[नवमोऽध्यायः]
भागसूचना
विश्वरूपका वध, वृत्रासुरद्वारा देवताओंकी हार और भगवान्की प्रेरणासे देवताओंका दधीचि ऋषिके पास जाना
श्लोक-१
मूलम् (वचनम्)
श्रीशुक1 उवाच
विश्वास-प्रस्तुतिः
तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत।
सोमपीथं सुरापीथमन्नादमिति शुश्रुम॥
मूलम्
तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत।
सोमपीथं सुरापीथमन्नादमिति शुश्रुम॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! हमने सुना है कि विश्वरूपके तीन सिर थे। वे एक मुँहसे सोमरस तथा दूसरेसे सुरा पीते थे और तीसरेसे अन्न खाते थे॥ १॥
वीरराघवः
एवं देवैः पुरोहितत्वेन वृतस्तत्प्रियं कुर्वन्नपि विश्वरूपोऽसुरपक्षपातं “यदि क्षमिष्यध्वमुतास्य कर्म” इति ब्रह्मणा सूचितमकरोदिति वक्तुमुपक्रमते मुनिः । तस्येति । तस्य विश्वरूपस्य हे भारत ! त्रीणि शिरांस्यासन् बभूवुः । तत्रैकं शिरः सोमपीथं सोमपीथाख्यं सोमस्य पीथः पानं यस्य सोमं पिबतीति वा सोमपीथमित्यन्वर्थं नाम । तथा सुरापीथमन्यच्छिरः । अन्नमत्तीत्यन्नादमिति तृतीयं शिर इति शुश्रुम । वेदे इति शेषः । तथा च श्रुतिः “विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणां तस्य त्रीणि शीर्षाण्यासन् सोमपानं सुरापानमन्नादम्" इति ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः।
अवदद् यस्य पितरो देवाः सप्रश्रयं नृप॥
मूलम्
स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः।
अवदद् यस्य पितरो देवाः सप्रश्रयं नृप॥ २ ॥
अनुवाद (हिन्दी)
उनके पिता त्वष्टा आदि बारह आदित्य देवता थे, इसलिये वे यज्ञके समय प्रत्यक्षरूपमें ऊँचे स्वरसे बोलकर बड़े विनयके साथ देवताओंको आहुति देते थे॥ २॥
वीरराघवः
स विश्वरूपो बर्हिषि यज्ञे प्रत्यक्षं प्रकटं यथा भवति तथा सविनयं देवेभ्यो हविर्भागमिन्द्रायेदमग्नये इदमित्युञ्चैरवदत् । तस्य हेतुः यस्य विश्वरूपस्य पितरो देवाः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
स एव हि ददौ भागं परोक्षमसुरान् प्रति।
यजमानोऽवहद् भागं मातृस्नेहवशानुगः॥
मूलम्
स एव हि ददौ भागं परोक्षमसुरान् प्रति।
यजमानोऽवहद् भागं मातृस्नेहवशानुगः॥ ३ ॥
अनुवाद (हिन्दी)
साथ ही वे छिप-छिपकर असुरोंको भी आहुति दिया करते थे। उनकी माता असुरकुलकी थीं, इसीलिये वे मातृस्नेहके वशीभूत होकर यज्ञ करते समय उस प्रकार असुरोंको भाग पहुँचाया करते थे॥ ३॥
वीरराघवः
स विश्वरूप एवासुरान्प्रति परोक्षं यथा तथा भागं ददौ । तदेवाह । देवान् यजमानोऽसौ विश्वरूपो मातृप्रयुक्तो यः स्नेहो मातुलेषु तद्वशं गतः असुरान्प्रति भागमवहत्प्रापयत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तद् देवहेलनं तस्य धर्मालीकं सुरेश्वरः।
आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद् रुषा॥
मूलम्
तद् देवहेलनं तस्य धर्मालीकं सुरेश्वरः।
आलक्ष्य तरसा 2भीतस्तच्छीर्षाण्यच्छिनद् रुषा॥ ४ ॥
अनुवाद (हिन्दी)
देवराज इन्द्रने देखा कि इस प्रकार वे देवताओंका अपराध और धर्मकी ओटमें कपट कर रहे हैं। इससे इन्द्र डर गये और क्रोधमें भरकर उन्होंने बड़ी फुर्तीसे उनके तीनों सिर काट लिये॥ ४॥
वीरराघवः
तद्विश्वरूपस्य देववञ्चनात्मकमलीकं कपटं कर्मालक्ष्य ज्ञात्वा सुरेश्वर इन्द्रस्तरसा आशु भीतस्तस्य विश्वरूपस्य शीर्षाणि शिरांसि क्रोधेनाच्छिनच्चिच्छेद ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
सोमपीथं तु यत् तस्य शिर आसीत् कपिञ्जलः।
कलविङ्कः सुरापीथमन्नादं यत् स तित्तिरिः॥
मूलम्
सोमपीथं तु यत् तस्य शिर आसीत् कपिञ्जलः।
कलविङ्कः सुरापीथमन्नादं यत् स तित्तिरिः॥ ५ ॥
अनुवाद (हिन्दी)
विश्वरूपका सोमरस पीनेवाला सिर पपीहा, सुरापान करनेवाला गौरैया और अन्न खानेवाला तीतर हो गया॥ ५॥
वीरराघवः
तस्य यत्सोमपीथाख्यं छिन्नं शिरस्तत्कपिञ्जलः पक्षिविशेषः आसीत् । सुरापीथाख्यं तु कलविङ्काख्यः पक्षी आसीत् । यदन्नादाख्यं तत्तित्तिरिः पक्षी आसीत् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः।
संवत्सरान्ते तदघं भूतानां स विशुद्धये।
भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः॥
मूलम्
ब्रह्महत्यामञ्जलिना जग्राह 3यदपीश्वरः।
संवत्सरान्ते तदघं भूतानां स विशुद्धये।
भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः॥ ६ ॥
अनुवाद (हिन्दी)
इन्द्र चाहते तो विश्वरूपके वधसे लगी हुई हत्याको दूर कर सकते थे; परन्तु उन्होंने ऐसा करना उचित न समझा, वरं हाथ जोड़कर उसे स्वीकार कर लिया तथा एक वर्षतक उससे छूटनेका कोई उपाय नहीं किया। तदनन्तर सब लोगोंके सामने अपनी शुद्धि प्रकट करनेके लिये उन्होंने अपनी ब्रह्महत्याको चार हिस्सोंमें बाँटकर पृथ्वी, जल, वृक्ष और स्त्रियोंको दे दिया॥ ६॥
वीरराघवः
यद्यपि, यद्यपीश्वरः ब्रह्महत्यां वारयितुं समर्थोऽपि ब्रह्महत्यां तन्मूर्त्तिभूतं पापमञ्जलिना जग्राह । स हरिः इन्द्रः वत्सरपर्यन्ते हे ब्रह्मन्निति सम्बोधयतां भूतानां जनानां मध्ये आत्मनो विशुद्धये भूताक्रोशनिवृत्तये । भूताशंसाविशुद्धय इति पाठान्तरं तत्राप्ययमेवार्थः । भूम्यादिभ्यस्तत्पापं चतुर्द्धा व्यभजत् । चतुर्द्धा विभज्य भूम्यादिषु चतुर्ष्वेकैकं भागं निहितवानित्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
भूमिस्तुरीयं जग्राह खातपूरवरेण वै।
ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते॥
मूलम्
भूमिस्तुरीयं जग्राह खातपूरवरेण वै।
ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते॥ ७ ॥
अनुवाद (हिन्दी)
परीक्षित्! पृथ्वीने बदलेमें यह वरदान लेकर कि जहाँ कहीं गड्ढा होगा, वह समयपर अपने-आप भर जायगा, इन्द्रकी ब्रह्महत्याका चतुर्थांश स्वीकार कर लिया। वही ब्रह्महत्या पृथ्वीमें कहीं-कहीं ऊसरके रूपमें दिखायी पड़ती है॥ ७॥
वीरराघवः
तत्र ब्रह्महत्यायास्तुरीयं चतुर्थं भागं भूमिः खातपूरवरेण जग्राह खातस्य गर्त्तस्य पूरः पूरणं तेन वरेण । यदि मे खातः स्यात्तर्हि स्वत एव पूरणं भवत्विति एवंरूपेण वरग्रहणपूर्वकं जग्राहेत्यर्थः । भूम्या यद् ब्रह्महत्याया रूपं तदीरिणमूषरम् ऊषररूपेण दृश्यत इत्यर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः।
तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते॥
मूलम्
तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः।
तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते॥ ८ ॥
अनुवाद (हिन्दी)
दूसरा चतुर्थांश वृक्षोंने लिया। उन्हें यह वर मिला कि उनका कोई हिस्सा कट जानेपर फिर जम जायगा। उनमें अब भी गोंदके रूपमें ब्रह्महत्या दिखायी पड़ती है॥ ८॥
वीरराघवः
यथा ब्रह्महत्यायाश्चतुर्थमंशं द्रुमाश्छेदरोहेण वरेण जगृहुः । छिन्नप्रदेशस्य पुनः प्ररोहणरूपेण वरेणेत्यर्थः । तेषु दुमेषु निर्यासरूपेणापि ब्रह्महत्या प्रदृश्यते ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः।
रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते॥
मूलम्
शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः।
रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते॥ ९ ॥
अनुवाद (हिन्दी)
स्त्रियोंने यह वर पाकर कि वे सर्वदा पुरुषका सहवास कर सकें, ब्रह्महत्याका तीसरा चतुर्थांश स्वीकार किया। उनकी ब्रह्महत्या प्रत्येक महीनेमें रजके रूपसे दिखायी पड़ती है॥ ९॥
वीरराघवः
स्त्रियो योषितः शश्वत्कामवरेण आप्रसवाद्भोगयोग्यत्ववरेण अंहसः ब्रह्महत्यायाः तुरीयं चतुर्थं भागं जगृहुः । तासु स्त्रीषु रजोरूपेण रुधिररूपेणांहः पापं मासि मासि प्रदृश्यते ॥ ६ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम्।
तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन्॥
अनुवाद (हिन्दी)
जलने यह वर पाकर कि खर्च करते रहनेपर भी निर्झर आदिके रूपमें तुम्हारी बढ़ती ही होती रहेगी, ब्रह्महत्याका चौथा चतुर्थांश स्वीकार किया। फेन, बुद्बुद आदिके रूपमें वही ब्रह्महत्या दिखायी पड़ती है। अतएव मनुष्य उसे हटाकर जल ग्रहण किया करते हैं॥ १०॥
वीरराघवः
आप अम्बूनि द्रवभूयोवरेण द्रवाधिक्यरूपेण वरेण हत्यायास्तुरीयं मलं पापं जगृहुः । तास्वप्सु तद्धरेरिन्द्रस्य किल्बिषं बुद्बुदफेनाभ्यां बुद्बुदफेनरूपेण दृष्टं दृश्यत इत्यर्थः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे।
इन्द्रशत्रो विवर्धस्व माचिरं जहि विद्विषम्॥
मूलम्
6हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे।
इन्द्रशत्रो विवर्धस्व माचिरं जहि विद्विषम्॥ ११ ॥
अनुवाद (हिन्दी)
विश्वरूपकी मृत्युके बाद उनके पिता त्वष्टा ‘हे इन्द्रशत्रो! तुम्हारी अभिवृद्धि हो और शीघ्र-से-शीघ्र तुम अपने शत्रुको मार डालो’—इस मन्त्रसे इन्द्रका शत्रु उत्पन्न करनेके लिये हवन करने लगे॥ ११॥
वीरराघवः
ततस्त्वष्ट्रा इन्द्रेण हतः पुत्रो यस्य तादृशः इन्द्राय शत्रवे जुहाव इन्द्रायात तादर्थ्ये चतुर्थी तदर्थश्चात्र तन्निवृत्तिरर्थशब्दस्य निवृत्तेरपि वाचकत्वात् । यथा मशकार्थो धूमः मशकेभ्यो धूम इति । इन्द्रविनाशार्थमजुहोदित्यर्थः । हुत्वैवं प्रार्थितवानित्याह । इन्द्रशत्रो इति । इन्द्रस्य शत्रो मा[[??]]चिरमाशु विवर्द्धस्व स्वविद्विषमिन्द्र जहि विनाशयेति ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
अथान्वाहार्यपचनादुत्थितो घोरदर्शनः।
कृतान्त इव लोकानां युगान्तसमये यथा॥
मूलम्
अथान्वाहार्यपचनादुत्थितो घोरदर्शनः।
कृतान्त इव लोकानां युगान्तसमये यथा॥ १२ ॥
अनुवाद (हिन्दी)
यज्ञ समाप्त होनेपर अन्वाहार्य-पचन नामक अग्नि (दक्षिणाग्नि)-से एक बड़ा भयावना दैत्य प्रकट हुआ। वह ऐसा जान पड़ता था, मानो लोकोंका नाश करनेके लिये प्रलयकालीन विकराल काल ही प्रकट हुआ हो॥ १२॥
वीरराघवः
अथ होमानन्तरमन्वाहार्यपचनाद्दक्षिणाग्नेर्घोरदर्शनोऽसुर उत्थितः उदितः तं विशिनष्टि । यः लोकानां युगान्तसमये प्रलये कृतान्तो मृत्युरिव स्थितः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने।
दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम्॥
मूलम्
विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने।
दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम्॥ १३ ॥
अनुवाद (हिन्दी)
परीक्षित्! वह प्रतिदिन अपने शरीरके सब ओर बाणके बराबर बढ़ जाया करता था। वह जले हुए पहाड़के समान काला और बड़े डील-डौलका था। उसके शरीरमेंसे सन्ध्याकालीन बादलोंके समान दीप्ति निकलती रहती थी॥ १३॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम्॥
मूलम्
तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम्॥ १४ ॥
अनुवाद (हिन्दी)
उसके सिरके बाल और दाढ़ी-मूँछ तपे हुए ताँबेके समान लाल रंगके तथा नेत्र दोपहरके सूर्यके समान प्रचण्ड थे॥ १४॥
श्लोक-१५
विश्वास-प्रस्तुतिः
देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी।
नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम्॥
मूलम्
देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी।
नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम्॥ १५ ॥
अनुवाद (हिन्दी)
चमकते हुए तीन नोकोंवाले त्रिशूलको लेकर जब वह नाचने, चिल्लाने और कूदने लगता था, उस समय पृथ्वी काँप उठती थी और ऐसा जान पड़ता था कि उस त्रिशूलपर उसने अन्तरिक्षको उठा रखा है॥ १५॥
वीरराघवः
तमसुरं दिने दिने प्रतिदिनमिषुमात्रम् इषुप्रमाणं विश्वक्सर्वतो विवर्द्धमानम् । दग्धः साङ्गारो यः शैलः पर्वतः तत्प्रतीकाशं तदुपमम् । सन्ध्याभ्राणामनीकस्य समूहस्येव वर्चो यस्य । तप्तताम्रवच्छिखाग्रभागो येषां तादृशानि श्मश्रूणि यस्य । मध्याह्ने योऽर्कः सूर्यः तद्वदुग्रे लोचने यस्य देदीप्यमानास्तिस्रः शिखा यस्मिंस्तस्मिन् शूले रोदसी द्यावापृथिव्यौ तदन्तर्वर्तिपदार्थजातमित्यर्थः । आरोप्य नृत्यन्तम् उन्नदन्तमुच्चैर्ध्वनन्तम् । पदापादेन महीं चालयन्तं कम्पयन्तम् ॥ १३-१५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
दरीगम्भीरवक्त्रेण पिबता च नभस्तलम्।
लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम्॥
मूलम्
दरीगम्भीरवक्त्रेण पिबता च नभस्तलम्।
लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम्॥ १६ ॥
वीरराघवः
दरीवत्पर्वतद्रोणीवद्गभीरचक्रेण किम्भूतेन नभस्तलं पिबतेव स्थितेन किञ्च जिह्वया ऋक्षणि नक्षत्राणि लिहता आस्वादनं कुर्वता भुवनत्रयं ग्रसता ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः।
वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश॥
मूलम्
महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः।
वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो7 दश॥ १७ ॥
अनुवाद (हिन्दी)
वह बार-बार जँभाई लेता था। इससे जब उसका कन्दराके समान गम्भीर मुँह खुल जाता, तब जान पड़ता कि वह सारे आकाशको पी जायगा, जीभसे सारे नक्षत्रोंको चाट जायगा और अपनी विशाल एवं विकराल दाढ़ोंवाले मुँहसे तीनों लोकोंको निगल जायगा। उसके भयावने रूपको देखकर सब लोग डर गये और इधर-उधर भागने लगे॥ १६-१७॥
वीरराघवः
रौद्रा भयङ्करा दंष्ट्राः यस्मिन्महता विपुलेनैवम्भूतेन वक्त्रेण मुहुर्मुहुर्जृम्भमाणं विक्ष्य विशेषेण त्रस्ता भीताः सर्वे लोका दशदिशो दुदुवुः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
येनावृता इमे लोकास्तमसा त्वाष्ट्रमूर्तिना।
स वै वृत्र इति प्रोक्तः पापः परमदारुणः॥
मूलम्
येनावृता इमे लोकास्तमसा8 त्वाष्ट्रमूर्तिना।
स वै वृत्र इति प्रोक्तः पापः परमदारुणः॥ १८ ॥
अनुवाद (हिन्दी)
परीक्षित्! त्वष्टाके तमोगुणी पुत्रने सारे लोकोंको घेर लिया था। इसीसे उस पापी और अत्यन्त क्रूर पुरुषका नाम वृत्रासुर पड़ा॥ १८॥
वीरराघवः
त्वाष्ट्री मूर्त्तिर्यस्य तेन त्वाष्ट्रमूर्त्तिभूतेन तपसा । त्वष्टुस्तपसा येनेमे लोकाः । आवृतास्तेन लोकावरणरूपप्रवृत्तिनिमित्तेन वृत्र इति प्रोक्तः । वृत्रशब्दवाच्यः सोऽभूदित्यर्थः । तथा च श्रुतिः “स इमाल्ँलोकानावृणोत्तद्वृत्रस्य वृत्रत्वम्” इति वृत्रस्य वृत्रशब्दाभिधेयस्य वृत्रत्वं वृत्रशब्दप्रवृत्तिनिमित्तम् । तल्लोकावरणमेवेत्यर्थः । स च पापः धर्मप्रतिपक्षः । लोकपालविरोधित्वादिति भावः । परमदारुणः दुःसहः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः।
स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत् तानि कृत्स्नशः॥
मूलम्
तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः।
स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत् तानि कृत्स्नशः॥ १९ ॥
अनुवाद (हिन्दी)
बड़े-बड़े देवता अपने-अपने अनुयायियोंके सहित एक साथ ही उसपर टूट पड़े तथा अपने-अपने दिव्य अस्त्र-शस्त्रोंसे प्रहार करने लगे। परन्तु वृत्रासुर उनके सारे अस्त्र-शस्त्रोंको निगल गया॥ १९॥
वीरराघवः
तं वृत्रमभिद्रुत्याभिमुखमागत्य सगणाः ससैन्या विबुधर्षभा इन्द्रादयः स्वैः स्वैर्दिव्यानामस्त्राणां शस्त्राणां च ओघैः सङ्घैर्निजघ्नुः प्रजह्नुः । तानि दिव्यान्यस्त्रादीनि स वृत्रोऽग्रसीत् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः।
प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः॥
मूलम्
ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः।
प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः॥ २० ॥
अनुवाद (हिन्दी)
अब तो देवताओंके आश्चर्यकी सीमा न रही। उनका प्रभाव जाता रहा। वे सब-के-सब दीन-हीन और उदास हो गये तथा एकाग्रचित्तसे अपने हृदयमें विराजमान आदिपुरुष श्रीनारायणकी शरणमें गये॥ २०॥
वीरराघवः
ततस्ते देवा विस्मिताः अहो एतस्य दुर्गेयत्वमिति विस्मिताः ग्रस्तं वृत्रेणापहृतं तेजो येषां ते । अत एव विषण्णाः खिन्नाः प्रत्यञ्चं प्रत्यगात्मशरीरकं प्रत्यग्दिग्गतं वा प्रतीच्यां दिश्याविर्भूदिति तत्रैवाविर्भावस्य वक्ष्यमाणत्वात् । आदिपुरुषं जगत्कारणभूतं परमात्मानं समाहितचित्ताः सन्तः उपतस्थुस्तुष्टुवुः । त्रिभुवनस्य तेन व्याप्यत्वादन्यत्र गमनाभावात्तत्रैव स्थित्वा स्वान्तरात्मानं तुष्टुवुरिति भावः ॥ २० ॥
श्लोक-२१
मूलम् (वचनम्)
देवा ऊचुः
विश्वास-प्रस्तुतिः
वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका
ब्रह्मादयो ये वयमुद्विजन्तः।
हराम यस्मै बलिमन्तकोऽसौ
बिभेति यस्मादरणं ततो नः॥
मूलम्
वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः।
हराम यस्मै बलिमन्तकोऽसौ बिभेति यस्मादरणं ततो नः॥ २१ ॥
अनुवाद (हिन्दी)
देवताओंने भगवान्से प्रार्थना की—वायु, आकाश, अग्नि, जल और पृथ्वी—ये पाँचों भूत, इनसे बने हुए तीनों लोक उनके अधिपति ब्रह्मादि तथा हम सब देवता जिस कालसे डरकर उसे पूजा-सामग्रीकी भेंट दिया करते हैं, वही काल भगवान्से भयभीत रहता है। इसलिये अब भगवान् ही हमारे रक्षक हैं॥ २१॥
वीरराघवः
उपस्थितिमेवाह । वाय्वित्यादिना । तावत् “भीषास्माद्वातः पवते एतस्य वाक्षरस्य प्रशासने गार्गि ! द्यावापृथिव्यौ विधृते तिष्ठतः एतस्य वाक्षरस्य प्रशासने गार्गि ! प्राच्यो नद्यः स्वदन्ते" इत्यादिश्रुत्युक्तरीत्या सर्वस्य प्रशासितुः परमात्मनः शासनानुवर्त्तिनामात्मनां तदनन्यशरणत्वं वदन्तः स्तुवन्ति । वाय्विति । वायुश्चाम्बरं चाग्निश्चापश्च क्षितिश्च तास्तथा त्रिलोकाः लोकत्रयान्तर्गता ब्रह्मादयश्चतुर्मुखप्रभृतयो ये च ते सर्वे वयमुद्विजन्तः बिभ्यतः सन्तो यस्मै परमपुरुषाय बलिं तच्छासनानुरूपमाराधनं वहामः प्रापयामः कुर्मः असौ प्रसिद्धोऽन्तको मृत्युरपि यस्माद्बिभेति तस्मात्परमपुरुषादन्यः कः अरणं शरणं रक्षकोऽस्माकम् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
अविस्मितं तं परिपूर्णकामं
स्वेनैव लाभेन समं प्रशान्तम्।
विनोपसर्पत्यपरं हि बालिशः
श्वलाङ्गुलेनातितितर्ति सिन्धुम्॥
मूलम्
अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम्।
विनोपसर्पत्यपरं हि बालिशः श्वलाङ्गुलेनातितितर्ति सिन्धुम्॥ २२ ॥
अनुवाद (हिन्दी)
प्रभो! आपके लिये कोई नयी बात न होनेके कारण कुछ भी देखकर आप विस्मित नहीं होते। आप अपने स्वरूपके साक्षात्कारसे ही सर्वथा पूर्णकाम, सम एवं शान्त हैं। जो आपको छोड़कर किसी दूसरेकी शरण लेता है, वह मूर्ख है। वह मानो कुत्तेकी पूँछ पकड़कर समुद्र पार करना चाहता है॥ २२॥
वीरराघवः
अथ शरण्यत्वौपयिकगुणपूर्णत्वात्तस्यैव शरण्यत्वं तदितरस्याशरण्यत्वं च वदन्तः शरणं ययुः । अविस्मितमिति । अविस्मितं स्वमहिम्नः स्वाभाविकत्वाद्विस्मयरहितं परिपूर्णकाममवाप्तसमस्तकामम् । लभ्यते । इति लाभः स्वाभाविकेनैव लाभेन स्वानुभवानन्देन उपलक्षितं समं रागादिरहितं प्रशान्तमूर्मिषट्करहितं एते हि शरण्यत्वोपयुक्ता गुणाः एतेन समस्तसोपाधिकमहिम्नोऽपरिपूर्णसमस्तकामस्यौपाधिकानन्दयुक्तस्य रागद्वेषादिप्राकृतगुणयुक्तस्योर्मिषट्कपीडितस्य शरणागततुल्यत्वेनाशरण्यत्वं सूचितम् । नहि शृंखलितस्तादृशमन्यं शरणं व्रजति । एवमीश्वरं शरण्यं त्वां विना परमन्यं क्षुद्रं देवं यो बालिशोऽज्ञः सन्नुपसर्पत्यनुवर्त्तते सः श्वलाङ्गुलेन प्लवमानस्य शुनः पुच्छेन साधनेन सिन्धुं तितीर्षुरिव नेष्टं प्राप्नोति प्रत्युत विहतो भवति इत्यर्थः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
यस्योरुशृङ्गे जगतीं स्वनावं
मनुर्यथाऽऽबध्य ततार दुर्गम्।
स एव नस्त्वाष्ट्रभयाद् दुरन्तात्
त्राताऽऽश्रितान् वारिचरोऽपि नूनम्॥
मूलम्
यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाऽऽबध्य ततार दुर्गम्।
स एव नस्त्वाष्ट्रभयाद् दुरन्तात् त्राताऽऽश्रितान् वारिचरोऽपि नूनम्॥ २३ ॥
अनुवाद (हिन्दी)
वैवस्वत मनु पिछले कल्पके अन्तमें जिनके विशाल सींगमें पृथ्वीरूप नौकाको बाँधकर अनायास ही प्रलयकालीन संकटसे बच गये, वे ही मत्स्यभगवान् हम शरणागतोंको वृत्रासुरके द्वारा उपस्थित किये हुए दुस्तर भयसे अवश्य बचायेंगे॥ २३॥
वीरराघवः
यथा मनुचतुर्मुखादयः शरण्यमापद्भयः त्रातारं भक्तवत्सलं भगवन्तमाश्रित्यैवापदोऽत्यवर्त्तन्त तथा वयमपि तमेवापन्निवृत्तये शरणं व्रजाम इत्याहुः । यस्येति द्वाभ्याम् । यस्य महामत्स्यस्योरुशृङ्ग महाशृङ्गे जगतीं पृथ्वीमेव स्वां नावमाबध्य बद्ध्वा मनुः सत्यव्रताख्यो दुर्गं सङ्कटं ततार, अष्टमस्कन्धेऽयमितिहासः स्फुटीभविष्यति, स एव वारिचरो मत्स्यमूर्त्तिर्भगवानाश्रितान् शरणं गतानस्मान् दुरन्तादपारात्त्वाष्ट्रस्य वृत्रस्य भयान्नूनं त्राता रक्षिता भविष्यति अतस्तमेव शरणं व्रजाम इति भावः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
पुरा स्वयम्भूरपि संयमाम्भ-
स्युदीर्णवातोर्मिरवैः कराले।
एकोऽरविन्दात् पतितस्ततार
तस्माद् भयाद् येन स नोऽस्तु पारः॥
मूलम्
पुरा स्वयम्भूरपि संयमाम्भस्युदीर्णवातोर्मिरवैः कराले।
एकोऽरविन्दात् पतितस्ततार तस्माद् भयाद् येन स नोऽस्तु पारः॥ २४ ॥
अनुवाद (हिन्दी)
प्राचीन कालमें प्रचण्ड पवनके थपेड़ोंसे उठी हुई उत्ताल तरंगोंकी गर्जनाके कारण ब्रह्माजी भगवान्के नाभिकमलसे अत्यन्त भयानक प्रलयकालीन जलमें गिर पड़े थे। यद्यपि वे असहाय थे, तथापि जिनकी कृपासे वे उस विपत्तिसे बच सके, वे ही भगवान् हमें इस संकटसे पार करें॥ २४॥
वीरराघवः
तथा पुरा जगदादौ स्वयम्भूर्ब्रह्मापि संयमाम्भसि प्रलयसंबन्धिनि जले कथम्भूते उदीर्णः प्रचण्डो यो वातः पवनस्तेन ये ऊर्मयस्तरङ्गास्तेषां रवैः ध्वनिभिः कराले भयङ्करे संयमाम्भस्यरविन्दान्नाभिकमलात् पतितः पतितप्रायः एकः असहायो येन भगवता साधनभूतेन तस्माद्भयात्ततार स एव नोऽस्माकं पारः पारयतीति पारः पालकोऽस्तु ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
य एक ईशो निजमायया नः
ससर्ज येनानु सृजाम विश्वम्।
वयं न यस्यापि पुरः समीहतः
पश्याम लिङ्गं पृथगीशमानिनः॥
मूलम्
य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम्।
वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथगीशमानिनः॥ २५ ॥
अनुवाद (हिन्दी)
उन्हीं प्रभुने अद्वितीय होनेपर भी अपनी मायासे हमारी रचना की और उन्हींके अनुग्रहसे हमलोग सृष्टिकार्यका संचालन करते हैं। यद्यपि वे हमारे सामने ही सब प्रकारकी चेष्टाएँ कर-करा रहे हैं, तथापि ‘हम स्वतन्त्र ईश्वर हैं’—अपने इस अभिमानके कारण हमलोग उनके स्वरूपको देख नहीं पाते॥ २५॥
वीरराघवः
किञ्च । वयं भगवता सृष्टाः पालिताश्च स इदानीमप्यस्मान्नोपेक्षिष्यत्यतस्तमेव शरणं व्रजाम इत्याहुः । य एक इति त्रिभिः । एकोऽद्वितीयः स्वसमाभ्याधिककारणान्तरानपेक्षो निजमायया आत्मीयसङ्कल्परूपज्ञानेन यः परमपुरुषो नोऽस्मान् ससर्ज येन भगवताऽनुगृहीताः सन्तो वयं विश्वं व्यष्टिवर्गं सृजामः यच्छब्दानां तमेवेति तृतीयेनान्वयः । यस्य च पुरः हृदयकुहरे समीहतः अन्तरात्मतया नियमयतः लिङ्गं दिव्यावग्रहं न पश्यामः । तत्र हेतुः । पृथगीशमानिनः यतः पृथगीश्वरा इत्यभिमानिनो वयम् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
यो नः सपत्नैर्भृशमर्द्यमानान्
देवर्षितिर्यङ्नृषु नित्य एव।
कृतावतारस्तनुभिः स्वमायया
कृत्वाऽऽत्मसात् पाति युगे युगे च॥
मूलम्
यो नः सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यङ्नृषु नित्य एव।
कृतावतारस्तनुभिः स्वमायया कृत्वाऽऽत्मसात् पाति युगे युगे च॥ २६ ॥
अनुवाद (हिन्दी)
वे प्रभु जब देखते हैं कि देवता अपने शत्रुओंसे बहुत पीड़ित हो रहे हैं, तब वे वास्तवमें निर्विकार रहनेपर भी अपनी मायाका आश्रय लेकर देवता, ऋषि, पशु-पक्षी और मनुष्यादि योनियोंमें अवतार लेते हैं, तथा युग-युगमें हमें अपना समझकर हमारी रक्षा करते हैं॥ २६॥
वीरराघवः
यश्च सपत्नैः शत्रुभिः भृशं नितरामभ्यर्द्दमानान् पीडितान्नोऽस्मान् पाति अरक्षत् । कथम्भूतः । नित्य एव सदा अस्मानात्मसात्कृत्वा स्वकीयत्वेन मन्यमानोऽस्मद्रक्षणाय युगे युगे प्रतियुगं स्वमायया स्वकीयसङ्कल्परूपज्ञानेनैव न तु कर्मणेति भावः । तनुभिरुपेन्द्रपरशुराममत्स्यकूर्मवराहरामकृष्णादितनुभिर्देवादिषु कृतावतारः धृतावतारः सन् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
तमेव देवं वयमात्मदैवतं
परं प्रधानं पुरुषं विश्वमन्यम्।
व्रजाम सर्वे शरणं शरण्यं
स्वानां स नो धास्यति शं महात्मा॥
मूलम्
तमेव देवं वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यम्।
व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा॥ २७ ॥
अनुवाद (हिन्दी)
वे ही सबके आत्मा और परमाराध्य देव हैं। वे ही प्रकृति और पुरुषरूपसे विश्वके कारण हैं। वे विश्वसे पृथक् भी हैं और विश्वरूप भी हैं। हम सब उन्हीं शरणागतवत्सल भगवान् श्रीहरिकी शरण ग्रहण करते हैं। उदारशिरोमणि प्रभु अवश्य ही अपने निजजन हम देवताओंका कल्याण करेंगे॥ २७॥
वीरराघवः
तमेव भक्तवत्सलमात्मनामस्माकं दैवतं प्रधानं पुरुषं कारणावस्थचिदचिच्छरीरकमन्यं चिदचिद्विलक्षणं परमुत्कृष्टमत एव शरण्यं शरणमर्हतीति शरण्यः तं सर्वे वयं देवाः शरणं व्रजाम रक्षकत्वेनाध्यवस्यामः । एतावदेवास्मत्कृत्यमिति भावः । तत्र शरण्यकृत्यं प्रकाशयन्तः शरणागत्यङ्गमात्मनां महाविश्वासं दर्शयन्ति । स्वानामिति । स्वीयत्वेन परिगृहीतानां नोऽस्माकं शं सुखं शत्रुनिरसनद्वारकं नूनं धास्यति स तु महात्मा कृतस्वभक्तरक्षादीक्षः । एवं रक्षिष्यतीति विश्वासः प्रपत्त्यङ्गभूतो दर्शितः । स नोऽस्तु पार इत्यनेन गोष्तृत्ववरणम् । आत्मदैवतं प्रधानं पुरुषं विश्वं शरणं व्रजामेत्यनेन चिदचिच्छरीरकत्वकथनाच्छरीरस्य शरीरिशेषित्वैकस्वरूपत्वादात्मनः परमात्मैकशेषत्वानुसन्धानरूपात्मनिक्षेपः । न पश्यामः लिङ्गं सपत्नैर्भृशमर्द्यमानानित्यनेन च ज्ञानशक्तिबलाद्यभावरूपमात्मनां कार्पण्यमपि प्रदर्शितम् । तं विनोपसर्पत्यपरं हि बालिश इत्यनेनोपायान्तरनिष्ठत्वादिरूपप्रातिकूल्यवर्जनं प्रदर्शितम् । कृत्स्नचिदचिच्छरीरकत्वकथनेनैव “चराचराणि भूतानि सर्वाणि भगवद्वपुरतस्तदानुकूल्यं मे” इत्युक्तरीत्या भगवच्छरीरभूतसर्वभूतानुकूल्यमप्यात्मनां प्रदर्शितम् । न च सर्वभूतानुकूल्यस्याभिप्रेतत्वे शत्रुनिरसनप्रार्थनानुपपत्तिः, अस्याः प्रपत्तेर्मोक्षार्थत्वाभावात् । तस्या एव हि सर्वभूतानुकूल्यरूपमङ्गमपेक्षितं अस्यास्तु शत्रुनिरसनार्थत्वात्तद्वयतिरिक्तभूतानुकूल्यसङ्कल्पमात्रमेवापेक्षितमित्युत्पश्यन्तु विचक्षणाः ॥ २७ ॥
श्लोक-२८
मूलम् (वचनम्)
श्रीशुक9 उवाच
विश्वास-प्रस्तुतिः
इति तेषां महाराज सुराणामुपतिष्ठताम्।
प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः॥
मूलम्
इति तेषां महाराज 10सुराणामुपतिष्ठताम्।
प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः॥ २८ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—महाराज! जब देवताओंने इस प्रकार भगवान्की स्तुति की, तब स्वयं शंख-चक्र-गदा-पद्मधारी भगवान् उनके सामने पश्चिमकी ओर (अन्तर्देशमें) प्रकट हुए॥ २८॥
वीरराघवः
एवं सुरैः प्रपद्यमानो भगवानाविरभूदित्याह मुनिः । इतीति । हे महाराज ! इतीत्थं सुराणां देवानामुपतिष्ठतां प्रपदनपूर्वकं स्तुवतां सतां शङ्खचक्रगदाधरो भगवान् प्रतीच्यां प्रत्यगात्मसम्बधिन्यां दिशि हृदये “हृदि ह्ययमात्मा प्रतिष्ठितः” इति श्रुतेः प्रथमं हृद्याविरभूत्ततः पुरत आविरभूदित्यर्थः । यद्वा । प्रतीच्यां पश्चिमायां दिशि इत्यर्थः । देवानां पृष्ठत इति यावत् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ।
पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम्॥
मूलम्
आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ।
पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम्॥ २९ ॥
अनुवाद (हिन्दी)
भगवान्के नेत्र शरत्कालीन कमलके समान खिले हुए थे। उनके साथ सोलह पार्षद उनकी सेवामें लगे हुए थे। वे देखनेमें सब प्रकारसे भगवान्के समान ही थे। केवल उनके वक्षःस्थलपर श्रीवत्सका चिह्न और गलेमें कौस्तुभमणि नहीं थी॥ २९॥
वीरराघवः
तमाविर्भूतं भगवन्तं विशिनष्टि द्वाभ्याम् । श्रीवत्सकौस्तुभौ विना आत्मना सह तुल्यैः श्रीवत्सकौस्तुभमात्ररहितैरित्यर्थः । तयोः प्रधानपुरुषतत्त्वाभिमानित्वाज्जीवेनाधार्यत्वादिति भावः । षोडशभिः सुनन्दादिभिः पर्युपासितम् । यद्वा । भगवानाविरभूच्छङ्खचक्रगदाधरः तमाविर्भूतं प्रतीच्यां दिशि पृष्ठतः श्रीवत्सकौस्तुभमात्ररहितैरात्मतुल्यैः षोडशभिः पर्युपासितमित्यन्वयः । उन्निद्रे विकसिते शरदम्बुरुहे इवेक्षणे नेत्रे यस्य ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः।
दण्डवत् पतिता राजञ्छनैरुत्थाय तुष्टुवुः॥
मूलम्
दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः।
दण्डवत् पतिता राजञ्छनैरुत्थाय तुष्टुवुः॥ ३० ॥
अनुवाद (हिन्दी)
परीक्षित्! भगवान्का दर्शन पाकर सभी देवता आनन्दसे विह्वल हो गये। उन लोगोंने धरतीपर लोटकर साष्टांग दण्डवत् किया और फिर धीरे-धीरे उठकर वे भगवान्की स्तुति करने लगे॥ ३०॥
वीरराघवः
तं दृष्ट्वा ईक्षणेन यः आह्लादस्तेन विक्लवाः ईषत्परवशाः सर्वे देवाः भूमौ दण्डवत्पतिताः प्रणेमुः । हे राजन् ! शनैरुत्थाय तुष्टुवुः ॥ ३० ॥
श्लोक-३१
मूलम् (वचनम्)
देवा ऊचुः
विश्वास-प्रस्तुतिः
नमस्ते यज्ञवीर्याय वयसे उत ते नमः।
नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये॥
मूलम्
नमस्ते यज्ञवीर्याय वयसे उत ते नमः।
नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये॥ ३१ ॥
अनुवाद (हिन्दी)
देवताओंने कहा—भगवन्! यज्ञमें स्वर्गादि देनेकी शक्ति तथा उनके फलकी सीमा निश्चित करनेवाले काल भी आप ही हैं। यज्ञमें विघ्न डालनेवाले दैत्योंको आप चक्रसे छिन्न-भिन्न कर डालते हैं। इसलिये आपके नामोंकी कोई सीमा नहीं है। हम आपको बार-बार नमस्कार करते हैं॥ ३१॥
वीरराघवः
स्तुतिमेवाह । नम इत्यादिना । तावत्सर्वस्य स्रष्टारमायुः प्रदं त्रातारं प्रणतरक्षाविलम्बासहिष्णु नाममात्रस्मरणनिरस्तमहाभयं स्वर्गापवर्गादिप्रदं वाङ्मनसापरिच्छेद्यस्वभावं नमस्कुर्वन्तः स्तुवन्ति । नमस्त इत्यादिद्वाभ्याम् । यज्ञः वीर्यं सृष्टिहेतुः सामर्थ्यं यस्य “यज्ञाद्भवति पर्जन्यः” इत्युक्तप्रकारेण यज्ञमुखेन प्रजाः सृजत इत्यर्थः । यद्वा । वीर्यशब्दोऽर्शआद्यजन्तः । यज्ञो वीर्यवान् यस्मात् यदाराधनरूपत्वे यज्ञस्य सारवत्ता अनन्तस्थिरफलसाधनता भवतीत्यर्थः । अन्यथाल्पास्थिरफलसाधनवेति भावः । वयसे स्वाराधनभूतयज्ञाद्यनुष्ठानोपयुक्तायुः प्रदाय ऊतये यज्ञादिफलदानेनानिष्टनिवारणेन च रक्षाकराय आत्तचक्राय प्रणतरक्षणविलम्बासहनेन सदा धृतसुदर्शनाय पुरुहूतये स्मरणमात्रनिरस्तमहद्भयोदारनाम्ने नमः पदावृत्तिर्गुणभेदाभिप्रायः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
यत् ते गतीनां तिसॄणामीशितुः परमं पदम्।
नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति॥
मूलम्
यत् ते गतीनां तिसॄणामीशितुः परमं पदम्।
नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति॥ ३२ ॥
अनुवाद (हिन्दी)
विधातः! सत्त्व, रज, तम—इन तीन गुणोंके अनुसार जो उत्तम, मध्यम और निकृष्ट गतियाँ प्राप्त होती हैं, उनके नियामक आप ही हैं। आपके परमपदका वास्तविक स्वरूप इस कार्यरूप जगत्का कोई आधुनिक प्राणी नहीं जान सकता॥ ३२॥
वीरराघवः
तिसृणां स्वर्गापवर्गनरकाणामीशितुः निर्वाहकस्य दातुस्ते तव परमं प्रकृतिपुरुषविलक्षणमुत्कृष्टं पदं स्वरूपं विसर्गस्यार्वाचीनः सृष्टेः पाश्चात्त्यः कार्यभूतः त्वत्सृष्टस्त्वदाहितज्ञानशक्तिर्मादृशः पुमान् हे धातः ! वेदितुं ज्ञातुं नार्हति ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
ॐ नमस्तेऽस्तु भगवन् नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान्॥
मूलम्
ॐ नमस्तेऽस्तु भगवन् नारायण-वासुदेवादिपुरुष-महापुरुष-महानुभाव-परममङ्गल-परमकल्याण-परमकारुणिक-केवलजगदाधार-लोकैकनाथ-सर्वेश्वर-लक्ष्मीनाथ-परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान्॥ ३३ ॥
अनुवाद (हिन्दी)
भगवन्! नारायण! वासुदेव! आप आदि पुरुष (जगत्के परम कारण) और महापुरुष (पुरुषोत्तम) हैं। आपकी महिमा असीम है। आप परम मंगलमय, परम कल्याण-स्वरूप और परम दयालु हैं। आप ही सारे जगत्के आधार एवं अद्वितीय हैं, केवल आप ही सारे जगत्के स्वामी हैं। आप सर्वेश्वर हैं तथा सौन्दर्य और मृदुलताकी अधिष्ठात्री देवी लक्ष्मीके परम पति हैं। प्रभो! परमहंस परिव्राजक विरक्त महात्मा जब आत्मसंयमरूप परम समाधिसे भलीभाँति आपका चिन्तन करते हैं, तब उनके शुद्ध हृदयमें परमहंसोंके धर्म वास्तविक भगवद्भजनका उदय होता है। इससे उनके हृदयके अज्ञानरूप किवाड़ खुल जाते हैं और उनके आत्मलोकमें आप आत्मानन्दके रूपमें बिना किसी आवरणके प्रकट हो जाते हैं और वे आपका अनुभव करके निहाल हो जाते हैं। हम आपको बार-बार नमस्कार करते हैं॥ ३३॥
श्लोक-३४
विश्वास-प्रस्तुतिः
दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि॥
मूलम्
दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि॥ ३४ ॥
अनुवाद (हिन्दी)
भगवन्! आपकी लीलाका रहस्य जानना बड़ा ही कठिन है। क्योंकि आप बिना किसी आश्रय और प्राकृत शरीरके हमलोगोंके सहयोगकी अपेक्षा न करके निर्गुण और निर्विकार होनेपर भी स्वयं ही इस सगुण जगत्की सृष्टि, रक्षा और संहार करते हैं॥ ३४॥
वीरराघवः
अथ पुरुहूतय इत्यनेनाभिप्रेतैर्भगवत्साधारणैर्नामभिस्तं सम्बोधयन्तो नार्वाचीनोऽर्हति वेदितुमित्युक्तं दुर्ज्ञेयत्वनिमित्तानाश्रयणीयत्वशङ्कां योगपरिशुद्धमनोग्राह्यत्वकथनेन निराकुर्वन्तो यज्ञवीर्यायेत्यनेनोक्तजगद्व्यापारस्य मृत्कुलालादिव्यापारवैजात्यं लीलारूपतां चाभिदधतः कारणान्तरानपेक्ष्य सृष्ट्याद्युपयुक्तगुणयोगित्वं च वदन्तस्स्तुवन्ति । ॐ नमः इत्यादिना । पासि हरसि चेत्यन्तेन गद्येन ॐ इत्यसाधारणं भगवतो ब्रह्मणो नाम “ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः" इति भगवद्गीतेः तथा भगवन्नारायणादयः शब्दा अपि भगवन् ! षाड्गुण्यपूर्ण ! नारायण ! नारं जीवसमूहस्तस्यायनं प्राप्यं प्रापक आधारश्च तस्य सम्बोधनं नारायणशब्दश्च योगरूढिभ्यां विष्ण्वसाधारणः न च केवलयोगेन रुद्रादिपरत्वमपि शङ्कितुं युक्तम् । रूढ्यभावेन “पूर्वपदात्संज्ञायामगः” इति णत्वाभावप्रसङ्गान्न च विष्णुपरत्वाङ्गीकारेण संज्ञापरत्वाभावात्त्वन्मतेऽपि न णत्वमिति वाच्यम् “भृञोऽसंज्ञायाम्” इति सूत्रभाष्ये यदेतत्संज्ञया विधीयते तत्र न संज्ञायामभिधेयायामित्यर्थः । किं तर्हि तत्कार्यविशिष्टेन चेत्संज्ञा गम्यत इत्यर्थः । इत्युक्तमत एव रघुनाथरामानुजादिशब्देषु न णत्वं न हि तत्र कृतणत्वेन संज्ञावगतिः । किं तर्ह्यकृतणत्वेन “किञ्चानादिविनियुक्तसंज्ञास्थले तु यथाविनियुक्तानामेव साधुत्वम्” इति रघुनाथादौ णत्वाभावः अध्वपरिमाणसंज्ञाभूतगव्यूतिशब्दे च न वलोपः । अन्यथा संज्ञात्वभङ्गापत्तेरित्यन्यत्र विस्तरः । वासुदेव ! सर्वभूताधार ! आदिपुरुष ! जगत्कारणपुरुष ! महापुरुष ! पुरुषोत्तम ! महानुभाव ! अचिन्त्यप्रभाव ! परममङ्गल ! स्वयं मङ्गलरूप ! परमकल्याण ! अन्येषां मङ्गलावह ! परमकारुणिक ! स्वार्थनिरपेक्षपरदुःखासहिष्णो ! केवलजगदाधार ! इतरानपेक्षजगदाधार ! स्वसमानरहितलोकनाथ ! सर्वेषां ब्रह्मादीनामपीश्वरनियन्तः लक्ष्मीनाथ ! श्रियःपते ! परमहंसाः ज्ञानिनः परिव्राजकाः संन्यासधर्मनिष्ठाः ज्ञानयोगकर्मयोगनिष्ठा इत्यर्थः । तैः परमेणोत्कृष्टेनात्मसमाधियोगेन परमात्मविषयकध्यानयोगेन परिभावितः संदीपितः अत एव परिस्फुटः प्रत्यक्षतापन्नो यः पारमहंस्यधर्मो भगवद्भक्तियोगरूपो धर्मः तेनोद्घाटितं निर्मूलितं तमः कपाटं तमः अनाद्यविद्यात्मकज्ञानं तदेव कपाटं परमात्मदर्शनविरोधि यस्य तद्द्वारं परमात्मदर्शनसाधनं चित्तं यस्मिस्तस्मिन्नात्मलोके आत्मैव लोकः लोकनीय इति लोकः परमात्मापृथक्सिद्धत्वेन जीवस्यापि लोकनीयत्वात्तस्मिन्नात्मलोकेऽपावृतः आवरणरहितः उपलब्ध इत्यर्थः । कथमपावृतः स्वयमुत्थः स्वयमात्मनैव उत्थः नित्योदितो यो निजसुखानुभवः निजानन्दरूपोऽनुभवो ज्ञानं तद्रूपः नित्यनिरुपाधिकाविर्भूतापरिच्छिन्नज्ञानानन्दानुभवरूपत्वेनापावृत इत्यर्थः । एवंभूतोऽसि । एवम्भूतस्य भगवान् तव विहारयोगः लीलारूपो योगः जगद्व्यापाररूपो योगः जगत्सङ्कल्पमात्रनिष्पाद्यत्वज्ञापनाय समाधिरूपसङ्कल्पापारपर्याययोगपदं प्रयुक्तम् । जगद्व्यापारस्त्याकर्मायत्तकेवललीलारूपत्वख्यापनाय विहारपदम् । स एष विहारयोगो दुःखबोध इव लोकदृष्टमृत्कुलालादिव्यापारजातीयत्वेन बोद्धुमशक्य इव वर्त्तते इवशब्देन सर्वज्ञस्य सर्वशक्तेस्तव उपपन्न एवेति सूच्यते । दुःखबोधकत्वमेव विशदयन्ति । यस्त्वमिदं विश्वमशरणमनपेक्षितस्त्वव्यतिरिक्ताश्रयं सृजसि कुलालादेर्घटादीन् सृजतस्तु भूतलादिरूपः कश्चिदाधारोऽपेक्षित इति भावः । त्वं तु स्वस्मिन्नेवाधारभूते सृजसीति भावः । किञ्च । स्रष्टा त्वमनपेक्षितास्मत्समवायसहायः अस्मदादिसहकारिसमुदायनिरपेक्षः । कुलालादिस्तु सहकारिसमवायसापेक्ष इति भावः । किञ्चागुणः गुणत्रयरहितः कुलालादिस्तु सत्त्वादिगुणयुक्त इति भावः । ननु विशिष्टस्य कारणत्वाङ्गीकारात्कथं कुलालादिवैलक्षण्यापादकमगुणत्वमुच्यत इति चेन्न । विशिष्टस्य उपादानत्वाभ्युपगमेऽपि प्रकृतिपुरुषाभ्यामुत्कृष्टस्य विशेष्यस्य ब्रह्मणो निमित्तत्वाभ्युपगमाद्विशेष्यांशे च सत्त्वादिगुणत्रयाभावान्नैर्गुण्यं कुलालादिवैलक्षण्यापादनमेव । एवं कुलालादिनिमित्तकारणवैलक्षण्यमुक्तम् । अथ मृदाद्युपादानवैलक्षण्यमाहुः । आत्मनैवाविक्रियमाणेन सगुणमिति “तदात्मानं स्वयमकुरुत” इति श्रुत्यर्थोऽत्राभिप्रेतः । आत्मनेत्यनेन स्वयंशब्दार्थ उक्तः । सगुणमित्यनेनात्मानमित्यस्यार्थः । गुणशब्दश्चात्रापृथक्सिद्धविशेषणवाची तथाचापृथक्सिद्धविशेषणभूतचिदचिद्विशिष्टमात्मानं स्वेनैव सृजसि पासि रक्षसि हरसि च सूक्ष्मचिदविद्विशिष्टमात्मानमेव स्थूलचिदचिद्विशिष्टावस्थाविश्वाकारेण परिणमयसीत्यर्थः । निर्विकारश्रुतिविरोधपरिहारायात्मानं विशिषन्ति । अविक्रियमाणेनेति विकाराणां विशेषणाभूतचिदचिद्गतत्वादविक्रियमाणेनैवात्मना सृजसीत्यर्थः । मृत्पिण्डादिकं तु स्वभिन्नेन कुलालादिना घटादिरूपेण सृज्यत इति नतो यस्य वैलक्ष्यण्यसिद्धिः । आत्मनैवात्मानं सृजसीत्यनेन विशिष्टत्वविशेष्यत्वाकाराभ्याम् उत्पादनत्वं निमित्तत्वं चैकस्यैवोक्तं भवति । अविक्रियमाण इति सप्तम्यन्तपाठे स्वत्मिन्विशेष्यभूतेऽविक्रियमाणे स्वरूप स्वभावाभ्याविक्रियमाणे सत्येव विशिष्टमात्मानं स्वेनैव सृजसीत्यर्थः । नन्वेकस्यैव पदार्थस्य निमित्तत्वमुपादानत्वं च परस्परविरुद्धमिति चेन्नैकस्योभयविधकारणत्वप्रतिक्षेपकैरपि क्वचित्क्वचिदेकस्मिन्नेव तदुभयविधकारणत्वाभ्युपगमात् यथा स्वज्ञानचिकीर्षाप्रयत्नादिकं शास्त्राभ्यासादिभिः स्वयमेव करोति जीवः तेन तत्र कर्तृत्वेन निमित्तकारणं भवति तथापि च स्वयमेव समवायिकारणं भवति स्वज्ञानादीन्प्रतिकार्यं यत्र समवैति तत्समवायिकारणम् इति समवायिकारणलक्षणस्य स्फुटोपलम्भात् । किञ्च । ईश्वरोऽपि सर्वव्याप्तस्य स्वस्य सर्वैरपि परमाण्वादिभिः संयोगं स्वयमेव सृजति सर्वकार्यहेतुत्वात्तथा च तत्र कर्तृत्वेन निमित्तकारणं भवति समवायिकारणत्वमपि तत्प्रतीतस्य दृश्यते परमाण्वादिसंयोगस्येश्वरसंयोगापेक्षत्वेन यथा कर्तृत्वं समवायिकारणत्वं चेश्वरनिष्ठमेव भवन्मते भवति; तथास्मत्सिद्धान्ते निमित्तत्वमुपादानत्वञ्चैकवस्तुनिष्ठमिति । नन्वेवमपि न विशिष्टस्योपादानत्वं क्वापि दृष्टमिति चेन्न; ऊर्णनाभिप्रभृतीनामेव दृष्टान्तत्वात् । नह्यूर्णनाभेर्देहस्यैवावस्थाप्राप्तिर्नापि केवलात्मन्यपि तु देहविशिष्टात्मनीति लोकोपलम्भः । श्रुतिश्च “यथोर्णनाभिः सृजते गृह्णते च" इत्यूर्णनाभिदृष्टान्तत्वेन दर्शयति ॥ ३३-३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्याहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः॥
मूलम्
अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्याहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः॥ ३५ ॥
अनुवाद (हिन्दी)
भगवन्! हमलोग यह बात भी ठीक-ठीक नहीं समझ पाते कि सृष्टिकर्ममें आप देवदत्त आदि किसी व्यक्तिके समान गुणोंके कार्यरूप इस जगत्में जीवरूपसे प्रकट हो जाते हैं और कर्मोंके अधीन होकर अपने किये अच्छे-बुरे कर्मोंका फल भोगते हैं, अथवा आप आत्माराम, शान्तस्वभाव एवं सबसे उदासीन—साक्षीमात्र रहते हैं तथा सबको समान देखते हैं॥ ३५॥
वीरराघवः
ननु सत्यमीश्वरः सृष्ट्यादिकर्तेत्युक्तं स किं कर्मनिष्टचेतनो यथा कुशलाकुशलमिश्रकर्माणि कृत्वा तत्फलानि सुखदुःखमोहात्मकानि भुङ्क्ते तथा सृष्ट्यादिकर्माणि गुणत्रयप्रयुक्तानि कृत्वा तत्फलानि भुङ्क्ते । किं वा ज्ञाननिष्ठचेतनदासीन एवास्ते । नाद्यः भोक्तृत्वेन संसारित्वापातात् । न द्वितीयः उदासीनस्य कर्तृत्वानुपपत्तेः । अथोदासीनत्वं कर्तृत्वं चोच्यत इति चेन्न । परस्परविरुद्धत्वादनयोरित्याशङ्कते — अथेत्यादिना उदास्त इत्यन्तेन गद्येन । अथ ननु तत्र जगत्सृष्ट्यादिकर्तृत्वे सति हे भगवन् ! किंशब्द आक्षेपद्योतकः । आहोस्विच्छन्दश्च । प्रश्नस्वरूपपरमपि वाक्यद्वयमाक्षेपगर्भम् । किं भवान् देवदत्तवत् कर्मनिष्ठसंसारिजीववदिह गुणविसर्गे त्रिगुणकार्यरूपे प्रपञ्चे पतितः स्वातन्त्र्येण कर्तृत्वेन हेतुना स्वेन कृतानि कुशलाकुशलानि सात्त्विकराजसादीनि कर्माणि तेषां फलमुपाददाति स्वीकरोति भुङ्क्त इति यावत् । आहोस्वित्किं वा आत्माराम इवात्मयाथात्म्यानुभवनिष्ठ इव उपशमस्वभावः निवृत्तान्तर्ब्राह्मेन्द्रियव्यापारः । अत एव समञ्जसदर्शनः अबाधिततत्तद्वस्तुयाथात्म्यज्ञान उदास्त इति परिहारं प्रतिजानीते । इतीति । इतीत्थमिह त्वयीश्वरे न विदामः न जानीमः कर्मनिष्ठचेतनतुल्यतां ज्ञाननिष्ठचेतनतुल्यतां च न विदाम इत्यर्थः । किन्तूदासितृत्वं कर्तृत्वञ्चोभयमपि त्वयि विदाम इति भावः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
न हि विरोध उभयं भगवत्यपरिगणितगुणगणे ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात्॥
मूलम्
न हि विरोध उभयं भगवत्यपरिगणितगुणगणे ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात्॥ ३६ ॥
अनुवाद (हिन्दी)
हम तो यह समझते हैं कि यदि आपमें ये दोनों बातें रहें तो भी कोई विरोध नहीं है। क्योंकि आप स्वयं भगवान् हैं। आपके गुण अगणित हैं, महिमा अगाध है और आप सर्वशक्तिमान् हैं। आधुनिक लोग अनेकों प्रकारके विकल्प, वितर्क, विचार, झूठे प्रमाण और कुतर्कपूर्ण शास्त्रोंका अध्ययन करके अपने हृदयको दूषित कर लेते हैं और यही कारण है कि वे दुराग्रही हो जाते हैं। आपमें उनके वाद-विवादके लिये अवसर ही नहीं है। आपका वास्तविक स्वरूप समस्त मायामय पदार्थोंसे परे, केवल है। जब आप उसीमें अपनी मायाको छिपा लेते हैं, तब ऐसी कौन-सी बात है जो आपमें नहीं हो सकती? इसलिये आप साधारण पुरुषोंके समान कर्ता-भोक्ता भी हो सकते हैं और महापुरुषोंके समान उदासीन भी। इसका कारण यह है कि न तो आपमें कर्तृत्व-भोक्तृत्व है और न तो उदासीनता ही। आप तो दोनोंसे विलक्षण, अनिर्वचनीय हैं॥ ३६॥
वीरराघवः
ननु परस्परविरुद्धमुभयमेकस्मिन् कथमुपपद्यते इत्यत्राहुः । न हि विरोध इति । न विरोधः अपि तूभयं भवति सम्भवति । कर्मभावनया ब्रह्मभावनया चान्वितानां सर्वेषां चेतनानामन्तरात्मभूते तद्विलक्षणे विविधविचित्रशक्तिमति त्वयि सर्वमविरुद्धमित्यभिप्रायः । अविरोधापादकगुणजातेन तं विशिषन्तो वादिविप्रतिपत्त्यविषयताञ्च वदन्तोऽविरोधमुपपादयन्ति भगवतीत्यादिना । भगवतीत्यादिभिः सप्तम्यन्तैः पदैः कर्मब्रह्मोभयभावनान्वितचेतनेभ्यो वैलक्षण्यमुच्यते भगवति पूर्णषाड्गुण्येऽपरिगणिता असङ्ख्याता गुणानां कल्याणगुणानां गुणा यस्य ईश्वरे भावनाद्वयान्वितचेतनानामन्तरात्मन्यनवगाह्यं कर्मादिभावनान्वितचेतनसजातीयत्वेन दुर्बोधं माहात्म्यं यस्य अर्वाचीना इदानीन्तनाः विकल्पः संशयः तन्मूलको वितर्कः एवं वा एवं वेति वितर्कः तत्र यो विचारः किं युक्तमिति विचारः तदन्यतरपक्षसाधकाः ये प्रमाणाभासाः प्रमाणवदाभासमानाः तन्मूलकं यद्वाधिततर्कात्मकं शास्त्रं तदभ्यासेन कलिलं दूषितमन्तःकरणं तेनाधिकरोतीत्यधिकरणः नन्द्यादित्वात्कर्त्तरि ल्युः प्रारभमाणः उत्पन्न इति यावत् । स दुरवग्रहो दुराग्रहो येषां तेषां वादिनां विवादानवसरे विवादाविषयभूते उपरताः निरस्ता समस्ता मायामयाः प्राकृतदोषा यस्मिन् । प्रलयदशायामुपसंहृतकार्यवर्गेऽत एव केवले एकरूपे मायां प्रति स्वयमन्तर्द्धाय तिरोभूय स्थिते कोन्वर्थो दुर्घट इव भवति कर्तुत्वकारयितृत्वसाक्षित्वानुमन्तृत्वफलित्वफलप्रदत्वोदासितृत्वादिरूपः कोऽप्यर्थो न दुर्घट इत्यर्थः । कुतः ? स्वरूपद्वयाभावात् । स्वरूपे द्वयस्य विरुद्धाकारद्वयस्याभावात् कर्तुत्वोदासितृत्वयोः परमात्मस्वरूपे विरोधाभावादित्यर्थः । अयं भावः । तावज्जगत्सृष्ट्यादिव्यापारेषु स्वातन्त्र्यरूपं कर्तृत्वं प्रयोज्यकर्त्तुर्जीवस्य कारयितृत्वात्प्रेरकत्वरूपं प्रयोजककर्तृत्वं चेश्वरस्योपपन्नम् । न च कर्तृत्वसमनियतभोक्तृत्वापत्तिः सादृशकर्तृत्वस्य कर्मायत्तत्त्वात्प्रशासित्रन्तराभावाच्च सर्वस्य शासितुरीश्वरस्येश्वरान्तराभावेनानिष्टकर्त्तुरभावान्न च स्वानिष्टापादकं कर्मं स्वयमेव करोतीति वक्तुं युक्तमुद्भान्तत्वापातात्तथा लोके यथा सर्वाङ्कुराणां साधारणकारणं सलिलं विशेषकारणं बीजं दृष्टमेवं सर्वेष्वपि कार्येषु समानत्वादुदासीनः । ननूदासितृत्वं नाम न साधारणकारणत्वमपि तु कर्तृत्वाकर्तृत्वोभयपरिहारेण अवस्थातृत्वमिति चेन्न; जगद्विषयकोदासितृत्वानभ्युपगमात् । तत्र कर्तृत्वनेव हि साक्षादभ्युपगतमस्माभिः । तर्हि यद्विषयकमुदासितृत्वमीश्वरेऽभ्युपगतमिति चेदुच्यते साक्षात्सुखदुःखादिसाधनभूतपुण्यापुण्यकर्मस्वकर्तृत्वेन तत्कर्त्तृत्वपरिहारात् तेष्वेव कर्मसु प्राचीनवासनानुसारेण जीवप्रेरकत्वेनाकर्तृत्वपरिहाराच्च तद्विषयकमुदासितृत्वमिति । एवं सर्वावस्थायां सर्वस्य दृष्टृत्वात्साक्षी कर्मसु प्रवृत्तस्य जीवस्योत्तरोत्तरं प्रवर्त्तकत्वादनुमन्ता सर्वस्वामित्वेन समाश्रितसंरक्षणरूपफलस्यापि स्वफलत्वात्फलीफलमत उपपत्तेः ३,२,३९, इति न्यायेन फलप्रद इति । जीवस्तु क्लेशकर्मादिहेयाकारत्वात्कर्मवश्यत्वान्मायामोहितत्वादविद्यया तिरोहितस्वभावत्वाच्च कुशलाकुशलफलमुपादत्त इति ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम्॥
मूलम्
समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम्॥ ३७ ॥
अनुवाद (हिन्दी)
जैसे एक ही रस्सीका टुकड़ा भ्रान्त पुरुषोंको सर्प, माला, धारा आदिके रूपमें प्रतीत होता है, किन्तु जानकारको रस्सीके रूपमें—वैसे ही आप भी भ्रान्तबुद्धिवालोंको कर्ता, भोक्ता आदि अनेक रूपोंमें दीखते हैं और ज्ञानीको शुद्ध सच्चिदानन्दके रूपमें। आप सभीकी बुद्धिका अनुसरण करते हैं॥ ३७॥
वीरराघवः
ननु विवादानवसरश्चेदहमीश्वरः तर्हि कथं विवादानामुदयस्तत्राहुः समेति । समा विषमा च मतिर्येषां तेषां मतमभिप्रायमनुसरसि वादिविप्रतिपत्तीरप्रतिषिध्य तूष्णीं भवसीत्यर्थः । अप्रतिषेधे दृष्टान्तमाहुः । यथेति । यथा सर्पादिधियां सर्पादिभ्रान्तिमतां मतं रज्जुखण्डोऽनुसरति न प्रतिषेधते एवं त्वं चापि नानाविधवादिविप्रतिसाक्षी तूष्णीमास्से इत्यर्थः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणभूतः सर्वप्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः॥
मूलम्
स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणभूतः सर्वप्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः॥ ३८ ॥
अनुवाद (हिन्दी)
विचारपूर्वक देखनेसे मालूम होता है कि आप ही समस्त वस्तुओंमें वस्तुत्वके रूपसे विराजमान हैं, सबके स्वामी हैं और सम्पूर्ण जगत्के कारण ब्रह्मा, प्रकृति आदिके भी कारण हैं। आप सबके अन्तर्यामी अन्तरात्मा हैं; इसलिये जगत्में जितने भी गुण-दोष प्रतीत हो रहे हैं, उन सबकी प्रतीतियाँ अपने अधिष्ठानस्वरूप आपका ही संकेत करती हैं और श्रुतियोंने समस्त पदार्थोंका निषेध करके अन्तमें निषेधकी अवधिके रूपमें केवल आपको ही शेष रखा है॥ ३८॥
वीरराघवः
एवं जगत्स्रष्टृत्वरूपनिमित्तकारणत्वे जीववत्संसारित्वादिशङ्का परिहृता अथोपादानकारणत्वे स्वरूपे विकाराश्रयत्वशङ्कां परिजह्नुः । स एवेति । योऽयं निमित्तकारणभूतः स एव त्वं सकलजगदुपादानकारणभूतोऽपि सर्ववस्तुषु देवादिपदार्थेषु स्थितोऽपि वस्तुस्वरूपः । निर्विकारस्वरूपः । यथोक्तम् “यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसम्भूतां वद्वस्तु नृप । तच्च किम्” इति । कुतः ? सर्वप्रत्यगात्मत्वात्सर्वे प्रत्यगात्मानः शरीरं यस्य तस्य भावस्तत्त्वं तस्मादचेतनविशिष्टसर्वजीवशरीरकत्वाच्छरीरभूतचिदचिद्गतत्वाद्विकाराणां न स्वरूपे प्रसङ्ग इति भावः । अत एव सर्वगुणाभासः सर्वैश्विदचित्कालादिभिरपृथक्सिद्धविशेषणैरवभासत इति सर्वगुणावभासाः साक्षादवस्थाश्रयचेतनाचेतनविशिष्टत्येनोपलक्षित इति भावः । समस्तपाठे गुणैः सत्त्वादिभिरवभासन्त इति गुणावभासाः गुणकार्यदेहेन्द्रियादयः तैरुपलक्षितः तद्विशिष्टत्वेनोपलक्षितः इत्यर्थः । अतस्त्वमेक एव पर्यवशेषितः एक एव समाभ्यधिकरहितः पर्यवशेषितः एवंविधो नान्य इति निर्णीत इति भावः ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः॥
मूलम्
अथ ह वाव तव 11महिमामृतरससमुद्रविप्रुषा 12सकृदवलीढया स्वमनसि निष्यन्दमा13नानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः॥ ३९ ॥
अनुवाद (हिन्दी)
मधुसूदन! आपकी अमृतमयी महिमा रसका अनन्त समुद्र है। उसके नन्हे-से सीकरका भी, अधिक नहीं—एक बार भी स्वाद चख लेनेसे हृदयमें नित्य-निरन्तर परमानन्दकी धारा बहने लगती है। उसके कारण अबतक जगत्में विषय-भोगोंके जितने भी लेशमात्र, प्रतीतिमात्र सुखका अनुभव हुआ है या परलोक आदिके विषयमें सुना गया है, वह सब-का-सब जिन्होंने भुला दिया है, समस्त प्राणियोंके परम प्रियतम, हितैषी, सुहृद् और सर्वात्मा आप ऐश्वर्य-निधि परमेश्वरमें जो अपने मनको नित्य-निरन्तर लगाये रखते और आपके चिन्तनका ही सुख लूटते रहते हैं, वे आपके अनन्यप्रेमी परम भक्त पुरुष ही अपने स्वार्थ और परमार्थमें निपुण हैं। मधुसूदन! आपके वे प्यारे और सुहृद् भक्तजन भला, आपके चरणकमलोंका सेवन कैसे त्याग सकते हैं, जिससे जन्म-मृत्युरूप संसारके चक्करसे सदाके लिये छुटकारा मिल जाता है॥ ३९॥
वीरराघवः
यत एव भवाननितरसाधारणोदारहूतिर्योगपरिशुद्धमनोग्राह्यो नित्यनिरुपाधिका परिच्छिन्ननिजानन्दानुभवरूपो जगत्सृष्टिस्थितिसंहृतिलीलः सार्वज्ञ्यसत्यसङ्कल्पत्वाद्यपरिमितगुणसागरोऽनितरसाधारणविविधविचित्रशक्तिरशेषचिदचिन्छरीरकः सर्वेश्वरः सर्वसमोऽत एव त्वच्चरणारविन्दमधुरसास्वादनशीलास्त्वामविस्मरन्तोऽनन्तस्थिरफलरूपमुक्तिं प्राप्नुवन्तीत्याहुः । अथेत्यादिना पर्यावर्त्तत इत्यन्तेन गद्येन अथ हवाच ननु भगवानत एव हीति वार्थः । हे मधुमथन ! परमभागवता एकान्तिनोनन्यप्रयोजनाः त्वत्पादाम्बुजसेवां कथमु हवा विसृजन्तीत्यन्वयः । हि यस्मात्ते स्वार्थकुशलाः पुरुषार्थनिष्कर्षकुशलाः अतः कथम्भूता आत्मा त्वमेव प्रियः सुहृच्च येषां साधवः साध्नुवन्ति परेषामभीष्टमिति साधवः रागादिरहिताश्च । तत्र हेतुः । तव महिमैवामृतरससमुद्रस्तस्य विप्रुषा बिन्दुमात्रेण कथम्भूतया सकृदवलीढयास्वादितया स्वमनसि निष्यन्दमानमतिशयेन स्त्रवन्निरन्तरं सन्ततं सुखं तेन विस्मारिताः दृष्टाः ऐहिका श्रुताः आमुष्मिकाश्च विषयाः सुखलेशाभासा येषां ते सर्वभूतानां प्रिये सुहृदि च सर्वान्तरात्मनि भगवति त्वयि निर्वृतं सुखितं मनो येषां ते चरणाम्बुजसेवां विशिषन्ति । यत्र त्वच्चरणाम्बुजसेवायां मुक्तिपर्यन्तायां सत्यां पुनरयं संसारो न पर्यावर्त्तते न परिवृत्तिं प्राप्नोति निवर्त्तत इत्यर्थः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामनुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवञ्जहि त्वाष्ट्रमुत यदि मन्यसे॥
मूलम्
त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामनुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि14 भगवञ्जहि त्वाष्ट्रमुत यदि मन्यसे॥ ४० ॥
अनुवाद (हिन्दी)
प्रभो! आप त्रिलोकीके आत्मा और आश्रय हैं। आपने अपने तीन पगोंसे सारे जगत्को नाप लिया था और आप ही तीनों लोकोंके संचालक हैं। आपकी महिमा त्रिलोकीका मन हरण करनेवाली है। इसमें सन्देह नहीं कि दैत्य, दानव आदि असुर भी आपकी ही विभूतियाँ हैं। तथापि यह उनकी उन्नतिका समय नहीं है—यह सोचकर आप अपनी योगमायासे देवता, मनुष्य, पशु, नृसिंह आदि मिश्रित और मत्स्य आदि जलचरोंके रूपमें अवतार ग्रहण करते और उनके अपराधके अनुसार उन्हें दण्ड देते हैं। दण्डधारी प्रभो! यदि जँचे तो आप उन्हीं असुरोंके समान इस वृत्रासुरका भी नाश कर डालिये॥ ४०॥
वीरराघवः
एवमभिष्टूयाथ प्रस्तुतं विज्ञापयन्ति । त्रिभुवनेत्यादिना । हे त्रिभुवनात्मभवन ! त्रिभुवनस्यात्मान्तः प्रविश्य नियन्ता भवनमाश्रयश्च तस्य सम्बोधनम् । एवमग्रेऽपि । त्रयो विक्रमो[[??]] यस्य सर्वान्तरात्मनस्तवाविदितमन्तरं नास्ति त्रिविक्रमस्य तवासाध्यमपि नास्तीति भावः । हे त्रियनयन ! त्रयश्चन्द्रसूर्याग्नयो नयनानि यस्य बाह्यमप्यविदितं नास्तीति भावः । त्रयाणां लोकानां मनोहरोऽनुभावो यस्यास्तदभिलषितमपि तव कर्त्तव्यमेवेति भावः । एवं सम्बोध्य विज्ञापयन्ति यद्यपि दितिजा दनुजाश्च तवैव विभूतयोऽतस्तेषां वधोपायचिन्तनमनुचितं तथापि तेषामनुपक्रमोऽयमित्यभ्युदयकालोऽयं न भवतीति मत्वा पूर्वं यथा स्वात्ममायया आत्मसङ्कल्पेनैव उपात्ताभिः सुरादिसंमिश्रितैर्जलचराकृतिभिः सुराद्यवतारैर्मत्स्यकूर्माद्यवतारैश्चेत्यर्थः । तत्र सुराकृतिरुपेन्द्रावतारः । नराकृतिः रामकृष्णादिः । मृगाकृतिर्वराहादिः । यथापराधमपराधानुसारेण दण्डं विरोधिनिरसनरूपं दधर्थ कृतवानसि । एवं हे भगवन् । एनं त्वाष्ट्रं वृत्रमपि जहि यद्युपमन्यसे हन्तुं यदीच्छसि ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
अस्माकं तावकानां तव नतानां तत ततामह तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितवशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि शमयितुम्॥
मूलम्
अस्माकं तावकानां तव 15नतानां तत ततामह तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसादृतकलया चान्तस्तापमनघार्हसि शमयितुम्॥ ४१ ॥
अनुवाद (हिन्दी)
भगवन्! आप हमारे पिता, पितामह—सब कुछ हैं। हम आपके निजजन हैं और निरन्तर आपके सामने सिर झुकाये रहते हैं। आपके चरणकमलोंका ध्यान करते-करते हमारा हृदय उन्हींके प्रेमबन्धनसे बँध गया है। आपने हमारे सामने अपना दिव्यगुणोंसे युक्त साकार विग्रह प्रकट करके हमें अपनाया है। इसलिये प्रभो! हम आपसे यह प्रार्थना करते हैं कि आप अपनी दयाभरी, विशद, सुन्दर और शीतल मुसकानयुक्त चितवनसे तथा अपने मुखारविन्दसे टपकते हुए मनोहर वाणीरूप सुमधुर सुधाबिन्दुसे हमारे हृदयका ताप शान्त कीजिये, हमारे अन्तरकी जलन बुझाइये॥ ४१॥
वीरराघवः
एवं प्रस्तुतं विज्ञाप्य स्वानुग्राहकं तद्वाक्यं श्रोतुकामास्तं प्रार्थयन्ते - अस्माकमिति । हे तत ! रक्षक ! पितामहेति वार्थः । तावकानां त्वदीयानाम् । तत्र हेतुः । स्वलिङ्गविवरणेन आत्मीयविग्रहप्रकाशनेन आत्मसात्कृतानामात्मीयत्वेन परिगृहीतानां तव चरणयुगलध्यानेनैव अनुबद्धं वशीकृतं हृदयं तदेव निगलो येषां तेषां नः अनुकम्पास्मद्विषया कृपा तयानुरञ्जितं सानुरागं च तद्विशदं रुचिरं च स्मितं तत्सहितेनावलोकनैन तथानुकम्पयैव निगलितो मधुरो मुखरसः प्रियवाक्सैवामृतकला तयान्तस्तापं शमयितुमर्हसि ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः कियानिह वा अर्थविशेषो विज्ञापनीयः स्याद् विस्फुलिङ्गादिभिरिव हिरण्यरेतसः॥
मूलम्
अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः कियानिह वा अर्थविशेषो विज्ञापनीयः स्याद् विस्फुलिङ्गादिभिरिव हिरण्यरेतसः॥ ४२ ॥
मूलम् - कर्णावती
अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः कियानिव वा अर्थविशेषो विज्ञापनीयः स्याद् विस्फुलिङ्गादिभिरिव हिरण्यरेतसः॥ ४२ ॥
अनुवाद (हिन्दी)
प्रभो! जिस प्रकार अग्निकी ही अंशभूत चिनगारियाँ आदि अग्निको प्रकाशित करनेमें असमर्थ हैं, वैसे ही हम भी आपको अपना कोई भी स्वार्थ-परमार्थ निवेदन करनेमें असमर्थ हैं। आपसे भला, कहना ही क्या है! क्योंकि आप सम्पूर्ण जगत्की उत्पत्ति, स्थिति और लय करनेवाली दिव्यमायाके साथ विनोद करते रहते हैं तथा समस्त जीवोंके अन्तःकरणमें ब्रह्म और अन्तर्यामीके रूपमें विराजमान रहते हैं। केवल इतना ही नहीं, उनके बाहर भी प्रकृतिके रूपसे आप ही विराजमान हैं। जगत्में जितने भी देश, काल, शरीर और अवस्था आदि हैं, उनके उपादान और प्रकाशकके रूपमें आप ही उनका अनुभव करते रहते हैं। आप सभी वृत्तियोंके साक्षी हैं। आप आकाशके समान सर्वगत हैं, निर्लिप्त हैं। आप स्वयं परब्रह्म परमात्मा हैं॥ ४२॥
वीरराघवः
अपारमहिमशालिनस्तवास्माभिर्विज्ञाप्यमेतत्कि[[??]]यदित्याहुः । अथेत्यादिना हिरण्यरेतस इत्यन्तेन । अथ । नतु हे भगवन् ! अस्माभिर्विज्ञापनीयस्तव कियानर्थः प्रयोजनं स्यात् । तत्र दृष्टान्तः - विस्फुलिङ्गादिभिरिव हिरण्यरेतस इति । विस्फुलिङ्गादिभिरिवाग्नेः कार्यभूतैर्हिरण्यरेतसः कारणभूतस्याग्नेरिव त्वत्कार्यभूतैरस्माभिर्विज्ञापनीयः कारणभूतस्य तव कियानर्थ इत्यर्थः । कार्यकारणभावमात्रपरोऽयं दृष्टान्तः । उभयोरप्यचेतनत्वे विज्ञप्तितदवधृत्योरसम्भवात् । यद्वा । अग्नेर्विस्फुलिङ्गादिभिः क्रियमाणः प्रकाशः कियान् । तथास्माभिर्विज्ञाप्योऽर्थस्तव कियानित्यर्थः । यद्वास्माभिः कथम्भूतैरित्यत्र दृष्टान्तः । यथा विस्फुलिङ्गा अग्न्यायत्तसत्तास्थित्यादिमन्तस्तथा त्वदायत्तसत्तादिमद्भिरिति । कथम्भूतस्य । तवाखिलजगतामुत्पत्तिस्थितिलयेषु निमित्तायमाना विक्रयमाणा या दिव्या माया सैव विनोदः परिकरो यस्य सकलजीवसमूहानामन्तर्हृदये ब्रह्मप्रत्यगात्मस्वरूपेण प्रत्यग्जीव आत्मा शरीरं यस्य तत्स्वरूपेण ब्रह्मशब्दवाच्येन जीवशरीरकत्वेन स्वरूपेणेत्यर्थः । बहिः प्रधानं प्रकृतिः रूपं यस्य प्रधानशरीरकत्वेन “यस्यात्मा शरीरं यस्य पृथिवीं शरीरम्” इति श्रुतेः । देशकालदेहावस्थानविशेषाननुल्लङ्घ्यानतिक्रम्यानुभवतः व्याप्तस्य । यद्वा । तेषामुपादानोपलम्भकतयानुभवत इत्यन्वयः । तेषां देशकालदेहादीनामुपादानं स्वीकारः एतस्मिन् देशे काले देहे एतत्सुखदुःखादिकमुपादेयमित्येवं रूपमुपादानं तस्योपलम्भकतया अभिज्ञापकतया निदानेन सह सर्वज्ञानजनकतयानुभवतः व्याप्तवत इत्यर्थः । सर्वप्रत्ययसाक्षिणः सर्वजीवानां चित्तवृत्तिसाक्षिणः आकाशशरीरस्याकाशो देहराकाशः स एव शरीरं मूर्तिर्यस्य आसमन्तात्प्रकाशते प्रकाशयति वाकाशः स्वप्रकाशं सर्वस्य प्रकाशमपरिच्छिन्नं ज्ञानं तदेव शरीरमाकारो यस्येति साक्षात्परब्रह्मणः मुख्यवृत्त्या परब्रह्मशब्दवाच्यस्य परमात्मनः लोकत्रयमन्तः प्रविश्य धारकस्य ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिताः॥
मूलम्
अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसारपरिश्रमोपशमनीमु16पसृतानां वयं यत्कामेनोपसादिताः॥ ४३ ॥
अनुवाद (हिन्दी)
अतएव हम अपना अभिप्राय आपसे निवेदन करें—इसकी अपेक्षा न रखकर जिस अभिलाषासे हमलोग यहाँ आये हैं, उसे पूर्ण कीजिये। आप अचिन्त्य ऐश्वर्यसम्पन्न और जगत्के परमगुरु हैं। हम आपके चरणकमलोंकी छत्रछायामें आये हैं, जो विविध पापोंके फलस्वरूप जन्म-मृत्युरूप संसारमें भटकनेकी थकावटको मिटानेवाली है॥ ४३॥
वीरराघवः
यत एवं वयमग्नेर्विस्फुलिङ्गा इव त्वदायत्तसत्तादिमन्तः अत एवास्माकं तदुपकल्पय तत्कार्यमुपकल्पय सम्पादय किन्तत् यत्कामेन यत्प्रयोजनकामेन वयमुपसादिताः । ननु दितिजदनुजानामपि मदायत्तसत्तादिमत्त्वात्किं विशेषेण स्वकार्यं साधयेत्युच्यते इत्याशङ्कां निराकुर्वन्तः स्वात्मनो विशिषन्ति । परमगुरोर्भवतश्चरणावेव शतपलाशे कुशेशये तयोश्छायामुपसृतानामाश्रितानां प्रपन्नानामिति भावः । कथम्भूतां छायां विविधैर्वृजिनैः पापैर्यः संसारस्य परिश्रमः तस्य उपशमनीम् उपशमयन्त्यनयेत्युपशमनी ताम् ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम्।
ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च॥
मूलम्
अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम्।
ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च॥ ४४ ॥
अनुवाद (हिन्दी)
सर्वशक्तिमान् श्रीकृष्ण! वृत्रासुरने हमारे प्रभाव और अस्त्र-शस्त्रोंको तो निगल ही लिया है। अब वह तीनों लोकोंको भी ग्रस रहा है आप उसे मार डालिये॥ ४४॥
वीरराघवः
तदुकल्पयेत्येतदेव विशदयन्ति । अथो इति । अतः हे ईश ! भुवनत्रयं ग्रसन्तं त्वाष्ट्रं वृत्रं जहि येन त्वाष्ट्रेण हे कृष्ण ! नोऽस्माकं तेजांस्यस्त्राण्यायुधानि च ग्रस्तानि ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
हंसाय दह्रनिलयाय निरीक्षकाय
कृष्णाय मृष्टयशसे निरुपक्रमाय।
सत्संग्रहाय भवपान्थनिजाश्रमाप्ता-
वन्ते परीष्टगतये हरये नमस्ते॥
मूलम्
हंसाय दह्वनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय।
सत्संग्रहाय भवपान्थनिजाश्रमाप्तावन्ते परीष्टगतये हरये नमस्ते॥ ४५ ॥
अनुवाद (हिन्दी)
प्रभो! आप शुद्धस्वरूप हृदयस्थित शुद्ध ज्योतिर्मय आकाश, सबके साक्षी, अनादि,अनन्त और उज्ज्वल कीर्तिसम्पन्न हैं। संतलोग आपका ही संग्रह करते हैं। संसारके पथिक जब घूमते-घूमते आपकी शरणमें आ पहुँचते हैं, तब अन्तमें आप उन्हें परमानन्दस्वरूप अभीष्ट फल देते हैं और इस प्रकार उनके जन्म-जन्मान्तरके कष्टको हर लेते हैं। प्रभो! हम आपको नमस्कार करते हैं॥ ४५॥
वीरराघवः
तद्वधाय पुनः प्रणमन्ति हंसायेति । हंसाय निरस्तनिखिलदोषाय प्रणतार्तिहन्त्रे वा दहं हृदयपुण्डरीकं तदेव निलयं यस्य तस्मै अस्मदीयदुःखाभिज्ञायेति भावः । निरीक्षकाय चित्तवृत्तिसाक्षिणे न कापठ्येनास्माभिर्विज्ञापितमिति भावः । कृष्णाय भारापहरणेन भूमेः सुखकराय मृष्टयशसे विशुद्धकीर्त्तये प्रपन्नार्तिहरणेन न तवापकीर्तिरपि तु निष्कलङ्का कीर्त्तिरेवेति भावः । निरुपक्रमः निर्गतः उपक्रमः अस्मदुद्योगो यस्मात्तस्मै त्वत्प्रपत्तिव्यतिरेकेण नास्माकमुद्योगोऽस्तीति भावः । सतां स्वशासनानुवर्त्तिनां संग्रहाय स्वीयत्वेनानुग्राहकाय भवपान्थाः संसाराध्वगास्तेषां निजाश्रमाय स्वगृहभूताय यथा “पान्थः स्वशरणं यथा” इत्युक्तरीत्या स्वगृहं प्राप्य सुख्यति तथा भवपान्थानां निजाश्रमाय न केवलमैहिकसुखदाय अपि त्वामुष्मिकसुखदाय चेति भावः । शश्वत्सदा गरिष्ठा गतिः फलं तद्रूपाय निरतिशयपुरुषार्थरूपाय हरये तुभ्यं नमः प्रपन्नानामनेकाधिदैविकाधिभौतिकादिदुःखहरणशीलाय तुभ्यं नमः ॥ ४५ ॥
श्लोक-४६
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः।
स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः॥
मूलम्
अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः।
स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः॥ ४६ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! जब देवताओंने बड़े आदरके साथ इस प्रकार भगवान्का स्तवन किया, तब वे अपनी स्तुति सुनकर बहुत प्रसन्न हुए तथा उनसे कहने लगे॥ ४६॥
वीरराघवः
एवं देवैः संस्तुतो विज्ञापितश्च भगवानुवाचेत्याह मुनिः । हे राजन् ! त्रिदशैर्देवैः सादरमेवमीडितः स्तुतो भगवान्स्वं स्वकीयमुपस्थानं स्तोत्रमाकर्ण्याभिनन्दितः तान्प्रत्याह ॥ ४६ ॥
श्लोक-४७
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया।
आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि॥
मूलम्
प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया।
आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि॥ ४७ ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—श्रेष्ठ देवताओ! तुमलोगोंने स्तुतियुक्त ज्ञानसे मेरी उपासना की है, इससे मैं तुमलोगोंपर प्रसन्न हूँ। इस स्तुतिके द्वारा जीवोंको अपने वास्तविक स्वरूपकी स्मृति और मेरी भक्ति प्राप्त होती है॥ ४७॥
वीरराघवः
उक्तिमेवाह प्रीत इत्यादिना यावदध्यायपरिसमाप्ति । हे सुरश्रेष्ठाः ! मदुपस्थानविद्यया स्तुत्यात्मिकया विद्ययाहं वो यु[[??]]ष्मभ्यं प्रीतः विद्यां विशिनष्टि । यया अमुया ययानया विद्यया पुंसां तावन्मद्भक्तिस्तत आत्मैश्वर्यस्मृतिर्देहातिरिक्तात्मनोपहतपाप्मत्वादिगुणाष्टकरूपात्मैश्वर्यस्मृतिश्च भवति ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
किं दुरापं मयि प्रीत तथापि विबुधर्षभाः।
मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित्॥
मूलम्
किं दुरापं मयि प्रीत तथापि विबुधर्षभाः।
मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित्॥ ४८ ॥
मूलम् - कर्णावती
किं दुरापं मयि प्रीते तथापि विबुधर्षभाः।
मय्येकान्तमतिर्नान्यन्मत्तो वाञ्च्छति तत्त्ववित्॥ ४८ ॥
अनुवाद (हिन्दी)
देवशिरोमणियो! मेरे प्रसन्न हो जानेपर कोई भी वस्तु दुर्लभ नहीं रह जाती। तथापि मेरे अनन्यप्रेमी तत्त्ववेत्ता भक्त मुझसे मेरे अतिरिक्त और कुछ भी नहीं चाहते॥ ४८॥
वीरराघवः
यद्यपि मयि प्रीते सति हे विबुधर्षभाः ! किं दुरापं किं दुर्लभं न किमस्ति सर्वमपि वाञ्छितं सुलभमेवेति भावः । तथापि मय्येकान्तमतिरन्यप्रयोजनविषया मतिर्यस्य । अत एव तत्त्वविन्मत्तोऽन्यत्किञ्चिदपि न वाञ्छति मां प्रसाद्य प्रतिपक्षजयकामा यूयमतद्विविदो मन्दबुद्ध्य इति भावः ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक्।
तस्य तानिच्छतो यच्छेद् यदि सोऽपि तथाविधः॥
मूलम्
न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक्।
तस्य तानिच्छतो यच्छेद् यदि सोऽपि तथाविधः॥ ४९ ॥
अनुवाद (हिन्दी)
जो पुरुष जगत्के विषयोंको सत्य समझता है, वह नासमझ अपने वास्तविक कल्याणको नहीं जानता। यही कारण है कि वह विषय चाहता है; परन्तु यदि कोई जानकार उसे उसकी इच्छित वस्तु दे देता है, तो वह भी वैसा ही नासमझ है॥ ४९॥
वीरराघवः
एतदेवोपपादयति — नेति । गुणेषु शब्दादिविषयेषु वस्तुदृक् पुरुषार्थदृष्टिरत एव कृपणः इन्द्रियवश्यः पुमानात्मनः स्वस्य श्रेयो निरतिशयपुरुषार्थरूपं न वेद एवं तान् शब्दादीनिच्छतः तस्य पुंसः तान् शब्दादीनीशोऽपि निरतिशयपुरुषार्थप्रदानसमर्थोऽपि यः पुमान् यच्छेद्दद्याद्यदि सोऽपि तादृश एव कृपणः कृपणेन श्रेयोऽनभिज्ञेन क्षुद्रे पुरुषार्थे प्रार्थितेऽपि स्वयं परमपुरुषार्थप्रदानसमर्थोऽपि क्षुद्रफलं प्रयच्छन्कृपण एवेति भावः ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि।
न राति रोगिणोऽपथ्यं वाञ्छतो हि भिषक्तमः॥
मूलम्
स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि।
न राति रोगिणोऽपथ्यं 17वाञ्छतो हि भिषक्तमः॥ ५० ॥
अनुवाद (हिन्दी)
जो पुरुष मुक्तिका स्वरूप जानता है, वह अज्ञानीको भी कर्मोंमें फँसनेका उपदेश नहीं देता—जैसे रोगीके चाहते रहनेपर भी सद्वैद्य उसे कुपथ्य नहीं देता॥ ५०॥ देवराज इन्द्र! तुमलोगोंका कल्याण हो।
वीरराघवः
एतदेव दृष्टान्तमुखेन विशदयति — स्वयमिति । निःश्रेयसं निरतिशयपुरुषार्थं तत्साधनं च विद्वान् स्वयमविज्ञाय परमपुरुषार्थतत्साधनज्ञानरहिताय केवलकर्मासक्तिदुःखिताय कर्मैव कुर्विति न वक्ति न बोधयति तथा हि भिषक्श्रेष्ठः वाञ्छतः कामयमानस्यापि रोगिणः अपथ्य न राति न ददाति ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम्।
विद्याव्रततपःसारं गात्रं याचत मा चिरम्॥
मूलम्
मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम्।
विद्याव्रततपःसारं गात्रं याचत मा चिरम्॥ ५१ ॥
अनुवाद (हिन्दी)
अब देर मत करो। ऋषिशिरोमणि दधीचिके पास जाओ और उनसे उनका शरीर—जो उपासना, व्रत तथा तपस्याके कारण अत्यन्त दृढ़ हो गया है—माँग लो॥ ५१॥
वीरराघवः
यद्यप्येवं परिपाटिस्तथापि हे मधवन्निन्द्र ! ऋषिसत्तमं दध्यञ्चं प्रतियात यच्छत वो युष्माकं भद्रमभिलषितं भविष्यति कथमित्यत्राह । विद्यादिप्रभावेण प्रवर्ग्यकर्मणा युष्मदपेक्षितार्थदानशीलं गात्रं शरीरं याचत याचध्वं विलम्बं मा कुरुत ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम्।
यद् वा अश्वशिरो नाम तयोरमरतां व्यधात्॥
मूलम्
स वा अधिगतो दध्यङ्ङश्विभ्यां 18ब्रह्मनिष्कलम्।
यद् वा अश्वशिरो नाम तयोरमरतां व्यधात्॥ ५२ ॥
अनुवाद (हिन्दी)
दधीचि ऋषिको शुद्ध ब्रह्मका ज्ञान है। अश्विनीकुमारोंको घोड़ेके सिरसे उपदेश करनेके कारण उनका एक नाम ‘अश्वशिर’* भी है। उनकी उपदेश की हुई आत्मविद्याके प्रभावसे ही दोनों अश्विनीकुमार जीवन्मुक्त हो गये॥ ५२॥
पादटिप्पनी
- यह कथा इस प्रकार है—दधीचि ऋषिको प्रवर्ग्य (यज्ञकर्मविशेष) और ब्रह्मविद्याका उत्तम ज्ञान है—यह जानकर एक बार उनके पास अश्विनीकुमार आये और उनसे ब्रह्मविद्याका उपदेश करनेके लिये प्रार्थना की। दधीचि मुनिने कहा—‘इस समय मैं एक कार्यमें लगा हुआ हूँ, इसलिये फिर किसी समय आना।’ इसपर अश्विनीकुमार चले गये। उनके जाते ही इन्द्रने आकर कहा—‘मुने! अश्विनीकुमार वैद्य हैं, उन्हें तुम ब्रह्मविद्याका उपदेश मत करना। यदि तुम मेरी बात न मानकर उन्हें उपदेश करोगे तो मैं तुम्हारा सिर काट डालूँगा।’ जब ऐसा कहकर इन्द्र चले गये, तब अश्विनीकुमारोंने आकर फिर वही प्रार्थना की। मुनिने इन्द्रका सब वृत्तान्त सुनाया। इसपर अश्विनीकुमारोंने कहा—‘हम पहले ही आपका यह सिर काटकर घोड़ेका सिर जोड़ देंगे, उससे आप हमें उपदेश करें और जब इन्द्र आपका घोड़ेका सिर काट देंगे तब हम फिर असली सिर जोड़ देंगे।’ मुनिने मिथ्या-भाषणके भयसे उनका कथन स्वीकार कर लिया। इस प्रकार अश्वमुखसे उपदेश की जानेके कारण ब्रह्मविद्याका नाम ‘अश्वशिरा’ पड़ा।
वीरराघवः
दधीचो गात्रस्य सारवत्त्वमेवाह - स वा इति । अत्रैषा प्रसिद्धा कथावगन्तव्या । अथर्वणो दध्यङ्नाम ऋषिः कश्चित्प्रवर्ग्याख्यधर्मविद्याब्रह्मविद्याभ्यां समर्थोऽभूत्तं च विद्याप्रभावशालिनं निशम्याश्विनौ विद्याजिघृक्षया तमुपेत्योचतुः नौ विद्यामुपदिशेति, तेन दधीचाधुना कर्मण्यासक्तोऽहं पश्चादुपदेक्ष्यामीत्युक्तावश्विनौ ययतुः । तत इन्द्र आगत्य न कस्मैचिदपीमां विद्यामुपदिश यद्युपदिशेस्तव शिरः छिन्द्यामित्युक्त्वा ययौ । ततः पुनरश्विनावागत्योचतुः उपदिशेति । स च ताभ्यामिन्द्रोक्तमुक्तवान् । ततोऽपि पूर्वमेव तव शिरश्छित्त्वाश्वशिरः सन्धास्यावः अतो नौ उपदिशेति । स तथैव ताभ्यामभिसन्धितेनाश्वशिरसा विद्यामुपादिशदिति । तथा चोक्तम्-
दध्यङ्ङाथर्वणो दक्षः प्रवर्ग्यब्रह्मविद्ययोः । इति ज्ञात्वाश्विनौ देवौ गत्वा तमिदमूचतुः ॥
ब्रह्मविद्यां प्रवर्ग्यं च वेद त्वं साम्प्रतं द्विज । तदावाभ्यां प्रवक्तव्यमागतौ त्वां तदर्थिनौ ॥
दध्यङ्ङपि तदा प्राह तौ पश्चात्तद्भवीम्यहम् । कर्मण्यवस्थितोऽद्याहमधुना न तु साम्प्रतम् ॥
तच्छ्रुत्वा तौ तथेत्युक्त्वा जग्मतुः स्वालयं किल । एतस्मिन्नन्तरे शक्रो विद्यातिशयमात्मनः ॥
असहन् त्वरितो गत्वा दध्यञ्चमिदमब्रवीत् । प्रवर्ग्यं ब्रह्मविद्यां न कस्मैचिद्वक्तुमर्हसि ॥
शिरश्छिन्द्यां यदि ब्रूया रागलोभादिना तव । तथा बहुतिथे काले नासत्यावुपजग्मतुः ॥
ऊचतुश्चाप्यथर्वाणं ब्रूहि पूर्वोक्तमावयोः । इन्द्रेणाहं निषिद्धोऽस्मीत्याह वै द्विजसत्तमः ॥
यदि वक्ष्ये शिरश्छिन्द्यादिन्द्रो मे नात्र संशयः । पूर्वमेव शिरश्छित्त्वा तर्ह्यश्वशिरसं तव ॥
सन्धास्यावस्त्वमधुना ब्रूहि तेन प्रवर्ग्यकम् । तच्चेदिन्द्रश्छिनत्त्याशु स्वकीयं शिरसं ततः ॥
सन्धाय दक्षिणां चैव दास्याव इति होचतुः । एवमुक्तोऽथ दध्यङ् तु तयोस्तदुभयं जगौ ॥
प्रवर्ग्यब्रह्माविद्याभ्यां स तदा वीर्यवान् यतः । इति ॥
स वा अधिगत इत्यादिना एषा कथा सूचिता । तत्रायमर्थः । स दध्यङ् ऋषिसत्तमः निष्कलं विशुद्धं ब्रह्म अधिगतः यथावज्ज्ञातवान् । निष्कृतमिति पाठे तु नितरां कृतमनुष्ठितं प्रवर्ग्यं वाधिगतः यद्वावश्यं वक्ष्यामीत्यश्विभ्यां प्रतिज्ञातमित्यर्थः । तदेव निष्कृतं ब्रह्म विशिनष्टि । यद्वा । अश्वशिरोनामेति अश्वशिरसा प्रोक्तत्वादश्वशिर इति यत्प्रसिद्धं ब्रह्मेत्यर्थः । अश्विभ्यामित्यत्र ततोऽदादित्यस्यानुषङ्गः । ततोऽश्विभ्यामश्वशिरो ब्रह्म प्रवर्ग्यं चादादुपदिदेश उपदिश्य तयोरमरतां मरणराहित्यं व्यधादकरोदित्यर्थः ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम्।
विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वमधास्ततः॥
मूलम्
दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम्।
विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वमधास्ततः॥ ५३ ॥
अनुवाद (हिन्दी)
अथर्ववेदी दधीचि ऋषिने ही पहले-पहल मेरे स्वरूपभूत अभेद्य नारायणकवचका त्वष्टाको उपदेश किया था। त्वष्टाने वही विश्वरूपको दिया और विश्वरूपसे तुम्हें मिला॥ ५३॥
वीरराघवः
तथाथर्वणो दध्यङ् मदात्मकं मद्देवताकमत एवाभेद्यं वर्म नारायणवर्म स्वेनाधिगतं त्वष्ट्रेऽदादनेन च तद्गात्रस्य सारवत्त्वं तस्यापेक्षितप्रदत्वं च दर्शितम् । किं तद्वर्म यत्त्वष्टा स्वपुत्राय विश्वरूपायादात् यत्त्वं ततः विश्वरूपाद्धृतवानसि ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति।
ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः।
येन वृत्रशिरो हर्ता मत्तेज उपबृंहितः॥
मूलम्
युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति।
ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः।
येन वृत्रशिरो हर्ता मत्तेज उपबृंहितः॥ ५४ ॥
अनुवाद (हिन्दी)
दधीचि ऋषि धर्मके परम मर्मज्ञ हैं। वे तुमलोगोंको अश्विनीकुमारके माँगनेपर, अपने शरीरके अंग अवश्य दे देंगे। इसके बाद विश्वकर्माके द्वारा उन अंगोंसे एक श्रेष्ठ आयुध तैयार करा लेना। देवराज! मेरी शक्तिसे युक्त होकर तुम उसी शस्त्रके द्वारा वृत्रासुरका सिर काट लोगे॥ ५४॥
वीरराघवः
एवं दधीचो गात्रस्य सारवत्त्वमभिधायावश्यं याचितो गात्रं स्वीयं दध्यङ् दास्यतीत्याह — युष्मभ्यमिति । धर्मज्ञ इन्द्रादिदेवतारक्षणरूपधर्मज्ञः दध्यङ्याचितः सन् युष्मभ्यमवश्यमङ्गानि दास्यति । ददातु किं तैरस्माभिः कार्यम्, तत्राह - तत इति । तैर्दधीचाङ्गैः । विश्वकर्मणा विनिर्मित आयुधश्रेष्ठशे भविष्यति ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः।
भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान्॥
मूलम्
तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः।
भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान्॥ ५५ ॥
अनुवाद (हिन्दी)
देवताओ! वृत्रासुरके मर जानेपर तुम लोगोंको फिरसे तेज, अस्त्र-शस्त्र और सम्पत्तियाँ प्राप्त हो जायँगी। तुम्हारा कल्याण अवश्यम्भावी है; क्योंकि मेरे शरणागतोंको कोई सता नहीं सकता॥ ५५॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नवमोऽध्यायः॥ ९ ॥
वीरराघवः
येनायुधश्रेष्ठेन मत्तेजसोपबृंहितः आहितशक्तिरिन्द्रो वृत्रस्य शिरो हर्ता भविष्यति । तस्मिन्वृत्रे हते सति यूयं तेजांस्यस्त्राणि चायुधानि च पूर्ववद्भूयः प्राप्स्यथ । त्रिभुवनग्रासी स एवास्मान् हन्यादिति शङ्काकुलचित्तान् प्राह - मत्परांश्च न केऽपि बाधितुं क्षमन्ते । वो युष्माकं भद्रमेव भविष्यति ॥ ५५ ॥
इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकायां टीकायां नवमोऽध्यायः ॥ ६ ॥
-
प्रा. पा. - बादरायणिरुवाच । ↩︎
-
प्रा. पा. - भीतः शीर्षाण्यस्याच्छिनद् । ↩︎
-
प्रा. पा. - यदधीश्वरः । ↩︎
-
प्रा. पा. - द्रव्यरूपथ । ↩︎
-
प्रा. पा. - तद्धरिरक्षिपत् । ↩︎
-
प्रा. पा. - हते पुत्र तत । ↩︎
-
प्रा. पा. - दिवौकसः । ↩︎
-
प्रा. पा. - स्तपसा । ↩︎
-
प्रा. पा. - ऋषिरुवाच । ↩︎
-
प्रा. पा. - मधिति । ↩︎
-
प्रा. पा. - महिममहामृत । ↩︎
-
प्रा. पा. - सकृल्लीढया । ↩︎
-
प्रा. पा. - मानेनानव । ↩︎
-
प्रा. पा. - तमपि । ↩︎
-
प्रा. पा. - रतानां हन्त तव । ↩︎
-
प्रा. पा. - मुपसंगतानां । ↩︎
-
प्रा. पा. - तोऽपि भि । ↩︎
-
प्रा. पा. – निष्कृतम् । ↩︎