०५ नारदशापः

[पञ्चमोऽध्यायः]

भागसूचना

श्रीनारदजीके उपदेशसे दक्षपुत्रोंकी विरक्ति तथा नारदजीको दक्षका शाप

श्लोक-१

मूलम् (वचनम्)

श्रीशुक1 उवाच

विश्वास-प्रस्तुतिः

तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः।
हर्यश्वसंज्ञानयुतं पुत्रानजनयद् विभुः॥

मूलम्

तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः।
हर्यश्वसंज्ञानयुतं पुत्रानजनयद् विभुः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! भगवान‍्के शक्तिसंचारसे दक्ष प्रजापति परम समर्थ हो गये थे। उन्होंने पंचजनकी पुत्री असिक्नीसे हर्यश्व नामके दस हजार पुत्र उत्पन्न किये॥ १॥

वीरराघवः

ततः प्राचेतसः किमकरोदित्यत्राह मुनिः । स इति । विष्णुमायोपबृंहितः भगवत्सङ्कल्पेन व्याप्तः स विभुर्दक्षः तस्यां पाञ्चजन्यां पञ्चजनस्य दुहितरि हर्यश्वसंज्ञानयुतं पुत्रानजनयत् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप।
पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम्॥

मूलम्

अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप।
पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम्॥ २ ॥

अनुवाद (हिन्दी)

राजन्! दक्षके ये सभी पुत्र एक आचरण और एक स्वभावके थे। जब उनके पिता दक्षने उन्हें सन्तान उत्पन्न करनेकी आज्ञा दी, तब वे तपस्या करनेके विचारसे पश्चिम दिशाकी ओर गये॥ २॥

वीरराघवः

तान्विशिनष्टि । हे नृप ! सर्वे दाक्षायणाः दक्षस्य पुत्राः । अनन्तरापत्ये फगार्षः । अपृथग्धर्मशीलाः समानधर्माचरणशीलाः । प्रजासर्गे निमित्ते पित्रा प्राचेतसेन प्रोक्ताः आदिष्टाः प्रतीचीं दिशं प्रययुः ॥ २॥

श्लोक-३

विश्वास-प्रस्तुतिः

तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः।
सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम्॥

मूलम्

तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः।
सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम्॥ ३ ॥

अनुवाद (हिन्दी)

पश्चिम दिशामें सिन्धुनदी और समुद्रके संगमपर नारायण-सर नामका एक महान् तीर्थ है। बड़े-बड़े मुनि और सिद्ध पुरुष वहाँ निवास करते हैं॥ ३॥

वीरराघवः

क्व सिन्धुसमुद्रयोर्यत्र सङ्गमः यत्र नारायणसरआख्यं सुमहत्पुण्यमत एव मुनिभिः सिद्धैश्च निषेवितं तीर्थं वर्त्तते तत्र ययुरित्यर्थः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

तदुपस्पर्शनादेव विनिर्धूतमलाशयाः।
धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत॥

मूलम्

तदुपस्पर्शनादेव विनिर्धूतमलाशयाः।
धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत॥ ४ ॥

वीरराघवः

तस्य तीर्थस्योपस्पर्शनादेव विनिर्धूतमलः निरस्तमल आशयोऽन्तःकरणं येषां तादृशास्ते । पारमहंस्ये धर्मे । परमहंसानां ज्ञानिनां कर्म पारमहंस्यं तस्मिन्निवृत्तिधर्मे प्रोत्पन्ना मतिर्येषां तादृशाश्चाभवन् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः।
प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह॥

मूलम्

तेपिरे2 तप एवोग्रं पित्रादेशेन यन्त्रिताः।
प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह॥ ५ ॥

वीरराघवः

एवंभूता अपि पित्रादेशेन प्राचेतसाज्ञया यन्त्रिता वशीकृताः उग्रं तप एव तेपिरे चक्रुः । पारमहंस्यधर्मपरा अपि पित्रादिष्टप्रजावृद्धिविधानोपयुक्तं तप एव चक्रुरित्यर्थः । एवं प्रजाभिवृद्धये यत्तान् प्रजाभिवृद्ध्युपयुक्तयत्नं कुर्वाणांस्तान् हर्यश्वान् देवर्षिः श्रीनारदो ददर्श । हेति देवर्षेर्दर्शनस्य दौर्लभ्यं द्योतयति ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः।
अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः॥

मूलम्

उवाच चाथ3 हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः।
अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः॥ ६ ॥

अनुवाद (हिन्दी)

नारायण-सरमें स्नान करते ही हर्यश्वोंके अन्तः-करण शुद्ध हो गये, उनकी बुद्धि भागवतधर्ममें लग गयी। फिर भी अपने पिता दक्षकी आज्ञासे बँधे होनेके कारण वे उग्र तपस्या ही करते रहे। जब देवर्षि नारदने देखा कि भागवतधर्ममें रुचि होनेपर भी ये प्रजावृद्धिके लिये ही तत्पर हैं, तब उन्होंने उनके पास आकर कहा—‘अरे हर्यश्वो! तुम प्रजापति हो तो क्या हुआ। वास्तवमें तो तुमलोग मूर्ख ही हो। बतलाओ तो, जब तुमलोगोंने पृथ्वीका अन्त ही नहीं देखा, तब सृष्टि कैसे करोगे? बड़े खेदकी बात है!॥ ४—६॥

वीरराघवः

हर्यश्वान् प्रत्युवाच उक्तमेवाह । कथमित्यादिना सर्गं करिष्यथेत्यन्तेन । हे बालकाः ! यूयं बालिशा अज्ञाः सन्तः प्रजाः कथं स्रक्ष्यथ अज्ञतामेवाह । अदृष्ट्वेति । भुवोऽन्तमदृष्ट्रा कथं स्रक्ष्यथेत्यन्वयः । यद्यपि भुवोऽन्तज्ञानादिकं सृष्ट्युपयोगीव प्रतिभाति तथापि न तत्सृष्ट्युपयोगित्वेनोच्यते । तस्य भूः क्षेत्रमित्यादिभिः सृष्टिप्रतिक्षेपकत्वावगमात् । किन्त्वदृष्टवा सर्गं कर्तुमुद्यताः दृष्ट्वा तु भवन्तः सर्गोद्योगान्निवृत्ता एव भवेयुरित्यत्रोच्यते । कथंशब्देन भुवोऽन्तःज्ञानाद्यभावे सर्वोद्योगस्य सम्भावना द्योत्यते । अविज्ञाय कथं चित्सर्गं कर्तुमुद्यताः विज्ञाय सुतरां तदुद्योगान्निवृत्ता भवन्तः भवेयुरित्यर्थः । भुवः पार्थिवस्य देहस्यान्तमवसानमदृष्ट्वानालोच्येत्यर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम्।
बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम्॥

मूलम्

तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम्।
बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम्॥ ७ ॥

वीरराघवः

एकः पुरुष ईश्वरो यस्मिंस्तद्राष्ट्रम् ईश्वरनियाम्यं जगत् राष्ट्रादीनां द्वितीयान्तानामविज्ञायेत्यनेनान्वयः । अदृष्टनिर्गममविज्ञातनिर्गमोपायं जीवात्मस्वरूपस्याधिष्ठानं हृदयबिलं बहुरूपामनेकरूपां स्त्रियं बुद्धिरूपां पुंश्चल्या व्यभिचारिण्याश्चपलाया बुद्धेः पतिं तत्संसृष्टजीवस्वरूपम् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

नदीमुभयतोवाहां पञ्चपञ्चाद‍्भुतं गृहम्।
क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमिम्॥

मूलम्

नदीमुभयतोवाहां पञ्चपञ्चाद‍्भुतं गृहम्।
क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमिम्॥ ८ ॥

वीरराघवः

उभयतोवाहां सृष्ट्यप्ययकरीं नदीं मायारूपां पञ्चपञ्चाद्भुतं पञ्चपञ्चविंशतितत्त्वात्मकं गृहं स जीवशरीररूपम् । चित्रकथं चित्रपक्षं हंसं बन्धमोक्षहेत्वापादनात्मककथारूपाभ्यां विचित्रपक्षाभ्यां युक्तमीश्वरमिति भावः । क्षौरपव्यं क्षुरैः पविगिर्वज्रेश्च निर्मितं तीक्ष्णं दृढं चेत्यर्थः । एवंविधं स्वयं भ्रमणशीलं कालचक्रमिति भावः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

कथं स्वपितुरादेशमविद्वांसो विपश्चितः।
अनुरूपमविज्ञाय अहो सर्गं करिष्यथ॥

मूलम्

कथं स्वपितुरादेशमविद्वांसो विपश्चितः।
अनुरूपमविज्ञाय अहो सर्गं करिष्यथ॥ ९ ॥

अनुवाद (हिन्दी)

देखो—एक ऐसा देश है, जिसमें एक ही पुरुष है। एक ऐसा बिल है, जिससे बाहर निकलनेका रास्ता ही नहीं है। एक ऐसी स्त्री है, जो बहुरूपिणी है। एक ऐसा पुरुष है, जो व्यभिचारिणीका पति है। एक ऐसी नदी है, जो आगे-पीछे दोनों ओर बहती है। एक ऐसा विचित्र घर है, जो पचीस पदार्थोंसे बना है। एक ऐसा हंस है, जिसकी कहानी बड़ी विचित्र है। एक ऐसा चक्र है, जो छुरे एवं वज्रसे बना हुआ है और अपने-आप घूमता रहता है। मूर्ख हर्यश्वो! जबतक तुमलोग अपने सर्वज्ञ पिताके उचित आदेशको समझ नहीं लोगे और इन उपर्युक्त वस्तुओंको देख नहीं लोगे, तबतक उनके आज्ञानुसार सृष्टि कैसे कर सकोगे?’॥ ७—९॥

वीरराघवः

विपश्चितः । सर्वज्ञस्य स्वपितुरनन्तजन्मसु हितोपदेशेन रक्षकस्य शास्त्रस्यादेशमनुशानमनुकूलमविद्वांसो यूयं कथंचित्सर्गं करिष्यथ विज्ञाय तु न यतिष्यथेति भावः ॥ ९ ॥

श्लोक-१०

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया।
वाचःकूटं तु देवर्षेः स्वयं विममृशुर्धिया॥

मूलम्

तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया।
4वाचःकूटं तु देवर्षेः स्वयं विममृशुर्धिया॥ १० ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! हर्यश्व जन्मसे ही बड़े बुद्धिमान् थे। वे देवर्षि नारदकी यह पहेली, ये गूढ़ वचन सुनकर अपनी बुद्धिसे स्वयं ही विचार करने लगे—॥ १०॥

वीरराघवः

एवमन्योपदेशरूपाणि देवर्षेर्वचांस्याकर्ण्य तानि हर्यश्वाः स्वयं विममृशुरित्याह मुनिः । तदिति । तद्देवर्षेर्वचो निशम्याकर्ण्य हर्यश्वा औत्पत्तिकमनीषया स्वभावसिद्धा मनीषा विचारशक्तिर्यस्यास्तया बुद्ध्या । देवर्षेर्वाचःकूटं कूटमयोघनस्तद्वद्दुर्भेद्यं वाचःकूटं प्रच्छन्नाभिप्रायं वाक्यमित्यर्थः । विममृशुः विचारपूर्वकमभिप्रायं निश्चितवन्तः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम्।
अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत्॥

मूलम्

भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम्।
अदृष्ट्वा तस्य निर्वाणं 5किमसत्कर्मभिर्भवेत्॥ ११ ॥

अनुवाद (हिन्दी)

‘(देवर्षि नारदका कहना तो सच है) यह लिंग शरीर ही जिसे साधारणतः जीव कहते हैं, पृथ्वी है और यही आत्माका अनादि बन्धन है। इसका अन्त (विनाश) देखे बिना मोक्षके अनुपयोगी कर्मोंमें लगे रहनेसे क्या लाभ है?॥ ११॥

वीरराघवः

कथं विममृशुरित्यपेक्षायां तैर्विमृश्य निर्णीतानर्थानाह । भूरित्यादिदशभिः । तावद्भूशब्दार्थमाह । भूः क्षेत्रमिति । जीवति प्राणान् धारयतीति जीवः स प्राणः । स एव संज्ञा यस्य तत्सप्राणशब्दवाच्यमित्यर्थः । यद्वा । जीवः प्रत्यगात्मैव तेन सम्यग्ज्ञायते इति तज्जीवसंज्ञं बाहुलकात्कर्मणि क्तः । जीवेन ज्ञेयमित्यर्थः । “एतद्यो वैत्ति तम्” इति शरीरस्य जीवेन ज्ञेयत्वगानात् । अनादिनिजबन्धनमनादिपुण्यपापकर्मनिबन्धनं यत्क्षेत्रं तद्भूशब्दार्थ इति विममृशुरित्यर्थः । अन्तशब्दार्थं तैर्निर्णीतं वदन् समुदायाभिप्रायमाह । अदृष्ट्वेति । तस्य भूशब्दस्य विवक्षितस्य क्षेत्रस्य निर्वाणमन्तशब्दविवक्षितं प्रकृतौ देहस्य प्रलयमदृष्ट्वाऽनालोच्यासत्कर्मभिः किं भवेत् जन्मजरामरणादिमद्देहापादककर्मनिबन्धमनिवर्त्तयद्भिः प्रत्युत संसृत्यापादकैः कर्मभिः न कोऽपि पुरुषार्थोऽस्तीत्यर्थः । अत्र सर्वत्र विचारश्लोकेषु किमसत्कर्मभिर्भवेदिति चतुर्थः पादो ज्ञेयः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः।
तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत्॥

मूलम्

एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः।
तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत्॥ १२ ॥

अनुवाद (हिन्दी)

सचमुच ईश्वर एक ही है। वह जाग्रत् आदि तीनों अवस्थाओं और उनके अभिमानियोंसे भिन्न, उनका साक्षी तुरीय है। वही सबका आश्रय है, परन्तु उसका आश्रय कोई नहीं है। वही भगवान् हैं। उस प्रकृति आदिसे अतीत, नित्यमुक्त परमात्माको देखे बिना भगवान‍्के प्रति असमर्पित कर्मोंसे जीवको क्या लाभ है?॥ १२॥

वीरराघवः

तथैकपुरुषं राष्ट्रमित्यस्य तैर्निश्चितमर्थमाह । एक इति । तुर्यः जागराद्यवस्थात्रयातीतः स्वाश्रयः अनन्याधारः परः प्रकृतिपुरुषविलक्षणः भगवान् षाड्गुण्यपूर्णो निरस्तनिखिलदोष एक एवेश्वरः अन्तः प्रविश्य धारणेन नियन्ता तमेवं भूतमभवं भवप्रतिभटमविदित्वानुपास्य । एक एवेश्वर इत्यनेन पुरुषशब्दार्थ उक्तः । अनेनैवेश्वरप्रतिसम्बन्धीशितव्यं जगद्राष्ट्रमिति फलितम् । ईशितव्यानामीश्वरानुवर्तनस्यैवोचितत्वादाराध्येश्वराननुरूपैरीश्वरवैमुख्यापादकैः कर्मभिः किमित्यर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

पुमान् नैवैति यद् गत्वा बिलस्वर्गं गतो यथा।
प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत्॥

मूलम्

पुमान् नैवैति यद् गत्वा 6बिलस्वर्गं गतो यथा।
प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत्॥ १३ ॥

अनुवाद (हिन्दी)

जैसे मनुष्य बिलरूप पातालमें प्रवेश करके वहाँसे नहीं लौट पाता—वैसे ही जीव जिसको प्राप्त होकर फिर संसारमें नहीं लौटता, जो स्वयं अन्तर्ज्योतिःस्वरूप है, उस परमात्माको जाने बिना विनाशवान् स्वर्ग आदि फल देनेवाले कर्मोंको करनेसे क्या लाभ है?॥ १३॥

वीरराघवः

बिलं चादृष्टनिर्गममित्यस्यार्थमाह । पुमानिति । बिलस्वर्गं पातालं गत इव पुमान् जीवः यद्गत्वा यद्धृदयबिलं प्राप्य “हृद्ययमात्मा प्रतिष्ठितः, इतिवचनान्नैवैति नावच्छति । यथा बिलस्वर्गं गतो नितरां भोगासक्तो मदान्धः स्वस्वरूपादिकं न विविनक्ति ततो न निर्गच्छति च तथा प्रत्यगात्मस्वरूपं प्रकृतिवियुक्तं यत्र हृदयदेशे स्थितं नावगच्छति तज्जीवस्वरूपस्याधिष्ठानं हृदयं बिलं चादृष्टनिर्गममित्यनेन विवक्षितमित्यर्थः । समुदायाभिप्रायमाह । प्रत्यग्धाम हृदयबिलस्थं प्रत्यक् स्वप्रकाशं धाम ज्योतिः जीवात्मस्वरूपमविदुषः अजानतः असत्कर्मभिः देवमनुष्यादिशरीरहृदयबिलावस्थापादकैः कर्मभिः किं भवेत् किमपि श्रेयो नास्ति प्रत्युतानर्थ एवेति भावः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

नानारूपाऽऽत्मनो बुद्धिः स्वैरिणीव गुणान्विता।
तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत्॥

मूलम्

नानारूपाऽऽत्मनो बुद्धिः स्वैरिणीव गुणान्विता।
तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत्॥ १४ ॥

अनुवाद (हिन्दी)

यह अपनी बुद्धि ही बहुरूपिणी और सत्त्व, रज आदि गुणोंको धारण करनेवाली व्यभिचारिणी स्त्रीके समान है। इस जीवनमें इसका अन्त जाने बिना—विवेक प्राप्त किये बिना अशान्तिको अधिकाधिक बढ़ानेवाले कर्म करनेका प्रयोजन ही क्या है?॥ १४॥

वीरराघवः

बहुरूपामित्यस्यार्थमाह । नानेति । आत्मनो जीवस्य या नानारूपा बहुवृत्तिमती स्वैरिणीव पुंश्चलीव रागादिभिर्गुणैरन्विता बुद्धिः सैव बहुरूपां स्त्रियमित्यनेनाभिप्रेतेत्यर्थः । तस्या निष्ठामवसानं विवेकमगतस्याप्राप्तस्येह लोकेऽसत्कर्मभिः किं भवेत् प्रत्युत संसाररूपानर्थ एवेति भावः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत्।
तद‍्गतीरबुधस्येह किमसत्कर्मभिर्भवेत्॥

मूलम्

तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत्।
तद‍्गतीरबुधस्येह किमसत्कर्मभिर्भवेत्॥ १५ ॥

अनुवाद (हिन्दी)

यह बुद्धि ही कुलटा स्त्रीके समान है। इसके संगसे जीवरूप पुरुषका ऐश्वर्य—इसकी स्वतन्त्रता नष्ट हो गयी है। इसीके पीछे-पीछे वह कुलटा स्त्रीके पतिकी भाँति न जाने कहाँ-कहाँ भटक रहा है। इसकी विभिन्न गतियों, चालोंको जाने बिना ही विवेकरहित कर्मोंसे क्या सिद्धि मिलेगी?॥ १५॥

वीरराघवः

पुमांसं पुंश्चलीपतिमित्यस्यार्थमाह । तत्सङ्गेति । तस्याः सङ्गेन पारवश्येन भ्रंशितमैश्वर्यमकर्मवश्यत्वं यस्य तमत एव कुत्सिता भार्या यस्य । तेन तुल्यं कुभार्यवत् । भार्याभिलषितवस्त्राभरणाद्यर्जनायासदुःखिनमिव सरन्तं जन्मजरामरणादिपरिवृत्तिरूपसंसारमनुभवन्तं संसृष्टजीवस्वरूपम् । तद्गतीः बुद्ध्यायत्तस्वर्गनरकादिगतीश्चाबुधस्याजानतः । असत्कर्मभिः स्वर्गनरकादिगत्यापादकैः कर्मभिः किं भवेन्न किमपि श्रेयः सम्भवति । प्रत्युत दुःखमेव स्यादिति भावः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

श्लोक-१६
सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम्।
मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत्॥

मूलम्

सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम्।
मत्तस्य 7तामविज्ञस्य किमसत्कर्मभिर्भवेत्॥ १६ ॥

अनुवाद (हिन्दी)

माया ही दोनों ओर बहनेवाली नदी है। यह सृष्टि भी करती है और प्रलय भी। जो लोग इससे निकलनेके लिये तपस्या, विद्या आदि तटका सहारा लेने लगते हैं, उन्हें रोकनेके लिये क्रोध, अहंकार आदिके रूपमें वह और भी वेगसे बहने लगती है। जो पुरुष उसके वेगसे विवश एवं अनभिज्ञ है, वह मायिक कर्मोंसे क्या लाभ उठावेगा?॥ १६॥

वीरराघवः

नदीमुभयतोवाहामित्येतद्विवृणोति । सृष्ट्यप्ययकरीमिति । जन्ममरणकरीमनेनोभयतः प्रवाहो दर्शितः । वेलाकूलशब्दौ तीरद्वयपरौ तयोरन्तेऽवसाने वेगितां संजातवेगाम् । इहलोकपरलोकौ वेलाकुलत्वेन रूपितौ । वेगेनेहलोकपरलोकप्राप्तिकरीमित्यर्थः । एवम्विधां मायां तदविज्ञस्य तत्त्वेनाविज्ञस्य तथाभूतामविज्ञस्याविचारयतः । तत्र हेतुः । मत्तस्य मायापरवशस्यासत्कर्मभिरिह परलोकप्राप्तिहेतुभिः कर्मभिः किं भवेन्न किमपि प्रत्युतान्तःस्थानत्वादिप्राप्तिरूपोऽनर्थ एवेति भावः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

पञ्चविंशतितत्त्वानां पुरुषोऽद‍्भुतदर्पणम्।
अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत्॥

मूलम्

पञ्चविंशतितत्त्वानां पुरुषोऽद‍्भुतद8र्पणम्।
अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत्॥ १७ ॥

अनुवाद (हिन्दी)

ये पचीस तत्त्व ही एक अद‍्भुत घर है। पुरुष उनका आश्चर्यमय आश्रय है। वही समस्त कार्य-कारणात्मक जगत‍्का अधिष्ठाता है। यह बात न जानकर सच्चा स्वातन्त्र्य प्राप्त किये बिना झूठी स्वतन्त्रतासे किये जानेवाले कर्म व्यर्थ ही हैं॥ १७॥

वीरराघवः

पञ्चपञ्चाद्भुतं गृहमित्येतद्विवृणोति । पञ्चविंशतीति । पञ्चविंशतितत्त्वानां जीवपर्यन्तानां सङ्घातरूपं यत्पुरुषस्य परमपुरुषस्याद्भुतं वर्षणं शरीरमात्मन्यध्यात्मं परमपुरुषधार्यत्वेनावस्थितमबुधस्याविचारयतः । असत्कर्मभिर्देहात्मभ्रमस्वतन्त्रात्मभ्रमापादकैः कर्मभिः किं भवेन्न किमपि प्रत्युत देहात्मादिभ्रमप्रयुक्तोऽनर्थ एवेति भावः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम्।
विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत्॥

मूलम्

ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम्।
विविक्तपदमज्ञाय9 किमसत्कर्मभिर्भवेत्॥ १८ ॥

अनुवाद (हिन्दी)

भगवान‍्का स्वरूप बतलानेवाला शास्त्र हंसके समान नीर-क्षीर-विवेकी है। वह बन्ध-मोक्ष, चेतन और जडको अलग-अलग करके दिखा देता है। ऐसे अध्यात्मशास्त्ररूप हंसका आश्रय छोड़कर उसे जाने बिना बहिर्मुख बनानेवाले कर्मोंसे लाभ ही क्या है?॥ १८॥

वीरराघवः

क्वचिद्धंसं चित्रकथमित्येतद्व्याचष्टे । ईश्वरमिति । अनेन हंसशब्दार्थ उक्तः । हन्ति दोषानिति हंसः निरस्तनिखिलदोषः । तमीश्वरं शास्त्रं शास्त्रैकवेद्यं बन्धमोक्षानुदर्शनं बन्धमोक्षावनुदर्शयति बन्धमोक्षहेतुप्रवृत्तिनिवृत्तिधर्मानुष्ठापनेन तौ दर्शयतीति तथा कर्त्तरि ल्युः । अनेन चित्रकथशब्दार्थ उक्तः । विविक्तं पदं यस्य तं विविक्तस्थानवर्त्तिनं हृदयकुहरे स्थितमित्यर्थः । अनेन क्वचिच्छब्दार्थ उक्तः । उत्सृज्य त्यक्त्वा अज्ञाय उक्तविधं तमनालोच्य ऐश्वरं शास्त्रमिति पाठान्तरम् । तत्रैश्वरमीश्वरप्रतिपादकमध्यात्मशास्त्रमुत्सृज्यानधीत्य बन्धमोक्षानुदर्शनं विविक्तपदमीश्वरमविज्ञायानुपास्येत्यर्थः । ऐश्वर्यमिति पाठे तु ईश्वरस्य सम्बन्धि ऐश्वरं ईश्वरावेदकं तदेवैश्वर्यं स्वार्थेष्यञ् । ईश्वरस्वरूपरूपगुणप्रतिपादकमित्यर्थः । अत्रापि परशब्देन हंसशब्दार्थ उक्तः । असत्कर्मभिरीश्वरवैमुख्यापादकैः कर्मभिः किमपि न अपि त्वात्मनाशरूपोऽनर्थ एवेति भावः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत्।
स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत्॥

मूलम्

कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत्।
स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत्॥ १९ ॥

मूलम् - कर्णावती

कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयञ्जगत्।
स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत्॥ १९ ॥

अनुवाद (हिन्दी)

यह काल ही एक चक्र है। यह निरन्तर घूमता रहता है। इसकी धार छुरे और वज्रके समान तीखी है और यह सारे जगत‍्को अपनी ओर खींच रहा है। इसको रोकनेवाला कोई नहीं, यह परम स्वतन्त्र है। यह बात न जानकर कर्मोंके फलको नित्य समझकर जो लोग सकामभावसे उनका अनुष्ठान करते हैं, उन्हें उन अनित्य कर्मोंसे क्या लाभ होगा?॥ १९॥

वीरराघवः

क्षौरपव्यमित्येतद्व्याचष्टे । कालचक्रमिति । यत्सर्वमाब्रह्मस्तम्बपर्यन्तं जगन्निष्कर्षयन्निष्काषयत्त्रोटयदित्यर्थः । अनेन पव्यशब्दार्थ उक्तः । तीक्ष्णं गर्भजन्मजरामरणादिनिमित्तत्वेन दुःसहमनेन क्षौरशब्दार्थ उक्तः । भ्रमत्परिवर्त्तमानं स्वतन्त्रमपरवशं कालचक्रं तदबुधस्याविचारयतः असत्कर्मभिः कालवश्यतापादकैः न किमपि प्रत्युत तापत्रयाभिहतिरेवेति भावः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम्।
कथं तदनुरूपाय गुणविश्रम्भ्युपक्रमेत्॥

मूलम्

शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम्।
कथं तदनुरूपाय गुणविश्रम्भ्युपक्रमेत्॥ २० ॥

अनुवाद (हिन्दी)

शास्त्र ही पिता है; क्योंकि दूसरा जन्म शास्त्रके द्वारा ही होता है और उसका आदेश कर्मोंमें लगना नहीं, उनसे निवृत्त होना है। इसे जो नहीं जानता, वह गुणमय शब्द आदि विषयोंपर विश्वास कर लेता है। अब वह कर्मोंसे निवृत्त होनेकी आज्ञाका पालन भला कैसे कर सकता है?’॥ २०॥

वीरराघवः

स्वपितुरादेशं विवृणोति । शास्त्रस्य पितुः शास्त्रमेव हि सर्वस्य पिता हितोपदेष्टृत्वात्तस्यादेशं विविच्य ज्ञापनरूपमनुशासनं निवर्त्तकं प्रवृत्तिधर्मानुष्ठाननिवृत्तिज्ञापकं यः पुमान्न वेद स गुणविस्रम्भी गुणमयशब्दादिविषयविश्वासवान् । तदनुरूपाय उक्तादेशानुकूल्याय कथं सृष्ट्यादावुपक्रमेत् । सृष्ट्याद्यनुक्रमस्य पित्रादेशप्रतिकूलत्वात्तदुपरम एव । तदादेशानुकूलः पित्रादेशानुवर्ती न सृष्ट्यादौ यतेतेति भावः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

इति व्यवसिता राजन् हर्यश्वा एकचेतसः।
प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम्॥

मूलम्

इति व्यवसिता राजन् हर्यश्वा एकचेतसः।
प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम्॥ २१ ॥

अनुवाद (हिन्दी)

परीक्षित्! हर्यश्वोंने एक मतसे यही निश्चय किया और नारदजीकी परिक्रमा करके वे उस मोक्षपथके पथिक बन गये, जिसपर चलकर फिर लौटना नहीं पड़ता॥ २१॥

वीरराघवः

एवं वाचः कूटं विमृश्य किमकुर्वन्नित्यत्राह मुनिः । इतीति । हे राजन्नितीत्थं व्यवसिताः निश्चयवन्तः । व्यवसायो व्यवसितं भावे क्तः सोऽस्त्येषामिति व्यवसिताः अर्शआदित्वान्मत्वर्थीयोऽच् हर्यश्वाः सर्वैः एकचेतसः एकमतयः तं नारदं परिक्रम्यानिवर्त्तनं न विद्यते निवर्त्तनं निवृत्तिः यस्मात्तं पन्थानं प्रययुः परब्रह्मोपासनेन मुक्तिं भगवन्तं प्रापुरित्यर्थः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

स्वरब्रह्मणि निर्भातहृषीकेशपदाम्बुजे।
अखण्डं चित्तमावेश्य लोकाननुचरन्मुनिः॥

मूलम्

स्वरब्रह्मणि निर्भातहृषीकेशपदाम्बुजे।
अखण्डं चित्तमावेश्य लोकाननु10चरन्मुनिः॥ २२ ॥

अनुवाद (हिन्दी)

इसके बाद देवर्षि नारद स्वरब्रह्ममें—संगीतलहरीमें अभिव्यक्त हुए , भगवान् श्रीकृष्णचन्द्रके चरणकमलोंमें अपने चित्तको अखण्डरूपसे स्थिर करके लोक-लोकान्तरोंमें विचरने लगे॥ २२॥

वीरराघवः

मुनिर्नारदस्तु स्वरब्रह्मणि ब्रह्मसान्निध्यापादकवल्लकीस्वरे निर्भातः साक्षात्कृतो यो हृषीकेशः तस्य पदाम्बुजे चित्तमखण्डमविच्छिन्नं यथा तथावेश्य लोकाननुचरत् अन्वचरत् अडभाव आर्षः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम्।
अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम्॥

मूलम्

नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम्।
अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम्॥ २३ ॥

अनुवाद (हिन्दी)

परीक्षित्! जब दक्षप्रजापतिको मालूम हुआ कि मेरे शीलवान् पुत्र नारदके उपदेशसे कर्तव्यच्युत हो गये हैं, तब वे शोकसे व्याकुल हो गये। उन्हें बड़ा पश्चात्ताप हुआ। सचमुच अच्छी सन्तानका होना भी शोकका ही कारण है॥ २३॥

वीरराघवः

ततः को दक्षः । शीलशालिनां सुशीलानां पुत्राणां नारदान्नाशं निशम्य सृष्ट्युद्योगनिवृत्तिपूर्वकमुक्तिं निशम्याकर्ण्य शोचन्नन्वतप्यतादुःख्यत् । सुप्रजस्त्वं शुचां पदमिति लोकोक्तिप्रकारः सुप्रजस्त्वं सत्पुत्रवत्त्वं शोकानां स्थानमिति हि किं वदन्तीत्यर्थः । अत्र प्रजाशब्देन प्रजाविपत्तिरुपलक्ष्यते ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः।
पुत्रानजनयद् दक्षः शबलाश्वान् सहस्रशः॥

मूलम्

11 भूयः पाञ्चजन्यायामजेन परिसान्त्वितः।
पुत्रानजनयद् दक्षः शबलाश्वान् सहस्रशः॥ २४ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने दक्षप्रजापतिको बड़ी सान्त्वना दी। तब उन्होंने पंचजननन्दिनी असिक्नीके गर्भसे एक हजार पुत्र और उत्पन्न किये। उनका नाम था शबलाश्व॥ २४॥

वीरराघवः

स दक्षोऽजेन ब्रह्मणा परिसान्त्वितः समाहितः पुनः पाञ्चजन्यायां सबलाश्वसंज्ञान् सहस्रसंख्याकान् पुत्रानजनयत् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

तेऽपि पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः।
नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः॥

मूलम्

तेऽपि पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः।
नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः॥ २५ ॥

अनुवाद (हिन्दी)

वे भी अपने पिता दक्षप्रजापतिकी आज्ञा पाकर प्रजासृष्टिके उद्देश्यसे तप करनेके लिये उसी नारायण सरोवरपर गये, जहाँ जाकर उनके बड़े भाइयोंने सिद्धि प्राप्त की थी॥ २५॥

वीरराघवः

तेऽपि सबलाश्वाः पित्रा दक्षेण प्रजासर्गे निमित्ते सम्यगादिष्टाः धृतं व्रतं पित्रादेशकरणरूपं यैस्ते नारायणसरआख्यं तीर्थं ययुः । यत्र नारायणसरसि स्वपूर्वजाः हर्यश्वाः सिद्धा बभूवुः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

तदुपस्पर्शनादेव विनिर्धूतमलाशयाः।
जपन्तो ब्रह्म परमं तेपुस्तेऽत्र महत् तपः॥

मूलम्

तदुपस्पर्शनादेव विनिर्धूतमलाशयाः।
जपन्तो ब्रह्म परमं तेपुस्तेऽत्र महत् तपः॥ २६ ॥

अनुवाद (हिन्दी)

शबलाश्वोंने वहाँ जाकर उस सरोवरमें स्नान किया। स्नानमात्रसे ही उनके अन्तःकरणके सारे मल धुल गये। अब वे परब्रह्मस्वरूप प्रणवका जप करते हुए महान् तपस्यामें लग गये॥ २६॥

वीरराघवः

तस्य नारायणसरस्तीर्थस्योपस्पर्शनादेव विनिर्धूतं निरस्तं मनसो मलं वासनारूपं येषां तादृशाः परममुत्कृष्टं ब्रह्म प्रवणं जपन्तः महत्तपस्तेपुश्चक्रुः । ब्रह्मशब्दो वक्ष्यमाणमन्त्रस्याप्युपलक्षकः । तस्य प्रणवघटितत्वादिति भावः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

अब्भक्षाः कतिचिन्मासान् कतिचिद्वायुभोजनाः।
आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम्॥

मूलम्

अब्भक्षाः कतिचिन्मासान् कतिचिद्वायुभोजनाः।
आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम्॥ २७ ॥

वीरराघवः

महत्तप एव प्रपञ्चयति । अब्भक्षा इति । अबेव भक्षयन्तीति तादृशाः कतिचिन्मासान् कतिचिश्च मासान् वायुं भुञ्जन्तीति वायुभोजनाः कर्त्तरि ल्युः । इमं वक्ष्यमाणं मन्त्रमभ्यस्यन्तः इडस्पतिमीड्यते स्तूयतेऽनेनेतीडो मन्त्रः । आर्षत्वाद्ध्रस्वः पारस्करादित्वात्सुट् । तस्य पतिमधिदैवतं भगवन्तमाराधयामासुः आङ्पूर्वाद्राधयतेर्लङ् आङाटोः सवर्णदीर्घः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

ॐ नमो नारायणाय पुरुषाय महात्मने।
विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि॥

मूलम्

ॐ नमो नारायणाय पुरुषाय महात्मने।
विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि॥ २८ ॥

अनुवाद (हिन्दी)

कुछ महीनोंतक केवल जल और कुछ महीनोंतक केवल हवा पीकर ही उन्होंने ‘हम नमस्कारपूर्वक ओंकारस्वरूप भगवान्नारायणका ध्यान करते हैं, जो विशुद्धचित्तमें निवास करते हैं सबके अन्तर्यामी हैं तथा सर्वव्यापक एवं परमहंसस्वरूप हैं।’—इस मन्त्रका अभ्यास करते हुए मन्त्राधिपति भगवान‍्की आराधना की॥ २७-२८॥

वीरराघवः

मन्त्रमाह । ओमिति । नारस्य जीवसमूहस्यायनाय प्राप्याय प्रापकाधाराय च पुरुषाय हृदयकमलस्थाय परमात्मनेऽन्तः प्रविश्य नियन्त्रे विशुद्धमुपासनेन निर्मलं सत्त्वमन्तःकरणं धिष्ण्यमभिव्यक्तिस्थानं यस्य । यद्वा । शुद्धं रजस्तमोभ्यामननुविद्धं सत्त्वं धिष्ण्यं स्थानं यस्य तस्मै । परमव्योमनिलयायेति भावः । महांश्चासौ हंसस्तस्मै महाकल्याणगुणैर्महान् हंसो निरस्तनिखिलदोषः । एवंभूताय नमः उक्तविधं धीमहि ध्यायेम ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

इति तानपि राजेन्द्र प्रतिसर्गधियो मुनिः।
उपेत्य नारदः प्राह वाचःकूटानि पूर्ववत्॥

मूलम्

इति तानपि राजेन्द्र 11प्रतिसर्गधियो मुनिः।
उपेत्य नारदः प्राह वाचःकूटानि पूर्ववत्॥ २९ ॥

अनुवाद (हिन्दी)

परीक्षित्! इस प्रकार दक्षके पुत्र शबलाश्व प्रजासृष्टिके लिये तपस्यामें संलग्न थे। उनके पास भी देवर्षि नारद आये और उन्होंने पहलेके समान ही कूट वचन कहे॥ २९॥

वीरराघवः

इतीत्थं मन्त्रं जपतः प्रजासर्गे धीर्येषां तान् सबलाश्वानपि हे राजेन्द्र ! मुनिर्नारद उपेत्य पूर्ववद्वाचः कूटान्यदृष्ट्वान्तं भुवो यूयमित्यादीनि प्राहोक्तवान् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

दाक्षायणाः संशृणुत गदतो निगमं मम।
अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः॥

मूलम्

दाक्षायणाः संशृणुत गदतो निगमं मम।
अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः॥ ३० ॥

अनुवाद (हिन्दी)

उन्होंने कहा—‘दक्षप्रजापतिके पुत्रो! मैं तुम लोगोंको जो उपदेश देता हूँ, उसे सुनो। तुमलोग तो अपने भाइयोंसे बड़ा प्रेम करते हो। इसलिये उनके मार्गका अनुसन्धान करो॥ ३०॥

वीरराघवः

पूर्वोक्तात् किञ्चिद्विशेषमाह । हे दाक्षायणाः ! गदतो ब्रुवतो मम निगममुपदेशं संशृणुत भ्रातॄणामप्रजानामनुपदवीं मार्गानुसरणमन्विच्छत । अनुगता पदवी अनुपदवी “कुगतिप्रादय” इति समासः । यतो यूयं भ्रातृषु वत्सलाः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित्।
स पुण्यबन्धुः पुरुषो मरुद‍्भिः सह मोदते॥

मूलम्

भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित्।
स पुण्यबन्धुः पुरुषो मरुद‍्भिः सह मोदते॥ ३१ ॥

अनुवाद (हिन्दी)

जो धर्मज्ञ भाई अपने बड़े भाइयोंके श्रेष्ठ मार्गका अनुसरण करता है, वही सच्चा भाई है! वह पुण्यवान् पुरुष परलोकमें मरुद‍्गणोंके साथ आनन्द भोगता है॥ ३१॥

वीरराघवः

भ्रातॄणां प्रायणं प्रकृष्टमनुवर्त्तनं भ्राता धर्मविदनुतिष्ठति करोति स पुण्यमेव बन्धुर्यस्य तादृशो मरुद्भिर्देवैः सह मोदते ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः।
तेऽपि चान्वगमन्मार्गं भ्रातॄणामेव मारिष॥

मूलम्

एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः।
तेऽपि चान्वगमन्मार्गं भ्रातॄणामेव मारिष॥ ३२ ॥

मूलम् - कर्णावती

एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः।
तेऽपि चान्वगमन् मार्गं भ्रातॄणामेव मारिष॥ ३२ ॥

अनुवाद (हिन्दी)

परीक्षित्! शबलाश्वोंको इस प्रकार उपदेश देकर देवर्षि नारद वहाँसे चले गये और उन लोगोंने भी अपने भाइयोंके मार्गका ही अनुगमन किया; क्योंकि नारदजीका दर्शन कभी व्यर्थ नहीं जाता॥ ३२॥

वीरराघवः

अमोघं दर्शनं यस्य स परमार्थदर्शी नारदः । एतावदियदुक्त्वा प्रययौ । तेऽपि मारिषा दाक्षाः मारिषेति पाठे राज्ञः सम्बोधनं मारिष इति तस्य नामान्तरं भ्रातॄणामग्रजानामेव मार्गं परब्रह्मोपासनरूपमन्वगमन्ननुसृतवन्तः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः।
नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव॥

मूलम्

सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः।
नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव॥ ३३ ॥

अनुवाद (हिन्दी)

वे उस पथके पथिक बने, जो अन्तर्मुखी वृत्तिसे प्राप्त होने योग्य, अत्यन्त सुन्दर और भगवत्प्राप्तिके अनुकूल है। वे बीती हुई रात्रियोंके समान न तो उस मार्गसे अबतक लौटे हैं और न आगे लौटेंगे ही॥ ३३॥

वीरराघवः

ततस्ते सघ्रीचीनं सहाञ्चति गच्छतीति सघ्रङ् आतिवाहिकैः सह गन्ता जीवः तेन गम्यं सध्रीचीनं प्रतीचीनं स्वस्मै भासमानेन ब्रह्मात्मकस्वात्मयाथात्म्यसाक्षात्कारवता गम्यं प्रतीचीनं परस्य परमपुरुषस्यानुबन्धमनुकूलमर्चिरादिमार्ग गता अद्यापि न निवर्त्तन्ते न पुनरावर्तन्ते “एतं देवयानं पन्थानमापद्य न पुनरावर्त्तन्त” इति श्रुत्यर्थोऽत्र विवक्षितः । न पुनरावृत्तौ दृष्टान्तः । यामिनीरिव पश्चिमा इति । पश्चिमा अतीता यामिनीर्यामिन्यो रात्रयो यथा न पुनरावर्त्तन्ते तथेत्यर्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

एतस्मिन्काल उत्पातान् बहून् पश्यन् प्रजापतिः।
पूर्ववन्नारदकृतं पुत्रनाशमुपाशृणोत्॥

मूलम्

एतस्मिन्काल उत्पातान् बहून् पश्यन् प्रजापतिः।
पूर्ववन्नारदकृतं पुत्रनाशमुपाशृणोत्॥ ३४ ॥

मूलम् - कर्णावती

एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः।
पूर्ववन्नारदकृतं पुत्रनाशमुपाशृणोत्॥ ३४ ॥

अनुवाद (हिन्दी)

दक्षप्रजापतिने देखा कि आजकल बहुत-से अशकुन हो रहे हैं। उनके चित्तमें पुत्रोंके अनिष्टकी आशंका हो आयी। इतनेमें ही उन्हें मालूम हुआ कि पहलेकी भाँति अबकी बार भी नारदजीने मेरे पुत्रोंको चौपट कर दिया॥ ३४॥

वीरराघवः

एतस्मिन् काले । नारदोपदेशेन सबलाश्वानां मुक्तिप्राप्तिकाले प्रजापतिर्दक्षः बहूनुत्पातान्पुत्र नाशप्रयुक्तानपश्यत्ततः पूर्ववन्नारदोपदेशकृतं पुत्राणां नाशमुपाशृणोत् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः।
देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः॥

मूलम्

चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः।
देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः॥ ३५ ॥

अनुवाद (हिन्दी)

उन्हें अपने पुत्रोंकी कर्तव्यच्युतिसे बड़ा शोक हुआ और वे नारदजीपर बड़े क्रोधित हुए। उनके मिलनेपर क्रोधके मारे दक्षप्रजापतिके होठ फड़कने लगे और वे आवेशमें भरकर नारदजीसे बोले॥ ३५॥

वीरराघवः

पुत्राणां निवृत्तिधर्मनिष्ठ्या मुक्तिमुपश्रुत्य दक्षोऽपि प्रायशो विरक्तः स्यादिति तदनुग्रहार्थं देवर्षिस्तत्पार्श्वे गतः । तदासौ दक्षो देवर्षिमुपलभ्य पुत्रनाशान्निमित्ताद्विमूर्च्छितः उत्थाय नारदाय चुक्रोध क्रुद्धवान् ॥ ३५ ॥

श्लोक-३६

मूलम् (वचनम्)

दक्ष उवाच

विश्वास-प्रस्तुतिः

अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया।
असाध्वकार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः॥

मूलम्

अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया।
असाध्वकार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः॥ ३६ ॥

अनुवाद (हिन्दी)

दक्षप्रजापतिने कहा—ओ दुष्ट! तुमने झूठमूठ साधुओंका बाना पहन रखा है। हमारे भोले-भाले बालकोंको भिक्षुकोंका मार्ग दिखाकर तुमने हमारा बड़ा अपकार किया है॥ ३६॥

वीरराघवः

क्रोधमेवाह । अहो इति । साधोरिव लिङ्गं वेषो यस्य तेन त्वया नोऽस्मदीयानामर्भकाणामसाध्वकारि कृतं तदेवाह । स्वधर्मे प्रवृत्तानां यः संन्यासिनां मार्गः स प्रदर्शितः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम्।
विघातः श्रेयसः पाप लोकयोरुभयोः कृतः॥

मूलम्

ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम्।
विघातः श्रेयसः पाप लोकयोरुभयोः कृतः॥ ३७ ॥

मूलम् - कर्णावती

ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम्।
विद्यातः श्रेयसः पाप लोकयोरुभयोः कृतः॥ ३७ ॥

अनुवाद (हिन्दी)

अभी उन्होंने ब्रह्मचर्यसे ऋषि-ऋण, यज्ञसे देव-ऋण और पुत्रोत्पत्तिसे पितृ-ऋण नहीं उतारा था। उन्हें अभी कर्मफलकी नश्वरताके सम्बन्धमें भी कुछ विचार नहीं था। परन्तु पापात्मन्! तुमने उनके दोनों लोकोंका सुख चौपट कर दिया॥ ३७॥

वीरराघवः

ननु संन्यासिनां मार्गः साधुरेव मोक्षहेतुत्वात्सत्यम् । ऋणत्रयानपनोदनं पितुर्महदनर्थ एवेत्याह । ऋणैरमुक्तानां न मीमांसितान्यविचारितानि कर्माणि यैस्तेषामृष्यर्णविमोचनं नास्ति तदुत्तरकालभावित्वाच्च पुत्रोत्पादनयज्ञानुष्ठानयोरभावेन पितृदेवऋणमुक्तिश्च नास्त्यतः हे पाप ! विषयभोगत्यागादिह लोके श्रेयसो विघातः विषयभोगपूर्वकस्य भोगत्याभावान्मोक्षानधिकारित्वात्परलोकेऽपि श्रेयसो विघातः कृतः इत्यर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः।
पार्षदमध्ये चरसि यशोहा निरपत्रपः॥

मूलम्

एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः।
पार्षदमध्ये चरसि यशोहा निरपत्रपः॥ ३८ ॥

अनुवाद (हिन्दी)

सचमुच तुम्हारे हृदयमें दयाका नाम भी नहीं है। तुम इस प्रकार बच्चोंकी बुद्धि बिगाड़ते फिरते हो। तुमने भगवान‍्के पार्षदोंमें रहकर उनकी कीर्तिमें कलंक ही लगाया। सचमुच तुम बड़े निर्लज्ज हो॥ ३८॥

वीरराघवः

बालानां मतिभिद्बुद्धिविचालकः एवं निरनुक्रोशो निर्घृणः हरेर्यशोनाशकः सन् तत्पार्षदानां मध्ये निर्लज्जः कथं चरसि ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

ननु भागवता नित्यं भूतानुग्रहकातराः।
ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम्॥

मूलम्

ननु भागवता नित्यं भूतानुग्रहकातराः।
ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम्॥ ३९ ॥

अनुवाद (हिन्दी)

मैं जानता हूँ कि भगवान‍्के पार्षद सदा-सर्वदा दुःखी प्राणियोंपर दया करनेके लिये व्यग्र रहते हैं। परन्तु तुम प्रेमभावका विनाश करनेवाले हो। तुम उन लोगोंसे भी वैर करते हो, जो किसीसे वैर नहीं करते॥ ३९॥

वीरराघवः

निर्लज्जत्वमाह । नन्विति । ननु हे नारद ! अवैरिणां वैरंकरं सौहृदघ्नं त्वां विना भागवताः सर्वे भूतानुग्रहपरवशाः त्वं तु भूतविप्रियं कुर्वन् कथं न लज्जसे इति भावः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा।
मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम्॥

मूलम्

नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा।
मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम्॥ ४० ॥

अनुवाद (हिन्दी)

यदि तुम ऐसा समझते हो कि वैराग्यसे ही स्नेहपाश—विषयासक्तिका बन्धन कट सकता है, तो तुम्हारा यह विचार ठीक नहीं है; क्योंकि तुम्हारे जैसे झूठमूठ वैराग्यका स्वाँग भरनेवालोंसे किसीको वैराग्य नहीं हो सकता॥ ४०॥

वीरराघवः

न विषयभोगाद्विराग उत्पद्यते किन्तु विषयभोगस्य हेयत्वोपदेशेनैवेत्यत आह । नेत्यमिति । यद्यपि त्वं विषयभोगस्य हेयत्वोपदेशेन स्नेहपाशनिकृत्तनं विषयासक्तिरूपस्नेह एव पाशस्तस्य निकृन्तनं छेदकमुपशमं विरागं मन्यसे । तथापि मुधा मृषा केवलेन ज्ञानं विना साधुवेषेण त्वयेत्थं मतिचालने कृतेऽपि पुंसां विरागो नैव स्यादित्यर्थः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

नानुभूय न जानाति पुमान् विषयतीक्ष्णताम्।
निर्विद्येत स्वयं तस्मान्न तथा भिन्नधीः परैः॥

मूलम्

नानुभूय न जानाति पुमान् विषयतीक्ष्णताम्।
निर्विद्येत स्वयं तस्मान्न तथा भिन्नधीः परैः॥ ४१ ॥

अनुवाद (हिन्दी)

नारद! मनुष्य विषयोंका अनुभव किये बिना उनकी कटुता नहीं जान सकता। इसलिये उनकी दुःखरूपताका अनुभव होनेपर स्वयं जैसा वैराग्य होता है, वैसा दूसरोंके बहकानेसे नहीं होता॥ ४१॥

वीरराघवः

कुतः । यतः पुमान्नानुभूत अननुभूय विषयाणां तीक्ष्णतामन्ततो दुःखरूपतां न जानाति । यथा विषयाननुभूय स्वयमेव तस्माद्विषयान्निर्विद्येत विरज्येत । तथा परैर्भिन्नधीश्चालितधीर्न निर्विद्येत विरज्येत ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम्।
कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम्॥

मूलम्

यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम्।
कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम्॥ ४२ ॥

अनुवाद (हिन्दी)

हमलोग सद्गृहस्थ हैं, अपनी धर्ममर्यादाका पालन करते हैं। एक बार पहले भी तुमने हमारा असह्य अपकार किया था। तब हमने उसे सह लिया॥ ४२॥

वीरराघवः

यत्त्वं कर्मसन्धानां कर्मण्यासक्तचित्तानां कर्त्तुमन्धानामिति पाठे प्रतिविप्रियं कर्तुमजानतां गृहस्थानां साधूनामस्माकं दुर्मर्षं सोढुमशक्यं विप्रियं कृतवानसि तदप्रियममर्षितमस्माभिरिति शेषः । न मृश्यतेऽस्माभिरित्यर्थः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः।
तस्माल्लोकेषु ते मूढ न भवेद् भ्रमतः पदम्॥

मूलम्

तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः।
तस्माल्लोकेषु ते मूढ न भवेद् भ्रमतः पदम्॥ ४३ ॥

अनुवाद (हिन्दी)

तुम तो हमारी वंशपरम्पराका उच्छेद करनेपर ही उतारू हो रहे हो। तुमने फिर हमारे साथ वही दुष्टताका व्यवहार किया। इसलिये मूढ़! जाओ, लोक-लोकान्तरोंमें भटकते रहो। कहीं भी तुम्हारे लिये ठहरनेको ठौर नहीं होगी॥ ४३॥

वीरराघवः

एवं नारदाय क्रुद्धवान् दक्षः शशाप । तन्त्विति । हे तन्तुकृन्तन ! सन्तानच्छेदक ! यस्मात्त्वमभद्रं पुत्रविनाशमचरः कृतवानसि चरतेर्लङ् मध्यमैकवचनं हे मूढ ! तस्मात्सर्वेषु लोकेषु भ्रमतस्तव पदं स्थानं न भवेत्क्वचिदपि भवान्न चिरमवतिष्ठेत्किन्तु भ्राम्यत्विति शापः ॥ ४३ ॥

श्लोक-४४

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

प्रतिजग्राह तद‍्बाढं नारदः साधुसम्मतः।
एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम्॥

मूलम्

प्रतिजग्राह तद‍्बाढं नारदः साधुसम्मतः।
एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम्॥ ४४ ॥

मूलम् - कर्णावती

प्रतिजग्राह तद‍् बाढं नारदः साधुसम्मतः।
एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम्॥ ४४ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! संतशिरोमणि देवर्षि नारदने ‘बहुत अच्छा’ कहकर दक्षका शाप स्वीकार कर लिया। संसारमें बस, साधुता इसीका नाम है कि बदला लेनेकी शक्ति रहनेपर भी दूसरेका किया हुआ अपकार सह लिया जाय॥ ४४॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे 12नारदशापो नाम पञ्चमोऽध्यायः॥ ५ ॥

वीरराघवः

तं च शापं साधूनां सम्मतो नारदो बाढं तथैवास्त्विति प्रतिजग्राह स्वीकृतवान् । कुतः हि यस्मादीश्वरोऽपि स्वयं प्रतिकर्तुं समर्थोऽपि तितिक्षेत सहेतेति यदेतावानेव साधूनां वादः न तु प्रतिशापप्रदानवाद इति भावः ॥ ४४ ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकाख्यायां टीकायां पञ्चमोऽध्यायः ॥ ५ ॥


  1. प्रा. पा. - बादरायणिरुवाच । ↩︎

  2. प्रा. पा. - तेपुस्ते । ↩︎

  3. प्रा. पा. - तान्स । ↩︎

  4. प्रा. पा. - तद्वाचःकूट देवर्षेः । ↩︎

  5. प्रा. पा. - किं नु स्यात्कर्म । ↩︎

  6. प्रा. पा. - बिलं सर्ग । ↩︎

  7. प्रा. पा. - तदविज्ञस्य । ↩︎

  8. प्रा. पा. - दर्शनम् । ↩︎

  9. प्रा. पा. - रूपम । ↩︎

  10. प्रा. पा. - चरेन्मु । ↩︎

  11. प्रा. पा. - ततः स पाञ्च । ↩︎ ↩︎

  12. प्रा. पा. - दक्षान्नारदशापः पञ्च । ↩︎