११ वृत्रस्येन्द्रोपदेशः

[एकादशोऽध्यायः]

भागसूचना

वृत्रासुरकी वीरवाणी और भगवत्प्राप्ति

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

त एवं शंसतो धर्मं वचः पत्युरचेतसः।
नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप॥

मूलम्

त एवं शंसतो धर्मं वचः पत्युरचेतसः।
नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! असुरसेना भयभीत होकर भाग रही थी। उसके सैनिक इतने अचेत हो रहे थे कि उन्होंने अपने स्वामीके धर्मानुकूल वचनोंपर भी ध्यान न दिया॥ १॥

वीरराघवः

एवं वृत्रेण प्रतिबोधितानपि पलायमानानसुरान् वीक्ष्य स वृत्रस्तान्निवार्य युयुत्सुरिन्द्रं प्रत्युवाचेत्याह मुनिः । त इति । एवं हे नृप ! पत्युर्वृत्रस्य धर्म्यं धर्मादनपेतं वचः शंसतः कथयतः सतोऽपि भीताः । अत एव पलायनासक्ताः अत एवाचेतसोऽतिभयेन युद्धानासक्तचितास्ते असुराः नैवागृह्णन् पत्युर्वचो नाभ्यनन्दन् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

विशीर्यमाणां पृतनामासुरीमसुरर्षभः।
कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत्॥

मूलम्

विशीर्यमाणां पृतनामासुरीमसुरर्षभः।
कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत्॥ २ ॥

अनुवाद (हिन्दी)

वृत्रासुरने देखा कि समयकी अनुकूलताके कारण देवतालोग असुरोंकी सेनाको खदेड़ रहे हैं और वह इस प्रकार छिन्न-भिन्न हो रही है, मानो बिना नायककी हो॥ २॥

वीरराघवः

ततोऽसुरर्षभो वृत्रः कालोऽनुकुलो येषां तैस्त्रिदशैर्देवैर्विशीर्यमाणां विशेषेण पीड्यमानामत एवानाथवत् काल्यमानां विद्राव्यमाणामासुरीं पृतनाम् सेनाम् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

दृष्ट्वातप्यत संक्रुद्ध इन्द्रशत्रुरमर्षितः।
तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह॥

मूलम्

दृष्ट्वातप्यत संक्रुद्ध इन्द्रशत्रुरमर्षितः।
1तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह॥ ३ ॥

अनुवाद (हिन्दी)

राजन्! यह देखकर वृत्रासुर असहिष्णुता और क्रोधके मारे तिलमिला उठा। उसने बलपूर्वक देवसेनाको आगे बढ़नेसे रोक दिया और उन्हें डाँटकर ललकारते हुए कहा—॥ ३॥

वीरराघवः

दृष्ट्वामर्षितोऽसहमानः संक्रुद्धः नितरां क्रुद्धः हे राजन् ! तां पृतनामोजसा स्वबलेन निवार्य निर्भर्त्स्य चेदं वक्ष्यमाणं देवान् प्रत्युवाच ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

किं व उच्चरितैर्मातुर्धावद‍्भिः पृष्ठतो हतैः।
न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम्॥

मूलम्

किं व उच्चरितैर्मातुर्धावद‍्भिः पृष्ठतो हतैः।
न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम्॥ ४ ॥

अनुवाद (हिन्दी)

‘क्षुद्र देवताओ! रणभूमिमें पीठ दिखानेवाले कायर असुरोंपर पीछेसे प्रहार करनेमें क्या लाभ है। ये लोग तो अपने माँ-बापके मल-मूत्र हैं। परन्तु अपनेको शूरवीर माननेवाले तुम्हारे-जैसे पुरुषोंके लिये भी तो डरपोकोंको मारना कोई प्रशंसाकी बात नहीं है और न इससे तुम्हें स्वर्ग ही मिल सकता है॥ ४॥

वीरराघवः

तदेवाह द्वाभ्याम् । मातुः स्वस्य जनन्या उच्चरितैः पुरीषप्रायैरसुरैः प्रथमान्तपाठे देवानां सम्बोधनम् । धावद्भिः पलायमानैरपि पृष्ठतो हतैर्हन्यमानैरसुरैः किं प्रयोजनम् । न तद्वधेन यशो न स्वर्गश्चेति भावः । तदेवाह । न हीति । भीतस्य वधः शूरमात्मानं मन्यमानानां न हि श्लाध्यः । नापि स्वर्ग्यः स्वर्गहेतुश्च ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि।
अग्रे तिष्ठत मात्रं मे न चेद् ग्राम्यसुखे स्पृहा॥

मूलम्

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि।
अग्रे तिष्ठत मात्रं मे न चेद् ग्राम्यसुखे स्पृहा॥ ५ ॥

अनुवाद (हिन्दी)

यदि तुम्हारे मनमें युद्ध करनेकी शक्ति और उत्साह है तथा अब जीवित रहकर विषय-सुख भोगनेकी लालसा नहीं है, तो क्षणभर मेरे सामने डट जाओ और युद्धका मजा चख लो’॥ ५॥

वीरराघवः

अतो हे क्षुल्लकाः ! अत्यल्पाः ! वो युष्माकं हृदि प्रधने युद्धे श्रद्धा सारं बलं वा यद्यस्ति विषयभोगेच्छा नो चेत्तर्हि मात्रं क्षणमात्रं ममात्रे तिष्ठत ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून्।
व्यनदत् सुमहाप्राणो येन लोका विचेतसः॥

मूलम्

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून्।
व्यनदत् सुमहाप्राणो येन लोका विचेतसः॥ ६ ॥

अनुवाद (हिन्दी)

परीक्षित्! वृत्रासुर बड़ा बली था। वह अपने डील-डौलसे ही शत्रु देवताओंको भयभीत करने लगा। उसने क्रोधमें भरकर इतने जोरका सिंहनाद किया कि बहुत-से लोग तो उसे सुनकर ही अचेत हो गये॥ ६॥

वीरराघवः

एवं क्रुद्धो वृत्रः सुरगणान् रिपून् वपुषा देहेन भीषयन् महान् प्राणो बलं यस्य तादृशो व्यनदत् नादं विशिनष्टि । येन नादेन लोका जनाः विचेतसा मूच्छिता बभूवुः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै।
निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः॥

मूलम्

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै।
निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः॥ ७ ॥

अनुवाद (हिन्दी)

वृत्रासुरकी भयानक गर्जनासे सब-के-सब देवता मूर्च्छित होकर पृथ्वीपर गिर पड़े, मानो उनपर बिजली गिर गयी हो॥ ७॥

वीरराघवः

तेन वृत्रस्य विस्फोटनेन नादेन सर्वे देवगणाः मूर्च्छिताः सन्तो भूमौ निपेतुः पतितवन्तः यथाऽशनिना हुताः जनाः पतन्ति निपतन्ति तद्वत् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

ममर्द पद‍्भ्यां सुरसैन्यमातुरं
निमीलिताक्षं रणरङ्गदुर्मदः।
गां कम्पयन्नुद्यतशूल ओजसा
नालं वनं यूथपतिर्यथोन्मदः॥

मूलम्

ममर्द पद‍्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः।
गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः॥ ८ ॥

अनुवाद (हिन्दी)

अब जैसे मदोन्मत्त गजराज नरकटका वन रौंद डालता है, वैसे ही रणबाँकुरा वृत्रासुर हाथमें त्रिशूल लेकर भयसे नेत्र बंद किये पड़ी हुई देवसेनाको पैरोंसे कुचलने लगा। उसके वेगसे धरती डगमगाने लगी॥ ८॥

वीरराघवः

आतुरं मूर्च्छितमत एव निमीलिताक्षं सुरसैन्यमोजसा बलेन पद्धयां ममर्द्द मर्द्दितवान् । यथोन्मदो यूथपतिर्गजः तालं तालानां सम्बन्धि वनं मर्द्दयति । कथम्भूतो ममर्द्द रणरङ्गे दुर्निवारो मदो यस्य । उद्यतं शूलं येन । क्ष्मां पृथिवीं कम्पयन् ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

विलोक्य तं वज्रधरोऽत्यमर्षितः
स्वशत्रवेऽभिद्रवते महागदाम्।
चिक्षेप तामापततीं सुदुःसहां
जग्राह वामेन करेण लीलया॥

मूलम्

विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्रवते महागदाम्।
चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया॥ ९ ॥

अनुवाद (हिन्दी)

वज्रपाणि देवराज इन्द्र उसकी यह करतूत सह न सके। जब वह उनकी ओर झपटा, तब उन्होंने और भी चिढ़कर अपने शत्रुपर एक बहुत बड़ी गदा चलायी। अभी वह असह्य गदा वृत्रासुरके पास पहुँची भी न थी कि उसने खेल-ही खेलमें बायें हाथसे उसे पकड़ लिया॥ ९॥

वीरराघवः

एवं स्वसैन्यं मर्द्दयन्तं वृत्रं विलोक्य वज्रधर इन्द्रोऽप्यमर्षितोऽभिमुखं द्रवते आगच्छते शत्रवे महतीं गदां चिक्षेप प्रयुक्तवान् । स च वृत्रस्तामापतन्तीं दुःसहां दुःखेनापि सोढुमशक्यां गदां वामेन करेण लीलया सुखेन जग्राह गृहीतवान् ॥ ६ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

स इन्द्रशत्रुः कुपितो भृशं तया
महेन्द्रवाहं गदयोग्रविक्रमः।
जघान कुम्भस्थल उन्नदन् मृधे
तत्कर्म सर्वे समपूजयन्नृप॥

मूलम्

स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोग्रविक्रमः।
जघान कुम्भस्थल उन्नदन् मृधे तत्कर्म सर्वे समपूजयन्नृप॥ १० ॥

अनुवाद (हिन्दी)

राजन्! परम पराक्रमी वृत्रासुरने क्रोधसे आग-बबूला होकर उसी गदासे इन्द्रके वाहन ऐरावतके सिरपर बड़े जोरसे गरजते हुए प्रहार किया। उसके इस कार्यकी सभी लोग बड़ी प्रशंसा करने लगे॥ १०॥

वीरराघवः

तया च गृहीतया गदया भृशं नितरां क्रुद्ध इन्द्रशत्रुर्वृत्रः उन्नदन्नतीव नदन् उरवो विक्रमाः पादविन्यासाः यस्य तादृशं महेन्द्रवाहमैरावतं जघान । कमवयवं तत्राह । कुम्भस्थलं मृधे युद्धे तस्य वृत्रस्य कर्म तद्गदया तद्वाहनताडनरूपं कर्म सर्वे द्रष्टारः समपूजयन् बह्वमन्यन्त ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

ऐरावतो वृत्रगदाभिमृष्टो
विघूर्णितोऽद्रिः कुलिशाहतो यथा।
अपासरद् भिन्नमुखः सहेन्द्रो
मुञ्चन्नसृक् सप्तधनुर्भृशार्तः॥

मूलम्

ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितोऽद्रिः कुलिशाहतो यथा।
अपासरद् भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः॥ ११ ॥

अनुवाद (हिन्दी)

वृत्रासुरकी गदाके आघातसे ऐरावत हाथी वज्राहत पर्वतके समान तिलमिला उठा।
सिर फट जानेसे वह अत्यन्त व्याकुल हो गया और खून उगलता हुआ इन्द्रको लिये हुए ही अट्ठाईस हाथ पीछे हट गया॥ ११॥

वीरराघवः

एवमैरावतो वृत्रस्य गदयातीव विद्धस्ताडितो वज्रायुधाहतोऽद्भिरिव विघूर्णितो भ्राम्यमाणः भिन्नं मुखं यस्य सः । नितरामार्त्तः असृग्रक्तं मुञ्चन् सहेन्द्रः सप्तधनुः प्रमाणमपासरत्पश्चाद्गच्छत् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

न सन्नवाहाय विषण्णचेतसे
प्रायुङ्क्त भूयः स गदां महात्मा।
इन्द्रोऽमृतस्यन्दिकराभिमर्श-
वीतव्यथक्षतवाहोऽवतस्थे॥

मूलम्

न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा।
इन्द्रोऽमृतस्यन्दिकराभिम2र्शवीतव्यथक्षतवा3होऽवतस्थे॥ १२ ॥

अनुवाद (हिन्दी)

देवराज इन्द्र अपने वाहन ऐरावतके मूर्च्छित हो जानेसे स्वयं भी विषादग्रस्त हो गये। यह देखकर युद्धधर्मके मर्मज्ञ वृत्रासुरने उनके ऊपर फिरसे गदा नहीं चलायी। तबतक इन्द्रने अपने अमृतस्रावी हाथके स्पर्शसे घायल ऐरावतकी व्यथा मिटा दी और वे फिर रणभूमिमें आ डटे॥ १२॥

वीरराघवः

स वृत्रो महात्मा युद्धधर्माभिज्ञः । अत एव सन्नवाहाय सन्नः अवसन्नः दुःखितो वाहो यस्य तस्मै दुःखितचित्तायेन्द्राय पुनर्गदां न प्रायुङ्क्त । तत इन्द्रः अमृतस्त्राविस्कराभिमर्शेन विगता व्यथा यस्य । तथात्वेन कृतो वाहो यस्य । तथाभूतोऽभितष्ठौ क्षतवाह इति पाठे पूर्वं क्षतो वृत्रेण ताडितो यो वाहो गजः येनेन्द्रेणामृतस्यन्दिकराभिमर्शेन वीतव्यथः गतव्यथः अमृतस्यन्दिकराभिमर्शवीतव्यथः । क्षतो बाहो यस्येत्यर्थः । अभितष्ठौ अभिमुखं स्थितः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

स तं नृपेन्द्राहवकाम्यया रिपुं
वज्रायुधं भ्रातृहणं विलोक्य।
स्मरंश्च तत्कर्म नृशंसमंहः
शोकेन मोहेन हसञ्जगाद॥

मूलम्

स तं नृपेन्द्राहवकाम्वया रिपुं वज्रायुधं भ्रातृहणं विलोक्य।
स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसञ्जगाद॥ १३ ॥

अनुवाद (हिन्दी)

परीक्षित्! जब वृत्रासुरने देखा कि मेरे भाई विश्वरूपका वध करनेवाला शत्रु इन्द्र युद्धके लिये हाथमें वज्र लेकर फिर सामने आ गया है, तब उसे उनके उस क्रूर पापकर्मका स्मरण हो आया और वह शोक और मोहसे युक्त हो हँसता हुआ उनसे कहने लगा॥ १३॥

वीरराघवः

हे नृपेन्द्र ! स वृत्रः आहवकाम्यया युद्धेच्छया अवस्थितं वज्रम् आयुधं यस्य तम् । भातृहणं भ्रातरं विश्वरूपं हतवन्तं रिपुमिन्द्रं विलोक्य तस्येन्द्रस्य कर्म भ्रातृहननरूपं नृशंसं क्रूरमंहः पापं शोकेन हेतुना स्मरन्पश्चान्मोहेन हसन् जगादेन्द्रं प्रत्युवाच ॥ १३ ॥

श्लोक-१४

मूलम् (वचनम्)

वृत्र उवाच

विश्वास-प्रस्तुतिः

दिष्ट्या भवान् मे समवस्थितो रिपु-
र्यो ब्रह्महा गुरुहा भ्रातृहा च।
दिष्ट्यानृणोऽद्याहमसत्तम त्वया
मच्छूलनिर्भिन्नदृषद्‍धृदाचिरात्॥

मूलम्

दिष्ट्या भवान् मे समवस्थितो रिपुर्यो ब्रह्महा गुरुहा भ्रातृहा च।
दिष्टयानृणोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषद्‍धृदाचिरात्॥ १४ ॥

अनुवाद (हिन्दी)

वृत्रासुर बोला—आज मेरे लिये बड़े सौभाग्यका दिन है कि तुम्हारे-जैसा शत्रु—जिसने विश्वरूपके रूपमें ब्राह्मण, अपने गुरु एवं मेरे भाईकी हत्या की है—मेरे सामने खड़ा है। अरे दुष्ट! अब शीघ्र-से-शीघ्र मैं तेरे पत्थरके समान कठोर हृदयको अपने शूलसे विदीर्ण करके भाईसे उऋण होऊँगा। अहा! यह मेरे लिये कैसे आनन्दकी बात होगी॥ १४॥

वीरराघवः

गदितमेवाह । दिष्टयेत्यादिना योवदध्यायसमाप्ति । यो भवान् रिपुः दिष्टया दैववशान्ममाग्रतः समवस्थितः प्राप्तः कथंभूतः यस्त्वं ब्रह्महा ब्राह्मणं हतवान् । तत्रापि स्वगुरुं मम च भ्रातरं हतवान् । असत्तम मच्छूलेन निर्भिन्नं दृषत्तुल्यं हृदयं यस्य तेन त्वया निमित्तभूतेनाद्याचिरान्मम भ्रातुर्विश्वरूपस्यानृर्णोऽहं दिष्टया भविष्यामि ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यो नोऽग्रजस्यात्मविदो द्विजाते-
र्गुरोरपापस्य च दीक्षितस्य।
विश्रभ्य खड्गेन शिरांस्यवृश्चत्
पशोरिवाकरुणः स्वर्गकामः॥

मूलम्

यो नोऽग्रजस्यात्मविदो द्विजातेर्गुरोरपापस्य च दीक्षितस्य।
विश्रभ्य खड्गेन शिरांस्यवृश्चत् पशोरिवाकरुणः स्वर्गकामः॥ १५ ॥

अनुवाद (हिन्दी)

इन्द्र! तूने मेरे आत्मवेत्ता और निष्पाप बड़े भाईके, जो ब्राह्मण होनेके साथ ही यज्ञमें दीक्षित और तुम्हारा गुरु था, विश्वास दिलाकर तलवारसे तीनों सिर उतार लिये—ठीक वैसे ही जैसे स्वर्गकामी निर्दय मनुष्य यज्ञमें पशुका सिर काट डालता है॥ १५॥

वीरराघवः

करुणारहितः यो भवान्नोऽस्माकमग्रजस्य द्विजातेस्तत्रापि ब्रह्मविदः गुरोरपापस्य पुनर्दीक्षितस्य यज्ञीयदीक्षायामवस्थितस्य विश्वरूपस्य शिरांसि खड्गेनावृश्चच्चिच्छेद यथा स्वर्गकामो याज्ञिकः पशोः शिरश्छिनत्ति तद्वत् । द्विजातित्वादीनि विशेषणान्यवध्यत्वसूचकानि ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

ह्रीश्रीदयाकीर्तिभिरुज्झितं त्वां
स्वकर्मणा पुरुषादैश्च गर्ह्यम्।
कृच्छ्रेण मच्छूलविभिन्नदेह-
मस्पृष्टवह्निं समदन्ति गृध्राः॥

मूलम्

ह्रीश्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम्।
कृच्छ्रेण मच्छूलविभिन्नदेहमस्पृष्टवह्निं समदन्ति गृध्राः॥ १६ ॥

अनुवाद (हिन्दी)

दया, लज्जा, लक्ष्मी और कीर्ति तुझे छोड़ चुकी है। तूने ऐसे-ऐसे नीच कर्म किये हैं, जिनकी निन्दा मनुष्योंकी तो बात ही क्या—राक्षसतक करते हैं। आज मेरे त्रिशूलसे तेरा शरीर टूक-टूक हो जायगा। बड़े कष्टसे तेरी मृत्यु होगी। तेरे-जैसे पापीको आग भी नहीं जलायेगी, तुझे तो गीध नोंच-नोंचकर खायेंगे॥ १६॥

वीरराघवः

अतो ह्रिया लज्जया श्रिया सम्पदा दयया कीर्तिभिर्यशोभिश्वोज्झितं परित्यक्तं निकृष्टेन स्वकर्मणा पुरुषादैः पिशाचैरपि गर्ह्यं निन्द्यं त्वामद्य मच्छूलेन विभिन्नो देहो यस्य । अस्पृष्टवह्निमदग्धदेहमित्यर्थः । गृध्राः सम्यगदन्त्यत्स्यन्ति “वर्त्तमानसामीप्ये वर्त्तमानवद्वा" इति लट् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

अन्येऽनु ये त्वेह नृशंसमज्ञा
ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम्।
तैर्भूतनाथान् सगणान् निशात-
त्रिशूलनिर्भिन्नगलैर्यजामि॥

मूलम्

4अन्येऽनु ये त्वेह नृशंसमज्ञा ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम्।
तैर्भूतनाथान् सगणान् निशातत्रिशूलनिर्भिन्नगलैर्यजामि॥ १७ ॥

अनुवाद (हिन्दी)

ये अज्ञानी देवता तेरे-जैसे नीच और क्रूरके अनुयायी बनकर मुझपर शस्त्रोंसे प्रहार कर रहे हैं। मैं अपने तीखे त्रिशूलसे उनकी गरदन काट डालूँगा और उनके द्वारा गणोंके सहित भैरवादि भूतनाथोंको बलि चढ़ाऊँगा॥ १७॥

वीरराघवः

अपि अपि च नृशंसं त्वामनुसृत्य ये देवा अज्ञाः मूढाः सन्तः इह युद्धे उद्यतास्त्राः मह्यं यदि प्रहरन्ति । तर्हि तैर्निशातेन तीक्ष्णेन त्रिशूलेन निर्भिन्नाः गलाः कण्ठा येषां तैः सगणान् भूतनाथान् यजामि यक्ष्यामि ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

अथो हरे मे कुलिशेन वीर
हर्ता प्रमथ्यैव शिरो यदीह।
तत्रानृणो भूतबलिं विधाय
मनस्विनां पादरजः प्रपत्स्ये॥

मूलम्

अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह।
तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये॥ १८ ॥

अनुवाद (हिन्दी)

वीर इन्द्र! यह भी सम्भव है कि तू मेरी सेनाको छिन्न-भिन्न करके अपने वज्रसे मेरा सिर काट ले। तब तो मैं अपने शरीरकी बलि पशु-पक्षियोंको समर्पित करके, कर्म-बन्धनसे मुक्त हो महापुरुषोंकी चरणरजका आश्रय ग्रहण करूँगा—जिस लोकमें महापुरुष जाते हैं, वहाँ पहुँच जाऊँगा॥ १८॥

वीरराघवः

एवं स्वपौरुषानुरूपमुक्त्वाथ युद्धे स्वं देहं जिहासुर्मा जहीति शक्रं प्रार्थयते । अथो इति । अथवा हे हरे ! इन्द्र ! हे वीर ! भवानेव इह युद्धे कुलिशेन वज्रेण यदि मम शिरो हर्ता हरिष्यति तत्र तथा सति मद्देहेन भूतेभ्यो बलिं विधायानृणः विमुक्तकर्मबन्धस्सन् मनस्विनां पादरजः प्रपत्स्ये पादरजः सहचरितं मार्गं प्रपत्स्ये ज्ञानिनां गतिं प्राप्स्यामीत्यर्थ्यः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

सुरेश कस्मान्न हिनोषि वज्रं
पुरः स्थिते वैरिणि मय्यमोघम्।
मा संशयिष्ठा न गदेव वज्रं
स्यान्निष्फलं कृपणार्थेव याच्ञा॥

मूलम्

सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम्।
मा संशयिष्ठा न गदेव वज्रं स्यान्निष्फलं कृपणार्थेव याच्ञा॥ १९ ॥

अनुवाद (हिन्दी)

देवराज! मैं तेरे सामने खड़ा हूँ, तेरा शत्रु हूँ; अब तू मुझपर अपना अमोघ वज्र क्यों नहीं छोड़ता? तू यह सन्देह न कर कि जैसे तेरी गदा निष्फल हो गयी, कृपण पुरुषसे की हुई याचनाके समान यह वज्र भी वैसे ही निष्फल हो जायगा॥ १९॥

वीरराघवः

हे सुरेश ! इन्द्र ! अग्रतः स्थिते वैरिणि तव शत्रौ मय्यमोधमप्रतिहतं वज्रः कस्माद्धेतोर्न हिनोषि न मुञ्चसि न प्रयुङ्क्ते इत्यर्थः । मदावन्निष्फलो भविष्यतीत्याशङ्कया न प्रहिणोमीत्यत्राह । गदेव गदावत्कृपणार्थां कृपणपुरुषादर्थः प्रयोजनं यस्याः साः याच्ञेव च वज्रो न निष्फलः स्यादतो मा संशयिष्टाः संशयं मा कुरु किन्तु प्रहिण्वित्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

नन्वेष वज्रस्तव शक्र तेजसा
हरेर्दधीचेस्तपसा च तेजितः।
तेनैव शत्रुं जहि विष्णुयन्त्रितो
यतो हरिर्विजयः श्रीर्गुणास्ततः॥

मूलम्

नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः।
तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः॥ २० ॥

अनुवाद (हिन्दी)

इन्द्र! तेरा यह वज्र श्रीहरिके तेज और दधीचि ऋषिकी तपस्यासे शक्तिमान् हो रहा है। विष्णुभगवान‍्ने मुझे मारनेके लिये तुझे आज्ञा भी दी है। इसलिये अब तू उसी वज्रसे मुझे मार डाल। क्योंकि जिस पक्षमें भगवान् श्रीहरि हैं, उधर ही विजय, लक्ष्मी और सारे गुण निवास करते हैं॥ २०॥

वीरराघवः

अनिष्फलत्वे हेतुं वदन् तं प्रोत्साहयति । ननु इति । हे शक्र ! तव वज्रः हरेर्भगवतस्तेजसा दधीचो मुनेस्तपसा च तेजितस्तीक्ष्णीकृतः । अतः कारणात्तेनैव वज्रेण विष्णुना यन्त्रित आदिष्टो मां शत्रुं जहि मारय । हरिर्भगवान् यतो यसिन् पक्षे ततस्तस्मिन् पक्षेः श्रीः राज्यसम्पद्विजयः गुणाः प्रभुत्वादयो गुणाश्च भवन्ति ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

अहं समाधाय मनो यथाऽऽह
सङ्कर्षणस्तच्चरणारविन्दे।
त्वद्वज्ररंहोलुलितग्राम्यपाशो
गतिं मुनेर्याम्यपविद्धलोकः॥

मूलम्

अहं समाधाय मनो यथाऽऽह सङ्कर्षणस्तच्चरणारविन्दे।
त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्यपविद्धलोकः॥ २१ ॥

अनुवाद (हिन्दी)

देवराज! भगवान् संकर्षणके आज्ञानुसार मैं अपने मनको उनके चरणकमलोंमें लीन कर दूँगा। तेरे वज्रका वेग मुझे नहीं, मेरे विषय-भोगरूप फंदेको काट डालेगा और मैं शरीर त्यागकर मुनिजनोचित गति प्राप्त करूँगा॥ २१॥

वीरराघवः

ननु “आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ! ततो यान्त्यधमां गतिम् ॥” इत्युक्तरीत्या नरकोदर्कस्वमरणार्थं किं मां प्रार्थयते तत्राह । अहमिति । अहमसुरोऽपि नरकं न यास्यामि किंत्वस्मद्दैवतं गुरुश्च सङ्कर्षणो भगवान् यथाह उपदिदेश । मच्चरणारविन्दे मनो निश्चलं निधेयमिति । तथा तच्चरणारविन्दे मनो निधाय तव वज्रस्य वेगेन लुलितः छिन्नः ग्राम्येषु विषयेषु रागरूपः पाशो यस्य । देहलवनद्वारा ग्राम्यपाशोऽपि लुलितो भवतीति भावः । अपविद्धः त्यक्तः लोकः स्वर्गादिलोको येन तादृशः मुनेर्गतिं मुनीनां गतिं मोक्षं यामि यास्यामि असुरोऽप्यहं भगवत्सङ्कर्षणोपदिष्टतत्त्वो मुक्तिमेव यास्यामि न त्वर्वाचीनलोकानिति भावः । यथाह सङ्कर्षण इत्यनेन वृत्रः सङ्कर्षणोपदिष्टतत्त्व इत्यवगम्यते ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

पुंसां किलैकान्तधियां स्वकानां
याः सम्पदो दिवि भूमौ रसायाम्।
न राति यद् द्वेष उद्वेग आधि-
र्मदः कलिर्व्यसनं संप्रयासः॥

मूलम्

पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम्।
न राति यद् द्वेष उद्वेग आधिर्मदः कलिर्व्यसनं संप्रयासः॥ २२ ॥

अनुवाद (हिन्दी)

जो पुरुष भगवान‍्से अनन्यप्रेम करते हैं—उनके निजजन हैं—उन्हें वे स्वर्ग, पृथ्वी अथवा रसातलकी सम्पत्तियाँ नहीं देते। क्योंकि उनसे परमानन्दकी उपलब्धि तो होती ही नहीं; उलटे द्वेष, उद्वेग, अभिमान, मानसिक पीड़ा, कलह, दुःख और परिश्रम ही हाथ लगते हैं॥ २२॥

वीरराघवः

किञ्च भगवाननन्यभावेनात्मानं भजतां स्वीयामेव गतिं नूनं दास्यति न त्वर्वाचीनामित्याह । पुंसामिति सार्द्धेन । एकान्तधियां प्रयोजनान्तररहितमतीनामनन्यप्रयोजनानामित्यर्थः । स्वकानां स्वभक्तानां पुंसामस्मत्पतिर्भगवान् सङ्कर्षणः दिवि स्वर्गादौ भूमौ रसायामतलादिलोके च याः सम्पदो विभवाः ताः न ददाति कुतः यतः तासु सम्पत्सु द्वेषः परस्परमसहिष्णुत्वम् उद्वेगो विनाशभयं तत्प्रयुक्त आधिर्मनःपीडा मदः विषयभोगनिमित्तो मदः तत्त्वज्ञानोदयप्रतिबन्धकः कलिः विषयभोगविरोधिभिः सह कलहः व्यसनमभिमतविषयालाभनिमित्तं दुःखं प्रयासः क्षुद्रसुखाय प्रकृष्टो यत्नश्चैव भवन्ति । यतः परमकृपालुर्भगवानात्मभक्तानां मुक्तिमेव दास्यतीत्यर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

त्रैवर्गिकायासविघातमस्मत्-
पतिर्विधत्ते पुरुषस्य शक्र।
ततोऽनुमेयो भगवत्प्रसादो
यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः॥

मूलम्

त्रैवर्गिकायासविघातमस्मत्पतिर्विधत्ते पुरुषस्य शक्र।
5ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः॥ २३ ॥

अनुवाद (हिन्दी)

इन्द्र! हमारे स्वामी अपने भक्तके अर्थ, धर्म एवं कामसम्बन्धी प्रयासको व्यर्थ कर दिया करते हैं और सच पूछो तो इसीसे भगवान‍्की कृपाका अनुमान होता है। क्योंकि उनका ऐसा कृपा-प्रसाद अकिंचन भक्तोंके लिये ही अनुभवगम्य है, दूसरोंके लिये तो अत्यन्त दुर्लभ ही है॥ २३॥

वीरराघवः

तर्हि स्वकानां किं विधत्ते तत्राह । त्रैवर्गिकेति । हे शक्र ! त्रैवर्गिको धर्मार्थकामविषयो य आयासस्तस्य विघातं विधत्ते अल्पास्थिरत्रिवर्गकर्मायासपरिहारेणानन्तस्थिरफलरूपमुक्तिं दास्यतीत्यर्थः । ननु । प्रसन्नो भगवानस्माकमपि स्वकानां त्रैवर्गिकायासविधातमेव विधत्ते नेत्याह । तत इति । यो भगवत्प्रसादो यत अकिञ्चनगोचरः निष्कामस्वभक्तविषयः अकिञ्चनानामेव नितरां भगवान् प्रसन्नो भवतीत्यर्थः । ततोऽन्यैविषयभोगपरायणैस्तदर्थमेव भजद्भिर्भवादृशैः स भगवत्प्रसादोऽनुमेयः अभिलषितार्थविषयकत्वेनानुमेयः । यद्वा । योऽकिञ्चनगोचरो भगवत्प्रसादः सोऽन्यैर्भवादृशैस्ततोऽनन्यप्रयोजनभजनादनुमेयः । वयमप्यनन्यप्रयोजना यदि भजेम तर्ह्यकिञ्चनगोचरो भगवत्प्रसादोऽस्मद्विषयको भविष्यतीत्येवं भवादृशैरनुमेय एव न तु सिद्धः । इदानीं विषयभोगपरायणत्वादिति भावः । तथैव ह्युक्तं भगवता “मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित्" इत्यादिनेति चेतिभावः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

अहं हरे तव पादैकमूल-
दासानुदासो भवितास्मि भूयः।
मनः स्मरेतासुपतेर्गुणांस्ते
गृणीत वाक् कर्म करोतु कायः॥

मूलम्

अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः।
मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक् कर्म करोतु कायः॥ २४ ॥

अनुवाद (हिन्दी)

(भगवान‍्को प्रत्यक्ष अनुभव करते हुए वृत्रासुरने प्रार्थना की—) ‘प्रभो! आप मुझपर ऐसी कृपा कीजिये कि अनन्यभावसे आपके चरणकमलोंके आश्रित सेवकोंकी सेवा करनेका अवसर मुझे अगले जन्ममें भी प्राप्त हो। प्राणवल्लभ! मेरा मन आपके मंगलमय गुणोंका स्मरण करता रहे, मेरी वाणी उन्हींका गान करे और शरीर आपकी सेवामें ही संलग्न रहे॥ २४॥

वीरराघवः

अथ मनसानुसंहितं वज्राग्रे दृष्टं तदनुप्रविष्टं भगवन्तमभिमुखीकृत्याह । अहमिति । हे हरे ! भगवन् ! तव पादावेवैकं मूलमाश्रयो येषां दासानामनुदासोऽहं भूयो भवितास्मि । मदीयं मनोऽसुवतेर्मत्प्राणनाथस्य तव गुणानेवानुस्मरतु । वागपि तानेव गुणान् गृणातु कीर्त्तयतु । कायो देहस्त्वाराधनरूपं कर्मैव करोतु ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

न नाकपृष्ठं न च पारमेष्ठ्यं
न सार्वभौमं न रसाधिपत्यम्।
न योगसिद्धीरपुनर्भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे॥

मूलम्

न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम्।
न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे॥ २५ ॥

अनुवाद (हिन्दी)

सर्वसौभाग्यनिधे! मैं आपको छोड़कर स्वर्ग, ब्रह्मलोक, भूमण्डलका साम्राज्य, रसातलका एकच्छत्र राज्य, योगकी सिद्धियाँ—यहाँतक कि मोक्ष भी नहीं चाहता॥ २५॥

वीरराघवः

ननु किं मद्दास्वेन तुभ्यं महदैश्वर्यमैहिकमामुष्मिकं च दास्यामीत्यत्र त्वद्दास्यं विनान्यन्न काङ्क्षामीत्याह । नेति द्वाभ्याम् । नाकपृष्टं वैकुण्ठं न काङ्क्षे तथा पारमेष्ठ्यं चतुर्मुखैश्वर्यं न सार्वभौमं कृत्स्नभूम्याधिपत्यं न रसाधिपत्यं पातालादिलोकाधिपत्यं योगसिद्धीरणिमादीनपुनर्भवं कैवल्यं च न हि हे समञ्जस ! सकलसौभाग्यनिधे ! त्वां विरहय्य पृथक्कृत्य विनेत्यर्थः । न काङ्क्षे न वाञ्छामि ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

अजातपक्षा इव मातरं खगाः
स्तन्यं यथा वत्सतराः क्षुधार्ताः।
प्रियं प्रियेव व्युषितं विषण्णा
मनोऽरविन्दाक्ष दिदृक्षते त्वाम्॥

मूलम्

अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः।
प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम्॥ २६ ॥

अनुवाद (हिन्दी)

जैसे पक्षियोंके पंखहीन बच्चे अपनी माँकी बाट जोहते रहते हैं, जैसे भूखे बछड़े अपनी माँका दूध पीनेके लिये आतुर रहते हैं और जैसे वियोगिनी पत्नी अपने प्रवासी प्रियतमसे मिलनेके लिये उत्कण्ठित रहती है—वैसे ही कमलनयन! मेरा मन आपके दर्शनके लिये छटपटा रहा है॥ २६॥

वीरराघवः

किं तु हे अरविन्दाक्ष ! अजातपक्षाः खगाः पक्षिशावकाः मातरमिव क्षुधा आर्ताः पीडिताः वत्सतराः स्तन्यं दुग्धमिव व्युझितं विप्रोषितं दूरदेशगतं प्रियं विषण्णा दुःखिता प्रियेव मनस्त्वां दिदृक्षते द्रष्टुमिच्छति ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

ममोत्तमश्लोकजनेषु सख्यं
संसारचक्रे भ्रमतः स्वकर्मभिः।
त्वन्माययाऽऽत्मात्मजदारगेहे-
ष्वासक्तचित्तस्य न नाथ भूयात्॥

मूलम्

ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः।
त्वन्माययाऽऽत्मात्मजदारगेहेष्वासक्तचि6त्तस्य न नाथ भूयात्॥ २७ ॥

अनुवाद (हिन्दी)

प्रभो! मैं मुक्ति नहीं चाहता। मेरे कर्मोंके फलस्वरूप मुझे बार-बार जन्म-मृत्युके चक्‍करमें भटकना पड़े, इसकी परवा नहीं। परन्तु मैं जहाँ-जहाँ जाऊँ, जिस-जिस योनिमें जन्मूँ, वहाँ-वहाँ भगवान‍्के प्यारे भक्तजनोंसे मेरी प्रेम-मैत्री बनी रहे। स्वामिन्! मैं केवल यही चाहता हूँ कि जो लोग आपकी मायासे देह-गेह और स्त्री-पुत्र आदिमें आसक्त हो रहे हैं, उनके साथ मेरा कभी किसी प्रकारका भी सम्बन्ध न हो’॥ २७॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रस्येन्द्रोपदेशो नामैकादशोऽध्यायः॥ ११ ॥

वीरराघवः

अत एव ममानुगृहाणेत्याह । ममेति । उत्तमश्लोकस्य तव जनेषु दासेषु एव मम सख्यं भूयात् । त्वन्मायया आत्मादिष्वासक्तचित्तस्य स्वकर्मभिः संसारचक्रे भ्रमतो मम पुनः तेष्वात्मादिष्वासक्तिर्न भूयादेवमनुगृहाणेति । भावः । तत्रात्मा देहः ॥ २७ ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकायां टीकायाम् एकादशोऽध्यायः ॥ ११ ॥


  1. प्राचीने पाठे ‘तान्निवायौजसा…..त आरभ्य……क्षुल्लका हृदि’ इत्यन्तः पाठो मुले नोध्धृतः । ↩︎

  2. प्रा० पा - मर्शादीषद्वग्रथः क्ष । ↩︎

  3. प्रा. पा. - होऽभितस्थे । ↩︎

  4. प्रा. पा. - अन्ये च । ↩︎

  5. प्रा. पा. - अतो । ↩︎

  6. प्रा. पा. - चित्तेषु । ↩︎