१३ इन्द्रविजयः

[त्रयोदशोऽध्यायः]

भागसूचना

इन्द्रपर ब्रह्महत्याका आक्रमण

श्लोक-१

मूलम् (वचनम्)

श्रीशुक1 उवाच

विश्वास-प्रस्तुतिः

वृत्रे हते त्रयो लोका विना शक्रेण भूरिद।
सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः॥

मूलम्

वृत्रे हते त्रयो लोका विना शक्रेण भूरिद।
सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—महादानी परीक्षित्! वृत्रासुरकी मृत्युसे इन्द्रके अतिरिक्त तीनों लोक और लोकपाल तत्क्षण परम प्रसन्न हो गये। उनका भय, उनकी चिन्ता जाती रही॥ १॥

वीरराघवः

एवं वृत्रवधेन सर्वे निवृत्तास्खस्वलोकान् जग्मुरित्याह मुनिः वृत्र इति द्वाभ्याम् ! हे भूरिद ! एवं वृत्रे हते सति शक्रं विना सर्वे लोकपालैः सहिताः लोकाः सद्य एव विज्वराः विगताधयः अत एव निर्वृतानि सुखितानि इन्द्रियाणि अन्तर्बाह्यानि येषां तादृशाः अभवन् बभूवुः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम्।
प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः॥

मूलम्

देवर्षिपितृभूतानि दैत्या देवानुगाः2 स्वयम्।
प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः॥ २ ॥

अनुवाद (हिन्दी)

युद्ध समाप्त होनेपर देवता, ऋषि, पितर, भूत, दैत्य और देवताओंके अनुचर गन्धर्व आदि इन्द्रसे बिना पूछे ही अपने-अपने लोकको लौट गये। इसके पश्चात् ब्रह्मा, शंकर और इन्द्र आदि भी चले गये॥ २॥

वीरराघवः

ततो देवाश्च ऋषयश्च पितरश्च भूतानि च तथा दैत्याः देवाश्च तदनुगाश्च तथा ब्रह्मा चतुर्मुखश्च ईशो रुद्रश्च इन्द्रश्च आदिशब्दादन्ये च स्वस्वस्थानानि प्रति स्वयं जग्मुः ॥ २ ॥

श्लोक-३

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने।
येनासन् सुखिनो देवा हरेर्दुःखं कुतोऽभवत्॥

मूलम्

इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने।
येनासन् सुखिनो देवा हरेर्दुःखं कुतोऽभवत्॥ ३ ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—भगवन्! मैं देवराज इन्द्रकी अप्रसन्नताका कारण सुनना चाहता हूँ। जब वृत्रासुरके वधसे सभी देवता सुखी हुए , तब इन्द्रको दुःख होनेका क्या कारण था?॥ ३॥

वीरराघवः

यदुक्तं यच्छक्रेण विना सर्वे लोका विज्वरा निर्वृतेन्द्रियाः अभवन्निति तत्रैन्द्रस्यानिवृतौ देवानां निर्वृतौ च कारणं पृच्छति राजा इन्द्रस्येति । हे महामुने ! इन्द्रस्यानिर्वृतौ हेतुं कारणं श्रोतुमिच्छामि वृत्रवध एवेति चेत्तर्हि तेनैव देवानामप्यनिर्वृतिर्भवेदिदं तु कुतः देवानां निर्वृतिरिन्द्रस्य दुःखमिति पृच्छति - येवेति । येन वृत्रवधरूपेण हेतुना देवाः सुखिनः आसन् तस्मादेव हेतोरिन्द्रेणापि सुखिना भवितव्यं कुतः कस्माद्धेतोर्हरेरिन्द्रस्य दुःखमभूदित्यर्थः ॥ ३ ॥

श्लोक-४

मूलम् (वचनम्)

श्रीशुक3 उवाच

विश्वास-प्रस्तुतिः

वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः।
तद्वधायार्थयन्निन्द्रं नैच्छद् भीतो बृहद्वधात्॥

मूलम्

वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः।
तद्वधायार्थयन्निन्द्रं नैच्छद् भीतो बृहद्वधात्॥ ४ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—परीक्षित्! जब वृत्रासुरके पराक्रमसे सभी देवता और ऋषि-महर्षि अत्यन्त भयभीत हो गये, तब उन लोगोंने उसके वधके लिये इन्द्रसे प्रार्थना की; परन्तु वे ब्रह्महत्याके भयसे उसे मारना नहीं चाहते थे॥ ४॥

वीरराघवः

एवं पृष्टो मुनिरिन्द्रस्यानिर्वृतौ देवानां निर्वृतौ च हेतुं वक्तुन्तावद्वत्रवधोद्योगकालिकं देवानां वृत्तान्तमाह मुनिः । वृत्रेत्यादिना यावदध्यायसमाप्ति । वृत्रस्य पराक्रमेण भीताः सर्वे देवा ऋषिभिस्सह वृत्रवधार्थम् इन्द्रमार्थयन् प्रार्थयन्त परस्मैपदमार्षम् एवं प्रार्थितोपीन्द्रो बृहद्वधाद्ब्रह्मवधात्पूर्वं कृताद्विश्वरूपवधात्करिष्यमाणवृत्रवधाद्वा भीतः सन्नैच्छत् ॥ ४ ॥

श्लोक-५

मूलम् (वचनम्)

इन्द्र उवाच

विश्वास-प्रस्तुतिः

स्त्रीभूजलद्रुमैरेनो विश्वरूपवधोद‍्भवम्।
विभक्तमनुगृह्णद‍्भिर्वृत्रहत्यां क्व मार्ज्म्यहम्॥

मूलम्

स्त्रीभूजलद्रुमैरेनो विश्वरूपवधोद‍्भवम्।
वि4भक्तमनुगृह्णद‍्भिर्वृत्रहत्यां क्व मार्ज्म्यहम्॥ ५ ॥

अनुवाद (हिन्दी)

देवराज इन्द्रने उन लोगोंसे कहा—देवताओ और ऋषियो! मुझे विश्वरूपके वधसे जो ब्रह्महत्या लगी थी, उसे तो स्त्री, पृथ्वी, जल और वृक्षोंने कृपा करके बाँट लिया। अब यदि मैं वृत्रका वध करूँ तो उसकी हत्यासे मेरा छुटकारा कैसे होगा?॥ ५॥

वीरराघवः

एतदिन्द्रोक्तिमुखेन विशदयति स्त्रीति । विश्वरूपवधोद्भवमेनः पापं मामनुगृह्णद्भिः स्त्रीभूमिजलदुमैश्चतुर्भिर्विभक्तं विभज्य गृहीतमधुना वृत्रहत्यां क्व कुत्र मार्ज्मि संशोधयेयं वृत्रहत्योद्भयं पापं क्वावस्थाप्याहं शुद्धो भवेयं न क्वाऽप्यतस्तं न हन्यामित्यर्थः ॥ ५ ॥

श्लोक-६

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन्।
याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः॥

मूलम्

ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन्।
याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः॥ ६ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—देवराज इन्द्रकी बात सुनकर ऋषियोंने उनसे कहा—‘देवराज! तुम्हारा कल्याण हो, तुम तनिक भी भय मत करो। क्योंकि हम अश्वमेध यज्ञ कराकर तुम्हें सारे पापोंसे मुक्त कर देंगे॥ ६॥

वीरराघवः

एवमिन्द्रेणोक्ता ऋषयस्तं प्रत्यूचुरित्याह मुनिः । तदिन्द्रस्य वच उपाकर्ण्य ऋषयो महेन्द्रं प्रतीदं वक्ष्यमाणं वाक्यमब्रुवन् ऋषीणामुक्तिमेवाह - याजयिष्याम इत्यादिना खलनिग्रहेणेत्यंतेन । हयमेधेनाश्चमेधेन यागेन करणेन त्वया कर्त्रा वयं याजयिष्यामः भगवन्तमिति शेषः । त्वं मास्मभैर्भयमाकार्षीः ते तव भद्रमेव भविष्यति ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

हयमेधेन पुरुषं परमात्मानमीश्वरम्।
इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात्॥

मूलम्

हयमेधेन पुरुषं परमात्मानमीश्वरम्।
इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात्॥ ७ ॥

अनुवाद (हिन्दी)

अश्वमेध यज्ञके द्वारा सबके अन्तर्यामी सर्वशक्तिमान् परमात्मा नारायणदेवकी आराधना करके तुम सम्पूर्ण जगत‍्का वध करनेके पापसे भी मुक्त हो सकोगे; फिर वृत्रासुरके वधकी तो बात ही क्या है॥ ७॥

वीरराघवः

नन्वश्वमेधमात्रेण मत्पापं कथं निवर्तिष्यत इति शङ्कमानं प्रत्याहुः - हयमेधेनेति । परमात्मानं लोकत्रयमन्तःप्रविश्य भर्तारमीश्वरं सर्वस्य प्रशासितारं स्वतेजसा दीप्यमानं परमपुरुषं नारायणं हयमेधेनेष्ट्वा आराध्य कृत्स्नजगद्वधनिमित्तादपि पापान्मोक्ष्यसे किमुत वृत्रवधनिमित्तात्पापान्मोक्ष्यस इतीत्यर्थः । “नाम्नोस्य यावती शक्तिः पापनिर्दहने हरेः । तावत्कर्त्तुं न शक्नोति पापकं पातकी नरः ।” इत्युक्तरीत्या स्मरणमात्रमहापातकनिवर्त्तनशीलत्वादिरूपमहामहिमशाल्यनन्तनाम्नो भगवतः साक्षादाराधनेन धर्मप्रतिपक्षवृत्रवधमात्रनिमित्तं पापं न निवर्त्तते किमित्यभिप्रायेण पुरुषं परमात्मानमित्याद्यनेकनाम्नामुपादानम् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

ब्रह्महा पितृहा गोघ्नो मातृहाऽऽचार्यहाघवान्।
श्वादः पुल्कसको वापि शुद्‍ध्येरन् यस्य कीर्तनात्॥

मूलम्

ब्रह्महा पितृहा गोघ्नो मातृहाऽऽचार्यहाघवान्।
श्वादः पुल्कसको वापि शुद्‍ध्येरन् यस्य कीर्तनात्॥ ८ ॥

अनुवाद (हिन्दी)

देवराज! भगवान‍्के नाम-कीर्तनमात्रसे ही ब्राह्मण, पिता, गौ, माता, आचार्य आदिकी हत्या करनेवाले महापापी, कुत्तेका मांस खानेवाले चाण्डाल और कसाई भी शुद्ध हो जाते हैं॥ ८॥

वीरराघवः

एतदेव विशदमाहुः । ब्रह्मेतिद्वाभ्याम् । यस्य भगवतो नाम्नः कीर्त्तनादेवाब्रह्मन्त्रादयः शुध्येरन श्वादः श्वपाकः पुल्कसः पापजातिः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तमश्वमेधेन महामखेन
श्रद्धान्वितोऽस्माभिरनुष्ठितेन।
हत्वापि सब्रह्म चराचरं त्वं
न लिप्यसे किं खलनिग्रहेण॥

मूलम्

तमश्वमेधेन महामखेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन।
हत्वापि सब्रह्म चराचरं त्वं न लिप्यसे किं खलनिग्रहेण॥ ९ ॥

अनुवाद (हिन्दी)

हमलोग ‘अश्वमेध’ नामक महायज्ञका अनुष्ठान करेंगे। उसके द्वारा श्रद्धापूर्वक भगवान‍्की आराधना करके तुम ब्रह्मापर्यन्त समस्त चराचर जगत‍्की हत्याके भी पापसे लिप्त नहीं होगे। फिर इस दुष्टको दण्ड देनेके पापसे छूटनेकी तो बात ही क्या है॥ ९॥

वीरराघवः

तं महामहिमशाल्यनंतनामानं भगवन्तमस्माभिरनुष्ठितेनानुष्ठापितेन अश्वमेधाख्यमहायागेनास्मद्वाक्यमात्रविस्रंभयुक्तस्त्वं ब्रह्मणः शरीरभूतं चराचरात्मकं जगद्धत्वापि पापेन न लिप्यसे किं खलस्य दुरात्मनो वृत्रस्य निग्रहेण वधप्रयुक्तेन पापेन लिप्यसे किं न लिप्यस एवेत्यर्थः ॥ ९ ॥

श्लोक-१०

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम्।
ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम्॥

मूलम्

एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम्।
ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम्॥ १० ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! इस प्रकार ब्राह्मणोंसे प्रेरणा प्राप्त करके देवराज इन्द्रने वृत्रासुरका वध किया था। अब उसके मारे जानेपर ब्रह्महत्या इन्द्रके पास आयी॥ १०॥

वीरराघवः

एवं विप्रैः सञ्चोदितः शक्रस्ततो वृत्रं जघान स च तद्वधनिमित्तेन पापेन दुःखितश्चाभूदित्याह मुनिः - एवमिति । एवं विप्रैः ऋषिभिः सञ्चोदितः प्रेरितः सम्बोधित इति पाठे सम्यग्बोधितः मरुत्वानिन्द्रो रिपुं वृत्रमहनद्धतवान् तस्मिन्वृत्रे हते सति ब्रह्महत्या वृत्रस्य ब्राह्मणत्वाद्ब्रह्महत्येत्युक्तं वृषाकपिमिन्द्रमाससाद अन्ववर्त्तत ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

तयेन्द्रः स्मासहत् तापं निर्वृतिर्नामुमाविशत्।
ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः॥

मूलम्

5तयेन्द्रः स्मासहत् तापं निर्वृतिर्नामुमाविशत्।
ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः॥ ११ ॥

अनुवाद (हिन्दी)

उसके कारण इन्द्रको बड़ा क्लेश, बड़ी जलन सहनी पड़ी। उन्हें एक क्षणके लिये भी चैन नहीं पड़ता था। सच है, जब किसी संकोची सज्जनपर कलंक लग जाता है, तब उसके धैर्य आदि गुण भी उसे सुखी नहीं कर पाते॥ ११॥

वीरराघवः

तया देवादिभिः कारितया ब्रह्महत्यया स्मेत्यवधारणे इन्द्र एव तापमसहदसहत नान्यस्तत अमुम् इन्द्रं निर्वृतिः सुखं नाविशदिन्द्रः सुखी नाभूत्किन्तु दुःखमेव प्रापेत्यर्थः ननु, धैर्यादिगुणयुक्तस्य कुतो न निर्वृतिस्तत्राहह्रीमन्तं लज्जावन्तं वाच्यतां निन्द्यतां प्राप्तं गुणा धैर्यादयो न सुखयन्ति हि । हि शब्देन लोकपरिपाटिः प्रदर्श्यते ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम्।
जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम्॥

मूलम्

तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम्।
जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम्॥ १२ ॥

अनुवाद (हिन्दी)

देवराज इन्द्रने देखा कि ब्रह्महत्या साक्षात् चाण्डालीके समान उनके पीछे-पीछे दौड़ी आ रही है। बुढ़ापेके कारण उसके सारे अंग काँप रहे हैं और क्षयरोग उसे सता रहा है। उसके सारे वस्त्र खूनसे लथपथ हो रहे हैं॥ १२॥

वीरराघवः

एवमिन्द्रस्यानिर्वृतिकारणमभिधायाथ तत्पापनिस्तारप्रकारं वक्ष्यमाणस्तत्पापनिमित्तदुःखानुभवप्रकारमाह - तामिति । ततस्तां हत्याम् इन्द्रो ददर्श कथंभूतामनुसृत्य पृष्ठतो धावन्तीं चाण्डालीमिव तद्वदवस्थितां रूपिणीं मूर्तिभूतां जरया वेपमानानि कम्पमानानि शिरः पाण्याद्यङ्गानि यस्यास्तां यक्ष्मग्रस्तां क्षयरोगव्याप्तामसृक्पटां रजोरक्तवस्त्राम् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम्।
मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम्॥

मूलम्

विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम्।
मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम्॥ १३ ॥

अनुवाद (हिन्दी)

वह अपने सफेद-सफेद बालोंको बिखेरे ‘ठहर जा! ठहर जा!!’ इस प्रकार चिल्लाती आ रही है। उसके श्वासके साथ मछलीकी-सी दुर्गन्ध आ रही है, जिसके कारण मार्ग भी दूषित होता जा रहा है॥ १३॥

वीरराघवः

पलितान्केशान्विकीर्य क्व गच्छसि तिष्ठ तिष्ठेति भाषमाणां मीनत्य मत्स्यस्येव गन्धो यस्य स मीनगन्धिः स चासावसुश्च प्राणवायुः तस्य गन्धेन मार्गदूषणं कुर्वन्तीम् ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते।
प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम्॥

मूलम्

नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते।
प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम्॥ १४ ॥

अनुवाद (हिन्दी)

राजन्! देवराज इन्द्र उसके भयसे दिशाओं और आकाशमें भागते फिरे। अन्तमें कहीं भी शरण न मिलनेके कारण उन्होंने पूर्व और उत्तरके कोनेमें स्थित मानसरोवरमें शीघ्रतासे प्रवेश किया॥ १४॥

वीरराघवः

ततः सहस्राक्षः इन्द्रः नभः सर्वा दिशश्च गतः भ्रमन् क्वापि विश्रान्तिमलभमान इत्यर्थः । प्रागुदीचीम् ऐशानीं दिशं प्राप्य तत्रापि मानसं सरः प्रविष्टः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

स आवसत्पुष्करनालतन्तू-
नलब्धभोगो यदिहाग्निदूतः।
वर्षाणि साहस्रमलक्षितोऽन्तः
स चिन्तयन् ब्रह्मवधाद् विमोक्षम्॥

मूलम्

स आवसत्पुष्करनालतन्तूनलब्धभोगो यदिहाग्निदूतः।
वर्षाणि साहस्रमलक्षितो6ऽन्तः स चिन्तयन् ब्रह्मवधाद् विमोक्षम्॥ १५ ॥

अनुवाद (हिन्दी)

देवराज इन्द्र मानसरोवरके कमलनालके तन्तुओंमें एक हजार वर्षोंतक छिपकर निवास करते रहे और सोचते रहे कि ब्रह्महत्यासे मेरा छुटकारा कैसे होगा। इतने दिनोंतक उन्हें भोजनके लिये किसी प्रकारकी सामग्री न मिल सकी। क्योंकि वे अग्निदेवताके मुखसे भोजन करते हैं और अग्निदेवता जलके भीतर कमलतन्तुओंमें जा नहीं सकते थे॥ १५॥

वीरराघवः

स इन्द्रः पुष्करनालतन्तून्मानससरोवरस्थकमलनालतंतूनावसत्सूक्ष्मरूपेणाश्रित्योवासेत्यर्थः । कथम्भूतः अलब्धो भागो यज्ञीयभागो येन तादृशः कुतः यद्यस्मात्स्वयमग्निदूत अग्निरेव दूतः हविर्भागप्रापको यस्य तादृशः स्वदूतस्याग्नेर्हविर्भागप्रापकस्य जले प्रवेशाभावादलब्धभाग इत्यर्थः । अन्तः पद्मनालस्यान्तः अलक्षितः ब्रह्महत्ययाऽलक्षित अदृष्टः ब्रह्मवधनिमित्तात्पापान्मोक्षं मोक्षोपायं विचिन्तयन् सहस्रं वर्षाण्यवसदित्यन्वयः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

तावत्त्रिणाकं नहुषः शशास
विद्यातपोयोगबलानुभावः।
स सम्पदैश्वर्यमदान्धबुद्धि-
र्नीतस्तिरश्चां गतिमिन्द्रपत्न्या॥

मूलम्

तावत्त्रि7णाकं नहुषः शशास विद्यातपोयोगबलानुभावः।
स सम्पदैश्वर्यमदान्धबुद्धिर्नीतस्तिरश्चां गतिमिन्द्रपत्न्या॥ १६ ॥

अनुवाद (हिन्दी)

जबतक देवराज इन्द्र कमलतन्तुओंमें रहे, तबतक अपनी विद्या, तपस्या और योगबलके प्रभावसे राजा नहुष स्वर्गका शासन करते रहे। परन्तु जब उन्होंने सम्पत्ति और ऐश्वर्यके मदसे अंधे होकर इन्द्रपत्नी शचीके साथ अनाचार करना चाहा, तब शचीने उनसे ऋषियोंका अपराध करवाकर उन्हें शाप दिला दिया—जिससे वे साँप हो गये॥ १६॥

वीरराघवः

यावदिन्द्रः पद्मनालन्तूनावसत्तावन्नहुषो राजा विद्यातपोयोगैर्महाननुभावः इन्द्राधिपत्यप्रापकं सामर्थ्यं तादृशस्त्रिनाकं स्वर्गं शशासेन्द्रलोकाधिपत्यं कृतवानित्यर्थः । अकं दुःखं न विद्यते यस्मित्स नाकः भोगदेशः भौमपातालान्तरिक्षभेदेन त्रिविधाः सुखानुभवदेशाः तत्र तृतीयो नाकः स्वर्लोकः तर्हि तस्मिन्सति कथमिन्द्रस्य पुनः स्वर्गप्राप्तिस्तत्राह - स नहुषः सम्पदैश्वर्याभ्यां भोग्यभोगोपकरणादिसमृद्धीन्द्राधिपत्याभ्यां यो मदस्तेनान्धा विवेकशून्या बुद्धिर्मतिर्यस्य तादृशः इन्द्रपत्न्या शच्या हेतुभूतया तिरश्चां गतिं सर्पयोनिं नीतः प्रापितः अत्रेदमाख्यानमवगन्तव्यं स्वर्गाधिपत्यं कुर्वन्नहुषः कदाचिदिन्द्राणीमुवाच इन्द्रस्तावदहमतस्त्वं मां भजेति । ततस्तयावेदितवृत्तन्तो बृहस्पतिस्तामुवाच इन्द्रवदृषिवाह्यशिविकामारुह्य मद्गृहानागच्छसि चेत्तर्हि त्वां भजिष्यामीति ब्रूहि ततोसौ ब्रह्मशापात्पतिष्यतीति । ततः सा तं तथौवोवाच ततः स नहुषोऽगस्त्यादिऋषीन् बलादानीय स्वेनारूढां शिविकां तैर्वाहयामास तदा स शीघ्रं सर्पसर्पेत्यगस्त्यं पदापस्पर्शं तेन च सर्पो भवेति शप्तो नहुषो महासर्पोऽजगरोभूदिति ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

ततो गतो ब्रह्मगिरोपहूत
ऋतम्भरध्याननिवारिताघः।
पापस्तु दिग्देवतया हतौजा-
स्तं नाभ्यभूदवितं विष्णुपत्न्या॥

मूलम्

ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः।
पापस्तु दिग्देवतया हतौजास्तं नाभ्यभूदवितं विष्णुपत्न्या॥ १७ ॥

अनुवाद (हिन्दी)

तदनन्तर जब सत्यके परम पोषक भगवान‍्का ध्यान करनेसे इन्द्रके पाप नष्टप्राय हो गये, तब ब्राह्मणोंके बुलवानेपर वे पुनः स्वर्गलोकमें गये। कमलवनविहारिणी विष्णुपत्नी लक्ष्मीजी इन्द्रकी रक्षा कर रही थीं और पूर्वोत्तर दिशाके अधिपति रुद्रने पापको पहले ही निस्तेज कर दिया था, जिससे वह इन्द्रपर आक्रमण नहीं कर सका॥ १७॥

वीरराघवः

तत इन्द्रः स्वर्गं गतः प्राप्तः कथम्भूतः ब्रह्मगिरा ब्राह्मणवाक्येन उपहूतः सन् ऋतम्भरः सत्यस्य भर्त्ता श्रीमन्नारायणः तस्य ध्यानेन निवारितमघं ब्रह्महत्यारूपं यस्य तादृशः तमागच्छन्तं दिग्देवतया प्रागुदक्स्थितमानसरोवरस्थपद्मस्थया देवतया विष्णुपत्न्या श्रीमहालक्ष्म्यावितं रक्षितं पद्मतन्तुषु वसन्तम् इन्द्रमत एव हतमोजो बलं यस्य तादृशः पापो ब्रह्मवधः नाभ्यभूत्पद्मस्था लक्ष्मीर्भगवद्ध्यानपरत्वादिन्द्रं पापाद्रक्षेत्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत।
यथावद्दीक्षयाञ्चक्रुः पुरुषाराधनेन ह॥

मूलम्

तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत।
यथावद्दीक्षयाञ्चक्रुः पुरुषाराधनेन ह॥ १८ ॥

अनुवाद (हिन्दी)

परीक्षित्! इन्द्रके स्वर्गमें आ जानेपर ब्रह्मर्षियोंने वहाँ आकर भगवान‍्की आराधनाके लिये इन्द्रको अश्वमेध यज्ञकी दीक्षा दी, उनसे अश्वमेध यज्ञ कराया॥ १८॥

वीरराघवः

अथ हत्यानिस्तारप्रकारमाह - तमित्यादिना विधूतपाप इत्यन्तेन । तमागतम् इन्द्रमृषयोभ्येत्यागत्य हे भारत ! पुरुषाराधनेन परमपुरुषाराधनरूपेण हयमेधेन यथाविधि दीक्षयाञ्चक्रुः हयमेधं कर्तुन्दीक्षितं कृतवन्त इत्यर्थः । हेतिहर्षे खेदे चाहो इन्द्रस्येवंविधावस्थेति ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

अथेज्यमाने पुरुषे सर्वदेवमयात्मनि।
अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः॥

मूलम्

अथेज्यमाने पुरुषे सर्वदेवमयात्मनि।
अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः॥ १९ ॥

वीरराघवः

अथ ब्रह्मवादिभिर्वेदवादिभिर्ऋषिभिरार्त्विज्यङ्गतैर्वितते विस्तृते यथावत् क्रियमाणेऽश्वमेधे इन्द्रेण यजमानेन सर्वदेवतानामन्तरात्मभूते सर्वस्य प्रशासितरि परमपुरुषे इज्यमाने आराध्यमाने सति ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप।
नीतस्तेनैव शून्याय नीहार इव भानुना॥

मूलम्

स वै त्वाष्ट्रवधो भूयानपि पा8पचयो नृप।
नीतस्तेनैव शून्याय नीहार इव भानुना॥ २० ॥

अनुवाद (हिन्दी)

जब वेदवादी ऋषियोंने उनसे अश्वमेध यज्ञ कराया तथा देवराज इन्द्रने उस यज्ञके द्वारा सर्वदेवस्वरूप पुरुषोत्तम भगवान‍्की आराधना की, तब भगवान‍्की आराधनाके प्रभावसे वृत्रासुरके वधकी वह बहुत बड़ी पापराशि इस प्रकार भस्म हो गयी, जैसे सूर्योदयसे कुहरेका नाश हो जाता है॥ १९-२०॥

वीरराघवः

भूयानपि स त्वाष्ट्रवधः वृत्रवधनिमित्तः पापः हे परन्तप ! तेनैवाश्वमेधेन शून्याय नीतः प्रापितः शून्यतां प्राप्त इत्यर्थः । यथा भानुना सूर्येण नीहारः शून्यतां प्राप्यते तद्वत् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

स वाजिमेधेन यथोदितेन
वितायमानेन मरीचिमिश्रैः।
इष्ट्वाधियज्ञं पुरुषं पुराण-
मिन्द्रो महानास विधूतपापः॥

मूलम्

स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः।
इष्ट्वाधियज्ञं पुरुषं पुराणमिन्द्रो महानास विधूतपापः॥ २१ ॥

अनुवाद (हिन्दी)

जब मरीचि आदि मुनीश्वरोंने उनसे विधिपूर्वक अश्वमेध यज्ञ कराया, तब उसके द्वारा सनातन पुरुष यज्ञपति भगवान‍्की आराधना करके इन्द्र सब पापोंसे छूट गये और पूर्ववत् फिर पूजनीय हो गये॥ २१॥

वीरराघवः

मरीचिमिश्रैः मरीचिसहितैः तत्प्रभृतिभिरित्यर्थः । वितायमानेन अनुष्ठीयमानेन यथोक्तेन हयमेधेनाऽधियज्ञं यज्ञेषु प्रधानतया वर्त्तमानं पुराणं पुरुषम् इष्ट्वाराध्य स वै इन्द्रः विधूतं निरस्तं वृत्रहत्या रूपं येन तादृशः महान्निष्प्रतिपक्षः अवाप्तराज्यसम्पञ्चासीत् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

इदं महाख्यानमशेषपाप्मनां
प्रक्षालनं तीर्थपदानुकीर्तनम्।
भक्त्युच्छ्रयं भक्तजनानुवर्णनं
महेन्द्रमोक्षं विजयं मरुत्वतः॥

मूलम्

इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम्।
भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः॥ २२ ॥

अनुवाद (हिन्दी)

परीक्षित्! इस श्रेष्ठ आख्यानमें इन्द्रकी विजय, उनकी पापोंसे मुक्ति और भगवान‍्के प्यारे भक्त वृत्रासुरका वर्णन हुआ है। इसमें तीर्थोंको भी तीर्थ बनानेवाले भगवान‍्के अनुग्रह आदि गुणोंका संकीर्तन है। यह सारे पापोंको धो बहाता है और भक्तिको बढ़ाता है॥ २२॥

वीरराघवः

उक्तं वृत्रवधाख्यानपठनश्रवणादिफलं वदन् तद्विशिनष्टि - इदमिति द्वाभ्याम् । महेन्द्रस्य मोक्षः ब्रह्मवधनिमित्तात्पापान्मोक्षप्रतिपादनं यस्मिन्मरुत्वत इन्द्रस्य विशेषेण जयः तत्प्रतिपादनं यस्मिन् तादृशं तदिदं महाख्यानं गुणवत्तरं तदेवाह अशेषाणां पापानां प्रक्षालनं शोधकं निवर्त्तकं तत्र हेतुस्तीर्थपदस्यानुकीर्त्तनं यस्मिन्तादृशं किञ्च भक्त्युच्छ्रयं भगवद्भक्तेरुच्छ्रयोऽभिवृद्धिर्यस्मात्तथाभूतं तत्र हेतुः भक्तजनानां भगवद्भक्तजनानामनुवर्णनं यस्मिन् तत् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

पठेयुराख्यानमिदं सदा बुधाः
शृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम्।
धन्यं यशस्यं निखिलाघमोचनं
रिपुञ्जयं स्वस्त्ययनं तथाऽऽयुषम्॥

मूलम्

पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्यथो पर्वणि9 पर्वणीन्द्रियम्।
धन्यं यशस्यं निखिलाघ10मोचनं रिपुञ्जयं स्वस्त्ययनं तथाऽऽयुषम्॥ २३ ॥

अनुवाद (हिन्दी)

बुद्धिमान् पुरुषोंको चाहिये कि वे इस इन्द्रसम्बन्धी आख्यानको सदा-सर्वदा पढ़ें और सुनें। विशेषतः पर्वोंके अवसरपर तो अवश्य ही इसका सेवन करें। यह धन और यशको बढ़ाता है, सारे पापोंसे छुड़ाता है, शत्रुपर विजय प्राप्त कराता है, तथा आयु और मंगलकी अभिवृद्धि करता है॥ २३॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रविजयो नाम त्रयोदशोऽध्यायः॥ १३ ॥

वीरराघवः

किञ्चेन्द्रियम् इन्द्रस्य लिङ्गमिन्द्रियम् इन्द्रः प्रत्यगात्मा तस्य लिङ्गं ज्ञापकं तद्याथात्म्यप्रतिपादनयुक्तत्वादस्येति भावः । यद्वा इन्द्रस्येदमिन्द्रियं इन्द्रियमिन्द्रलिङ्गमिति सूत्रे इति करणादर्थांतरेऽपि तन्निपातनाभ्युपगमात् यद्वा इन्द्रियशब्दस्तद्बलसम्पादके उपचाराद्वर्त्तते इन्द्रियवृद्धिकरमित्यर्थः । यद्वा इन्द्रः परमेश्वरः इदि परमैश्वर्ये इति धातुपाठात् तेन जुष्टं प्रीतिविषयत्वेन परिगृहीतं श्रवणादिद्वारा भगवत्प्रीत्यापादकमित्यर्थः । धन्यं धनप्राप्तिसाधनं यशस्करं निखिलानामघानां मोचनं यस्मात्तथाऽशेषपापानां प्रक्षालनमित्यनेन पापविनाशकत्वमुक्तम् अखिलाघमोचनमित्यनेन तु पापाश्लेषकरत्वमुक्तमित्यतो न पौनरूक्त्यं स्वस्त्ययनं मङ्गलावहं तथा आयुष्करं सर्वाण्येतानि फलानि अस्याख्यानस्य श्रवणपठनादिना भवन्ति न स्वरूपेणेत्यतोवश्यमुक्तिफलार्थिभिरेतदाख्यानपठनादिकं कार्यमित्युक्तं पठेयुरित्यर्द्धेन यत इदमुक्तफलमथोऽतो बुधाः सदा पठेयुः पर्वणि पर्वणि प्रतिपर्वं शृण्वन्तु शृणुयुरित्यर्थः ॥ २३ ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां त्रयोदशोऽध्यायः ॥ १३ ॥


  1. प्रा. पा. - बादरायणिरुवाच । ↩︎

  2. प्रा. पा. - नुगाश्च ये । ↩︎

  3. प्रा. पा. - बादरायणिरुवाच । ↩︎

  4. प्राचीने पाठे उत्तरार्थोऽयं मया - “गृहीतं मे महाभागाः कथं श्रेयोऽधुना भवेत्” । ↩︎

  5. प्रा. पा. - अथेन्द्रः । ↩︎

  6. प्रा. पा. - तोऽनिशं । ↩︎

  7. प्रा. पा. - त्त्रिलोकं । ↩︎

  8. प्रा. पा. - पापः क्षयं नृपः । ↩︎

  9. प्रा. पा. — घनाशनं । ↩︎

  10. प्रा. पा. - णि ते तु धन्याः । ↩︎