१४ चित्रकेतुविलापः

[चतुर्दशोऽध्यायः]

भागसूचना

वृत्रासुरका पूर्वचरित्र

श्लोक-१

विश्वास-प्रस्तुतिः

रजस्तमः स्वभावस्य ब्रह्मन्वृत्रस्य पाप्मनः।
नारायणे भगवति कथमासीद् दृढा मतिः॥

मूलम्

रजस्तमः स्वभावस्य ब्रह्मन्वृत्रस्य पाप्मनः।
नारायणे भगवति कथमासीद् दृढा मतिः॥ १ ॥

मूलम् - कर्णावती

रजस्तमः स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः।
नारायणे भगवति कथमासीद् दृढा मतिः॥ १ ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने कहा—भगवन्! वृत्रासुरका स्वभाव तो बड़ा रजोगुणी-तमोगुणी था। वह देवताओंको कष्ट पहुँचाकर पाप भी करता ही था। ऐसी स्थितिमें भगवान् नारायणके चरणोंमें उसकी सुदृढ़ भक्ति कैसे हुई?॥ १॥

वीरराघवः

अहं समाधाय मनो यथाह सङ्कर्षणस्तच्चरणारविन्दे" इत्यनेन वृत्रवाक्येन तस्य सङ्घर्षणोपदेशावगतस्वात्मपरमात्मादियाथात्म्यवत्त्वमुक्तं तदेव विस्तरेण शुश्रूषुः पृच्छति राजा - रज इत्यादिना सहस्राक्षमतोषयदित्यन्तेन । हे ब्रह्मन् ! रजश्चतमश्च स्वभावो यस्यात एव पाप्मनः पापकारिणः असुरत्वादिति भावः । भगवति नारायणे दृढा निश्चला सिद्धिपर्यन्ता मतिर्भक्तिः हे महामुने ! कथमासीत्सदुपदेशेप्यासुरस्वभावस्य सिद्धिपर्यन्ता भगवद्भक्तिर्दुलेभेति भावः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम्।
भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते॥

मूलम्

देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम्।
भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते॥ २ ॥

अनुवाद (हिन्दी)

हम देखते हैं कि प्रायः शुद्ध सत्त्वमय देवता और पवित्र हृदय ऋषि भी भगवान‍्की परम प्रेममयी अनन्य भक्तिसे वंचित ही रह जाते हैं। सचमुच भगवान‍्की भक्ति बड़ी दुर्लभ है॥ २॥

वीरराघवः

भक्तर्दौर्लभ्यमेव प्रपञ्चयति - शुद्धसत्वानां केवलसत्वप्रचुराणां देवानां तादृशाममलचित्तानामृषीणामेव प्रायशो मुकुन्दचरणे भक्तिर्न जायते तेषामपि दुर्लभा कथमस्य सञ्जातेति भावः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

रजोभिः समसंख्याताः पार्थिवैरिह जन्तवः।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः॥

मूलम्

रजोभिः समसंख्याताः पार्थिवैरिह जन्तवः।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः॥ ३ ॥

अनुवाद (हिन्दी)

भगवन्! इस जगत‍्के प्राणी पृथ्वीके धूलिकणोंके समान ही असंख्य हैं। उनमेंसे कुछ मनुष्य आदि श्रेष्ठ जीव ही अपने कल्याणकी चेष्टा करते हैं॥ ३॥

वीरराघवः

“मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः” ॥ इत्युक्तरीत्या तावत्पृथिव्या रजोभीरेणुभिः सह समसंख्याकाः जन्तवः तद्वदसंख्याकाः जन्तवः तेषां जन्तूनां ये केचन मनुष्यादय एव शास्त्रोक्तधर्माधिकारिणस्तावन्मनुष्यादिजन्मदुर्लभमेवेति भावः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम।
मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति॥

मूलम्

प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम।
मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति॥ ४ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! उनमें भी संसारसे मुक्ति चाहनेवाले तो बिरले ही होते हैं और मोक्ष चाहनेवाले हजारोंमें मुक्ति या सिद्धि लाभ तो कोई-सा ही कर पाता है॥ ४॥

वीरराघवः

तेषामपि केचित्प्रायशस्त्रिवर्गरूपश्रेयःप्रवणा मुक्तये न यतन्ते तावन्मुमुक्षुतैव दुर्लभेति भावः । दैवान्मुमुक्षतां केषांचित्सहस्रेषु कश्चिन्मुच्येत रागादिदोषैर्मुच्येत सिध्यति लब्धयोगो भवति ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

मुक्तानामपि सिद्धानां नारायणपरायणः।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने॥

मूलम्

मुक्तानामपि सिद्धानां नारायणपरायणः।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने॥ ५ ॥

अनुवाद (हिन्दी)

महामुने! करोड़ों सिद्ध एवं मुक्त पुरुषोंमें भी वैसे शान्तचित्त महापुरुषका मिलना तो बहुत ही कठिन है, जो एकमात्र भगवान‍्के ही परायण हो॥ ५॥

वीरराघवः

मुक्तानामपि सिद्धानां कोटिष्वपि हे महामुने ! नारायणपरायणः प्रशान्तात्मा रागाद्यकलुषितचित्तः सुतरां दुर्लभः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

वृत्रस्तु स कथं पापः सर्वलोकोपतापनः।
इत्थं दृढमतिः कृष्ण आसीत् संग्राम उल्बणे॥

मूलम्

वृत्रस्तु स कथं पापः सर्वलोकोपतापनः।
इत्थं दृढमतिः कृष्ण आसीत् संग्राम उल्बणे॥ ६ ॥

अनुवाद (हिन्दी)

ऐसी अवस्थामें वह वृत्रासुर, जो सब लोगोंको सताता था और बड़ा पापी था, उस भयंकर युद्धके अवसरपर भगवान् श्रीकृष्णमें अपनी वृत्तियोंको इस प्रकार दृढ़तासे लगा सका—इसका क्या कारण है?॥ ६॥

वीरराघवः

प्रश्नार्थमुपसंहरन् तस्योत्तरदानाय मुनिं प्रेरयति वृत्रस्त्वितिद्वाभ्याम् । तु शब्देनोक्तविपरीतमसत्त्वप्रधानत्वं द्योत्यते रजस्तमःप्रचुरो वृत्रः सर्वलोकोपतापनः सर्वलोकदुःखकारी अत एव पापः इत्थमुक्तप्रकारेण कृष्णे भगवति दृढा मतिर्यस्य तादृशः कथमासीत्कथं वा उल्बणे दुःसहे ग्राम्ये शब्दादिविषये दृढमतिः नासीदिति यत् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

अत्र नः संशयो भूयाञ्छ्रोतुं कौतूहलं प्रभो।
यः पौरुषेण समरे सहस्राक्षमतोषयत्॥

मूलम्

अत्र 1नः संशयो भूयाञ्छ्रोतुं कौतूहलं प्रभो।
यः पौरुषेण समरे सहस्राक्षमतोषयत्॥ ७ ॥

अनुवाद (हिन्दी)

प्रभो! इस विषयमें हमें बहुत अधिक सन्देह है और सुननेका बड़ा कौतूहल भी है। अहो, वृत्रासुरका बल-पौरुष कितना महान् था कि उसने रणभूमिमें देवराज इन्द्रको भी सन्तुष्ट कर दिया॥ ७॥

वीरराघवः

अस्मिन्नर्थे नोऽस्माकं भूयान्संशयो वर्त्तते भो मुने, संशयं विशिनष्टि - हि यस्मात् संशयाच्छ्रोतुम् उत्तरं श्रोतुं कौतुहलमस्माकम् अस्ति नन्विन्द्रभयाद्वृत्रः कृष्णं शरणङ्गतः इत्यत्राह यः पौरुषेणेत्यर्धेन । यो वृत्रः पौरुषेण सहस्राक्षमिन्द्रमतोषयन्नतस्तस्य इन्द्राद्भयमस्तीति भावः ॥ ७ ॥

श्लोक-८

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

परीक्षितोऽथ संप्रश्नं भगवान् बादरायणिः।
निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत्॥

मूलम्

परीक्षितोऽथ संप्रश्नं भगवान् बादरायणिः।
निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत्॥ ८ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—शौनकादि ऋषियो! भगवान् शुकदेवजीने परम श्रद्धालु राजर्षि परीक्षित् का यह श्रेष्ठ प्रश्न सुनकर उनका अभिनन्दन करते हुए यह बात कही॥ ८॥

वीरराघवः

एवं राज्ञा पृष्टो मुनिरित्याहेत्याह सूतः - परीक्षित इति । अथ राज्ञः प्रश्नानन्तरम् अथ ननु हे शौनकादयः ! इति वार्थः परीक्षितः समीचीनं प्रश्रमाकर्ण्य प्रतिनन्द्याहो साधुष्पृष्टमित्यभिनन्द्य कथं भूतस्य परीक्षितः श्रद्दधानस्य उत्तरश्रवणविषयकत्वरायुक्तस्य उत्तरे विसृम्भयुक्तस्य वा इदं वक्ष्यमाणमब्रवीत् ॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

शृणुष्वावहितो राजन्नितिहासमिमं यथा।
श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि॥

मूलम्

शृणुष्वावहितो राजन्नितिहासमिमं यथा।
श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि॥ ९ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—परीक्षित्! तुम सावधान होकर यह इतिहास सुनो। मैंने इसे अपने पिता व्यासजी, देवर्षि नारद और महर्षि देवलके मुँहसे भी विधिपूर्वक सुना है॥ ९॥

वीरराघवः

तदेवाह मुनिः - शृणुष्वेत्यादिनाऽध्यायत्रयेण । तावद्वृत्रस्य भगवद्भक्तिर्न तज्जन्मना लब्धा किन्तु पूर्वजन्मनैवेति वक्तुं तावत् तस्य पूर्वजन्मवृत्तान्तं वक्ष्यन् तच्छ्रवणाय राजानमाज्ञापयति - शृणुष्वेति ! हे राजन् ! इमं वक्ष्यमाणमितिहासं अवहितस्समाहितचित्तो यथा यथावच्छृणु कथंभूतं द्वैपायनमुखादस्मत्पितुस्सकाशान्नारदाद्देवलाच्च श्रुतं मयेति शेषः । यथा द्वैपायनादिभ्यः श्रुतं तथा कथयतो मत्तः शृण्विति वान्वयः । श्रुतं द्वैपायनादित्यादिनाऽस्येतिहासस्याप्तप्रणीतत्वसूचनात्केवलास्मद्बुद्धिपरिकल्पिततत्त्वशंकामूलकोऽस्मिन्नानादरः कार्य इत्युक्तं भवति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप।
चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ्मही॥

मूलम्

आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप।
चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ्मही॥ १० ॥

अनुवाद (हिन्दी)

प्राचीन कालकी बात है, शूरसेन देशमें चक्रवर्ती सम्राट् महाराज चित्रकेतु राज्य करते थे। उनके राज्यमें पृथ्वी स्वयं ही प्रजाकी इच्छाके अनुसार अन्न-रस दे दिया करती थी॥ १०॥

वीरराघवः

तदेवेतिहासमाह - आसीदित्यादिना । हे नृप ! इन्द्रेण हतो यो वृत्रः स पूर्वस्मिन् जन्मनि चित्रकेतुरिति प्रसिद्धः सार्वभौमः कृत्स्नभूमेरधिपतिः शूरसेनेषु जनपदेष्वासीत् तं विशिनष्टि - यस्य चित्रकेतोरियं मही कामधुक् काम्यन्त इति कामा इष्टार्थास्तान् दोग्धि प्रपूरयतीति तथासीत् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

तस्य भार्यासहस्राणां सहस्राणि दशाभवन्।
सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम्॥

मूलम्

तस्य भार्यासहस्राणां सहस्राणि दशाभवन्।
सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम्॥ ११ ॥

अनुवाद (हिन्दी)

उनके एक करोड़ रानियाँ थीं और ये स्वयं सन्तान उत्पन्न करनेमें समर्थ भी थे। परन्तु उन्हें उनमेंसे किसीके भी गर्भसे कोई सन्तान न हुई॥ ११॥

वीरराघवः

तस्य चित्रकेतोर्भार्यासहस्राणां दश सहस्राण्यभवन् कोटिसंख्याका भार्या अभवन्नित्यर्थः । स च नृपश्चित्रकेतुः सान्तानिकः सन्तानार्थ्यपि तासु भार्यासु सन्ततिं प्रजां न लेभे न प्राप्तवान् यद्वा सान्तानिकः स्वयं सन्तानार्होपि पुत्रोत्पादनशक्तिमानपि तासु सन्ततिं न लेभे सर्वास्ता बन्ध्या एव दैवयोगेनोद्वाहिता इति भावः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभिः।
सम्पन्नस्य गुणैः सर्वैश्चिन्ता वन्ध्यापतेरभूत्॥

मूलम्

रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभिः।
सम्पन्नस्य गुणैः सर्वैश्चिन्ता वन्ध्यापतेरभूत्॥ १२ ॥

अनुवाद (हिन्दी)

यों महाराज चित्रकेतुको किसी बातकी कमी न थी। सुन्दरता, उदारता, युवावस्था, कुलीनता, विद्या, ऐश्वर्य और सम्पत्ति आदि सभी गुणोंसे वे सम्पन्न थे। फिर भी उनकी पत्नियाँ बाँझ थीं, इसलिये उन्हें बड़ी चिन्ता रहती थी॥ १२॥

वीरराघवः

रूपेति । रूपादिभिः सर्वैगुणैर्द्धमैः संपन्नस्य युक्तस्यापि तस्य वन्ध्यानां सन्तानरहितानां भार्याणां पत्युरत एव चिन्ता पुचालाभप्रयुक्ता अभूत् तत्र रूपं लावण्यमौदार्यं सत्पात्रे द्रव्यविनियोगशीलत्वं वयो यौवनं जन्म सत्कुलप्रसूतत्त्वं विद्या शास्त्रजन्यं ज्ञानं ऐश्वर्यं सार्वभौमत्वं श्रीर्भोग्यभोगोपकरणादिसम्पद् एते चिन्तारहितप्रीतिहेतवः अथाप्यपुत्रत्वमेकं सदा चिन्ताहेतुरासीदिति भावः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

न तस्य संपदः सर्वा महिष्यो वामलोचनाः।
सार्वभौमस्य भूश्चेयमभवन् प्रीतिहेतवः॥

मूलम्

न तस्य संपदः सर्वा महिष्यो वामलोचनाः।
सार्वभौमस्य भू2श्चेयमभवन् प्रीतिहेतवः॥ १३ ॥

अनुवाद (हिन्दी)

वे सारी पृथ्वीके एकछत्र सम्राट् थे, बहुत-सी सुन्दरी रानियाँ थीं तथा सारी पृथ्वी उनके वशमें थी। सब प्रकारकी सम्पत्तियाँ उनकी सेवामें उपस्थित थीं, परन्तु वे सब वस्तुएँ उन्हें सुखी न कर सकीं॥ १३॥

वीरराघवः

तदेवाह नेति । तस्यापुत्रत्वप्रयुक्तचिन्ताक्रान्तस्य सार्वभौमस्य चित्रकेतोः सर्वाः सम्पदः वामलोचनाः सुन्दरलोचनाः लोचनग्रहणमन्येषामप्यवयवानामप्युपलक्षणं महिष्यश्चेयं कृत्स्ना भूमिश्च प्रीतिहेतवो नाभवन् ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तस्यैकदा तु भवनमङ्गिरा भगवानृषिः।
लोकाननुचरन्नेतानुपागच्छद्यदृच्छया॥

मूलम्

तस्यैकदा तु भवनमङ्गिरा भगवानृषिः।
लोकाननुचरन्नेतानुपागच्छद्यदृच्छया॥ १४ ॥

अनुवाद (हिन्दी)

एक दिन शाप और वरदान देनेमें समर्थ अंगिरा ऋषि स्वच्छन्दरूपसे विभिन्न लोकोंमें विचरते हुए राजा चित्रकेतुके महलमें पहुँच गये॥ १४॥

वीरराघवः

एवं सर्वसम्पत्सु प्रीतिरहितस्य केवलं पुत्रार्थमेव चिन्तयतस्तस्य चित्रकेतोर्भवनं गृहं प्रति भगवानङ्गिरा ऋषिः सिद्धः ज्ञानकाष्ठां प्राप्तः अत एव यदृच्छया लोकाननुचरन् कदाचिदुपागतः प्राप्तः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

तं पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभिः।
कृतातिथ्यमुपासीदत्सुखासीनं समाहितः॥

मूलम्

तं पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभिः।
कृतातिथ्यमुपा3सीदत्सुखासीनं समाहितः॥ १५ ॥

अनुवाद (हिन्दी)

राजाने प्रत्युत्थान और अर्घ्य आदिसे उनकी विधिपूर्वक पूजा की। आतिथ्य-सत्कार हो जानेके बाद जब अंगिरा ऋषि सुखपूर्वक आसनपर विराज गये, तब राजा चित्रकेतु भी शान्तभावसे उनके पास ही बैठ गये॥ १५॥

वीरराघवः

तमागतमङ्गिरसं यथाविधि प्रत्युत्थानार्ध्यपाद्यादिभिः संपूज्याऽतिथ्यं कृत्वा भोजनादिभिः सत्कृत्येत्यर्थः । सुखासनोपविष्टमङ्गिरसमुपासीदत् तस्य समीप उपविष्टवान् कथंभूतस्सन् समाहितः संयतचित्तः सन् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ।
प्रतिपूज्य महाराज समाभाष्येदमब्रवीत्॥

मूलम्

महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ।
प्रतिपूज्य महाराज समाभाष्येदमब्रवीत्॥ १६ ॥

अनुवाद (हिन्दी)

महाराज! महर्षि अंगिराने देखा कि यह राजा बहुत विनयी है और मेरे पास पृथ्वीपर बैठकर मेरी भक्ति कर रहा है। तब उन्होंने चित्रकेतुको सम्बोधित करके उसे आदर देते हुए यह बात कही॥ १६॥

वीरराघवः

उपासीनमुपविष्टं क्षितौ प्रश्रयेणावनतं नम्रं तं चित्रकेतुं प्रतिपूज्य अहो तव विनयादिसम्पत्तिरिति बहुसम्मान्य समाभाष्य सम्भाषणाभिमुखं कृत्वा महर्षिरङ्गिरा इदं वक्ष्यमाणमब्रवीत् ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

अङ्गिरा उवाच

विश्वास-प्रस्तुतिः

अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः।
यथा प्रकृतिभिर्गुप्तः पुमान् राजापि सप्तभिः॥

मूलम्

अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः।
यथा प्रकृतिभिर्गुप्तः पुमान् 4राजापि सप्तभिः॥ १७ ॥

अनुवाद (हिन्दी)

अंगिरा ऋषिने कहा—राजन्! तुम अपनी प्रकृतियों—गुरु, मन्त्री, राष्ट्र, दुर्ग, कोष, सेना और मित्रके साथ सकुशल तो हो न? जैसे जीव महत्तत्त्वादि सात आवरणोंसे घिरा रहता है, वैसे ही राजा भी इन सात प्रकृतियोंसे घिरा रहता है। उनके कुशलसे ही राजाकी कुशल है॥ १७॥

वीरराघवः

तदेवाह - अपीति । अपिशब्दः कुशलप्रश्नद्योतकः ते तवानामयमारोग्यमप्यस्ति किलेति प्रश्नः आत्मनां स्वसम्बन्धिनीनां प्रकृतीनां स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलात्मकानां सप्तानामपि स्वस्ति ननु ? सर्वस्मिन्सति विशेषेण प्रकृतीनां स्वस्ति कथं पृच्छतीत्यत्राह - यथेति सप्तभिः । प्रकृतिभिर्महदहङ्कारतन्मात्रैर्यथा पुमान् जीवः गुप्तः रक्षितो भवति प्रकृत्यायत्तस्सुखी भवति ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात्।
राज्ञा तथा प्रकृतयो नरदेवाहिताधयः॥

मूलम्

आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात्।
राज्ञा तथा प्रकृतयो नरदेवाहिताधयः॥ १८ ॥

अनुवाद (हिन्दी)

नरेन्द्र! जिस प्रकार राजा अपनी उपर्युक्त प्रकृतियोंके अनुकूल रहनेपर ही राज्यसुख भोग सकता है, वैसे ही प्रकृतियाँ भी अपनी रक्षाका भार राजापर छोड़कर सुख और समृद्धि लाभ कर सकती हैं॥ १८॥

वीरराघवः

तथा राजापि स्वाम्यादिषु सप्तसु प्रतिष्ठाप्याऽऽत्मानं साक्षान्निधायात्मानं प्रकृत्यधीनं कृत्वेत्यर्थः । श्रेयः सुखं प्राप्नुयात् राज्यभारं प्रकृतिषु निधाय निर्भरः सुखान्यनुभूयादित्यर्थः । अतः प्रकृतीनामेव तावत्स्वस्ति पृच्छामीति भावः । एवं राज्ञः श्रेयः प्रकृत्यधीनमित्युक्तम् अथ प्रकृतीनां श्रेयो राजाधीनमित्याह राज्ञेति । हे नरदेव, तया प्रकृतयोपि राज्ञा हेतुना हितादयः हितमिष्टमादिशब्दादनिष्टपरिहारश्च येषां तादृशा भवन्ति आहताधय इति पाठे आसमन्ताद्धता आधयः येषां निरस्तमनोदुःखा भवन्तीत्यर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः।
पौरा जानपदा भूपा आत्मजा वशवर्तिनः॥

मूलम्

अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः।
पौरा5जानपदा भूपा आत्मजा वशवर्तिनः॥ १९ ॥

अनुवाद (हिन्दी)

राजन्! तुम्हारी रानियाँ, प्रजा, मन्त्री (सलाहकार), सेवक, व्यापारी, अमात्य (दीवान), नागरिक, देशवासी, मण्डलेश्वर राजा और पुत्र तुम्हारे वशमें तो हैं न?॥ १९॥

वीरराघवः

एवं राज्ञः प्रकृतीनां चान्योन्यश्रेयः प्रापकत्वमुक्तम् । ननु, यदि, राज्ञः श्रेयः प्रकृत्यधीनं तर्हि राज्ञः स्वातन्त्र्यभङ्गस्तत्राह अपीति । यस्य राज्ञो दाराः भार्याः प्रजाः अमात्याः कर्मसहायाः श्रेण्यः ताम्बूलिकादयः मन्त्रिणः मन्त्रेषु सहायभूताः मित्राणि पौराः पुरवासिनः जानपदा देशान्तराधिपतयो भूपा आत्मजाश्च वशवर्तिनः वशङ्गताः स एव प्रकृतिष्वात्मानं निधाय श्रेयः आप्नुयादित्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे।
लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः॥

मूलम्

यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे।
लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः॥ २० ॥

अनुवाद (हिन्दी)

सच्ची बात तो यह है कि जिसका मन अपने वशमें है, उसके ये सभी वशमें होते हैं। इतना ही नहीं, सभी लोक और लोकपाल भी बड़ी सावधानीसे उसे भेंट देकर उसकी प्रसन्नता चाहते हैं॥ २०॥

वीरराघवः

कस्यैते वशवर्त्तिनः स्युस्तत्राह यस्येति । यस्य राज्ञः आत्मा मनोऽनुवशः विशङ्गतः न तु विषयपरस्स्याज्जितेन्द्रियस्येति भावः । तस्यैव वशङ्गताः सर्वे इमे पूर्वोक्ता दारादयः पालकैस्सहिताः सर्वे लोकाश्चातन्द्रिताः जागरूकास्सन्तो बलिं हरन्ति । यद्वा यस्यात्मानुवशस्तस्यैवेमे सर्वे दारादयो वशङ्गताः यस्येमे दारादयो वशङ्गतास्तस्यैव सर्वे लोकाः सपाला बलिं हरन्तीतिवान्वयः । उपायनसमर्पणद्वारा सेवन्त इत्यर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

आत्मनः प्रीयते नात्मा परतः स्वत एव वा।
लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम्॥

मूलम्

आत्मनः प्रीयते नात्मा परतः स्वत एव वा।
लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम्॥ २१ ॥

अनुवाद (हिन्दी)

परन्तु मैं देख रहा हूँ कि तुम स्वयं सन्तुष्ट नहीं हो। तुम्हारी कोई कामना अपूर्ण है। तुम्हारे मुँहपर किसी आन्तरिक चिन्ताके चिह्न झलक रहे हैं। तुम्हारे इस असन्तोषका कारण कोई और है या स्वयं तुम्हीं हो?॥ २१॥

वीरराघवः

त्वदुक्तरीत्या जितेन्द्रियस्य मम सर्वं वशे वर्त्तत इति चेत्तर्ह्यसन्तोषस्तव कुत इत्याह - आत्मन इति । आत्मनः स्वस्य तवात्मा मनः न प्रीयते न तुष्यति तत्किं परतो वा स्वतो वा हेतोः कथमसन्तोषो ज्ञायते ममेत्यत्राह - अलब्धकाममप्राप्ताभिलषितं त्वां लक्षयेऽनुपश्यामि तत्कुतः यतश्चिन्तया तव मुखं शबलं विच्छायमनाल्हादमुपलक्ष्यते ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

एवं विकल्पितो राजन् विदुषा मुनिनापि सः।
प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम्॥

मूलम्

एवं विकल्पितो 6राजन् विदुषा मुनिनापि सः।
प्रश्रयावनतोऽभ्याह प्रजाकाम7स्ततो मुनिम्॥ २२ ॥

अनुवाद (हिन्दी)

परीक्षित्! महर्षि अंगिरा यह जानते थे कि राजाके मनमें किस बातकी चिन्ता है। फिर भी उन्होंने उनसे चिन्ताके सम्बन्धमें अनेकों प्रश्न पूछे। चित्रकेतुको सन्तानकी कामना थी। अतः महर्षिके पूछनेपर उन्होंने विनयसे झुककर निवेदन किया॥ २२॥

वीरराघवः

एवमङ्गिरसा पृष्टश्चित्रकेतुः स्वमनीषितं विज्ञापितवानित्याह मुनिः - एवमिति । विदुषा चित्रकेतोरभिप्रेतञ्जानतापि मुनिना एवम् इत्थं विकल्पितः स्वतः परतो वा तवासन्तोष इत्येवं विकल्पपूर्वकं पृष्टः चित्रकेतुः प्रजाकामः पुत्रं कामयमानः तावत्प्रश्रयेण विनयेन नम्रः मुनिमङ्गिरसमाह ॥ २२ ॥

श्लोक-२३

मूलम् (वचनम्)

चित्रकेतुरुवाच

विश्वास-प्रस्तुतिः

भगवन् किं न विदितं तपोज्ञानसमाधिभिः।
योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु॥

मूलम्

भगवन् किं न विदितं तपोज्ञानसमाधिभिः।
योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु॥ २३ ॥

अनुवाद (हिन्दी)

सम्राट् चित्रकेतुने कहा—भगवन्! जिन योगियोंके तपस्या, ज्ञान, धारणा, ध्यान और समाधिके द्वारा सारे पाप नष्ट हो चुके हैं—उनके लिये प्राणियोंके बाहर या भीतरकी ऐसी कौन-सी बात है, जिसे वे न जानते हों॥ २३॥

वीरराघवः

तदेवाह – भगवन्नित्यादिना, तद्विधेहि न इत्यन्तेन । हे भगवन्, तपोज्ञानसमाधिभिः कर्मयोगज्ञानयोगभगवद्भक्तियोगैः ध्वस्तं निरस्तं पापं ज्ञानावरकं पुण्यपापात्मकं कर्मं यैस्तेषां भवादृशानां योगिनां देहिष्वन्तर्बहिश्चाविदितं किन्वस्ति शरीरिणामन्तर्बाह्यगतं च भवद्भिः सर्वं विदितमेवेत्यर्थः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम्।
भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया॥

मूलम्

तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम्।
भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया॥ २४ ॥

अनुवाद (हिन्दी)

ऐसा होनेपर भी जब आप सब कुछ जान-बूझकर मुझसे मेरे मनकी चिन्ता पूछ रहे हैं, तब मैं आपकी आज्ञा और प्रेरणासे अपनी चिन्ता आपके चरणोंमें निवेदन करता हूँ॥ २४॥

वीरराघवः

तथापि सर्वज्ञस्य ज्ञातत्वेपि हे ब्रह्मन्, आत्मनि मदन्तःकरणे चिन्तिमर्थं पृच्छतस्तव ब्रूयां कथयामि कथंभूतः विदुषा चापि मदभिप्रेतं जानताऽपि भवता चोदितोऽभिप्रेतकथनाय प्रेरितः त्वदनुज्ञया ब्रूयां यद्यनुज्ञापयसि तर्हि ब्रूयामिति स्वस्य विनयादिसम्पत्तिस्सूचिता ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः।
न नन्दयन्त्यप्रजं मां क्षुत्तृट्काममिवापरे॥

मूलम्

लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः।
न नन्दयन्त्यप्रजं मां क्षुत्तृट्काममिवापरे॥ २५ ॥

अनुवाद (हिन्दी)

मुझे पृथ्वीका साम्राज्य, ऐश्वर्य और सम्पत्तियाँ, जिनके लिये लोकपाल भी लालायित रहते हैं, प्राप्त हैं। परन्तु सन्तान न होनेके कारण मुझे इन सुखभोगोंसे उसी प्रकार तनिक भी शान्ति नहीं मिल रही है, जैसे भूखे-प्यासे प्राणीको अन्न-जलके सिवा दूसरे भोगोंसे॥ २५॥

वीरराघवः

तावत् स्वस्य पुत्रलाभप्रयुक्तायाश्चिन्ताया नितरामनिवृत्तिहेतुत्वं वदश्चिन्तितमाह — लोकपालैरिति । लोकपालैरपि प्रार्थ्यास्तेषामपि दुर्लभा इति भावः । साम्राज्यं सार्वभौमत्वं तद्रूपं यदैश्वर्यं तत्प्रयुक्ताः सम्पदः भोग्यभोगोपकरणादिसमृद्धयः अप्रजमपुत्रं मां न नन्दयन्ति न सुखयन्ति यथा क्षुत्तृङ्भ्यामन्नपानादिकं कामयमानमितरे स्रक्चन्दनवनितादयो न सुखयन्ति तद्वत् ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

ततः पाहि महाभाग पूर्वैः सह गतं तमः।
यथा तरेम दुस्तारं प्रजया तद् विधेहि नः॥

मूलम्

8तः पाहि महाभाग पूर्वैः सह गतं तमः।
यथा तरेम दुस्तारं प्रजया तद् विधेहि नः॥ २६ ॥

अनुवाद (हिन्दी)

महाभाग्यवान् महर्षे! मैं तो दुःखी हूँ ही, पिण्डदान न मिलनेकी आशंकासे मेरे पितर भी दुःखी हो रहे हैं। अब आप हमें सन्तान-दान करके परलोकमें प्राप्त होनेवाले घोर नरकसे उबारिये और ऐसी व्यवस्था कीजिये कि मैं लोक-परलोकके सब दुःखोंसे छुटकारा पा लूँ॥ २६॥

वीरराघवः

तत्तस्मात् हे महाभाग ! पूर्वैरस्मत्पित्रादिभिः सह मया गतं प्राप्तं दुस्तारं तमो नरकं यथा प्रजया पुत्रेण हेतुना यथा तरेम तथा विधेहि । तथाऽनुग्रहाणेत्यर्थः “अपुत्रस्य गतिर्नास्ति” इति किंवदन्तीमनुसृत्य पूर्वैः सह गतं तम इत्युक्तं “प्रजया पितृभ्यः” इति श्रुत्युक्तरीत्या प्रजया अभावे पितृऋणानिवृत्तेरप्रजस्य तमः प्रातिं सिद्धवत्कृत्वा गतमित्युक्तम् ॥ २६ ॥

श्लोक-२७

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इत्यर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः।
श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद् विभुः॥

मूलम्

इत्यर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः।
श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद् विभुः॥ २७ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! जब राजा चित्रकेतुने इस प्रकार प्रार्थना की, तब सर्वसमर्थ एवं परम कृपालु ब्रह्मपुत्र भगवान् अंगिराने त्वष्टा देवताके योग्य चरु निर्माण करके उससे उनका यजन किया॥ २७॥

श्लोक-२८

विश्वास-प्रस्तुतिः

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत।
नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विजः॥

मूलम्

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत।
नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विजः॥ २८ ॥

अनुवाद (हिन्दी)

परीक्षित्! राजा चित्रकेतुकी रानियोंमें सबसे बड़ी और सद‍्गुणवती महारानी कृतद्युति थीं। महर्षि अंगिराने उन्हींको यज्ञका अवशेष प्रसाद दिया॥ २८॥

वीरराघवः

एवमुक्तोऽङ्गिरास्तमनुगृह्णन्पुत्रकामेष्ट्या याजयित्वा यज्ञोच्छिष्टं हविर्भार्यायै प्रदाप्य ययावित्याह मुनिः - इतीति । इतीत्थं चित्रकेतुनाऽभ्यर्थितो याचितस्स भगवान् ब्रह्मणः चतुर्मुखस्य सुतो विभुरङ्गिराः कृपालुरत एव त्वाष्ट्रं त्वष्टृदेवताकं चरुं श्रपयित्वा पाचयित्वा तेन चरुणा त्वष्टारमजयत् अयाजयत् स्वयमार्त्विज्यकरणेनेष्टवान्वा ततो हे भारत, राज्ञश्चित्रकेतोर्भार्याणां मध्ये या ज्येष्ठा श्रेष्ठा च नाम्ना कृतद्युतिरिति प्रसिद्धा भार्या तस्यै यज्ञोच्छिष्टं यज्ञशिष्टं हविः विप्रोऽङ्गिरा अदाद्दत्तवान् ॥ २७-२८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

अथाह नृपतिं राजन् भवितैकस्तवात्मजः।
हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ॥

मूलम्

अथाह नृपतिं राजन् भवितैकस्तवात्मजः।
हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ॥ २९ ॥

अनुवाद (हिन्दी)

और राजा चित्रकेतुसे कहा—‘राजन्! तुम्हारी पत्नीके गर्भसे एक पुत्र होगा, जो तुम्हें हर्ष और शोक दोनों ही देगा।’ यों कहकर अंगिरा ऋषि चले गये॥ २९॥

वीरराघवः

अथाङ्गिरा नृपतिं चित्रकेतुमाह - उवाच तदेवाह हे राजन् चित्रकेतो, तव पुत्रो भविता जनिष्यते कथम्भूतः तुभ्यं हर्षशोकप्रदः जन्मना हर्षं मरणेन शोकं च प्रददातीति तथा इत्येवमुक्त्वा ब्रह्मणः सुतोऽङ्गिरा ययौ गतः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

सापि तत्प्राशनादेव चित्रकेतोरधारयत्।
गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम्॥

मूलम्

सापि तत्प्राशनादेव चित्रकेतोरधारयत्।
गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम्॥ ३० ॥

अनुवाद (हिन्दी)

उस यज्ञावशेष प्रसादके खानेसे ही महारानी कृतद्युतिने महाराज चित्रकेतुके द्वारा गर्भ धारण किया, जैसे कृत्तिकाने अपने गर्भमें अग्निकुमारको धारण किया था॥ ३०॥

वीरराघवः

ततः सा कृतद्युतिश्चित्रकेतोर्भार्या तस्य यज्ञावशिष्टस्य प्राशनाद्भक्षणादेव हेतोश्चित्रकेतोः सकाशात्पुत्ररूपं गर्भमधारयद्धृतवती यथा कृत्तिकाऽग्नेः सकाशाद्गर्भं कुमाररूपं दधार तद्वत् ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः।
ववृधे शूरसेनेशतेजसा शनकैर्नृप॥

मूलम्

तस्या9 अनुदिनं गर्भः शुक्लपक्ष इवोडुपः।
ववृधे शूरसेनेशतेजसा शनकैर्नृप॥ ३१ ॥

अनुवाद (हिन्दी)

राजन्! शूरसेन देशके राजा चित्रकेतुके तेजसे कृतद्युतिका गर्भ शुक्लपक्षके चन्द्रमाके समान दिनोंदिन क्रमशः बढ़ने लगा॥ ३१॥

वीरराघवः

तस्यां कृतद्युतावनुदिनं शुक्लपक्षे उडुपश्चन्द्र इव शूरसेनानाम् ईशस्य चित्रकेतोस्तेजसा वीर्येण गर्भः शनैर्ववृधे एधामास ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

अथ काल उपावृत्ते कुमारः समजायत।
जनयन् शूरसेनानां शृण्वतां परमां मुदम्॥

मूलम्

अथ काल उपावृत्ते कुमारः समजायत।
जनयन् शूरसेनानां शृण्वतां परमां मुदम्॥ ३२ ॥

अनुवाद (हिन्दी)

तदनन्तर समय आनेपर महारानी कृतद्युतिके गर्भसे एक सुन्दर पुत्रका जन्म हुआ। उसके जन्मका समाचार पाकर शूरसेन देशकी प्रजा बहुत ही आनन्दित हुई॥ ३२॥

वीरराघवः

अथ काले दशमासात्मके काले उपावृत्ते गते सति कुमारः पुत्रः समजायत कथम्भूतस्सन् राज्ञः पुत्रोत्पत्तिं शृण्वतां शूरसेनदेशस्थानां जनानां परमां मुदं हर्षं जनयन्तुत्पादयन् सन् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

हृष्टो राजा कुमारस्य स्नातः शुचिरलंकृतः।
वाचयित्वाऽऽशिषो विप्रैः कारयामास जातकम्॥

मूलम्

हृष्टो राजा कुमारस्य स्नातः शुचिरलंकृतः।
वाचयित्वाऽऽशिषो विप्रैः कारयामास जातकम्॥ ३३ ॥

अनुवाद (हिन्दी)

सम्राट् चित्रकेतुके आनन्दका तो कहना ही क्या था। वे स्नान करके पवित्र हुए। फिर उन्होंने वस्त्राभूषणोंसे सुसज्जित हो, ब्राह्मणोंसे स्वस्तिवाचन कराकर और आशीर्वाद लेकर पुत्रका जातकर्म-संस्कार करवाया॥ ३३॥

वीरराघवः

ततः हृष्टो हर्षयुक्तो राजा चित्रकेतुः सद्य एव स्नात्वा शुचिरुदारमनाः वस्त्रादिभिरलंकृतश्च कुमारस्य विप्रैराशिषो वाचयित्वा जातकं जातकर्मं कारयामास ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च।
ग्रामान् हयान् गजान् प्रादाद् धेनूनामर्बुदानि षट्॥

मूलम्

तेभ्यो हि10रण्यं रजतं वासांस्याभरणानि च।
ग्रामान् हयान् गजान् प्रादाद् धेनूनामर्बुदानि षट्॥ ३४ ॥

अनुवाद (हिन्दी)

उन्होंने उन ब्राह्मणोंको सोना, चाँदी, वस्त्र, आभूषण, गाँव, घोड़े, हाथी और छः अर्बुद गौएँ दान कीं॥ ३४॥

श्लोक-३५

विश्वास-प्रस्तुतिः

ववर्ष काममन्येषां पर्जन्य इव देहिनाम्।
धन्यं यशस्यमायुष्यं कुमारस्य महामनाः॥

मूलम्

ववर्ष काममन्येषां पर्जन्य इव देहिनाम्।
धन्यं यशस्यमायुष्यं कुमारस्य महामनाः॥ ३५ ॥

अनुवाद (हिन्दी)

उदारशिरोमणि राजा चित्रकेतुने पुत्रके धन, यश और आयुकी वृद्धिके लिये दूसरे लोगोंको भी मुँहमाँगी वस्तुएँ दीं—ठीक उसी प्रकार जैसे मेघ सभी जीवोंका मनोरथ पूर्ण करता है॥ ३५॥

वीरराघवः

ततस्तेभ्यो विप्रेभ्यो हिरण्यादीन् धेनूनां षडर्बुदानि च प्रादात् प्रदत्तवान् तत्र हया अश्वा अर्बुदं दशकोटयः शतकोटिर्वाऽर्बुदं “प्रयुतं चार्बुदं च” इति प्रयुतानन्तरं निर्देशात् तथान्येभ्योपि बन्धुभृत्यादिभ्यः कामानिष्टार्थान्पर्जन्य इव ववर्ष धनकरं यशस्करं पुत्रस्यायुष्करञ्च यथा भवति तथा ववर्षेति क्रियाविशेषणान्येतानि ॥ ३४-३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

कृच्छ्रलब्धेऽथ राजर्षेस्तनयेऽनुदिनं पितुः।
यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत॥

मूलम्

कृच्छ्रलब्धेऽथ राजर्षेस्तनयेऽनुदिनं पितुः।
यथा निःस्वस्य कृच्छ्राप्ते धने 11स्नेहोऽन्ववर्धत॥ ३६ ॥

अनुवाद (हिन्दी)

परीक्षित्! जैसे यदि किसी कंगालको बड़ी कठिनाईसे कुछ धन मिल जाता है तो उसमें उसकी आसक्ति हो जाती है, वैसे ही बहुत कठिनाईसे प्राप्त हुए उस पुत्रमें राजर्षि चित्रकेतुका स्नेहबन्धन दिनोंदिन दृढ़ होने लगा॥ ३६॥

वीरराघवः

अथ कृच्छ्रलब्धे बहुप्रयासलब्धे तनये पितूराजर्षेश्चित्रकेतोः स्नेहोऽन्ववर्द्धत अन्वैधत यथा निःस्वस्य निर्द्धनस्य पुंसः कृच्छ्राप्ते कष्टलब्धे धने स्नेहोऽन्ववर्द्धते तद्वत् ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद‍्भवः।
कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत्॥

मूलम्

मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद‍्भवः।
कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत्॥ ३७ ॥

अनुवाद (हिन्दी)

माता कृतद्युतिको भी अपने पुत्रपर मोहके कारण बहुत ही स्नेह था। परन्तु उनकी सौत रानियोंके मनमें पुत्रकी कामनासे और भी जलन होने लगी॥ ३७॥

वीरराघवः

तथा मातुरपि कृतद्युतेस्तनयेऽतितरां नितरां मोहसमुद्भवः स्नेह अन्ववर्द्धत मोहात्समुद्भवो यस्य मोहसमुद्भवः मोहस्य समुद्भवो यस्मादिति वा तदा कृतद्युतेः सपत्नीनां प्रजाकामज्वरः पुत्राभिलाषरूपसन्तापोऽभवत् ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति।
न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम्॥

मूलम्

चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति।
न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम्॥ ३८ ॥

अनुवाद (हिन्दी)

प्रतिदिन बालकका लाड़-प्यार करते रहनेके कारण सम्राट् चित्रकेतुका जितना प्रेम बच्चेकी माँ कृतद्युतिमें था, उतना दूसरी रानियोंमें न रहा॥ ३८॥

वीरराघवः

तदाऽनुदिनं पुत्रं लालयतश्चित्रकेतोः प्रजावति पुत्रवत्यां दारे भार्यायां कृतद्युतौ यथाऽतिप्रीतिस्तथेतरेषु दारेषु प्रीतिर्नासीत् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

ताः पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया।
आनपत्येन दुःखेन राज्ञोऽनादरणेन च॥

मूलम्

ताः पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया।
आनपत्येन दुःखेन 12राज्ञोऽनादरणेन च॥ ३९ ॥

अनुवाद (हिन्दी)

इस प्रकार एक तो वे रानियाँ सन्तान न होनेके कारण ही दुःखी थीं, दूसरे राजा चित्रकेतुने उनकी उपेक्षा कर दी। अतः वे डाहसे अपनेको धिक्‍कारने और मन-ही-मन जलने लगीं॥ ३९॥

वीरराघवः

ततस्तावत् सपत्न्यः आत्मसु राज्ञोऽनादरेणानपत्येन अपुत्रत्वनिमित्तेन दुःखेन च पुत्रवत्यां सपत्न्यां कृतद्युतावभ्यसूयया आत्मानं निन्दयन्त्यः पर्यतप्यन् परितप्ता बभूवुः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम्।
सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम्॥

मूलम्

धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम्।
सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम्॥ ४० ॥

अनुवाद (हिन्दी)

वे आपसमें कहने लगीं—‘अरी बहिनो! पुत्रहीन स्त्री बहुत ही अभागिनी होती है। पुत्रवाली सौतें तो दासीके समान उसका तिरस्कार करती हैं। और तो और, स्वयं पतिदेव ही उसे पत्नी करके नहीं मानते। सचमुच पुत्रहीन स्त्री धिक्‍कारके योग्य है॥ ४०॥

वीरराघवः

गर्हापूर्वकपरितापं तासां दर्शयति – धिगिति द्वाभ्याम् । अप्रजामपुत्रवतीमत एव पापां मादृशीं स्त्रियं धिक् मादृशी स्त्री निन्द्येत्यर्थः । निन्द्यत्वे हेतून्वदन्त्यः स्त्रियं विशिंषन्ति पत्युश्चागृहसम्मतां गृहे सम्मतेष्टा गृहसम्मता तथा न भवतीत्यगृहसम्मता पत्युर्गृहेऽसम्मताम् इत्यर्थः किञ्च सुप्रजाभिः शोभनापत्यवतीभिः सपत्नीभिर्दासीमिव तिरस्कृतां तुच्छीकृताम् ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

दासीनां को नु सन्तापः स्वामिनः परिचर्यया।
अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः॥

मूलम्

दासीनां को नु सन्तापः स्वामिनः परिचर्यया।
अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः॥ ४१ ॥

अनुवाद (हिन्दी)

भला, दासियोंको क्या दुःख है? वे तो अपने स्वामीकी सेवा करके निरन्तर सम्मान पाती रहती हैं। परन्तु हम अभागिनी तो इस समय उनसे भी गयी-बीती हो रही हैं और दासियोंकी दासीके समान बार-बार तिरस्कार पा रही हैं॥ ४१॥

वीरराघवः

किञ्च दास्यपेक्षयाप्यपुत्रा नारी निंद्येत्यात्मनो गर्हयन्ते - दासीनामिति । दासिनां को नुसन्तापः न कोपि सन्तापोऽस्ति तत्र हेतुः परिचर्यया सेवया स्वामिनः सकाशादभीक्ष्णं पुनः पुनः लब्धः काम इष्टार्थो याभिस्तासां स्वामिनः परिचर्यया लब्धकामानामिति वान्वयः । अतो वयं दास्याः दासीव दुर्भगाः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा।
राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत्॥

मूलम्

एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा।
राज्ञोऽसम्मतवृत्तीनां विद्वेषो13 बलवानभूत्॥ ४२ ॥

अनुवाद (हिन्दी)

परीक्षित्! इस प्रकार वे रानियाँ अपनी सौतकी गोद भरी देखकर जलती रहती थीं और राजा भी उनकी ओरसे उदासीन हो गये थे। फलतः उनके मनमें कृतद्युतिके प्रति बहुत अधिक द्वेष हो गया॥ ४२॥

वीरराघवः

एवं सपत्न्याः कृतद्युतेः पुत्रसम्पदा नितरां दह्यमानचित्तानां राज्ञश्चित्रकेतोर्न सम्मता वृत्तिर्जीवनं यासां तासां बलवान् विद्वेषोऽभूत् ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः।
गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति॥

मूलम्

विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः।
गरं ददुः कुमाराय दु14र्मर्षा नृपतिं प्रति॥ ४३ ॥

अनुवाद (हिन्दी)

द्वेषके कारण रानियोंकी बुद्धि मारी गयी। उनके चित्तमें क्रूरता छा गयी। उन्हें अपने पति चित्रकेतुका पुत्र-स्नेह सहन न हुआ। इसलिये उन्होंने चिढ़कर नन्हेसे राजकुमारको विष दे दिया॥ ४३॥

वीरराघवः

ततो नृपतिं चित्रकेतुं दुर्मर्षा असहमानास्तद्विद्वेषेण नष्टविवेकाः क्रूरचित्ताः स्त्रियः कुमाराय गरं विषं ददुः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

कृतद्युतिरजानन्ती सपत्नीनामघं महत्।
सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद् गृहे॥

मूलम्

कृतद्युतिरजानन्ती सपत्नीनामघं महत्।
सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद् गृहे॥ ४४ ॥

अनुवाद (हिन्दी)

महारानी कृतद्युतिको सौतोंकी इस घोर पापमयी करतूतका कुछ भी पता न था। उन्होंने दूरसे देखकर समझ लिया कि बच्चा सो रहा है। इसलिये वे महलमें इधर-उधर डोलती रहीं॥ ४४॥

वीरराघवः

सपत्नीनां महदघं गरदानरूपमजानती कृतद्युतिः केवलं कुमारं वीक्ष्य सुप्त एवेति मत्वा गृहे व्यचरत्सञ्चचार ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

शयानं सुचिरं बालमुपधार्य मनीषिणी।
पुत्रमानय मे भद्रे इति धात्रीमचोदयत्॥

मूलम्

शयानं सुचिरं बालमुपधार्य मनीषिणी।
पुत्रमानय मे भद्रे इति धात्रीमचोदयत्॥ ४५ ॥

अनुवाद (हिन्दी)

बुद्धिमती रानीने यह देखकर कि बच्चा बहुत देरसे सो रहा है, धायसे कहा—‘कल्याणि! मेरे लालको ले आ’॥ ४५॥

वीरराघवः

कुमारं सुचिरतरं सुप्तमुपधार्य विज्ञाय मनीषिणी पुत्रलालनविषयकबुद्धिमती कृतद्युतिः हे भद्रे ! मे पुत्रमानवेति धात्री स्तन्यदायिनीमचोदयत् ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम्।
प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद‍्भुवि॥

मूलम्

सा शयानमु15पव्रज्य दृष्ट्वा 16चोत्तारलोचनम्।
प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद‍्भुवि॥ ४६ ॥

अनुवाद (हिन्दी)

धायने सोते हुए बालकके पास जाकर देखा कि उसके नेत्रोंकी पुतलियाँ उलट गयी हैं। प्राण, इन्द्रिय और जीवात्माने भी उसके शरीरसे विदा ले ली है। यह देखते ही ‘हाय रे! मैं मारी गयी!’ इस प्रकार कहकर वह धरतीपर गिर पड़ी॥ ४६॥

वीरराघवः

सा धात्री शयानं सुप्तं तम् उपव्रज्य कुमारसमीपङ्गत्वा उत्तारे उद्गते तारके कनीनिके ययोस्ते लोचने यस्य तादृशं प्राणैरिन्द्रियैरात्मना जीवेन च त्यक्तं दृष्ट्वा हा हतास्मीति क्रोशन्ती भुव्यपतत् ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

तस्यास्तदाऽऽकर्ण्य भृशातुरं स्वरं
घ्नन्त्याः कराभ्यामुर उच्चकैरपि।
प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं
ददर्श बालं सहसा मृतं सुतम्॥

मूलम्

तस्यास्तदाऽऽकर्ण्य भृशातुरं स्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि।
प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं ददर्श बालं सहसा मृतं सुतम्॥ ४७ ॥

अनुवाद (हिन्दी)

धाय अपने दोनों हाथोंसे छाती पीट-पीटकर बड़े आर्तस्वरमें जोर-जोरसे रोने लगी। उसका रोना सुनकर महारानी कृतद्युति जल्दी-जल्दी अपने पुत्रके शयनगृहमें पहुँचीं और उन्होंने देखा कि मेरा छोटा-सा बच्चा अकस्मात् मर गया है॥ ४७॥

वीरराघवः

कराभ्यामुच्चैरतितरां उरो घ्नन्त्यास्ताडयन्त्यास्तस्या धात्र्याः नितरामातुरं दुःखयुक्तं दीनं स्वरमाकर्ण्य राज्ञी कृतद्युतिः त्वरया आत्मजस्यान्तिकं प्रविश्य सहसा सर्वथा मृतमेव बालं सुतं ददर्श ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

पपात भूमौ परिवृद्धया शुचा
मुमोह विभ्रष्टशिरोरुहाम्बरा॥

मूलम्

पपात भूमौ परिवृद्धया शुचा
मुमोह विभ्रष्टशिरोरुहाम्बरा॥ ४८ ॥

अनुवाद (हिन्दी)

तब वे अत्यन्त शोकके कारण मूर्च्छित होकर पृथ्वीपर गिर पड़ीं। उनके सिरके बाल बिखर गये और शरीरपरके वस्त्र अस्त-व्यस्त हो गये॥ ४८॥

वीरराघवः

ततः भूमौ पपात तथा परिवृद्धया एधमानया शुचा शोकेन मुमोह विचित्ताऽभूत् । मोहमेव दर्शयितुं तां विशिनष्टि - विभ्रष्टशिरोरुहाम्बरा विभ्रष्टाः विलुलिताः शिरोरुहाः केशा अंबरे च यस्याः सा ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

ततो नृपान्तःपुरवर्तिनो जना
नराश्च नार्यश्च निशम्य रोदनम्।
आगत्य तुल्यव्यसनाः सुदुःखिता-
स्ताश्च व्यलीकं रुरुदुः कृतागसः॥

मूलम्

ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम्।
आगत्य तुल्यव्यसनाः सुदुःखितास्ताश्च व्यलीकं रुरुदुः कृतागसः॥ ४९ ॥

अनुवाद (हिन्दी)

तदनन्तर महारानीका रुदन सुनकर रनिवासके सभी स्त्री-पुरुष वहाँ दौड़ आये और सहानुभूतिवश अत्यन्त दुःखी होकर रोने लगे। वे हत्यारी रानियाँ भी वहाँ आकर झूठमूठ रोनेका ढोंग करने लगीं॥ ४९॥

वीरराघवः

ततः नृपस्यान्तः पुरवासिनो जनाः हे नृपेति सम्बोधनं वा जनानेवाह - नरानार्यश्चेति । नरा नार्यश्च सर्वे जना रोदनमाकर्ण्य कुमारसमीपमागत्य राज्ञा सह तुल्यदुःखाः सुदुःखिता बभूवुः । तदा कृतागसः गरदानेन कृतापराधा अपि ताः सपत्न्यः समागत्य व्यलीकं निष्कपटमिव यद्वा सकपटं यथा तथा मिथ्या वा रुरुदुः स्वाऽपराधं प्रच्छादयितुमिति भावः ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

श्रुत्वा मृतं पुत्रमलक्षितान्तकं
विनष्टदृष्टिः प्रपतन् स्खलन् पथि।
स्नेहानुबन्धैधितया शुचा भृशं
विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः॥

मूलम्

श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतन् स्खलन् पथि।
स्नेहानुबन्धैधितया शुचा भृशं विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः॥ ५० ॥

वीरराघवः

न लक्षितः मृत्युहेतुर्यस्य तं मृतं सुतं श्रुत्वा स चित्रकेतुः दुःखितोभूदिति शेषः । तदेवाह - विनष्टदृष्टिरिति । पुत्रे स्नेहानुबन्धः तेनानुबद्धस्तेन हेतुना एधितया वर्द्धितया शुचा शोकेनातीव पीडितः अत एव विनष्टदृष्टिर्यस्याऽत एव पथि क्वचित्प्रपतन् क्वचिञ्च स्खलन् क्वचिद्विमूर्च्छितः स राजराजः चित्रकेतुरनुसृत्य गच्छद्भिः प्रकृतिभिरमात्यादिभिः द्विजैश्च परिवृतः ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

पपात बालस्य स पादमूले
मृतस्य विस्रस्तशिरोरुहाम्बरः।
दीर्घं श्वसन् बाष्पकलोपरोधतो
निरुद्धकण्ठो न शशाक भाषितुम्॥

मूलम्

पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः।
दीर्घं श्वसन् बाष्पकलोपरोघतो निरुद्धकण्ठो न शशाक भाषितुम्॥ ५१ ॥

अनुवाद (हिन्दी)

जब राजा चित्रकेतुको पता लगा कि मेरे पुत्रकी अकारण ही मृत्यु हो गयी है, तब अत्यन्त स्नेहके कारण शोकके आवेगसे उनकी आँखोंके सामने अँधेरा छा गया। वे धीरे-धीरे अपने मन्त्रियों और ब्राह्मणोंके साथ मार्गमें गिरते-पड़ते मृत बालकके पास पहुँचे और मूर्च्छित होकर उसके पैरोंके पास गिर पड़े। उनके केश और वस्त्र इधर-उधर बिखर गये। वे लंबी-लंबी साँस लेने लगे। आँसुओंकी अधिकतासे उनका गला रुँध गया और वे कुछ भी बोल न सके॥ ५०-५१॥

वीरराघवः

मृतस्य बालस्य पादमूले पपात कथम्भूतः विभ्रष्टा शिरोरुहा अंबरे च यस्य दीर्घ यथा तथा श्वसन् श्वासं मुञ्चन् बाष्पकलाभिरश्रुबिन्दुभिरुपरोधतः सम्भृतत्वेन निरुद्धः कण्ठो यस्य तादृशः भाषितुं किंचिदपि वक्तुं न शशाकं नाशक्नोत् ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

पतिं निरीक्ष्योरुशुचार्पितं तदा
मृतं च बालं सुतमेकसन्ततिम्।
जनस्य राज्ञी प्रकृतेश्च हृद्रुजं
सती दधाना विललाप चित्रधा॥

मूलम्

पतिं निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम्।
जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा॥ ५२ ॥

अनुवाद (हिन्दी)

पतिप्राणा रानी कृतद्युति अपने पति चित्रकेतुको अत्यन्त शोकाकुल और इकलौते नन्हे-से बच्चेको मरा हुआ देख भाँति-भाँतिसे विलाप करने लगीं। उनका यह दुःख देखकर मन्त्री आदि सभी उपस्थित मनुष्य शोकग्रस्त हो गये॥ ५२॥

वीरराघवः

तदोरुशुचा महता शोकेनार्पितं व्याप्तं पतिं तथैकमेव सन्ततिरूपं मृतं बालं पुत्रं च निरीक्ष्य जनस्य राज्ञः प्रकृतेरमात्यादेश्च हृदुजम् मनः पीडां दधाना पुष्णन्ती सती कृतद्युतिः राज्ञीति पाठे सती राज्ञीजनस्य प्रकृतेश्च हृदुजं दधाना सती चित्रेधाऽनेकप्रकारं विललाप ॥ ५२ ॥

श्लोक-५३

विश्वास-प्रस्तुतिः

स्तनद्वयं कुङ्कुमगन्धमण्डितं
निषिञ्चती साञ्जनबाष्पबिन्दुभिः।
विकीर्य केशान् विगलत्स्रजः सुतं
शुशोच चित्रं कुररीव सुस्वरम्॥

मूलम्

स्तनद्वयं कुङ्कुमगन्धमण्डितं निषिञ्चती साञ्जनबाष्पबिन्दुभिः।
विकीर्य केशान् विगलत्स्रजः सुतं शुशोच चित्रं कुररीव सुस्वरम्॥ ५३ ॥

अनुवाद (हिन्दी)

महारानीके नेत्रोंसे इतने आँसू बह रहे थे कि वे उनकी आँखोंका अंजन लेकर केसर और चन्दनसे चर्चित वक्षःस्थलको भिगोने लगे। उनके बाल बिखर रहे थे तथा उनमें गुँथे हुए फूल गिर रहे थे। इस प्रकार वे पुत्रके लिये कुररी पक्षीके समान उच्चस्वरमें विविध प्रकारसे विलाप कर रही थीं॥ ५३॥

वीरराघवः

चित्रधा विलापमेव प्रपञ्चयति - स्तनद्वयमित्यादिना, कला गिरस्त इत्यन्तेन तावत्कुङ्कुमगन्धेन कुङ्कुममिश्रहरिचन्दनेन मण्डितं भूषितं स्तनद्वयमञ्जनयुक्तैर्बाष्पबिंदुभिरश्रुबिन्दुभिर्निषिञ्चन्ती विगलन्ती स्रक् येभ्यस्तान्केशान्विकीर्य कुररीव पुत्रं प्रतिसुस्वरं चित्रं यथा तथा शुशोच ॥ ५३ ॥

श्लोक-५४

विश्वास-प्रस्तुतिः

अहो विधातस्त्वमतीव बालिशो
यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे।
परेऽनुजीवत्यपरस्य या मृति-
र्विपर्ययश्चेत्त्वमसि ध्रुवः परः॥

मूलम्

अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे।
परेऽनुजीवत्यपरस्य या मृतिर्विपर्ययश्चेत्त्वमसि ध्रुवः परः॥ ५४ ॥

अनुवाद (हिन्दी)

वे कहने लगीं—‘अरे विधाता! सचमुच तू बड़ा मूर्ख है, जो अपनी सृष्टिके प्रतिकूल चेष्टा करता है। बड़े आश्चर्यकी बात है कि बूढ़े-बूढ़े तो जीते रहें और बालक मर जायँ। यदि वास्तवमें तेरे स्वभावमें ऐसी ही विपरीतता है, तब तो तू जीवोंका अमर शत्रु है॥ ५४॥

वीरराघवः

हे विधातस्त्वमहो बालिशः मूर्खः निष्कृपो वाः कुतः यस्त्वमात्मसृष्टेः स्वकर्तृकसृष्टेः पित्रादिक्रमनिबद्धाया अप्रतिरूपम् अननुरूपम् ईहते चेष्टसे तदेवाह - परे प्राक्कालजाते पित्रादौ अनुजीवति सत्यपरस्य पश्चात्कालजातस्य पुत्रादेर्या मृतिर्मरणमिति तदेतदप्रतिरूपमित्यर्थः । विपर्ययश्चेद्यद्युक्तविपर्यय एव स्यात्पुत्रादौ जीवति पित्रादेरेव मृतिः स्यादित्यर्थः । तर्हि त्वं ध्रुवं नूनं परः सर्वोत्कृष्ये भवेः नियमेन तदभावात्त्वं बालिश एवेति भावः । यद्वा ननु सृष्टिस्तु पित्रादिक्रमेणैव मृतिस्त्वनियतेति चेत्तर्हि त्वं ध्रुवं नूनं परः सर्वोत्कृष्टोऽसीत्यधिक्षेपः । ध्रुव इति प्रथमान्तपाठे तु त्वं नित्यः शत्रुरसीत्यर्थः ॥ ५४ ॥

श्लोक-५५

विश्वास-प्रस्तुतिः

न हि क्रमश्चेदिह मृत्युजन्मनोः
शरीरिणामस्तु तदाऽऽत्मकर्मभिः।
यः स्नेहपाशो निजसर्गवृद्धये
स्वयं कृतस्ते तमिमं विवृश्चसि॥

मूलम्

न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदाऽऽत्मकर्मभिः।
यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि॥ ५५ ॥

अनुवाद (हिन्दी)

यदि संसारमें प्राणियोंके जीवन-मरणका कोई क्रम न रहे, तो वे अपने प्रारब्धके अनुसार जन्मते-मरते रहेंगे। फिर तेरी आवश्यकता ही क्या है। तूने सम्बन्धियोंमें स्नेह-बन्धन तो इसीलिये डाल रखा है कि वे तेरी सृष्टिको बढ़ायें? परन्तु तू इस प्रकार बच्चोंको मारकर अपने किये-करायेपर अपने हाथों पानी फेर रहा है’॥ ५५॥

वीरराघवः

ननु, तत्तत्कर्मानुसारेण उत्पत्तिमरणे स्तः न चात्र क्रमोऽस्ति न वा ममात्रापराधोस्तीत्यत्राह - न हीति । इह प्रकृतिमण्डलशरीरिणां मृत्युजन्मनोः उत्पत्तिमरणयोः क्रमो नास्ति चेत् पश्चाज्जाते पुत्रे जीवत्येव पिता पूर्वं जातो म्रियत इत्येवंविधक्रमो नास्ति चेदित्यर्थः । उत्पत्तिक्रमेणैव मृतिक्रमो नास्ति चेत्यर्थः । जन्मग्रहणं दृष्टान्तार्थम् । यथा जन्मनि क्रमोऽस्ति तथा मृतौ क्रमो नास्तीति चेत्तर्ह्यात्मकर्मभिः स्वस्वकर्मभिरेव तत्तदुत्पत्तिमृत्यादिकं सर्वमस्तु किमीश्वरेण त्वया कृत्यमस्ति ? कर्मानुसारिण फलप्रापकोऽहमिति चेत्तत्राह - य इति । निजसर्गवृद्धये ते त्वया यः स्नेहपाशः पुत्रादिषु स्नेहरूपः पाशः कृतस्तमिमं स्वयमेव विवृश्चसि आर्षत्वात्प्रार्थनायां लट् छिन्दीत्यर्थः ॥ ५५ ॥

श्लोक-५६

विश्वास-प्रस्तुतिः

त्वं तात नार्हसि च मां कृपणामनाथां
त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम्।
अञ्जस्तरेम भवताप्रजदुस्तरं यद्
ध्वान्तं न याह्यकरुणेन यमेन दूरम्॥

मूलम्

त्वं तात नार्हसि च मां कृपणामनाथां त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम्।
अञ्जस्तरेम भवताप्रजदुस्तरं यद् ध्वान्तं न याह्यकरुणेन यमेन दूरम्॥ ५६ ॥

अनुवाद (हिन्दी)

फिर वे अपने मृत पुत्रकी ओर देखकर कहने लगीं—‘बेटा! मैं तुम्हारे बिना अनाथ और दीन हो रही हूँ। मुझे छोड़कर इस प्रकार चले जाना तुम्हारे लिये उचित नहीं है। तनिक आँख खोलकर देखो तो सही, तुम्हारे पिताजी तुम्हारे वियोगमें कितने शोक-सन्तप्त हो रहे हैं। बेटा! जिस घोर नरकको निःसन्तान पुरुष बड़ी कठिनाईसे पार कर पाते हैं, उसे हम तुम्हारे सहारे अनायास ही पार कर लेंगे। अरे बेटा! तुम इस यमराजके साथ दूर मत जाओ। यह तो बड़ा ही निर्दयी है॥ ५६॥

वीरराघवः

एवं दैवं प्रत्याक्रोश्याथ मृतं बालकं प्रतिविललाप - त्वमिति । हे तात पुत्र ! मामनाथामेतद्दुःखसागराद्रक्षकरहितां दीनां दुःखितां त्यक्तुन्त्वं नार्हसि तव शोकेन तप्तं पितरं चित्रकेतुं विचक्ष्व पश्य यद्यस्मात्त्वत्कर्तृकादवलोकनादप्रजदुस्तरमनपत्यत्वप्रयुक्तादपि क्लेशात् दुस्तरम् अप्रजत्वक्लेशस्तु यथाकथंचित्सोढुं शक्यः अयं तु नितरां सोढुमशक्यं इति भावः । ध्वान्तं शोकं तरेम यदि न पश्यसि तर्ह्यकरुणेन निर्घृणेन यमेन करणभूतेन मामपि दूरं नय मामपि यमसमीपं नयेत्यर्थः ॥ ५६ ॥

श्लोक-५७

विश्वास-प्रस्तुतिः

उत्तिष्ठ तात त इमे शिशवो वयस्या-
स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम्।
सुप्तश्चिरं ह्यशनया च भवान् परीतो
भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम्॥

मूलम्

उत्तिष्ठ तात त इमे शिशवो वयस्यास्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम्।
सुप्तश्चिरं ह्यशनया च भवान् परीतो भुङ्क्ष्य स्तनं पिब शुचो हर नः स्वकानाम्॥ ५७ ॥

अनुवाद (हिन्दी)

मेरे प्यारे लल्ला! ओ राजकुमार! उठो! बेटा! देखो, तुम्हारे साथी बालक तुम्हें खेलनेके लिये बुला रहे हैं। तुम्हें सोते-सोते बहुत देर हो गयी, अब भूख लगी होगी। उठो, कुछ खा लो। और कुछ नहीं तो मेरा दूध ही पी लो और अपने स्वजन-सम्बन्धी हमलोगोंका शोक दूर करो॥ ५७॥

वीरराघवः

हे तात पुत्र ! त्वमुतिष्ठ इमे वयस्यास्त्वत्समानवयसः शिशवो बालाः हे नृपनन्दन ! त्वया सह संविहर्तुं त्वामाह्वयन्ति किञ्च त्वञ्चिरं सुप्तः अशनया क्षुधा च परीतो व्याप्तः अतः स्तन्यं दुग्धं पिब स्वकानां नोऽस्माकं शुचो हरापनुद ॥ ५७ ॥

श्लोक-५८

विश्वास-प्रस्तुतिः

नाहं तनूज ददृशे हतमङ्गला ते
मुग्धस्मितं मुदितवीक्षणमाननाब्जम्।
किं वा गतोऽस्यपुनरन्वयमन्यलोकं
नीतोऽघृणेन न शृणोमि कला गिरस्ते॥

मूलम्

नाहं तनूज ददृशे हतमङ्गला ते मुग्धस्मितं मुदितवीक्षणमाननाब्जम्।
किं वा गतो17ऽस्यपुनरन्वयमन्यलोकं नीतोऽघृणेन न शृणोमि कला गिरस्ते॥ ५८ ॥

अनुवाद (हिन्दी)

प्यारे लाल! आज मैं तुम्हारे मुखारविन्दपर वह भोली-भाली मुसकराहट और आनन्दभरी चितवन नहीं देख रही हूँ। मैं बड़ी अभागिनी हूँ। हाय-हाय! अब भी मुझे तुम्हारी सुमधुर तोतली बोली नहीं सुनायी दे रही है। क्या सचमुच निठुर यमराज तुम्हें उस परलोकमें ले गया, जहाँसे फिर कोई लौटकर नहीं आता?॥ ५८॥

वीरराघवः

हे तनूज पुत्रक ! ते तवाननाब्जं मुखकमलमहं न ददृशे न दृष्टवती । कथम्भूतं मुग्धं सुन्दरं स्मितं यस्मिन् मृदितवीक्षणं मृदिते चलत्पक्ष्मणी नेत्रे यस्मिन् तादृशम् अत एव हतमङ्गला हतं मङ्गलं यस्याः साऽहमिदानीमपि तव कला मधुरा गिरः न शृणोमि नाश्रौषं तर्हि किमपुनरन्वयं पुनरागमनरहितमन्यलोकं लोकान्तरं प्रत्यघृणेन निष्करुणेन दैवेन नीतः प्रापितः गतोऽसि किं वेत्यर्थः ॥ ५८ ॥

श्लोक-५९

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः।
चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह॥

मूलम्

विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः।
चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह॥ ५९ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! जब सम्राट् चित्रकेतुने देखा कि मेरी रानी अपने मृत पुत्रके लिये इस प्रकार भाँति-भाँतिसे विलाप कर रही है, तब वे शोकसे अत्यन्त सन्तप्त हो फूट-फूटकर रोने लगे॥ ५९॥

वीरराघवः

एवं दम्पत्योरन्येषु च भृशं शोकाविष्टेषु सनारदः पुनरङ्गिरास्तत्राययौ इत्याह मुनिः - विलपनत्या इति । मृतं पुत्रं प्रति चित्रविलापनैः प्रलपन्त्यास्सत्याश्चित्रकेतुरपि नितरां शोकेन तप्तोऽत एव मुक्त उच्चैः स्वरयुक्तकण्ठो रुरोद हेति ॥ ५९ ॥

श्लोक-६०

विश्वास-प्रस्तुतिः

तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः।
रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम्॥

मूलम्

तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः।
रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम्॥ ६० ॥

मूलम् - कर्णावती

तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः।
रुरुदुः स्म नरा नार्षः सर्वमासीदचेतनम्॥ ६० ॥

अनुवाद (हिन्दी)

राजा-रानीके इस प्रकार विलाप करनेपर उनके अनुगामी स्त्री-पुरुष भी दुःखित होकर रोने लगे। इस प्रकार सारा नगर ही शोकसे अचेत-सा हो गया॥ ६०॥

वीरराघवः

तयोर्दम्पत्योरेवं विलपतोस्सतोस्तदनुव्रताः सर्वे नरा नार्यश्च रुरुदुः इतरत्सर्वजनजातमचेतनप्रायमासीञ्चित्रितप्रतिमा इव बभूवुरित्यर्थः ॥ ६० ॥

श्लोक-६१

विश्वास-प्रस्तुतिः

एवं कश्मलमापन्नं नष्टसंज्ञमनायकम्।
ज्ञात्वाङ्गिरा नाम मुनिराजगाम सनारदः॥

मूलम्

एवं कश्मलमापन्नं नष्टसंज्ञमनायकम्।
ज्ञात्वाङ्गिरा नाम मुनिराजगाम सनारदः॥ ६१ ॥

अनुवाद (हिन्दी)

राजन्! महर्षि अंगिरा और देवर्षि नारदने देखा कि राजा चित्रकेतु पुत्रशोकके कारण चेतनाहीन हो रहे हैं, यहाँतक कि उन्हें समझानेवाला भी कोई नहीं है। तब वे दोनों वहाँ आये॥ ६१॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चि18त्रकेतुविलापो नाम चतुर्दशोऽध्यायः॥ १४ ॥

वीरराघवः

एवं कश्मलं महद्दुःखमापन्नमत एव नष्टसंज्ञं विवेकरहितम् अनायकं तत्त्वोपदेष्टृरहितं समुदायं ज्ञात्वा श्रीनारदेन देवर्षिसहितोऽङ्गिरानाममुनिराजगामागतवान् ॥ ६१ ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां टिकायां चतुर्दशोऽध्यायः ॥ १४ ॥


  1. प्रा. पा. - मे । ↩︎

  2. प्रा. पा. - भूश्चेयं नाभवत् । ↩︎

  3. प्रा. पा. - सीनं सु । ↩︎

  4. प्रा. पा. - राजा च । ↩︎

  5. प्रा. पा. - पौरजानपदा । ↩︎

  6. प्रा. पा. - राजा । ↩︎

  7. प्रा. पा. - मस्तु तं मु । ↩︎

  8. प्रा. पा. - त्वन्नः पाहि । ↩︎

  9. प्रा. पा. - तस्याश्चानु । ↩︎

  10. प्रा. पा. – हि रजतं प्रादाद वासां । ↩︎

  11. प्रा. पा. - हो विवर्धते । ↩︎

  12. प्रा. पा. - राज्ञश्चानादरेण च । ↩︎

  13.  ↩︎
  14. प्रा. पा. - विद्वेषान्नृप । ↩︎

  15. प्रा. पा. - मुपा । ↩︎

  16. प्रा. पा. - त्तातलो । ↩︎

  17. प्रा. पा. - ऽस्य परमन्व । ↩︎

  18. प्रा. पा. – चित्रकेतुचरिते चतु । ↩︎