[दशमोऽध्यायः]
भागसूचना
देवताओंद्वारा दधीचि ऋषिकी अस्थियोंसे वज्र-निर्माण और वृत्रासुरकी सेनापर आक्रमण
श्लोक-१
मूलम् (वचनम्)
श्रीशुक1 उवाच
विश्वास-प्रस्तुतिः
इन्द्रमेवं समादिश्य भगवान् विश्वभावनः।
पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः॥
मूलम्
इन्द्रमेवं समादिश्य भगवान् विश्वभावनः।
पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! विश्वके जीवनदाता श्रीहरि इन्द्रको इस प्रकार आदेश देकर देवताओंके सामने वहीं-के-वहीं अन्तर्धान हो गये॥ १॥
वीरराघवः
हरिरेवमादिश्यान्तर्दधावित्याह मुनिः । इन्द्रमिति । एवमित्थमिन्द्रं समादिश्याज्ञाप्य विश्वस्य सुखकरो भगवाननिमेषाणां देवानां पश्यतां सतां तत्रैवान्तरधीयतान्तर्हितवान् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तथाभियाचितो देवैर्ऋषिराथर्वणो महान्।
मोदमान उवाचेदं प्रहसन्निव भारत॥
मूलम्
तथाभियाचितो देवैर्ऋषिराथर्वणो महान्।
मोदमान उवाचेदं प्रहसन्निव भारत॥ २ ॥
अनुवाद (हिन्दी)
अब देवताओंने उदारशिरोमणि अथर्ववेदी दधीचि ऋषिके पास जाकर भगवान्के आज्ञानुसार याचना की। देवताओंकी याचना सुनकर दधीचि ऋषिको बड़ा आनन्द हुआ। उन्होंने हँसकर देवताओंसे कहा—॥ २॥
वीरराघवः
हे भारत ! भगवदुक्तप्रकारेण देवैरभियाचितो दध्यङ्ङाथर्वणः अथर्वणः पुत्रः मुनिः परब्रह्ममननशीलः महान् “कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्” इत्युक्तविधगुणसम्पन्नः अत एव मोदमानः हृष्टचित्तः प्रहसन्निव परिहासं कुर्वन्निवेदं वक्ष्यमाणमुवाच ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
अपि वृन्दारका यूयं न जानीथ शरीरिणाम्।
संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः॥
मूलम्
अपि वृन्दारका यूयं न जानीथ शरीरिणाम्।
संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः॥ ३ ॥
अनुवाद (हिन्दी)
‘देवताओ! आप लोगोंको सम्भवतः यह बात नहीं मालूम है कि मरते समय प्राणियोंको बड़ा कष्ट होता है। उन्हें जबतक चेत रहता है, बड़ी असह्य पीड़ा सहनी पड़ती है और अन्तमें वे मूर्च्छित हो जाते हैं॥ ३॥
वीरराघवः
उक्तिमेवाह - अपीत्यादिना विष्णव इत्यन्तेन । तावत्तेषां विवक्षितं श्रोतुकामः प्रत्यचिख्यासुरिवाह दध्यङ् - अपीति । हे वृन्दारकाः ! शरीरिणां संस्थायामन्तकाले यो दुःसहः सोढुमशक्यश्चेतनापहः चैतन्यहरः अभिद्रोहः क्लेशस्तमपि किं न जानोथ ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः।
क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे॥
मूलम्
जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः।
क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे॥ ४ ॥
अनुवाद (हिन्दी)
जो जीव जगत्में जीवित रहना चाहते हैं, उनके लिये शरीर बहुत ही अनमोल, प्रियतम एवं अभीष्ट वस्तु है। ऐसी स्थितिमें स्वयं विष्णुभगवान् भी यदि जीवसे उसका शरीर माँगें तो कौन उसे देनेका साहस करेगा॥ ४॥
वीरराघवः
इह लोके जीवितुमिच्छूनां जीवानामात्मा देहः प्रेष्ठः प्रियतमः । अत एवेप्सितः इष्टस्तं प्रेष्ठं देहं भिक्षमाणाय विष्णवेऽपि दातुं को वा उत्सहतोत्साहं कुर्यात् । न कोऽप्युत्सहेतेत्यर्थः । विष्णव इत्यनेन “अभ्यागतः स्वयं विष्णुः” इति प्रकारेण विष्णुरूपाय याचमानायेत्यर्थ उक्तः ॥ ४ ॥
श्लोक-५
मूलम् (वचनम्)
देवा ऊचुः
विश्वास-प्रस्तुतिः
किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम्।
भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम्॥
मूलम्
किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम्।
भवद्विधानां 2महतां पुण्यश्लोकेड्यकर्मणाम्॥ ५ ॥
अनुवाद (हिन्दी)
देवताओंने कहा—ब्रह्मन्! आप-जैसे उदार और प्राणियोंपर दया करनेवाले महापुरुष, जिनके कर्मोंकी बड़े-बड़े यशस्वी महानुभाव भी प्रशंसा करते हैं, प्राणियोंकी भलाईके लिये कौन-सी वस्तु निछावर नहीं कर सकते॥ ५॥
वीरराघवः
एवमुक्ता देवास्तमाहुः - किं न्विति । हे ब्रह्मन् ! पुण्यश्लोकैरीड्यानि कर्माणि चरित्राणि येषाम् । पुण्यश्लोकेति सध्बुद्धयन्तं वा अत एव महतां भूतान्यनुकम्पयन्तीति तथा तेषां भूतानुकम्पाशीलानां भवादृशानां पुंसां किं नु तदुदुस्त्यजमात्मपर्यन्तदातॄणां न किमपि दुस्त्यजमस्तीति भावः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
ननु स्वार्थपरो लोको न वेद परसंकटम्।
यदि वेद न याचेत नेति नाह यदीश्वरः॥
मूलम्
3ननु स्वार्थपरो लोको न वेद परसंकटम्।
यदि वेद न याचेत नेति नाह यदीश्वरः॥ ६ ॥
अनुवाद (हिन्दी)
भगवन्! इसमें सन्देह नहीं कि माँगनेवाले लोग स्वार्थी होते हैं। उनमें देनेवालोंकी कठिनाईका विचार करनेकी बुद्धि नहीं होती। यदि उनमें इतनी समझ होती तो वे माँगते ही क्यों। इसी प्रकार दाता भी माँगनेवालेकी विपत्ति नहीं जानता। अन्यथा उसके मुँहसे कदापि नाहीं न निकलती (इसलिये आप हमारी विपत्ति समझकर हमारी याचना पूर्ण कीजिये।)॥ ६॥
वीरराघवः
यदुक्तमभिद्रोहं किं न जानीथ इति तत्राहुः - नूनमिति । स्वार्थपरः स्वप्रयोजनासक्तः पुमान् परस्य सङ्कटं नूनं न वेद यदि परसङ्कटं वेद तर्हि न याचेतैव यदि याच्यमान ईश्वरः दानसमर्थस्तर्हि नेति न दास्यामीति नाह न ब्रूते अतो यथा तव सङ्कटं वयं स्वार्थपराः न जानीमस्तथा प्रत्याचक्षाणस्त्वमप्यस्मत्सङ्कटं न जानासीति भावः ॥ ६ ॥
श्लोक-७
मूलम् (वचनम्)
ऋषिरुवाच
विश्वास-प्रस्तुतिः
धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः।
एष वः प्रियमात्मानं त्यजन्तं संत्यजाम्यहम्॥
मूलम्
धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः।
एष वः प्रियमात्मानं त्यजन्तं संत्यजाम्यहम्॥ ७ ॥
अनुवाद (हिन्दी)
दधीचि ऋषिने कहा—देवताओ! मैंने आपलोगोंके मुँहसे धर्मकी बात सुननेके लिये ही आपकी माँगके प्रति उपेक्षा दिखलायी थी। यह लीजिये, मैं अपने प्यारे शरीरको आप लोगोंके लिये अभी छोड़े देता हूँ। क्योंकि एक दिन यह स्वयं ही मुझे छोड़नेवाला है॥ ७॥
वीरराघवः
एवमुक्तो दध्यङ् स्वाभिप्रायमाह – धर्ममिति चतुर्भिः । वो युष्माकं धर्मं श्रोतुकामेन मया प्रकृतं प्रत्युदाहृताः प्रत्याख्याताः आत्मानं मां त्यजन्तं प्रारब्धभङ्गात्स्वयमेव त्यजन्तं तमेतं वः युष्माकं प्रियं देहमहं सन्त्यजामि सम्यगहङ्कारापोहेन त्यजामि ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान्।
ईहेत भूतदयया स शोच्यः स्थावरैरपि॥
मूलम्
योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान्।
ईहेत4 भूतदयया स शोच्यः स्थावरैरपि॥ ८ ॥
अनुवाद (हिन्दी)
देवशिरोमणियो! जो मनुष्य इस विनाशी शरीरसे दुःखी प्राणियोंपर दया करके मुख्यतः धर्म और गौणतः यशका सम्पादन नहीं करता, वह जड़ पेड़-पौधोंसे भी गया-बीता है॥ ८॥
वीरराघवः
हे नाथाः ! यः पुमानध्रुवेणात्मना देहेन धर्मं यशो वा भूतदयया नेहेत न साधयेत् स पुमान् स्थावरैरपि शोच्यः । स्थावरा अपि हि स्वविनाशेनापि परैरुपयुज्यन्ते । अतोऽनुपकारकस्तेभ्योऽपि निकृष्ट इत्यभिप्रायः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः।
यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति॥
मूलम्
एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः।
यो भूतशोकहर्षाभ्या5मात्मा शोचति हृष्यति॥ ९ ॥
अनुवाद (हिन्दी)
बड़े-बड़े महात्माओंने इस अविनाशी धर्मकी उपासना की है। उसका स्वरूप बस, इतना ही है कि मनुष्य किसी भी प्राणीके दुःखमें दुःखका अनुभव करे और सुखमें सुखका॥ ९॥
वीरराघवः
अव्ययोऽक्षयिष्णुः धर्मः पुण्यश्लोकैरेतावानेव उपासितः उपार्जितः कियान् । भूतानां शोकेन शोचति हर्षेण हृष्यति यः आत्मा स्वयमिति य एतावानेव ॥ ६ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः।
यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः॥
मूलम्
अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः।
यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः॥ १० ॥
अनुवाद (हिन्दी)
जगत्के धन, जन और शरीर आदि पदार्थ क्षणभंगुर हैं। ये अपने किसी काम नहीं आते, अन्तमें दूसरोंके ही काम आयेंगे। ओह! यह कैसी कृपणता है, कितने दुःखकी बात है कि यह मरणधर्मा मनुष्य इनके द्वारा दूसरोंका उपकार नहीं कर लेता॥ १०॥
वीरराघवः
मर्त्यैः कर्तृभिः पारक्यैः श्वशृगालादिभक्ष्यैः क्षणभङ्गुरैरस्थिरैरस्वार्थेरात्मोपयोगशून्यैः स्वज्ञातिभिर्विग्रहैर्देहैश्च साधनैर्नोपकुर्यादिति यदेतदहो कष्टमहो दैन्यं च ॥ १० ॥
श्लोक-११
मूलम् (वचनम्)
श्रीशुक6 उवाच
विश्वास-प्रस्तुतिः
एवं कृतव्यवसितो दध्यङ्ङाथर्वणस्तनुम्।
परे भगवति ब्रह्मण्यात्मानं सन्नयञ्जहौ॥
मूलम्
एवं कृतव्यवसितो दध्यङ्ङाथर्वणस्तनुम्।
परे भगवति ब्रह्मण्यात्मानं सन्नयञ्जहौ॥ ११ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! अथर्ववेदी महर्षि दधीचिने ऐसा निश्चय करके अपनेको परब्रह्म परमात्मा श्रीभगवान्में लीन करके अपना स्थूल शरीर त्याग दिया॥ ११॥
वीरराघवः
एवं कृतनिश्चयो देहं तत्याज दध्यङ्ङित्याह मुनिः । एवमिति । एवम् इत्थं कृतव्यवसितः कृतव्यवसायः आथर्वणो दध्यङ् परब्रह्मण्यात्मानं प्रत्यगात्मानं सन्नयन समर्पयंस्तनुं देहं जहौ तत्याज ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः।
आस्थितः परमं योगं न देहं बुबुधे गतम्॥
मूलम्
यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः।
आस्थितः परमं योगं न देहं बुबुधे गतम्॥ १२ ॥
अनुवाद (हिन्दी)
उनके इन्द्रिय, प्राण, मन और बुद्धि संयत थे, दृष्टि तत्त्वमयी थी, उनके सारे बन्धन कट चुके थे। अतः जब वे भगवान्से अत्यन्त युक्त होकर स्थित हो गये, तब उन्हें इस बातका पता ही न चला कि मेरा शरीर छूट गया॥ १२॥
वीरराघवः
कथम्भूतस्तत्याज यता नियता अक्षा इन्द्रियाणि येन । शोभनं विषयेभ्यः प्रत्याहृतं मनो बुद्धिश्च यस्य । तत्त्वं प्रत्यगात्मशरीरकपरब्रह्मयाथात्म्यं पश्यतीति तत्त्वदृक् । ध्वस्तानि बन्धनानि पुण्यपापात्मकानि यस्मात् । परमम् “स्वपार्ष्णिना पीड्य" इत्यादिना द्वितीयस्कन्धोक्तं देहोत्क्रमणयोगमाश्रितः जहाविति पूर्वेणान्वयः । ततो गतं देहं न बुबुधे ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा।
मुनेः शुक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः॥
मूलम्
अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा।
मुनेः शुक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः॥ १३ ॥
वीरराघवः
अथ मुनेर्दधीचोऽस्थिभिः शल्यैर्विश्वकर्मणा विनिर्मित वज्रमायुधमुद्यम्य उद्धृत्य भगवत्तेजसान्वितः अत एव उत्सिक्तः ऊर्जित इन्द्रः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
वृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत।
स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव॥
मूलम्
वृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत।
स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव॥ १४ ॥
वीरराघवः
सर्वैः देवगणैः परिवृतो गजेन्द्रस्य ऐरावतस्योपरि पर्यशोभत । ततो मुनिगणैः स्तूयमानो लोकत्रयं हर्षयन्निव शत्रोरहतत्वाद्धर्षयन्निवेति इवशब्दः प्रयुक्तः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
वृत्रमभ्यद्रवच्छेत्तुमसुरानीकयूथपैः।
पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम्॥
मूलम्
वृत्रमभ्यद्रवच्छेत्तुमसुरानीकयूथपैः।
पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम्॥ १५ ॥
अनुवाद (हिन्दी)
भगवान्की शक्ति पाकर इन्द्रका बल-पौरुष उन्नतिकी सीमापर पहुँच गया। अब विश्वकर्माजीने दधीचि ऋषिकी हड्डियोंसे वज्र बनाकर उन्हें दिया और वे उसे हाथमें लेकर ऐरावत हाथीपर सवार हुए। उनके साथ-साथ सभी देवतालोग तैयार हो गये। बड़े-बड़े ऋषि-मुनि देवराज इन्द्रकी स्तुति करने लगे। अब उन्होंने त्रिलोकीको हर्षित करते हुए वृत्रासुरका वध करनेके लिये उसपर पूरी शक्ति लगाकर धावा बोल दिया—ठीक वैसे ही, जैसे भगवान् रुद्र क्रोधित होकर स्वयं कालपर ही आक्रमण कर रहे हों। परीक्षित्! वृत्रासुर भी दैत्य-सेनापतियोंकी बहुत बड़ी सेनाके साथ मोर्चेपर डटा हुआ था॥ १३—१५॥
वीरराघवः
असुरसैन्यानां नायकैः पर्यस्तं परिवेष्टितं शत्रुं वृत्रमभ्यद्रवदभिमुखमगात् यथा प्रलयकाले क्रुद्धो रुद्रः अन्तगं प्रति अन्तमवसानं गच्छतीति अन्तगः प्रपञ्चः तं प्रति । अन्तक इति पाठे अन्तं करोतीत्यन्तकः “अन्येभ्योऽपि दृश्यते" इति ढः प्रत्ययः । जगद्विनाशकृदित्यर्थः । अन्तकमिति द्वितीयान्तपाठे त्वन्तकं मृत्युं प्रतिवेत्यभूतोपमेयम् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
ततः सुराणामसुरै रणः परमदारुणः।
त्रेतामुखे नर्मदायामभवत् प्रथमे युगे॥
मूलम्
ततः सुराणामसुरै रणः परमदारुणः।
त्रेतामुखे नर्मदायामभवत् प्रथमे युगे॥ १६ ॥
अनुवाद (हिन्दी)
जो वैवस्वत मन्वन्तर इस समय चल रहा है, इसकी पहली चतुर्युगीका त्रेतायुग अभी आरम्भ ही हुआ था। उसी समय नर्मदातटपर देवताओंका दैत्योंके साथ यह भयंकर संग्राम हुआ॥ १६॥
वीरराघवः
ततोऽसुरैः सह सुराणां परमदारुणो रणः संग्रामोऽभूत् । कदा क्व तत्राह - प्रथमे चतुर्युगे त्रेतामुखे त्रेतायुगारम्भे प्रथमेऽन्तरे इति पाठे प्रथमे कृतत्रेतयोरन्तरालकाले प्रथममन्वन्तरे वा । नर्मदायां नद्याम् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः।
मरुद्भिर्ऋभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम्॥
मूलम्
रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः।
मरुद्भिर्ऋभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम्॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया।
नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः॥
मूलम्
दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया।
नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः॥ १८ ॥
अनुवाद (हिन्दी)
उस समय देवराज इन्द्र हाथमें वज्र लेकर रुद्र, वसु, आदित्य, दोनों अश्विनीकुमार, पितृगण, अग्नि, मरुद्गण, ऋभुगण, साध्यगण और विश्वेदेव आदिके साथ अपनी कान्तिसे शोभायमान हो रहे थे। वृत्रासुर आदि दैत्य उनको अपने सामने आया देख और भी चिढ़ गये॥ १७-१८॥
वीरराघवः
हे राजन् ! मृधे युद्धे रुद्रादिभिः परिवृतं वज्रायुधधरं स्वया प्रभया रोचमानं मरुत्पतिमिन्द्रं दृष्ट्वा वृत्रप्रभृतयोऽसुराः नामृष्यन्नासहन्त ॥ १७-१८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽम्बरः।
हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः॥
मूलम्
नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽम्बरः।
हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः।
दैतेया दानवा यक्षा रक्षांसि च सहस्रशः॥
मूलम्
पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः7।
दैतेया दानवा यक्षा रक्षांसि च सहस्रशः॥ २० ॥
वीरराघवः
नमुच्यादयः ॥ १९-२० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः।
प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम्॥
मूलम्
सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः।
प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम्॥ २१ ॥
अनुवाद (हिन्दी)
तब नमुचि, शम्बर, अनर्वा, द्विमूर्धा, ऋषभ, अम्बर, हयग्रीव, शंकुशिरा, विप्रचित्ति, अयोमुख, पुलोमा, वृषपर्वा, प्रहेति, हेति, उत्कल, सुमाली, माली आदि हजारों दैत्य-दानव एवं यक्ष-राक्षस स्वर्णके साज-सामानसे सुसज्जित होकर देवराज इन्द्रकी सेनाको आगे बढ़नेसे रोकने लगे। परीक्षित्! उस समय देवताओंकी सेना स्वयं मृत्युके लिये भी अजेय थी॥ १९—२१॥
वीरराघवः
तथा समालिप्रभृतयश्च सर्वे कार्त्तस्वरपरिच्छदाः सुवर्णमयाः परिच्छदाः परिकरा येषां ते मृत्योरपि दुरासदं दुष्प्रापमिन्द्रसेनाग्रमिन्द्रसेनाया अग्रं पुरोभागं प्रतिषिध्यावरुध्य ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
अभ्यर्दयन्नसंभ्रान्ताः सिंहनादेन दुर्मदाः।
गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः॥
मूलम्
अभ्यर्दयन्नसंभ्रान्ताः सिंहनादेन दुर्मदाः।
गदाभिः परिघैर्बाणैः 8प्रासमुद्गरतोमरैः॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः।
सर्वतोऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान्॥
मूलम्
शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः।
सर्वतोऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान्॥ २३ ॥
अनुवाद (हिन्दी)
वे घमंडी असुर सिंहनाद करते हुए बड़ी सावधानीसे देवसेनापर प्रहार करने लगे। उन लोगोंने गदा, परिघ, बाण, प्रास, मुद्गर, तोमर, शूल, फरसे, तलवार, शतघ्नी (तोप), भुशुण्डि आदि अस्त्र-शस्त्रोंकी बौछारसे देवताओंको सब ओरसे ढक दिया॥ २२-२३॥
वीरराघवः
असम्भ्रान्ता अपरवशाः सन्तः दुर्मदा सिंहनादेनाभ्यद्रवन् गदादिभिः शस्त्रैश्च विबुधर्षभान् सुरान् सर्वतोऽवाकिरन् तत्र शतघ्नी चतुर्हस्ता लोहकण्टकसंयुक्ताः ॥ २२-२३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
न तेऽदृश्यन्त संछन्नाः शरजालैः समन्ततः।
पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः॥
मूलम्
न तेऽदृश्यन्त संछन्नाः शरजालैः समन्ततः।
पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः॥ २४ ॥
अनुवाद (हिन्दी)
एक-पर-एक इतने बाण चारों ओरसे आ रहे थे कि उनसे ढक जानेके कारण देवता दिखलायी भी नहीं पड़ते थे—जैसे बादलोंसे ढक जानेपर आकाशके तारे नहीं दिखायी देते॥ २४॥
वीरराघवः
पुङ्खो मूलदेशः एकस्य पुङ्खमनु तत्संलग्नोऽपरस्य पुङ्खो यथा भवति तथा समन्तात्पतितैः शरजालैः संछन्नास्ते देवा न दृश्यन्त यथा नभोघनैर्नभःस्थैर्मेधैराच्छन्नानि ज्योतींषि इत्यनेन तेषां तदप्राप्तिः सूचिता ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान्।
छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा॥
मूलम्
न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान्।
छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा॥ २५ ॥
अनुवाद (हिन्दी)
परीक्षित्! वह शस्त्रों और अस्त्रोंकी वर्षा देवसैनिकोंको छूतक न सकी। उन्होंने अपने हस्तलाघवसे आकाशमें ही उनके हजार-हजार टुकड़े कर दिये॥ २५॥
वीरराघवः
तामेवाह । न त इति ते । शस्त्राणामत्राणां च यानि वीर्याणि तेषामोघाः सङ्घाः सुरसैनिकान्नासेदुर्न प्रापुः किन्तु । लघुहस्तैर्हस्तलाघवशालिभिस्तैर्देवैः सहस्रधा सिद्धपथे आकाशे छिन्ना बभूवुः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः।
अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत्॥
मूलम्
अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः।
अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत्॥ २६ ॥
अनुवाद (हिन्दी)
जब असुरोंके अस्त्र-शस्त्र समाप्त हो गये, तब वे देवताओंकी सेनापर पर्वतोंके शिखर, वृक्ष और पत्थर बरसाने लगे। परन्तु देवताओंने उन्हें पहलेकी ही भाँति काट गिराया॥ २६॥
वीरराघवः
अथ तीक्ष्णाश्छिन्ना अस्त्रशस्त्राणामोघा येषां ते दानवा गिरिशृङ्गैर्दुमैः उपलैः पाषाणैश्च सुराणां बलमभ्यवर्षन् तान् गिरिशृङ्गादीन्पूर्ववद्देवाश्चिच्छिदुश्छिन्नवन्तः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
तानक्षतान् स्वस्तिमतो निशाम्य
शस्त्रास्त्रपूगैरथ वृत्रनाथाः।
द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गै-
रविक्षतांस्तत्रसुरिन्द्रसैनिकान्॥
मूलम्
तानक्षतान् स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः।
द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गैरविक्षतांस्तत्रसुरिन्द्रसैनिकान्॥ २७ ॥
वीरराघवः
अथ वृत्रो नाथो येषां तेऽसुराः सर्वे स्वशस्त्राणां पूगैः सङ्घैरक्षतानताडितानत एवं स्वस्तिमतः सुखिनः तथा दुमैर्दृषद्भिः पाषाणैर्विविधैरद्रीणां शृङ्गैश्वाक्षतानिन्द्रसैनिकान्निशाम्य दृष्ट्वा सर्वेऽसुरास्तत्रसुः भीताः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
सर्वे प्रयासा अभवन् विमोघाः
कृताः कृता देवगणेषु दैत्यैः।
कृष्णानुकूलेषु यथा महत्सु
क्षुद्रैः प्रयुक्ता रुशती रूक्षवाचः॥
मूलम्
सर्वे प्रयासा अभवन् विमोघाः कृताः कृता देवगणेषु दैत्यैः।
कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता रुशती रूक्षवाचः॥ २८ ॥
अनुवाद (हिन्दी)
परीक्षित्! जब वृत्रासुरके अनुयायी असुरोंने देखा कि उनके असंख्य अस्त्र-शस्त्र भी देव-सेनाका कुछ न बिगाड़ सके—यहाँतक कि वृक्षों, चट्टानों और पहाड़ोंके बड़े-बड़े शिखरोंसे भी उनके शरीरपर खरोंचतक नहीं आयी, सब-के-सब सकुशल हैं—तब तो वे बहुत डर गये! दैत्यलोग देवताओंको पराजित करनेके लिये जो-जो प्रयत्न करते, वे सब-के-सब निष्फल हो जाते—ठीक वैसे ही, जैसे भगवान् श्रीकृष्णके द्वारा सुरक्षित भक्तोंपर क्षुद्र मनुष्योंके कठोर और अमंगलमय दुर्वचनोंका कोई प्रभाव नहीं पड़ता॥ २७-२८॥
वीरराघवः
देवगणेषु दैत्यैर्ये ये कृताः प्रयासास्ते सर्वे विमोघा व्यर्था अभवन् तत्र हेतुं वदन् देवगणान्विशिनष्टि । कृष्णानुकूलेष्विति । कृष्णोऽनुकूलो येषां तेषु तत्र दृष्टान्तमाह । यथेति । क्षुद्रैः प्रयुक्ताः रुशती रुशत्योऽकल्याण्यः रूक्षाः परुषा वाचो यथा महत्सु विमोहकाः क्षोभका न भवन्ति तथेति ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
ते स्वप्रयासं वितथं निरीक्ष्य
हरावभक्ता हतयुद्धदर्पाः।
पलायनायाजिमुखे विसृज्य
पतिं मनस्ते दधुरात्तसाराः॥
मूलम्
ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः।
पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः॥ २९ ॥
अनुवाद (हिन्दी)
भगवद्विमुख असुर अपना प्रयत्न व्यर्थ देखकर उत्साहरहित हो गये। उनका वीरताका घमंड जाता रहा। अब वे अपने सरदार वृत्रासुरको युद्धभूमिमें ही छोड़कर भाग खड़े हुए; क्योंकि देवताओंने उनका सारा बल-पौरुष छीन लिया था॥ २९॥
वीरराघवः
हरौ भगवत्यभक्ताः अत एवान्तः सुरैर्गृहीतः सारो बलं येषाम् अत एव हतः युद्धे दर्पो गर्वो येषां तेऽसुरा वितथं व्यर्थं स्वप्रयासं निरीक्ष्य अधुनास्माकं सर्वे प्रयासाः व्यर्था एवेत्यालोच्यतेऽतिप्रसिद्धा अपि दैत्या एवं ते इत्यस्यापौनरुक्त्यमाजिमुखे युद्धारम्भे पतिं वृत्रं विसृज्य पलायनाय मनो दधुः चक्रुः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
वृत्रोऽसुरांस्ताननुगान् मनस्वी
प्रधावतः प्रेक्ष्य बभाष एतत्।
पलायितं प्रेक्ष्य बलं च भग्नं
भयेन तीव्रेण विहस्य वीरः॥
मूलम्
वृत्रोऽसुरांस्ताननुगान् मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत्।
पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः॥ ३० ॥
अनुवाद (हिन्दी)
जब धीर-वीर वृत्रासुरने देखा कि मेरे अनुयायी असुर भाग रहे हैं और अत्यन्त भयभीत होकर मेरी सेना भी तहस-नहस और तितर-बितर हो रही है, तब वह हँसकर कहने लगा॥ ३०॥
वीरराघवः
अथ धीरो वृत्रः प्रधावतः तीव्रेण भयेन पलायमानांस्ताननुगान् भृत्यान् प्रेक्ष्य तथा किञ्चिद्भग्नमवशिष्टं पलायितं बलं च प्रेक्ष्य विहस्येदं वक्ष्यमाणं बभाषे ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
कालोपपन्नां रुचिरां मनस्विना-
मुवाच वाचं पुरुषप्रवीरः।
हे विप्रचित्ते नमुचे पुलोमन्
मयानर्वञ्छम्बर मे शृणुध्वम्॥
मूलम्
कालोपपन्नां रुचिरां मनस्विनामुवाच वाचं पुरुषप्रवीरः।
हे विप्रचित्ते नमुचे पुलोमन् मयानर्वञ्छम्बर मे शृणुध्वम्॥ ३१ ॥
अनुवाद (हिन्दी)
वीरशिरोमणि वृत्रासुरने समयानुसार वीरोचित वाणीसे विप्रचित्ति, नमुचि, पुलोमा, मय, अनर्वा,शम्बर आदि दैत्योंको सम्बोधित करके कहा—‘असुरो! भागो मत, मेरी एक बात सुन लो॥ ३१॥
वीरराघवः
एतद्वभाष इत्येतदेव प्रपञ्चयति । पुरुषश्रेष्ठः मनस्वी प्रशस्तमनस्कः वृत्रः कालोचितां मनस्विनां रुचिरां च वाचमुवाच । उक्तमेवाह । हे विप्रचित्ते ! इत्यादिना यावदध्यायपरिसमाप्ति । हे मय ! हेऽनर्वन् ! मे वाचं शृणुध्वम् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
जातस्य मृत्युर्ध्रुव एष सर्वतः
प्रतिक्रिया यस्य न चेह कॢप्ता।
लोको यशश्चाथ ततो यदि ह्यमुं
को नाम मृत्युं न वृणीत युक्तम्॥
मूलम्
जातस्य मृत्युर्ध्रुव एष सर्वतः प्रतिक्रिया यस्य न चेह 9कॢप्ता।
लोको यशश्चाथ ततो यदि ह्यमुं को नाम मृत्युं न वृणीत युक्तम्॥ ३२ ॥
अनुवाद (हिन्दी)
इसमें सन्देह नहीं कि जो पैदा हुआ है, उसे एक-न-एक दिन अवश्य मरना पड़ेगा। इस जगत्में विधाताने मृत्युसे बचनेका कोई उपाय नहीं बताया है। ऐसी स्थितिमें यदि मृत्युके द्वारा स्वर्गादि लोक और सुयश भी मिल रहा हो तो ऐसा कौन बुद्धिमान् है, जो उस उत्तम मृत्युको न अपनायेगा॥ ३२॥
वीरराघवः
सर्वतः सर्वस्य जातस्य जन्तोरेष मृत्युर्ध्रुवः निश्चितः मृत्युं विशिनष्टि । यस्य मृत्योरिह लोके प्रतिक्रिया प्रतीकारः न कॢप्ता नास्ति । किञ्च । शत्रुभ्यो मृत्युभयनिमित्तात्पलायनादयशस्करात्परलोकहानिकरात्तेभ्यो मृत्युरेव स्वर्गसंपादकः कीर्त्तिकरश्च श्रेयान् सङ्ग्रामे शत्रुभ्यो मृत्युर्दुर्लभश्चातस्तमेव वृणीतेत्याह । लोक इति द्वाभ्याम् । अथ हे दानवाः ! ततः सङ्ग्रामे मृत्योर्यदि लोकः वीरस्वर्गः यशश्च स्यात्तर्ह्यमुं मृत्युं युक्तं प्राप्तं को नाम न वृणोति किन्तु वृणुयादेव ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
द्वौ संमताविह मृत्यू दुरापौ
यद् ब्रह्मसंधारणया जितासुः।
कलेवरं योगरतो विजह्याद्
यदग्रणीर्वीरशयेऽनिवृत्तः॥
मूलम्
द्वौ संमताविह मृत्यू दुरापौ यद् ब्रह्मसंधारणया जितासुः।
कलेवरं योगरतो विजह्याद् यदग्रणीर्वीरशयेऽनिवृत्तः॥ ३३ ॥
अनुवाद (हिन्दी)
संसारमें दो प्रकारकी मृत्यु परम दुर्लभ और श्रेष्ठ मानी गयी है—एक तो योगी पुरुषका अपने प्राणोंको वशमें करके ब्रह्मचिन्तनके द्वारा शरीरका परित्याग और दूसरा युद्धभूमिमें सेनाके आगे रहकर बिना पीठ दिखाये जूझ मरना (तुमलोग भला, ऐसा शुभ अवसर क्यों खो रहे हो)’॥ ३३॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्यायः॥ १० ॥
वीरराघवः
दुरापौ दुर्लभौ द्वौ मृत्यू इह लोके शास्त्रसम्मतौ कौ तौ तावज्जितासुर्जितान्तर्बाह्येन्द्रियप्राणो योगसक्तः ब्रह्मसन्धारणया ब्रह्मविषयकधारणायोगेन कलेवरं त्यजेदिति यत्स एकः तथा वीरशये रणभूमौ अनिवृत्तोऽपराङ्मुखः कलेवरं जह्यादिति यत् सोऽपरो मृत्युः तथा चोक्तम् । द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः । इति ॥ ३३ ॥
इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां दशमोऽध्यायः ॥ १० ॥