन हेतुभूतेन परमात्मना प्रसुप्तः सुषुप्त्यवस्थां प्राप्तः पुरुषो जीवः जीवस्य प्रसुप्तौ परमात्मनो हेतुत्वाद्येनेति हेत्वर्थकतृतीयान्तेन निर्देशः तथा हि ‘स्वप्नांतं मे सौम्य विजानीहि’ इत्युपक्रम्य ‘यत्रैतत्पुरुषः स्वपिति नाम सता सौम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपीति इत्याचक्षते स्वमपीतो भवति’ इति छान्दोग्ये श्रुतं स्वप्नान्तं सुषुप्तिः सता ब्रह्मणा सम्पन्नो भवति जीवः सता साकं सम्पत्तिर्नामशरीरेन्द्रियाधिष्ठातृत्वादिव्यापारान्तरराहित्येन ब्रह्मणि स्थितिमात्रं सैव सुषुप्तिः स्वं स्वशरीरकं परमात्मानं प्रत्यपीतो भवति लीनो भवति उक्तविधा सम्पत्तिरेव च लयः कारण एव हि कार्यस्य लयः एवं सुषुप्त्याधारत्वात्तत्कारणत्वाच्च येनेति तद्धेतुत्वेन निर्द्दिष्टः एवं येन सुषुप्तः पुरुष आत्मनः स्वस्य स्वापं वेदानुभवतीत्यर्थः । तथा च सुखं वेद सुखमहमस्वाप्समिति परामर्शानुगुणं सुखञ्च यत्सम्पत्तिकृतं वेद तं निर्गुणं हेयगुणरहितं ब्रह्मशब्दवाच्यं परमात्मानं मामवेहि जानीहीत्यर्थः । सुषुप्त्याधारत्वत्कारणत्वसौषुप्तिकसुखहेतुत्वादिभिर्द्धर्मैः परमात्मस्वरूपं विमर्शनीयमिति भावः । निर्गुणमिति सुखविशेषणं वा निर्गुणं प्रबोधसमयेऽनुसन्धीयमानस्यात्मनो या वर्णाश्रमादिविशिष्टता तादृशगुणरहितमात्मप्रबोधादहमित्येकाकारेण प्रतीयमानं सुखरूपमात्मानं तमोगुणाभिभवात्प्रागर्थानुभवाभावाञ्चाविविक्तस्फुटप्रभासं वेदेत्यर्थः । सुप्तोत्थितस्य परामर्शानुगुणमेव हि सौषुप्तिकं सुखं वर्णनीयं तत्परामर्शश्चैवंविधः सुखमहमस्वाप्सं नाहं किञ्चिदवेदिषमिति तत्राहमस्वाप्समित्यनेनाहमर्थस्यात्मनोऽनुवृत्तिर्दर्शिता । सुखमित्यनेन तस्य सुखरूपता । नाहं किंचिदवेदिषमित्यनेन तस्य बाह्यब्राह्मणत्वाद्याकारवैधुर्यं च दर्शितम् एवंविधन्तत्सुखमिति विशिष्य परामर्शाभावाच्चास्फुटत्वं च ॥ ५५ ॥

श्लोक-५६

विश्वास-प्रस्तुतिः

उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः।
अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत् परम्॥

मूलम्

उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः।
अन्वेति व्यतिरिच्येत त17ज्ज्ञानं ब्रह्म तत् परम्॥ ५६ ॥

अनुवाद (हिन्दी)

पुरुष निद्रा और जागृति—इन दोनों अवस्थाओंका अनुभव करनेवाला है। वह उन अवस्थाओंमें अनुगत होनेपर भी वास्तवमें उनसे पृथक् है। वह सब अवस्थाओंमें रहनेवाला अखण्ड एकरस ज्ञान ही ब्रह्म है, वही परब्रह्म है॥ ५६॥

वीरराघवः

एवं सुषुप्तौ परमात्मस्वरूपविमर्शनप्रकारकथनमुखेन जीवस्वरूपमुभयमित्यादिना विमृशन्ननूद्य ब्रह्म तत्परमित्यनेन ब्रह्मात्मकत्वं विदधाति - उभयमिति । उभयं प्रस्वापं प्रतिबोधं चेत्युभयं स्मरतः पुंसो देहिनो यज्ज्ञानं प्रस्वापप्रतिबोधयोरन्वेति व्यतिरिच्येत तत्तदवस्थाश्रयेणानुवर्तते तदुपाधिविगमे तत्तदवस्थाभिर्व्यतिरिक्तश्च स्यात्तत्तदवस्थानाश्रयं स्यात् यद्वा उत्तरोत्तरावस्थासु पूर्वपूर्वावस्थाव्यतिरिक्तं स्यात्तत्तस्मात्परिशुद्धज्ञानस्वरूपाज्जीवात्परं विलक्षणं तदात्मभूतं ब्रह्मेत्यर्थः । यद्वा उभयम् इत्यादिदृष्टान्तार्थं यथा यज्जीवस्वरूपात्मकं ज्ञानं सर्वावस्थानुवर्ति तद्दृष्टृ उत्तरोत्तरावस्थासु पूर्वपूर्वावस्थाव्यतिरिक्तञ्च तथा तस्मात्परं विलक्षणं सर्वावस्थासु जीवस्वरूपनियन्तृतयानुवृत्तं द्रष्टृ तत्तदवस्थासम्बन्धिसुखदुःखाद्यनन्वयितया व्यतिरिक्तञ्च ब्रह्मेत्यर्थः । यथा सर्वावस्थानुवर्त्तित्वतद्दृष्टृत्वज्ञानानन्दादिस्वरूपत्त्वस्वभावतस्तत्तदवस्थानन्वयित्वाहं प्रत्ययगोचरत्वादिभिर्द्धर्मैः जीवस्वरूपं विशोध्यं तथा ब्रह्मशरीरत्वेनापि तद्विशोध्यमित्यभिप्रायः । एवं ब्रह्मशरीरत्वेन तदायत्तसत्तास्थितिप्रवृत्तिकत्वरूपपारतन्त्र्यमप्यनुसन्धेयमित्युक्तम् ॥ ५६ ॥

श्लोक-५७

विश्वास-प्रस्तुतिः

यदेतद्विस्मृतं पुंसो मद‍्भावं भिन्नमात्मनः।
ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः॥

मूलम्

यदेतद्विस्मृतं पुंसो मद‍्भावं भिन्नमात्मनः।
ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः॥ ५७ ॥

अनुवाद (हिन्दी)

जब जीव मेरे स्वरूपको भूल जाता है, तब वह अपनेको अलग मान बैठता है; इसीसे उसे संसारके चक्‍करमें पड़ना पड़ता है और जन्म-पर-जन्म तथा मृत्यु-पर-मृत्यु प्राप्त होती है॥ ५७॥

वीरराघवः

एवमननुसन्धानेऽनर्थमाह - यदीति । यद्येतत्पुंसो देहिन आत्मनः स्वस्य मद्भावं भावः प्रकारः क्लीबत्वमार्षं मत्प्रकारत्वं विस्मृतं सत् भिन्नं भावप्रधानो भिन्नशब्दः भिन्नत्वं पृथक्सिद्धत्वरूपस्वतन्त्रं स्यादित्यर्थः । भिन्नत्वेनानुसंहितं स्यादिति भावः ततो हेतोरस्य जीवस्य संसारो भवति । संसारस्वरूपमाह - देहाद्देहः जन्मान्तरं मृतेरनन्तरं पुनर्मृतिश्चेति ॥ ५७ ॥

श्लोक-५८

विश्वास-प्रस्तुतिः

लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम्।
आत्मानं यो न बुद्‍ध्येत न क्वचिच्छममाप्नुयात्॥

मूलम्

लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम्।
आत्मानं यो न बुद्‍ध्येत न क्वचि18च्छममाप्नुयात्॥ ५८ ॥

अनुवाद (हिन्दी)

यह मनुष्ययोनि ज्ञान और विज्ञानका मूल स्रोत है। जो इसे पाकर भी अपने आत्मस्वरूप परमात्माको नहीं जान लेता, उसे कहीं किसी भी योनिमें शान्ति नहीं मिल सकती॥ ५८॥

वीरराघवः

एवं ब्रह्मात्मकत्वाननुसन्धानेऽनर्थस्संसृतिरूप उक्तः अयञ्च मनुष्यजन्मनैव परिहार्यो न तिर्यगादिजन्मनेत्याह - लब्ध्वेति । एष जीवः ज्ञानं शास्त्रजन्यं विज्ञानं विमोकादिसाधनसप्तकजमुपासनात्मकं तयोः सम्भवो यस्यास्तां मानुषीं योनिं लब्ध्वा मानुष्यं जन्म प्राप्यापीत्यर्थः । आत्मानमुक्तविधमात्मस्वरूपं यो न बुध्येत स पुमान्क्वचिदपि क्षेमं नाप्नुयात् तिर्यगादियोनिषु ज्ञानविज्ञानयोग्यतैव नास्ति “तद्योग्यां दुर्लभां मानुषीं योनिं प्राप्यापि ब्रह्मात्मकमात्मानं स्वशरीरकं ब्रह्म वायो नोपासीत” स पुनः पुनः संसरेदेवेति भावः ॥ ५८ ॥

श्लोक-५९

विश्वास-प्रस्तुतिः

स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम्।
अभयं चाप्यनीहायां सङ्कल्पाद्विरमेत्कविः॥

मूलम्

स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम्।
19अभयं चाप्यनीहायां सङ्कल्पाद्विरमेत्क20विः॥ ५९ ॥

अनुवाद (हिन्दी)

राजन्! सांसारिक सुखके लिये जो चेष्टाएँ की जाती हैं, उनमें श्रम है, क्लेश है और जिस परम सुखके उद्देश्यसे वे की जाती हैं, उसके ठीक विपरीत परम दुःख देती हैं; किन्तु कर्मोंसे निवृत्त हो जानेमें किसी प्रकारका भय नहीं है—यह सोचकर बुद्धिमान् पुरुषको चाहिये कि किसी प्रकारके कर्म अथवा उनके फलोंका संकल्प न करे॥ ५९॥

वीरराघवः

मानुषीं योनिं लब्धवतोपि विषयासक्तस्य कथं ज्ञानादिकं प्रतिष्ठितं भवेत् ? तत्राह - स्मृत्वेति । ईहायां विषयसुखार्थायां चेष्टायां प्रवृत्तिधर्मे परिक्लेशमत्यन्तशरीरायासादिरूपं तत ईहातः फलविपर्ययं फलविपर्यासं सुखार्थचेष्टातो दुःखप्राप्तिञ्च स्मृत्वा सदृष्टातमालोच्यानीहायां निवृत्तिधर्मेऽभयमल्पत्वास्थिरत्वदुःखोदर्कत्वादिनिमित्तभयरहितममृतत्वं च पश्यन् मुनिः स्वात्मपरमात्मयाथात्म्यमननशीलः तत ईहातः शनैर्विरमेत् उक्तविधालोचनेन शनैर्वैराग्यमुत्पादयेदित्यर्थः । ततो ज्ञानविज्ञाने प्रतिष्ठिते भवत इति भावः ॥ ५९ ॥

श्लोक-६०

विश्वास-प्रस्तुतिः

सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः।
ततोऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च॥

मूलम्

सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः।
ततोऽनिवृत्ति21रप्राप्तिर्दुःखस्य च सुखस्य च॥ ६० ॥

अनुवाद (हिन्दी)

जगत‍्के सभी स्त्री-पुरुष इसलिये कर्म करते हैं कि उन्हें सुख मिले और उनका दुःखोंसे पिण्ड छूटे; परन्तु उन कर्मोंसे न तो उनका दुःख दूर होता है और न उन्हें सुखकी ही प्राप्ति होती है॥ ६०॥

वीरराघवः

ईहायां परिक्लेशफलविपर्ययावेव स्पष्टयति - सुखायेति । सुखाय तत्प्राप्तये दुःखनिवृत्तये च क्रियाः तदुपयुक्तान्व्यापारान् दम्पतीं यद्यपि कुर्वाते तथापि ततस्तत्क्रियाभ्यः दुःखस्यानिवृत्तिः सुखस्याप्राप्तिश्च दुःखस्य निवृत्तिः सुखस्य प्राप्तिश्च न भवति प्रत्युत विपरीतमेव भवतीति भावः ॥ ६० ॥

श्लोक-६१

विश्वास-प्रस्तुतिः

एवं विपर्ययं बुद्‍ध्वा नृणां विज्ञाभिमानिनाम्।
आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम्॥

मूलम्

एवं विपर्ययं बुद्‍ध्वा नृणां विज्ञाभिमानिनाम्।
आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम्॥ ६१ ॥

अनुवाद (हिन्दी)

जो मनुष्य अपनेको बहुत बड़ा बुद्धिमान् मानकर कर्मके पचड़ोंमें पड़े हुए हैं, उनको विपरीत फल मिलता है—यह बात समझ लेनी चाहिये; साथ ही यह भी जान लेना चाहिये कि आत्माका स्वरूप अत्यन्त सूक्ष्म है, जाग्रत्, स्वप्न, सुषुप्ति—इन तीनों अवस्थाओं तथा इनके अभिमानियोंसे विलक्षण है॥ ६१॥

वीरराघवः

अनीहायामुभयं स्पष्टयति - एवमिति । विज्ञाभिमानिनां वयमीहायां कुशला इत्यभिमानवतां नृणां ईहायामेवमुक्तप्रकारेण विपर्ययं बुद्धवा आलोच्य स्थानत्रयविलक्षणां जाग्रत्स्वप्नसुषुप्त्यतीतां केवलविषयासक्तैर्दुर्ज्ञेयामात्मनः प्रत्यगात्मनो गतिं ब्रह्मात्मकत्वाद्याकारं बुद्धवा[[??]] ॥ ६१ ॥

श्लोक-६२

विश्वास-प्रस्तुतिः

दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा।
ज्ञानविज्ञानसन्तुष्टो मद‍्भक्तः पुरुषो भवेत्॥

मूलम्

दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा।
22ज्ञानविज्ञानसन्तुष्टो मद‍्भक्तः पुरुषो भवेत्॥ ६२ ॥

अनुवाद (हिन्दी)

यह जानकर इस लोकमें देखे और परलोकके सुने हुए विषय-भोगोंसे विवेकबुद्धिके द्वारा अपना पिण्ड छुड़ा ले और ज्ञान तथा विज्ञानमें ही सन्तुष्ट रहकर मेरा भक्त हो जाय॥ ६२॥

वीरराघवः

दृष्टश्रुताभिरैहिक्यामुष्मिकीभिः मात्राभिः विषयसुखलेशैः स्वेन तेजसा स्वविवेकबलेन निर्मुक्तः मात्रासु जातविराग इत्यर्थः । ज्ञानविज्ञानाभ्यां पूर्वोक्ताभ्यां सन्तुष्टः ज्ञानसहकृतभगवदनुभवरूपविज्ञानमात्रसन्तुष्टः मद्भक्तः मम निरतिशयप्रियः पुरुषो भवेत् एतञ्चोभयं तस्य ब्रह्मात्मकत्वमनुसन्दधतः करस्थमिति भावः ॥ ६२ ॥

श्लोक-६३

विश्वास-प्रस्तुतिः

एतावानेव मनुजैर्योगनैपुणबुद्धिभिः।
स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम्॥

मूलम्

एतावानेव मनुजैर्योगनै23पुणबुद्धिभिः।
स्वार्थः सर्वात्मना ज्ञेयो यत्परा24त्मैकदर्शनम्॥ ६३ ॥

अनुवाद (हिन्दी)

जो लोग योगमार्गका तत्त्व समझनेमें निपुण हैं, उनको भलीभाँति समझ लेना चाहिये कि जीवका सबसे बड़ा स्वार्थ और परमार्थ केवल इतना ही है कि वह ब्रह्म और आत्माकी एकताका अनुभव कर ले॥ ६३॥

वीरराघवः

तदेवाह - एतावानिति । योगे नैपुण्यं यस्याः सा बुद्धिर्येषां तैर्मनुजैः सर्वात्मना सर्वप्रकारेण ज्ञेयः स्वार्थोऽनिष्टपरिहारेष्टप्रापणसमर्थं पुरुषेण प्रार्थनीयं वस्तु एतावानेव, एष एवेत्यर्थः । स्वार्थे वतिः यद्वा एतावानेवैतत्परिमित एव । कोसौ ! तत्राह - यत्परात्मैक्यदर्शनमिति । परस्य परमात्मनः आत्मनः स्वस्य च ऐक्यदर्शनमपृथक्सिद्धसम्बन्धदर्शनमिति यदेतावानेवेत्यर्थः । यद्वा परात्मनः परमात्मन ऐक्यदर्शनमेकत्वेन प्रकारित्वेनैकेनैवाकारेण च दर्शनं यद्वा परस्य परमात्मनः आत्मनः स्वस्य च ऐक्यदर्शनं परमात्मनः प्रकारित्वेनैकेनाकारेण स्वस्य च तत्प्रकारत्वरूपेणैकेनाकारेण दर्शनं परमात्मैकदर्शनमिति यदेतावानित्यर्थः ॥ ६३ ॥

श्लोक-६४

विश्वास-प्रस्तुतिः

त्वमेतच्छ्रद्धया राजन्नप्रमत्तो वचो मम।
ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि॥

मूलम्

त्वमेतच्छ्रद्धया राजन्नप्रमत्तो वचो मम।
ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि॥ ६४ ॥

अनुवाद (हिन्दी)

राजन्! यदि तुम मेरे इस उपदेशको सावधान होकर श्रद्धाभावसे धारण करोगे तो ज्ञान एवं विज्ञानसे सम्पन्न होकर शीघ्र ही सिद्ध हो जाओगे॥ ६४॥

वीरराघवः

एवं परात्मैक्यद्रष्टा चेत्त्वमप्याशु मुक्तौ भविष्यसीत्याह - त्वमिति । हे राजन् चित्रकेतो, त्वमप्रमत्तः समाहितचित्तः श्रद्धया ज्ञानविज्ञानसम्पन्नं सम्पत्तिः सम्पन्न ‘भावेक्तः’ ज्ञानविज्ञानयोः सम्पत्तिर्यस्मात्तन्मम वचः धारयन् स्वनिष्ठं कुर्वन् ज्ञानविज्ञानसम्पादकं मदुक्तार्थमनुतिष्ठन्नित्यर्थः । ब्रह्मात्मकत्वानुसन्धानेन ज्ञानविज्ञाने प्रतिष्ठिते भवत इति भावः । ज्ञानविज्ञानसम्पन्न इति प्रथमान्तपाठे स्पष्टार्थः । आशु सिध्यसि मुक्तो भविष्यसि ॥ ६४ ॥

श्लोक-६५

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

आश्वास्य भगवानित्थं चित्रकेतुं जगद‍्गुरुः।
पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः॥

मूलम्

आश्वास्य भगवानित्थं चित्रकेतुं जगद‍्गुरुः।
पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः॥ ६५ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! जगद‍्गुरु विश्वात्मा भगवान् श्रीहरि चित्रकेतुको इस प्रकार समझा-बुझाकर उनके सामने ही वहाँसे अन्तर्धान हो गये॥ ६५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चि25त्रकेतोः परमात्मदर्शनं नाम षोडशोऽध्यायः॥ १६ ॥

वीरराघवः

एवमुपादिश्य भगवानन्तर्द्दधौ इत्याह - मुनिः, आश्वास्येति । विश्वात्मा जगद्गुरुर्भगवान्हरिः सङ्कर्षणश्चित्रकेतुमित्थमाश्वास्य नारदाङ्गिरउक्तिसम्बादितस्ववचसा विश्वास्य तस्य चित्रकेतोः पश्यतः सतस्तत्रैव पातालादधस्तात्कस्याञ्चिद्दिशि अन्तर्हितवान् ॥ ६५ ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां षोडशोऽध्यायः ॥ १६ ॥


  1. प्रा. पा. - तु । ↩︎

  2. प्रा. पा. - सुकृत् । ↩︎

  3. प्रा. पा. - इवासीतः । ↩︎

  4. प्राचीने पाठे ‘श्रीशुक उवाच’ पाठो नः । ↩︎

  5. प्रा. पा. - जन्तोर्दे । ↩︎

  6. प्रा. पा. - मुकुलो । ↩︎

  7. प्राचीने पाठे ‘श्रीशुक उवाच’ पाठो न । ↩︎

  8. प्रा. पा. - तां विद्यां पठन् नार । ↩︎

  9. प्रा. पा. - ततः स । ↩︎

  10. प्रा. पा. - मुहुः । ↩︎

  11. प्रा. पा. - सेवय । ↩︎

  12. प्रा. पा. - लायवानादीनि । ↩︎

  13. प्रा. पा. - त्वद्दर्शिनानृ । ↩︎

  14. प्रा. पा. - तत्केन । ↩︎

  15. प्रा. पा. - प्रसुप्तः । ↩︎

  16. प्रा. पा. - स्मरेत माम् । ↩︎

  17. प्रा. पा. - ज्ञानं तद् ब्रह्म । ↩︎

  18. प्रा. पा. - चित्क्षेम । ↩︎

  19. प्रा. पा. - तो भयं । ↩︎

  20. प्रा. पा. - त्क्वचित् । ↩︎

  21. प्रा. पा. - त्तिर्न प्राप्ति । ↩︎

  22. प्रा. पा. – विज्ञानज्ञानसंहृष्टो । ↩︎

  23. प्रा. पा. - नैपुण्य । ↩︎

  24. प्रा. पा. – गत्म्यैक । ↩︎

  25. प्रा. पा. - त्रकेतूपाख्याने परमपुरुषादेशः षोड । ↩︎