१२ वृत्रवधः

[द्वादशोऽध्यायः]

भागसूचना

वृत्रासुरका वध

श्लोक-१

मूलम् (वचनम्)

ऋषिरुवाच

विश्वास-प्रस्तुतिः

एवं जिहासुर्नृप देहमाजौ
मृत्युं वरं विजयान्मन्यमानः।
शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं
यथा महापुरुषं कैटभोऽप्सु॥

मूलम्

एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान्मन्यमानः।
शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं यथा महापुरुषं कैटभोऽप्यसु॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! वृत्रासुर रणभूमिमें अपना शरीर छोड़ना चाहता था, क्योंकि उसके विचारसे इन्द्रपर विजय प्राप्त करके स्वर्ग पानेकी अपेक्षा मरकर भगवान‍्को प्राप्त करना श्रेष्ठ था। इसलिये जैसे प्रलयकालीन जलमें कैटभासुर भगवान् विष्णुपर चोट करनेके लिये दौड़ा था, वैसे ही वह भी त्रिशूल उठाकर इन्द्रपर टूट पड़ा॥ १॥

वीरराघवः

एवमभिलषितभगवदेकदास्यो निरयौपमाभिमानविषयैश्वर्यकैवल्यौ जिहासितस्वकलेवरौ वृत्रौ युयुधे इत्याह मुनिः । एवमिति । हे नृप ! स्वकलेबरं हातुमिच्छतुरत एवाजौ युद्धे जयान्मृत्युमेव वरं श्रेष्ठं मन्यमानः शुलं गृहीत्वा सुरेन्द्रं मघवन्तं प्रति अध्यपतत्तदभिमुखमगात् । यथा महापुरुषं भगवन्तं प्रत्यप्सु प्रलयोदके कैटभाख्योऽसुरस्तद्वत् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

ततो युगान्ताग्निकठोरजिह्व-
माविध्य शूलं तरसासुरेन्द्रः।
क्षिप्त्वा महेन्द्राय विनद्य वीरो
हतोऽसि पापेति रुषा जगाद॥

मूलम्

ततो युगान्ताग्निकठोरजिह्वमाविध्य शूलं तरसासुरेन्द्रः।
क्षिप्त्वा महेन्द्राय विनद्य वीरो हतोऽसि पापेति रुषा जगाद॥ २ ॥

अनुवाद (हिन्दी)

वीर वृत्रासुरने प्रलयकालीन अग्निकी लपटोंके समान तीखी नोकोंवाले त्रिशूलको घुमाकर बड़े वेगसे इन्द्रपर चलाया और अत्यन्त क्रोधसे सिंहनाद करके बोला—‘पापी इन्द्र! अब तू बच नहीं सकता’॥ २॥

वीरराघवः

ततोऽसुरेन्द्रो वीरो वृत्रः प्रलयकालवह्निवत्कठोरा दुःसहा जिह्वा शिखा यस्य तच्छूलमाविध्य भ्रामयित्वा क्रोधेन महेन्द्राय क्षिप्त्वा विनद्य सिंहनादं कृत्वा हे पाप ! हतोऽसीति जगाद ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

ख आपतत् तद् विचलद् ग्रहोल्कव-
न्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः।
वज्रेण वज्री शतपर्वणाच्छिनद्
भुजं च तस्योरगराजभोगम्॥

मूलम्

ख आपतत् तद् विचलद् ग्रहोल्कवन्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः।
वज्रेण वज्री शतपर्वणाच्छिनद् भुजं च तस्योरगराजभोगम्॥ ३ ॥

अनुवाद (हिन्दी)

इन्द्रने यह देखकर कि वह भयंकर त्रिशूल ग्रह और उल्काके समान चक्‍कर काटता हुआ आकाशमें आ रहा है, किसी प्रकारकी अधीरता नहीं प्रकट की और उस त्रिशूलके साथ ही वासुकिनागके समान वृत्रासुरकी विशाल भुजा अपने सौ गाँठोंवाले वज्रसे काट डाली॥ ३॥

वीरराघवः

ततो वज्री इन्द्रः खे आकाशे आपतदागच्छद्विचलत्परिभ्रमच्च ग्रहोल्कवत् दुष्प्रेक्ष्यं दुर्निरीक्ष्यं च यच्छूलं ग्रहश्च उल्काश्चेति द्वन्द्वाद्वतिः ग्रहः सूर्यः उल्का अङ्गाराः तच्छूलं तथा तस्य वृत्रस्य उरगराजभोगं वासुकिदेहाकारं भुजं चाजातविक्लवः अनुदिताधैर्यः सन् शतं पर्वाणि यस्य तेन वज्रेणाच्छिनत अद्भुतं यथा भवति तथेति क्रियाविशेषणं शूलविशेषणं भुजविशेषणं वा ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

छिन्नैकबाहुः परिघेण वृत्रः
संरब्ध आसाद्य गृहीतवज्रम्।
हनौ तताडेन्द्रमथामरेभं
वज्रं च हस्तान्न्यपतन्मघोनः॥

मूलम्

छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम्।
हनौ तताडेन्द्रमथामरेभं1 वज्रं च हस्तान्न्यपतन्मघोनः॥ ४ ॥

अनुवाद (हिन्दी)

एक बाँह कट जानेपर वृत्रासुरको बहुत क्रोध हुआ। उसने वज्रधारी इन्द्रके पास जाकर उनकी ठोड़ीमें और गजराज ऐरावतपर परिघसे ऐसा प्रहार किया कि उनके हाथसे वह वज्र गिर पड़ा॥ ४॥

वीरराघवः

ततो वृत्रः छिन्नः एकः बाहुर्यस्य सः अत एव संरब्धः नितरां क्रुद्धः गृहीतवज्रमिन्द्रमासाद्य समीपमागत्य परिघेणायुधविशेषेण तताड । अथामरेभमैरावतं च तताड । एवं ताडितस्य तस्य मघोन इन्द्रस्य हस्ताद्वज्रमायुधं न्यपतद्विगलितमभूत् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

वृत्रस्य कर्मातिमहाद‍्भुतं तत्
सुरासुराश्चारणसिद्धसङ्घाः।
अपूजयंस्तत् पुरुहूतसंकटं
निरीक्ष्य हा हेति विचुक्रुशुर्भृशम्॥

मूलम्

वृत्रस्य कर्मातिमहाद‍्भुतं तत् सुरासुराश्चारणसिद्धसङ्घाः।
अपूजयंस्तत् पुरुहूतसंकटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम्॥ ५ ॥

अनुवाद (हिन्दी)

वृत्रासुरके इस अत्यन्त अलौकिक कार्यको देखकर देवता, असुर, चारण, सिद्धगण आदि सभी प्रशंसा करने लगे। परन्तु इन्द्रका संकट देखकर वे ही लोग बार-बार ‘हाय-हाय!’ कहकर चिल्लाने लगे॥ ५॥

वीरराघवः

तद्वृत्रस्य महदद्भुतं च कर्म निरीक्ष्य सर्वे सुरादयः अपूजयन्नहो एतस्य पराक्रम इति वह्नमन्यन्त । तथा पुरुहूतस्येन्द्रस्य सङ्कटं निरीक्ष्य भृशं हाहेति विचुक्रुशुर्भृशमिति सङ्कटविशेषणं वा ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

इन्द्रो न वज्रं जगृहे विलज्जित-
श्च्युतं स्वहस्तादरिसन्निधौ पुनः।
तमाह वृत्रो हर आत्तवज्रो
जहि स्वशत्रुं न विषादकालः॥

मूलम्

इन्द्रो न वज्रं जगृहे विलज्जितश्च्युतं स्वहस्तादरिसन्निधौ पुनः।
तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः॥ ६ ॥

अनुवाद (हिन्दी)

परीक्षित्! वह वज्र इन्द्रके हाथसे छूटकर वृत्रासुरके पास ही जा पड़ा था। इसलिये लज्जित होकर इन्द्रने उसे फिर नहीं उठाया। तब वृत्रासुरने कहा—‘इन्द्र! तुम वज्र उठाकर अपने शत्रुको मार डालो। यह विषाद करनेका समय नहीं है॥ ६॥

वीरराघवः

तत इन्द्रः स्वहस्ताच्छत्रु सन्निधौ च्युतं वज्रायुधमत एव लज्जितो वज्रं पुनर्न जगृहे न गृहीतवान् । तमगृहीतवज्रमिन्द्रं वृत्र आह बभाषे । उक्तिमेवाह । हर इत्यादिना अमुष्य पराजय इत्यन्तेन । हे हरे ! इन्द्र ! पुनर्गृहीतवज्रस्त्वं स्वशत्रुं मां जहि । अयं विषादकालः शोककालो न भवति ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

युयुत्सतां कुत्रचिदाततायिनां
जयः सदैकत्र न वै परात्मनाम्।
विनैकमुत्पत्तिलयस्थितीश्वरं
सर्वज्ञमाद्यं पुरुषं सनातनम्॥

मूलम्

युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै परात्मनाम्।
विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम्॥ ७ ॥

अनुवाद (हिन्दी)

(देखो—) सर्वज्ञ, सनातन, आदिपुरुष भगवान् ही जगत‍्की उत्पत्ति, स्थिति और प्रलय करनेमें समर्थ हैं। उनके अतिरिक्त देहाभिमानी और युद्धके लिये उत्सुक आततायियोंको सर्वदा जय ही नहीं मिलती। वे कभी जीतते हैं तो कभी हारते हैं॥ ७॥

वीरराघवः

ननु पराजयेन लज्जितोऽहं योद्धुं नोत्सहे तत्राह । युयुत्सतामिति । आततायिनां जिघांसतां योद्धुमिच्छूनां पुंसां सदा सर्वत्र च जयो न वै न भवति । किन्तु कुत्रचिदेव कस्मिंश्चिद्देशे काले एव जयो भवतीत्यर्थः । तत्र हेतुं वदन् पुंसो विशिनष्टि । परात्मनामिति । परः परमपुरुष आत्मान्तः प्रविश्य तत्तत्कर्मानुसारेण नियन्ता येषां कर्मवश्यत्वात् परमपुरुषनियाम्यत्वाञ्च तत्तद्देशकालकर्मानुरूपसुखदुःखादिकालानुभवाय जयापजयावीश्वरकारिताविति न तत्र लज्जाशोकौ कर्तव्यौ इति भावः । सर्वस्य नियन्तुरकर्मवश्यस्य परमपुरुषस्य तु सर्वत्र सर्वदा जय एव भवतीत्याह । विनेति । एकं परमपुरुषं विनान्येषां पुंसां सर्वदा जय एव न भवति परमपुरुषस्य तु भवतीत्यन्वयः । तत्र हेतुं वदस्तं विशिनष्टि । जगदुत्पत्तिस्थितिलयानामीश्वरं कर्त्तारं तदुपयुक्तो गुण उच्यते । सर्वज्ञमिति । अनेन कर्मसङ्कुचितज्ञानजीवव्यावृत्तिः अनेनाकर्मवश्यत्वमप्युक्तं भवति । तत्तज्जीवकर्मानुसारेणोत्पत्त्यादिकर्त्रान्तरविरहादकर्मवश्यत्वाच्च तस्य देशकालनिमित्तकर्मायत्तकर्त्रन्तरप्रयुक्तजयापजयौ न स्तः । किन्तु सर्वदा सर्वत्र जय एवेति भावः । यदि जगदुत्पत्त्यादिकर्त्ता परमपुरुषस्तर्हि किमुपादानकारणं जगतस्तत्राह । आद्यमिति । आदौ भवमाद्यं कारणत्वेनावस्थितमुपादानकारणमपि स एवेति भावः । लोके पटाद्युपादानकारणस्य तन्त्वादेरपि कारणान्तरदर्शनात्कारणस्यापि तस्य कारणान्तरं सम्भाव्येतेत्याशङ्कां निराकुर्वन्विशिनष्टि । सनातनमिति नित्यमित्यर्थः । कार्यं ह्यनित्यं स तु नित्यः कारणान्तररहित इत्यर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे।
द्विजा इव शिचा बद्धाः स काल इह कारणम्॥

मूलम्

लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे।
द्विजा इव शिचा बद्धाः स काल इह कारणम्॥ ८ ॥

अनुवाद (हिन्दी)

ये सब लोक और लोकपाल जालमें फँसे हुए पक्षियोंकी भाँति जिसकी अधीनतामें विवश होकर चेष्टा करते हैं, वह काल ही सबकी जय-पराजयका कारण है॥ ८॥

वीरराघवः

तस्याकर्मवश्यत्वेन यत्स्वातन्त्र्यमुक्तं तदेवोदाहरणमुखेन प्रपञ्चयति । लोका इति । सपालाः पालकैर्ब्रह्मादिभिः सहिताः सर्वे लोकाः विवशाः परमपुरुषवशं गता यस्य परमपुरुषस्य वशे वश इच्छाः “वशकान्तौ” इति धातुपाठात् वशे इच्छायां निमित्तभूतायां श्वसन्ति स्वतन्त्रतस्तदिच्छानिमित्तजीवना इत्यर्थः । तथा च श्रुतिः “को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्” इति यथा शिचा पाशेन बद्धा द्विजाः पक्षिणः बन्धयितुर्वशे श्वसन्ति तद्वत्स एव कालरूप ईश्वरः इह जयापजयादिषु कारणं हेतुभूतः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

ओजः सहो बलं प्राणममृतं मृत्युमेव च।
तमज्ञाय जनो हेतुमात्मानं मन्यते जडम्॥

मूलम्

ओजः सहो बलं प्राणममृतं मृत्युमेव च।
तमज्ञाय जनो हेतुमात्मानं मन्यते जडम्॥ ९ ॥

अनुवाद (हिन्दी)

वही काल मनुष्यके मनोबल, इन्द्रियबल, शरीरबल, प्राण, जीवन और मृत्युके रूपमें स्थित है। मनुष्य उसे न जानकर जड़ शरीरको ही जय-पराजय आदिका कारण समझता है॥ ९॥

वीरराघवः

न केवलं जयापजययोरेव हेतुरपि त्वोजआदीनामपि निर्वाहक इत्याह । ओज इति । ओजः प्रवृत्तिसामर्थ्यं सहो वेगः बलं धारणसामर्थ्यं प्राणो जीवनममृतं मोक्षः मृत्युः संसारः ओजआदीन्प्रति तं परमात्मानं हेतुमज्ञायाविज्ञाय आर्षत्वात्प्रयोगस्यानञ्पूर्वं इति न प्रतिषेधः अतो ल्यप् । परमात्मानमेव ओजआदीनां कारणमज्ञात्वा ओजः केवलं परमात्मा स्वात्मानमेव कारणं मन्यतेऽतो यं जडः अज्ञो जन इत्यर्थः । जडमिति पाठे जडमज्ञः स्वात्मानम् एव कारणं मन्यतेऽयं जन इत्यर्थः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

यथा दारुमयी नारी यथा यन्त्रमयो मृगः।
एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः॥

मूलम्

यथा दारुमयी नारी यथा यन्त्रमयो मृगः।
एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः॥ १० ॥

अनुवाद (हिन्दी)

इन्द्र! जैसे काठकी पुतली और यन्त्रका हरिण नचानेवालेके हाथमें होते हैं, वैसे ही तुम समस्त प्राणियोंको भगवान‍्के अधीन समझो॥ १०॥

वीरराघवः

एवं परमात्मनो जयापजयाद्यभावे हेतुतया सर्वस्य वशित्वं कारणत्वम् ईशितृत्वं चोक्तमथ जीवस्य तद्विपर्ययमाह । यथेति सार्द्धद्वयेन । हे मघवन्प्रभो ! इन्द्र ! विभो ! परमात्मदृष्टयेदं सम्बोधनं दारुमयी दारुणो विकारभूता नारी यन्त्रमयः यन्त्रबलादागतः यन्त्रेण गृहीतो मृग इत्यर्थः । यथा पुरुषतन्त्रः आद्यमप्राणिदृष्टान्ताभिप्रायकम् । द्वितीयं तु प्राणिदृष्टान्ताभिप्रायकमिति वेदितव्यम् । एवं सर्वाणि भूतानीश्वरतन्त्राणीवेश्वरयन्त्राण्येवेश्वरवश्यान्येवेत्यर्थः । वदित्यव्ययमिवकारार्थकं चादेराकृतिगणत्वात् । एवं जीवस्य पारतन्त्र्यमुक्तम् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

पुरुषः प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशयाः।
शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात्॥

मूलम्

पुरुषः प्रकृतिर्व्यक्तमात्मा2 भूतेन्द्रियाशयाः।
शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात्॥ ११ ॥

अनुवाद (हिन्दी)

भगवान‍्के कृपा-प्रसादके बिना पुरुष, प्रकृति, महत्तत्त्व, अहंकार, पंचभूत, इन्द्रियाँ और अन्तःकरण-चतुष्टय—ये कोई भी इस विश्वकी उत्पत्ति आदि करनेमें समर्थ नहीं हो सकते॥ ११॥

वीरराघवः

पुरुषः जीवः प्रकृतिः प्रधानं चित्समष्टि संसृष्टमचेतनं व्यक्तं महत्तत्त्वमात्माहङ्कारः भूतान्याकाशादीनि इन्द्रियाणि ज्ञानकर्मोभयात्मकानि दशेंद्रियाण्याशयोऽतःकरणम् एते यस्य भगवतोऽनुग्रहाद्विना तदनुप्रवेशरूपानुग्रहमन्तरेणास्य विश्वस्य सर्गादौ उत्पत्तिस्थितिलयेषु न शक्नुवन्ति न प्रभवन्ति एषां परमपुरुषकार्यत्वादिति भावः । प्रकृत्यादिग्रहणं दृष्टान्तार्थं यथा प्रकृत्यादयोऽस्य सर्गादौ न शक्नुवन्ति तथा पुरुषश्चतुर्मुखादिजीवोपि तदनुग्रहं विनास्य सर्गादौ न शक्नोति तत्कार्यत्वादित्यर्थः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम्।
भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम्॥

मूलम्

अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम्।
भूतैः सृजति भूतानि ग्रसते तानि तैः3 स्वयम्॥ १२ ॥

अनुवाद (हिन्दी)

जिसे इस बातका पता नहीं है कि भगवान् ही सबका नियन्त्रण करते हैं, वही इस परतन्त्र जीवको स्वतन्त्र कर्ता-भोक्ता मान बैठता है। वस्तुतः स्वयं भगवान् ही प्राणियोंके द्वारा प्राणियोंकी रचना और उन्हींके द्वारा उनका संहार करते हैं॥ १२॥

वीरराघवः

एवं कार्यत्वमुक्तमथानीशत्वमाह । अविद्वानिति । इमं परमपुरुषायत्तोत्पत्त्यादिमन्तं तत्परतन्त्रमत एवानीश्वरमात्मानमविद्वानजानन्नीश्वरं मन्यते स्वात्मानमीश्वरं मन्यते जन इति शेषः “पुरुषः प्रकृतिर्व्यक्तम्” इति व्यष्टिसृष्ट्यादौ परमपुरुषस्य प्रयोजकत्वं प्रकृत्यादीनां तत्कार्याणां प्रयोज्यकर्तृत्वं चोक्तं तदेव प्रपञ्चयति । भूतैरित्यर्द्धेन । स्वयमात्मनाप्रयोजककर्त्रा स्वेनेत्यर्थः । भूतैः पृथिव्यादिभिः स्वानुग्रहीतैः भूतगृहीतैः भूतग्रहणं प्रकृत्यादीनामप्युपलक्षणं प्रकृत्यादिभिः स्वानुप्रवेशाहितशक्तिभिः भूतानि देवमनुष्यादिव्यष्टिभूतानि सृजति तथा तैरेव भूतानि ग्रसते च व्यष्टिसृष्टेः सद्वारकत्वकथनेन समष्टिसृष्टेरद्वारकर्तेति सूचितम् “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत्” इति श्रुत्यर्थोत्रानुसन्धेयः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः।
भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः॥

मूलम्

आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः।
भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः॥ १३ ॥

अनुवाद (हिन्दी)

जिस प्रकार इच्छा न होनेपर भी समय विपरीत होनेसे मनुष्यको मृत्यु और अपयश आदि प्राप्त होते हैं—वैसे ही समयकी अनुकूलता होनेपर इच्छा न होनेपर भी उसे आयु, लक्ष्मी, यश और ऐश्वर्य आदि भोग भी मिल जाते हैं॥ १३॥

वीरराघवः

अस्त्वेवं तथापि पराजितोहं पुनरात्मनो न जयं सम्भावयामीत्यत्राह । आयुरिति । हि यस्मादीश्वरायत्ता स्वस्वकर्मानुगुणदेवमनुष्यादिसृष्टिस्तस्मादायुरादयोपि तदायत्तानि यतः देशकालपरिणामकर्मानुगुणाः पुरुषस्य या आशिषस्ता सर्वास्तत्काले उचितकाले तत्तत्कर्मफलानुभवदशायामित्यर्थः । भवन्त्येव तत्र दृष्टान्तः । यथेति यथाऽनिच्छोः मरणदारिद्र्यादिकमनिच्छोरपि पुंसः तद्विपर्ययाः आयुरादिविपर्ययाः मरणदारिद्र्यापकीर्तिप्रभृतयोपि भवन्ति तथा आयुरादयोपीत्यर्थः । तत्रायुर्जीवनं श्रीः सम्पत् ऐश्वर्यं प्रभुत्वं यद्वैश्वर्यं सम्पत् श्रीस्तेजः भगवत्सहायस्य तेऽधुना आयुरादयो भवेयुरेवेति भावः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तस्मादकीर्तियशसोर्जयापजययोरपि।
समः स्यात् सुखदुःखाभ्यां मृत्युजीवितयोस्तथा॥

मूलम्

तस्मादकीर्तियशसोर्जयापजययोरपि।
समः स्यात् सुखदुःखाभ्यां मृत्युजीवितयोस्तथा॥ १४ ॥

अनुवाद (हिन्दी)

इसलिये यश-अपयश, जय-पराजय, सुख-दुःख, जीवन-मरण—इनमेंसे किसी एककी इच्छा-अनिच्छा न रखकर सभी परिस्थितियोंमें समभावसे रहना चाहिये—हर्ष-शोकके वशीभूत नहीं होना चाहिये॥ १४॥

वीरराघवः

यत एव सर्वमीश्वरायत्तं कर्मानुगुणं चात एव न विक्रियेत विवेकीत्याह । तस्मादिति । यस्मात्सर्वमायुरादिकम् ईश्वरायत्तं कर्मानुगुणं विपर्ययवद्भवति तस्माद्विवेकी कीर्त्यकीर्त्योर्जयपराजययोस्तथामरणजीवनयोश्च निमित्तयोर्ये सुखदुःखे ताभ्यां कीर्त्यादिनिमित्तसुखादिना विकारं न प्राप्नुयादित्यर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः।
तत्र साक्षिणमात्मानं यो वेद न स बध्यते॥

मूलम्

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः।
तत्र साक्षिणमात्मानं यो वेद न स बध्यते॥ १५ ॥

अनुवाद (हिन्दी)

सत्त्व, रज और तम—ये तीनों गुण प्रकृतिके हैं, आत्माके नहीं; अतः जो पुरुष आत्माको उनका साक्षीमात्र जानता है, वह उनके गुण-दोषसे लिप्त नहीं होता॥ १५॥

वीरराघवः

किञ्च भगवदुक्तरीत्या मदुक्तरीत्या च मुक्तेरेव निरतिशयपुरुषार्थत्वादनभिसंहितफलसङ्गकर्तृकस्य युद्धादिकर्मण आयुराद्यानुषङ्गिकफलप्रापणद्वारा तत्साधनत्वाञ्चोक्तविधयुद्धकर्म कुर्वन्देहावसाने मुक्तोपि भवतीत्याह । सत्वमिति । सत्वादयो गुणाः नात्मनः जीवस्य किन्तु प्रकृतेरेव गुणा इति निर्विवादं तत्र सत्वादिगुणपरिणामरूपे देहे स्थितम् आत्मानं यः पुमान्साक्षिणं दृष्टारं मन्यते तत्कर्तृत्वं देहगतं मत्वा आत्मानं कर्त्तारं मन्यत इत्यर्थः । स तु न बध्यते किन्तु संसारबन्धान्मुच्यत इति भावः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

पश्य मां निर्जितं शक्र वृक्णायुधभुजं मृधे।
घटमानं यथाशक्ति तव प्राणजिहीर्षया॥

मूलम्

पश्य मां निर्जितं शक्र वृक्णायुधभुजं मृधे।
घटमानं यथाशक्ति तव प्राणजिहीर्षया॥ १६ ॥

अनुवाद (हिन्दी)

देवराज इन्द्र! मुझे भी तो देखो; तुमने मेरा हाथ और शस्त्र काटकर एक प्रकारसे मुझे परास्त कर दिया है, फिर भी मैं तुम्हारे प्राण लेनेके लिये यथाशक्ति प्रयत्न कर ही रहा हूँ॥ १६॥

वीरराघवः

अस्मिन्नर्थे मामेव दृष्टान्तभूतं पश्येत्याह । पश्येति । हे शक्र ! मृधे युधे वृक्णं छिन्नमायुधं त्रिशूलं भुजश्च यस्य तं निर्जितं पराजितमपि पुनस्तव प्राणान्हर्तुमिच्छया यथाशक्तिं घटमानं यतमानं युयुत्सुं मां पश्य ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः।
अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः॥

मूलम्

प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः।
अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः॥ १७ ॥

अनुवाद (हिन्दी)

यह युद्ध क्या है, एक जूएका खेल। इसमें प्राणकी बाजी लगती है, बाणोंके पासे डाले जाते हैं और वाहन ही चौसर हैं। इसमें पहलेसे यह बात नहीं मालूम होती कि कौन जीतेगा और कौन हारेगा॥ १७॥

वीरराघवः

यदि नूनं मम जयो भवेत्तर्हि योत्स्यामीत्याशङ्कमानं प्रवदन्समरं द्यूतत्वेन रूपयति । प्राणग्लह इति । गृह्यत इति ग्लहः जितेन गृह्यमाणः पणः प्राण एवं ग्लहो यस्मिन् वाहनानि हस्त्यश्वरथादीन्येवासनानि अस्यन्ते क्षिप्यन्ते इतस्ततश्चाल्यंत इत्यासनानि फलका यस्मिन्निषवः शरा एवाक्षाः देवनाक्षा यस्मिन्सोयं द्यूतसदृशः संग्रामः अत्र द्यूततुल्ये संग्रामे कस्य जयः कस्य वा पराजय इति न ज्ञायते द्यूत इव जयपराजयौ तावद्दुर्ज्ञेयौ इत्यर्थः । इत्थं तु लोकदृष्ट्योक्तं मयो नूनं भगवत्सहायस्य तव जय एव निश्चित इति भावः ॥ १७ ॥

श्लोक-१८

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत्।
गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः॥

मूलम्

इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत्।
गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः॥ १८ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! वृत्रासुरके ये सत्य एवं निष्कपट वचन सुनकर इन्द्रने उनका आदर किया और अपना वज्र उठा लिया। इसके बाद बिना किसी प्रकारका आश्चर्य किये मुसकराते हुए वे कहने लगे—॥ १८॥

वीरराघवः

एवं तत्त्वकथनेन युद्धाय प्रोत्साहितः उपात्तवज्रः शक्रः तमाहेत्याह मुनिः । इन्द्र इति । गतालीकं निष्कपटं वृत्रस्य वचः श्रुत्वाऽपूजयद्बह्वमन्यत स्वीकृतवज्रायुधः शक्रो विगतस्मयः ज्ञानिनामियं रीतिरित्याश्चर्यरहितः प्रहसन् सावधानं स्ववचः समाकर्णनाय प्रहसंस्तं वृत्रमुवाच ॥ १८ ॥

श्लोक-१९

मूलम् (वचनम्)

इन्द्र उवाच

विश्वास-प्रस्तुतिः

अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी।
भक्तः सर्वात्मनाऽऽत्मानं सुहृदं जगदीश्वरम्॥

मूलम्

अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी।
भक्तः सर्वात्मनाऽऽत्मानं सुहृदं जगदीश्वरम्॥ १९ ॥

अनुवाद (हिन्दी)

देवराज इन्द्रने कहा—अहो दानवराज! सचमुच तुम सिद्ध पुरुष हो। तभी तो तुम्हारा धैर्य, निश्चय और भगवद‍्भाव इतना विलक्षण है। तुमने समस्त प्राणियोंके सुहृद् आत्मस्वरूप जगदीश्वरकी अनन्यभावसे भक्ति की है॥ १९॥

वीरराघवः

उक्तमेवाह । अहो इत्यादिना स्वातकोदकैरित्यन्तेन । हे दानव, त्वं सिद्धोसि कृतकृत्योसि सिद्धोहम् इति कथं त्वया ज्ञातस्तत्राह । यस्य ते तव ईदृशी मतिर्वर्त्तते किञ्च सिद्धत्वापादिकानन्या भगवद्भक्तिरेव सा च तवास्तीत्याह । भक्त इति । त्वं सर्वात्मनोपायोपेयादिभावेन जगदीश्वरमन्तरात्मानमत एव सुहृदं निरतिशयप्रियं भगवन्तं भक्त आर्षत्वार्त्कतरि क्तः सेवितवान् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम्।
यद् विहायासुरं भावं महापुरुषतां गतः॥

मूलम्

भवानतार्षी4न्मायां वै वैष्णवीं जनमोहिनीम्।
यद् विहायासुरं भावं महापुरुषतां गतः॥ २० ॥

अनुवाद (हिन्दी)

अवश्य ही तुम लोगोंको मोहित करनेवाली भगवान‍्की मायाको पार कर गये हो। तभी तो तुम असुरोचित भाव छोड़कर महापुरुष हो गये हो॥ २०॥

वीरराघवः

किञ्च जनान्मोहयतीति तथा तां वैष्णवीं मायां भवानतार्षीः कुतः यद्यस्माद्भवानासुरं भावं तामसत्वं विहाय महापुरुषतां श्रेष्ठपुरुषतां सत्वोत्तरपुरुषताम् इति यावत् गतः प्राप्तवानसि ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

खल्विदं महदाश्चर्यं यद् रजःप्रकृतेस्तव।
वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः॥

मूलम्

खल्विदं महदाश्चर्यं यद् रजःप्रकृतेस्तव।
वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः॥ २१ ॥

अनुवाद (हिन्दी)

अवश्य ही यह बड़े आश्चर्यकी बात है कि तुम रजोगुणी प्रकृतिके हो तो भी विशुद्ध सत्त्वस्वरूप भगवान् वासुदेवमें तुम्हारी बुद्धि दृढ़तासे लगी हुई है॥ २१॥

वीरराघवः

किञ्चेदं महदाश्चर्यं खलु किं तत् यद्रजः प्रकृतेः राजसस्वभावस्य तव सर्वात्मनि षाड्गुण्यपूर्णे वासुदेवे निश्चयमतिरिवस्थितेति यत् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे।
विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः॥

मूलम्

यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे।
विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः॥ २२ ॥

अनुवाद (हिन्दी)

जो परम कल्याणके स्वामी भगवान् श्रीहरिके चरणोंमें प्रेममय भक्तिभाव रखता है, उसे जगत‍्के भोगोंकी क्या आवश्यकता है। जो अमृतके समुद्रमें विहार कर रहा है, उसे क्षुद्र गड्ढोंके जलसे प्रयोजन ही क्या हो सकता है॥ २२॥

वीरराघवः

अत एव न तवैश्वर्यकैवल्यादिषु मतिरित्याह - यस्येति । निःश्रेयसेश्वरे मोक्षाधिपतौ आश्रितानां संसृतिबन्धहारिणि भगवति यस्य पुंसो भक्तितस्य अमृताम्भोधौ ब्रह्मानन्दसमुद्रे विक्रीडतः विहरतः पुंसः क्षुद्रैरल्पैः खातकोदकैर्गर्तोदकतुल्यैरैश्वर्यकैवल्यादिसुखैः किं तानि तव तुच्छानीति भावः ॥ २२ ॥

श्लोक-२३

मूलम् (वचनम्)

श्रीशुक5 उवाच

विश्वास-प्रस्तुतिः

इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप।
युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती॥

मूलम्

इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप।
युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती॥ २३ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! इस प्रकार योद्धाओंमें श्रेष्ठ महापराक्रमी देवराज इन्द्र और वृत्रासुर धर्मका तत्त्व जाननेकी अभिलाषासे एक-दूसरेके साथ बातचीत करते हुए आपसमें युद्ध करने लगे॥ २३॥

वीरराघवः

एवं परस्परं ब्रुवाणौ इन्द्रवृत्रौ युयुधाते इत्याह मुनिः इतीति । इतीत्थं धर्मजिज्ञासया भगवद्धर्मविचारेण तत्पूर्वमित्यर्थः । एवं ब्रुवाणौ भाषमाणौ युधां योधृृणां पती मुख्यौ अपारवीर्यौ इन्द्रवृत्रौ हे नृप ! युयुधाते युद्धङकृतवन्तौ ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः।
इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष॥

मूलम्

आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः।
इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष॥ २४ ॥

अनुवाद (हिन्दी)

राजन्! अब शत्रुसूदन वृत्रासुरने बायें हाथसे फौलादका बना हुआ एक बहुत भयावना परिघ उठाकर आकाशमें घुमाया और उससे इन्द्रपर प्रहार किया॥ २४॥

वीरराघवः

तदेवाह आविध्येति । अरिन्दमो वृत्रः कार्ष्णायसं कृष्णलोहमयं घोरं परिघं वामहस्तेनाविध्य भ्रामयित्वा इन्द्राय प्राहिणोत् प्रचिक्षेप हे मारिष श्रेष्ठ राजन् ! ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

स तु वृत्रस्य परिघं करं च करभोपमम्।
चिच्छेद युगपद् देवो वज्रेण शतपर्वणा॥

मूलम्

स तु वृत्रस्य परिघं करं च करभोपमम्।
चिच्छेद युगपद् देवो वज्रेण शतपर्वणा॥ २५ ॥

अनुवाद (हिन्दी)

किन्तु देवराज इन्द्रने वृत्रासुरका वह परिघ तथा हाथीकी सूँडके समान लंबी भुजा अपने सौ गाँठोंवाले वज्रसे एक साथ ही काट गिरायी॥ २५॥

वीरराघवः

स देवः इन्द्रस्तु वृत्रस्य परिघं करभोपमं दिग्गजशुण्डातुल्यं करं वामहस्तं च युगपदेव शतपर्वणा वज्रेण चिच्छेद छिन्नवान् ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः।
छिन्नपक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः॥

मूलम्

दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः।
छिन्नपक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः॥ २६ ॥

अनुवाद (हिन्दी)

जड़से दोनों भुजाओंके कट जानेपर वृत्रासुरके बायें और दायें दोनों कंधोंसे खूनकी धारा बहने लगी। उस समय वह ऐसा जान पड़ा, मानो इन्द्रके वज्रकी चोटसे पंख कट जानेपर कोई पर्वत ही आकाशसे गिरा हो॥ २६॥

वीरराघवः

उत्कृत्तं छिन्नं मूलं ययोस्ताभ्यां बाहुभ्यां रक्तं स्रवतीति रक्तस्रवोऽसुरो वृत्रः बभौ रराज यथा गोत्रो गिरिर्वत्रिणेन्द्रेण छिन्नौ पक्षौ यस्य तादृशः खादाकाशाद्धष्टो गलितो हतस्सन् भाति तद्वत् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम्।
नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया॥

मूलम्

कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम्।
नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम्।
अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन्॥

मूलम्

दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम्।
अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन्॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

गिरिराट् पादचारीव पद‍्भ्यां निर्जरयन् महीम्।
जग्रास स समासाद्य वज्रिणं सहवाहनम्॥

मूलम्

गिरिराट् पादचारीव पद‍्भ्यां निर्जरयन् महीम्।
जग्रास स समासाद्य वज्रिणं सहवाहनम्॥ २९ ॥

वीरराघवः

स दैत्यो वृत्रः अधरां भूमौ उत्तरां हनुं दिवि कृत्वा निधाय नभोवद्गम्भीरेण वक्त्रेण लेलिहस्सर्पः पुनः पुनरतिशये न वा लेढि लेलिहः यङ्लुगन्तात्पचाद्यच् तद्वदुल्बणया क्रूरया जिह्वया सवाहनमैरावतसहितं वज्रिणं इन्द्रमासाद्य प्राप्य जग्रास निगीर्णवान् कथंभूतस्सन् कालकल्पाभिर्मृत्युतुल्याभिर्द्रंष्टाभिर्जगत्त्रयं प्रसन्निवातिमात्रोच्छ्रितो महादेहो यस्यात एव तरसा बलेन गिरीनाक्षिपन् इतस्ततश्चालयन् पादचारी पर्वतराडिव पद्भ्यां महीं निर्दरयंश्चूर्णयन् पद्भ्यां गिरीनाक्षिपन्महीं निर्दरयंश्चेति वान्वयः महाप्राणो महाबलः महावीर्योतिप्रभावस्सर्पो द्विपं गजमिव जग्रासेति दृष्टान्तीभूतः ॥ २७-२९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

महाप्राणो महावीर्यो महासर्प इव द्विपम्।
वृत्रग्रस्तं तमालक्ष्य सप्रजापतयः सुराः।
हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः॥

मूलम्

महाप्राणो महावीर्यो महासर्प इव द्विपम्।
वृत्रग्रस्तं 6तमालक्ष्य सप्रजापतयः सुराः।
हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः॥ ३० ॥

अनुवाद (हिन्दी)

अब पैरोंसे चलने-फिरनेवाले पर्वतराजके समान अत्यन्त दीर्घकाय वृत्रासुरने अपनी ठोड़ीको धरतीसे और ऊपरके होठको स्वर्गसे लगाया तथा आकाशके समान गहरे मुँह, साँपके समान भयावनी जीभ एवं मृत्युके समान कराल दाढ़ोंसे मानो त्रिलोकीको निगलता, अपने पैरोंकी चोटसे पृथ्वीको रौंदता और प्रबल वेगसे पर्वतोंको उलटता-पलटता वह इन्द्रके पास आया और उन्हें उनके वाहन ऐरावत हाथीके सहित इस प्रकार लील गया, जैसे कोई परम पराक्रमी और अत्यन्त बलवान् अजगर हाथीको निगल जाय। प्रजापतियों और महर्षियोंके साथ देवताओंने जब देखा कि वृत्रासुर इन्द्रको निगल गया, तब तो वे अत्यन्त दुःखी हो गये तथा ‘हाय-हाय! बड़ा अनर्थ हो गया।’ यों कहकर विलाप करने लगे॥ २७-३०॥

श्लोक-३१

विश्वास-प्रस्तुतिः

निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः।
महापुरुषसन्नद्धो योगमायाबलेन च॥

मूलम्

निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः।
महापुरुषसन्नद्धो योगमायाबलेन च॥ ३१ ॥

अनुवाद (हिन्दी)

बल दैत्यका संहार करनेवाले देवराज इन्द्रने महापुरुष-विद्या (नारायणकवच)-से अपनेको सुरक्षित कर रखा था और उनके पास योगमायाका बल था ही। इसलिये वृत्रासुरके निगल लेनेपर—उसके पेटमें पहुँचकर भी वे मरे नहीं॥ ३१॥

वीरराघवः

वृत्रेण ग्रस्तं तमिन्द्रमालक्ष्य दृष्ट्वा ब्रह्मादिभिर्महर्षिभिश्च सहिताः सर्वे सुराः हा अद्येन्द्रस्य कष्टं प्राप्तम् इति निर्विण्णाश्चिन्ताक्रान्ताश्चुक्रुशुः असुरेन्द्रेण वृत्रेण निगीर्णोपीन्द्रो न ममार न मृतः किन्तूदरं प्रविष्टो महापुरुषेण भगवता सन्नद्धो रक्षितः महापुरुषेण नारायणकवचात्मकेन सन्नद्धो दंशितो वा भगवन्मायाबलेन योगमायाबलोपबृंहितेनेत्यर्थः ॥ ३०-३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभुः।
उच्चकर्त शिरः शत्रोर्गिरिशृङ्गमिवौजसा॥

मूलम्

भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभुः।
उच्चकर्त शिरः शत्रोर्गिरिशृङ्गमिवौजसा॥ ३२ ॥

अनुवाद (हिन्दी)

उन्होंने अपने वज्रसे उसकी कोख फाड़ डाली और उसके पेटसे निकलकर बड़े वेगसे उसका पर्वत-शिखरके समान उँचा सिर काट डाला॥ ३२॥

वीरराघवः

वज्रेण तस्य वृत्रस्य कुक्षिं भित्वा विभुः बलभिदिन्द्रः कुक्षेः बहिर्निर्गत्य शत्रोर्वृत्रस्य शिरः पर्वतस्य शृङ्गमिव उच्चकर्त चिच्छेद ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

वज्रस्तु तत्कन्धरमाशुवेगः
कृन्तन् समन्तात् परिवर्तमानः।
न्यपातयत् तावदहर्गणेन
यो ज्योतिषामयने वार्त्रहत्ये॥

मूलम्

वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन् समन्तात् परिवर्तमानः।
न्यपातयत् तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये॥ ३३ ॥

अनुवाद (हिन्दी)

सूर्यादि ग्रहोंकी उत्तरायण-दक्षिणायनरूप गतिमें जितना समय लगता है, उतने दिनोंमें अर्थात् एक वर्षमें वृत्रवधका योग उपस्थित होनेपर घूमते हुए उस तीव्र वेगशाली वज्रने उसकी गरदनको सब ओरसे काटकर भूमिपर गिरा दिया॥ ३३॥

वीरराघवः

अतिविपुलां वृत्रस्य कन्धरां कियता कालेन चिच्छेदेत्यत्राह वज्रस्त्विति आशुवेगस्तीक्ष्णधारो वज्रो वज्रायुधं तस्य वृत्रस्य कन्धरं कण्ठं पुंस्त्वमार्षं समन्तात्कन्धरायाः अभितः परिवर्त्तमानः कृन्तन् छिन्दन् वार्त्रहत्ये वृत्रहत्यासम्बन्धिनि ज्योतिषामयने संवत्सरे योऽन्हां षष्ठ्युत्तरत्रिशतसंख्याकानां गणः तेन तावता कालेनेत्यर्थः । न्यपातयच्चिरो भूमौ पातितवानित्यर्थः । ज्योतिषां सूर्यादीनामयनं दक्षिणोत्तरगतिः तदात्मके संवत्सर इत्यर्थः । वार्त्रहत्ये इत्यनेन कार्त्स्न्येन संवत्सरसम्बधित्वं वृत्रहत्यायाः सूचितम् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तदा च खे दुन्दुभयो विनेदु-
र्गन्धर्वसिद्धाः समहर्षिसङ्घाः।
वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना
मन्त्रैर्मुदा कुसुमैरभ्यवर्षन्॥

मूलम्

तदा च खे दुन्दुभयो विनेदुर्गन्धर्वसिद्धाः समहर्षिसङ्घाः।
वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन्॥ ३४ ॥

अनुवाद (हिन्दी)

उस समय आकाशमें दुन्दुभियाँ बजने लगीं। महर्षियोंके साथ गन्धर्व, सिद्ध आदि वृत्रघाती इन्द्रका पराक्रम सूचित करनेवाले मन्त्रोंसे उनकी स्तुति करके बड़े आनन्दके साथ उनपर पुष्पोंकी वर्षा करने लगे॥ ३४॥

वीरराघवः

तदा वृत्रशिरश्छेदनानन्तरं खे दिवि देवदुन्दुभयो दध्वनुः महर्षीणां सङ्घैः सहिता गन्धर्वास्सिद्धाश्च वार्त्रघ्नलिङ्गैः वृत्रहंतुरिन्द्रस्य प्रकाशकैर्मन्त्रैस्तं इद्रमभिष्टुवन्तः मुदा हर्षेण कुसुमैरभ्यवर्षन् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम।
पश्यतां सर्वलोकानामलोकं समपद्यत॥

मूलम्

वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम।
पश्यतां सर्वलोकानामलोकं समपद्यत॥ ३५ ॥

अनुवाद (हिन्दी)

शत्रुदमन परीक्षित्! उस समय वृत्रासुरके शरीरसे उसकी आत्मज्योति बाहर निकली और इन्द्र आदि सब लोगोंके देखते-देखते सर्वलोकातीत भगवान‍्के स्वरूपमें लीन हो गयी॥ ३५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रवधो नाम द्वादशोऽध्यायः॥ १२ ॥

वीरराघवः

हेऽरिन्दम ! वृन्त्रस्य देहान्निर्गतमात्मज्योतिः ज्योतिरूपः स्वप्रकाशरूप आत्मा सर्वलोकानां पश्यतां सताम् अलोकं प्राकृतलोकविलक्षणं श्रीवैकुण्ठं समपद्यत स्वं लोकमिति पाठे मुक्तानां स्वतः प्राप्तं स्थानमित्यर्थः ॥ ३५ ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां द्वादशोऽध्यायः ॥ १२ ॥


  1. प्रा. पा. - रेशं वज्रश्च हस्तादपत । ↩︎

  2. प्रा. पा. - त्मभू । ↩︎

  3. प्रा. पा. - वै । ↩︎

  4. प्रा. पा. - र्षोद्यन्मायां वैष्णवीं । ↩︎

  5. प्रा. पा. - बादरायणिरुवाच । ↩︎

  6. प्रा. पा. - समालक्ष्य । ↩︎