[पञ्चदशोऽध्यायः]
भागसूचना
चित्रकेतुको अंगिरा और नारदजीका उपदेश
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम्।
शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः॥
मूलम्
ऊचतुर्मृतकोपान्ते 1पतितं मृतकोपमम्।
शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! राजा चित्रकेतु शोकग्रस्त होकर मुर्देके समान अपने मृत पुत्रके पास ही पड़े हुए थे। अब महर्षि अंगिरा और देवर्षि नारद उन्हें सुन्दर-सुन्दर उक्तियोंसे समझाने लगे॥ १॥
वीरराघवः
एवं तत्रागतावङ्गिरोनारदौ शोकापनयनाय तमूचतुरित्याह मुनिः - ऊचतुरिति । मृतकोपान्ते शवसमीपे पतितं मृतकोपमं शवसदृशं तत्र हेतुः शोकेनाभिभूतं तिरस्कृतविवेकं राजानं चित्रकेतुं सदूक्तिभिः प्रकृतिपुरुषेश्वरयाथात्म्यवेदिनीभिरुक्तिभिर्बोधयन्तौ विवेकमुत्पादयन्तावूचतुः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
कोऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति।
त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम्॥
मूलम्
कोऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति।
त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम्॥ २ ॥
अनुवाद (हिन्दी)
उन्होंने कहा—राजेन्द्र! जिसके लिये तुम इतना शोक कर रहे हो, वह बालक इस जन्म और पहलेके जन्मोंमें तुम्हारा कौन था? उसके तुम कौन थे? और अगले जन्मोंमें भी उसके साथ तुम्हारा क्या सम्बन्ध रहेगा?॥ २॥
वीरराघवः
सदुक्तिभिर्बोधनप्रकारमेवाह - क इत्यादिना, वस्तुनि कल्पित इत्यन्तेन । तावज्जीवानां परस्परं निरुपाधिकसम्बन्धाभावादौपाधिकसम्बन्धप्रयुक्तशोकमोहभयादेर्निमित्तसम्बन्धस्यैव निवृत्तेर्न शोकहेतुरस्तीत्यूचतुः - कोयमिति - हे राजेन्द्र, यं प्रतिभवाननुशोचति सोऽयं प्रवाहरूपायां सृष्टौ पुरा भूतकाले इदानीं वर्तमानकाले इतः परं भविष्यत्काले वा तव कः स्यात् त्वमप्यस्य शोच्यमानस्य कतमः ? यदि जीवात्मानं प्रति शोचसि तर्हि शोच्यस्य जीवस्य तव च कस्सम्बन्धः ? कालत्रयेपि नानेन तव सम्बन्ध इत्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः।
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः॥
मूलम्
यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः।
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः॥ ३ ॥
अनुवाद (हिन्दी)
जैसे जलके वेगसे बालूके कण एक-दूसरेसे जुड़ते और बिछुड़ते रहते हैं, वैसे ही समयके प्रवाहमें प्राणियोंका भी मिलन और बिछोह होता रहता है॥ ३॥
वीरराघवः
देहद्वारकपितृपुत्रसम्बन्धेनानुशोचामीत्यत्रोचतुः - यथेति । स्रोतोवेगेन प्रवाहवेगेन यथा वालुकाः सिकताः कदाचित्संयान्ति संयुक्ता भवन्ति कदाचिञ्च प्रयान्ति विप्रयुक्ताश्च भवन्ति तथा कालेन निमित्तेन देहिनोप्यन्यैर्देहिभिः सह संयुज्यते वियुज्यते च देहिनां परस्परं कालकर्मायत्तदेहद्वारकसम्धस्यौपाधिकत्वादुपाधिविलये तत्प्रयुक्तसम्बन्धस्यापि विलयाद्विलीनसम्बन्धप्रयुक्तः शोको न कार्य इति भावः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
यथा धानासु वै धाना भवन्ति न भवन्ति च।
एवं भूतेषु भूतानि चोदितानीशमायया॥
मूलम्
यथा धानासु वै धाना भवन्ति न भवन्ति च।
एवं भूतेषु भूतानि चोदितानीशमायया॥ ४ ॥
अनुवाद (हिन्दी)
राजन्! जैसे कुछ बीजोंसे दूसरे बीज उत्पन्न होते और नष्ट हो जाते हैं, वैसे ही भगवान्की मायासे प्रेरित होकर प्राणियोंसे अन्य प्राणी उत्पन्न होते और नष्ट हो जाते हैं॥ ४॥
वीरराघवः
ननु, पितृपुत्रत्वादिसम्बन्धो न केवलमात्मगतः नापि देहमात्रगतः अपि तु विशिष्टगतः अतो विशिष्टं प्रत्येवाहं विशिष्टरूपः शोचामीति चेदेवमपि न शोकः कार्य इत्याहतुः - यथेति । यथा धानासु बीजेषु जातिगुणादिविशेषणविशिष्टेषु तादृश्यो धाना बीजान्तराणि ईश्वरसङ्कल्पेन भवन्त्युत्पद्यन्ते अपादानस्यैवाधिकरणत्वविवक्षया सप्तमी न भवन्ति नश्यन्ति च तथाभूतेभ्यः भूतान्तराण्यपीश्वरमाययोत्पद्यन्ते नश्यन्ति च । अप्राणिभ्योऽप्राणिनामिव प्राणिभ्यः प्राणिनामप्युत्यत्तेर्मृतेश्चेश्वरसङ्कल्पायत्तत्वात्त्तद्वत्प्राणिभिरपीश्वरमायावैभवमनुसन्दधानात्स्तूष्णीमेव स्थेयं न तु शोकः कार्यः किञ्च विशिष्टे विशेष्यांशस्य जीवस्य गतत्वाच्च न शोकः कार्य इति भावः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः।
जन्ममृत्योर्यथा पश्चात् प्राङ्नैवमधुनापि भोः॥
मूलम्
वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः।
जन्ममृत्योर्यथा पश्चात् प्राङ्नैवमधुनापि भोः॥ ५ ॥
अनुवाद (हिन्दी)
राजन्! हम, तुम और हमलोगोंके साथ इस जगत्में जितने भी चराचर प्राणी वर्तमान हैं—वे सब अपने जन्मके पहले नहीं थे और मृत्युके पश्चात् नहीं रहेंगे। इससे सिद्ध है कि इस समय भी उनका अस्तित्व नहीं है। क्योंकि सत्य वस्तु तो सब समय एक-सी रहती है॥ ५॥
वीरराघवः
ननु, गच्छतु विशेष्यांशो जीवः साक्षात्सम्बन्धापादकमवस्थितं देहं प्रत्यनुशोचामीत्यत्राहतुः वयञ्चेति । वयं त्वं चान्यम् इमे चराचराश्च सर्वे तुल्यकालाः वर्त्तमानकालीना यथा जन्ममृत्योः प्राक्पश्चाच्च न सन्ति जन्मनः प्राक् नासन्मृत्योः पश्चान्न भविष्यन्ति भो राजन्, अधुनाऽयमप्येवमेव नास्ति विशरणायारब्धमिमं देहमप्यसन्तं पश्येत्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः।
आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत्॥
मूलम्
भूतैर्भूतानि भूतेशः सृजत्यवति 2हन्त्यजः।
आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत्॥ ६ ॥
अनुवाद (हिन्दी)
भगवान् ही समस्त प्राणियोंके अधिपति हैं। उनमें जन्म-मृत्यु आदि विकार बिलकुल नहीं है। उन्हें न किसीकी इच्छा है और न अपेक्षा। वे अपने-आप परतन्त्र प्राणियोंकी सृष्टि कर लेते हैं और उनके द्वारा अन्य प्राणियोंकी रचना, पालन तथा संहार करते हैं—ठीक वैसे ही जैसे बच्चे घर-घरौंदे, खेल-खिलौने बना-बनाकर बिगाड़ते रहते हैं॥ ६॥
वीरराघवः
यदीशमायया भूतेभ्यो भूतानि भवन्ति न भवन्ति तर्हि तस्य स्वातन्त्र्यरूपमीश्वरत्वमेव न स्यात्तज्जीवविशेषापेक्षया सुखदुःखप्रदत्वेन वैषम्यनैर्घृण्यप्रसङ्गात्तयोश्च कर्मवश्यजीवधर्मत्वाज्जीववत्कर्मवश्यत्वप्रसङ्गादित्यत्रोचतुः — भूतैरिति । भूतेशः समष्टिव्यष्ट्यात्मनावस्थितानां सर्वेषां भूतानामीशः अन्तःप्रविश्य तत्तज्जीवकर्मानुसारेण प्रशास्ता आत्मना स्वेन सृष्टैरत एवास्वतन्त्रैः सृजतीत्यनेन तस्य स्रष्टुस्सकलेतरविलक्षणत्वं, सर्वार्थशक्तियुक्तत्वम्, अज इत्यनेन कर्मफलानुभवाय तदायत्तोत्पत्त्यादिराहित्योक्त्याऽवाप्तसमस्तकामत्वमत्युक्तं भवति । नन्वेवंभूतः सृजत्वथापि जगत्सृष्ट्यादिः केनचित्प्रयोजनेन भवितव्यं निष्प्रयोजनस्य प्रवृत्यसम्भवात् तत्र बुद्धिपूर्वकारिणामारम्भे हि द्विविधं प्रयोजनं स्वार्थः परार्थो वा ? न हि परस्य ब्रह्मणः स्वभावत एवावाप्तसमस्तकामस्य जगत्सर्गेण किञ्चन प्रयोजनमनवाप्तमवाप्यते नापि परार्थः अवाप्तसमस्तकामस्य परार्थता हि परानुग्रहेण भवति न चेद्दशगर्भजन्मजरामरणनरकादिनानाविधानन्तदुःखबहुलं जगत्करुणावान् सृजतीत्याशङ्कमानं प्रत्याहतुः - निरपेक्षोपि बालवदिति । प्रयोजननिरपेक्षोपि बालवत्सृजतीत्यर्थः । दृष्टान्तस्वारस्येन जगत्सृष्ट्यादेस्तल्लीलैकप्रयोजनत्वमुक्तं निरपेक्षोपीत्यनेन लीलाव्यतिरिक्तप्रयोजनान्तरनिरपेक्षत्वं चोक्तम् अतोऽनाप्तकामत्वभङ्गः नापि प्रवृत्यसम्भवः केवललीलैकप्रयोजनानां कंदुकाद्यारम्भाणां बालमहाराजादिषु दर्शनात् नन्वेवमपीश्वरस्य देवतिर्यङ्यनुष्यास्थावरात्मनोत्कृष्टमध्यमापकृष्टसृष्ट्या पक्षपातः प्रसज्येत अतिघोरदुःखयोगकरणान्नैर्घृण्यं चावर्जनीयमिति शंकमानं प्रत्युक्तं भूतेश इति । अयं भावः । एवं स्रष्टुरपि न वैषम्यादिदोषप्रसक्तिः सर्वभूतानां तत्तत्कर्मानुसारेण नियन्तृत्वाद्विषमसृष्टेः सुखदुःखादेश्च देवादिक्षेत्रज्ञकर्मसापेक्षत्वादिति भावः । तथा च श्रुतिः “साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन कर्मणा" इति तथाचोक्तं भगवता पराशरेणापि देवादिवैचित्र्ये हेतुः सृज्यानां क्षेत्रज्ञानां प्राचीनकर्मशक्तिरेवेति - “निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकरणीभूता यतो वै सृज्यशक्तयः । निमित्तमात्रमुक्त्वैव नान्यत्किंचिदपेक्षते । नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तुवस्तुताम्” इति । स्वशक्त्या स्वकर्मणैव वस्तु क्षेत्रज्ञवस्तु वस्तुतां देवादिवस्तुतां प्राप्यत इत्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
देहेन देहिनो राजन् देहाद्देहोऽभिजायते।
बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः॥
मूलम्
देहेन देहिनो राजन् देहाद्देहोऽभिजायते।
बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः॥ ७ ॥
अनुवाद (हिन्दी)
राजन्! जैसे एक बीजसे दूसरा बीज उत्पन्न होता है, वैसे ही पिताकी देहद्वारा माताकी देहसे पुत्रकी देह उत्पन्न होती है। पिता-माता और पुत्र जीवके रूपमें देही हैं और बाह्यदृष्टिसे केवल शरीर। उनमें देही जीव घट आदि कार्योंमें पृथ्वीके समान नित्य है॥ ७॥
वीरराघवः
किञ्च देहस्य जन्ममरणादिस्वभावत्वादपुरुषार्थस्वरूपत्वादात्मनस्तु तद्विपरीतस्वभावत्वाच्च न देहसम्बन्धप्रयुक्तशोकः कार्य इत्याहतुः - देहेनेति । हे राजन् ! देहिनो जीवस्य देहः देहेन पितृशरीरेण देहान्मातृशरीरादभिजायते यथा बीजादेव भूमौ निहिताद्बीजान्तरं जायते तद्वत् ‘दिह उपचये’ इति धातुपाठादुपचयार्थकाद्दिहधातोर्निष्पन्नो देहशब्द उपचयापचयादिषड्भावविकारवद्वाचकः प्रयुक्तः तस्य तत्स्वाभाव्यसूचनाय एवं चाग्नेरौष्ण्यं प्रतीव जलस्य शैत्यं प्रतीव देहस्य मृतिं प्रतिशोको मुधेति भावः । आत्मनो देहविपरीताकारत्वमुक्तं देह्यर्थ इव शाश्वत इति देही जीवः शाश्वतः नित्यः सततैकरूपश्चात एवार्थः पुरुषार्थः आनन्दरूपः आनन्दो हि पुरुषार्थः । इतिशब्द एवकारार्थः निपातानामनेकार्थत्वात् पुरुषार्थरूप एवेत्यर्थः । नित्यत्वसततैकरूपत्वानन्दरूपत्वादिस्वभावात्मानुदर्शनं विहाय तद्विपरीतं देहं प्रत्यनुशोको व्यर्थ इति भावः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
देहदेहिविभागोऽयमविवेककृतः पुरा।
जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः॥
मूलम्
देहदेहिविभागोऽयमविवेककृतः पुरा।
जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः॥ ८ ॥
अनुवाद (हिन्दी)
राजन्! जैसे एक ही मृत्तिकारूप वस्तुमें घटत्व आदि जाति और घट आदि व्यक्तियोंका विभाग केवल कल्पनामात्र है, उसी प्रकार यह देही और देहका विभाग भी अनादि एवं अविद्या-कल्पित है*॥ ८॥
पादटिप्पनी
- अनित्य होनेके कारण शरीर असत्य है और शरीर असत्य होनेके कारण उनके भिन्न-भिन्न अभिमानी भी असत्य ही हैं। त्रिकालाबाधित सत्य तो एकमात्र परमात्मा ही हैं। अतः शोक करना किसी प्रकार भी उचित नहीं है।
वीरराघवः
देहिनो देहो जायते देह्यर्थः इव शाश्वत इति च नित्यसम्बन्धार्थकमत्वर्थेनिप्रत्ययान्तेन जीवो निर्द्दिष्टः तत्र यद्यनन्तदुःखाकरदेहसम्बन्धो जीवस्य नित्यश्वचेदपुरुषार्थनित्यसम्बन्धिनोप्यपुरुषार्थरूपतैव स्यान्न तु पुरुषार्थरूपत्वमितिशङ्कां निराकुर्वन्तावाहतुः - देहीति । पुरा योयमविवेकः अनादिसिद्धो देहात्मभ्रमस्वतन्त्रात्मभ्रमरूपः परमार्थकर्ममूलकस्तेन कृतो देहदेहिविभागः न स्वरूपतः अयं देहोऽयं देहीति विभागरहिते आत्मनि देवमनुष्यादिदेहं प्रतिसम्बन्ध्ययमात्मा तदात्मप्रतिसम्बन्ध्यं देह इति विभागः केवलदेहात्मादिभ्रममूलकः सञ्जात इत्यर्थः । यथाऽवस्तुनि रजतत्वजात्याश्रयरजतव्यक्तिभिन्ने शुक्त्यादिवस्तुनि इदं रजतमिति रजतत्त्वतदाश्रयव्यक्त्योर्विभागः परमार्थसादृश्यादिदोषमूलकेन भ्रमेण कल्पितस्तद्वत् यद्यपि दृष्टान्ते रजतत्वतदाश्रयरूपजातिव्यक्त्युभयभिन्ने शुक्त्यादौ जातिव्यक्तिविभागः कल्पितः स च विभागः प्रतीतिमात्रविषयः न तु प्रमितिविषयः अत एव नेदं रजतमिति तत्र बाधप्रवृत्तिः दार्ष्टान्तिके तु देहं प्रत्याश्रयभूत एवात्मरूपे वस्तुनि देहदेहिविभागः स च प्रमितिविषयश्च अतएव हि तत्र नायं देहः नायं देहीति पाश्चात्यबाधनादर्शनं चेति दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं तथाप्युभयत्र जातिव्यक्तिविभागदेहदेहिविभागयोर्भ्रममूलकत्वस्य भ्रमकारणयोः सादृश्यकर्मणोः पारमार्थिकत्वस्य च साम्यादृष्टान्तदार्ष्टान्तिकभाव उत्पन्नः न हि दृष्टान्तदार्ष्टान्तिकभावे सर्वसाधर्म्यमपेक्षितम् अन्यथा तयोस्तादात्म्यापत्या दृष्टान्तदार्ष्टान्तिकभावस्यैव क्वाप्यसङ्गतत्वापत्तेः अविवेककृत इत्यनेनाविवेकं प्रतिनिमित्तभूते पुण्यपापात्मके कर्मणि परमात्मोपासनेन निःशेषं निरस्ते सति तन्निमित्तदेहात्मभ्रमादेरपि निवृत्ताववपुरुषार्थसम्बन्ध्यात्मस्वरूपमनुभूतं भवतीति सूचितं यथा दृष्टान्ते सादृश्यस्य दोषत्वनिश्चयेन निवृत्ते भ्रमे जातिव्यक्तिविभागानर्हशुक्त्यादियाथात्म्यमनुभूतं भवति तद्वत् देहीति इति प्रत्ययो न नित्ययोगेऽपि तु सम्बन्धमात्र इति भावः ॥ ८ ॥
श्लोक-९
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः।
प्रमृज्य पाणिना वक्त्रमाधिम्लानमभाषत॥
मूलम्
एवमाश्वासितो राजा चित्रकेतु3र्द्विजोक्तिभिः।
प्रमृज्य पाणिना वक्त्रमाधिम्लानमभाषत॥ ९ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—राजन्! जब महर्षि अंगिरा और देवर्षि नारदने इस प्रकार राजा चित्रकेतुको समझाया-बुझाया, तब उन्होंने कुछ धीरज धारण करके शोकसे मुरझाये हुए मुखको हाथसे पोंछा और उनसे कहा—॥ ९॥
वीरराघवः
एवमृषिभ्यां बोधितश्चित्रकेतुर्जातविवेकस्तानुवाचेत्याह मुनिः । एवमिति । द्विजयोरङ्गिरोनारदयोरुक्तिभिरेवेमाश्वासितः परिसान्त्वितो राजा चित्रकेतुराधिना पुत्रशोकेन म्लानं ग्लानं वक्त्रं पाणिना प्रमृज्य विशोध्याभाषतोवाच ॥ ९ ॥
श्लोक-१०
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम्।
अवधूतेन वेषेण गूढाविह समागतौ॥
मूलम्
कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम्।
अवधूतेन वेषेण गूढाविह समागतौ॥ ९ ॥
अनुवाद (हिन्दी)
राजा चित्रकेतु बोले—आप दोनों परम ज्ञानवान् और महान् से भी महान् जान पड़ते हैं तथा अपनेको अवधूतवेषमें छिपाकर यहाँ आये हैं। कृपा करके बतलाइये, आपलोग हैं कौन?॥ ९॥
वीरराघवः
तदेवाह — कौ इत्यादिना, ज्ञानदीप उदीर्यतामित्यन्तेन । तावदस्पृष्टवेषौ तौ युवां कौ इति पृच्छति - काविति, ज्ञानसम्पन्नौ अत एव पूज्यानामपि पूज्यौ युवां तावत्कौ ? पश्यन्नपि किं पृच्छसीत्यत्राह अवधूतेन क्षुद्रण वेषेण गूढौ तिरोधापितस्ववेषौ इह समागतौ युवामन्यथा क्षुद्रस्यैतादृशज्ञानसम्पत्तिर्दुर्ल्लेभेति भावः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः।
मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः॥
मूलम्
चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः।
मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः॥ ११ ॥
अनुवाद (हिन्दी)
मैं जानता हूँ कि बहुत-से भगवान्के प्यारे ब्रह्मवेत्ता मेरे-जैसे विषयासक्त प्राणियोंको उपदेश करनेके लिये उन्मत्तका-सा वेष बनाकर पृथ्वीपर स्वच्छन्द विचरण करते हैं॥ ११॥
वीरराघवः
“विष्णोर्भूतानि लोकानां मङ्गलाय चरन्ति हि” इत्युक्तरीत्या लोकानुग्रहायैवमेवावधूतवेषा ज्ञानिनश्चरन्तीत्याह — चरन्तीति । ब्राह्मणा भगवद्भक्ता उन्मत्तस्यैव लिङ्गं येषां तादृशाः सन्तो ग्राम्यबुद्धीनां विषयासक्तानां संसारिणां मादृशानां बोधाय ज्ञानोत्पादनायावनौ भूमौ कामं यथेच्छं चरन्ति हि यस्माद्भगवत्प्रिया उत्मत्तलिङ्गिन एव मादृशां बोधाय चरन्त्यतो युवां कौ इति वान्वयः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः।
अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः॥
मूलम्
कुमारो नारद ऋभुरङ्गिरा देवलोऽसितः।
अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः॥ १२ ॥
वीरराघवः
ब्राह्मणान् भगवत्प्रियानुन्मत्तलिङ्गेन चरत एव दर्शयति कुमार इति चतुर्भिः । कुमारः सनत्कुमारः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
वसिष्ठो भगवान् रामः कपिलो बादरायणिः।
दुर्वासा याज्ञवल्क्यश्च जातूकर्ण्यस्तथाऽऽरुणिः॥
मूलम्
वसिष्ठो भगवान् रामः कपिलो बादरायणिः।
दुर्वासा याज्ञवल्क्यश्च जातूकर्ण्यस्तथाऽऽरुणिः॥ १३ ॥
वीरराघवः
रामो भार्गवः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः।
ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिरास्तथा॥
वीरराघवः
दत्तो दत्तात्रेयः स प्रसिद्धः पतञ्जलिर्महामुनिर्भरद्वाजः मुनिरुचभ्यः वेदशिरोचथ्य इत्यत्र सान्धिरार्षः वेदशिरो बौध्य इति पाठे बोधस्य गोत्रापत्यं बौध्यः आङ्गिरसः “कपिबोधादाङ्गिरसे” इति यञ् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः।
एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः॥
मूलम्
हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः।
एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः॥ १५ ॥
अनुवाद (हिन्दी)
सनत्कुमार, नारद, ऋभु, अंगिरा, देवल, असित, अपान्तरतम व्यास, मार्कण्डेय, गौतम, वसिष्ठ, भगवान् परशुराम, कपिलदेव, शुकदेव, दुर्वासा, याज्ञवल्क्य, जातूकर्ण्य, आरुणि, रोमश, च्यवन, दत्तात्रेय, आसुरि, पतंजलि, वेदशिरा, बोध्यमुनि, पंचशिरा, हिरण्यनाभ, कौसल्य, श्रुतदेव और ऋतध्वज—ये सब तथा दूसरे सिद्धेश्वर ऋषि-मुनि ज्ञानदान करनेके लिये पृथ्वीपर विचरते रहते हैं॥ १२—१५॥
वीरराघवः
एते कुमारादयः तथाऽपरे च ज्ञानमेव सम्पद्येषां ते सिद्धेयाश्चरन्ति ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
तस्माद्युवां ग्राम्यपशोर्मम मूढधियः प्रभू।
अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम्॥
मूलम्
तस्माद्युवां ग्राम्यपशोर्मम मूढधियः प्रभू।
अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम्॥ १६ ॥
अनुवाद (हिन्दी)
स्वामियो! मैं विषयभोगोंमें फँसा हुआ, मूढ़बुद्धि ग्राम्य पशु हूँ और अज्ञानके घोर अन्धकारमें डूब रहा हूँ। आपलोग मुझे ज्ञानकी ज्योतिसे प्रकाशके केन्द्रमें लाइये॥ १६॥
वीरराघवः
युवां यौ कौचिद्वा भवेतं तावद्यद्यस्माद्युवां प्रभू मादृशस्य बोधोत्पादने दक्षौ तस्माद्युवाभ्यां मम ज्ञानमेव दीपः स उदीर्यतां दीयतामित्यर्थः । कथंभूतः अन्धे तमस्यज्ञानरूपे ममस्यात एव मूर्खधियः अत ग्राम्यपशोः ग्रामे भवो ग्राम्यो नरः स एव पशुस्तस्य ॥ १६ ॥
श्लोक-१७
मूलम् (वचनम्)
अङ्गिरा उवाच
विश्वास-प्रस्तुतिः
अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप।
एष ब्रह्मसुतः साक्षान्नारदो भगवानृषिः॥
मूलम्
अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप।
एष ब्रह्मसुतः साक्षान्नारदो भगवानृषिः॥ १७ ॥
अनुवाद (हिन्दी)
महर्षि अंगिराने कहा—राजन्! जिस समय तुम पुत्रके लिये बहुत लालायित थे, तब मैंने ही तुम्हें पुत्र दिया था। मैं अंगिरा हूँ। ये जो तुम्हारे सामने खड़े हैं, स्वयं ब्रह्माजीके पुत्र सर्वसमर्थ देवर्षि नारद हैं॥ १७॥
वीरराघवः
एवमुभावपि पृष्टौ तत्र तावदङ्गिरा आत्मानौ स्वागमनप्रयोजनञ्च वदश्चित्रकेतोर्वैराग्यमुत्पादयति - अहन्त इत्यादिनोपशममाविशेत्यन्तेन । हे नृप ! पूर्वं पुत्रं कामयमानस्य तव पुत्रदो योऽङ्गिराः सोहमस्मि एष द्वितीयस्त्वयं साक्षाद्ब्रह्मणः सुतो भगवान्नारद ऋषिः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे।
अतदर्हमनुस्मृत्य महापुरुषगोचरम्॥
मूलम्
इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे।
अतदर्हमनुस्मृत्य महापुरुषगोचरम्॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
अनुग्रहाय भवतः प्राप्तावावामिह प्रभो।
ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हति॥
मूलम्
अनुग्रहाय भवतः प्राप्तावावामिह प्रभो।
ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हति॥ १९ ॥
अनुवाद (हिन्दी)
जब हमलोगोंने देखा कि तुम पुत्रशोकके कारण बहुत ही घने अज्ञानान्धकारमें डूब रहे हो, तब सोचा कि तुम भगवान्के भक्त हो, शोक करनेयोग्य नहीं हो। अतः तुमपर अनुग्रह करनेके लिये ही हम दोनों यहाँ आये हैं। राजन्! सच्ची बात तो यह है कि जो भगवान् और ब्राह्मणोंका भक्त है, उसे किसी अवस्थामें शोक नहीं करना चाहिये॥ १८-१९॥
वीरराघवः
किमर्थमागतावित्यन्नाह - इत्थमिति । पुत्रशोकेनेत्थं दुस्तरे तमस्यज्ञाने मग्नमतदर्हं शोकानर्हं महापुरुषगोचरं उत्कृष्टपुरुषैरनुग्राह्यं त्वामनुस्मृत्य प्रत्यभिज्ञाय भवतोऽनुग्रहाय भवन्तमनुगृहीतुमिह आवां प्राप्तौ हे प्रभो ! ब्रह्मण्यः ब्रह्मणि ब्रह्मकुले साधुर्ब्रह्मण्यः तत्रापि भगवद्भक्तः त्वादृशोऽवसीदितु दुःखितुं नार्हति ॥ १८-१९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
तदैव ते परं ज्ञानं ददामि गृहमागतः।
ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम्॥
अनुवाद (हिन्दी)
जिस समय पहले-पहल मैं तुम्हारे घर आया था, उसी समय मैं तुम्हें परम ज्ञानका उपदेश देता; परन्तु मैंने देखा कि अभी तो तुम्हारे हृदयमें पुत्रकी उत्कट लालसा है, इसलिये उस समय तुम्हें ज्ञान न देकर मैंने पुत्र ही दिया॥ २०॥
वीरराघवः
यथा पूर्वभागतस्तथा त्वद्गृहं प्रत्यागतोऽहं ते तुभ्यं परं ज्ञानं ददामि भगवद्भक्तः इत्यत्रादिकर्मणि क्तः आरब्धभगवद्भक्तियोगः भक्तियोगारम्भभूतायाः सत्सङ्गतेः कृतत्वादिति भावः । तर्हि पूर्वमेव ज्ञानं किं नाददास्तत्राह - ज्ञात्वेति, अन्याभिनिवेशं पुत्राभिलाषं ज्ञात्वा ते तुभ्यं पुत्रमेवाहं ददौ दत्तवानासम् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
अधुना पुत्रिणां तापो भवतैवानुभूयते।
एवं दारा गृहा रायो विविधैश्वर्यसम्पदः॥
मूलम्
अधुना पुत्रिणां तापो भवतैवानुभूयते।
एवं दारा गृहा रा8यो विविधैश्वर्यसम्पदः॥ २१ ॥
वीरराघवः
ननु, ममान्याभिनिवेशे सत्यपि तस्य दुःखोदर्कतां ज्ञापयित्वा ज्ञानमेव किं न दत्तवानित्यपेक्षायामभिलषितपुत्रप्रदानमन्तरेण दत्तमपि ज्ञानं न सुप्रतिष्ठितं भवति पुत्रोत्पत्तिविपत्तिभ्यामनुभूतसुखदुःखस्य तद्दृष्टान्तेनेतरेषामपि वैषयिकसुखानां सुखोदर्कतामनुमन्यमानस्य सञ्जातवैराग्यस्य तु दत्तं ज्ञानं सुप्रतिष्ठितं भवतीत्यालोच्य न दत्तवानस्मीत्यभिप्रायतः । पुत्रदृष्टान्तेनेतरेषामप्यन्ततो दुःखहेतुतान्निदर्शयति - अधुनेति । यथैव भवता पुत्रिणां तापोऽधुनानुभूयते एवं दारादयोपि सर्वे हे शूरसेनेश ! शोकमोहभयार्तिदास्सन्त एवानुभविष्यन्ते भवतैव भवतेवेति पाठे अधुना भवतेव त्वयेव सर्वेषामेव पुत्रिणां तापोऽनुभूयते सर्वैरपि पुत्रिभिस्तापोनुभूयत इत्यर्थः । यथा पुत्रः शोकमोहादिप्रदः तथा दारादयोपीत्यन्वयः । तत्र आरामा विहारवनानि विविधा ऐश्वर्यसम्पदः प्रशास्तृत्वप्रयुक्ताभोगोपकरणादिसमृद्धयः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
शब्दादयश्च विषयाश्चला राज्यविभूतयः।
मही राज्यं बलं कोशो भृत्यामात्याः सुहृज्जनाः॥
मूलम्
शब्दादयश्च विषयाश्चला राज्यविभूतयः।
म9ही राज्यं बलं कोशो भृत्यामात्याः सुहृज्जनाः॥ २२ ॥
अनुवाद (हिन्दी)
अब तुम स्वयं अनुभव कर रहे हो कि पुत्रवानोंको कितना दुःख होता है। यही बात स्त्री, घर, धन, विविध प्रकारके ऐश्वर्य, सम्पत्तियाँ, शब्द-रूप-रस आदि विषय, राज्यवैभव, पृथ्वी, राज्य, सेना, खजाना, सेवक, अमात्य, सगे-सम्बन्धी, इष्ट-मित्र सबके लिये हैं; क्योंकि ये सब-के-सब अनित्य हैं॥ २१-२२॥
वीरराघवः
तथा हे राजन्, भोगाः शब्दादयो विषयाश्च विभूतयोऽणिमादयः मही राज्यं राज्ञः कर्मभावो वा राज्यं स्वामित्वं मह्या राज्यं महीराज्यं सार्वभौमत्वमित्यर्थः । बलं चतुरङ्गयुक्तं कोशो धनसञ्जयः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः।
गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः॥
मूलम्
सर्वेऽपि शू10रसेनेमे शोकमोहभयार्तिदाः।
गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः॥ २३ ॥
वीरराघवः
सर्वे चैते गन्धर्वनगरप्रख्याः गन्धर्वनगरेण तुल्यं प्रख्यायन्ते प्रसिध्यन्ते इति तथा गन्धर्वनगरोपमत्वेन प्रसिद्धाः गन्धर्वाणां हि नगरमावासस्थानं न नियतं तद्वदेतेप्यनियताश्चञ्चलाः अनित्या इति यावत् प्रसिद्धं दृष्टान्तान्तरमाह - स्वप्नमायामनोरथा इति, स्वप्ने ये मायामनोरथाः मायाशब्द आश्चर्यवाची, आश्चर्यरूपा मनोरथाः सङ्कल्पविकल्पात्मकमनोविषयाः देशान्तरगमनराज्याभिषेकशिरश्च्छेदादयः ते चाश्चर्यभूता एव तत्तत्पुरुषानुभाव्यत्वेन चाल्पकालानुभाव्यपुण्यपापात्मककर्मफलत्वेन चेश्वरसृष्टानां जागृदवस्थानुभाव्यपरार्थेभ्यो विलक्षणत्वात्स्वप्नमायामनोरथवदनित्या इत्यर्थः । ईयांस्तु विशेषः । स्वप्नमायामनोरथाः तत्कालमात्रावस्थायिनः एते तु तदपेक्षया किञ्चिच्चिरकालावस्थायिन इत्यनित्यत्वं तत्त्वं तत्तज्जीवकर्मानुसारेण सृष्टत्वं मनःप्रभवत्वं सुखमात्राहेतुत्वं चोभयत्राप्यवशिष्टम् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः।
कर्मभिर्ध्यायतो नानाकर्माणि मनसोऽभवन्॥
मूलम्
दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः।
कर्मभिर्ध्यायतो नानाकर्माणि मनसोऽभवन्॥ २४ ॥
अनुवाद (हिन्दी)
शूरसेन! अतएव ये सभी शोक, मोह, भय और दुःखके कारण हैं, मनके खेल-खिलौने हैं, सर्वथा कल्पित और मिथ्या हैं; क्योंकि ये न होनेपर भी दिखायी पड़ रहे हैं। यही कारण है कि ये एक क्षण दीखनेपर भी दूसरे क्षण लुप्त हो जाते हैं। ये गन्धर्वनगर, स्वप्न, जादू और मनोरथकी वस्तुओंके समान सर्वथा असत्य हैं। जो लोग कर्म-वासनाओंसे प्रेरित होकर विषयोंका चिन्तन करते रहते हैं; उन्हींका मन अनेक प्रकारके कर्मोंकी सृष्टि करता है॥ २३-२४॥
वीरराघवः
तदेवाह - दृश्यमाना इति । अर्थेन परमपुरुषार्थेन निरतिशयानन्दं विना दृश्यमानाः न दृश्यन्ते कालान्तरेष्वपि न दृश्यन्ते जाग्रत्स्वप्नावस्थाद्वयानुभाव्याः पदार्थाः मनोभवाश्च ननु, स्वाप्नपदार्था मनोभवा इति तु प्रयुक्तं तेषां यथास्य स्वप्नदृष्टुः कर्मानुसारेण मनः सङ्कल्पविकल्पौ करोति तदनुसारेणेश्वरसृष्टत्वेन मनोनिमित्तकत्वाज्जाप्रदवस्थानुभाव्यानां तु पुत्रदारादीनां कथं मनः प्रभवत्वं ? तत्राह — कर्मभिरिति । कर्मभिरनादिवासनारूपैः कर्मभिरर्थान्विषयान्मनसा ध्यायतः पुंसस्तावत्कर्माणि मनसा अभवन् अनादिकर्मवासनावासितमनस्संयुक्तैरिन्द्रियैर्विषयान् ध्यायंस्तावत्कर्माणि करोतीत्यर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः।
देहिनो विविधक्लेशसन्तापकृदुदाहृतः॥
मूलम्
अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः।
देहिनो विविधक्लेशसन्तापकृदुदाहृतः॥ २५ ॥
अनुवाद (हिन्दी)
जीवात्माका यह देह—जो पंचभूत, ज्ञानेन्द्रिय और कर्मेन्द्रियोंका संघात है—जीवको विविध प्रकारके क्लेश और सन्ताप देनेवाली कही जाती है॥ २५॥
वीरराघवः
ततस्तत्कर्मफलानुभवायास्य देहिनः द्रव्यज्ञानक्रियात्मकः द्रव्यं भूतपञ्चकं ज्ञानानि ज्ञानेन्द्रियाणि क्रियाः कर्मेन्द्रयाणि एतदात्मकः एतत्सङ्घातरूपः अयं देहोऽस्य देहिनः विविधक्लेशरूपसन्तापं करोतीति तथा क्लेशसन्तापशब्दौ वैषयिकसुखदुःखपरौ वा वैषयिकसुखस्यान्ततः क्लेशात्मकत्वात्तौ करोतीति विविधक्लेशसन्तापकृदुदाहृतः प्राप्त इति कथित इत्यर्थः । प्रथममनादिवासनावासितेन मनसा विषयचिन्तना तयाच विषयलाभोपयुक्तानि पुण्यपापात्मकानि कर्माणि कर्मभ्यः क्लेशसंतापकृत्तद्देहः तेन च पूर्वजन्मकृतकर्मफलशब्दादिविषयमनुभवतः पुनर्विषयचिन्तना पुनस्तया कर्मणीत्येवमियं परिवृत्तिः वासनावासितमनोमूलिकेति सर्वे मनःप्रभवा इति भावः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः।
द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश॥
मूलम्
तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः।
द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश॥ २६ ॥
अनुवाद (हिन्दी)
इसलिये तुम अपने मनको विषयोंमें भटकनेसे रोककर शान्त करो, स्वस्थ करो और फिर उस मनके द्वारा अपने वास्तविक स्वरूपका विचार करो तथा इस द्वैत-भ्रममें नित्यत्वकी बुद्धि छोड़कर परम शान्तिस्वरूप परमात्मामें स्थित हो जाओ॥ २६॥
वीरराघवः
तस्मात्पुत्रदारादीनां सर्वेषां स्वाप्नकल्पत्वात्स्वस्थेन विक्षेपरहितेन मनसा आत्मनः प्रत्यगात्मनो गतिं स्वरूपं विमृश्य बुद्धीन्द्रियमनः प्राणादिभिन्नत्वेन ज्ञानानन्दादिस्वरूपस्वभावत्वेन परमात्मशरीरत्वेन च विमृश्य द्वैते उक्त विधप्रत्यागात्मगतदेवमनुष्यादिभेदभिन्नेऽस्थिरे शरीरे ध्रुवार्थविस्रम्भं धुवार्थ आत्मा तद्विस्रम्भमात्माभिमानं त्यज उपशमं वैराग्यमाविशविरक्तो भवेत्यर्थः ॥ २६ ॥
श्लोक-२७
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम।
यां धारयन् सप्तरात्राद् द्रष्टा सङ्कर्षणं प्रभुम्॥
मूलम्
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम।
यां धारयन् सप्तरात्राद् द्रष्टा सङ्कर्षणं प्रभुम्॥ २७ ॥
अनुवाद (हिन्दी)
देवर्षि नारदने कहा—राजन्! तुम एकाग्रचित्तसे मुझसे यह मन्त्रोपनिषद् ग्रहण करो। इसे धारण करनेसे सात रातमें ही तुम्हें भगवान् संकर्षणका दर्शन होगा॥ २७॥
वीरराघवः
एवमङ्गिरसोत्पादितविवेकाय चित्रकेतवे भगवान्नारदो मन्त्रविद्यामुपदिदिक्षुस्तावत् तत् प्रभावमाह - एतामिति । एतामुपदेक्ष्यमाणां मन्त्रोपनिषदं मन्त्ररूपामुपनिषदं प्रयतः समाहितचित्तस्त्वं मम उपदेक्ष्यतो मत्तः प्रतीच्छ स्वीकुरु यां मन्त्रोपनिषदं धारयमाणो भवान् सप्तरात्रादूर्ध्वं भगवन्तं सङ्घर्षणं द्रष्टा द्रक्ष्यति ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे
शर्वादयो भ्रममिमं द्वितयं विसृज्य।
सद्यस्तदीयमतुलानधिकं महित्वं
प्रापुर्भवानपि परं नचिरादुपैति॥
मूलम्
यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे शर्वादयो भ्रममिमं द्वितयं विसृज्य।
सद्यस्तदीयमतुलानधिकं महित्वं प्रापुर्भवानपि परं नचिरादुपैति॥ २८ ॥
अनुवाद (हिन्दी)
नरेन्द्र! प्राचीन कालमें भगवान् शंकर आदिने श्रीसंकर्षणदेवके ही चरणकमलोंका आश्रय लिया था। इससे उन्होंने द्वैतभ्रमका परित्याग कर दिया और उनकी उस महिमाको प्राप्त हुए जिससे बढ़कर तो कोई है ही नहीं, समान भी नहीं है। तुम भी बहुत शीघ्र ही भगवान्के उसी परमपदको प्राप्त कर लोगे॥ २८॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतु11सान्त्वनं नाम पञ्चदशोऽध्यायः॥ १५ ॥
वीरराघवः
सङ्कर्षणं विशिंषंस्तस्य तत्साक्षात्कारफलमाह - यदिति । हे नरेन्द्र ! यस्य भगवतः सङ्कर्षणस्य पादमूलमुपसृत्याश्रित्य पूर्वे रुद्रादयः द्वितयं द्वाववयवौ यत्य द्वितयं द्विदलात्मकं भ्रममाब्रह्मात्मकत्वस्वतन्त्रात्मकत्वरूपदलद्वयात्मकं भ्रमं विसृज्यातुलानधिकं निःसमाभ्यधिकं तदीयं सङ्कर्षणसम्बन्धिमहत्त्वं माहात्म्यं प्रापुः तथा भवानप्यचिरादाशु परं महामाहात्म्यमुपैष्यति ॥ २८ ॥
इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां पञ्चदशोऽध्यायः ॥ १५ ॥
-
प्रा. पा. - आगतौ तावृषी तदा । ↩︎
-
प्रा. पा. - हन्ति च । ↩︎
-
प्रा. पा. - तुर्द्विजातिभिः । ↩︎
-
प्रा. पा. - धौम्या । ↩︎
-
प्रा. पा. - शिखस्तथा । ↩︎
-
प्रा. पा. - तत्रेव । ↩︎
-
प्रा. पा. - ज्ञात्वात्माभि । ↩︎
-
प्रा. पा. - रामा । ↩︎
-
प्रा. पा. - राज्यं मही बलं । ↩︎
-
प्रा. पा. - सुखदा नेमे । ↩︎
-
प्रा. पा. - शोकापनोदो । ↩︎