०४

[चतुर्थोऽध्यायः]

भागसूचना

दक्षके द्वारा भगवान‍्की स्तुति और भगवान‍्का प्रादुर्भाव

श्लोक-१

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

देवासुरनृणां सर्गो नागानां मृगपक्षिणाम्।
सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे॥

मूलम्

देवासुरनृणां सर्गो नागानां मृगपक्षिणाम्।
सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे॥ १ ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—भगवन्! आपने संक्षेपसे (तीसरे स्कन्धमें) इस बातका वर्णन किया कि स्वायम्भुव मन्वन्तरमें देवता, असुर, मनुष्य, सर्प और पशु-पक्षी आदिकी सृष्टि कैसे हुई॥ १॥

वीरराघवः

एवमाकर्णितस्वायंभुवतत्पुत्रोत्तानपादप्रियव्रतसंततिचरित्रस्तत्प्रसंगात्पृष्टभूगोलखगोलेषु तत्संस्थानतत्प्रसंगात्पृष्टनरकनिस्तारोपायः श्रुतपरिहारश्च पूर्वं संक्षेपेण श्रुतं मनुसर्गं विस्तरेण बुभुत्सुः पृच्छति राजा । देवासुरेति द्वाभ्याम् । स्वायंभुवे मन्वन्तरे स तु देवादीनां सर्गः सामासिकः संक्षिप्तः त्वया प्रोक्तः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा।
अनुसर्गं यया शक्त्या ससर्ज भगवान् परः॥

मूलम्

तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा।
अनुसर्गं यया शक्त्या ससर्ज भगवान् परः॥ २ ॥

अनुवाद (हिन्दी)

अब मैं उसीका विस्तार जानना चाहता हूँ। प्रकृति आदि कारणोंके भी परम कारण भगवान् अपनी जिस शक्तिसे जिस प्रकार उसके बादकी सृष्टि करते हैं, उसे जाननेकी भी मेरी इच्छा है॥ २॥

वीरराघवः

हे भगवन्मुने ! तस्यैव सर्गस्य व्यासं विस्तरं त्वत्तो ज्ञातुमिच्छामि । कोऽसौ विस्तरस्तत्राह । भगवान् परः सृज्यमानप्रकृतिपुरुषविलक्षणः यया शक्त्या यथानुसर्गं यं यं व्यष्टिसर्गं ससर्जाकरोत् ॥ २ ॥

श्लोक-३

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः।
प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः॥

मूलम्

इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः।
प्रतिनन्द्य 1महायोगी जगाद मुनिसत्तमाः॥ ३ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—शौनकादि ऋषियो! परम योगी व्यासनन्दन श्रीशुकदेवजीने राजर्षि परीक्षित् का यह सुन्दर प्रश्न सुनकर उनका अभिनन्दन किया और इस प्रकार कहा॥ ३॥

वीरराघवः

एवमापृष्टो मुनिराहेत्याह सूतः । इतीति । हे मुनिसत्तमाः इतीत्थं राजर्षेः परीक्षितः तं प्रश्नमाकर्ण्य प्रतिनन्द्य साधुष्पृष्टमिति प्रतिनन्द्य बादरायणिर्महायोगी जगाद ॥ ३ ॥

श्लोक-४

मूलम् (वचनम्)

श्रीशुक2 उवाच

विश्वास-प्रस्तुतिः

यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः।
अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम्॥

मूलम्

यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः।
अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम्॥ ४ ॥

मूलम् - कर्णावती

यदा प्रचेतसः पुत्रा दश प्राचीबर्हिषः।
अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम्॥ ४ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—राजा प्राचीनबर्हिके दस लड़के—जिनका नाम प्रचेता था—जब समुद्रसे बाहर निकले, तब उन्होंने देखा कि हमारे पिताके निवृत्तिपरायण हो जानेसे सारी पृथ्वी पेड़ोंसे घिर गयी है॥ ४॥

वीरराघवः

गदितमेवाह । यदेत्यादिना । तत्र भगवान् बादरायणिर्विस्तरेण पृष्टं मनुसर्गं विवक्षुस्तावच्चतुर्थस्कन्धान्तोक्तं प्राचीनबर्हिषः पुत्राणां चरित्रमुपोद्धातत्वेन प्रस्तौति । यत आपूरीतास्त्रय इत्यन्तेन । प्रचेतसः प्राचीनबर्हिषो दश पुत्राः यदा अन्तः समुद्रात् समुद्रमध्यादुन्मग्नाः निर्गतास्तदा गां भूमिं ददृशुः कथंभूतां द्रुमैर्वृतां नारदोपदेशात् प्राचीनबर्हिषो निवृत्त्याऽराजके कृष्याद्यभावात् द्रुमैर्वृतामिति भावः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः।
मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया॥

मूलम्

3द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः।
मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया॥ ५ ॥

अनुवाद (हिन्दी)

उन्हें वृक्षोंपर बड़ा क्रोध आया। उनके तपोबलने तो मानो क्रोधकी आगमें आहुति ही डाल दी। बस, उन्होंने वृक्षोंको जला डालनेके लिये अपने मुखसे वायु और अग्निकी सृष्टि की॥ ५॥

वीरराघवः

द्रुमेभ्यः क्रुध्यमानास्तपसा उद्दीपितः मन्युः क्रोधो यैस्तादृशास्तेषां वृक्षाणां दिधक्षया दग्धुमिच्छया मुखाद्वायुमग्निं च ससृजुरुत्पादितवन्तः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह।
राजोवाच महान् सोमो मन्युं प्रशमयन्निव॥

मूलम्

ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह।
राजोवाच महान् सोमो मन्युं प्रशमयन्निव॥ ६ ॥

अनुवाद (हिन्दी)

परीक्षित्! जब प्रचेताओंकी छोड़ी हुई अग्नि और वायु उन वृक्षोंको जलाने लगी, तब वृक्षोंके राजाधिराज चन्द्रमाने उनका क्रोध शान्त करते हुए इस प्रकार कहा॥ ६॥

वीरराघवः

ताभ्यां वाय्वग्निभ्यां नितरां दह्यमानांस्तान् द्रुमानुपलभ्य दृष्ट्वा हे कुरूद्वह ! महान् सन् सोमो राजा चन्द्रः मन्युं तत्क्रोधं शमयन्निव प्रशमयितुमित्यर्थः । उवाच बोधितवान् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

मा द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ।
विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः॥

मूलम्

मा द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ।
विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः॥ ७ ॥

अनुवाद (हिन्दी)

‘महाभाग्यवान् प्रचेताओ! ये वृक्ष बड़े दीन हैं। आपलोग इनसे द्रोह मत कीजिये; क्योंकि आप तो प्रजाकी अभिवृद्धि करना चाहते हैं और सभी जानते हैं कि आप प्रजापति हैं॥ ७॥

वीरराघवः

किमुवाचेत्यपेक्षायां तदेवोक्तमाह । मा द्रुमेभ्यः इत्यादिना प्रतिगृह्यतामित्यन्तेन । हे महाभागाः ! दीनेभ्यो द्रोग्धुं मार्हथ कुतः यतो यूयं विवर्द्धयिषवः लोकान् वर्द्धयितुमिच्छवः प्रजानां पतयश्च स्मृताः उक्ताः विवर्द्वयिषूणां प्रजापतीनामिदं वनस्पतिदाहनमनुचितमिति भावः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

अहो प्रजापतिपतिर्भगवान् हरिरव्ययः।
वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः॥

मूलम्

अहो प्रजापतिपतिर्भगवान् हरिरव्ययः।
वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः॥ ८ ॥

अनुवाद (हिन्दी)

महात्मा प्रचेताओ! प्रजापतियोंके अधिपति अविनाशी भगवान् श्रीहरिने सम्पूर्ण वनस्पतियों और ओषधियोंको प्रजाके हितार्थ उनके खान-पानके लिये बनाया है॥ ८॥

वीरराघवः

सत्यं विवर्द्धयिषवः प्रजापतयश्च किं द्रुमैः प्रयोजनमित्यत्राह । आदाविति प्रजापतीनां ब्रह्मादीनामपि पतिर्विर्भुर्ह्यखिलदुमेष्वन्तरास्ते तथाप्यव्ययः असंस्पृष्टतद्गतविकारः भगवान् हरिरादौ जगदादिकाले वनस्पतीनोषधीश्च ससर्ज तान् तांश्च विशिनष्टि । ऊर्जमिषमिति । उर्जं पितॄनुद्दिश्य दीयमानमन्नम् इषं देवानुदिश्य दीयमानम् इषोर्जरूपा वनस्पतय इत्यर्थः । अयं भावः । देवपितृयज्ञावशिष्टान्नेन प्रजानां जीवनं विहितम् “यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः” इति स्मरणात् “भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्” इति यज्ञानवशिष्टान्नभक्षणनिन्दनाञ्च एवं देवाद्युपजीव्यान्नरूपेण परिणममानान् वनस्पत्यादीन्निर्दग्धुं मार्हथेति ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

अन्नं चराणामचरा ह्यपदः पादचारिणाम्।
अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः॥

मूलम्

अन्नं चराणामचरा ह्यपदः पादचारिणाम्।
अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः॥ ९ ॥

मूलम् - कर्णावती

अन्नं चराणामचरा ह्यपदः पादचारिणाम्।
अहस्तहस्तयुक्तानां द्विपदां च चतुष्पदः॥ ९ ॥

अनुवाद (हिन्दी)

संसारमें पाँखोंसे उड़नेवाले चर प्राणियोंके भोजन फल-पुष्पादि अचर पदार्थ हैं। पैरसे चलनेवालोंके घास-तृणादि बिना पैरवाले पदार्थ भोजन हैं; हाथवालोंके वृक्ष-लता आदि बिना हाथवाले और दो पैरवाले मनुष्यादिके लिये धान, गेहूँ आदि अन्न भोजन हैं। चार पैरवाले बैल, ऊँट आदि खेती प्रभृतिके द्वारा अन्नकी उत्पत्तिमें सहायक हैं॥ ९॥

वीरराघवः

एतदेवोपपादयति । अन्नमिति । यावत् पादचारिणां चराणां भूतानामपादचारिणोऽचराः अन्नमद्याः अचरेषु भूतेष्वद्यात्तृभावो नास्ति किंतु तेषामुपभोग्यत्वाकार एक एवेति भावः चरेषु त्वाकारद्वयमस्तीत्याह । अहस्ता इति । हस्तयुक्तानां द्विपदामहस्ताः चतुष्पदः अन्नमदनीयाः सामान्याभिप्रायकमेकत्वं क्लीबत्वं च । चरेषूभयाकारकथनं व्यतिरेकदृष्टान्तार्थम् । यथा चरेषु केषाञ्चिदत्तृत्वमन्येषामदनीयत्वं न तथाचेतनेषु किं त्वदनीयत्वमेवेति सर्वोपभोग्यत्वान्निरपराधत्वाच्च तद्द्रोहः न कार्य इति तात्पर्यम् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः।
प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ॥

मूलम्

यूयं च पित्रान्वा4दिष्टा देवदेवेन चानघाः।
प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ॥ १० ॥

अनुवाद (हिन्दी)

निष्पाप प्रचेताओ! आपके पिता और देवाधिदेव भगवान‍्ने आपलोगोंको यह आदेश दिया है कि प्रजाकी सृष्टि करो। ऐसी स्थितिमें आप वृक्षोंको जला डालें, यह कैसे उचित हो सकता है॥ १०॥

वीरराघवः

किञ्च । हे अनघाः ! यूयं पित्रा प्राचीनबर्हिषा देवदेवेन तपसा तोषितेन भगवता च प्रजासर्गाय निदिष्टा हि यतः एवमतः कथं वृक्षान्निर्दग्धुमर्हथ ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम्।
पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः॥

मूलम्

आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम्।
पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः॥ ११ ॥

अनुवाद (हिन्दी)

आपलोग अपना क्रोध शान्त करें और अपने पिता, पितामह, प्रपितामह आदिके द्वारा सेवित सत्पुरुषोंके मार्गका अनुसरण करें॥ ११॥

वीरराघवः

सतां साधूनां मार्गमातिष्ठताश्रयत । कथंभूतं वः युष्माकं पित्रा प्रचेतसा पितामहेन तत्पित्रा ये च वः युष्माकं प्रपितामहादयः तैश्च जुष्टं सेवितम् । पित्राद्याचरितमेव सन्मार्गमाश्रयतेत्यर्थः । दीपितं कोपं यच्छत उपसंहरत ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः।
पतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत्॥

मूलम्

तोकानां5 पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः।
पतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत्॥ १२ ॥

अनुवाद (हिन्दी)

जैसे माँ-बाप बालकोंकी, पलकें नेत्रोंकी, पति पत्नीकी, गृहस्थ भिक्षुकोंकी और ज्ञानी अज्ञानियोंकी रक्षा करते हैं और उनका हित चाहते हैं—वैसे ही प्रजाकी रक्षा और हितका उत्तरदायी राजा होता है॥ १२॥

श्लोक-१३

विश्वास-प्रस्तुतिः

अन्तर्देहेषु भूतानामात्माऽऽस्ते हरिरीश्वरः।
सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ॥

मूलम्

अन्तर्देहेषु 6भूतानामात्माऽऽस्ते हरिरीश्वरः।
सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ॥ १३ ॥

अनुवाद (हिन्दी)

प्रचेताओ! समस्त प्राणियोंके हृदयमें सर्वशक्तिमान् भगवान् आत्माके रूपमें विराजमान हैं। इसलिये आपलोग सभीको भगवान‍्का निवासस्थान समझें। यदि आप ऐसा करेंगे तो भगवान‍्को प्रसन्न कर लेंगे॥ १३॥

वीरराघवः

किञ्च । भगवतः सर्वरक्षकस्य शरीरत्वाद्वनस्पतिषु क्रोधोऽयुक्त इत्याह । तोकानामिति । तोकानां बालानां पितरौ यथा बन्धू रक्षकौ, यथा दृशः पक्ष्म बन्धुः, यथा च स्त्रियाः पतिर्बन्धुः तथा प्रजानां नृपः, यथा च भिक्षूणां भिक्षेत्यध्याहारः, यथा गुह्यज्ञानां प्रयोगकुशलानां बुधः मीमांसाभिज्ञः तथा भगवान् रक्षकः सुहृच्च भूतानामन्तर्देहेषु हृदयेष्वात्मेश्वरः अन्तः प्रविश्य नियन्ता हरिरास्तेऽतः सर्वं जगत् अस्य भगवतो धिष्ण्यमेवमीक्षणेऽसौ भगवान् वः युष्माकं तोषितो भवति । यद्वा । प्रतिनियतरक्षकत्वव्यवस्थामुल्लङ्घ्य कथं द्रोग्धुमर्हथेत्याह । तोकानामिति । पित्रादय इव प्रजानां चराचरात्मकानां नृपः बन्धुः रक्षकः सुहृच्च । किञ्च । भगवच्छरीत्वाच्च न द्रोहः कार्य इत्याह । अन्तर्-देहेष्विति । उक्त एवार्थः गुह्यज्ञानामिति भिक्षुविशेषणं वा गुह्यं रहस्यभूतं परमात्मस्वरूपादिकं ज्ञातुमिच्छूनां बुध इव तदुपदेष्टा विद्वानिवेत्यर्थः । रक्षणं च सर्वत्रानिष्टपरिहारेष्टप्रापणात्मकमेव ॥ १२-१३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

यः समुत्पतितं देह आकाशान्मन्युमुल्बणम्।
आत्मजिज्ञासया यच्छेत् स गुणानतिवर्तते॥

मूलम्

यः समुत्पतितं देह आकाशान्मन्युमुल्बणम्।
आत्मजिज्ञासया यच्छेत् स गुणानतिवर्तते॥ १४ ॥

अनुवाद (हिन्दी)

जो पुरुष हृदयके उबलते हुए भयंकर क्रोधको आत्मविचारके द्वारा शरीरमें ही शान्त कर लेता है, बाहर नहीं निकलने देता, वह कालक्रमसे तीनों गुणोंपर विजय प्राप्त कर लेता है॥ १४॥

वीरराघवः

किञ्च । क्रोधोपशमस्वाभ्युदयहेतुत्वाच्च तमुपसंहरतेत्याह । य इति । देहे आकाशात् समुत्पतितं तदृच्छयोत्पन्नमित्यर्थः । यद्वा । देहे आकाशाद्धृदयविवरात् समुत्पतितमुल्बणं दुःसहं मन्युं क्रोधमात्मजिज्ञासया स्वात्मपरमात्मयाथात्म्यविचारणेन यच्छेदुपसंहरेत् स पुमान् गुणान् सत्त्वादीनतिवर्त्तते क्रमेण संसारबन्धान्मुक्तो भवतीत्यर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः।
वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम्॥

मूलम्

अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः।
वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम्॥ १५ ॥

अनुवाद (हिन्दी)

प्रचेताओ! इन दीन-हीन वृक्षोंको और न जलाइये; जो कुछ बच रहे हैं, उनकी रक्षा कीजिये। इससे आपका भी कल्याण होगा। इस श्रेष्ठ कन्याका पालन इन वृक्षोंने ही किया है, इसे आपलोग पत्नीके रूपमें स्वीकार कीजिये’॥ १५॥

वीरराघवः

अतो दग्धैरत एव दीनैः दुमैरलं दीनद्रुमदाहनेनालमित्यर्थः । खिलानामवशिष्टानां द्रुमाणां वः युष्माकं च शिवमस्तु । वार्क्षी वृक्षैः पालिता एषा वरा सुलक्षणा कन्या मारिषाख्या पत्नीत्वेनेत्यर्थः । प्रतिगृह्यतां युष्माभिरिति शेषः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप।
सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे॥

मूलम्

इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप।
सोमो राजा ययौ 7दत्त्वा ते धर्मेणोपयेमिरे॥ १६ ॥

अनुवाद (हिन्दी)

परीक्षित्! वनस्पतियोंके राजा चन्द्रमाने प्रचेताओंको इस प्रकार समझा-बुझाकर उन्हें प्रम्लोचा अप्सराकी सुन्दरी कन्या दे दी और वे वहाँसे चले गये। प्रचेताओंने धर्मानुसार उसका पाणिग्रहण किया॥ १६॥

वीरराघवः

इतीत्थमामन्त्र्य सान्त्वयित्वाप्सरसमप्सरोदेहादाविर्भूतामृषिवीर्यसंभूतां वरारोहां वरैरारोढुमुद्वोढुं योग्यां कन्यां तेभ्यो दत्त्वा सोमो राजा ययौ गतः । ततस्ते प्रचेतसः सर्वे धर्मेण तामुपयेमिरे विवाहितवन्तः । धर्मेणेत्यनेन “अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा । अपृथग्धर्मशीलेयं भूयात् पत्न्यर्पिताशया” इति भगवतोक्तत्वाद्बहुभिरेकस्याः पाणिग्रहो दोषावह इति शङ्का न कार्येति सूचितम् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल।
यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः॥

मूलम्

तेभ्यस्तस्यां समभवद् दक्षः प्राचेतसः किल।
8यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः॥ १७ ॥

अनुवाद (हिन्दी)

उन्हीं प्रचेताओंके द्वारा उस कन्याके गर्भसे प्राचेतस् दक्षकी उत्पत्ति हुई। फिर दक्षकी प्रजा-सृष्टिसे तीनों लोक भर गये॥ १७॥

वीरराघवः

तेभ्यः प्रचेतोभ्यः तस्यामाप्सरस्यां हे राजन् ! दक्षः प्रजापतिः प्राचेतसोऽभूदुत्पन्नः पूर्वं ब्रह्मणोऽङ्गुष्ठाज्जातो दक्षाध्वरे रुद्रापराधवशात्तं देहं विहायास्यां मारिषायां प्राचेतसनामाजायतेत्यर्थः । तथाचोक्तं चतुर्थे “यस्यां महदवज्ञानादजन्यजनयोनिजः” इति प्राचेतसं विशिनष्टि । यस्येति । यस्य प्राचेतसस्य दक्षस्य प्रजासर्गेण त्रयो लोका आपूरिताः प्रायशो लोकत्रयस्थाः प्रजास्तत्सन्तानरूपा इत्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः।
रेतसा मनसा चैव तन्ममावहितः शृणु॥

मूलम्

यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः।
रेतसा मनसा चैव तन्ममावहितः शृणु॥ १८ ॥

अनुवाद (हिन्दी)

इनका अपनी पुत्रियोंपर बड़ा प्रेम था। इन्होंने जिस प्रकार अपने संकल्प और वीर्यसे विविध प्राणियोंकी सृष्टि की, वह मैं सुनाता हूँ, तुम सावधान होकर सुनो॥ १८॥

श्लोक-१९

विश्वास-प्रस्तुतिः

मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः।
देवासुरमनुष्यादीन्नभःस्थलजलौकसः॥

मूलम्

मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः।
देवासुरमनुष्यादीन्नभःस्थलजलौकसः॥ १९ ॥

अनुवाद (हिन्दी)

परीक्षित्! पहले प्रजापति दक्षने जल, थल और आकाशमें रहनेवाले देवता, असुर एवं मनुष्य आदि प्रजाकी सृष्टि अपने संकल्पसे ही की॥ १९॥

वीरराघवः

दक्षः प्राचेतसः दुहितृषु वात्सल्ययुक्तः रेतसा वीर्येण मनसा सङ्कल्पेन चेमाः प्रजाः ससर्ज काः देवादींस्तथा नभ एव स्थलं येषां जलमेवौकः स्थानं येषां तान् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः।
विन्ध्यपादानुपव्रज्य सोऽचरद् दुष्करं तपः॥

मूलम्

तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः।
विन्ध्यपादानुपव्रज्य सोऽचरद् 9दुष्करं तपः॥ २० ॥

अनुवाद (हिन्दी)

जब उन्होंने देखा कि वह सृष्टि बढ़ नहीं रही है, तब उन्होंने विन्ध्याचलके निकटवर्ती पर्वतोंपर जाकर बड़ी घोर तपस्या की॥ २०॥

वीरराघवः

तमेवं मनसा क्रियमाणं प्रजासर्गमबृंहितमवृद्धमालोच्य स प्रजापतिः प्राचेतसः विन्ध्यस्य पादान् प्रत्यन्तपर्वतानुपव्रज्य उपागत्य दुश्चरमितरैः कर्तुमशक्यं तप आचरत् कृतवान् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तत्राघमर्षणं नाम तीर्थं पापहरं परम्।
उपस्पृश्यानुसवनं तपसातोषयद्धरिम्॥

मूलम्

तत्राघमर्षणं नाम तीर्थं पापहरं परम्।
उपस्पृश्यानुसवनं तपसातोषयद्धरिम्॥ २१ ॥

मूलम् - कर्णावती

तत्राघमर्षणं नाम तीर्थं पापहरं परम्।
उपस्पृश्यानुसवनं तपसा तोषयद्धरिम्॥ २१ ॥

अनुवाद (हिन्दी)

वहाँ एक अत्यन्त श्रेष्ठ तीर्थ है, उसका नाम है—अघमर्षण। वह सारे पापोंको धो बहाता है। प्रजापति दक्ष उस तीर्थमें त्रिकाल स्नान करते और तपस्याके द्वारा भगवान‍्की आराधना करते॥ २१॥

वीरराघवः

तत्र विन्ध्यपादेषु त्रिकालमघमर्षणाख्यं पापहरं पुण्यं तीर्थमुपस्पृश्य तत्र स्नात्वेत्यर्थः । तपसा हरिमतोषयदाराधितवान् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम्।
तुभ्यं तदभिधास्यामि कस्यातुष्यद् यतो हरिः॥

मूलम्

अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम्।
तुभ्यं 10तदभिधास्यामि कस्यातुष्यद् यतो हरिः॥ २२ ॥

अनुवाद (हिन्दी)

प्रजापति दक्षने इन्द्रियातीत भगवान‍्की ‘हंसगुह्य’ नामक स्तोत्रसे स्तुति की थी। उसीसे भगवान् उनपर प्रसन्न हुए थे। मैं तुम्हें वह स्तुति सुनाता हूँ॥ २२॥

वीरराघवः

तथा भगवन्तमधोक्षजं हंसगुह्याख्येन स्तोत्रेणास्तौषीत्तदेव स्तोत्रं तुभ्यमभिधास्यामि स्तोत्रं विशिनष्टि । यतो येन स्तोत्रेण हरिः कस्य प्रजापतेर्दक्षस्यातुष्यत्तुष्टोऽभूत् । प्रसन्नोऽभूदित्यर्थः ॥ २२ ॥

श्लोक-२३

मूलम् (वचनम्)

प्रजापतिरुवाच

विश्वास-प्रस्तुतिः

नमः परायावितथानुभूतये
गुणत्रयाभासनिमित्तबन्धवे।
अदृष्टधाम्ने गुणतत्त्वबुद्धिभि-
र्निवृत्तमानाय दधे स्वयम्भुवे॥

मूलम्

नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे।
अदृष्टधाम्ने गुणतत्त्वबुद्धिभिर्निवृत्तमानाय दधे स्वयम्भुवे॥ २३ ॥

अनुवाद (हिन्दी)

दक्ष प्रजापतिने इस प्रकार स्तुति की—भगवन्! आपकी अनुभूति, आपकी चित्-शक्ति अमोघ है। आप जीव और प्रकृतिसे परे, उनके नियन्ता और उन्हें सत्तास्फूर्ति देनेवाले हैं। जिन जीवोंने त्रिगुणमयी सृष्टिको ही वास्तविक सत्य समझ रखा है, वे आपके स्वरूपका साक्षात्कार नहीं कर सके हैं; क्योंकि आपतक किसी भी प्रमाणकी पहुँच नहीं है—आपकी कोई अवधि, कोई सीमा नहीं है। आप स्वयंप्रकाश और परात्पर हैं। मैं आपको नमस्कार करता हूँ॥ २३॥

वीरराघवः

हंसगुह्याख्यं स्तोत्रमुपदिशति । नमः परायेत्यादिना । स ईश्वरो मे कुरुतान्मनोरथमित्यन्तेन ग्रन्थेन । तत्र प्रथमं प्रकृतिपुरुषविलक्षणं सत्यसङ्कल्पं प्रकृतेनियन्तारमपरिच्छिन्नं प्रमाणशून्यावधिं सर्वकारणं नमस्करोति । पराय चिद्विलक्षणाय तावच्चिद्व्यावर्त्तकधर्मयोगमाह । अवितथानुभूतये इति । अवितथाऽमोघाऽनुभूतिः सङ्कल्परूपात्मकं ज्ञानं यस्य सत्यसङ्कल्पायेत्यर्थः । जीवस्त्वसत्यसङ्कल्प इति ततः तेनास्य व्यावृत्तिः अचिद्व्यावर्त्तकधर्ममाह । गुणत्रयाभासनिमित्तबन्धवे गुणत्रयाभासः सत्त्वादिगुणात्रयोन्मेषस्तस्य निमित्तं कारणं प्रकृतिः तस्या बन्धवे आश्रयभूताय प्रकृतिशरीरकाय तन्नियन्त्रे इत्यर्थः । अनेनाचितोऽस्व व्यावृत्तिः एवं पदद्वयेन चिदचिद्व्यावृत्तिः । नन्वयं प्रजापतिवाक्योदिताविर्भूतसत्यसङ्कल्पः प्रकृतिविमुक्तः किं मुक्तो जीवः नेत्याह । गुणतत्त्वबुद्धिभिर्गुणत्रयकार्यभूतपृथिव्यादितत्त्वविषयबुद्धिभिरदृष्टमनुपलक्षितं धाम स्वरूपं यस्य मुक्तस्तु संसारदशायां पृथिव्यादिसङ्घातपरिणामभूतशरीरविषयबुद्धिभिर्देवोऽयं मनुष्योऽयमित्युपलक्षित इति ततोऽस्य तेनैव व्यावृत्तिः तर्हि किं नित्यसिद्धः नेत्याह । निवृत्तं मानं यस्मान्निवृत्तमानः तादृशोऽवधिरियत्ता यस्य स तथोक्तः प्रमाणशून्यावधये त्रिविधपरिच्छेदरहितस्वरूपायेत्यर्थः । नित्यसिद्धस्तु जीवः स्वरूपतः परिच्छिन्नः इति ततः तेनास्य व्यावृत्तिः स्वयम्भुवे स्वयं कारणान्तरशून्याय सर्वकारणायेति भावः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

न यस्य सख्यं पुरुषोऽवैति सख्युः
सखा वसन् संवसतः पुरेऽस्मिन्।
गुणो यथा गुणिनो व्यक्तदृष्टे-
स्तस्मै महेशाय नमस्करोमि॥

मूलम्

न यस्य सख्यं पुरुषोऽवैति सख्युः सखा वसन् संवसतः पुरेऽस्मिन्।
गुणो यथा गुणिनो व्यक्तदृष्टेस्तस्मै महेशाय नमस्करोमि॥ २४ ॥

अनुवाद (हिन्दी)

यों तो जीव और ईश्वर एक-दूसरेके सखा हैं तथा इसी शरीरमें इकट्ठे ही निवास करते हैं; परन्तु जीव सर्वशक्तिमान् आपके सख्यभावको नहीं जानता—ठीक वैसे ही, जैसे रूप, रस, गन्ध आदि विषय अपने प्रकाशित करनेवाली नेत्र, घ्राण आदि इन्द्रियवृत्तियोंको नहीं जानते। क्योंकि आप जीव और जगत‍्के द्रष्टा हैं, दृश्य नहीं। महेश्वर! मैं आपके श्रीचरणोंमें नमस्कार करता हूँ॥ २४॥

वीरराघवः

गुणत्रयाभासनिमित्तबन्धवे इत्यनेनाचिदाश्रयत्वमुक्तमथ चेतनबन्धुत्वमाह । न यस्येति । पुरे देहे संवसतः जीवान्तरात्मतया वसतः सख्युहितैककारिणः । यस्य परमात्मनः सख्यं तच्छेषभावं पुरुषो नावैति । गुणिनो रत्नादेर्गुण इव प्रभादिवत् अपृथक्सिद्धप्रकारभूतो वसन् तद्धार्यत्वेन वसन् सखा तद्गतातिशयाधानैकस्वरूपतया मित्रमयं पुरुषः नावैति नानुसन्धत्ते इत्यर्थः । तत्र हेतुरव्यक्तदृष्टिः । देहगोचरज्ञानः तस्मै सख्ये परमपुरुषाय नमस्करोमि । “द्वा सुपर्णौ” इति श्रुत्यर्थोऽत्र विवक्षितः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

देहोऽसवोऽक्षा मनवो भूतमात्रा
नात्मानमन्यं च विदुः परं यत्।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो
न वेद सर्वज्ञमनन्तमीडे॥

मूलम्

देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मानमन्यं च विदुः परं यत्।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे॥ २५ ॥

अनुवाद (हिन्दी)

देह, प्राण, इन्द्रिय, अन्तःकरणकी वृत्तियाँ, पंचमहाभूत और उनकी तन्मात्राएँ—ये सब जड होनेके कारण अपनेको और अपनेसे अतिरिक्तको भी नहीं जानते। परन्तु जीव इन सबको और इनके कारण सत्त्व, रज और तम—इन तीन गुणोंको भी जानता है। परन्तु वह भी दृश्य अथवा ज्ञेयरूपसे आपको नहीं जान सकता। क्योंकि आप ही सबके ज्ञाता और अनन्त हैं। इसलिये प्रभो! मैं तो केवल आपकी स्तुति करता हूँ॥ २५॥

वीरराघवः

नावैतीत्येतत् प्रपञ्चयति । देह इति । देहश्चासव इन्द्रियाणि प्राणा वा मनसः मनोवृत्तयः ज्ञानेन्द्रियाणि वा भूतानि पृथिव्यादीनि मात्रा गन्धादीनि तद्ग्राहकाणि कर्मेन्द्रियाणि वा एताः आत्मानं स्वस्वरूपं परं स्वेभ्यः विलक्षणमन्यं जीवात्मानं न विदुः पुमान् जीवस्तु यत् सर्वं देहादिकं तद्वेद जानातीत्यर्थः । एवं तत्तज्ज्ञो देहाद्यभिज्ञोऽपि जीवः देहादिकं स्वगुणान् स्वात्मानं च जानाति तं भगवन्तं सर्वज्ञं तद्गुणांश्च न वेद तमनन्तमपरिच्छिन्नमीडेस्तौमि देहादयो दृष्टान्तार्थमुपात्ताः यथा देहादयः स्वस्वरूपं तस्माद्विलक्षणं जीवात्मानं च न विदुरेवं पुमान् देहाद्यभिज्ञोऽपि सर्वज्ञं तद्गुणांश्च न वेदेत्यर्थः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

यदोपरामो मनसो नामरूप-
रूपस्य दृष्टस्मृतिसम्प्रमोषात्।
य ईयते केवलया स्वसंस्थया
हंसाय तस्मै शुचिसद्मने नमः॥

मूलम्

यदोपरामो मनसो नामरूपरूपस्य दृष्टस्मृतिसम्प्रमोषात्।
य ईयते केवलया 11स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः॥ २६ ॥

अनुवाद (हिन्दी)

जब समाधिकालमें प्रमाण, विकल्प और विपर्ययरूप विविध ज्ञान और स्मरणशक्तिका लोप हो जानेसे इस नाम-रूपात्मक जगत‍्का निरूपण करनेवाला मन उपरत हो जाता है, उस समय बिना मनके भी केवल सच्चिदानन्दमयी अपनी स्वरूपस्थितिके द्वारा आप प्रकाशित होते रहते हैं। प्रभो! आप शुद्ध हैं और शुद्ध हृदय-मन्दिर ही आपका निवासस्थान है। आपको मेरा नमस्कार है॥ २६॥

वीरराघवः

सर्वज्ञमित्यनेनाभिप्रेतं परमात्मनः सर्वज्ञत्वं जीवस्य परमात्मनां संश्लेषदशायामपि तदनभिज्ञतां चोपपादयति । यदेति । नामरूपरूपस्य देवमनुष्यब्राह्मणादिनामरूपकस्य मनसो यदादृष्टिस्मृतिसंप्रमोषाद्दृष्टस्य स्मृतिः स्मरणं स्वप्नावस्थोच्यते तस्याः संप्रमोषान्निवृत्त्योपरामः सुषुप्तिः तदा यः परमात्मा ईयते प्राप्यते जीवेन समन्वितो भवति “प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् एष सुप्तेषु जागर्त्ति” इति श्रुत्यर्थोऽत्र विवक्षितः जीवस्याप्रबोधेऽपि परमात्मा प्रबुद्ध इत्यर्थः । सर्वथा दुर्ज्ञेयत्वेऽनुपास्यत्वं स्यादिति शङ्कां वारयति । यदेति । केवलया इत्यनुषज्यते यश्च केवलया रागादिकालुष्यरहितया स्वसंस्थया स्वाभाविकज्ञानेनेयतेऽवगम्यते प्राप्यते वा तस्मै हंसाय शुद्धाय शुचिसद्मने शुद्धान्तःकरणद्मने उपासनविशुद्धान्तःकरणे संनिहितायेत्यर्थः । यद्वा । केवलया स्वसंस्थया हंसाय विशुद्धाय रागाद्यकलुषितेनापरिच्छिन्नानन्दरूपविषयकानित्यासङ्कुचितापरिच्छिन्नधर्मभूतज्ञानेन विशुद्धायास्पृष्टचिदचिद्धर्माय शुचिसद्मने उपासनया परिशुद्धमन्तःकरणं सद्म अभिव्यक्तिस्थानं यस्य तस्मै इत्यर्थः “हंसः शुचिषत्” इति श्रुत्यर्थोऽत्राभिप्रेतः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

मनीषिणोऽन्तर्हृदि संनिवेशितं
स्वशक्तिभिर्नवभिश्च त्रिवृद‍्भिः।
वह्निं यथा दारुणि पाञ्चदश्यं
मनीषया निष्कर्षन्ति गूढम्॥

मूलम्

मनीषिणोऽन्तर्हृदि संनिवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद‍्भिः।
वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम्॥ २७ ॥

अनुवाद (हिन्दी)

जैसे याज्ञिक लोग काष्ठमें छिपे हुए अग्निको ‘सामिधेनी’ नामके पन्द्रह मन्त्रोंके द्वारा प्रकट करते हैं, वैसे ही ज्ञानी पुरुष अपनी सत्ताईस शक्तियोंके भीतर गूढभावसे छिपे हुए आपको अपनी शुद्ध बुद्धिके द्वारा हृदयमें ही ढूँढ़ निकालते हैं॥ २७॥

वीरराघवः

शुचिसद्मन इत्येतदेव प्रपञ्चयति । मनीषिण इति । त्रिवृद्भिः त्रयाणां वृद्वर्त्तनं यत्र तत्त्रिवृत्त्रिकमित्यर्थः । तद्रूपाभिस्त्रिकत्रयमापन्नाभिरिति यावत् नवभिः शक्तिभिः । “श्रिया पुष्ठ्या गिरा कान्त्या कीर्त्त्या तुष्ट्येलयोर्जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम्” इति वक्ष्यमाणाभिः शक्तिभिः कार्योपयोग्यपृथक्सिद्धविशेषणरूपाभिः शक्तिभिः सहान्तर्हृदि संनिवेशितं स्वेच्छया संनिविष्टं गूढं बाह्यैः करणैरग्राह्यम् अनेन “तं दुर्द्दर्शं गूढमनुप्रविष्ठं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा” इति श्रुत्यर्थोऽत्र विवक्षितः दुर्द्दर्शं मनसा ग्रहीतुमशक्यं गुहायां हृदये निहितं गह्वरे जीवे तिष्ठतीत्यन्तरान्मतयेति तथा यं मनीषिणः परमात्मयाथात्म्यविवेचनकुशलाः मनीषया योगपरिशुद्धया धिया निष्कर्षन्ति प्रकृतिपुरुषाभ्यां विविच्य पश्यन्तीत्यर्थः । यथा मथ्ना मथनसाधनेनोक्षरारणिना दारुण्यधस्तमारणौ पाञ्चदश्यमग्निं निष्कर्षन्ति तद्वत्पाञ्चदश्यं पञ्चदशीयकर्मसम्बन्धिनं दर्शपूर्णमासानुष्ठानं हि पञ्चदश्युपक्रममग्न्याधानमपीति वैदिकोऽग्निः पाञ्चदश्य इत्युच्यते यं निष्कर्षन्ति स वा इत्युत्तरेणान्वयः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

स वै ममाशेषविशेषमाया-
निषेधनिर्वाणसुखानुभूतिः।
स सर्वनामा स च विश्वरूपः
प्रसीदतामनिरुक्तात्मशक्तिः॥

मूलम्

स वै ममाशेषविशेषमायानिषेधनिर्वाणसुखानुभूतिः।
स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः॥ २८ ॥

अनुवाद (हिन्दी)

जगत‍्में जितनी भिन्नताएँ देख पड़ती हैं, वे सब मायाकी ही हैं। मायाका निषेध कर देनेपर केवल परम सुखके साक्षात्कारस्वरूप आप ही अवशेष रहते हैं। परन्तु जब विचार करने लगते हैं, तब आपके स्वरूपमें मायाकी उपलब्धि—निर्वचन नहीं हो सकता। अर्थात् माया भी आप ही हैं। अतः सारे नाम और सारे रूप आपके ही हैं। प्रभो! आप मुझपर प्रसन्न होइये। मुझे आत्मप्रसादसे पूर्ण कर दीजिये॥ २८॥

वीरराघवः

एवमुक्तविधं परमात्मानमन्यैश्च तदसाधारणैर्द्धमैर्विशिषंस्तदनुग्रहं प्रार्थयते । स वा इति । स वै उक्तविधो भगवानशेषाः सर्वे विशेषा विकारा यस्यास्तस्या मायायाः निवृत्त्या यान्नैवीणसुखं दुःखासंभिन्नं मोक्षसुखं तस्मिन्ननुभूतिरनुभवो यस्य मुक्तानामनुभवविषय इत्यर्थः । य ईदृशः स एव सर्वनामा सर्वैः शब्दैर्वाच्य इत्यर्थः । सर्वशब्दनाम यस्येति वा “सर्वः शर्वः शिवः स्थाणुः” इतिनामपाठात् सर्वशब्दप्रवृत्तिनिमित्तपौष्कल्याश्रय इत्यर्थः । सर्वनामत्वे हेतुः स च विश्वरूप इति विश्वशरीरकत्वात् सर्वशब्दवाच्य इति भावः । विश्वान्तर्गतवस्तुवाचिनः शब्दास्तच्छरीरं तमेवाभिदधति शरीरवाचिनां शब्दानां शरीरिपर्यन्तबोधनशक्तेः यद्वा । सर्वशब्दस्य कृत्स्नजगद्वाचित्वात् तस्य च तच्छरीरत्वात्प्रवृत्तिनिमित्तपौष्कल्येन तमेवाभिधत्त इति भावः । ननु विश्वरूपत्वं परगतधर्मासंस्पर्शनं चेति कथमुभयं तत्राह । अनिरुक्तात्मशक्तिः वाङ्मनसापरिच्छेद्याः स्वाभाविक्यः शक्तयो यस्य सः विचित्रशक्तित्वात्तदुभयोपपत्तिरिति भावः । एवंभूतो भगवान् मम प्रसीदतां मामनुगृह्णात्वित्यर्थः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

यद्यन्निरुक्तं वचसा निरूपितं
धियाक्षभिर्वा मनसा वोत यस्य।
मा भूत् स्वरूपं गुणरूपं हि तत्तत्
स वै गुणापायविसर्गलक्षणः॥

मूलम्

यद्यन्निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसा वोत यस्य।
मा भूत् स्वरूपं गुणरूपं हि तत्तत् स वै गुणापायविसर्गलक्षणः॥ २९ ॥

अनुवाद (हिन्दी)

प्रभो! जो कुछ वाणीसे कहा जाता है अथवा जो कुछ मन, बुद्धि और इन्द्रियोंसे ग्रहण किया जाता है, वह आपका स्वरूप नहीं है; क्योंकि वह तो गुणरूप है और आप गुणोंकी उत्पत्ति और प्रलयके अधिष्ठान हैं। आपमें केवल उनकी प्रतीतिमात्र है॥ २९॥

वीरराघवः

ननु यदि विश्वं तस्य शरीरं न तु स्वरूपं तर्हि केन लक्ष्यते इत्यत्राह । यद्यदिति । यद्यद्वचसा निरुक्तं शब्देनाभिहितं जातिगुणादिकं प्रवृत्तिनिमित्तीकृत्य शब्देन बोधितं तथा धिया निरूपितं व्यवसितमक्षभिरिन्द्रियैर्गृहीतमुतापि मनसा निरूपितं सङ्कल्पितं यद्यपि यस्य स्वरूपमाभून्न भवति किन्तु शरीरमेवेति भावः । वचआदिभिर्निरुक्तादेस्तत्स्वरूपत्वाभावे हेतुः गुणरूपहेत्विति गुणरूपाः सत्त्वादिगुणात्मका हेतवो यस्य तद्गुणरूपहेतु सत्त्वादिगुणत्रयकार्यं सत्त्वादिगुणगतमेव न तु तत्स्वरूपगतोऽसाधारणो धर्मो येन तदुपलक्ष्यं परमात्मस्वरूपं स्यात् गुणरूपं हि तदिति पाठे हि यस्मात्तद्गुणानामेव रूपं गुणरूपं वर्द्धितमिति पाठान्तरे गुणरूपैः सत्त्वादिगुणगतैरसाधारणाकारैर्वर्धितमारब्धमित्यर्थः । तथाप्यसौ परमात्मा गुणापायविसर्गलक्षणः गुणकार्यभूतप्रपञ्चस्य संहारसर्गौ लक्षणं यस्य तथोक्तः अपायविसर्गाभ्यां स्थितिरपि लक्ष्यते यद्यपि कार्यात्मकं जगन्न परमात्मनो लक्षणं तथापि कार्यप्रपञ्चगतोत्पत्तिस्थितिप्रलयकारणत्वं परमात्मनोऽसाधारणो धर्म इति तेन तत्स्वरूपमुपलक्ष्यते इत्यर्थः । प्रपञ्चजन्मादिकारणत्वमपि न परमात्मनः स्वरूपविशेषणतया लक्षणं कारणत्वस्य चिदचिद्विशिष्टब्रह्मनिष्ठत्वेन विशेष्यभूतब्रह्मस्वरूपनिष्ठत्वाभावात् । किं तु चन्द्रादेः शाखाग्रादिवत्तदुपलक्षणतया लक्षणमिति बोध्यम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

यस्मिन् यतो येन च यस्य यस्मै
यद् यो यथा कुरुते कार्यते च।
परावरेषां परमं प्राक् प्रसिद्धं
तद् ब्रह्म तद्धेतुरनन्यदेकम्॥

मूलम्

यस्मिन् यतो येन च यस्य यस्मै यद् यो यथा कुरुते कार्यते च12
परावरेषां परमं प्राक् प्रसिद्धं तद् ब्रह्म तद्धेतुरनन्यदेकम्॥ ३० ॥

अनुवाद (हिन्दी)

भगवन्! आपमें ही यह सारा जगत् स्थित है; आपसे ही निकला है और आपने—और किसीके सहारे नहीं—अपने-आपसे ही इसका निर्माण किया है। यह आपका ही है और आपके लिये ही है। इसके रूपमें बननेवाले भी आप हैं और बनानेवाले भी आप ही हैं। बनने-बनानेकी विधि भी आप ही हैं। आप ही सबसे काम लेनेवाले भी हैं। जब कार्य और कारणका भेद नहीं था, तब भी आप स्वयंसिद्ध स्वरूपसे स्थित थे। इसीसे आप सबके कारण भी हैं। सच्ची बात तो यह है कि आप जीव-जगत‍्के भेद और स्वगतभेदसे सर्वथा रहित एक, अद्वितीय हैं। आप स्वयं ब्रह्म हैं। आप मुझपर प्रसन्न हों॥ ३०॥

वीरराघवः

इति । उपक्रान्तं परत्वं तत्प्रयुक्तं निःसमाभ्यधिकत्वं च विशेष्यनिष्ठमित्यभिप्रायेण परमं परावरेषामिति चोक्तं परावरेषां ब्रह्मादिजीवानामपि परं कारणमात्रस्याधिष्ठात्रपेक्षत्वशङ्कां वारयति । एकमिति । निस्समाभ्यधिकमेकमेव प्राक्प्रसिद्धमित्यर्थः । इदं चैकत्वं स्वरूपनिष्ठमिति विशेष्याकारेण निमित्तत्वं विशिष्टाकारेण उपादानत्वमित्युक्तं भवति । लोके मृत्कुलालयोर्जडत्वादसर्वशक्तित्वाच्च तयोर्निमित्तोपादानयोर्भेदः परमात्मनस्तु चिदचिद्विशिष्टस्य सर्वशक्तित्वाज्जगदाकारेण परिणामस्य सर्वज्ञत्वान्निमित्तत्वस्य चोपपत्तिरित्यभिप्रायः । यद्वा । तद्धेतुरित्यनेन निमित्तकारणत्वमुच्यते एकमित्यनेनैकमेवाद्वितीयमित्यादाविवाविभक्तनामरूपसूक्ष्मचिदचिद्विशिष्टत्वमुच्यते प्रपञ्चस्यानेककारकात्मत्वेन बहुत्वस्य पूर्वमुक्तत्वात्तस्य च नामरूपविभागनिबन्धनत्वात्तत्प्रतिसम्बन्धिनामरूपविभागाभावनिबन्धनैकत्वस्यैकपदग्राह्यत्वौचित्यात् तथाचैकमविभक्तनामरूपत्वेन सूक्ष्मचिदचिद्विशिष्टं ब्रह्म प्राक्प्रसिद्धमित्यर्थः । ब्रह्मेत्यनेन निमित्तत्वोपादानत्वोपयुक्तसार्वज्ञ्यसत्यसङ्कल्पत्वादिमुणानन्त्यरूपनिरतिशयबृहत्त्वमुच्यते ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

यच्छक्तयो वदतां वादिनां वै
विवादसंवादभुवो भवन्ति।
कुर्वन्ति चैषां मुहुरात्ममोहं
तस्मै नमोऽनन्तगुणाय भूम्ने॥

मूलम्

यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति।
कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने॥ ३१ ॥

अनुवाद (हिन्दी)

प्रभो! आपकी ही शक्तियाँ वादी-प्रतिवादियोंके विवाद और संवाद (ऐकमत्य)-का विषय होती हैं और उन्हें बार-बार मोहमें डाल दिया करती हैं। आप अनन्त अप्राकृत कल्याण-गुणगणोंसे युक्त एवं स्वयं अनन्त हैं। मैं आपको नमस्कार करता हूँ॥ ३१॥

वीरराघवः

ननु विश्वं परमाणुकारणकमीश्वरस्तु निमित्तमिति वैशेषिकादयः । प्रधानकारणकं पुरुषातिरेकेणेश्वरः स्यान्न वा पुरुषस्तु निमित्तमात्रमिति साङ्ख्यादयो वदन्ति । किञ्च । सर्वमपि वस्तु नित्यमनित्यं च भिन्नमभिन्नञ्चेति । तथा सदसत् सदसदात्मकञ्चेति वदन्ति । अतः कथं कृत्स्नस्य जगतः ब्रह्मैककारणत्वं तदनन्यत्वञ्चोच्यते इतीमां शङ्कां परिहरन्नमस्करोति । यच्छक्तय इति वदतां ग्रन्थनिबन्धनेन स्वशास्त्रमुपदिशतामित्यर्थः । वादिनां वादं कुर्वतां वैशेषिकादीनां यस्य परमात्मनः शक्तयः पृथिव्यादयः विवादसम्वादयोः परस्परविरुद्धयोः वादयोः भुवः विषयभूता भवन्ति । शक्तिशब्देन पृथिव्यादय उच्यन्ते । तेषां भगवतः कार्योपयोग्यपृथक्सिद्धविशेषणत्वात्तथा च भगवान् पराशरः “एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत्” इति जगदात्मकान् पृथिव्यादीन् शक्तिशब्देन व्यपदिष्टवान् । ननु सर्वैरपि पृथिव्यादिस्वरूपाभ्युपगमान्नानेकविवादभुवस्तत्राह । कुर्वन्तीति । यस्य शक्तयः पृथिव्यादयः आत्ममोहं स्वविषयकमोहं तेषां वादिनां कुर्वन्ति । पृथिव्यादिस्वरूपाभ्युपगमेऽपि परमाणुकारणकत्वनित्यानित्यत्वभिन्नाभिन्नत्वसदसत्त्वादिप्रकारविप्रतिपत्तिं कुर्वन्ति । प्रधानकारणकत्वविप्रतिपत्तिविषयप्रकारवत्यः शक्तयो भवन्ति इत्यर्थः । तस्मै अनन्तगुणायासङ्ख्येयकल्याणगुणगणाय भूम्ने स्वरूपतोऽपि बृहते नमः । यद्यप्येवं वादिनां विवादास्तथापि पृथिव्यादीनां परमात्मशरीरत्वतत्कारणकत्वयोः पृथिव्याद्यवस्थाया अनित्यत्वेऽपि द्रव्यस्य नित्यतायाः तस्य सततपरिणामत्वेनासदात्मकत्वानादेश्च श्रुतिस्मृत्यादिबहुप्रमाणप्रतिपन्नत्वेनावैदिकानां केवलं विप्रतिपत्तिरेवेति भावः । श्रुतयस्तु “यस्यात्मा शरीरं यस्य पृथ्वी शरीरं यस्याक्षरं शरीरं यस्याव्यक्तं शरीरमात्मन आकाशः सम्भूतः तोयेन जीवान् विससर्ज भूम्यां नासदासीन्नो सदासीत्तदानीं तम आसीत्” इत्यादयः स्मृतयश्च “विष्णोः सकाशादुद्भूतम् अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । यदम्बु वैष्णवः कायस्ततो विप्र ! वसुन्धरा । पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता । तदेतदक्षयं नित्यं जगत् स्थावरजङ्गमम् । प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । सद्भाव एवं भवतो यमोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्" इत्यादयोऽनुसन्धेयाः । अनन्तगुणायेत्यनेन निर्गुणत्ववादो भ्रममूलक इति सूचितम् । “यः सर्वज्ञः सर्ववित्" इत्यादिबहुश्चुतिभिः कल्याणगुणाकरत्वस्य सम्प्रतिपन्नत्वात् । भूम्न इत्यनेन जीवानामभूमत्वं ज्ञापतम् । एवं पृथिव्यादिस्वरूपाभ्युपगमेऽपि तत्प्रकारविप्रतिपत्तिरुक्तेति ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

अस्तीति नास्तीति च वस्तुनिष्ठयो-
रेकस्थयोर्भिन्नविरुद्धधर्मयोः।
अवेक्षितं किञ्चन योगसांख्ययोः
समं परं ह्यनुकूलं बृहत्तत्॥

मूलम्

अस्तीति नास्तीति च वस्तुनिष्ठयोरेकस्थयोर्भिन्नविरुद्धधर्मयोः।
अवेक्षितं किञ्चन योगसांख्ययोः समं परं ह्यनुकूलं बृहत्तत्॥ ३२ ॥

अनुवाद (हिन्दी)

भगवन्! उपासकलोग कहते हैं कि हमारे प्रभु हस्त-पादादिसे युक्त साकार-विग्रह हैं और सांख्यवादी कहते हैं कि भगवान् हस्त-पादादिविग्रहसे रहित—निराकार हैं। यद्यपि इस प्रकार वे एक ही वस्तुके दो परस्पर विरोधी धर्मोंका वर्णन करते हैं, परन्तु फिर भी उसमें विरोध नहीं है। क्योंकि दोनों एक ही परम वस्तुमें स्थित हैं। बिना आधारके हाथ-पैर आदिका होना सम्भव नहीं और निषेधकी भी कोई-न-कोई अवधि होनी ही चाहिये। आप वही आधार और निषेधकी अवधि हैं। इसलिये आप साकार, निराकार दोनोंसे ही अविरुद्ध सम परब्रह्म हैं॥ ३२॥

वीरराघवः

इदानीं परमात्मरूपप्रतिपत्तिं वदन् वादिविप्रतिपत्तीनां शास्त्रानुसारेण परिहार्यत्वमाह । अस्तीति । घटपटादिवस्तुनिष्ठावस्तित्वनास्तित्वधर्मौ दृष्टौ योगसाङ्ख्ययोर्मतयोः । तावेकस्थावीश्वरविषयौ चेद्विरुद्वौ स्याताम् । एवमस्तित्वनास्तित्वयोर्भिन्नयोर्विरुद्धयोर्धर्मयोर्व्यवह्रियमाणयोः सतोरप्यकिञ्चनापेक्षितं वेदान्तवाक्यमपेक्षितम् । अतीन्द्रियेश्वरविषयकास्तित्वनास्तित्वयोः प्रमाणजिज्ञासायामनादिनिधानाविच्छिन्नसम्प्रदायासम्भाव्यमानदोषगन्धं वेदान्तवाक्यमेव प्रमाणमपेक्षितमित्यर्थः । तच्च वेदान्तवाक्यं “सत्यं ज्ञानम्” इत्यादि । तद्गम्यं च सममेकरूपमनुकूलमानन्दरूपं परं सर्वविलक्षणं बृहदपरिच्छिन्नमतो वेदान्तवाक्यरूपं प्रमाणं विहाय केवलास्तित्वनास्तित्वविवादो भ्रममूलो व्यर्थ इति भावः । यद्वा । अनन्तगुणायेत्यनेन गुणा न सन्तीति वादो भ्रममूल इति सूचितम् । तदेवोपपादयति । अस्तीति । “यः सर्वज्ञ” इत्यादिभिर्गुणजातमस्तीत्यवगम्यते निष्क्रियं निष्कलमित्यादिभिर्नैर्गुण्यं तौ चास्तित्वनास्तित्वधर्मावुभावेकवस्तुनिष्ठौ चेद्विरुद्धौ । तयोश्च भिन्नाधिकरणयोर्विरुद्धयोर्धर्मयोर्वस्तुनिष्ठयोरेकस्थयोः सतोरेकस्मिन्वस्तुनि तयोर्विरोधे सतीत्यर्थः । तत्रान्यतरव्यवस्थापकं किञ्चिद्ब्रह्मस्वरूपशोधकं वेदान्तवाक्यं प्रमाणमपेक्षितम् । एवं साङ्ख्ययोगयोरपि समं तुल्यं तयोरपीश्वरस्वरूपसद्भावाभावयोर्विरोधे सत्यन्यतरव्यवस्थापकं किञ्चित्प्रमाणमपेक्षितमित्यर्थः । तच्च वाक्यं “सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिकं तद्वाक्यप्रतिपन्नं च वस्तु परमनुकूलं बृहच्च । परत्वानुकूलत्वबृहत्त्वादिगुणयुक्तमिति निर्गुणवादो निरीश्वरवादश्च भ्रममूलक इति भावः । योगसाङ्ख्ययोरिति दृष्टान्तार्थं तयोर्मध्ये यथा निरीश्वरवादस्तथागुणासत्त्वत्वादोऽपीति । अत्र परशब्देन प्रकृतिपुरुषविलक्षणवाचिना सत्यशब्दार्थो विवक्षितः । अनुकूलशब्देन ज्ञानशब्दार्थो व्याख्यातः । आनन्दरूपज्ञानस्यैवानुकूलत्वात् बृहत्पदेनानन्तशब्दार्थः । स्वरूपेण गुणैश्चापरिच्छिन्नं हि बृहच्छब्दार्थः सङ्कोचकप्रमाणाभावात् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

योऽनुग्रहार्थं भजतां पादमूल-
मनामरूपो भगवाननन्तः।
नामानि रूपाणि च जन्मकर्मभि-
र्भेजे स मह्यं परमः प्रसीदतु॥

मूलम्

योऽनुग्रहार्थं भजतां पादमूलमनामरूपो भगवाननन्तः।
नामानि रूपाणि च जन्मकर्मभिर्भेजे स मह्यं परमः प्रसीदतु॥ ३३ ॥

अनुवाद (हिन्दी)

प्रभो! आप अनन्त हैं। आपका न तो कोई प्राकृत नाम है और न कोई प्राकृत रूप; फिर भी जो आपके चरणकमलोंका भजन करते हैं, उनपर अनुग्रह करनेके लिये आप अनेक रूपोंमें प्रकट होकर अनेकों लीलाएँ करते हैं तथा उन-उन रूपों एवं लीलाओंके अनुसार अनेकों नाम धारण कर लेते हैं। परमात्मन्! आप मुझपर कृपा-प्रसाद कीजिये॥ ३३॥

वीरराघवः

एवं वादिनां विप्रतिपत्तिविषयत्वेन ब्रह्मस्वरूपतद्गुणतच्छक्तीनां दुर्ज्ञेयत्वमुक्तम् । अथैवं दुर्ज्ञेयस्वरूपगुणशक्तिरप्याश्रितसुलभ इति वदन् तदनुग्रहं प्रार्थयते । यो भगवान् स्वपादमूलं भजतामनुग्रहार्थं स्वयमनामरूपः । कर्मकृतनामरूपरहितोऽपि जन्मकर्मभिरवतारचेष्टितैः सह नामानि दुरितक्षपणक्षमाणि रामकृष्णादिनामानि रूपाणि स्वेच्छोपात्तान्यप्राकृतानि शरीराणि च भेजे आत्मानं दर्शयितुं परिगृहीतवान् । स परमः निःसमाभ्यधिकः मह्यं प्रसीदताम् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

यः प्राकृतैर्ज्ञानपथैर्जनानां
यथाशयं देहगतो विभाति।
यथानिलः पार्थिवमाश्रितो गुणं
स ईश्वरो मे कुरुतान्मनोरथम्॥

मूलम्

यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति।
यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतान्मनोरथम्॥ ३४ ॥

अनुवाद (हिन्दी)

लोगोंकी उपासनाएँ प्रायः साधारण कोटिकी होती हैं। अतः आप सबके हृदयमें रहकर उनकी भावनाके अनुसार भिन्न-भिन्न देवताओंके रूपमें प्रतीत होते रहते हैं—ठीक वैसे ही जैसे हवा गन्धका आश्रय लेकर सुगन्धित प्रतीत होती है; परन्तु वास्तवमें सुगन्धित नहीं होती। ऐसे सबकी भावनाओंका अनुसरण करनेवाले प्रभु मेरी अभिलाषा पूर्ण करें॥ ३४॥

वीरराघवः

एवं स्वेच्छोपात्ताप्राकृतदिव्यमङ्गलविग्रहविशिष्टो भक्तानुग्रहार्थमवतीर्णस्तैरुपलभ्यत इत्युक्तम् । विश्वरूपेणापि तैरुपलभ्यत इत्याह । यः प्राकृतैरिति । प्राकृतार्थगोचरैर्ज्ञानपथैरिन्द्रियैर्यथाशयं मनोवृत्त्यनुगुणमिन्द्रियाणां मनोवृत्त्यनुगुणप्रवृत्तेः देहगतः स्वदेहभूतचिदचिद्वस्तुगतो विभाति प्रकाशते । अयमर्थः । यथा राजशरीरे दृष्टे राजा दृष्टो भवति एवं जगतः परमात्मशरीरत्वात् जगद्याथात्म्यविद्भिर्जगद्दर्शने सति परमात्मा दृष्टो भवतीति । जगद्विलक्षणस्याप्यस्य विशिष्टतया प्रकाशे दृष्टान्तमाह । यथाऽनिल इति । स्वयं पृथिवीविलक्षणो वायुः पार्थिवगुणमाश्रितः पार्थिवपुष्पपरागसंस्पृष्टो गन्धवह इति प्रकाशते । तद्वज्जगद्विलक्षणोऽपि जगच्छरीरकत्वात्तन्मात्ररूपभाक्तया परमात्मावभासत इत्यर्थः । “काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने नमः” इत्याद्युक्तम् ॥ ३४ ॥

श्लोक-३५

मूलम् (वचनम्)

श्रीशुक13 उवाच

विश्वास-प्रस्तुतिः

इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे।
आविरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः॥

मूलम्

इति स्तुतः14 संस्तुवतः स तस्मिन्नघमर्षणे।
15आविरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः॥ ३५ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! विन्ध्याचलके अघमर्षण तीर्थमें जब प्रजापति दक्षने इस प्रकार स्तुति की, तब भक्तवत्सल भगवान् उनके सामने प्रकट हुए॥ ३५॥

वीरराघवः

एवं तुभ्यमुपदिष्टेनानेन स्तोत्रेणभिष्टुतो भगवान् प्राचेतसस्य प्रसन्नोऽभूदित्याह मुनिः । इतीति । हे कुरुश्रेष्ठ ! इतीत्थं स्तुतो भगवान् तस्मिन्नघमर्षणे तीर्थे संस्तुवतो दक्षस्य प्रादुरासीत् प्रत्यक्षोऽभूत् पुरत इति शेषः । तत्र हेतुः भक्तवत्सलः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः।
चक्रशङ्खासिचर्मेषुधनुःपाशगदाधरः॥

मूलम्

कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः।
चक्रशङ्खासिचर्मेषुधनुःपाशगदाधरः॥ ३६ ॥

अनुवाद (हिन्दी)

उस समय भगवान् गरुड़के कंधोंपर चरण रखे हुए थे। विशाल एवं हृष्ट-पुष्ट आठ भुजाएँ थीं; उनमें चक्र, शंख, तलवार, ढाल, बाण, धनुष, पाश और गदा धारण किये हुए थे॥ ३६॥

वीरराघवः

प्रादुर्भूतं भगवन्तं वर्णयति । कृतपाद इति । सुपर्णस्य गरुत्मतोंऽसे स्कन्धयोः कृतौ विन्यस्तौ पादौ येन । प्रलम्बा आजानुलम्बिनः अष्टौ महाभुजा यस्य । शङ्खाद्यायुधधरः । तत्रासिः खङ्गः चर्म खेटः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

पीतवासा घनश्यामः प्रसन्नवदनेक्षणः।
वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः॥

मूलम्

पीतवासा घनश्यामः प्रसन्नवदनेक्षणः।
वनमालानि16वीताङ्गो लसच्छ्रीवत्सकौस्तुभः॥ ३७ ॥

मूलम् - कर्णावती

पीतवासा घनश्यामः प्रसन्नवदनेक्षणः।
वनमालानिबीताङ्गो लसच्छ्रीवत्सकौस्तुभः॥ ३७ ॥

अनुवाद (हिन्दी)

वर्षाकालीन मेघके समान श्यामल शरीरपर पीताम्बर फहरा रहा था। मुखमण्डल प्रफुल्लित था। नेत्रोंसे प्रसादकी वर्षा हो रही थी। घुटनोंतक वनमाला लटक रही थी। वक्षःस्थलपर सुनहरी रेखा—श्रीवत्सचिह्न और गलेमें कौस्तुभमणि जगमगा रही थी॥ ३७॥

वीरराघवः

पीते वाससी यस्य सः । घन इव श्यामः प्रसन्नं वदनमीक्षणं च यस्य सः । वनमालया निवीतमङ्गं यस्य सः । लसन् श्रीवत्सः कौस्तुभश्च यस्य सः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

महाकिरीटकटकः स्फुरन्मकरकुण्डलः।
काञ्‍च्‍यङ्गुलीयवलयनूपुराङ्गदभूषितः॥

मूलम्

महाकिरीटकटकः स्फुरन्मकरकुण्डलः।
काञ्‍च्‍यङ्गुलीयवलयनूपुराङ्गदभूषितः॥ ३८ ॥

अनुवाद (हिन्दी)

बहुमूल्य किरीट, कंगन, मकराकृति कुण्डल, करधनी, अँगूठी, कड़े, नूपुर और बाजूबंद अपने-अपने स्थानपर सुशोभित थे॥ ३८॥

वीरराघवः

महान्ति किरीटं स्फुरन्ती कटके च यस्य सः । मकराकारे कुण्डले यस्य काञ्च्यादिभिर्भूषितः अलङ्कृतः । तत्र काञ्ची कटिमेखला वलयमत्र पादभूषणं कटकस्योक्तत्वात् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः।
वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः॥

मूलम्

त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः।
वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः॥ ३९ ॥

वीरराघवः

त्रैलोक्यं मोहयतीति त्रैलोक्यमोहनं नन्द्यादित्वाल्ल्युः । श्रीपुरुषोतममन्त्रोपास्यं श्रीपुरुषोत्तमाख्यं तद्रूपं बिभ्रत त्रिभुवनेश्वरः । नारदादिभिः पार्षदैः सुरश्रेष्ठैश्च परिवृतः । अनु पृष्ठतो गायद्भिः सिद्धादिभिरनुवृतः अनुसृतः एवम्विधः प्रादुरासीदिति पूर्वेणान्वयः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

स्तूयमानोऽनुगायद‍्भिः सिद्धगन्धर्वचारणैः।
रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः॥

मूलम्

स्तूयमानोऽनुगायद‍्भिः सिद्धगन्धर्वचारणैः।
रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः॥ ४० ॥

अनुवाद (हिन्दी)

त्रिभुवनपति भगवान‍्ने त्रैलोक्यविमोहन रूप धारण कर रखा था। नारद, नन्द, सुनन्द आदि पार्षद उनके चारों ओर खड़े थे। इन्द्र आदि देवेश्वरगण स्तुति कर रहे थे तथा सिद्ध, गन्धर्व और चारण भगवान‍्के गुणोंका गान कर रहे थे। यह अत्यन्त आश्चर्यमय और अलौकिक रूप देखकर दक्षप्रजापति कुछ सहम गये॥ ३९-४०॥

वीरराघवः

तन्महदाश्चर्यं भगवतो रूपं विलोक्य गतसाध्वसः वीतभयः प्रजापतिः प्राचेतसः प्रहृष्टचित्तो भूमौ दण्डवन्नमस्कृतवान् ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

ननाम दण्डवद् भूमौ प्रहृष्टात्मा प्रजापतिः।
न किञ्चनोदीरयितुमशकत् तीव्रया मुदा।
आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः॥

मूलम्

ननाम दण्डवद् भूमौ प्रहृष्टात्मा प्रजापतिः।
न किञ्चनोदीरयितुमशकत् तीव्रया मुदा।
आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः॥ ४१ ॥

अनुवाद (हिन्दी)

प्रजापति दक्षने आनन्दसे भरकर भगवान‍्के चरणोंमें साष्टांग प्रणाम किया। जैसे झरनोंके जलसे नदियाँ भर जाती हैं, वैसे ही परमानन्दके उद्रेकसे उनकी एक-एक इन्द्रिय भर गयी और आनन्दपरवश हो जानेके कारण वे कुछ भी बोल न सके॥ ४१॥

वीरराघवः

तीव्रया निरतिशयया मुदा आपूरितानि मनोद्वाराणीन्द्रियाणि तैर्यथा हृदिन्यो नद्यो निर्झरैरापूर्यन्ते तथा महानन्दापूर्णत्वान्मनोद्वाराणां तैर्युक्तो न किञ्चिदपि मनीषितं कर्तुं शक्तोऽभूदित्यर्थः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

तं तथावनतं भक्तं प्रजाकामं प्रजापतिम्।
चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः॥

मूलम्

तं तथावनतं भक्तं प्रजाकामं प्रजापतिम्।
चित्तज्ञः स17र्वभूतानामिदमाह जनार्दनः॥ ४२ ॥

अनुवाद (हिन्दी)

परीक्षित्! प्रजापति दक्ष अत्यन्त नम्रतासे झुककर भगवान‍्के सामने खड़े हो गये। भगवान् सबके हृदयकी बात जानते ही हैं, उन्होंने दक्ष प्रजापतिकी भक्ति और प्रजावृद्धिकी कामना देखकर उनसे यों कहा॥ ४२॥

वीरराघवः

तथा निरतिशयया मुदा स्वमनीषितविज्ञानेऽप्यशक्तमवनतं नम्रीभूतं प्रजाः कामयमानं भक्तं प्रजापतिं दक्षं प्रति सर्वेषां सत्त्वानां भूतानां चित्तज्ञः अभिप्रायज्ञो भगवान् जनार्द्दनः इदं वक्ष्यमाणमुवाच ॥ ४२ ॥

श्लोक-४३

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

प्राचेतस महाभाग संसिद्धस्तपसा भवान्।
यच्छ्रद्धया मत्परया मयि भावं परं गतः॥

मूलम्

प्राचेतस महाभाग संसिद्धस्तपसा भवान्।
यच्छ्रद्धया मत्परया मयि भावं परं गतः॥ ४३ ॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—परम भाग्यवान् दक्ष! अब तुम्हारी तपस्या सिद्ध हो गयी, क्योंकि मुझपर श्रद्धा करनेसे तुम्हारे हृदयमें मेरे प्रति परम प्रेमभावका उदय हो गया है॥ ४३॥

वीरराघवः

उक्तमेवाह । प्राचेतस इति । हे महाबुद्धिमन् ! प्राचेतस ! भवान् तपसा संसिद्धः । यत् यस्मात् परया श्रद्धया मयि परमुत्कृष्टं भावं भक्तिं गतः प्राप्तवान् ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद‍्बृंहणं तपः।
ममैष कामो भूतानां यद् भूयासुर्विभूतयः॥

मूलम्

प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद‍्बृंहणं तपः।
ममैष कामो भूतानां यद् भूयासुर्विभूतयः॥ ४४ ॥

मूलम् - कर्णावती

प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद‍्बृंहणं तपः।
ममैष कामो भूतानां यद् भूयासुर्बिभूतयः॥ ४४ ॥

अनुवाद (हिन्दी)

प्रजापते! तुमने इस विश्वकी वृद्धिके लिये तपस्या की है, इसलिये मैं तुमपर प्रसन्न हूँ। क्योंकि यह मेरी ही इच्छा है कि जगत‍्के समस्त प्राणी अभिवृद्ध और समृद्ध हों॥ ४४॥

वीरराघवः

हे प्रजानाथ ! ते तुभ्यमहं प्रीतः । कुतः । यस्मात्ते तव तपः अस्य जगत उद्बृंहणं वर्द्धकं जगद्वर्द्धकत्वात्तपसस्तेनाहं प्रीत इति भावः । एतदेवोपपादयति । ममेत्यर्द्धेन । ममायमेव कामः कोऽसौ कामस्तत्राह । यद्भूतानां भूतयः समृद्धयो भूयासुः भवेयुरिति यत्तन्मनीषितं जगद्वृद्धिकरत्वात्त्वत्तपसस्तेनाहं प्रीत इत्यर्थः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः।
विभूतयो मम ह्येता भूतानां भूतिहेतवः॥

मूलम्

ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः।
विभूतयो मम ह्येता भूतानां भूतिहेतवः॥ ४५ ॥

अनुवाद (हिन्दी)

ब्रह्मा, शंकर, तुम्हारे जैसे प्रजापति, स्वायम्भुव आदि मनु तथा इन्द्रादि देवेश्वर—ये सब मेरी विभूतियाँ हैं और सभी प्राणियोंकी अभिवृद्धि करनेवाले हैं॥ ४५॥

वीरराघवः

ब्रह्माद्यनुभवेन भूतिविस्तारप्रयत्नश्च तवोचित एवेत्याह । ब्रह्मेत्येकेन श्लोकेन । ब्रह्मा चतुर्मुखः भवो रुद्रः भवन्तः प्रजापतयः मनवः स्वायम्भुवादयः विबुधेश्वरा इन्द्रादयश्च ये ते सर्वे मम विभूतयः अंशाः । भूतानां भूतिहेतवः समृद्धिहेतवः पतिहेतव इति पाठे पतयश्च हेतवश्वेत्यर्थः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाऽऽकृतिः।
अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः॥

मूलम्

तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाऽऽकृतिः।
अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः॥ ४६ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! तपस्या मेरा हृदय है, विद्या शरीर है, कर्म आकृति है, यज्ञ अंग हैं, धर्म मन है और देवता प्राण हैं॥ ४६॥

वीरराघवः

विश्ववृद्धिकरत्वात्तपसाहं प्रीत इत्युक्तं तदेव स्तुवन् प्रसङ्गादन्यान्यपि लोकवृद्धिकराणि स्तौति । तप इति । हे ब्रह्मन् तपः ध्यानं मम हृदयं विद्या मन्त्रजपः तनुः शरीरं क्रियाः स्मार्त्तक्रिया आकृतिः संस्थानं क्रतवो यज्ञाश्च ममाङ्गान्यवयवाः | सोमसाध्या यज्ञाः क्रतवश्च पुरोडाशादिसाध्या यज्ञा भेदः । क्रतवो ज्ञाता इति पाठे क्रतवो ममाङ्गानि ज्ञाता इत्यर्थः । धर्मः स्मार्त्तो दानादिरूपः आत्मा मनः असवः प्राणाः । तपआदीनां स्वहृदयत्वेन रूपणं तत्स्तुत्यथ स्वस्य जगदुत्पत्तिस्थितिलयहेतुत्वाज्जगत्कारणस्वावयवत्वेन रूपणे हि तपआदीनां स्तुतिः सम्पन्ना भवति । यद्वा । हृदयतन्वाकुत्यङ्गात्मासूनां लोके प्रीतिविषयित्वदर्शनात्स्वस्य तपआदयो नितरां प्रीतिविषया इति ज्ञापनाय हृदयादिभावेन रूप्यन्ते ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहिः।
संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः॥

मूलम्

अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहिः।
संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः॥ ४७ ॥

अनुवाद (हिन्दी)

जब यह सृष्टि नहीं थी, तब केवल मैं ही था और वह भी निष्क्रियरूपमें। बाहर-भीतर कहीं भी और कुछ न था। न तो कोई द्रष्टा था और न दृश्य। मैं केवल ज्ञानस्वरूप और अव्यक्त था। ऐसा समझ लो, मानो सब ओर सुषुप्ति-ही-सुषुप्ति छा रही हो॥ ४७॥

वीरराघवः

भगवतस्तपोपबृंहितत्वमेव वक्तुं तावज्जगदुत्पत्तेः प्राक्कारणस्य वस्तुनोऽवस्थानप्रकारमाह । अहमेवेति । अग्रे सृष्टेः प्रागहमेवासमहमेक एवाविभक्तनामरूपचिदचिच्छरीरकोऽवस्थित इत्यर्थः । तदेवोपपादयति । अन्यदान्तरं चिद्रूपं बहिरचिद्रूपं किञ्चिन्नासीत् कार्यावस्थापन्नं चिदचित्तत्त्वं किञ्चिन्नासीदित्यर्थः । तदा जीवप्रकृतिस्वरूपनाशशङ्काव्यावृत्त्यर्थमाह । संज्ञानमात्रमिति । संजानातीति संज्ञानं नन्द्यादित्वात् कर्त्तरि ल्युः । तदेव तन्मात्रं मात्रशब्देन देवमनुष्यादिनामरूपविभागव्यावृत्तिः । नामरूपविभागरहितं ज्ञानं तथा विश्वतः कार्त्स्न्येन प्रसुप्तं प्रलीनं सूक्ष्ममव्यक्तं प्रधानं च प्रसुप्तमिवेतीवशब्देन तस्य लीनत्वेऽपि जगदात्मना परिणामशक्तिस्तस्यानपगतेति सूच्यते ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः।
यदाऽऽसीत् तत एवाद्यः स्वयम्भूः समभूदजः॥

मूलम्

मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः।
यदाऽऽसीत् तत एवाद्यः स्वयम्भूः समभूदजः॥ ४८ ॥

मूलम् - कर्णावती

मव्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः।
यदाऽऽसीत् तत एवाद्यः स्वयम्भूः समभूदजः॥ ४८ ॥

अनुवाद (हिन्दी)

प्रिय दक्ष! मैं अनन्त गुणोंका आधार एवं स्वयं अनन्त हूँ। जब गुणमयी मायाके क्षोभसे यह ब्रह्माण्ड-शरीर प्रकट हुआ, तब इसमें अयोनिज आदिपुरुष ब्रह्मा उत्पन्न हुए॥ ४८॥

वीरराघवः

अनन्तकल्याणगुणाकरे स्वरूपतोऽप्यनन्ते मयि आसीदिति क्रियापदविपरिणामेनान्वयः । मयि शरीरत्वेनावस्थितमासीदित्यर्थः । एवं सूक्ष्मचिदचिच्छरीरकत्वेनावस्थितस्य मम शरीरभूताद्गुणत्रयात्मकप्रधानान्महदादिक्रमेण गुणविग्रहः त्रिगुणपरिणामरूपो ब्रह्माण्डात्मको विग्रहो मम देहः यदासीत्तदा ततो गुणविग्रहादेवाद्यः समष्टिपुरुषः स्वयम्भुरयोनिजः अजो ब्रह्मा आसीत् ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

स वै यदा महादेवो मम वीर्योपबृंहितः।
मेने खिलमिवात्मानमुद्यतः सर्गकर्मणि॥

मूलम्

स वै यदा महादेवो मम वीर्योपबृंहितः।
मेने खिलमिवात्मानमुद्यतः सर्गकर्मणि॥ ४९ ॥

अनुवाद (हिन्दी)

जब मैंने उनमें शक्ति और चेतनाका संचार किया तब देवशिरोमणि ब्रह्मा सृष्टि करनेके लिये उद्यत हुए। परन्तु उन्होंने अपनेको सृष्टिकार्यमें असमर्थ-सा पाया॥ ४९॥

वीरराघवः

स वै महादेवो ब्रह्मा मम वीर्येण सङ्कल्परूपज्ञानेन उपबृंहितः अनेन जीवेनात्मनानुप्रविश्येत्युक्तरीत्या सङ्कल्पज्ञानेन व्याप्त इत्यर्थः । तदा सर्गकर्मणि जगत्सृष्टिकर्मणि उद्युक्तोऽपि खिलमसमर्थमिवात्मानं स्वात्मानं मेनेऽवमन्यत ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम्।
नव विश्वसृजो युष्मान् येनादावसृजद्विभुः॥

मूलम्

अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम्।
नव विश्वसृजो युष्मान् येनादावसृजद्वि18भुः॥ ५० ॥

अनुवाद (हिन्दी)

उस समय मैंने उन्हें आज्ञा दी कि तप करो। तब उन्होंने घोर तपस्या की और उस तपस्याके प्रभावसे पहले-पहल तुम नौ प्रजापतियोंकी सृष्टि की॥ ५०॥

वीरराघवः

अथासमर्थत्वेनात्मनो मनसो मननान्तरं मे मयाभिहितः तप तपेत्यभिहितः दारुणं दुष्करं तपोऽतप्यताकरोत् । स च तप्ततपा विभुर्ब्रह्मा येन तपोबलेन विश्वसृजः प्रजापतीन् युष्मान् दक्षादीनसृजदतस्तप एव विश्वस्योपबृंहणमित्यभिप्रायः ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः।
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम्॥

मूलम्

एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः।
असिक्नी नाम पत्नीत्वे 19प्रजेश प्रतिगृह्यताम्॥ ५१ ॥

अनुवाद (हिन्दी)

प्रिय दक्ष! देखो, यह पंचजन प्रजापतिकी कन्या असिक्नी है। इसे तुम अपनी पत्नीके रूपमें ग्रहण करो॥ ५१॥

वीरराघवः

सन्ततिवृद्ध्युपायमाह । एषेति । अङ्ग हे दक्ष ! पञ्चजनस्य प्रजापतेर्याऽसिक्नी नाम दुहिता सैषा हे प्रजेश ! पत्नीत्वे भार्यात्वेनेत्यर्थः । प्रतिगृह्यतां त्वयेति शेषः ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः।
मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि॥

मूलम्

मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः।
मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि॥ ५२ ॥

अनुवाद (हिन्दी)

अब तुम गृहस्थोचित स्त्री सहवासरूप धर्मको स्वीकार करो। यह असिक्नी भी उसी धर्मको स्वीकार करेगी। तब तुम इसके द्वारा बहुत-सी प्रजा उत्पन्न कर सकोगे॥ ५२॥

वीरराघवः

मिथुनस्य यो व्यवायो रतिः स एव धर्मो यस्य सः त्वं मिथुनव्यवायधर्मिण्यामसिक्नथामिमं प्रजासर्गं भूरिशो भावयिष्यसि वर्द्धयिष्यसीत्यर्थः । उभयोरपि मिथुनव्यवायधर्मविशेषणं परस्परसानुकूलसूचनार्थम् ॥ ५२ ॥

श्लोक-५३

विश्वास-प्रस्तुतिः

त्वत्तोऽधस्तात् प्रजाः सर्वा मिथुनीभूय मायया।
मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम्॥

मूलम्

त्व20त्तोऽधस्तात् प्रजाः सर्वा मिथुनीभूय मायया।
मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम्॥ ५३ ॥

अनुवाद (हिन्दी)

प्रजापते! अबतक तो मानसी सृष्टि होती थी, परन्तु अब तुम्हारे बाद सारी प्रजा मेरी मायासे स्त्री-पुरुषके संयोगसे ही उत्पन्न होगी तथा मेरी सेवामें तत्पर रहेगी॥ ५३॥

वीरराघवः

त्वत्तोऽधस्तादर्वाचीनाः प्रजाः सर्वाः मदीयया मायया मत्सङ्कल्पेन मिथुनीभूय भविष्यन्ति । मिथुनीभूता भविष्यन्ति मिथुनकर्मणोत्पत्स्यन्त इत्यर्थः । त्वत्तोऽधस्तात् प्रजा इत्यनेन प्राचेतसात्पूर्वं केवलसङ्कल्पादिभिरपि प्रजानामुत्पतिरिति सूचितम् । तथा मे मह्यं च बलिं हरिष्यन्ति । मदाराधनरूपं यज्ञादिकर्म करिष्यन्तीत्यर्थः ॥ ५३ ॥

श्लोक-५४

मूलम् (वचनम्)

श्रीशुक21 उवाच

विश्वास-प्रस्तुतिः

इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावनः।
स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः॥

मूलम्

इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावनः।
स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः॥ ५४ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—विश्वके जीवनदाता भगवान् श्रीहरि यह कहकर दक्षके सामने ही इस प्रकार अन्तर्धान हो गये, जैसे स्वप्नमें देखी हुई वस्तु स्वप्न टूटते ही लुप्त हो जाती है॥ ५४॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे22 चतुर्थोऽध्यायः॥ ४ ॥

वीरराघवः

इतीत्थमुक्त्वा विश्वस्य भावन उत्पादको भगवान् हरिस्तस्य प्राचेतसस्य मिषतः पश्यतः सतः स्वप्नोपलब्धार्थ इवेति विस्मयनीयत्वविषददृष्टित्वे च दृष्टान्तः । यथा “रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम्” इति ॥ ५४ ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां चतुर्थोऽध्यायः ॥ ४ ॥


  1. प्रा. पा. - यथा योगी । ↩︎

  2. प्रा. पा. - ऋषिरुवाच । ↩︎

  3. प्रा. पा. – वृक्षेभ्यः । ↩︎

  4. प्रा. पा. - त्वादिष्टा । ↩︎

  5. प्रा. पा. - लोकानां पितरौ । ↩︎

  6. प्रा. पा. - भूतानां शास्तास्ते । ↩︎

  7. प्रा. पा. - हृष्टस्ते । ↩︎

  8. प्रा. पा. - तस्य । ↩︎

  9. प्रा. पा. - द्दुश्चरं । ↩︎

  10. प्रा. पा. - समभिधास्यामि । ↩︎

  11. प्रा. पा. - स्वसंज्ञया । ↩︎

  12. प्रा. पा. - वा । ↩︎

  13. प्राचीने पाठे ‘श्रीशुक उवाच’ अयमंशो त । ↩︎

  14. प्रा. पा. - स्तवं । ↩︎

  15. प्रा. पा. - प्रादुरा । ↩︎

  16. प्रा. पा. - विचित्राङ्गो । ↩︎

  17. प्रा. पा. - सर्वसत्त्वाना । ↩︎

  18. प्रा. पा. - प्रभुः । ↩︎

  19. प्रा. पा. - प्रसह्य । ↩︎

  20. प्रा. पा. - त्वत्तो हि वंशजाः सर्वा । ↩︎

  21. प्राचीने पाठे ‘श्रीशुक उवाच’ अयमंशो न । ↩︎

  22. प्राचीने पाठे ‘भगवद्दक्षसंवाद’ इत्यधिकः पाठः । ↩︎