०७

[सप्तमोऽध्यायः]

भागसूचना

बृहस्पतिजीके द्वारा देवताओंका त्याग और विश्वरूपका देवगुरुके रूपमें वरण

श्लोक-१

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः।
एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ॥

मूलम्

1स्य हेतोः परित्यक्ता आचार्येणात्मनः सु2राः।
एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ॥ १ ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—भगवन्! देवाचार्य बृहस्पतिजीने अपने प्रिय शिष्य देवताओंको किस कारण त्याग दिया था? देवताओंने अपने गुरुदेवका ऐसा कौन-सा अपराध कर दिया था, आप कृपा करके मुझे बतलाइये॥ १॥

वीरराघवः

देवाः विमतेन गुरुणा परित्यक्ताः विश्वरूपं विवव्रिरे इत्युक्तं तदेव सप्रपञ्चं बुभुत्सुः पृच्छति राजा । कस्येति । कस्माद्धेतोराचार्येण गुरुणा आत्मनः शिष्याः सुराः परित्यक्ताः हे भगवन्मुने एतदाचक्ष्व कथय तथा शिष्याणां गुरौ विषये अक्रममपराधं चाक्षस्व ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

श्री3शुक उवाच

विश्वास-प्रस्तुतिः

इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथः।
मरुद‍्भिर्वसुभी रुद्रैरादित्यैर्ऋभुभिर्नृप॥

मूलम्

इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथः।
मरुद‍्भिर्वसुभी रुद्रैरादित्यैर्ऋभु4भिर्नृप॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः।
सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः॥

मूलम्

विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः।
सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः।
निषेव्यमाणो मघवान् स्तूयमानश्च भारत॥

मूलम्

विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः।
निषेव्यमाणो मघवान् स्तूयमानश्च भारत॥ ४ ॥

वीरराघवः

एवमापृष्टो मुनिर्देवानां गुरौ कृतमपराधं वक्तुमुपक्रमते — इन्द्र इति । इन्द्रो यदा सम्प्राप्तं वाचस्पतिं नाभ्यनन्दत नादृतवान् तदाङ्गिरसः । ततो निर्गत्य तूष्णीं स्वगृहमायया इत्यष्टानामन्वयः । अनादरहेतुं मदं दर्शयितुमिन्द्रं विशिनष्टि त्रिभुवनैश्वर्यमदेनोल्लङ्घितः सतां पन्था येन । हे नृप ! मरुद्रणादिभिः परिश्रितः परिवृतः ब्रह्मवादिभिर्वेदान् पठद्भिर्मुनिभिः सिद्धादिभिश्च यथायथं निषेव्यमाणः स्तूयमानश्च ॥ २-४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

उपगीयमानो ललितमास्थानाध्यासनाश्रितः।
पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा॥

मूलम्

उपगीयमानो ललितमास्थानाध्यासनाश्रितः।
पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा॥ ५ ॥

वीरराघवः

ललितं यथातथोपगीयमानश्च भगवानिन्द्रः आस्थानं सभा तस्मिन्नध्यासनं सिंहासनं तदास्थितः अधिष्ठितः हे भारत ! चन्द्रमण्डलवच्चारुणा सुन्दरेण पाण्डुरेण श्वेतेनातपत्रेण क्षत्रेण ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः।
विराजमानः पौलोम्या सहार्धासनया भृशम्॥

मूलम्

युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः।
विराजमानः पौलोम्या सहार्धासनया भृशम्॥ ६ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—राजन्! इन्द्रको त्रिलोकीका ऐश्वर्य पाकर घमण्ड हो गया था। इस घमण्डके कारण वे धर्ममर्यादाका, सदाचारका उल्लंघन करने लगे थे। एक दिनकी बात है, वे भरी सभामें अपनी पत्नी शचीके साथ ऊँचे सिंहासनपर बैठे हुए थे, उनचास मरुद‍्गण, आठ वसु, ग्यारह रुद्र, आदित्य, ऋभुगण, विश्वेदेव, साध्यगण और दोनों अश्विनीकुमार उनकी सेवामें उपस्थित थे। सिद्ध, चारण, गन्धर्व, ब्रह्मवादी मुनिगण, विद्याधर, अप्सराएँ, किन्नर, पक्षी और नाग उनकी सेवा और स्तुति कर रहे थे। सब ओर ललित स्वरसे देवराज इन्द्रकी कीर्तिका गान हो रहा था। ऊपरकी ओर चन्द्रमण्डलके समान सुन्दर श्वेत छत्र शोभायमान था। चँवर, पंखे आदि महाराजोचित सामग्रियाँ यथास्थान सुसज्जित थीं। इस दिव्य समाजमें देवराज बड़े ही सुशोभित हो रहे थे॥ २—६॥

वीरराघवः

तथा पारमेष्ठ्यैर्महाराजलिङ्गैश्चामरादिभिर्युक्तः । अर्द्धासनया आसनस्यार्द्धे स्थितया पौलोम्या शच्या सह नितरां विरोचमानः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

स यदा परमाचार्यं देवानामात्मनश्च ह।
नाभ्यनन्दत संप्राप्तं प्रत्युत्थानासनादिभिः॥

मूलम्

स यदा परमाचार्यं देवानामात्मनश्च ह।
नाभ्यनन्दत संप्राप्तं प्रत्युत्थानासनादिभिः॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम्।
नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम्॥

मूलम्

वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम्।
नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम्॥ ८ ॥

अनुवाद (हिन्दी)

इसी समय देवराज इन्द्र और समस्त देवताओंके परम आचार्य बृहस्पतिजी वहाँ आये। उन्हें सुर-असुर सभी नमस्कार करते हैं। इन्द्रने देख लिया कि वे सभामें आये हैं, परन्तु वे न तो खड़े हुए और न आसन आदि देकर गुरुका सत्कार ही किया। यहाँतक कि वे अपने आसनसे हिले-डुलेतक नहीं॥ ७-८॥

वीरराघवः

स इन्द्रो यदा देवानामात्मनः स्वस्य च परमं पूज्यमाचार्यं सुरासुरवन्दितं मुनिश्रेष्ठं बृहस्पतिं सम्प्राप्तं प्रत्युत्थानासनादिभिर्नाभ्यनन्दत नादृतवान् न चचाल किं तु सभागतं पश्यन्नप्यासन एवं स्थित इत्यर्थः ॥ ७-८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः।
आययौ स्वगृहं तूष्णीं विद्वान् श्रीमदविक्रियाम्॥

मूलम्

ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः।
आययौ स्वगृहं तूष्णीं विद्वान् श्रीमदविक्रियाम्॥ ९ ॥

अनुवाद (हिन्दी)

त्रिकालदर्शी समर्थ बृहस्पतिजीने देखा कि यह ऐश्वर्यमदका दोष है! बस, वे झटपट वहाँसे निकलकर चुपचाप अपने घर चले आये॥ ९॥

वीरराघवः

तूष्णीं तदा कविर्विद्वान् प्रभुः समर्थ आङ्गिरसो बृहस्पतिः श्रीमदेन या विक्रिया तां विद्वान् जानन् तूष्णीं स्वगृहं प्रति ययौ ॥ ६ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

तर्ह्येव प्रतिबुद्‍ध्येन्द्रो गुरुहेलनमात्मनः।
गर्हयामास सदसि स्वयमात्मानमात्मना॥

मूलम्

तर्ह्येव प्रतिबुद्‍ध्येन्द्रो गुरुहेलनमात्मनः।
गर्हयामास सदसि स्वयमात्मानमात्मना॥ १० ॥

अनुवाद (हिन्दी)

परीक्षित्! उसी समय देवराज इन्द्रको चेत हुआ। वे समझ गये कि मैंने अपने गुरुदेवकी अवहेलना की है। वे भरी सभामें स्वयं ही अपनी निन्दा करने लगे॥ १०॥

वीरराघवः

तर्ह्येव इन्द्र आत्मनः स्वस्य गुरुहेलनं प्रतिबुद्ध्यानुस्मृत्य आत्मना स्वेनैवात्मानं सदसि सभायां गर्हयामास निन्दितवान् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

अहो बत ममासाधु कृतं वै दभ्रबुद्धिना।
यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः॥

मूलम्

अहो बत ममासाधु कृतं वै दभ्रबुद्धिना।
यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः॥ ११ ॥

अनुवाद (हिन्दी)

‘हाय-हाय! बड़े खेदकी बात है कि भरी सभामें मूर्खतावश मैंने ऐश्वर्यके नशेमें चूर होकर अपने गुरुदेवका तिरस्कार कर दिया। सचमुच मेरा यह कर्म अत्यन्त निन्दनीय है॥ ११॥

वीरराघवः

गर्हाप्रकारमाह । अहो इति पञ्चभिः । अहो बताहो मम कष्टं प्राप्तम् । असाधु कर्म मया कृतं वै यद्यस्माद्दभ्रबुद्धिनाल्पमतिना ऐश्वर्यमत्तेन मया सदसि गुरुः कात्कृतः तिरस्कृतः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

को गृध्येत् पण्डितो लक्ष्मीं त्रिविष्टपपतेरपि।
ययाहमासुरं भावं नीतोऽद्य विबुधेश्वरः॥

मूलम्

को गृध्येत् पण्डितो लक्ष्मीं त्रिविष्टपपतेरपि।
ययाहमासुरं भावं नीतोऽद्य विबुधेश्वरः॥ १२ ॥

अनुवाद (हिन्दी)

भला, कौन विवेकी पुरुष इस स्वर्गकी राजलक्ष्मीको पानेकी इच्छा करेगा? देखो तो सही, आज इसीने मुझ देवराजको भी असुरोंके-से रजोगुणी भावसे भर दिया॥ १२॥

वीरराघवः

पण्डितो विद्वान्नित्यानित्यविवेकसम्पन्नश्चेदित्यर्थः । को वा पुमान् त्रिविष्टपपतेः त्रींल्लोकान्पातीति त्रिविष्टपं तस्य पतेः सत्यलोकाधिपतेरपि लक्ष्मीं गृध्येदभिकाङ्क्षेत्किन्तु तुच्छं मन्येतेत्यर्थः । विबुधानां सात्त्विकानामीश्वरोऽप्यहमासुरं भावं मोहमिति यावत् नीतः प्रापितः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

ये पारमेष्ठ्यं धिषणमधितिष्ठन् न कञ्चन।
प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः॥

मूलम्

ये पारमेष्ठ्यं धिषणमधितिष्ठन् न5 कञ्चन।
प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः॥ १३ ॥

अनुवाद (हिन्दी)

जो लोग यह कहते हैं कि सार्वभौम राजसिंहासनपर बैठा हुआ सम्राट् किसीके आनेपर राजसिंहासनसे न उठे, वे धर्मका वास्तविक स्वरूप नहीं जानते॥ १३॥

वीरराघवः

ननु सिंहासनस्थो राजा प्रत्युत्थानादिकं न कुर्यादिति वदन्ति वृद्धस्तत्राह । य इति द्वाभ्याम् । पारमेष्ठयं धिषणं परमेष्ठी महाराजस्तत्सम्बन्ध्यासनं धिषणं तदधितिष्ठन् कञ्चन प्रति नोत्तिष्ठेदिति ये ब्रूयुस्ते परं केवलं धर्मं न विदुः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तेषां कुपथदेष्टॄणां पततां तमसि ह्यधः।
ये श्रद्दध्युर्वचस्ते वै मज्जन्त्यश्मप्लवा इव॥

मूलम्

तेषां कुपथदेष्टॄणां पततां तमसि ह्यधः।
ये श्रद्दध्युर्वचस्ते वै मञ्जन्त्यश्मप्लवा इव॥ १४ ॥

मूलम् - कर्णावती

तेषां कुपथदेष्टॄणां पततां तमसि ह्यधः।
ये श्रद्दध्युर्वचस्ते वै मञ्जन्त्यश्मप्लवा इव॥ १४ ॥

अनुवाद (हिन्दी)

ऐसा उपदेश करनेवाले कुमार्गकी ओर ले जानेवाले हैं। वे स्वयं घोर नरकमें गिरते हैं। उनकी बातपर जो लोग विश्वास करते हैं, वे पत्थरकी नावकी तरह डूब जाते हैं॥ १४॥

वीरराघवः

किञ्च । तेषां कुपथदेष्टृणां कुमागोपदेष्टुणामत एवाधस्तमसि नरके पततां वचः ये जनाः श्रद्दध्युस्तेऽश्मप्लवाः बृहत्पाषाणयुक्तत्मवारूढा इव मज्जन्त्यधो यान्ति ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

अथाहममराचार्यमगाधधिषणं द्विजम्।
प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन्॥

मूलम्

अथाहममराचार्यमगाधधिषणं द्विजम्।
प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन्॥ १५ ॥

अनुवाद (हिन्दी)

मेरे गुरुदेव बृहस्पतिजी ज्ञानके अथाह समुद्र हैं। मैंने बड़ी शठता की। अब मैं उनके चरणोंमें अपना माथा टेककर उन्हें मनाऊँगा’॥ १५॥

वीरराघवः

अथातः अहममराणामाचार्यमगाधा धिषणा बुद्धिर्यस्य तं मत्कृतापराधमगणयन्तं द्विजं वाक्पतिं प्रसादयिष्ये प्रार्थये कथंभूतः निशठः निर्गतशाठ्यः सन् । तस्य गुरोश्चरणौ शीर्णा स्पृशन् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात्।
बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया॥

मूलम्

एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात्।
बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया॥ १६ ॥

अनुवाद (हिन्दी)

परीक्षित्! देवराज इन्द्र इस प्रकार सोच ही रहे थे कि भगवान् बृहस्पतिजी अपने घरसे निकलकर योगबलसे अन्तर्धान हो गये॥ १६॥

श्लोक-१७

विश्वास-प्रस्तुतिः

गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट्।
ध्यायन् धिया सुरैर्युक्तः शर्म नालभतात्मनः॥

मूलम्

गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट्।
ध्यायन् धिया 6सुरैर्युक्तः शर्म नालभतात्मनः॥ १७ ॥

अनुवाद (हिन्दी)

देवराज इन्द्रने अपने गुरुदेवको बहुत ढूँढ़ा-ढुँढ़वाया; परन्तु उनका कहीं पता न चला। तब वे गुरुके बिना अपनेको सुरक्षित न समझकर देवताओंके साथ अपनी बुद्धिके अनुसार स्वर्गकी रक्षाका उपाय सोचने लगे, परन्तु वे कुछ भी सोच न सके! उनका चित्त अशान्त ही बना रहा॥ १७॥

वीरराघवः

एवं तस्य मघोन इन्द्रस्य चिन्तयतः सतः भगवान् बृहस्पतिरध्यात्ममायया योगप्रभावेण गृहाददृष्टां गतिं गतः अदृश्योऽभूदित्यर्थः । ततो भगवान् स्वराडिन्द्रः गुरोः संज्ञां दर्शनोपायं परीक्ष्य विचार्य्यापि नाधिगतः न प्राप्तः धिया ध्यायन् दर्शनोपायं चिन्तयन् शुचा शोकेन युक्तः आत्मनः स्वस्य शर्म सुखं नालभत न प्राप ॥ १६-१७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

तच्छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम्।
देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः॥

मूलम्

तच्छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम्।
देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः॥ १८ ॥

अनुवाद (हिन्दी)

परीक्षित्! दैत्योंको भी देवगुरु बृहस्पति और देवराज इन्द्रकी अनबनका पता लग गया। तब उन मदोन्मत्त और आततायी असुरोंने अपने गुरु शुक्राचार्यके आदेशानुसार देवताओंपर विजय पानेके लिये धावा बोल दिया॥ १८॥

वीरराघवः

तदिन्द्रस्य गुर्वपराधप्रयुक्तक्लेशचिन्तादिकं श्रुत्वा तदैव औशनसम्मतमुशनसा मन्त्रिणमाश्रित्य सर्वेऽसुराः दुर्मदा अनिवार्यमदाः आततायिनः जिघांसवः देवान् प्रत्युद्यमं युद्धोद्योगं चक्रुः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः।
ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः॥

मूलम्

तैर्विसृष्टेषुभिस्ती7क्ष्णैर्निर्भिन्नाङ्गोरुबाहवः।
ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः॥ १९ ॥

अनुवाद (हिन्दी)

उन्होंने देवताओंपर इतने तीखे-तीखे बाणोंकी वर्षा की कि उनके मस्तक, जंघा, बाहु आदि अंग कट-कटकर गिरने लगे। तब इन्द्रके साथ सभी देवता सिर झुकाकर ब्रह्माजीकी शरणमें गये॥ १९॥

वीरराघवः

तैरसुरैर्विसृष्टैः प्रयुक्तैस्तीक्ष्णैरिषुभिर्निर्भिन्नान्यङ्गान्युत्तमाङ्गानि शिरांसि ऊरवो बाहवश्च येषां ते इन्द्रसहिता देवा नम्रशिरसो ब्रह्माणं शरणं ययुः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

तांस्तथाभ्यर्दितान् वीक्ष्य भगवानात्मभूरजः।
कृपया परया देव उवाच परिसान्त्वयन्॥

मूलम्

तांस्तथाभ्यर्दितान् वीक्ष्य भगवानात्मभूरजः।
कृपया परया देव उवाच परिसान्त्वयन्॥ २० ॥

अनुवाद (हिन्दी)

स्वयम्भू एवं समर्थ ब्रह्माजीने देखा कि देवताओंकी तो सचमुच बड़ी दुर्दशा हो रही है। अतः उनका हृदय अत्यन्त करुणासे भर गया। वे देवताओंको धीरज बँधाते हुए कहने लगे॥ २०॥

वीरराघवः

अभ्यर्दितान् तदा पीडितांस्तान् देवान् वीक्ष्य भगवानात्मभूः परमात्मजः अजो ब्रह्मा परयाधिकया कृपया युक्तस्तान् सान्त्वयन्नुवाच ॥ २० ॥

श्लोक-२१

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

अहो बत सुरश्रेष्ठा ह्यभद्रं वः कृतं महत्।
ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत॥

मूलम्

अहो बत सुरश्रेष्ठा ह्यभद्रं वः कृतं महत्।
ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत॥ २१ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने कहा—देवताओ! यह बड़े खेदकी बात है। सचमुच तुमलोगोंने बहुत बुरा काम किया। हरे, हरे! तुमलोगोंने ऐश्वर्यके मदसे अंधे होकर ब्रह्मज्ञानी, वेदज्ञ एवं संयमी ब्राह्मणका सत्कार नहीं किया॥ २१॥

वीरराघवः

उक्तिमेवाह । अहो इत्यादिना क्षमिष्यध्वमुतास्य कर्मेत्यन्तेन । हे सुरश्रेष्ठाः ! अहो बत महत्कष्टं वः प्राप्तं महदभद्रमसाधु युष्माभिः कृतम् । किं तद्ब्रह्मिष्ठमतिशयेन ब्रह्मज्ञानसंपन्नो ब्रह्मिष्ठस्तं ब्राह्मणं दान्तं जितेन्द्रियमैश्वर्यान्मदान्नाभ्यनन्दत नाभिनन्दितवन्तः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

तस्यायमनयस्यासीत् परेभ्यो वः पराभवः।
प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत् सुराः॥

मूलम्

तस्यायमनयस्यासीत् परेभ्यो वः पराभवः।
प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत् सुराः॥ २२ ॥

अनुवाद (हिन्दी)

देवताओ! तुम्हारी उसी अनीतिका यह फल है कि आज समृद्धिशाली होनेपर भी तुम्हें अपने निर्बल शत्रुओंके सामने नीचा देखना पड़ा॥ २२॥

वीरराघवः

हे सुराः ! परेभ्यः शत्रुभ्यः पराभव इति यदयं तस्यानयस्य संबन्धी फलरूपः आसीत्कथम्भूतानां वः प्रक्षीणेभ्यः ऐश्वर्यरहितेभ्यः सपत्नेभ्यः समृद्धानां सम्पन्नानाम् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात्।
सम्प्रत्युपचितान् भूयः काव्यमाराध्य भक्तितः।
आददीरन् निलयनं ममापि भृगुदेवताः॥

मूलम्

मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात्।
सम्प्रत्युपचितान् भूयः काव्यमाराध्य भक्तितः।
आददीरन् निलयनं ममापि भृगुदेवताः॥ २३ ॥

अनुवाद (हिन्दी)

देवराज! देखो, तुम्हारे शत्रु भी पहले अपने गुरुदेव शुक्राचार्यका तिरस्कार करनेके कारण अत्यन्त निर्बल हो गये थे, परन्तु अब भक्तिभावसे उनकी आराधना करके वे फिर धन-जनसे सम्पन्न हो गये हैं। देवताओ! मुझे तो ऐसा मालूम पड़ रहा है कि शुक्राचार्यको अपना आराध्यदेव माननेवाले ये दैत्यलोग कुछ दिनोंमें मेरा ब्रह्मलोक भी छीन लेंगे॥ २३॥

वीरराघवः

गुरुतिरस्कारसत्कारावेवापचयोपचयकारणमित्यसुरदृष्टान्तेनाह । मघवन्निति । हे मघवन् ! द्विषतः शत्रूनसुरान् गुर्वतिक्रमाद्धेतोः प्रक्षीणान् संप्रति तु काव्यं शुक्रं भक्तितः आराध्य उपचितान् समृद्धान् पश्य गुर्वाराधनाद्युष्मान् बाधन्त इति किं वक्तव्यम् । यतो मत्स्थानमपि गृह्णीयुरिति सम्भावयति । अद्येति । अद्यास्मिन्नहनि श्वः परस्मिन्नहनि परश्वः ततः परस्मिन्नहनि वा बलशालिनोऽत एव दृप्ताः गर्वितास्ते मम निलयनं मम स्थानमपि आददीरन् गृह्णीयुः यतस्ते भृगुः शुक्रः काव्य एव देवता येषां तादृशाः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

त्रिविष्टपं किं गणयन्त्यभेद्य-
मन्त्रा भृगूणामनुशिक्षितार्थाः।
न विप्रगोविन्दगवीश्वराणां
भवन्त्यभद्राणि नरेश्वराणाम्॥

मूलम्

त्रिविष्टपं किं गणयन्त्यभेद्यमन्त्रा 8भृगूणामनुशिक्षितार्थाः।
न विप्रगोविन्दगवीश्वराणां भवन्त्यभद्राणि नरेश्वराणाम्॥ २४ ॥

अनुवाद (हिन्दी)

भृगुवंशियोंने इन्हें अर्थशास्त्रकी पूरी-पूरी शिक्षा दे रखी है। ये जो कुछ करना चाहते हैं, उसका भेद तुमलोगोंको नहीं मिल पाता। उनकी सलाह बहुत गुप्त होती है। ऐसी स्थितिमें वे स्वर्गको तो समझते ही क्या हैं, वे चाहे जिस लोकको जीत सकते हैं। सच है, जो श्रेष्ठ मनुष्य ब्राह्मण, गोविन्द और गौओंको अपना सर्वस्व मानते हैं और जिनपर उनकी कृपा रहती है, उनका कभी अमंगल नहीं होता॥ २४॥

वीरराघवः

अभेद्यो मन्त्रो येषां ते भृगूणां भृगुकुलप्रभवाणामनुशिक्षितार्थाः शिष्या त्रिविष्टमपि किं गणयन्ति न गणयन्त्येवेत्यर्थः । विप्राः गोविन्दो भगवांश्च गावश्चेश्चरा अनुग्राहकाः पूज्या वा येषां तेषामेव अभद्राणि न भवन्ति इतरेषामीश्वराणामपि न भवन्तीति न किंत्वभद्राणि भवन्त्येवेत्यर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

तद् विश्वरूपं भजताशु विप्रं
तपस्विनं त्वाष्ट्रमथात्मवन्तम्।
सभाजितोऽर्थान् स विधास्यते वो
यदि क्षमिष्यध्वमुतास्य कर्म॥

मूलम्

तद् विश्वरूपं भजताशु विप्रं तपस्विनं त्वाष्ट्रमथात्मवन्तम्।
सभाजितोऽर्थान् स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म॥ २५ ॥

अनुवाद (हिन्दी)

इसलिये अब तुमलोग शीघ्र ही त्वष्टाके पुत्र विश्वरूपके पास जाओ और उन्हींकी सेवा करो। वे सच्चे ब्राह्मण, तपस्वी और संयमी हैं। यदि तुमलोग उनके असुरोंके प्रति प्रेमको क्षमा कर सकोगे और उनका सम्मान करोगे, तो वे तुम्हारा काम बना देंगे॥ २५॥

वीरराघवः

तत्तस्मादथानन्तरमेवाशु त्वष्टुः पुत्रमात्मवन्तं जितेन्द्रियं तपस्विनं विश्वरूपाख्यं द्विजं भजत यूयमनुवर्त्तध्वं तम्पौरोहित्ये वृणुतेत्यर्थः । स विश्वरूपो वः युष्मान् भावितार्थान् भावितः निष्पादितः अर्थोऽभिलषितं प्रयोजनं येषां तादृशान् विधास्यते करिष्यति । अस्य विश्वरूपस्य कर्मासुरपक्षपातादिरूपं यूयमुतं । क्षमिष्यध्वं यदि क्षमिष्यध्वे तर्हि सविधास्यते इत्यर्थः । यद्वा । उत अपि तु तस्य कर्म क्षमिष्यध्वं सर्वथा तस्य कर्म युष्माभिः क्षन्तव्यमित्यर्थः ॥ २५ ॥

श्लोक-२६

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

त एवमुदिता राजन् ब्रह्मणा विगतज्वराः।
ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन्॥

मूलम्

त एवमुदिता राजन् ब्रह्मणा विगतज्वराः।
ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन्॥ २६ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! जब ब्रह्माजीने देवताओंसे इस प्रकार कहा, तब उनकी चिन्ता दूर हो गयी। वे त्वष्टाके पुत्र विश्वरूप ऋषिके पास गये और उन्हें हृदयसे लगाकर यों कहने लगे॥ २६॥

वीरराघवः

एवमुक्ता विश्वरूपं प्रार्थयितुं देवा ययुरित्याह मुनिः । त इत्यादिना । हे राजन् ! ते देवा ब्रह्मणैवमित्यमुदिता उक्ता विगतः ज्वरः आधिर्येषां ते त्वाष्ट्रमृषिं विश्वरूपमुपव्रज्य उपेत्य परिष्वज्यालिङ्ग्य पुत्रत्वात् परिष्वज्येत्युक्तं न तु नमस्कृत्येति इदं वक्ष्यमाणमब्रुवन् ॥ २६ ॥

श्लोक-२७

मूलम् (वचनम्)

देवा ऊचुः

विश्वास-प्रस्तुतिः

वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते।
कामः सम्पाद्यतां तात पितॄणां समयोचितः॥

मूलम्

वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते।
कामः सम्पाद्यतां तात पितॄणां समयोचितः॥ २७ ॥

अनुवाद (हिन्दी)

देवताओंने कहा—बेटा विश्वरूप! तुम्हारा कल्याण हो। हम तुम्हारे आश्रमपर अतिथिके रूपमें आये हैं। हम एक प्रकारसे तुम्हारे पितर हैं। इसलिये तुम हमलोगोंकी समयोचित्त अभिलाषा पूर्ण करो॥ २७॥

वीरराघवः

उक्तिमेवाह । वयमिति । वयं ते तवातिथयः प्राप्ताः ते तवाश्रमं भद्रमशून्यमस्तु अतिथ्याभावे आश्रमः शून्य इति व्यपदिष्यत इति भावः । तथा तव पितॄणामस्माकं समयोचितः तत्कालोचितः कामः इच्छाविषयोऽर्थः सम्पद्यतां त्वत्तः संपन्नो भवतु ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम्।
अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम्॥

मूलम्

पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम्।
अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम्॥ २८ ॥

अनुवाद (हिन्दी)

जिन्हें सन्तान हो गयी हो, उन सत्पुत्रोंका भी सबसे बड़ा धर्म यही है कि वे अपने पिता तथा अन्य गुरुजनोंकी सेवा करें। फिर जो ब्रह्मचारी हैं, उनके लिये तो कहना ही क्या है॥ २८॥

वीरराघवः

हे ब्रह्मन् ! पुत्रवतामपि सतां पुत्राणां पितृशुश्रूषणं परो धर्मः ब्रह्मचारिणां सतां पुत्राणां पितृशुश्रूषणं परो धर्म इति किमुत किमु वक्तव्यम् । त्वन्तु ब्रह्मचारी पुत्रश्चेति अस्मच्छुश्रूषणमत्यन्तोचितमिति भावः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः।
भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनुः॥

मूलम्

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः।
भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनुः॥ २९ ॥

अनुवाद (हिन्दी)

वत्स! आचार्य वेदकी, पिता ब्रह्माजीकी, भाई इन्द्रकी और माता साक्षात् पृथ्वीकी मूर्ति होती है॥ २९॥

वीरराघवः

किंचाचार्यो ब्रह्मणः परब्रह्मणो मूर्त्तिरीश्वरदृष्ट्या आचार्य आराधनीय इति भावः । पिता तु प्रजापतेर्विरिञ्चस्य मूर्त्तिः भ्राताः तु मरुत्पतेरिन्द्रस्य मूर्त्तिर्माता साक्षात्क्षितेर्भूमेस्तनुर्मूर्त्तिः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम्।
अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः॥

मूलम्

दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम्।
अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः॥ ३० ॥

अनुवाद (हिन्दी)

(इसी प्रकार) बहिन दयाकी, अतिथि धर्मकी, अभ्यागत अग्निकी और जगत‍्के सभी प्राणी अपने आत्माकी ही मूर्ति—आत्मस्वरूप होते हैं॥ ३०॥

वीरराघवः

भगिनी तु दयाया मूर्त्तिरात्मा स्वयं तु धर्मस्य मूर्त्तिरतिथिस्तु स्वयमेव स्वात्मनो मूर्त्तित्वेन द्रष्टव्यः । स्वशरीरत्वेन द्रष्टव्य इति यावत् । अभ्यागतस्त्वग्नेराहवनीयादेर्मूर्त्तिः सर्वभूतानि चात्मनो मूर्त्तिरात्मतुल्यत्वेन द्रष्टव्यानीत्यर्थः । यद्वा । परमूर्त्तिः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तस्मात् पितॄणामार्तानामार्तिं परपराभवम्।
तपसापनयंस्तात सन्देशं कर्तुमर्हसि॥

मूलम्

तस्मात् पितॄणामार्तानामार्तिं परपराभवम्।
तपसापनयंस्तात सन्देशं कर्तुमर्हसि॥ ३१ ॥

अनुवाद (हिन्दी)

पुत्र! हम तुम्हारे पितर हैं। इस समय शत्रुओंने हमें जीत लिया है। हम बड़े दुःखी हो रहे हैं। तुम अपने तपोबलसे हमारा यह दुःख, दारिद्र्य, पराजय टाल दो। पुत्र! तुम्हें हमलोगोंकी आज्ञाका पालन करना चाहिये॥ ३१॥

वीरराघवः

तस्माद्धे तात ! त्वत्पितॄणामार्तानां पीडितानामस्माकं शत्रुभ्यः पराभवरूपामार्ति तपसा तपःप्रभावेणापनयन्नस्माकं सन्देशं कर्तुमर्हसि योग्यो भवसि ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम्।
यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा॥

मूलम्

वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम्।
यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा॥ ३२ ॥

अनुवाद (हिन्दी)

तुम ब्रह्मनिष्ठ ब्राह्मण हो, अतः जन्मसे ही हमारे गुरु हो। हम तुम्हें आचार्यके रूपमें वरण करके तुम्हारी शक्तिसे अनायास ही शत्रुओंपर विजय प्राप्त कर लेंगे॥ ३२॥

वीरराघवः

सन्देशमेवाहुः वृणीमह इति । ब्रह्मिष्ठं ज्ञानिनं तत्रापि ब्राह्मणमत एव सर्ववर्णानां गुरुं त्वामुपाध्यायं वृणीमहे यथा येन प्रकारेणाञ्जसा सुखेनैव तव तेजसा ब्रह्मतेजसा सपत्नान् शत्रून्विजेष्यामः तथानुगृहाणेति शेषः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्र्यभिवादनम्।
छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम्॥

मूलम्

न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्र्यभिवादनम्।
छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम्॥ ३३ ॥

अनुवाद (हिन्दी)

पुत्र! आवश्यकता पड़नेपर अपनेसे छोटोंका पैर छूना भी निन्दनीय नहीं है। वेदज्ञानको छोड़कर केवल अवस्था बड़प्पनका कारण भी नहीं है॥ ३३॥

वीरराघवः

ननूपाध्यायत्वे कनिष्ठस्य ममाङ्घ्यभिवादनं कथं करिष्यथ तत्तु गर्हितं तत्राहुः । नं गर्हयन्तीति । स्वार्थेषु स्वप्रयोजननिमित्तं यविष्ठाङ्घ्य्रभिवादनं न गर्हयन्ति । हे ब्रह्मन् ! छन्दोभ्योऽन्यत्रैव वेदाध्ययनादेरन्यत्रैव कर्मणि वयः ज्यैष्ठ्यस्य कारणं छन्दोभ्यो मन्त्रेभ्योऽन्यत्र वयो ज्यैष्ठ्यस्य कारणं न तु मन्त्रेष्वतोऽस्मभ्यं मन्त्रदातृत्वेन त्वमेव ज्येष्ठो भवसीति वार्थः । यद्वा । छन्दोभ्योऽन्यत्र वेदान्विहाय वय एवं ज्यैष्ठ्यस्य कारणं न भवति । किन्तु । वेदा एव मुख्यं कारणं तत्साम्ये तु वयः अतो वेदज्ञत्वात्त्वमेव ज्येष्ठ इत्यर्थः ॥ ३३ ॥

श्लोक-३४

मूलम् (वचनम्)

ऋषिरुवाच

विश्वास-प्रस्तुतिः

अभ्यर्थितः सुरगणैः पौरोहित्ये महातपाः।
स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा॥

मूलम्

अभ्यर्थितः सुरगणैः पौरोहित्ये महातपाः।
स विश्वरूपस्तानाह 9प्रसन्नः श्लक्ष्णया गिरा॥ ३४ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! जब देवताओंने इस प्रकार विश्वरूपसे पुरोहिती करनेकी प्रार्थना की, तब परम तपस्वी विश्वरूपने प्रसन्न होकर उनसे अत्यन्त प्रिय और मधुर शब्दोंमें कहा॥ ३४॥

वीरराघवः

एवमुक्तो विश्वरूपो देवानुवाचेत्याह मुनिः । अभ्यर्थित इति । एवं सुरगणैः पौरोहित्यं पुरोहितस्य कर्म प्रति प्रार्थितः । स महातपाः विश्वरूपः प्रहसन् श्लक्ष्णया मृद्व्या गिरा तान् देवानाह ॥ ३४ ॥

श्लोक-३५

मूलम् (वचनम्)

विश्वरूप उवाच

विश्वास-प्रस्तुतिः

विगर्हितं धर्मशीलैर्ब्रह्मवर्च उपव्ययम्।
कथं नु मद्विधो नाथा लोकेशैरभियाचितम्।
प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते॥

मूलम्

विगर्हितं धर्मशीलैर्ब्रह्मवर्च उपव्ययम्।
कथं नु मद्विधो 10नाथा लोकेशैरभियाचितम्।
प्रत्याख्यास्यति 11तच्छिष्यः स एव स्वार्थ उच्यते॥ ३५ ॥

अनुवाद (हिन्दी)

विश्वरूपने कहा—पुरोहितीका काम ब्रह्मतेजको क्षीण करनेवाला है। इसलिये धर्मशील महात्माओंने उसकी निन्दा की है। किन्तु आप मेरे स्वामी हैं और लोकेश्वर होकर भी मुझसे उसके लिये प्रार्थना कर रहे हैं। ऐसी स्थितिमें मेरे-जैसा व्यक्ति भला, आपलोगोंको कोरा जवाब कैसे दे सकता है? मैं तो आपलोगोंका सेवक हूँ। आपकी आज्ञाओंका पालन करना ही मेरा स्वार्थ है॥ ३५॥

वीरराघवः

उक्तिमेवाह सार्द्धैस्त्रिभिः । विगर्हितमिति । धर्मशीलैर्विगर्हितं तावद्धर्मशीलाः पौरोहित्यं विगर्हयन्तीत्यर्थः । किञ्च । तत्पौरोहित्यं ब्रह्मवर्चसस्य व्ययकरम् । आर्षत्वात् “ब्रह्महस्तिभ्यां वर्चसः” इति समासान्ताभावः । एवं पौरोहित्यस्य विगर्हितत्वं स्वघर्मनाशकत्वं चाभिधायाधुना तदप्रत्याख्येयं चेत्याह । कथमिति । लोकेशैर्युष्माभिरभियाचितो मद्विधः पितृसेवकः कथं नु तत्प्रत्याख्यास्यति नाम न प्रत्याख्यास्यत्येवेत्यर्थः । मद्विध इत्यनेनाभिप्रेतं विशदयति । तच्छिष्य इति । तेषां शिष्यः शिक्षणार्हः शिष्योऽहि प्रत्याचष्टां तत्राह । स एव । प्रत्याख्यानाभाव एव हि शिष्यस्य स्वार्थ उच्यते मद्विधो नाथ इत्येकवचनपाठे नाथो याचितनाथत्वेन रक्षकत्वेन याचितः स एव स्वार्थः इति लोकेशैः शिष्यैर्नियुज्यत इति यतः स एव स्वार्थः परमो लाभ इत्यर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

अकिञ्चनानां हि धनं शिलोञ्छनं
तेनेह निर्वर्तितसाधुसत्क्रियः।
कथं विगर्ह्यं नु करोम्यधीश्वराः
पौरोधसं हृष्यति येन दुर्मतिः॥

मूलम्

अकिञ्चनानां हि धनं शिलोञ्छनं तेनेह निर्वर्तितसाधुसत्क्रियः।
कथं विगर्ह्यं नु करोम्यधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः12॥ ३६ ॥

अनुवाद (हिन्दी)

देवगण! हम अकिंचन हैं। खेती कट जानेपर अथवा अनाजकी हाट उठ जानेपर उसमेंसे गिरे हुए कुछ दाने चुन लाते हैं और उसीसे अपने देवकार्य तथा पितृकार्य सम्पन्न कर लेते हैं। लोकपालो! इस प्रकार जब मेरी जीविका चल ही रही है, तब मैं पुरोहितीकी निन्दनीय वृत्ति क्यों करूँ? उससे तो केवल वे ही लोग प्रसन्न होते हैं, जिनकी बुद्धि बिगड़ गयी है॥ ३६॥

वीरराघवः

ननु पौरोहित्ये धनलाभात्स्वधर्मः सिध्येदन्यथा निर्धनस्य कुतो धर्मः अत एव तेन लोको हृष्यतीत्यत्राह । अकिञ्चनानामिति । अकिञ्चनानां निष्कामानां शिलोञ्छनम् “उच्छः कणश आदानं कणिशाद्यर्जनं शिलम्” एतदन्यतरवृत्तिसम्पाद्यमेव हि धनं तेनैव उक्तान्यतरेणैव निर्वर्तिताः निष्पादिताः सत्क्रियाः पञ्चमहायज्ञादिरूपाः क्रिया यैस्तादृशा भवन्ति यतो हे अधीश्वराः ! विगर्हितं पौरोहित्यं पुरोहितकर्माहं कथं नु करोमि येन पौरोहित्येन दुर्भतिः मूर्खः तुष्यति पौरोहित्यं दुर्मतेस्तोषहेतुरकिञ्चनस्य तु शिलोञ्छनमेवेति भावः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत्।
भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये॥

मूलम्

तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत्।
भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये॥ ३७ ॥

अनुवाद (हिन्दी)

जो काम आपलोग मुझसे कराना चाहते हैं वह निन्दनीय है—फिर भी मैं आपके कामसे मुँह नहीं मोड़ सकता; क्योंकि आपलोगोंकी माँग ही कितनी है। इसलिये आपलोगोंका मनोरथ मैं तन-मन-धनसे पूरा करूँगा॥ ३७॥

वीरराघवः

तथापि पौरोहित्यस्य गर्हितत्वेऽपि न प्रतिब्रूयां प्रत्याचक्षे यद्यस्माद्गुरुभिः पितृभिर्युष्माभिः प्रार्थितं कियदिति भावः । कियदेतत्प्रार्थितम् इतोऽधिकमपि करिष्यामीतिभावः । अतो भवतां सर्वं प्रार्थितं धर्मैस्तपआदिभिः प्राणैश्च साधये प्राणपर्यन्तं यथा सामर्थ्यं साधय इत्यर्थः ॥ ३७ ॥

श्लोक-३८

मूलम् (वचनम्)

13श्रीशुक उवाच

विश्वास-प्रस्तुतिः

तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः।
पौरोहित्यं वृतश्चक्रे परमेण समाधिना॥

मूलम्

तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः।
पौरोहित्यं वृतश्चक्रे परमेण समाधिना॥ ३८ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! विश्वरूप बड़े तपस्वी थे। देवताओंसे ऐसी प्रतिज्ञा करके उनके वरण करनेपर वे बड़ी लगनके साथ उनकी पुरोहिती करने लगे॥ ३८॥

वीरराघवः

एवमुक्तैर्देवैर्वृतः पौरोहित्यमकरोद्विश्वरूप इत्याह मुनिः । तेभ्य इति । इतीत्थं तेभ्यो देवेभ्यः प्रतिश्रुत्य प्रतिज्ञाय महातपाः विश्वरूपः देवैर्वृतः पौरोहित्यं सावधानेन चित्तेन कृतवान् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया।
आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः॥

मूलम्

सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया।
आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः॥ ३९ ॥

अनुवाद (हिन्दी)

यद्यपि शुक्राचार्यने अपने नीतिबलसे असुरोंकी सम्पत्ति सुरक्षित कर दी थी, फिर भी समर्थ विश्वरूपने वैष्णवी विद्याके प्रभावसे उनसे वह सम्पत्ति छीनकर देवराज इन्द्रको दिला दी॥ ३९॥

वीरराघवः

पौरोहित्यकारणमेवाह । सुरद्विषामिति । औशनस्या उशनसः सम्बन्धिन्या विद्यया गुप्तां रक्षितामपि सुरद्विषां श्रियं वैष्णव्या नारायणवर्मात्मिकया मन्त्रविद्यया आच्छिद्य तेभ्य आकृष्य विभुर्विश्वरूपः महेन्द्राय प्रादात् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

यया गुप्तः सहस्राक्षो जिग्येऽसुरचमूर्विभुः।
तां प्राह स महेन्द्राय विश्वरूप उदारधीः॥

मूलम्

यया गुप्तः सहस्राक्षो जिग्येऽसुरचमूर्विभुः14
तां प्राह स महेन्द्राय विश्वरूप उदारधीः॥ ४० ॥

अनुवाद (हिन्दी)

राजन्! जिस विद्यासे सुरक्षित होकर इन्द्रने असुरोंकी सेनापर विजय प्राप्त की थी, उसका उदारबुद्धि विश्वरूपने ही उन्हें उपदेश किया था॥ ४०॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे सप्तमोऽध्यायः॥ ७ ॥

वीरराघवः

वैष्णव्या विद्यया आच्छिद्यादादित्येतदेवं विशदयति । ययेति । सहस्राक्ष इन्द्रो यथा वैष्णव्या विद्यया गुप्तो रक्षितः अत एव विभुः समर्थो भूत्वासुरसेना जघ्ने हतवान् तां विद्यामुदारधीर्विपुलमतिविश्वरूपो महेन्द्राय प्राह विश्वरूपदिष्टवैष्णवविद्याभिरक्षितः शक्रः शत्रुन्निहत्य श्रियं लब्धवानित्यर्थः ॥ ४० ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकाख्यायां टीकायां सप्तमोऽध्यायः ॥ ५ ॥


  1. प्रा. पा. – यस्य । ↩︎

  2. प्रा. पा. - सुताः । ↩︎

  3. प्रा. पा. - श्रीबादरायणिरुवाच । ↩︎

  4. प्रा. पा. - ऋषिभिनृप । ↩︎

  5. प्रा. पा. - कथञ्चन । ↩︎

  6. प्रा. पा. - शुचा युक्ताः । ↩︎

  7. प्रा. पा. - स्तिग्मैर्नि । ↩︎

  8. प्रा. पा. - गुरुणा । ↩︎

  9. प्रा. पा. - प्रहसञ् । ↩︎

  10. प्रा. पा. - नाम । ↩︎

  11. प्रा. पा. - सच्छिष्यः । ↩︎

  12. प्रा. पा. - दुर्मनाः । ↩︎

  13. प्रा. पा. - बादरायणिरुवाच । ↩︎

  14. प्रा. पा. - द्विजः । ↩︎