०३

[तृतीयोऽध्यायः]

भागसूचना

यम और यमदूतोंका संवाद

श्लोक-१

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

निशम्य देवः स्वभटोपवर्णितं
प्रत्याह किं तान् प्रति धर्मराजः।
एवं हताज्ञो विहतान्मुरारे-
र्नैदेशिकैर्यस्य वशे जनोऽयम्॥

मूलम्

निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं ता1न् प्रति धर्मराजः।
एवं हताज्ञो विहतान्मुरारेर्नैदेशिकैर्यस्य वशे जनोऽयम्॥ १ ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—भगवन्! देवाधिदेव धर्मराजके वशमें सारे जीव हैं और भगवान‍्के पार्षदोंने उन्हींकी आज्ञा भंग कर दी तथा उनके दूतोंको अपमानित कर दिया। जब उनके दूतोंने यमपुरीमें जाकर उनसे अजामिलका वृत्तान्त कह सुनाया, तब सब कुछ सुनकर उन्होंने अपने दूतोंसे क्या कहा?॥ १॥

वीरराघवः

एवमितिहासमुखेनाकर्णितभगवन्नाममाहात्म्यः राजा “पतिं वः पृच्छत इति धर्मेऽस्मिन् यदि संशयः । स वेद परमं गुह्यं धर्मस्य भगवान् यम” इति भगवत्पार्षदैराप्ततमत्वेनाभिहितयममुखेन नाममाहात्म्यं प्रथयितुं पृच्छति द्वाभ्याम् । निशम्येति । एवमित्थं देवो धर्मराजः स्वभटैर्वर्णितं निशम्याकर्ण्य मुरारेर्भगवतो नैदेशिकैराज्ञाकारिभिः किङ्करेर्विहतान् निराकृतान् तान् किङ्करान् प्रति स्वयं विहता निराकृता आज्ञा यस्य तादृशः किमुक्तवान् धर्मराजं विशिनष्टि । यस्य धर्मराजस्य वशेऽयं जनः यद्वशवर्ती अयं सांसारिकजनः स किमाहेत्यर्थः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

यमस्य देवस्य न दण्डभङ्गः
कुतश्चनर्षे श्रुतपूर्व आसीत्।
एतन्मुने वृश्चति लोकसंशयं
न हि त्वदन्य इति मे विनिश्चितम्॥

मूलम्

यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत्।
एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम्॥ २ ॥

अनुवाद (हिन्दी)

ऋषिवर! मैंने पहले यह बात कभी नहीं सुनी कि किसीने किसी भी कारणसे धर्मराजके शासनका उल्लंघन किया हो। भगवन्! इस विषयमें लोग बहुत सन्देह करेंगे और उसका निवारण आपके अतिरिक्त दूसरा कोई नहीं कर सकता, ऐसा मेरा निश्चय है॥ २॥

वीरराघवः

हे ऋषे ! देवस्य यमस्य एतादृशो दण्डस्य भङ्गः कुतश्चिदासीदिति न श्रुतपूर्वः न श्रुत इत्यर्थः । एतस्मिन्नथ सर्वस्यापि संशयो वर्तत इति शेषः । हे मुने ! तमिमं लोकस्य मादृशस्य संदेहं त्वदन्यः न हि वृश्चति न छिनत्ति इति मे मया सुनिश्चितम् ॥ २ ॥

श्लोक-३

मूलम् (वचनम्)

श्रीशु2क उवाच

विश्वास-प्रस्तुतिः

भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः।
पतिं विज्ञापयामासुर्यमं संयमनीपतिम्॥

मूलम्

भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः।
पतिं विज्ञापयामासुर्यमं संयमनीपतिम्॥ ३ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—परीक्षित्! जब भगवान‍्के पार्षदोंने यमदूतोंका प्रयत्न विफल कर दिया, तब उन लोगोंने संयमनीपुरीके स्वामी एवं अपने शासक यमराजके पास जाकर निवेदन किया॥ ३॥

वीरराघवः

उत्तरमाह मुनिः । भगवत्पुरुषैरिति । हे राजन् ! भगवत्किङ्करैः प्रतिहतः उद्यमो येषां ते याम्या यमभटाः पतिमधिपतिं संयमिन्याः पुर्याः पतिं यमं प्रतिविज्ञापयामासुः ॥ ३ ॥

श्लोक-४

मूलम् (वचनम्)

यमदूता ऊचुः

विश्वास-प्रस्तुतिः

कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो।
त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः॥

मूलम्

कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो।
त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः॥ ४ ॥

अनुवाद (हिन्दी)

यमदूतोंने कहा—प्रभो! संसारके जीव तीन प्रकारके कर्म करते हैं—पाप, पुण्य अथवा दोनोंसे मिश्रित। इन जीवोंको उन कर्मोंका फल देनेवाले शासक संसारमें कितने हैं?॥ ४॥

वीरराघवः

विज्ञप्तिप्रकारमेवाह । कतीत्यादिना आययुर्दुतमित्यन्तेन । हे प्रभो ! यम इह लोके त्रैविध्यं त्रिविधमेव त्रैविध्यं स्वार्थेष्यञ् पुण्यपापतदुभयमिश्ररूपेण त्रिविधं कर्म कुर्वतो जीवलोकस्य शास्तारः फलस्य सुखादिरूपस्य याभिव्यक्तिः प्रादुर्भावः तस्या हेतवः कति सन्तीत्याक्षेपः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः।
कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा॥

मूलम्

यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः।
कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा॥ ५ ॥

अनुवाद (हिन्दी)

यदि संसारमें दण्ड देनेवाले बहुत-से शासक हों, तो किसे सुख मिले और किसे दुःख—इसकी व्यवस्था एक-सी न हो सकेगी॥ ५॥

वीरराघवः

सन्तु बहवः को बाधस्तत्राहुः । यदीति । बहवः यदि दण्डकारिणः शास्तारः दण्डरूपशासनकारिणः दण्डपूर्वकशिक्षाकारिणो वा बहवः स्युस्तर्हि मृत्युर्दुःखममृतं सुखं च कस्य वा न स्यातां कस्याप्युभे स्यातामित्यर्थः । अयं भावः अन्योन्यविरोधिशास्तृबहुत्वे सति शास्त्रान्तराधीनस्य सुखदुःखादेः शास्त्रान्तरेण निवारणसम्भावनया कस्याप्युभे न स्यातां किन्तूभयपरिहारेणोदासीनो लोकः स्यादिति ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

किन्तु शास्तृबहुत्वे स्याद‍्बहूनामिह कर्मिणाम्।
शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम्॥

मूलम्

किन्तु शास्तृबहुत्वे स्याद‍्बहूनामिह कर्मिणाम्।
शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम्॥ ६ ॥

अनुवाद (हिन्दी)

संसारमें कर्म करनेवालोंके अनेक होनेके कारण यदि उनके शासक भी अनेक हों, तो उन शासकोंका शासकपना नाममात्रका ही होगा, जैसे एक सम्राट्के अधीन बहुत-से नाममात्रके सामन्त होते हैं॥ ६॥

वीरराघवः

परस्परविरोधिशास्तृबहुत्वे यद्यप्युभे स्यातां तथापि शास्तृत्वममुख्यं स्यादित्याहुः । किंत्विति । धर्मिणां कर्मिणां यत्शास्तृभिरापाद्यमानं सुखादि स्यादेव किन्तु शास्तृत्वमुपचारः तेषां शास्तृत्वममुख्यं हि स्याद्वा यथा मण्डलवर्त्तिनामल्पजनपदाधिपतीनां शास्तृत्वं यथा न मुख्यं निरङ्कुशत्वाभावात् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः।
शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः॥

मूलम्

अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः।
शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः॥ ७ ॥

अनुवाद (हिन्दी)

इसलिये हम तो ऐसा समझते हैं कि अकेले आप ही समस्त प्राणियों और उनके स्वामियोंके भी अधीश्वर हैं। आप ही मनुष्योंके पाप और पुण्यके निर्णायक, दण्डदाता और शासक हैं॥ ७॥

वीरराघवः

तस्य त्वच्छासनं तु निरङ्कुशं दृष्टमतः शास्तृबहुत्वं न घटेतेत्यभिप्रेत्य त्वमेक एव शास्ता त्वच्छासनं चेदानीं निहतमित्याहुः । शास्तेति । दण्डधरः पापिनां नृणां दण्डं धारयति कारयतीति तथा शास्ता हिताहितयोर्विविच्य ज्ञापयिता शुभाशुभे पुण्यापुण्ये विविनक्ति विभजतीति शुभाशुभविवेचकः । नन्द्यादित्वात्कर्तरि ल्युः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

तस्य ते विहतो दण्डो न लोके वर्ततेऽधुना।
चतुर्भिरद‍्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता॥

मूलम्

तस्य ते विहतो दण्डो न लोके वर्ततेऽधुना।
चतुर्भिरद‍्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता॥ ८ ॥

अनुवाद (हिन्दी)

प्रभो! अबतक संसारमें कहीं भी आपके द्वारा नियत किये हुए दण्डकी अवहेलना नहीं हुई थी; किन्तु इस समय चार अद‍्भुत सिद्धोंने आपकी आज्ञाका उल्लंघन कर दिया है॥ ८॥

वीरराघवः

तस्यैवम्भूतस्य ते तव दण्डः शासनं लोके क्वाप्येतत्पर्यन्तं विहतो न वर्तते किन्त्वविहत एवाधुना त्वद्भुतरूपैश्चतुर्भिः सिद्धैस्ते तवाज्ञा विप्रलम्भिता वितथीकृता ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

नीयमानं तवादेशादस्माभिर्यातनागृहान्।
व्यमोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते॥

मूलम्

नीयमानं तवादेशादस्माभिर्यातनागृहा3न्।
व्यमोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते॥ ९ ॥

अनुवाद (हिन्दी)

प्रभो! आपकी आज्ञासे हमलोग एक पापीको यातना गृहकी ओर ले जा रहे थे, परन्तु उन्होंने बलपूर्वक आपके फंदे काटकर उसे छुड़ा दिया॥ ९॥

श्लोक-१०

विश्वास-प्रस्तुतिः

तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम्।
नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम्॥

मूलम्

तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम्।
नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम्॥ १० ॥

अनुवाद (हिन्दी)

हम आपसे उनका रहस्य जानना चाहते हैं। यदि आप हमें सुननेका अधिकारी समझें तो कहें। प्रभो! बड़े ही आश्चर्यकी बात हुई कि इधर तो अजामिलके मुँहसे ‘नारायण!’ यह शब्द निकला और उधर वे ‘डरो मत, डरो मत!’ कहते हुए झटपट वहाँ आ पहुँचे॥ १०॥

वीरराघवः

कथं विप्रलम्भितेत्यत्राहुः । नीयमानमिति । तवादेशादस्माभिर्यातनागृहं नरकं प्रति नीयमानं पातकिनं ते सिद्धा व्यमोचयन् किं कृत्वा प्रसह्य बलात्ते पाशान् छित्त्वातः तान् सिद्धान्वेदितुं तद्बलतदधिपतिनामादिप्रभावादिकं सर्वं वेदितुमिच्छाम इत्यर्थः । नोऽस्माकं क्षमं हितं यदि मन्यसे तर्हि कथयेति शेषः । तान्विशिंषन्ति । नारायणेत्येतस्मिंच्छब्देऽभिहिते उच्चारिते सति द्रुतमाययुराजग्मुः ॥ ९-१० ॥

श्लोक-११

मूलम् (वचनम्)

श्रीशु4क उवाच

विश्वास-प्रस्तुतिः

इति देवः स आपृष्टः प्रजासंयमनो यमः।
प्रीतः स्वदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः॥

मूलम्

इति देवः स आपृष्टः प्रजासंयमनो यमः।
प्रीतः स्वदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः॥ ११ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—जब दूतोंने इस प्रकार प्रश्न किया, तब देवशिरोमणि प्रजाके शासक भगवान् यमराजने प्रसन्न होकर श्रीहरिके चरणकमलोंका स्मरण करते हुए उनसे कहा॥ ११॥

वीरराघवः

एवमापृष्टो यमस्तान् प्रत्याह इत्याह मुनिः । इतीत्थमाष्पृष्टः प्रजानां संयमनः संयमयति शास्तीति तथा । कर्तरि ल्युः यमो देवः प्रीतः सुप्रश्नेन हृष्टः हरेः पादाम्बुजं स्मरन् स्वदूतान् प्रत्याह ॥ ११ ॥

श्लोक-१२

मूलम् (वचनम्)

यम उवाच

विश्वास-प्रस्तुतिः

परो मदन्यो जगतस्तस्थुषश्च
ओतं प्रोतं पटवद्यत्र विश्वम्।
यदंशतोऽस्य स्थितिजन्मनाशा
नस्योतवद् यस्य वशे च लोकः॥

मूलम्

परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम्।
यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवद् यस्य वशे च लोकः॥ १२ ॥

अनुवाद (हिन्दी)

यमराजने कहा—दूतो! मेरे अतिरिक्त एक और ही चराचर जगत‍्के स्वामी हैं। उन्हींमें यह सम्पूर्ण जगत् सूतमें वस्त्रके समान ओत-प्रोत है। उन्हींके अंश ब्रह्मा, विष्णु और शंकर इस जगत‍्की उत्पत्ति, स्थिति तथा प्रलय करते हैं। उन्हींने इस सारे जगत‍्को नथे हुए बैलके समान अपने अधीन कर रखा है॥ १२॥

वीरराघवः

उक्तिमेवाह । पर इत्यादिना पुरुषाय भूम्न इत्यन्तेन । मन्मत्तः पर उत्कृष्टोऽन्योऽस्ति न केवलं मत्तः परः किन्तु जगतः जङ्गमात्तस्थुषः स्थावराच्चराचरात्मकादाब्रह्मस्तम्बपर्यन्ताज्जगतः उत्कृष्टोऽन्योऽस्तीत्यर्थः । अतो भवन्त इव तच्छासनकारित्वान्नास्माकं मुख्यं प्रशास्तृत्वमिति भावः । कोऽसौ यत्र यस्मिन्निदं विश्वं तन्तवः पट इवौतं प्रोतमायामतो विस्तारतश्च स्यूतं सर्वतो व्याप्तमित्यर्थः । यस्य चांशतः अंशादेवास्य जगतः जन्मादयो भवन्ति नस्योतवन्नासिकायामोतवत् प्रोतबलीवर्द्दवद्यस्य वशेऽयं लोकः यद्वशवर्त्त्ययं लोक इत्यर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

यो नामभिर्वाचि जनान्निजायां
बध्नाति तन्त्यामिव दामभिर्गाः।
यस्मै बलिं त इमे नामकर्म-
निबन्धबद्धाश्चकिता वहन्ति॥

मूलम्

यो नामभिर्वाचि जनान्निजायां बध्नाति तन्त्यामिव दामभिर्गाः।
यस्मै बलिं त इमे नामकर्मनिबन्धबद्धाश्चकिता वहन्ति॥ १३ ॥

अनुवाद (हिन्दी)

मेरे प्यारे दूतो! जैसे किसान अपने बैलोंको पहले छोटी-छोटी रस्सियोंमें बाँधकर फिर उन रस्सियोंको एक बड़ी आड़ी रस्सीमें बाँध देते हैं, वैसे ही जगदीश्वर भगवान‍्ने भी ब्राह्मणादि वर्ण और ब्रह्मचर्य आदि आश्रमरूप छोटी-छोटी नामकी रस्सियोंमें बाँधकर फिर सब नामोंको वेदवाणीरूप बड़ी रस्सीमें बाँध रखा है। इस प्रकार सारे जीव नाम एवं कर्मरूप बन्धनमें बँधे हुए भयभीत होकर उन्हें ही अपना सर्वस्व भेंट कर रहे हैं॥ १३॥

वीरराघवः

एवं सर्वाभ्यधिकत्वसर्वव्यापकत्वसर्वजन्मादिकारणत्वसर्वप्रशास्तृत्वधर्मयुक्तो भगवानन्योऽस्तीत्युक्तम् । अथान्यांश्च भगवतो धर्मान् प्रपञ्चयति । य इति । यो भगवान्निजायां वाचि वेदात्मिकायां तन्त्यां दामन्यां नामभिर्वर्णाश्रमनामभिर्जनं दामभिर्ग्रन्थिमद्रज्जुभिः स्थूलतन्त्यां गाः बलीवर्द्दानिव बध्नाति नामभिरित्यनेन ब्राह्मणब्रह्मचर्यादिवर्णाश्रमनामनिर्देशपूर्वकं वेदोक्ता वर्णाश्रमधर्माः विवक्षिताः तैरीश्वराज्ञारूपायां तदुल्लङ्घने दण्डनापादिकायां वाचि बध्नाति वागधीनानि करोतीति यावत् । यस्मै च त इमे नामकर्मभिर्निबन्धः कृतः बन्धो येषां तादृशाः प्रतिनियतनामकर्माणः चकिता बिभ्यतः बलिं पूजां वहन्ति कुर्वन्तीत्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

अहं महेन्द्रो निर्ऋतिः प्रचेताः
सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः।
आदित्यविश्वे वसवोऽथ साध्या
मरुद‍्गणा रुद्रगणाः ससिद्धाः॥

मूलम्

अहं महेन्द्रो निर्ऋतिः प्रचेताः सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः।
आदित्यविश्वे वसवोऽथ साध्या मरुद‍्गणा रुद्रगणाः ससिद्धाः॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

अन्ये च ये विश्वसृजोऽमरेशा
भृग्वादयोऽस्पृष्टरजस्तमस्काः।
यस्येहितं न विदुः स्पृष्टमायाः
सत्त्वप्रधाना अपि किं ततोऽन्ये॥

मूलम्

अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः।
यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये॥ १५ ॥

अनुवाद (हिन्दी)

दूतो! मैं, इन्द्र, निर्ऋति, वरुण, चन्द्रमा, अग्नि, शंकर, वायु, सूर्य, ब्रह्मा, बारहों आदित्य, विश्वेदेवता, आठों वसु, साध्य, उनचास मरुत्, सिद्ध, ग्यारहों रुद्र, रजोगुण एवं तमोगुणसे रहित भृगु आदि प्रजापति और बड़े-बड़े देवता—सब-के-सब सत्त्वप्रधान होनेपर भी उनकी मायाके अधीन हैं तथा भगवान् कब क्या किस रूपमें करना चाहते हैं—इस बातको नहीं जानते। तब दूसरोंकी तो बात ही क्या है॥ १४-१५॥

वीरराघवः

अहं यमः प्रचेता वरुणः ईशानो रुद्रः अर्कः सूर्यः अब्जयोनिर्ब्रह्मा आदित्या अदितेः पुत्रा विश्वावसुप्रभृतयः उपदेवाः विश्वसृजः दक्षादयः अस्पृष्टं रजस्तमश्च यैः सत्त्वप्रधाना अपि यस्येहितमभिप्रायं न विदुः तत उक्तेभ्योऽन्ये न विदुरिति किं वक्तव्यम् । अवेदने हेतुः स्पृष्टा माया यैस्ते मायामोहितत्वादित्यर्थः ॥ १४-१५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

यं वै न गोभिर्मनसासुभिर्वा
हृदा गिरा वासुभृतो विचक्षते।
आत्मानमन्तर्हृदि सन्तमात्मनां
चक्षुर्यथैवाकृतयस्ततः परम्॥

मूलम्

यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो5 विचक्षते।
आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम्॥ १६ ॥

अनुवाद (हिन्दी)

दूतो! जिस प्रकार घट, पट आदि रूपवान् पदार्थ अपने प्रकाशक नेत्रको नहीं देख सकते—वैसे ही अन्तःकरणमें अपने साक्षीरूपसे स्थित परमात्माको कोई भी प्राणी इन्द्रिय, मन, प्राण, हृदय या वाणी आदि किसी भी साधनके द्वारा नहीं जान सकता॥ १६॥

वीरराघवः

असुभृतः प्राणभृतः यं गोभिरिन्द्रियैर्मनसासुभिः प्राणायामैर्हृदा चित्तेन गिरा वा कौशल्येन यं न विचक्षते न पश्यन्ति न जानन्तीत्यर्थः । कथम्भूतमात्मनां जीवानामात्मानमन्तरात्मानमन्तर्हृदि सन्तं न विचक्षते तत्र दृष्टान्तः । चक्षुरिति । आकृतयः रूपाणि ततः परमाकृतिभ्यो विलक्षणमाकृतीनां प्रकाशकं चक्षुरिन्द्रियं न विचक्षते तद्वदिति ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

तस्यात्मतन्त्रस्य हरेरधीशितुः
परस्य मायाधिपतेर्महात्मनः।
प्रायेण दूता इह वै मनोहरा-
श्चरन्ति तद्रूपगुणस्वभावाः॥]

मूलम्

तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः।
प्रायेण दूता इह वै मनोहराश्चरन्ति तद्रूपगुणस्वभावाः॥ १७ ॥

अनुवाद (हिन्दी)

वे प्रभु सबके स्वामी और स्वयं परम स्वतन्त्र हैं। उन्हीं मायापति पुरुषोत्तमके दूत उन्हींके समान परम मनोहर रूप, गुण और स्वभावसे सम्पन्न होकर इस लोकमें प्रायः विचरण किया करते हैं॥ १७॥

वीरराघवः

एवं सर्ववशित्वसर्वाराध्यत्वसर्वाविज्ञाताभिप्रायत्ववाङ्मनसागोचरापरिच्छिन्नस्वरूपस्वभावत्वसर्वान्तरात्मत्वादयो धर्मा उक्ताः एभिरन्यैश्च कल्याणगुणैश्चिदचिदात्मकजगतो विलक्षणस्य स्वतन्त्रस्य मायाधिपतेरधीशितुः सर्वेश्वरस्य महात्मनो निरतिशयप्रभावस्य हरेर्मनोहराः दूताः भगवत इव गुणरूपस्वभावा येषां तादृशा इह लोके चरन्ति ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

भूतानि विष्णोः सुरपूजितानि
दुर्दर्शलिङ्गानि महाद‍्भुतानि।
रक्षन्ति तद‍्भक्तिमतः परेभ्यो
मत्तश्च मर्त्यानथ सर्वतश्च॥

मूलम्

भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद‍्भुतानि।
रक्षन्ति तद‍्भक्तिमतः परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च॥ १८ ॥

अनुवाद (हिन्दी)

विष्णुभगवान‍्के सुरपूजित एवं परम अलौकिक पार्षदोंका दर्शन बड़ा दुर्लभ है। वे भगवान‍्के भक्तजनोंको उनके शत्रुओंसे, मुझसे और अग्नि आदि सब विपत्तियोंसे सर्वथा सुरक्षित रखते हैं॥ १८॥

वीरराघवः

विष्णोर्भूतानि किङ्करात्मकानि भूतानि सुरैर्ब्रह्मादिभिः पूजितानि दुर्द्दर्शान्युज्ज्वलानि लिङ्गानि स्वरूपाणि येषां तानि महाद्भुतानि दृष्टविसजातीयानि भगवद्भक्तिमतो जनान् मत्तो मृत्योश्चान्येभ्यश्च सर्वेभ्यः रक्षन्ति ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

धर्मं तु साक्षाद‍्भगवत्प्रणीतं
न वै विदुर्ऋषयो नापि देवाः।
न सिद्धमुख्या असुरा मनुष्याः
कुतश्च विद्याधरचारणादयः॥

मूलम्

धर्मं तु साक्षाद‍्भगवत्प्रणीतं न वै विदुर्ऋषयो नापि देवाः।
न सिद्धमुख्या असुरा मनुष्याः कुतश्च6 विद्याधरचारणादयः॥ १९ ॥

अनुवाद (हिन्दी)

स्वयं भगवान‍्ने ही धर्मकी मर्यादाका निर्माण किया है। उसे न तो ऋषि जानते हैं और न देवता या सिद्धगण ही। ऐसी स्थितिमें मनुष्य, विद्याधर, चारण और असुर आदि तो जान ही कैसे सकते हैं॥ १९॥

वीरराघवः

तद्भक्तिमतो रक्षन्तु नामायं त्वजामिलो निरतिशयदुष्कृद्भक्तिशून्यश्चेति कथमेनं रक्षितवन्तस्तत्राह । धर्ममिति । साक्षाद्भगवता प्रणीतमभिहितं धर्ममृषिप्रभृतयस्ते विदुर्भागवतधर्मप्रभाव ईदृश इति भावः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः।
प्रह्रादो जनको भीष्मो बलिर्वैयासकिर्वयम्॥

मूलम्

स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः।
प्रह्रादो जनको भीष्मो बलिर्वैयासकिर्वयम्॥ २० ॥

वीरराघवः

यदि केऽपि न विदुस्तर्हिस्तद्धर्मः शशविषाणवदसत्कल्पः स्यात्तत्राह । स्वयम्भूरिति । वयमहम् “अस्मदोद्वयोश्चे"ति बहुवचनमेकत्वे वेदितव्यम् । स्वयम्भूर्ब्रह्मा शम्भुः रुद्रः कुमारः सनत्कुमारः मनुः स्वायम्भुवः वैयासकिः शुकः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

द्वादशैते विजानीमो धर्मं भागवतं भटाः।
गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते॥

मूलम्

द्वादशैते विजानीमो धर्मं भागवतं भटाः।
गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते॥ २१ ॥

अनुवाद (हिन्दी)

भगवान‍्के द्वारा निर्मित भागवतधर्म परम शुद्ध और अत्यन्त गोपनीय है। उसे जानना बहुत ही कठिन है। जो उसे जान लेता है, वह भगवत्स्वरूपको प्राप्त हो जाता है। दूतो! भागवतधर्मका रहस्य हम बारह व्यक्ति ही जानते हैं—ब्रह्माजी, देवर्षि नारद, भगवान् शंकर, सनत्कुमार, कपिलदेव, स्वायम्भुव मनु, प्रह्लाद, जनक, भीष्मपितामह, बलि, शुकदेवजी और मैं (धर्मराज)॥ २०-२१॥

वीरराघवः

एते वयं द्वादश हे भढाः ! भागवतं धर्मं जानीमः तत्प्रभावं जानीम इत्यर्थः । कथम्भूतं गुह्यं गोप्यं विशुद्धं विशुद्धं केवलसत्त्वप्रधानाधिकारं दुर्बोधमितरैर्दुर्विज्ञेयं यं धर्मं ज्ञात्वामृतं मुक्तिमश्नुते प्राप्नोति ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः।
भक्तियोगो भगवति तन्नामग्रहणादिभिः॥

मूलम्

एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः।
भक्तियोगो भगवति तन्नामग्रहणादिभिः॥ २२ ॥

अनुवाद (हिन्दी)

इस जगत‍्में जीवोंके लिये बस, यही सबसे बड़ा कर्तव्य—परम धर्म है कि वे नाम-कीर्तन आदि उपायोंसे भगवान‍्के चरणोंमें भक्तिभाव प्राप्त कर लें॥ २२॥

वीरराघवः

कोऽसावीदृशो धर्मः क्रियान् वा तत्राह । एतावानेवेति । भगवति तन्नामग्रहणादिभिरनुगृहीतो यो भक्तियोगः स एव पुंसां लोके पर उत्कृष्टो धर्मः लोके पुरुषैः साध्य उत्कृष्टो धर्मः भगवद्भक्तियोग एव स चैतावानेवाविच्छिन्नप्रेमपूर्वानुध्यानपर्यन्त एव “प्रेमपूर्वमनुध्यानं भक्तिरित्यभिधीयत” इति वचनार्थमभिप्रेत्य भक्तिशब्देनैवार्थलाभादेतावानेवेत्युक्तम् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः।
अजामिलोऽपि येनैव मृत्युपाशादमुच्यत॥

मूलम्

नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः।
अजामिलोऽपि येनैव मृत्युपाशादमुच्यत॥ २३ ॥

अनुवाद (हिन्दी)

प्रिय दूतो! भगवान‍्के नामोच्चारणकी महिमा तो देखो, अजामिल-जैसा पापी भी एक बार नामोच्चारण करनेमात्रसे मृत्युपाशसे छुटकारा पा गया॥ २३॥

वीरराघवः

आस्तां भगवद्भक्तियोगप्रभावस्तावन्नामोच्चारणप्रभावमेव पश्यतेत्याह । नामेति । हे पुत्रकाः ! हरेर्नामोच्चारणमाहात्म्यं पश्यत येन नामोच्चारणमाहात्म्येनाजामिलोऽपि अपिशब्दस्तस्य सुतरां मुक्त्यनर्हतां सूचयति । मृत्युपाशात् संसारपाशान्मुक्तोऽभूत् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

एतावतालमघनिर्हरणाय पुंसां
सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम्।
विक्रुश्य पुत्रमघवान् यदजामिलोऽपि
नारायणेति म्रियमाण इयाय मुक्तिम्॥

मूलम्

एतावतालमघनिर्हरणाय7 पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम्।
विक्रुश्य पुत्रमघवान् यदजामिलोऽपि नारायणेति म्रियमाण 8इयाय मुक्तिम्॥ २४ ॥

अनुवाद (हिन्दी)

भगवान‍्के गुण, लीला और नामोंका भलीभाँति कीर्तन मनुष्योंके पापोंका सर्वथा विनाश कर दे, यह कोई उसका बहुत बड़ा फल नहीं है, क्योंकि अत्यन्त पापी अजामिलने मरनेके समय चंचल चित्तसे अपने पुत्रका नाम ‘नारायण’ उच्चारण किया। इस नामाभासमात्रसे ही उसके सारे पाप तो क्षीण हो ही गये, मुक्तिकी प्राप्ति भी हो गयी॥ २४॥

वीरराघवः

अतः पुंसामघस्य निर्हरणाय निःशेषक्षपणाय एतावतैवालं कियता भगवतो गुणकर्मप्रतिपादकनाम्नां सङ्कीर्त्तनमितीयता कुतः यद्यस्मादघवान् पाप्यपि अजामिलो म्रियमाणः पुत्रं नारायणेति विक्रुश्याहूय मुक्तिमुपैत्यागादित्यर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

प्रायेण वेद तदिदं न महाजनोऽयं
देव्या विमोहितमतिर्बत माययालम्।
त्रय्यां जडीकृतमतिर्मधुपुष्पितायां
वैतानिके महति कर्मणि युज्यमानः॥

मूलम्

प्रायेण वेद तदिदं न महाजनोऽयं देव्या विमोहितमतिर्वत माययालम्।
त्रय्यां जडीकृतमतिर्मधुपुष्पितायां वैतानिके महति कर्मणि युज्यमानः॥ २५ ॥

अनुवाद (हिन्दी)

बड़े-बड़े विद्वानोंकी बुद्धि कभी भगवान‍्की मायासे मोहित हो जाती है। वे कर्मोंके मीठे-मीठे फलोंका वर्णन करनेवाली अर्थवादरूपिणी वेदवाणीमें ही मोहित हो जाते हैं और यज्ञ-यागादि बड़े-बड़े कर्मोंमें ही संलग्न रहते हैं तथा इस सुगमातिसुगम भगवन्नामकी महिमाको नहीं जानते। यह कितने खेदकी बात है॥ २५॥

वीरराघवः

नन्वेवंविधं नाममाहात्म्यादिकं स्वयंभ्वादिवदन्येप्यधीतशास्त्रा अपि किं न जानीयुस्तत्राह । प्रायेणेति । महाजनः शास्त्रज्ञोऽप्ययं जनः तदिदं नाममाहात्म्यादिकं प्रायशो न वेद तत्र हेतुः देवदेवस्य भगवतः संबन्धिन्या माययालमत्यर्थं विमोहिता मतिर्यस्य तादृशः तं प्रति खिद्यति वतेति । किञ्च । मधुपुष्पितायां मधु मधुरं यथा भवति तथा पुष्पितायां पुष्पस्थानीयक्षुद्रस्वर्गादिफलप्रकाशकार्थवादैर्मनोरमायामित्यर्थः । एवंभूतायां त्रय्यां जडीकृताभिनिविष्ठा मतिर्यस्य अत एव वैतानिके महत्येव कर्मणि युज्यमानः भगवन्मायामोहितत्वादर्थवादाश्रयणं कर्मासक्तचित्तत्वाच्च न वेदेत्यर्थः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

एवं विमृश्य सुधियो भगवत्यनन्ते
सर्वात्मना विदधते खलु भावयोगम्।
ते मे न दण्डमर्हन्त्यथ यद्यमीषां
स्यात् पातकं तदपि हन्त्युरुगायवादः॥

मूलम्

एवं विमृश्य सुधियो भगवत्यनन्ते सर्वात्मना विदधते खलु भावयोगम्।
ते मे न दण्डमर्हन्त्यथ यद्यमीषां स्यात् पातकं तदपि हन्त्युरुगायवादः॥ २६ ॥

अनुवाद (हिन्दी)

प्रिय दूतो! बुद्धिमान् पुरुष ऐसा विचार कर भगवान् अनन्तमें ही सम्पूर्ण अन्तःकरणसे अपना भक्तिभाव स्थापित करते हैं। वे मेरे दण्डके पात्र नहीं हैं। पहली बात तो यह है कि वे पाप करते ही नहीं, परन्तु यदि कदाचित् संयोगवश कोई पाप बन भी जाय, तो उसे भगवान‍्का गुणगान तत्काल नष्ट कर देता है॥ २६॥

वीरराघवः

एवं विदित्वा ये भगवन्तं भजन्ति न तेषामस्मद्वश्यतेत्याह । एवमिति । सुधियः कुशलाः ये जना एवं नाममाहात्म्यादिकं विमृश्यानन्ते त्रिविधपरिच्छेदरहिते षाङ्गुण्यपूर्णे भगवति भावयोगं भक्तियोगं विदधते कुर्वते खलु ते मम दण्डं प्रति नार्हन्ति तेषां पातकाभावादित्यर्थः । यदि किञ्चित्तेषां पातकं स्यात्तर्हि तदपि पातकमुरुगायस्य भगवतो वादः गुणानुवादात्मकनामग्रहणादिरूपो हन्ति क्षपयति ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

ते देवसिद्धपरिगीतपवित्रगाथा
ये साधवः समदृशो भगवत्प्रपन्नाः।
तान् नोपसीदत हरेर्गदयाभिगुप्तान्
नैषां वयं न च वयः प्रभवाम दण्डे॥

मूलम्

ते देवसिद्धपरिगीतपवित्रगाथा ये साधवः समदृशो भगवत्प्रपन्नाः।
तान् नोपसीदत हरेर्गदयाभिगुप्तान् नैषां वयं न च वयः प्रभवाम दण्डे॥ २७ ॥

अनुवाद (हिन्दी)

जो समदर्शी साधु भगवान‍्को ही अपना साध्य और साधन दोनों समझकर उनपर निर्भर हैं, बड़े-बड़े देवता और सिद्ध उनके पवित्र चरित्रोंका प्रेमसे गान करते रहते हैं। मेरे दूतो! भगवान‍्की गदा उनकी सदा रक्षा करती रहती है। उनके पास तुमलोग कभी भूलकर भी मत फटकना। उन्हें दण्ड देनेकी सामर्थ्य न हममें है और न साक्षात् कालमें ही॥ २७॥

वीरराघवः

एवमाक्षेपस्योत्तरमभिधायाधुना स्वदूताननुशास्ति । त इति त्रिभिः । ये जनाः साधवः साधुगुणयुक्ताः समदृशः समं भगवदात्मकत्वेन सर्वं पश्यन्तीति तथा भगवत्प्रपन्नाः उपायोपेयभावेन भगवन्तं शरणं गताः ते देवैः सिद्धैश्च परितो गीताः पवित्राश्च गाथा येषां तादृशास्तान्नोपसीदत न तत्समीपं गच्छतेत्यर्थः । तत्र हेतुं वदंस्तान्विशिनष्टि । हरेर्गदाभितो गुप्तान् रक्षितानत् एवैषां भयं संसृतिभयं नास्ति न च तेषां दण्डे वयं प्रभवामः समर्था भवेम ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

तानानयध्वमसतो विमुखान् मुकुन्द-
पादारविन्दमकरन्दरसादजस्रम्।
निष्किञ्चनैः परमहंसकुलै रसज्ञै-
र्जुष्टाद् गृहे निरयवर्त्मनि बद्धतृष्णान्॥

मूलम्

तानानयध्वमसतो विमुखान् मुकुन्दपादारविन्दमकरन्दरसादजस्रम्।
निष्किञ्चनैः परमहंसकुलै रसज्ञैर्जुष्टाद् गृहे निरयवर्त्मनि बद्धतृष्णान्॥ २८ ॥

अनुवाद (हिन्दी)

बड़े-बड़े परमहंस दिव्य रसके लोभसे सम्पूर्ण जगत् और शरीर आदिसे भी अपनी अहंता-ममता हटाकर, अकिंचन होकर निरन्तर भगवान् मुकुन्दके पादारविन्दका मकरन्द-रस पान करते रहते हैं। जो दुष्ट उस दिव्य रससे विमुख हैं और नरकके दरवाजे घर-गृहस्थीकी तृष्णाका बोझा बाँधकर उसे ढो रहे हैं, उन्हींको मेरे पास बार-बार लाया करो॥ २८॥

वीरराघवः

तर्हि क आनेयास्तत्राह । तानिति । तानानयध्वं कानजस्रं सन्ततं निष्कामैः परमहंसानां ज्ञानिनां कुलैः सङ्घैः रसज्ञैः जुष्टान् सेवितान्मुकुन्दस्य पादारविन्दयोर्मकरन्दतुल्यो रसः तस्माद्विमुखानत एवासतः पापिष्ठान्नरकद्वारे गृहे बद्धतृष्णान् कृताभिलाषान् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

जिह्वा न वक्ति भगवद‍्गुणनामधेयं
चेतश्च न स्मरति तच्चरणारविन्दम्।
कृष्णाय नो नमति यच्छिर एकदापि
तानानयध्वमसतोऽकृतविष्णुकृत्यान्॥

मूलम्

जिह्वा न वक्ति भगवद‍्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम्।
कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यान्॥ २९ ॥

अनुवाद (हिन्दी)

जिनकी जीभ भगवान‍्के गुणों और नामोंका उच्चारण नहीं करती, जिनका चित्त उनके चरणारविन्दोंका चिन्तन नहीं करता और जिनका सिर एक बार भी भगवान् श्रीकृष्णके चरणोंमें नहीं झुकता, उन भगवत्सेवा-विमुख पापियोंको ही मेरे पास लाया करो॥ २९॥

वीरराघवः

किञ्च । येषां जिह्वा चेतः शिरांसि भगवन्नामधेयचरणारविन्दवचनस्मरणनमस्कारान्न कुर्वन्ति तानानयध्वमित्याह । जिह्वेति । भगवतो गुणप्रतिपादकं नामधेयं यस्य जिह्वा न वक्ति यस्य चेतः भगवतश्चरणारविन्दं न स्मरति यस्य च शिरः सकृदपि श्रीकृष्णाय नो नमति तान्न कृतं विष्णोः कृत्यमाराधनं यैस्तानत एवासतः दुष्टानानयध्वम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

तत् क्षम्यतां स भगवान् पुरुषः पुराणो
नारायणः स्वपुरुषैर्यदसत्कृतं नः।
स्वानामहो न विदुषां रचिताञ्जलीनां
क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने॥

मूलम्

तत् क्षम्यतां स भगवान् पुरुषः पुराणो नारायणः स्वपुरुषैर्यदसत्कृतं नः।
स्वानामहो न विदुषां रचिताञ्जलीनां क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने॥ ३० ॥

अनुवाद (हिन्दी)

आज मेरे दूतोंने भगवान‍्के पार्षदोंका अपराध करके स्वयं भगवान‍्का ही तिरस्कार किया है। यह मेरा ही अपराध है। पुराणपुरुष भगवान् नारायण हमलोगोंका यह अपराध क्षमा करें। हम अज्ञानी होनेपर भी हैं उनके निजजन और उनकी आज्ञा पानेके लिये अंजलि बाँधकर सदा उत्सुक रहते हैं। अतः परम महिमान्वित भगवान‍्के लिये यही योग्य है कि वे क्षमा कर दें। मैं उन सर्वान्तर्यामी एकरस अनन्त प्रभुको नमस्कार करता हूँ॥ ३०॥

वीरराघवः

एवं स्वदूतानादिश्य दूतकृतापराधभिया भगवन्तं क्षमापयति । तदिति । स्वपुरुषैरस्मद्भटैर्यदसत्कृतमपराद्धं तत्पुराणः पुरुषो भगवान्नारायणः क्षाम्यतां दिवादित्वात्कर्त्रर्थे सार्वधातुके श्यन् स्वानां स्वभक्तानामज्ञानां कृताञ्जलीनां नोऽस्माकं क्षान्तिरस्मद्विषया क्षन्तिरित्यर्थः । अहो गरीयसी गुरुतरा बहुला भगवति वर्त्तत इतिभावः । तस्मै भूम्ने सर्वान्तर्यामिणे नमः “अञ्जलिः परमा मुद्रा क्षिप्रं देवः प्रसीदति” इत्युक्ततत्प्रसादनिमित्ताञ्जलिबन्धनेन नमस्करोतीति भावः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम्।
महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतिम्॥

मूलम्

तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम्।
महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतिम्॥ ३१ ॥

अनुवाद (हिन्दी)

[श्रीशुकदेवजी कहते हैं—] परीक्षित्! इसलिये तुम ऐसा समझ लो कि बड़े-से-बड़े पापोंका सर्वोत्तम, अन्तिम और पाप-वासनाओंको भी निर्मूल कर डालनेवाला प्रायश्चित्त यही है कि केवल भगवान‍्के गुणों, लीलाओं और नामोंका कीर्तन किया जाय। इसीसे संसारका कल्याण हो सकता है॥ ३१॥

वीरराघवः

एवं प्रत्याह किं तान् प्रति धर्मराज इति पृष्टां यमोक्तिमभिधाय तामुपसंहरिष्यमाणोऽन्तरा राज्ञः प्रश्नस्य यथैव नरकान्नरः नानोग्रयातना नेयादित्यस्योत्तरं सङ्गमयति मुनिः । तस्मादिति त्रिभिः । हे कौरव्य ! तस्मादितिहासमुखेन नाममाहात्म्यस्य श्रुतत्वाद्यमोक्त्या सम्वादितत्वाच्च विष्णोः सङ्कीर्त्तनं जगतो मङ्गलावहं महतां विपुलानामप्यंहसां पापानामैकान्तिकनिष्कृतिं मुख्यं प्रायश्चित्तं विद्धि जानीहि ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

शृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहुः।
यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभिः॥

मूलम्

शृण्वतां गृणतां 9वीर्याण्युद्दामानि हरेर्मुहुः।
यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभिः॥ ३२ ॥

मूलम्

शृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहुः।
यथा सुजातया भक्त्याशुद्ध्येन्नात्मा व्रतादिभिः॥ ३२ ॥

अनुवाद (हिन्दी)

जो लोग बार-बार भगवान‍्के उदार और कृपापूर्ण चरित्रोंका श्रवण-कीर्तन करते हैं, उनके हृदयमें प्रेममयी भक्तिका उदय हो जाता है। उस भक्तिसे जैसी आत्मशुद्धि होती है, वैसी कृच्छ्र-चान्द्रायण आदि व्रतोंसे नहीं होती॥ ३२॥

वीरराघवः

व्रतादिकं तु न मुख्यमित्याह । शृण्वतां हरेरुद्दामानि विपुलानि वीर्याणि यशांसि मुहुर्मुहुः शृण्वतां गृणतां कथयतां चात्मा चित्तं भगवति श्रवणादिना सञ्जातया भक्त्या यथा शुद्ध्यति तथा व्रतादिभिर्न शुद्ध्यति ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट-
मायागुणेषु रमते वृजिनावहेषु।
अन्यस्तु कामहत आत्मरजः प्रमार्ष्टु-
मीहेत कर्म यत एव रजः पुनः स्यात्॥

मूलम्

कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्टमायागुणेषु रमते वृजिनावहेषु।
अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुमीहेत कर्म यत एव रजः पुनः स्यात्॥ ३३ ॥

अनुवाद (हिन्दी)

जो मनुष्य भगवान् श्रीकृष्णचन्द्रके चरणारविन्द-मकरन्द-रसका लोभी भ्रमर है, वह स्वभावसे ही मायाके आपातरम्य, दुःखद और पहलेसे ही छोड़े हुए विषयोंमें फिर नहीं रमता। किन्तु जो लोग उस दिव्य रससे विमुख हैं, कामनाओंने जिनकी विवेकबुद्धिपर पानी फेर दिया है, वे अपने पापोंका मार्जन करनेके लिये पुनः प्रायश्चित्तरूप कर्म ही करते हैं। इससे होता यह है कि उनके कर्मोंकी वासना मिटती नहीं और वे फिर वैसे ही दोष कर बैठते है॥ ३३॥

वीरराघवः

कृष्णस्याङ्घ्रिपद्मयोर्यन्मधु रसस्तं लेढ्यास्वादयतीति तथा पुनर्वृजिनावहेषु दुरितापादकेषु विसृष्टेषु प्रकृतिकार्यगतशब्दादिषु न रमते न सज्जते अन्यस्तु कृष्णाङ्घ्रिपद्ममध्वनभिज्ञस्तु कामैः शब्दादिभिर्हतोऽभिभूतः आत्मनः स्वस्य रजः पापं प्रमार्ष्टुमपनेतुं कर्म प्रायश्चित्तरूपमीहेत कुर्यादित्यर्थः । कर्म विशिनष्टि । यतः कर्मणोऽनन्तरं पुनः रजः पापं स्यात् सम्भाव्येत पुना इति रेफलोपे दीर्घः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

इत्थं स्वभर्तृगदितं भगवन्महित्वं
संस्मृत्य विस्मितधियो यमकिङ्करास्ते।
नैवाच्युताश्रयजनं प्रति शङ्कमाना
द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन्॥

मूलम्

इत्थं स्वभर्तृगदितं भगवन्महित्वं संस्मृत्य विस्मितधियो यमकिङ्करास्ते।
नैवाच्युताश्रयजनं प्रति शङ्कमाना द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन्॥ ३४ ॥

अनुवाद (हिन्दी)

परीक्षित्! जब यमदूतोंने अपने स्वामी धर्मराजके मुखसे इस प्रकार भगवान‍्की महिमा सुनी और उसका स्मरण किया, तब उनके आश्चर्यकी सीमा न रही। तभीसे वे धर्मराजकी बातपर विश्वास करके अपने नाशकी आशंकासे भगवान‍्के आश्रित भक्तोंके पास नहीं जाते और तो क्या, वे उनकी ओर आँख उठाकर देखनेमें भी डरते हैं॥ ३४॥

वीरराघवः

यमोक्तिमुपसंहरति । इत्थमिति । हे राजन्नित्थं यमेन गदितं “कर्तृकरणे” समासः भगवतो महित्वं माहात्म्यं संस्मृत्य प्रत्यभिज्ञाय विष्णुदूतोक्तिरीत्या एवं ज्ञात्वा विस्मिता धीर्येषां ते यमकिङ्कराः तेन यमशासनेनाच्युताश्रयजनं प्रति शङ्कमानाः तत्समीपगमनेनास्माकं भर्तृदण्डनं स्यादिति शङ्कमानाः तत आरभ्य तं द्रष्टुं च बिभ्यति भयं प्राप्नुवन्तीत्यर्थः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः।
कथयामास मलय आसीनो हरिमर्चयन्॥

मूलम्

इतिहासमिमं गु10ह्यं भगवान् कुम्भसम्भवः।
कथयामास मलय आसीनो हरिमर्चयन्॥ ३५ ॥

अनुवाद (हिन्दी)

प्रिय परीक्षित्! यह इतिहास परम गोपनीय—अत्यन्त रहस्यमय है। मलयपर्वतपर विराजमान भगवान् अगस्त्यजीने श्रीहरिकी पूजा करते समय मुझे यह सुनाया था॥ ३५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः॥ ३ ॥

वीरराघवः

उक्तस्य प्रामाण्यज्ञापनाय तस्याप्तप्रणीततामाह । इतिहासमिति । मलये पर्वते आसीनो भगवान् कुम्भसम्भवोऽगस्त्यः हरिमाराधयन्निमं गुह्यमितिहासं कथयामास कथितवान् ॥ ३५ ॥

इति श्रीमद्भागवते महापुराणे षष्ठस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां तृतीयोऽध्यायः ॥ ३ ॥


  1. प्रा. पा. - तानपि । ↩︎

  2. प्रा. पा. - बादरायणिरुवाच । ↩︎

  3. प्रा. पा. – गृहम् । ↩︎

  4. प्रा. पा. - बादरायणिरुत्राच । ↩︎

  5. प्रा. पा. - वासुधुतो । ↩︎

  6. प्रा. पा. - कुतो नु । ↩︎

  7. प्रा. पा. - णेन । ↩︎

  8. प्रा. पा. - अवाप । ↩︎

  9. प्रा. पा. – पर्वाण्युत्तमानि । ↩︎

  10. प्रा. पा. - मह्यं । ↩︎