०८ नारायणवर्मकथनम्

[अष्टमोऽध्यायः]

भागसूचना

नारायणकवचका उपदेश

श्लोक-१

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान्।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्॥

मूलम्

यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान्।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्॥ १ ॥

वीरराघवः

वैष्णवीं विद्यां जिघृक्षुः पृच्छति राजा । ययेति द्वाभ्याम् । सहस्राक्षो यया वैष्णव्या विद्यया गुप्तः वाहनः सहितान् रिपूणां सैनिकान् क्रीडन्निव विनिर्जित्य त्रिलोक्याः सम्बन्धिनीं श्रियं बुभुजे अनुबभूव ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे॥

मूलम्

भगवंस्तन्ममाख्याहि1 वर्म नारायणात्मकम्।
यथाऽऽततायिनः शत्रून्2 येन गुप्तोऽजयन्मृधे॥ २ ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—भगवन्! देवराज इन्द्रने जिससे सुरक्षित होकर शत्रुओंकी चतुरंगिणी सेनाको खेल-खेलमें—अनायास ही जीतकर त्रिलोकीकी राजलक्ष्मीका उपभोग किया, आप उस नारायणकवचको मुझे सुनाइये और यह भी बतलाइये कि उन्होंने उससे सुरक्षित होकर रणभूमिमें किस प्रकार आक्रमणकारी शत्रुओंपर विजय प्राप्त की॥ १-२॥

वीरराघवः

तन्नारायणात्मकं नारायणरूपं मन्त्रदेवतयोरभेदाध्यवसायेन नारायणात्मकमित्युक्तम् । यद्वा । नारायण आत्मा प्रतिपाद्यो यस्य सः । अर्थो हि मन्त्रस्यात्मा मम मह्यं हे भगवन् ! आख्याहि उपदिश येन वर्मजापेन यथा आततायिनो जिघांसून् शत्रून्मृधे युद्धेऽजयदिन्द्रः ॥ २ ॥

श्लोक-३

मूलम् (वचनम्)

श्रीशुक3 उवाच

विश्वास-प्रस्तुतिः

वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु॥

मूलम्

वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु॥ ३ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—परीक्षित्! जब देवताओंने विश्वरूपको पुरोहित बना लिया, तब देवराज इन्द्रके प्रश्न करनेपर विश्वरूपने उन्हें नारायणकवचका उपदेश किया। तुम एकाग्रचित्तसे उसका श्रवण करो॥ ३॥

वीरराघवः

एवमुक्तो मुनिर्वर्मोपदेष्टमुपक्रमते । वृत इति । त्वाष्ट्रो विश्वरूपः पुरोहितत्वेन देवैर्वृतः अनुपृच्छते इन्द्राय यन्नारायणाख्यं वर्म नारायणवर्माख्यं मन्त्रमाह उपदिदेश तद्वर्मैकमनाः समाहितचित्तस्त्वं शृणु उपदिशाम्यहमिति शेषः ॥ ३ ॥

श्लोक-४

मूलम् (वचनम्)

विश्वरूप उवाच

विश्वास-प्रस्तुतिः

धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः॥

मूलम्

धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः॥ ४ ॥

वीरराघवः

उपदेक्ष्यमाणमन्त्रजपस्याङ्गभूतशौचन्यासकथनपूर्वकं विश्वरूपोपदिष्टक्रमेण मन्त्रमुपदिशति । धौतेति । शुचिः कृतस्नानादिकः धौतांघ्रिपाणिः प्रक्षालितपादपाणिः पुमान् सदर्भपवित्रकर उदङमुख उपविश्याचम्य वाग्यतः नियमितवाक् मन्त्राभ्यां नारायणाष्टाक्षरवासुदेवद्वादशाक्षराभ्यां मन्त्राभ्यां कृतः स्वस्याङ्गन्यासः करन्यासश्च येन तादृशः मन्त्राभ्यामिति विष्णुषडक्षरस्याप्युपलक्षणम् । तन्न्यासस्यापि वक्ष्यमाणत्वात् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

नारायणमयं वर्म सन्नह्येद् भय आगते।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि॥

मूलम्

नारायणमयं वर्म सन्नह्येद् भय आगते।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत्।
ॐ नमो नारायणायेति विपर्ययमथापि वा॥

मूलम्

मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत्।
ॐ नमो नारायणायेति विपर्ययमथापि वा॥ ६ ॥

अनुवाद (हिन्दी)

विश्वरूपने कहा—देवराज इन्द्र! भयका अवसर उपस्थित होनेपर नारायणकवच धारण करके अपने शरीरकी रक्षा कर लेनी चाहिये। उसकी विधि यह है कि पहले हाथ-पैर धोकर आचमन करे, फिर हाथमें कुशकी पवित्री धारण करके उत्तर मुँह बैठ जाय। इसके बाद कवचधारणपर्यन्त और कुछ न बोलनेका निश्चय करके पवित्रतासे ‘ॐ नमो नारायणाय’ और ‘ॐ नमो भगवते वासुदेवाय’—इन मन्त्रोंके द्वारा हृदयादि अंगन्यास तथा अंगुष्ठादि करन्यास करे। पहले ‘ॐ नमो नारायणाय’ इस अष्टाक्षर मन्त्रके ॐ आदि आठ अक्षरोंका क्रमशः पैरों, घुटनों, जाँघों, पेट, हृदय, वक्षःस्थल, मुख और सिरमें न्यास करे। अथवा पूर्वोक्त मन्त्रके मकारसे लेकर ॐकारपर्यन्त आठ अक्षरोंका सिरसे आरम्भ करके उन्हीं आठ अंगोंमें विपरीत क्रमसे न्यास करे॥ ४—६॥

श्लोक-७

विश्वास-प्रस्तुतिः

करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु॥

मूलम्

करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु॥ ७ ॥

अनुवाद (हिन्दी)

तदनन्तर ‘ॐ नमो भगवते वासुदेवाय’—इस द्वादशाक्षर मन्त्रके ॐ आदि बारह अक्षरोंका दायीं तर्जनीसे बायीं तर्जनीतक दोनों हाथकी आठ अँगुलियों और दोनों अँगूठोंकी दो-दो गाँठोंमें न्यास करे॥ ७॥

वीरराघवः

दैवभूतात्मनां कर्मभ्य आधिदैविकाध्यात्मिकेभ्यो भये आगते सति स्वयं नारायणध्यानप्रचुरः नारायणमयं नारायणप्रतिपादनप्रचुरम् । यद्वा । नारायणादुपदेशक्रमेणागतं नारायणमयम् “तत आगत” इत्यधिकारे “मयट् च इति मयट् । वर्म कवचं वर्मवद्रक्षकत्वाद्वर्मेत्युक्तम् । सन्नह्येद्बध्नीयाज्जपेदित्यर्थः । कृतस्वाङ्गकरन्यास इत्युक्तावङ्गन्यासकरन्यासावाह । पादयोरिति । यद्यप्यत्र ऋषिच्छन्दोदैवतबीजानि नोक्तानि तथाप्यस्य वर्मणो नारायणमन्त्रत्वादष्टाक्षरसम्बन्धीन्येव तान्युह्यानीति संप्रदायः ओमित्यादि योऽयं नारायणाष्टाक्षरो मन्त्रस्तस्योङ्कारादीन्यष्टाक्षराणि क्रमेण पादद्वयजानुद्वयोरुद्वयोदरहृदयोष्ठमुखशिरः स्वष्टसु स्थानेषु सबिन्दुकानि प्रणवसम्पुटितानि नमोऽन्तानि विन्यसेत् अथापि वा यद्वा विपर्ययं न्यसेच्छिरःप्रभृतिपादान्तेष्वष्टसु स्थानेषु क्रमेणोङ्कारादीन्यष्टौ न्यसेदित्यर्थः । यद्वा । अथापिवेति ! निपातसमुदायः पुनरर्थकः । प्रथमं यकारादीन्यष्टावक्षराणि पादादिशिरः पर्य्यन्तेषु स्थानेषु संहारक्रमेण विन्यस्य पुनः शिरः प्रभृतिषु । पादान्तेष्वोङ्कारादीनि सृष्टिक्रमेण विन्यसेदित्यर्थः । एवमङ्गन्यासं विधाय ततः करन्यासं द्वादशाक्षरविद्यया कुर्यात् । द्वादशाक्षरस्य चतुर्थस्कन्धे उक्तत्वादष्टाक्षरवत्स्वरूपानुक्तिः । कथं कुर्यात्करन्यासमित्यत्राह । प्रणवादीति । प्रणवादियकारान्तानि द्वादशाक्षराणि हस्तयोरङ्गुलिषु तर्जन्यादिषु चतुर्षु चतुर्षु अङ्गुष्ठयोर्द्वयोर्द्वयोः पर्वणोश्च न्यसेदित्यर्थः । तदिस्थम् ॐमों नमः तर्जन्या दक्षिणाङ्गुष्ठप्रथमपर्वणि । ॐ नं नमः तदङ्गुष्ठान्त्यपर्वणि । ॐ मों नमः तदङ्गुष्ठेन तर्जनीमध्यमपर्वणि । मन्त्राक्षरमाद्यन्तयोः पर्वणोस्तु प्रणयनमः पदैः एवमुत्तरत्रापि द्रष्टव्यम् । ॐ भं नमः मध्यमाङ्गुलौ । ॐ गं नमः अनामिकाङ्गुलौ । ॐ वं नमः कनिष्ठिकाङ्गुलौ । ॐ तेः नमः वामाङ्गुष्ठाद्यपर्वणि तत्तर्जन्या । ॐ यं नमः तदन्त्यपर्वणि । ॐ सुं नमः तर्जन्यां तदङ्गुष्ठेन । ॐ दें नमः तन्मध्यमायाम् ॐ वां नमः तदनामिकायाम् । ॐ यं नमः तत्कनिष्ठिकायामिति यथायथमूह्यम् ॥ ५-७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्॥

मूलम्

न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्4॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

वेकारं नेत्रयोर्युञ्‍ज्‍यान्नकारं सर्वसन्धिषु।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः॥

मूलम्

वेकारं नेत्रयोर्युञ्‍ज्‍यान्नकारं सर्वसन्धिषु।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत्।
ॐ विष्णवे नम इति॥

मूलम्

सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत्।
ॐ विष्णवे नम इति॥ १० ॥

अनुवाद (हिन्दी)

फिर ‘ॐ विष्णवे नमः’ इस मन्त्रके पहले अक्षर ‘ॐ’ का हृदयमें ‘वि’ का ब्रह्मरन्ध्रमें, ‘ष्’ का भौंहोंके बीचमें, ‘ण’ का चोटीमें, ‘वे’ का दोनों नेत्रोंमें और ‘न’ का शरीरकी सब गाँठोंमें न्यास करे। तदनन्तर ‘ॐ मः अस्त्राय फट्’ कहकर दिग्बन्ध करे। इस प्रकार न्यास करनेसे इस विधिको जाननेवाला पुरुष मन्त्रस्वरूप हो जाता है॥ ८—१०॥

अथ विष्णुषडक्षरन्यासमाह । न्यसेदिति । प्रत्येकं वर्णन्यासकथनेनैव मन्त्रस्वरूपमप्युक्तप्रायमिति पृथक्तदनुक्तम् । षकारणकारयोर्विश्लेषेण षडक्षराणि प्रणवादीनि नकारान्तानि तानि हृन्मूर्द्धभ्रूमध्यशिखानेत्रसर्वसन्धिस्थानेषु षट्सु विन्यसेत् ततोऽवशिष्टं मकारं सविसर्गं फडन्तम् ओं नमः फडिति कृत्वा सर्वदिक्षु भागाद्यष्टसु दिक्षु ऊर्ध्वाधरयोश्च विनिर्द्दिशेत् तर्जन्यङ्गुष्ठयोश्छोटिकया दिक्षु न्यसेदित्यर्थः । एवम्विधे न्यासे कृते सति बुधो मन्त्रजापकः मन्त्रमूर्तिमन्त्रावृत्तियोग्यदेहो भवतीत्यर्थः यद्वा । मन्त्राश्रयमूर्तिर्भवेदुक्तमन्त्रत्रयभवितान्यादृशमूर्त्तिर्भवेदितिवार्थः॥ ८-१० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

आत्मानं परमं ध्यायेद् ध्येयं षट्शक्तिभिर्युतम्।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत्॥

मूलम्

आत्मानं परमं ध्यायेद् ध्येयं षट्शक्तिभिर्युतम्।
विद्यातेजस्तपोमूर्तिमिमं 5मन्त्रमुदाहरेत्॥ ११ ॥

अनुवाद (हिन्दी)

इसके बाद समग्र ऐश्वर्य, धर्म, यश, लक्ष्मी, ज्ञान और वैराग्यसे परिपूर्ण इष्टदेव भगवान‍्का ध्यान करे और अपनेको भी तद्रूप ही चिन्तन करे। तत्पश्चात् विद्या, तेज और तपःस्वरूप इस कवचका पाठ करे—॥ ११॥

वीरराघवः

एवं कृतस्वाङ्गकरन्यासः परमात्मानं ध्यायन् मन्त्रमावर्त्तयेदित्याह आत्मानमिति । परमात्मानं ध्यायेत् कथम्भूतं ध्येयं ध्यातुं योग्यं यादृशविग्रहविशिष्टस्य ध्यानेन मनः प्रसन्नं भवेत्तादृशमित्यर्थः । षट्शक्तिभिर्ज्ञानशक्तिबलैश्वर्यवीर्यतेजआत्मिकाभिः शक्तिभिरपृथक् सिद्धप्रकारभूताभिः कार्योपयोगिनीभिर्युतं यावत्स्वसन्तं युक्तमेवंविधं परमात्मानं ध्यात्वा इमं वक्ष्यमाणं नारायणवर्माख्यं मन्त्रमुदाहरेत् पठेत् मन्त्रं विशिनष्टि । विद्यातेजस्तपोमूतः विद्या ज्ञानं तेजः प्रभावस्तपः सत्कर्म विद्यादीनां मूर्तिराश्रयः तं विद्यादयो मूर्त्तिः शरीरं यस्येति वार्थः । सर्वज्ञानानां तेजसां तपसां चैतन्मन्त्रायत्तत्वात्सर्वज्ञानादिसन्ततिरूपोऽयं मन्त्र इत्यर्थः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

ॐ हरिर्विदध्यान्मम सर्वरक्षां
न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे।
दरारिचर्मासिगदेषुचाप-
पाशान् दधानोऽष्टगुणोऽष्टबाहुः॥

मूलम्

ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे।
दरारिचर्मासिगदेषुचापपाशान् दधानोऽष्टगुणोऽष्टबाहुः॥ १२ ॥

अनुवाद (हिन्दी)

‘भगवान् श्रीहरि गरुड़जीकी पीठपर अपने चरणकमल रखे हुए हैं। अणिमादि आठों सिद्धियाँ उनकी सेवा कर रही हैं। आठ हाथोंमें शंख, चक्र, ढाल, तलवार, गदा, बाण, धनुष और पाश (फंदा) धारण किये हुए हैं। वे ही ॐकारस्वरूप प्रभु सब प्रकारसे, सब ओरसे मेरी रक्षा करें॥ १२॥

वीरराघवः

वर्माह । ओमिति । “स्रवत्यनोङ्कृतं पूर्वम्” इति न्यायेन मन्त्रादावोङ्कारः प्रथनं शरणागतगजेन्द्ररक्षणायावतीर्णं हर्यवताररूपं श्रीनारायणं गजेन्द्रवत्पीडितस्वरक्षणाय प्रार्थयते । हरिरिति । हरत्याश्रितानामार्त्तिमिति हरिः । मम सर्वतो रक्षां विदध्यात्कुर्यात् । मन्त्र एव स्वजापकपुरुषगतं प्रार्थयितृत्वं स्वस्मिन्नारोप्य प्रार्थयते । कथम्भूतः पतगेन्द्रस्य गरुत्मत पृष्ठे न्यस्ते अङ्घ्रिपद्मे अङ्घ्रिः पद्मे इव अङ्घ्रिपद्मे येन सः । दरः शङ्खः अरि चक्रं चर्म खेटः असिः खड्गदरादीन् दधानः बिभ्रत् अष्टौ गुणा अणिमादयो यस्य नित्याविर्भूतनिरुपाधिकापहतपाप्मत्वाद्यष्टगुणको वा अष्टौ बाहवो यस्य सः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

जलेषु मां रक्षतु मत्स्यमूर्ति-
र्यादोगणेभ्यो वरुणस्य पाशात्।
स्थलेषु मायावटुवामनोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः॥

मूलम्

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्य पाशात्।
स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः॥ १३ ॥

अनुवाद (हिन्दी)

मत्स्यमूर्ति भगवान् जलके भीतर जलजन्तुओंसे और वरुणके पाशसे मेरी रक्षा करें। मायासे ब्रह्मचारीका रूप धारण करनेवाले वामनभगवान् स्थलपर और विश्वरूप श्रीत्रिविक्रमभगवान् आकाशमें मेरी रक्षा करें॥ १३॥

वीरराघवः

एवं सामान्यतो रक्षाविधानं प्रार्थ्याथ जलस्थलादिप्रदेशभेदेन रक्षणोपयुक्तमत्स्यादिमूर्त्तिधरं श्रीमन्नारायणं प्रार्थयते । जलेष्विति । यादसां जलजन्तूनां गणा एव वरुणस्य पाशस्तमाज्जलचरदुष्कृत्प्रतिभटः मत्स्यमूर्त्तिर्भगवान् जलेषु मां रक्षतु स्थलेषु निर्जलप्रदेशेषु मायावटुर्वामनः स्वसङ्कल्पोपात्तवटुवामनरूपः स्थलजदुष्कृतां शास्ता मामव्याद्रक्षतु खेऽन्तरिक्षे त्रिविक्रमः त्रयो विक्रमाः पदविन्यासाः लोकत्रयसंग्राहका यस्यात एव विश्वरूपः कृत्स्नविश्वव्याप्तरूपः स्वसञ्चरिष्णुदुष्कृतां शास्ताऽवतु रक्षतु ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः।
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः॥

मूलम्

दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः।
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः॥ १४ ॥

अनुवाद (हिन्दी)

जिनके घोर अट्टहाससे सब दिशाएँ गूँज उठी थीं और गर्भवती दैत्यपत्नियोंके गर्भ गिर गये थे, वे दैत्य-यूथपतियोंके शत्रु भगवान् नृसिंह किले,जंगल, रणभूमि आदि विकट स्थानोंमें मेरी रक्षा करें॥ १४॥

वीरराघवः

अटव्यरण्यमाजिमुखं युद्धोपक्रमचादिर्येषां तेषु दुर्गेषु सङ्कटस्थानेषु प्रभुः समर्थोऽसुरसेनानायकानामरिर्नृसिंहः स्वभटप्रतिभटनिरसनशीलः पायात् रक्षतु । नृसिंहं विशिनष्टि । यस्य नृसिंहस्य महान्तमट्टहासं विमुञ्चतः सतः दिशो विनेदुः प्रतिदध्वनुः गर्भाश्च न्यपतन् सस्रंसिरे ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

रक्षत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो वराहः।
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान्॥

मूलम्

रक्षत्वसौ6 माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः।
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान्॥ १५ ॥

अनुवाद (हिन्दी)

अपनी दाढ़ोंपर पृथ्वीको धारण करनेवाले यज्ञमूर्ति वराहभगवान् मार्गमें, परशुरामजी पर्वतोंके शिखरोंपर और लक्ष्मणजीके सहित भरतके बड़े भाई भगवान् रामचन्द्र प्रवासके समय मेरी रक्षा करें॥ १५॥

वीरराघवः

असौ प्रसिद्धो वराहमूर्तिः मार्गेऽभिमुखमागतदुष्कुद्धिरण्याक्षस्य हन्ता मामध्वनि रक्षतु कथम्भूतः यज्ञकल्पः यज्ञैः कल्प्यत इति तथा यज्ञावयवकत्वेनोपास्यः स्वदंष्ट्र्या करणेन उन्नतोद्धृता धरा भूमिर्येन अद्रिकूटेषु पर्वतशिखरेषु रागो जामदग्न्योऽद्रिकूटस्थदुष्कृतां हन्ता रक्षत्वित्यनुषङ्गः । विप्रवासे परदेशगमनदशायां सलक्ष्मणो भरताग्रजो दाशरथी रामः देशान्तरस्थरावणादीनां हन्ताव्यात् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

मामुग्रधर्मादखिलात् प्रमादा-
न्नारायणः पातु नरश्च हासात्।
दत्तस्त्वयोगादथ योगनाथः
पायाद् गुणेशः कपिलः कर्मबन्धात्॥

मूलम्

मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात्।
दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात्॥ १६ ॥

अनुवाद (हिन्दी)

भगवान् नारायण मारण-मोहन आदि भयंकर अभिचारों और सब प्रकारके प्रमादोंसे मेरी रक्षा करें। ऋषिश्रेष्ठ नर गर्वसे, योगेश्वर भगवान् दत्तात्रेय योगके विघ्नोंसे और त्रिगुणाधिपति भगवान् कपिल कर्मबन्धनोंसे मेरी रक्षा करें॥ १६॥

वीरराघवः

उग्रधर्मादभिचारादेरखिलात्प्रमादान्नारायणः अभिचारादिनिरसनक्षमनामवान्मूर्त्तिपुत्रः पातु हासाद्गर्वान्नरः गर्वप्रतिभटः मूर्तिपुत्रः पातु दत्तो दत्तात्रेयः योगविरोधिनिरसनक्षमो योगाद्योगविरोधिवर्गात्पातु । अथेति प्रार्थनानन्तरारम्भद्योतकम् । योगनाथः योगेश्वरो गणानां सिद्धगणानामीशः कपिलः ज्ञानप्रदानेन कर्मबन्धनिरासकः कर्मबन्धात् दुरितकर्मबन्धात्पायादव्यात् । गणयन्तीति गणाः प्रकृतिमहदादितत्त्वानां याथात्म्यविवेचने गणयितारस्ते सांख्यास्तेषामीश इति वार्थः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

सनत्कुमारोऽवतु कामदेवा-
द्धयशीर्षा मां पथि देवहेलनात्।
देवर्षिवर्यः पुरुषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात्॥

मूलम्

सनत्कुमारोऽवतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात्।
देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात्॥ १७ ॥

अनुवाद (हिन्दी)

परमर्षि सनत्कुमार कामदेवसे, हयग्रीवभगवान् मार्गमें चलते समय देवमूर्तियोंको नमस्कार आदि न करनेके अपराधसे, देवर्षि नारद सेवापराधोंसे* और भगवान् कच्छप सब प्रकारके नरकोंसे मेरी रक्षा करें॥ १७॥

पादटिप्पनी
  • बत्तीस प्रकारके सेवापराध माने गये हैं—१-सवारीपर चढ़कर अथवा पैरोंमें खड़ाऊँ पहनकर श्रीभगवान‍्के मन्दिरमें जाना। २-रथयात्रा, जन्माष्टमी आदि उत्सवोंका न करना या उनके दर्शन न करना। ३-श्रीमूर्तिके दर्शन करके प्रणाम न करना। ४-अशुचि-अवस्थामें दर्शन करना। ५-एक हाथसे प्रणाम करना। ६-परिक्रमा करते समय भगवान‍्के सामने आकर कुछ न रुककर फिर परिक्रमा करना अथवा केवल सामने ही परिक्रमा करते रहना। ७-श्रीभगवान‍्के श्रीविग्रहके सामने पैर पसारकर बैठना। ८-श्रीभगवान‍्के श्रीविग्रहके सामने दोनों घुटनोंको ऊँचा करके उनको हाथोंसे लपेटकर बैठ जाना। ९-श्रीभगवान‍्के श्रीविग्रहके सामने सोना। १०-श्रीभगवान‍्के श्रीविग्रहके सामने भोजन करना। ११-श्रीभगवान‍्के श्रीविग्रहकेसामने झूठ बोलना। १२-श्रीभगवान‍्के श्रीविग्रहके सामने जोरसे बोलना। १३-श्रीभगवान‍्के श्रीविग्रहके सामने आपसमें बातचीत करना। १४-श्रीभगवान‍्के श्रीविग्रहके सामने चिल्लाना। १५-श्रीभगवान‍्के श्रीविग्रहके सामने कलह करना। १६-श्रीभगवान‍्के श्रीविग्रहके सामने किसीको पीड़ा देना। १७-श्रीभगवान‍्के श्रीविग्रहके सामने किसीपर अनुग्रह करना। १८-श्रीभगवान‍्के श्रीविग्रहके सामने किसीको निष्ठुर वचन बोलना। १९-श्रीभगवान‍्के श्रीविग्रहके सामने कम्बलसे सारा शरीर ढक लेना। २०-श्रीभगवान‍्के श्रीविग्रहके सामने दूसरेकी निन्दा करना। २१-श्रीभगवान‍्के श्रीविग्रहके सामने दूसरेकी स्तुति करना। २२-श्रीभगवान‍्के श्रीविग्रहके सामने अश्लील शब्द बोलना। २३-श्रीभगवान‍्के श्रीविग्रहके सामने अधोवायुका त्याग करना। २४-शक्ति रहते हुए भी गौण अर्थात् सामान्य उपचारोंसे भगवान‍्की सेवा-पूजा करना। २५-श्रीभगवान‍्को निवेदित किये बिना किसी भी वस्तुका खाना-पीना। २६-जिस ऋतुमें जो फल हो, उसे सबसे पहले श्रीभगवान‍्को न चढ़ाना। २७-किसी शाक या फलादिके अगले भागको तोड़कर भगवान‍्के व्यंजनादिके लिये देना। २८-श्रीभगवान‍्के श्रीविग्रहको पीठ देकर बैठना। २९-श्रीभगवान‍्के श्रीविग्रहके सामने दूसरे किसीको भी प्रणाम करना। ३०-गुरुदेवकी अभ्यर्थना, कुशल-प्रश्न और उनका स्तवन न करना और ३१-अपने मुखसे अपनी प्रशंसा करना। ३२-किसी भी देवताकी निन्दा करना।
वीरराघवः

कामदेवान्मदनात्सनत्कुमारोऽपृष्टकामः अवतु पथि देवहेलनात् देवानां हेलनं परिहासस्तस्माद्धयशीर्षः वेदापहरणादिना चतुर्मुखादिदेवहेलनं कुर्वतां मधुकैटभादीनां हन्ता मामवतु पुरुषस्य भगवतोऽर्चनमाराधनं तस्यान्तराद्विच्छेदाद्देवर्षिवर्यः नारदः अविच्छिन्नभगवदाराधनपरः पातु । अशेषान्निरयान्नरकात्कूर्मो हरिराश्रितार्तिहा अधस्तान्मग्नानामुद्धारकः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

धन्वन्तरिर्भगवान् पात्वपथ्याद्
द्वन्द्वाद् भयादृषभो निर्जितात्मा।
यज्ञश्च लोकादवताज्जनान्ताद्
बलो गणात् क्रोधवशादहीन्द्रः॥

मूलम्

धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा।
यज्ञश्च 7लोकादवताञ्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः॥ १८ ॥

अनुवाद (हिन्दी)

भगवान् धन्वन्तरि कुपथ्यसे, जितेन्द्रिय भगवान् ऋषभदेव सुख-दुःख आदि भयदायक द्वन्द्वोंसे, यज्ञभगवान् लोकापवादसे, बलरामजी मनुष्यकृत कष्टोंसे और श्रीशेषजी क्रोधवश नामक सर्पोंके गणसे मेरी रक्षा करें॥ १८॥

वीरराघवः

अपथ्याद्धन्वन्तरिः भिषक्श्रेष्ठः पातु । द्वन्द्वाच्छीतोष्णादेः ऋषभः निर्जितः आत्मा मनो येन जितान्तर्बाह्येन्द्रियः शितोष्णादिध्वनावृतस्तत्सहिष्णुः पातु लोकाज्जनापवादात् यज्ञः विष्णुः “यज्ञो वै विष्णुः” इति श्रुतेः । सर्वजनान्तरात्मा पातु । उत अपि तत्कृतान्तात् तेन जनेन कृतोऽन्तः उपघातस्तस्माद्बलो बलभद्रः दुर्जनकृतोपघातहा पातु । नः कृतान्तादिति पाठे तु कृतान्तान्मृत्योर्बलभद्रो मृत्युहा नः पात्वित्यर्थः । क्रोधवशात् सर्पाणां गणादहीन्द्रः शेषः पातु ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

द्वैपायनो भगवानप्रबोधाद्
बुद्धस्तु पाखण्डगणात् प्रमादात्।
कल्किः कलेः कालमलात् प्रपातु
धर्मावनायोरुकृतावतारः॥

मूलम्

द्वैपायनो भगवानप्रबोधाद् 8बुद्धस्तु पाखण्डगणात् प्रमादात्।
कल्किः कलेः कालमलात् 9प्रपातु धर्मावनायोरुकृतावतारः॥ १९ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णद्वैपायन व्यासजी अज्ञानसे तथा बुद्धदेव पाखण्डियोंसे और प्रमादसे मेरी रक्षा करें। धर्मरक्षाके लिये महान् अवतार धारण करनेवाले भगवान् कल्कि पापबहुल कलिकालके दोषोंसे मेरी रक्षा करें॥ १९॥

वीरराघवः

अप्रबोधादज्ञानाद्भगवान् द्वैपायनो ज्ञानदः पातु । अत्र नरदत्तसनत्कुमारदेवर्षिबलाहीन्द्रद्वैपायना अंशावताराः जामदग्न्यकपिलधन्वन्तरिऋषिभास्त्वावेशावतराः इतरे पूर्णाः । जीवविशेषे आविर्भाव आवेशः कैश्विद्गुणैः साक्षादाविर्भावोशः प्रमादान्मोहजनकात्पाखण्डानां गणाद्बुद्धः जगन्मोहपाखण्डगणहा कालमलभूतात् कलेः कल्किः कालमलकलिहा प्रपातु । काल्किं विशिनष्टि । धर्मावनाय धर्मरक्षणाय उरुर्महान् कृतः अवतारो येन सः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

मां केशवो गदया प्रातरव्याद्
गोविन्द आसङ्गवमात्तवेणुः।
नारायणः प्राह्ण उदात्तशक्ति-
र्मध्यन्दिने विष्णुररीन्द्रपाणिः॥

मूलम्

मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः।
नारायणः 10प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः॥ २० ॥

अनुवाद (हिन्दी)

प्रातःकाल भगवान् केशव अपनी गदा लेकर, कुछ दिन चढ़ आनेपर भगवान् गोविन्द अपनी बाँसुरी लेकर, दोपहरके पहले भगवान् नारायण अपनी तीक्ष्ण शक्ति लेकर और दोपहरको भगवान् विष्णु चक्रराज सुदर्शन लेकर मेरी रक्षा करें॥ २०॥

वीरराघवः

अथ प्रातरादिकालेषु दिनस्य षट्सु भागेषु केशवादिमूर्त्तिभ्यो रक्षां प्रार्थयते । मामिति । केशवः गदया युक्त इति शेषः । प्रातर्मामव्यात् आत्तः धृतः वेणुर्येन स गोविन्दः आसङ्गवं सङ्गव कालमभिव्याय सङ्गव उदयानन्तरकालः उदात्ता उद्धृता शक्तिरायुधविशेषो येन सः श्रीमन्नारायणः प्राह्णे पूर्वाह्ने अरीन्द्रश्चक्रराजः स पाणौ यस्य सः विष्णुः मध्यन्दिने मध्याह्ने पातु रक्षतु ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

देवोऽपराह्णे मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम्।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः॥

मूलम्

देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम्।
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः॥ २१ ॥

अनुवाद (हिन्दी)

तीसरे पहरमें भगवान् मधुसूदन अपना प्रचण्ड धनुष लेकर मेरी रक्षा करें। सायंकालमें ब्रह्मा आदि त्रिमूर्तिधारी माधव, सूर्यास्तके बाद हृषीकेश, अर्धरात्रिके पूर्व तथा अर्धरात्रिके समय अकेले भगवान् पद्मनाभ मेरी रक्षा करें॥ २१॥

वीरराघवः

उग्रं धनुर्यस्य स मधुहा मधुसूदनः स्वतेजसा दीप्यमानः अपराह्ने त्रीणि धामानि तेजांस्यभिव्यक्तिस्थानानि यस्य “गामग्निं ब्राह्मणं चैव त्रीणि तेजांसि न स्पृशेत्” इत्युक्तत्रीणि तेजांस्यत्र विवक्षितानि । यद्वा । योगिहृदयक्षीराब्धिरूपाणि त्रीणि धामानि स्थानानि यस्य सः । माधवः सायङ्काले मामवतु । दोषे प्रदोषे हृषीकेशः । अर्द्धरात्रपर्यन्तकाले निशीथे चैकः पद्मनाभोऽवतु ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

श्रीवत्सधामापररात्र ईशः
प्रत्यूष ईशोऽसिधरो जनार्दनः।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्तिः॥

मूलम्

श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः॥ २२ ॥

अनुवाद (हिन्दी)

रात्रिके पिछले प्रहरमें श्रीवत्सलांछन श्रीहरि, उषाकालमें खड्गधारी भगवान् जनार्दन, सूर्योदयसे पूर्व श्रीदामोदर और सम्पूर्ण सन्ध्याओंमें कालमूर्ति भगवान् विश्वेश्वर मेरी रक्षा करें॥ २२॥

वीरराघवः

अपररात्रे श्रीवत्सचिह्नः ईर्लक्ष्मीस्तस्या ईशः श्रीधरः पातु प्रत्यूषे असिधरः खड्गघरो जनार्द्दनः पातु । अनुसन्ध्यं प्रतिसन्ध्यं दामोदरः पातु । भगवान् कालशरीरको विश्वनियन्ता पातु । अत्र केशवादिद्वादशमूर्तीनां मध्ये वामनत्रिविक्रमयोर्मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवत्विति रक्षकत्वेन प्रार्थितत्वात्तयोरत्रानुक्तिः । नारायणमूर्त्तेरुक्तत्वेऽप्यायुधविशेषविशिष्टस्यात्र रक्षितृत्वं प्रार्थ्यत इति न पौनरुक्त्यम् । क्रमस्त्वविवक्षितः । प्रातः प्रत्युषप्रभातशब्दा भूतभविष्यद्वर्त्तमानदिनावयवप्रातः कालपराः॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

चक्रं युगान्तानलतिग्मनेमि
भ्रमत् समन्ताद् भगवत्प्रयुक्तम्।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताशः॥

मूलम्

चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम्।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा 11वातसखो हुताशः॥ २३ ॥

अनुवाद (हिन्दी)

‘सुदर्शन! आपका आकार चक्र (रथके पहिये)- की तरह है। आपके किनारेका भाग प्रलयकालीन अग्निके समान अत्यन्त तीव्र है। आप भगवान‍्की प्रेरणासे सब ओर घूमते रहते हैं। जैसे आग वायुकी सहायतासे सूखे घास-फूसको जला डालती है, वैसे ही आप हमारी शत्रु-सेनाको शीघ्र-से-शीघ्र जला दीजिये, जला दीजिये॥ २३॥

वीरराघवः

अथ भगवतोऽस्त्राण्यरिष्टनिरासकत्वेन । प्रार्थयते । चक्रमित्यादिना । युगान्ताशनिवत्तीक्ष्णा नेमिर्यस्य तञ्चक्रं भगवता प्रयुक्तं सदरीणां सैन्यं दन्दग्धि अतिशयेन दहति । अरिसैन्यदाहकत्वं तस्य स्वभाव एवेति न तत् प्रार्थनीयमिति प्रथमपुरुषनिर्द्देशः । दहने दृष्टान्तः । वायुसहायोऽग्निः कक्षं शुष्कं तृणं यथेति ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि।
कूष्माण्डवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय चूर्णयारीन्॥

मूलम्

गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पण्ढ्यजितप्रियासि।
कूष्माण्डवैनायकयक्षरक्षो-भूतग्रहांश्चूर्णय चूर्णयारीन्॥ २४ ॥

अनुवाद (हिन्दी)

कौमोदकी गदा! आपसे छूटनेवाली चिनगारियोंका स्पर्श वज्रके समान असह्य है। आप भगवान् अजितकी प्रिया हैं और मैं उनका सेवक हूँ। इसलिये आप कूष्माण्ड, विनायक, यक्ष, राक्षस, भूत और प्रेतादि ग्रहोंको अभी कुचल डालिये, कुचल डालिये तथा मेरे शत्रुओंको चूर-चूर कर दीजिये॥ २४॥

वीरराघवः

अशनिवत् स्पर्शो येषां ते विस्फुलिङ्गाः यस्यास्तस्याः सम्बोधनं हे गदे ! त्वमजितस्य भगवतः प्रियास्यहं च तस्य दासः । अतः कूष्माण्डादीन् निष्पिण्डि निष्पिण्ढि आभीक्ष्ण्ये द्विर्वचनमतिशीघ्रत्वद्योतनाय वीप्सायां वा । पुनः पुनर्नितरां पेषयेत्यर्थः । तथारीन् शत्रून् पुनः पुनश्चूर्णय ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

त्वं यातुधानप्रमथप्रेतमातृ-
पिशाचविप्रग्रहघोरदृष्टीन्।
दरेन्द्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि कम्पयन्॥

मूलम्

त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन्।
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन्॥ २५ ॥

अनुवाद (हिन्दी)

शंखश्रेष्ठ! आप भगवान् श्रीकृष्णके फूँकनेसे भयंकर शब्द करके मेरे शत्रुओंका दिल दहला दीजिये एवं यातुधान, प्रमथ, प्रेत, मातृका, पिशाच तथा ब्रह्मराक्षस आदि भयावने प्राणियोंको यहाँसे झटपट भगा दीजिये॥ २५॥

वीरराघवः

हे दरैन्द्र ! शङ्खराज ! पाञ्चजन्य ! त्वं कृष्णेन भगवता पूरितः भीमः भयङ्करः स्वनो ध्वनिर्यस्य तादृशः शत्रोर्हृदयानि कम्पयन् यातुधानादीन् ग्रहविशेषान् येऽन्ये च घोरदर्शनाः तान् विद्रावय पलायितान् कुरु ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

त्वं तिग्मधारासिवरारिसैन्य-
मीशप्रयुक्तो मम छिन्धि छिन्धि।
चक्षूंषि चर्मञ्छतचन्द्र छादय
द्विषामघोनां हर पापचक्षुषाम्॥

मूलम्

त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि।
चक्षूंषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम्॥ २६ ॥

अनुवाद (हिन्दी)

भगवान‍्की प्यारी तलवार! आपकी धार बहुत तीक्ष्ण है। आप भगवान‍्की प्रेरणासे मेरे शत्रुओंको छिन्न-भिन्न कर दीजिये। भगवान‍्की प्यारी ढाल! आपमें सैकड़ों चन्द्राकार मण्डल हैं। आप पाप-दृष्टि पापात्मा शत्रुओंकी आँखें बंद कर दीजिये और उन्हें सदाके लिये अंधा बना दीजिये॥ २६॥

वीरराघवः

तिग्मा तीक्ष्णा धारा यस्य स चासावसिवरश्च तस्य सम्बोधनं त्वम् ईशेन भगवता प्रयुक्तः ममारिसैन्यं छिन्धि छिन्धि शतं चन्द्राश्चन्द्राकाराणि मण्डलानि यस्मिन् हे शतचन्द्र ! चर्मन् खेट ! अघवतां द्विषां चक्षूंषि छादय पापचक्षुषामुग्रदृष्टीनां चक्षूंषि हर ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा॥

मूलम्

यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च।
सरीसृपेभ्यो दंष्ट्रिभ्यो 12भूतेभ्योंऽहोभ्य एव वा॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात्।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः॥

मूलम्

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात्।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः॥ २८ ॥

अनुवाद (हिन्दी)

सूर्य आदि ग्रह, धूमकेतु (पुच्छलतारे) आदि केतु, दुष्ट मनुष्य, सर्पादि रेंगनेवाले जन्तु, दाढ़ोंवाले हिंसक पशु, भूत-प्रेत आदि तथा पापी प्राणियोंसे हमें जो-जो भय हों और जो-जो हमारे मंगलके विरोधी हों—वे सभी भगवान‍्के नाम, रूप तथा आयुधोंका कीर्तन करनेसे तत्काल नष्ट हो जायँ॥ २७-२८॥

वीरराघवः

ग्रहादिभ्यो यद्यद्भयं नोऽस्माकमभूत्तानि सर्वाणि भयानि भगवतो नामरूपाण्येवास्त्राणि तेषां कीर्त्तनात् । यद्वा । कीर्त्तनं स्मरणस्याप्युपलक्षणम् । भगवतो नाम्नां कीर्त्तनाद्रूपाणां दिव्यमूर्तीनामस्त्राणां च स्मरणात् । संशयं नाशं सद्य एव यान्तु प्राप्नुवन्तु । तत्र केतवो धूमकेत्वादयः । नरश्चौरादयः सरीसृपाः सर्पणस्वभावाः दंष्ट्रिणः श्वापदादयः अघानि पापस्वभावानि भूतानि तथा येऽन्ये श्रेयस इष्टस्य प्रतीपकाः विघातकाः तेऽपि संक्षयं यान्तु ॥ २७-२८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

गरुडोभगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः॥

मूलम्

गरुडोभगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः॥ २९ ॥

मूलम् - कर्णावती

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः॥ २९ ॥

अनुवाद (हिन्दी)

बृहद्, रथन्तर आदि सामवेदीय स्तोत्रोंसे जिनकी स्तुति की जाती है, वे वेदमूर्ति भगवान् गरुड और विष्वक्सेनजी अपने नामोच्चारणके प्रभावसे हमें सब प्रकरकी विपत्तियोंसे बचायें॥ २९॥

वीरराघवः

स्तोत्राणि बृहद्रथन्तरसामादीनि तैः स्तोभ्यते स्तोत्रावयवत्वेन स्तूयता इति तथा । छन्दोमयः छन्दःप्रचुरः प्रभुः समर्थो भगवान् गरुडः स्तोभस्तोत्रछन्दोमय इति पाठे स्तोभानि गीतपूरकाक्षराणि तद्युक्तानि स्तोत्राणि छन्दांसि बृहदादीनि गीत्याधारभूतानि छन्दांसि तत्प्रचुरः तदवयवकत्वप्राचुर्येणानुसन्धेय इत्यर्थः । अशेषकृच्छेभ्यः अशेषापद्भयो रक्षतु स्वनामभिर्विश्वक्सेनो रक्षतु ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

सर्वापद‍्भ्यो हरेर्नामरूपयानायुधानि नः।
बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः॥

मूलम्

सर्वापद‍्भ्यो हरेर्नामरूपयानायुधानि नः।
बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः॥ ३० ॥

अनुवाद (हिन्दी)

श्रीहरिके नाम, रूप, वाहन, आयुध और श्रेष्ठ पार्षद हमारी बुद्धि, इन्द्रिय, मन और प्राणोंको सब प्रकारकी आपत्तियोंसे बचायें॥ ३०॥

वीरराघवः

तथा हरेर्नामानि रूपाणि च यानानि वाहनानि च तथा पार्षदप्रवरा भूषणानि च मम बुद्ध्यादीन् पान्तु ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

यथा हि भगवानेव वस्तुतः सदसच्च यत्।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः॥

मूलम्

यथा हि भगवानेव13 वस्तुतः सदसच्च यत्।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः॥ ३१ ॥

अनुवाद (हिन्दी)

‘जितना भी कार्य अथवा कारणरूप जगत् है, वह वास्तवमें भगवान् ही हैं’—इस सत्यके प्रभावसे हमारे सारे उपद्रव नष्ट हो जायँ॥ ३१॥

वीरराघवः

एवं भगन्नामरूपास्त्रभूषणपार्षदादीनिष्टप्रापकत्वेनानिवर्त्तकत्वेन च सम्प्रार्थ्य तन्नामरूपादिवत्तद्विभूत्यादिवञ्च तद्विषयकप्रार्थनायाः सत्यत्वं प्रतिजानीते । यथेति त्रिभिः । यथा च यत् सदसञ्चिदचिदात्मकं जगद्वस्तुतो भगवानेव भगवदात्मकमेवात्र न तु विप्रतिपत्तिः “यस्य पृथिवी शरीरं यस्यात्मा शरीरं तदनुप्रविश्य सच्च त्यच्चाभवत्” इति श्रुतेरितिभावः । तथानेन सत्येन सत्यभूतेनाबाधितेन दृष्टान्तेन तद्विषयकप्रार्थनया नोऽस्माकमुपद्रवाः तस्य जगदात्मकत्ववत् तद्विषयकप्रार्थनापि न मिथ्या भवितुमर्हतीति भावः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

यथैकात्म्यानुभावानां विकल्परहितः स्वयम्।
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया॥

मूलम्

यथैकात्म्यानुभावानां विकल्परहितः स्वयम्।
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः॥

मूलम्

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः॥ ३३ ॥

अनुवाद (हिन्दी)

जो लोग ब्रह्म और आत्माकी एकताका अनुभव कर चुके हैं, उनकी दृष्टिमें भगवान‍्का स्वरूप समस्त विकल्पों—भेदोंसे रहित है; फिर भी वे अपनी माया-शक्तिके द्वारा भूषण,आयुध और रूप नामक शक्तियोंको धारण करते हैं, यह बात निश्चितरूपसे सत्य है। इस कारण सर्वज्ञ, सर्वव्यापक भगवान् श्रीहरि सदा-सर्वत्र सब स्वरूपोंसे हमारी रक्षा करें॥ ३२-३३॥

वीरराघवः

तथा च भगवानैकात्म्यानुभावेन कृत्स्नचिदचिदात्मकजगदेकान्तरात्मत्वकृतभावेन विकल्परहितः । प्राकृतदेवमनुष्यादिनामरूपात्मकभेदरहितः स्वमायया स्वसङ्कल्पज्ञानेन स्वयमात्मनैव स्वेच्छया न तु जीववत्कर्मणेत्यर्थः । भूषणादीन् धत्ते बिभर्त्ति अत्र लिङ्गानि दिव्यविग्रहा आख्याः रामकृष्णादीनि नामानि यथा भूषणादीनि सत्यान्येव बिभर्ति तथा स्वविषयामपि प्रार्थनां सत्यां कृत्वा तेनैव सत्यमानेन सत्यभूतेन मीयते प्रमीयतेऽनेनेति मानं दृष्टान्तस्तेन सर्वस्वरूपेणास्त्रपार्षदादिस्वरूपेण सर्वदा सर्वकालेषु सर्वत्र सर्वेषु देशेषु सदा सर्वावस्थासु च पातु ॥ ३२-३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

विदिक्षु दिक्षूर्ध्वमधः समन्ता-
दन्तर्बहिर्भगवान् नारसिंहः।
प्रहापयल्ँलोकभयं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजाः॥

मूलम्

विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः।
प्रहापयल्ँलोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः॥ ३४ ॥

अनुवाद (हिन्दी)

जो अपने भयंकर अट्टाहाससे सब लोगोंके भयको भगा देते हैं और अपने तेजसे सबका तेज ग्रस लेते हैं, वे भगवान् नृसिंह दिशा-विदिशामें, नीचे-ऊपर, बाहर-भीतर—सब ओर हमारी रक्षा करें’॥ ३४॥

वीरराघवः

एवं प्रार्थनायाः सत्यतां प्रतिज्ञाय पुनः सिंहावलोकनन्यायेन श्रीनृसिंहं त्रातारं प्रार्थयते । विदिक्ष्विति । विदिक्ष्वाग्न्येयादिषु दिक्षु ऐन्द्र्यादिषु ऊर्ध्वायामधश्च दिशि शरीरस्यान्तर्बहिश्च भगवन्नारसिंहः पात्वित्यनुषङ्गः । तं विशिनष्टि । स्वनेन महाट्टहासेन ध्वनिना लोकस्य स्वभक्तलोकस्य भयं प्रहापयन्नपनुदन् स्वतेजसा प्रस्तान्याच्छादितानि समस्तानि तेजांसि सूर्यादितेजांसि येन सः “न तत्र सूर्यो भाति न चन्द्रतारकम्” इति श्रुत्यर्थोऽनेनाभिप्रेतः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

मघवन्निदमाख्यातं वर्म नारायणात्मकम्।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान्॥

मूलम्

मघवन्निदमाख्यातं वर्म नारायणात्मकम्।
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान्॥ ३५ ॥

अनुवाद (हिन्दी)

देवराज इन्द्र! मैंने तुम्हें यह नारायणकवच सुना दिया। इस कवचसे तुम अपनेको सुरक्षित कर लो। बस, फिर तुम अनायास ही सब दैत्य-यूथपतियोंको जीत लोगे॥ ३५॥

वीरराघवः

एवमिन्द्रायेदं नारायणवर्मोपदिश्यैतन्मन्त्रप्रभावेण शत्रून् विजेष्यसीति वदन्नन्यमपि तत्प्रभावमाह विश्वरूप इत्याह । मघवन्निति । हे मघवन् ! इदं नारायणात्मकं वर्म तुभ्यमाख्यातं मयेति शेषः । कथम्भूतं येन नारायणवर्मणा दंशितः कवचितः अञ्जसा सुखेनैवासुरयूथपान् शत्रून्विजेष्यसि ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा।
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते॥

मूलम्

एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा।
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते॥ ३६ ॥

अनुवाद (हिन्दी)

इस नारायणकवचको धारण करनेवाला पुरुष जिसको भी अपने नेत्रोंसे देख लेता अथवा पैरसे छू देता है, वह तत्काल समस्त भयोंसे मुक्त हो जाता है॥ ३६॥

वीरराघवः

एतद्वर्म धारयमाणः अनुसन्दधत्पुमान् यं यं भीतं पुरुषं चक्षुषा पश्यति पदा वा संस्पृशेत्स भीतः साध्वसाद्भयाद्विमुच्यते ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

न कुतश्चिद‍्भयं तस्य विद्यां धारयतो भवेत्।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित्॥

मूलम्

न कुतश्चिद‍्भयं तस्य विद्यां धारयतो भवेत्।
राजदस्युग्रहादिभ्यो 14व्याघ्रादिभ्यश्च कर्हिचित्॥ ३७ ॥

अनुवाद (हिन्दी)

जो इस वैष्णवी विद्याको धारण कर लेता है, उसे राजा, डाकू, प्रेत-पिशाचादि और बाघ आदि हिंसक जीवोंसे कभी किसी प्रकारका भय नहीं होता॥ ३७॥

वीरराघवः

विद्यां नारायणवर्मरूपमन्त्रविद्यां धारयतः पुंसः कुतश्चिदपि कर्हिचिदपि राजादिभ्यो व्याघ्रादिभ्यश्च भयं न विद्यते निर्भयो जायत इत्यर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः।
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि॥

मूलम्

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः।
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि॥ ३८ ॥

अनुवाद (हिन्दी)

देवराज! प्राचीन कालकी बात है, एक कौशिकगोत्री ब्राह्मणने इस विद्याको धारण करके योगधारणासे अपना शरीर मरुभूमिमें त्याग दिया॥ ३८॥

वीरराघवः

एतद्विद्याप्रभावसूचकं कञ्चिदितिहासमाह । इमामिति सार्द्धैस्त्रिभिः । पूर्वस्मिन् काले कश्चित्कौशिकगोत्रजो द्विजः इमां विद्यामधारयत् स च योगधारणया “स्वपार्ष्णिनापीड्य गुदम्” इत्यादिना द्वितीयस्कन्धोक्तया स्वशरीरं मरुधन्वनि निरुदके देशे जहौ तत्याज ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

तस्योपरि विमानेन गन्धर्वपतिरेकदा।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः॥

मूलम्

तस्योपरि विमानेन गन्धर्वपतिरेकदा।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः॥ ३९ ॥

अनुवाद (हिन्दी)

जहाँ उस ब्राह्मणका शरीर पड़ा था, उसके ऊपरसे एक दिन गन्धर्वराज चित्ररथ अपनी स्त्रियोंके साथ विमानपर बैठकर निकले॥ ३९॥

श्लोक-४०

विश्वास-प्रस्तुतिः

गगनान्न्यपतत् सद्यः सविमानो ह्यवाक्शिराः।
स वालखिल्यवचनादस्थीन्यादाय विस्मितः।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात्॥

मूलम्

गगनान्न्यपतत् सद्यः सविमानो ह्यवाक्शिराः।
स वालखिल्यवचनादस्थीन्यादाय विस्मितः।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात्॥ ४० ॥

अनुवाद (हिन्दी)

वहाँ आते ही वे नीचेकी ओर सिर किये विमानसहित आकाशसे पृथ्वीपर गिर पड़े। इस घटनासे उनके आश्चर्यकी सीमा न रही। जब उन्हें वालखिल्य मुनियोंने बतलाया कि यह नारायणकवच धारण करनेका प्रभाव है, तब उन्होंने उस ब्राह्मण देवताकी हड्डियोंको ले जाकर पूर्ववाहिनी सरस्वती नदीमें प्रवाहित कर दिया और फिर स्नान करके वे अपने लोकको गये॥ ४०॥

वीरराघवः

तस्य त्यक्तस्य देहस्योपरिष्टाच्चित्ररथाख्यः कश्चिद्गन्धर्वाणां पतिः स्त्रीभिः परिवृतः विमानेन कदाचिद्ययौ यत्र द्विजस्य क्षयो देहत्यागस्तत्र चित्ररथो विमानसहितो गगनादवाक्शिरा अधोमुखः सद्यो न्यपतत् । पुनरुत्थाय वालखिल्यस्य ऋषेः वचनात्कौशिकस्यास्थीन्यादिशल्यानि गृहीत्वा प्राचीसरस्वत्यां नद्यां प्रास्य प्रक्षिप्य स्नात्वा विस्मितः अहो एतद्विद्याप्रभाव ईदृश इति विस्मितः । स्वं धाम स्थानमन्वगादिति ॥ ३९-४० ॥

श्लोक-४१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

य इदं शृणुयात् काले यो धारयति चादृतः।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात्॥

मूलम्

य इदं शृणुयात् काले यो धारयति चादृतः।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात्॥ ४१ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! जो पुरुष इस नारायणकवचको समयपर सुनता है और जो आदरपूर्वक इसे धारण करता है, उसके सामने सभी प्राणी आदरसे झुक जाते हैं और वह सब प्रकारके भयोंसे मुक्त हो जाता है॥ ४१॥

वीरराघवः

एवंविधानेकप्रभावशालिनो वर्मणः श्रवणधारणाभ्यां न कुतश्चिद्भयं भवतीष्टप्राप्तिश्च भवतीत्याह मुनिः । य इति द्वाभ्याम् । यः पुमानिदं वर्म काले शृणुयाद्यश्चादृतः कर्तृरिक्तः आदरयुक्तः धारयति वा तं सर्वाणि भूतानि कूष्माण्डादीनि न पश्यन्ति सर्वतो भयान्मुच्यते ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान्॥

मूलम्

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान्॥ ४२ ॥

अनुवाद (हिन्दी)

परीक्षित्! शतक्रतु इन्द्रने आचार्य विश्वरूपजीसे यह वैष्णवी विद्या प्राप्त करके रणभूमिमें असुरोंको जीत लिया और वे त्रैलोक्यलक्ष्मीका उपभोग करने लगे॥ ४२॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः॥ ८ ॥

वीरराघवः

शतक्रतुरिन्द्रो विश्वरूपादेतां विद्यामधिगतः प्राप्तः सन् मृधे युद्धेऽसुरान्दानवान् विजित्य निर्जित्य त्रैलोक्यलक्ष्मीं बुभुजे अनुबभूव ॥ ४२ ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायाम अष्टमोऽध्यायः ॥ ८ ॥


  1. प्रा. पा. - ममाचक्ष्व । ↩︎

  2. प्रा. पा. - शत्रूत्सैन्ये । ↩︎

  3. प्रा. पा. - बादरायणिरुवाच । ↩︎

  4. प्रा. पा. - न्यसेत् । ↩︎

  5. प्रा. पा. - मुदीरयेत् । ↩︎

  6. प्रा. पा. - मां पथि यज्ञ । ↩︎

  7. प्रा. पा. - तात्कृतान्ताद् । ↩︎

  8. प्रा. पा. – बुद्धश्च । ↩︎

  9. प्रा. पा. - प्रपायाद् । ↩︎

  10. प्रा. पा. - प्रातरुदात्त । ↩︎

  11. प्रा. पा. - वायु । ↩︎

  12. प्रा. पा. — भ्यो घोरेभ्य एव च । ↩︎

  13. प्रा. पा. - वान् देवः संस्तुतः सद । ↩︎

  14. प्रा. पा. – व्याध्यादिभ्यश्च । ↩︎