[द्वितीयोऽध्यायः]
भागसूचना
विष्णुदूतोंद्वारा भागवतधर्म-निरूपण और अजामिलका परमधामगमन
श्लोक-१
मूलम् (वचनम्)
1श्रीशुक उवाच
विश्वास-प्रस्तुतिः
एवं ते भगवद्दूता यमदूताभिभाषितम्।
उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः॥
मूलम्
एवं ते भगवद्दूता यमदूताभिभाषितम्।
उपधार्याथ तान् राजन् 2प्रत्याहुर्नयकोविदाः॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! भगवान्के नीतिनिपुण एवं धर्मका मर्म जाननेवाले पार्षदोंने यमदूतोंका यह अभिभाषण सुनकर उनसे इस प्रकार कहा॥ १॥
वीरराघवः
एवं यमदूत्तैरुक्ता विष्णुदूता आहुरित्याह मुनिः । एवमिति । हे राजन् ! एवं यमदूतैर्विशेषेण भाषितमुपधार्य श्रवणेन मनसि धृत्वा न्यायनिपुणा भगवद्दूतास्तान् यमदूतान् प्रत्याहुः ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
विष्णुदूता ऊचुः
विश्वास-प्रस्तुतिः
अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम्।
यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा॥
मूलम्
अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम्।
यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा॥ २ ॥
अनुवाद (हिन्दी)
भगवान्के पार्षदोंने कहा—यमदूतो! यह बड़े आश्चर्य और खेदकी बात है कि धर्मज्ञोंकी सभामें अधर्म प्रवेश कर रहा है, क्योंकि वहाँ निरपराध और अदण्डनीय व्यक्तियोंको व्यर्थ ही दण्ड दिया जाता है॥ २॥
वीरराघवः
उक्तमेवाह । अहो इत्यादिना । “स वेद परमं गुह्यं धर्मस्य भगवान् यमः” इत्यन्तेन अहो कष्टं प्राप्तं किं तद्धर्मदृशां सभामधर्मः स्पृशते कोऽधर्मस्तत्राहुः । यत्र यमस्य सभायामपापेष्वत एवादण्डयेषु दण्डः यैर्भवादृशैर्ध्रियते कार्य्यतेऽयमेवाधर्म इति भावः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
प्रजानां पितरो ये च शास्तारः साधवः समाः।
यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः॥
मूलम्
प्रजानां पितरो ये च शास्तारः साधवः समाः।
यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः॥ ३ ॥
अनुवाद (हिन्दी)
जो प्रजाके रक्षक हैं, शासक हैं, समदर्शी और परोपकारी हैं—यदि वे ही प्रजाके प्रति विषमताका व्यवहार करने लगें तो फिर प्रजा किसकी शरण लेगी?॥ ३॥
वीरराघवः
धर्माधर्मविभागेन शास्तॄणां वैषम्यमनुचितमित्याहुः । प्रजानामिति । ये शास्तारो भवादृशाः ते समाः वैषम्यरहिताः साधवः दोषापाकरणरूपपरकार्यसाधका अत एव प्रजानां पितरः हितकारिणः यदि ईदृशेषु भगवत्स्वेव वैषम्यं स्यात्तर्हि प्रजाः कं शरणं प्राप्नुवन्ति ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
यद्यदाचरति श्रेयानितरस्तत्तदीहते।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥
मूलम्
यद्यदाचरति श्रेयानित3रस्तत्तदीहते।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥ ४ ॥
अनुवाद (हिन्दी)
सत्पुरुष जैसा आचरण करते हैं, साधारण लोग भी वैसा ही करते हैं। वे अपने आचरणके द्वारा जिस कर्मको धर्मानुकूल प्रमाणित कर देते हैं, लोग उसीका अनुकरण करने लगते हैं॥ ४॥
वीरराघवः
युष्मादृशः श्रेष्ठः कृत्स्नविद्यद्यत्कर्माचरति तत्तदेव कर्मेतरोऽकृत्स्नविदपीहते चेष्टते सः श्रेयान् यदेव शास्त्रं प्रमाणं कुरुते प्रमाणमिति मन्यते तदेवेतरो लोकेऽनुवर्त्तते अतः श्रेयसां स्वानुष्ठानेन धर्मप्रवर्तकानां वेदानुवर्त्तिनामिदमदण्ड्यदण्डनमनुचितमित्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः।
स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः॥
मूलम्
यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः।
स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः॥ ५ ॥
अनुवाद (हिन्दी)
साधारण लोग पशुओंके समान धर्म और अधर्मका स्वरूप न जानकर किसी सत्पुरुषपर विश्वास कर लेते हैं, उसकी गोदमें सिर रखकर निर्भय और निश्चिन्त सो जाते हैं॥ ५॥
वीरराघवः
किञ्च सापराधलोकस्य दण्डयिता यमः न त्वपापिनामिति विश्वासविषय एव प्राकृतवद्वैषम्येणानपराधिनोऽपि दण्डयिता स्यात्तर्हि विश्वस्तघातकतादोषः प्रसज्यते तल्लोकपरिपाटीमुखेनाहुः । यस्येति । यस्य विश्वसनीयस्याङ्के उत्सङ्गे शिरः आधाय विन्यस्य यो लोको जनः निर्वृतः सुखितः स्वपिति तमेव लोकं स एव भूतानां विस्रम्भणीयः कृपावांश्च कथं द्रोग्धुमर्हतीत्यन्वयः । निर्वृतो लोकः कथम्भूतः यथा पशुः तद्वत् स्वयं धर्ममधर्मं वा न वेद किन्तु केवलं ममायं हितकारीत्येवं वेदेति भावः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम्।
विश्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति॥
मूलम्
स कथं 4न्यर्पितात्मानं कृतमैत्रमचेतनम्।
विश्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति॥ ६ ॥
अनुवाद (हिन्दी)
वही दयालु सत्पुरुष, जो प्राणियोंका अत्यन्त विश्वासपात्र है और जिसे मित्रभावसे अपना हितैषी समझकर उन्होंने आत्मसमर्पण कर दिया है, उन अज्ञानी जीवोंके साथ कैसे विश्वासघात कर सकता है?॥ ६॥
वीरराघवः
लोकं कथम्भूतं न्यर्पितात्मानं नितरामर्पितः समर्पितः आत्मा देहो येन कृतं मैत्रं विश्वासो येन अचेतनं न विद्यते चेतना विवेको यत्य अकेतनमिति पाठे न विद्यते केतनं शरणमन्यद्यस्य तम् ॥ ६॥
श्लोक-७
विश्वास-प्रस्तुतिः
अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि।
यद् व्याजहार विवशो नाम स्वस्त्ययनं हरेः॥
मूलम्
अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि।
यद् व्याजहार विवशो नाम स्वस्त्ययनं हरेः॥ ७ ॥
अनुवाद (हिन्दी)
यमदूतो! इसने कोटि-कोटि जन्मोंकी पाप-राशिका पूरा-पूरा प्रायश्चित्त कर लिया है। क्योंकि इसने विवश होकर ही सही, भगवान्के परम कल्याणमय (मोक्षप्रद) नामका उच्चारण तो किया है॥ ७॥
वीरराघवः
नन्वस्य पापिनो दण्डे किमर्थमाक्रोशः क्रियते तत्राहुः अयं हीति । जन्मनां कोटिभिरर्जितानामंहसां पापानां कृतः निर्देशः प्रायश्चित्तं येन तथाभूतोऽयं कोऽसौ निर्वेशः तत्राहुः विवशः परवशोऽपि हरे स्वस्त्ययनं शुभावहं नाम व्याजहार जगादेति यदसावेव निर्वेश इत्यर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम्।
यदा नारायणायेति जगाद चतुरक्षरम्॥
मूलम्
एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम्।
यदा नारायणायेति जगाद चतुरक्षरम्॥ ८ ॥
अनुवाद (हिन्दी)
जिस समय इसने ‘नारायण’ इन चार अक्षरोंका उच्चारण किया, उसी समय केवल उतनेसे ही इस पापीके समस्त पापोंका प्रायश्चित्त हो गया॥ ८॥
वीरराघवः
नतु “नान्यः पन्था अयनाय विद्यते” इति न्यासोपासनव्यतिरिक्तोपायान्तरनिषेधात्कथं पारवश्यकृतस्य सङ्केतितनामोच्चारणस्याखिलांहसो निरसनद्वारेण मुक्तिसाधनत्वमित्यत्राहुः । एतेनैवेत्यादिना यतस्तद्विषया मतिरित्यन्तेन । यदा प्रयाणसमये नारायणायेत्येतच्चतुरक्षरं नाम जगादेति यदेतेनैवास्याघोन अघानां निष्कृतं कृतं स्यात् ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
स्तेनः सुरा-पो मित्र-ध्रुग्
ब्रह्महा गुरुतल्पगः।
स्त्री-राज-पितृ-गो-हन्ता
ये च पातकिनोऽपरे॥
वीरराघवः
[सावधानम् - अयम् भागो विश्वासेन परिष्कृतः - यथावद् रक्षणीयः। ]
न केवलं प्रतिपदोक्तप्रायश्चित्तादिवद् अन्तिमं नामस्मरणं कतिपयपापानां निष्कृतं
किन्तु महापातकोपपातक-संकीर्णादि-रूपेण बहुविधानां सर्वेषामपीत्य् आहुः ।
स्तेन इत्यादिना । स्तेनः स्वर्णचोरः स्तेनादयो ये महापातकिनः
ये च मित्र-स्त्र्य्-आदि-हन्तार उपपातकिनः
अपरे च ये नानाविधाः पातकिनः ॥ ९ ॥
मूलम्
स्तेनः सुरापो मित्रध्रुग्ब्रह्महा गुरुतल्पगः।
स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे॥ ९ ॥
मूलम् - कर्णावती
स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः।
स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
सर्वेषाम् अप्य् अघवताम्
इदम् एव सुनिष्कृतम्।
नाम-व्याहरणं विष्णोर्
यतस् तद्-विषया मतिः॥
विश्वास-टिप्पनी
वीररघवाभिप्राय एवम् +++(5)+++
नामोच्चारणम् → भगवद्-विषयक-मत्य्-उत्पत्ति-बाधक-निरासः → भगवद्-विषयक-मत्य्-उत्पत्तिः → भगवत्प्राप्तिप्रतिबन्धक-निरासः = सर्व-पाप-निरासः → … भक्ति-योगः → अन्तिम-स्मृतिः → मुक्तिः।
वीरराघवः
[सावधानम् - अयम् भागो विश्वासेन परिष्कृतः - यथावद् रक्षणीयः। ]
तेषां सर्वेषाम् अप्य् अघवताम्
इदम् अन्तिमं विष्णोर् नाम-व्याहरणम् एकम् एव निष्कृतम् उत्कृष्टं प्रायश्चित्तं -
यतः विष्णोर् नाम-व्याहरणात् तद्-विषया विष्णु-विषया मतिर् भवति भगवद्-विषयक-मत्य्-उत्पत्ति-प्रतिबन्धि-सकल-वृजिन-निरसन-द्वारेण
मत्य्-उत्पादकं स्मरणं तत उत्पन्ना च मतिर्
भगवत्-प्राप्ति-प्रतिबन्धक-निरसन-द्वारा मुक्ति-हेतुर् इति
“नान्यः पन्था” इत्यस्य न विरोध इति भावः ।
नन्व् एवं नामोच्चारणेनैव मुक्ति-सिद्धेर् उपासन-शास्त्र-वैय्यर्थ्यम् ।
मैवम् ।
“यं यं वापि स्मरन् भावं
त्यजत्य् अन्ते कलेवरम्”
इत्य् उक्त-न्यायेन
तत्-तद्-अन्तिम-स्मरणस्य तत्-तद्-भावापत्त्य्-आपादकत्वाद् भगवत्-स्मरणस्य भगवद्-भावापत्त्य्-आपादकत्वे स्थिते
भगवद्-अन्तिम-स्मरणोपायतया प्रयाण-पर्यन्तम् उपासनं
तत्-तच्-छास्त्रेण विधीयते।
तद् एव स्मरणं प्राचीन-संस्कार-वशाद्
अकस्मात् पङ्गूपरि गङ्गा-निपतन-न्यायेन -
पतितं चेत् तेनैव मुक्तिः।
सति जीवन-हेताव्
अन्तिम-स्मरण-पर्यन्ताया भक्तेर्
नामोच्चारणम् अभ्यस्तं सत्
कर्म-ज्ञान-योगादिवद् अनुग्राहकम्।
अ-सति +++(जीवन-हेतौ)+++ तु
तादात्विक-स्मरणस्य साक्षान् मुक्ति-साधनस्यानुग्राहकम्
इति न कोऽपि विरोधः ।
ननु जीवद्भिर् अ-सकृद् आवृत्तम् अपि
नाम न भक्ति-निर्वर्त्तकत्वेन दृष्टम्
इति चेत्
तर्हि तैर् अनुष्ठिताः कर्म-योगादयोऽपि तन्-निष्पादकत्वेन न दृष्टाः।
अथ
प्रबल-प्रतिबन्ध-वशाद्, भक्ति-योगानधिकाराद् वा विच्छिन्नस्य
तद्वद् एव नरक-परिहारकत्वं पुनर्-जन्मान्तरे भक्ति-योगारम्भापादकत्वं च
तदा भक्ति-योगानुग्राहकत्वाभावे ऽपि
जन्मान्तरेषु प्राचीन-संस्कार-वशाद् आरभ्यमाण-भक्ति-योग-निष्पादकाः कर्म-योगादय
इति चेत् तर्हि नामोच्चारणम् अप्य् एवम् एवेत्य् अवधेयं
कर्म-योगादीनाम् अभिसंहित-फलानाम् ऐश्वर्य-कैवल्यादि-साधनत्वम्
अनभिसंहित-फलानां तु भक्तियोग-निर्वर्त्तकत्वं,
संयोग-पृथक्त्व-न्यायेन नामोच्चारणस्य तु
सति जीवन-हेताव् अ-सकृद्-आवृत्तस्य भक्ति-योगोत्पत्ति-प्रतिबन्ध-निरसनेन
+अनभिसंहित-फल-कर्मादि-योग-वद् भक्ति-योगानुग्राहकत्वम् ।
इयांस् तु विशेषः -
असति त्व् अन्तिम-प्रत्यय-जनने
न स्व-तन्त्र-न्यास-योगवत् साक्षान्-मुक्ति-साधनत्वम्
इति अलम् अतिविस्तरेण ॥ १० ॥
मूलम्
सर्वेषामप्यघवतामिदमेव सुनिष्कृतम्।
नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः॥ १० ॥
अनुवाद (हिन्दी)
चोर, शराबी, मित्रद्रोही, ब्रह्मघाती, गुरुपत्नीगामी, ऐसे लोगोंका संसर्गी; स्त्री, राजा, पिता और गायको मारनेवाला, चाहे जैसा और चाहे जितना बड़ा पापी हो, सभीके लिये यही—इतना ही सबसे बड़ा प्रायश्चित्त है कि भगवान्के नामोंका उच्चारण* किया जाय; क्योंकि भगवन्नामोंके उच्चारणसे मनुष्यकी बुद्धि भगवान्के गुण, लीला और स्वरूपमें रम जाती है और स्वयं भगवान्की उसके प्रति आत्मीय बुद्धि हो जाती है॥ ९-१०॥
पादटिप्पनी
- इस प्रसंगमें ‘नाम-व्याहरण’ का अर्थ नामोच्चारणमात्र ही है। भगवान् श्रीकृष्ण कहते हैं—
यद् गोविन्देति चुक्रोश
कृष्णा मां दूर-वासिनम्।
ऋणम् एतत् प्रवृद्धं मे
हृदयान् नापसर्पति॥
‘मेरे दूर होनेके कारण द्रौपदीने जोर-जोरसे ‘गोविन्द, गोविन्द’ इस प्रकार करुण क्रन्दन करके मुझे पुकारा। वह ऋण मेरे ऊपर बढ़ गया है और मेरे हृदयसे उसका भार क्षणभरके लिये भी नहीं हटता।
श्लोक-११
विश्वास-प्रस्तुतिः
न निष्कृतैर् उदितैर् ब्रह्म-वादिभिस्
तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः।
यथा हरेर् नाम-पदैर् उदाहृतैस्
तद्-उत्तम-श्लोक-गुणोपलम्भकम्॥
वीरराघवः
“सर्वेषाम् अप्यघवताम् इदमेव सुनिष्कृतम्"
इत्य् अनेन कतिपय-दुरित-निवर्त्तकात् प्रतिपदोक्त-प्रायश्चित्तात्
सकल-दुरित-निवर्त्तकत्वेन नामोच्चारणस्योत्कृष्टत्वं सूचितं
तद् एव प्रतिपादयन्ति ।
नेति द्वाभ्याम् ।
ब्रह्म-वादिभिर् मन्वादिभिर् उदितैर् उक्तैर् व्रतादिभिः
प्राजापत्य-कृच्छ्र-चान्द्रायणादि-व्रतादिभिः
प्रायश्चित्तैर् अघवान् पुरुषस्
तथा न शुध्येत् - कथम्?
यथोदाहृतैर् हरेर् भगवतो नाम-रूपैः नाम-पदैः शुद्ध्येत्।
तत्र हेतुः तद्-उत्तम-श्लोक-गुणानुलम्भकम्
इति तद्-धरेर् नाम-पदोदाहरणम् उत्तम-श्लोकस्य भगवतः
तद्-गुणानां चोपलम्भकं ज्ञापकम्
उत्तम-श्लोक–तद्-गुण-विषयक-मत्य्-उत्पादकम् इत्यर्थः ।
जीवद्-दशायाम् अनभिसंहित-फल-कर्म-योगादि-भक्ति-रूप-मत्य्-उत्पादकम्
अन्तिम-दशायां तु साक्षान्-मुक्ति-साधनान्तिम-स्मरण-रूप-मत्य्-उत्पादकम् इति विवेकः ॥ ११ ॥
मूलम्
न निष्कृ5तैरुदितैर्ब्रह्मवादिभिस्तथा विशुद्ध्यत्यघवान् व्रतादिभिः।
यथा हरेर्नामपदैरुदाहृतैस्तदुत्तमश्लोकगुणोपलम्भकम्॥ ११ ॥
अनुवाद (हिन्दी)
बड़े-बड़े ब्रह्मवादी ऋषियोंने पापोंके बहुत-से प्रायश्चित्त—कृच्छ्र, चान्द्रायण आदि व्रत बतलाये हैं; परन्तु उन प्रायश्चत्तोंसे पापीकी वैसी जड़से शुद्धि नहीं होती, जैसी भगवान्के नामोंका, उनसे गुम्फित पदोंका* उच्चारण करनेसे होती है। क्योंकि वे नाम पवित्र कीर्ति भगवान्के गुणोंका ज्ञान करानेवाले हैं॥ ११॥
पादटिप्पनी
‘नामपदैः’ कहनेका यह अभिप्राय है कि भगवान्का केवल नाम ‘राम-राम’, ‘कृष्ण-कृष्ण’, ‘हरि-हरि’, ‘नारायण-नारायण’ अन्तःकरणकी शुद्धिके लिये—पापोंकी निवृत्तिके लिये पर्याप्त है।
‘नमः नमामि’ इत्यादि क्रिया जोड़नेकी भी कोई आवश्यकता नहीं है।
नामके साथ बहुवचनका प्रयोग—भगवान्के नाम बहुत-से हैं,
किसीका भी संकीर्तन कर ले,
इस अभिप्रायसे है।
एक व्यक्ति सब नामोंका उच्चारण करे,
इस अभिप्रायसे नहीं।
क्योंकि भगवान्के नाम अनन्त हैं;
सब नामोंका उच्चारण सम्भव ही नहीं है।
तात्पर्य यह है कि भगवान्के एक नामका उच्चारण करने मात्रसे
सब पापोंकी निवृत्ति हो जाती है।
पूर्ण विश्वास न होने
तथा नामोच्चारणके पश्चात् भी पाप करनेके कारण ही
उसका अनुभव नहीं होता।
श्लोक-१२
विश्वास-प्रस्तुतिः
नैकान्तिकं+++(→नात्यन्त-शोधकं)+++ तद्+++(=व्रतान्तरम्)+++ +धि कृतेऽपि निष्कृते+++(=प्रायश्चित्ते)+++
मनः पुनर् धावति चेद् अ-सत्-पथे।
तत् कर्म-निर्हारम् अभीप्सतां हरेर्
गुणानुवादः खलु सत्त्व-भावनः॥
वीरराघवः
ब्रह्मवादिभिर् उक्तं निष्कृतं नैकान्तिकं नात्यन्त-शोधकं - कुतः?
हि यतः निष्कृते तस्मिन् कृतेऽपि अ-सत्-पथे पाप-मार्गे पुनर् मनो धावति।
चेद् इत्य् एव-कारार्थः ।
निपातानाम् अनेकार्थत्वाद् धावत्य् एवेत्य् अर्थः ।
तत् तस्मात् कर्मणां पापानां निर्हारम् आत्यन्तिकं नाशम् अभीप्सताम् अभिलषतां भूतानां
हरेर् गुणानुवादः स एव प्रायश्चित्तं
गुणा अनूद्यन्ते येन स गुणानुवादः नामव्याहारः
स हि सत्त्वभावनः सम्यग्-ज्ञान-हेतु-भूतस् सत्त्व-वर्द्धकः ॥ १२ ॥
मूलम्
नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे।
तत्कर्मनिर्हारमभीप्सतां हरेर्गुणानुवादः खलु सत्त्वभावनः॥ १२ ॥
अनुवाद (हिन्दी)
यदि प्रायश्चित्त करनेके बाद भी मन फिरसे कुमार्गमें—पापकी ओर दौड़े, तो वह चरम सीमाका—पूरा-पूरा प्रायश्चित्त नहीं है। इसलिये जो लोग ऐसा प्रायश्चित्त करना चाहें कि जिससे पापकर्मों और वासनाओंकी जड़ ही उखड़ जाय, उन्हें भगवान्के गुणोंका ही गान करना चाहिये; क्योंकि उससे चित्त सर्वथा शुद्ध हो जाता है॥ १२॥
श्लोक-१३
विश्वास-प्रस्तुतिः
अथैनं मापनयत कृताशेषाघनिष्कृतम्।
यदसौ भगवन्नाम म्रियमाणः समग्रहीत्॥
मूलम्
अथैनं मापनयत कृताशेषाघनिष्कृतम्।
यदसौ भगवन्नाम म्रियमाणः समग्रहीत्॥ १३ ॥
अनुवाद (हिन्दी)
इसलिये यमदूतो! तुमलोग अजामिलको मत ले जाओ। इसने सारे पापोंका प्रायश्चित्त कर लिया है, क्योंकि इसने मरते समय* भगवान्के नामका उच्चारण किया है॥ १३॥
पादटिप्पनी
- पापकी निवृत्तिके लिये भगवन्नामका एक अंश ही पर्याप्त है, जैसे ‘राम’ का ‘रा’। इसने तो सम्पूर्ण नामका उच्चारण कर लिया। मरते समयका अर्थ ठीक मरनेका क्षण ही नहीं है, क्योंकि मरनेके क्षण जैसे कृच्छ्र-चान्द्रायण आदि करनेके लिये विधि नहीं हो सकती, वैसे नामोच्चारण भी नहीं है। इसलिये ‘म्रियमाण’ शब्दका यह अभिप्राय है कि अब आगे इससे कोई पाप होनेकी सम्भावना नहीं है।
वीरराघवः
अथ हे यमदूताः ! कृतमशेषाघनिष्कृतं येन तमेनं मापनयत माप्रापयत यमालयमिति शेषः । कुतः यद्यस्मादसावजामिलः म्रियमाणो भगवतो नाम सम्यगग्रहीदुष्वचार ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः॥
मूलम्
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः॥ १४ ॥
अनुवाद (हिन्दी)
बड़े-बड़े महात्मा पुरुष यह बात जानते हैं कि संकेतमें (किसी दूसरे अभिप्रायसे), परिहासमें, तान अलापनेमें अथवा किसीकी अवहेलना करनेमें भी यदि कोई भगवान्के नामोंका उच्चारण करता है तो, उसके सारे पाप नष्ट हो जाते हैं॥ १४॥
वीरराघवः
नन्वसौ पुत्रे सङ्केतितं नारायणेति पदमुञ्चारितवानतः तत्पुत्रविषयकमत्युत्पादनद्वारा एनं संसारयेदेव ननु भगवद्विषयकमत्युत्पादनद्वारा मोचयेदित्यपेक्षायां यदृच्छया भस्मादिबुद्ध्या वास्पष्टस्याग्नेर्यदृच्छ्या पीतस्यौषधस्य दाहकत्वारोग्यजनकत्ववद्वस्तूनां विलक्षणस्वभावत्वात्सङ्केतितस्यासङ्केतितस्य वान्यादृशो भगवन्नाम्नः सर्वाधनिवर्त्तकत्वं भगवद्विषयकमत्युत्पादकत्वं च स्वाभाविको धर्म इत्याहुः । साङ्केत्यमित्यादिना मन्त्रोऽप्युदाहृत इत्यन्तेन ग्रन्थेन । साङ्केत्यं पुत्रादौ सङ्केतकृतं पारिहास्यमुच्चारणासमर्थजनपरिहासकृतं स्तोभं (१) निरालापकृतम् । यद्वा । भूताविष्टस्य मन्त्रशक्त्यादिभिरालापनं स्तोभस्तत्कृतमित्यर्थः । हेलनं स्वविरोधिजननिन्दाद्यन्तर्भूतम् । यद्वा । किं विष्णुनेति सावज्ञं हेलनरूपं वा अन्यदपि प्रकारान्तरमापन्नं वैकुण्ठस्य भगवतो नामग्रहणं निःशेषपापहरं विदुः नामसामर्थ्ययाथात्म्यविद इति शेषः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः।
हरिरित्यवशेनाह पुमान्नार्हति यातनाम्॥
मूलम्
पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः।
हरिरित्यवशेनाह पुमान्नार्हति यातनाम्॥ १५ ॥
अनुवाद (हिन्दी)
जो मनुष्य गिरते समय, पैर फिसलते समय, अंग-भंग होते समय और साँपके डँसते, आगमें जलते तथा चोट लगते समय भी विवशतासे ‘हरि-हरि’ कहकर भगवान्के नामका उच्चारण कर लेता है, वह यमयातनाका पात्र नहीं रह जाता॥ १५॥
वीरराघवः
तथा पतितः प्रासादादेः मार्गे भगवदाज्ञारूपवर्णाश्रमधर्माद्वास्खलितः भग्नः भग्नपादाद्यवयवः संदष्टः सर्पादिभिः तप्तो ज्वरादिना आहतो दण्डादिना एतदन्यतमामवस्थां प्राप्तः पुमान् यद्यवशेनापि हरिरित्याह । तर्हि यातनाः प्रति नार्हति ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
गुरूणां च लघूनां च गुरूणि च लघूनि च।
प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः॥
मूलम्
गुरूणां च लघूनां च गुरूणि च लघूनि च।
प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः॥ १६ ॥
अनुवाद (हिन्दी)
महर्षियोंने जान-बूझकर बड़े पापोंके लिये बड़े और छोटे पापोंके लिये छोटे प्रायश्चित्त बतलाये हैं॥ १६॥
वीरराघवः
ननु महतः पापस्य महदेव प्रायश्चित्तं नत्वल्पं नामग्रहणं पापतारतम्येन प्रायश्चित्ततारतम्यस्य मन्वादिभिरुक्तत्वादन्यथा प्रायश्चित्तशास्त्रवैयर्थ्यं स्यादित्यन्तरा कस्यचिन्मन्दाशङ्कां निराकुर्वन्ति । गुरुणामिति । गुरूणां पापानां गुरुणि प्रायश्चित्तानि लबूनां लघूनि महर्षिभिर्यथावज्ज्ञात्वा यद्यप्युक्तानि ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तैस्तान्यघानि पूयन्ते तपोदानजपादिभिः।
नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया॥
मूलम्
तैस्तान्यघानि पूयन्ते तपोदानजपादिभिः।
नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया॥ १७ ॥
अनुवाद (हिन्दी)
इसमें सन्देह नहीं कि उन तपस्या, दान, जप आदि प्रायश्चित्तोंके द्वारा वे पाप नष्ट हो जाते हैं। परन्तु उन पापोंसे मलिन हुआ उसका हृदय शुद्ध नहीं होता। भगवान्के चरणोंकी सेवासे वह भी शुद्ध हो जाता है॥ १७॥
वीरराघवः
तथापि तैस्तैः तपआदिभिः प्रायश्चित्तैरघानि प्रतिनियतनिवर्त्यानि पूयन्ते निवर्त्यन्ते न त्वधर्मजमधर्म जनयतीत्यधर्मजं हृदयं मनश्चित्तशुद्धिर्न जायत इत्यर्थः । तर्ह्यधर्मस्य निमित्तं हृदयं केन शुद्ध्यतीत्यत्राहुः । तदपीति । तद्धृदयमपीश्वराङ्घ्रिसेवया नामस्मरणादिरूपया भगवत्सेवया शुद्ध्यतीत्यर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत्।
सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः॥
मूलम्
अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत्।
सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः॥ १८ ॥
अनुवाद (हिन्दी)
यमदूतो! जैसे जान या अनजानमें ईंधनसे अग्निका स्पर्श हो जाय तो वह भस्म हो ही जाता है, वैसे ही जान-बूझकर या अनजानमें भगवान्के नामोंका संकीर्तन करनेसे मनुष्यके सारे पाप भस्म हो जाते हैं॥ १८॥
वीरराघवः
तत्तस्माज्ज्ञानादिदं भगवन्नामाशेषाघनिवर्त्तकमिति ज्ञानादथवा अज्ञानात्सङ्केतपरिहासादिनिमित्ताद्वा सङ्कीर्तितमुत्तमश्लोकस्य भगवतो नाम पुंसः पापिनोऽघं दहत्येव निवर्त्तयत्येव यथानलोऽग्निः ज्ञानादज्ञानाद्वा स्पृष्टो दहति तद्वदित्यर्थः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
यथागदं वीर्यतममुपयुक्तं यदृच्छया।
अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः॥
मूलम्
यथागदं वीर्यतममुपयुक्तं यदृच्छया।
अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः॥ १९ ॥
अनुवाद (हिन्दी)
जैसे कोई परम शक्तिशाली अमृतको उसका गुण न जानकर अनजानमें पी ले तो भी वह अवश्य ही पीनेवालेको अमर बना देता है, वैसे ही अनजानमें उच्चारण करनेपर भी भगवान्का नाम* अपना फल देकर ही रहता है (वस्तुशक्ति श्रद्धाकी अपेक्षा नहीं करती)॥ १९॥
पादटिप्पनी
- वस्तुकी स्वाभाविक शक्ति इस बातकी प्रतीक्षा नहीं करती कि यह मुझपर श्रद्धा रखता है कि नहीं, जैसे अग्नि या अमृत।
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः॥
‘दुष्टचित्त मनुष्यके द्वारा स्मरण किये जानेपर भी भगवान् श्रीहरि पापोंको हर लेते हैं। अनजानमें या अनिच्छासे स्पर्श करनेपर भी अग्नि जलाती ही है।’
भगवान्के नामका उच्चारण केवल पापको ही निवृत्त करता है, इसका और कोई फल नहीं है, यह धारणा भ्रमपूर्ण है; क्योंकि शास्त्रमें कहा है—
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति॥
‘जिसने हरि’—ये दो अक्षर एक बार भी उच्चारण कर लिये, उसने मोक्ष प्राप्त करनेके लिये परिकर बाँध लिया, फेंट कस ली।’ इस वचनसे यह सिद्ध होता है कि भगवन्नाम मोक्षका भी साधन है। मोक्षके साथ-ही-साथ यह धर्म, अर्थ और कामका भी साधन है; क्योंकि ऐसे अनेक प्रमाण मिलते हैं, जिनमें त्रिवर्ग-सिद्धिका भी नाम ही कारण बतलाया गया है—
न गङ्गा न गयासेतुर्न काशी न च पुष्करम्।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः।
अधीतास्तेन येनोक्तं हरिरित्यक्षरद्वयम्॥
अश्वमेधादिभिर्यज्ञैर्नरमेधैः सदक्षिणैः।
यजितं तेन येनोक्तं हरिरित्यक्षरद्वयम्॥
प्राणप्रयाणपाथेयं संसारव्याधिभेषजम्।
दुःखक्लेशपरित्राणं हरिरित्यक्षरद्वयम्॥
‘जिसकी जिह्वाके नोकपर ‘हरि’ ये दो अक्षर बसते हैं, उसे गंगा, गया, सेतुबन्ध, काशी और पुष्करकी कोई आवश्यकता नहीं, अर्थात् उनकी यात्रा, स्नान आदिका फल भगवन्नामसे ही मिल जाता है। जिसने ‘हरि’ इन दो अक्षरोंका उच्चारण कर लिया, उसने ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेदका अध्ययन कर लिया। जिसने ‘हरि’ ये दो अक्षर उच्चारण किये, उसने दक्षिणाके सहित अश्वमेध आदि यज्ञोंके द्वारा यजन कर लिया। ‘हरि’ ये दो अक्षर मृत्युके पश्चात् परलोकके मार्गमें प्रयाण करनेवाले प्राणोंके लिये पाथेय (मार्गके लिये भोजनकी सामग्री) हैं, संसाररूप रोगके लिये सिद्ध औषध हैं और जीवनके दुःख और क्लेशोंके लिये परित्राण हैं।’
इन वचनोंसे यह सिद्ध होता है कि भगवन्नाम अर्थ, धर्म, काम—इन तीन वर्गोंका भी साधक है। यह बात ‘हरि’, ‘नारायण’ आदि कुछ विशेष नामोंके सम्बन्धमें ही नहीं है, प्रत्युत सभी नामोंके सम्बन्धमें है; क्योंकि स्थान-स्थानपर यह बात सामान्यरूपसे कही गयी है कि अनन्तके नाम, विष्णुके नाम, हरिके नाम इत्यादि। भगवान्के सभी नामोंमें एक ही शक्ति है।
नाम-संकीर्तन आदिमें वर्ण-आश्रम आदिका भी नियम नहीं है—
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः।
यत्र तत्रानुकुर्वन्ति विष्णोर्नामानुकीर्तनम्।
सर्वपापविनिर्मुक्तास्तेऽपि यान्ति सनातनम्॥
‘ब्राह्मण, क्षत्रिय, वैश्य, स्त्री, शूद्र, अन्त्यज आदि जहाँ-तहाँ विष्णुभगवान्के नामका अनुकीर्तन करते रहते हैं, वे भी समस्त पापोंसे मुक्त होकर सनातन परमात्माको प्राप्त होते हैं।’
नाम-संकीर्तनमें देश-काल आदिके नियम भी नहीं हैं—
यथा—
न देशकालनियमः शौचाशौचविनिर्णयः।
परं संकीर्तनादेव राम रामेति मुच्यते॥
××××
न देशनियमो राजन्न कालनियमस्तथा।
विद्यते नात्र संदेहो विष्णोर्नामानुकीर्तने॥
कालोऽस्ति यज्ञे दाने वा स्नाने कालोऽस्ति सज्जपे।
विष्णुसंकीर्तने कालो नास्त्यत्र पृथिवीपते॥
गच्छंस्तिष्ठन्स्वपन्वापि पिबन्भुञ्जञ्जपंस्तथा।
कृष्ण कृष्णेति संकीर्त्य मुच्यते पापकञ्चुकात्॥
××××
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥
‘देश-कालका नियम नहीं है, शौच-अशौच आदिका निर्णय करनेकी भी आवश्यकता नहीं है। केवल ‘राम-राम’ यह संकीर्तन करनेमात्रसे जीव मुक्त हो जाता है। × × × भगवान्के नामका संकीर्तन करनेमें न देशका नियम है और न तो कालका। इसमें कोई सन्देह नहीं। राजन्! यज्ञ, दान, तीर्थस्नान अथवा विधिपूर्वक जपके लिये शुद्ध कालकी अपेक्षा है, परन्तु भगवन्नामके इस संकीर्तनमें काल-शुद्धिकी कोई आवश्यकता नहीं है। चलते-फिरते, खड़े रहते—सोते, खाते-पीते और जप करते हुए भी ‘कृष्ण-कृष्ण’ ऐसा संकीर्तन करके मनुष्य पापके केंचुलसे छूट जाता है। × × अपवित्र हो या पवित्र—सभी अवस्थाओंमें (चाहे किसी भी अवस्थामें) जो कमलनयन भगवान्का स्मरण करता है, वह बाहर-भीतर पवित्र हो जाता है।’
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते।
भस्मीभवन्ति सद्यस्तु महापातककोटयः॥
सर्वेषामपि यज्ञानां लक्षणानि व्रतानि च।
तीर्थस्नानानि सर्वाणि तपांस्यनशनानि च॥
वेदपाठसहस्राणि प्रादक्षिण्यं भुवः शतम्।
कृष्णनामजपस्यास्य कलां नार्हन्ति षोडशीम्॥
‘जिसकी जिह्वापर ‘कृष्ण-कृष्ण-कृष्ण’ यह मंगलमय नाम नृत्य करता रहता है, उसकी कोटि-कोटि महापातकराशि तत्काल भस्म हो जाती है। सारे यज्ञ, लाखों व्रत, सर्वतीर्थ-स्नान, तप, अनेकों उपवास, हजारों वेद-पाठ, पृथ्वीकी सैकड़ों प्रदक्षिणा कृष्णनाम-जपके सोलहवें हिस्सेके बराबर भी नहीं हो सकतीं।’
भगवन्नामके कीर्तनमें ही यह फल हो, सो बात नहीं। उनके श्रवण और स्मरणमें भी वही फल है। दशम स्कन्धके अन्तमें कहेंगे ‘जिनके नामका स्मरण और उच्चारण अमंगलघ्न है।’ शिवगीता और पद्मपुराणमें कहा है—
आश्चर्ये वा भये शोके क्षते वा मम नाम यः।
व्याजेन वा स्मरेद्यस्तु स याति परमां गतिम्॥
प्रयाणे चाप्रयाणे च यन्नामस्मरतां नृणाम्।
सद्यो नश्यति पापौघो नमस्तस्मै चिदात्मने॥
‘भगवान् कहते हैं कि आश्चर्य, भय, शोक, क्षत (चोट लगने) आदिके अवसरपर जो मेरा नाम बोल उठता है, या किसी व्याजसे स्मरण करता है, वह परमगतिको प्राप्त होता है। मृत्यु या जीवन—चाहे जब कभी भगवान्का नाम स्मरण करनेवाले मनुष्योंकी पापराशि तत्काल नष्ट हो जाती है। उन चिदात्मा प्रभुको नमस्कार है।’
‘इतिहासोत्तम’ में कहा गया है—
श्रुत्वा नामानि तत्रस्थास्तेनोक्तानि हरेर्द्विज।
नारका नरकान्मुक्ताः सद्य एव महामुने॥
‘महामुनि ब्राह्मणदेव! भक्तराजके मुखसे नरकमें रहनेवाले प्राणियोंने श्रीहरिके नामका श्रवण किया और वे तत्काल नरकसे मुक्त हो गये।’
यज्ञ-यागादिरूप धर्म अपने अनुष्ठानके लिये जिस पवित्र देश, काल, पात्र, शक्ति, सामग्री, श्रद्धा, मन्त्र, दक्षिणा आदिकी अपेक्षा रखता है, इस कलियुगमें उसका सम्पन्न होना अत्यन्त कठिन है। भगवन्नाम-संकीर्तनके द्वारा उसका फल अनायास ही प्राप्त किया जा सकता है। भगवान् शंकर पार्वतीके प्रति कहते हैं—
ईशोऽहं सर्वजगतांना म्नां विष्णोर्हि जापकः।
सत्यं सत्यं वदाम्येव हरेर्नान्या गतिर्नृणाम्॥
‘सम्पूर्ण जगत्का स्वामी होनेपर भी मैं विष्णुभगवान्के नामका ही जप करता हूँ। मैं तुमसे सत्य-सत्य कहता हूँ, भगवान्को छोड़कर जीवोंके लिये अन्य कर्मकाण्ड आदि कोई भी गति नहीं है।’ श्रीमद्भागवतमें ही यह बात आगे आनेवाली है कि सत्ययुगमें ध्यानसे, त्रेतामें यज्ञसे और द्वापरमें अर्चा-पूजासे जो फल मिलता है, कलियुगमें वह केवल भगवन्नामसे मिलता है। और भी है कि कलियुग दोषोंका निधि है, परन्तु इसमें एक महान् गुण यह है कि श्रीकृष्ण-संकीर्तनमात्रसे ही जीव बन्धनमुक्त होकर परमात्माको प्राप्त कर लेता है।
इस प्रकार एक बारके नामोच्चारणकी भी अनन्त महिमा शास्त्रोंमें कही गयी है। यहाँ मूल प्रसंगमें ही—‘एकदापि’ कहा गया है; ‘सकृदुच्चरितम्’ का उल्लेख किया जा चुका है। बार-बार जो नामोच्चारणका विधान है, वह आगे और पाप न उत्पन्न हो जायँ, इसके लिये है। ऐसे भी वचन मिलते हैं कि भगवान्के नामका उच्चारण करनेसे भूत, वर्तमान और भविष्यके सारे ही पाप भस्म हो जाते है, यथा—
वर्तमानं च यत् पापंयद्भूतं यद् भविष्यति।
तत्सर्वं निर्दहत्याशु गोविन्दानलकीर्तनम्॥
फिर भी भगवत्प्रेमी जीवको पापोंके नाशपर अधिक दृष्टि नहीं रखनी चाहिये; उसे तो भक्ति-भावकी दृढ़ताके लिये, भगवान्के चरणोंमें अधिकाधिक प्रेम बढ़ता जाय, इस दृष्टिसे अहर्निश नित्य-निरन्तर भगवान्के मधुर-मधुर नाम जपते जाना चाहिये। जितनी अधिक निष्कामता होगी, उतनी-ही-उतनी नामकी पूर्णता प्रकट होती जायगी, अनुभवमें आती जायगी।
अनेक तार्किकोंके मनमें यह कल्पना उठती है कि नामकी महिमा वास्तविक नहीं है, अर्थवादमात्र है। उनके मनमें यह धारणा तो हो ही जाती है कि शराबकी एक बूँद भी पतित बनानेके लिये पर्याप्त है, परंतु यह विश्वास नहीं होता कि भगवान्का एक नाम भी परम कल्याणकारी है। शास्त्रोंमें भगवन्नाम-महिमाको अर्थवाद समझना पाप बताया है।
पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः।
तैरर्जितानि पुण्यानि तद्वदेव भवन्ति हि॥
‘जो नराधम पुराणोंमें अर्थवादकी कल्पना करते हैं उनके द्वारा उपार्जित पुण्य वैसे ही हो जाते हैं।’
××××
मन्नामकीर्तनफलं विविधं निशम्य
न श्रद्दधाति मनुते यदुतार्थवादम्।
यो मानुषस्तमिह दुःखचये क्षिपामि
संसारघोरविविधार्तिनिपीडिताङ्गम्॥
‘जो मनुष्य मेरे नाम-कीर्तनके विविध फल सुनकर उसपर श्रद्धा नहीं करता और उसे अर्थवाद मानता है, उसको संसारके विविध घोर तापोंसे पीड़ित होना पड़ता है और उसे मैं अनेक दुःखोंमें डाल देता हूँ।’
अर्थवादं हरेर्नाम्नि संभावयति यो नरः।
स पापिष्ठो मनुष्याणां नरके पतति स्फुटम्॥
× × × × ‘जो मनुष्य भगवान्के नाममें अर्थवादकी सम्भावना करता है, वह मनुष्योंमें अत्यन्त पापी है और उसे नरकमें गिरना पड़ता है।’
वीरराघवः
यथा च वीर्यतममगदुमौषधं यदृच्छया ज्ञानादज्ञानाद्वा उपयुक्तं भस्मितं सदारोग्यं जनयतीति शेषः । तथा भगवन्नामात्मको मन्त्रोऽपि आत्मनः स्वस्य गुणं नाम्नः सामर्थ्यमजानतापि पुरुषेणोदाहृतः उच्चारितः सन्नघं दहत्येवेति पूर्वेणान्वयः । वस्तूनां विलक्षणस्वभावत्वादिति भावः ॥ १९ ॥
श्लोक-२०
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
त एवं सुविनिर्णीय धर्मं भागवतं नृप।
तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन्॥
मूलम्
त एवं सुविनिर्णीय धर्मं भागवतं नृप।
तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन्॥ २० ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—राजन्! इस प्रकार भगवान्के पार्षदोंने भागवत-धर्मका पूरा-पूरा निर्णय सुना दिया और अजामिलको यमदूतोंके पाशसे छुड़ाकर मृत्युके मुखसे बचा लिया॥ २०॥
वीरराघवः
एवमुक्ता यमदूताः विप्रं मुमुचुरित्याह मुनिः ते इति । हे नृप ! ते यमभदा एवमुक्तविधं भागवतं भगवन्नामोच्चारणरूपं धर्मं विनिर्णीय निःशेषदुरितक्षपणसमर्थं विनिश्चित्य तं विप्रं याम्यपाशान्निर्मुच्य विमुक्तं कृत्वा मृत्योरमूमुचन् मोचितवन्तः मृत्योरमूमुचन्नित्यस्यायमभिप्रायः आयुः क्षयकरात्पापाधिक्यात्तस्य मृत्युः प्रसक्तः तत्समये च तमानेतुं याम्याः पुरुषा आजग्मुः तस्मिश्चाधिके पापे अन्तिमनामोच्चारणेनाकस्मादापतितेन समूलं विनष्टे सति मृत्योरपि निवृत्तिरित्यत एवं “स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते । मतिं चकार तनये” इति पूर्वग्रन्थस्य “द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः” इत्युत्तरग्रन्थेन सह न विरोधः अन्यथा प्रसक्तमृत्योर्निवारणासम्भवात्पुनर्जीवनकथनं भक्तियोगोपसंहारकथनं च विरुध्येतेति ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके।
यमराज्ञे यथा सर्वमाचचक्षुररिंदम॥
मूलम्
इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके।
यमराज्ञे यथा सर्वमाचचक्षुररिंदम॥ २१ ॥
मूलम् - कर्णावती
इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके।
यमराज्ञे यथा सर्वमाचचक्षुररिन्दम॥ २१ ॥
अनुवाद (हिन्दी)
प्रिय परीक्षित्! पार्षदोंकी यह बात सुनकर यमदूत यमराजके पास गये और उन्हें यह सारा वृत्तान्त ज्यों-का-त्यों सुना दिया॥ २१॥
वीरराघवः
ततो यमदूता द्विजो विष्णुदूताश्च किमकार्षुस्तत्राह । इतीत्थं प्रत्युदिताः प्रत्याख्याताः याम्या दूताः यमसमीपं यात्वा गत्वा यमराज्ञे यमराजाय समासविधेरनित्यत्वान्न टच् आर्षत्वाद्वा । हे अरिन्दम ! यथासर्वमुक्तं सर्वमनतिक्रम्याचचक्षुः कथितवन्तः इति ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः।
ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः॥
मूलम्
द्विजः पाशाद्विनिर्मुक्तो गतमीः प्रकृतिं गतः।
ववन्दे शिरसा विष्णोः किङ्करान् दर्शनो6त्सवः॥ २२ ॥
अनुवाद (हिन्दी)
अजामिल यमदूतोंके फंदेसे छूटकर निर्भय और स्वस्थ हो गया। उसने भगवान्के पार्षदोंके दर्शनजनित आनन्दमें मग्न होकर उन्हें सिर झुकाकर प्रणाम किया॥ २२॥
वीरराघवः
द्विजो यमपाशाद्विनिर्मुक्तः गतभीर्निर्भयः प्रकृतिं पूर्वावस्थां गतः प्राप्तः पुनर्जीवितवानित्यर्थः । विष्णोः किङ्करान् दर्शनेनोत्सवो हर्षो यस्य तादृक् शिरसा ववन्दे नमस्कृतवान् हे अनघ ! ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः।
सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ॥
मूलम्
तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः।
सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ॥ २३ ॥
अनुवाद (हिन्दी)
निष्पाप परीक्षित्! भगवान्के पार्षदोंने देखा कि अजामिल कुछ कहना चाहता है, तब वे सहसा उसके सामने ही वहीं अन्तर्धान हो गये॥ २३॥
वीरराघवः
तं द्विजं विवक्षुं किञ्चिद्वक्तुमिच्छुमभिप्रेत्यालक्ष्य महापुरुषस्य भगवतः किङ्कराः सहसा आशु तस्य द्विजस्य पश्यतः सतः अन्तर्दधिरेऽन्तर्हितवन्तः अस्य भगवत्प्राप्त्यपेक्षाजननायान्तर्द्धानम् । सर्वज्ञोऽपि हि सर्वेशः सदा कारुणिकोऽपि सन् । संसारतन्त्रवाहित्वाद्रक्षापेक्षामपेक्षते । इति ह्युक्तम् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः।
धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम्॥
मूलम्
अ7जामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः।
धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम्॥ २४ ॥
अनुवाद (हिन्दी)
इस अवसरपर अजामिलने भगवान्के पार्षदोंसे विशुद्ध भागवत-धर्म और यमदूतोंके मुखसे वेदोक्त सगुण (प्रवृत्तिविषयक) धर्मका श्रवण किया था॥ २४॥
वीरराघवः
अथ तदन्तर्द्धानानन्तरमजामिलः यमकृष्णयोर्दूतानां शुद्धं भागवतं धर्ममाकर्ण्य भगवन्माहात्म्यश्रवणाद्भगवद्भक्तिमानासीदित्युत्तरेणान्वयः । तत्र यमदूतानां त्रैविध्यं गुणाश्रयं धर्ममाकर्ण्य कृष्णदूतानां शुद्धं भागवतं धर्ममाकर्ण्येत्यन्वयः । त्रिविधो वेदः ऋग्यजुःसामात्मकत्वात्तद्विहितं त्रैविध्यं पूर्वभागविहितं कर्म गुणाश्रयं गुणत्रयवश्यजनाधिकारं शुद्धं सत्त्वगुणप्रधानजनाधिकारं भागवतं भगवतः सम्बन्धिनं भगवत्प्रार्श्वेति पाठे आसीदिति क्रियापदाध्याहारः आकर्णेत्यस्याकर्णितं मनस्यवधार्येत्यर्थः । अन्यथा तिरोधानात्पूर्वमेवाकर्णितत्वादथेत्यनेन सह विरोधापत्तेः अथेत्यस्य नन्विति वार्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
भक्तिमान् भगवत्याशु माहात्म्यश्रवणाद्धरेः।
अनुतापो महानासीत्स्मरतोऽशुभमात्मनः॥
मूलम्
भक्तिमान् भगवत्याशु माहात्म्यश्रवणाद्धरेः।
अनुतापो महानासीत्स्मरतोऽशुभमात्मनः॥ २५ ॥
अनुवाद (हिन्दी)
सर्वपापापहारी भगवान्की महिमा सुननेसे अजामिलके हृदयमें शीघ्र ही भक्तिका उदय हो गया। अब उसे अपने पापोंको याद करके बड़ा पश्चात्ताप होने लगा॥ २५॥
वीरराघवः
आत्मनः स्वस्याशुभं पापं स्मरतस्तस्य महाननुतापः परिताप आसीत् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
अहो मे परमं कष्टमभूदविजितात्मनः।
येन विप्लावितं ब्रह्म वृषल्यां जायताऽऽत्मना॥
मूलम्
अहो मे परमं कष्टमभूदविजितात्मनः।
येन विप्लावितं ब्रह्म वृषल्यां जायताऽऽत्मना॥ २६ ॥
अनुवाद (हिन्दी)
(अजामिल मन-ही-मन सोचने लगा—) ‘अरे, मैं कैसा इन्द्रियोंका दास हूँ! मैंने एक दासीके गर्भसे पुत्र उत्पन्न करके अपना ब्राह्मणत्व नष्ट कर दिया। यह बड़े दुःखकी बात है॥ २६॥
वीरराघवः
तस्यानुतापप्रकारमेवाह । अहो इति । अविजित आत्मा मनो येन तस्य मे मम महत्कष्टमहो अभूत्किं तद्वृषल्यां शूद्रायां जायमानेन येनात्मना मया ब्रह्म ब्रह्मत्वं विसावितं विनाशितम् इति यत् “तज्जाया जाया भवति यदस्यां जायते पुनः” इति श्रुत्यर्थमभिप्रेत्य जायतात्मनेत्युक्तम् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
धिङ्मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम्।
हित्वा बालां सतीं योऽहं सुरापामसतीमगाम्॥
मूलम्
धिङ्मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम्।
हित्वा बालां सतीं योऽहं सुरापामसतीमगाम्॥ २७ ॥
अनुवाद (हिन्दी)
धिक्कार है! मुझे बार-बार धिक्कार है! मैं संतोंके द्वारा निन्दित हूँ, पापात्मा हूँ! मैंने अपने कुलमें कलंकका टीका लगा दिया! हाय-हाय, मैंने अपनी सती एवं अबोध पत्नीका परित्याग कर दिया और शराब पीनेवाली कुलटाका संसर्ग किया॥ २७॥
वीरराघवः
सद्भिरायैर्विशेषेण गर्हितं मां धिक् “उभसर्वतसोः कार्या धिगुपर्यादिषु" इति सम्बन्धसामान्ये षष्ठ्यपवादिका द्वितीया धिगिति निन्दाद्योतकमव्ययं मां मम धिक् निन्दा निन्द्योऽहमित्यर्थः । कथम्भूतं मां दुष्कृतं दुष्टं कृतवान् दुष्कृतं कुलकज्जलं कुलकलङ्क किञ्च सतीं विशुद्धां बालां योषां स्त्रियं हित्वा सुरापां सुरां पिबतीति तामत एवासतीमगामगच्छम् ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ।
अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत्॥
मूलम्
वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ।
8अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत्॥ २८ ॥
अनुवाद (हिन्दी)
मैं कितना नीच हूँ! मेरे माँ-बाप बूढ़े और तपस्वी थे। वे सर्वथा असहाय थे, उनकी सेवा-शुश्रूषा करनेवाला और कोई नहीं था। मैंने उनका भी परित्याग कर दिया। ओह! मैं कितना कृतघ्न हूँ॥ २८॥
वीरराघवः
वृद्धौ प्रवयसावनाथौ रक्षकरहितौ न विद्यतेऽन्यो बन्धुः पुत्रादिर्ययोस्तौ तपस्विनौ तपन्तौ पितरौ मातापितरावकृतज्ञेन कृतघ्नेन मयाधुना तत्क्षणमेव नीचेनेबाहो त्यक्तौ ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे।
धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः॥
मूलम्
सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे।
धर्मघ्नाः कामिनो 9यत्र विन्दन्ति यमयातनाः॥ २९ ॥
अनुवाद (हिन्दी)
मैं अब अवश्य ही अत्यन्त भयावने नरकमें गिरूँगा, जिसमें गिरकर धर्मघाती पापात्मा कामी पुरुष अनेकों प्रकारकी यमयातना भोगते हैं॥ २९॥
वीरराघवः
स एवम्विधोऽहं नूनं नितरां दारुणे नरके पतिष्यामि यत्र नरके धर्माद्याः यमादयः सन्ति कामिनो मादृशाश्च यमयातना विन्दन्ति लभन्ते ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
किमिदं स्वप्न आहोस्वित् साक्षाद् दृष्टमिहाद्भुतम्।
क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः॥
मूलम्
किमिदं स्वप्न आहोस्वित् साक्षाद् दृष्टमिहाद्भुतम्।
क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः॥ ३० ॥
अनुवाद (हिन्दी)
‘मैंने अभी जो अद्भुत दृश्य देखा, क्या यह स्वप्न है? अथवा जाग्रत् अवस्थाका ही प्रत्यक्ष अनुभव है? अभी-अभी जो हाथोंमें फंदा लेकर मुझे खींच रहे थे, वे कहाँ चले गये?॥ ३०॥
वीरराघवः
एवं तस्य परितापमनुवर्ण्येदानी विमर्शपूर्वकं मुक्तिसाधनधर्मानुष्ठानक्रममाह । किमित्यादिना ब्रह्मण्यनुभवात्मनीत्यन्तेन । किमिदं यमकृष्णदूतागमनतत्सम्भाषणादिदर्शनं स्वप्नः आहोस्विदुत साक्षाज्जाग्रता मया महाद्भुतं दृष्टमद्याधुना दूताः क्व याताः ये पाशपाणयः सन्तो मामाकृष्टवन्तः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः।
व्यमोचयन्नीयमानं बद्ध्वा पाशैरधो भुवः॥
मूलम्
अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः।
व्यमोचयन्नीयमानं बद्ध्वा पाशैरधो भुवः॥ ३१ ॥
अनुवाद (हिन्दी)
अभी-अभी वे मुझे अपने फंदोंमें फँसाकर पृथ्वीके नीचे ले जा रहे थे, परन्तु चार अत्यन्त सुन्दर सिद्धोंने आकर मुझे छुड़ा लिया! वे अब कहाँ चले गये॥ ३१॥
वीरराघवः
अथ ते चत्वारः प्रियदर्शनाः सुन्दराः सिद्धाः क्व गताः ये पाशैः बध्वाधो भुवः नरकान्प्रति नीयमानं मां मोचितवन्तः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
अथापि मे दुर्भगस्य विबुधोत्तमदर्शने।
भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति॥
मूलम्
अथापि मे दुर्भगस्य विबुधोत्तमदर्शने।
भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति॥ ३२ ॥
अनुवाद (हिन्दी)
यद्यपि मैं इस जन्मका महापापी हूँ, फिर भी मैंने पूर्वजन्मोंमें अवश्य ही शुभकर्म किये होंगे; तभी तो मुझे इन श्रेष्ठ देवताओंके दर्शन हुए। उनकी स्मृतिसे मेरा हृदय अब भी आनन्दसे भर रहा है॥ ३२॥
वीरराघवः
यद्यप्यहं मन्दभाग्यतथापि मे दुर्भगस्यापि विबुधोत्तमानां दर्शने निमित्तसप्तमी दर्शनेन निमित्तेनेत्यर्थः । मङ्गलेन भवितव्यं किं तद्येन मङ्गलेन शुभकर्मणा ममात्मा मनः परमात्मा वा प्रसीदति ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः।
वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति॥
मूलम्
अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः।
वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति॥ ३३ ॥
मूलम् - कर्णावती
अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः।
वैकुण्ठनाम ग्रहणं जिह्वा वक्तुमिहार्हति॥ ३३ ॥
अनुवाद (हिन्दी)
मैं कुलटागामी और अत्यन्त अपवित्र हूँ। यदि पूर्वजन्ममें मैंने पुण्य न किये होते, तो मरनेके समय मेरी जीभ भगवान्के मनोमोहक नामका उच्चारण कैसे कर पाती?॥ ३३॥
वीरराघवः
अन्यथा यदि मङ्गलेन न भवितव्यं पुण्येन विनेत्यर्थः । वृषलीपतेरत एवाशुचेम्रियमाणस्य कर्तुमुद्यतस्य मम जिह्वा वैकुण्ठस्य नामग्रहणं गृह्यते वशीक्रियते चित्तमनेनेति ग्रहणं नामरूपग्रहणं वक्तुं नार्हति ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः।
क्व च नारायणेत्येतद्भगवन्नाम मङ्गलम्॥
मूलम्
क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः।
क्व च नारायणेत्येतद्भगवन्नाम मङ्गलम्॥ ३४ ॥
अनुवाद (हिन्दी)
कहाँ तो मैं महाकपटी, पापी, निर्लज्ज और ब्रह्मतेजको नष्ट करनेवाला तथा कहाँ भगवान्का वह परम मंगलमय ‘नारायण’ नाम! (सचमुच मैं तो कृतार्थ हो गया)॥ ३४॥
वीरराघवः
कितवो मूर्खो ब्रह्मघ्नः विप्रत्वनाशकः ब्रह्मोज्झ इति पाठे त्यक्तवेदः निर्लज्जोऽहं क्व मङ्गलावहं नारायणेत्येतद्भगवन्नाम क्व इदृशस्य ममान्तकाले तन्नामोच्चारणं पुण्येन विना कथं सम्भवेदित्यर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः।
यथा न भूय आत्मानमन्धे तमसि मज्जये॥
मूलम्
सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः।
यथा न भूय आत्मानमन्धे तमसि मज्जये॥ ३५ ॥
अनुवाद (हिन्दी)
अब मैं अपने मन, इन्द्रिय और प्राणोंको वशमें करके ऐसा प्रयत्न करूँगा कि फिर अपनेको घोर अन्धकारमय नरकमें न डालूँ॥ ३५॥
वीरराघवः
सोऽहं सिद्धदर्शनवैकुण्ठनामग्रहणादिसूचितधर्मयुक्तोऽहं यत्ताः नियमिताः चित्तादयो येन यथाभूतः सन् तथा यतिष्यामि यत्नं करिष्यामि कथं यथा भूयः पुनरात्मानमन्धे तमसि नरके न मज्जये मग्नं न कुर्याम् ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
विमुच्य तमिमं बन्धमविद्याकामकर्मजम्।
सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान्॥
मूलम्
विमुच्य तमिमं बन्धमविद्याकामकर्मजम्।
सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान्॥ ३६ ॥
अनुवाद (हिन्दी)
अज्ञानवश मैंने अपनेको शरीर समझकर उसके लिये बड़ी-बड़ी कामनाएँ कीं और उनकी पूर्तिके लिये अनेकों कर्म किये। उन्हींका फल है यह बन्धन! अब मैं इसे काटकर समस्त प्राणियोंका हित करूँगा, वासनाओंको शान्त कर दूँगा, सबसे मित्रताका व्यवहार करूँगा, दुःखियोंपर दया करूँगा और पूरे संयमके साथ रहूँगा॥ ३६॥
वीरराघवः
किं कृत्वा अविद्या देहात्माभिमानमूलमज्ञानं कामः शब्दादिविषयाभिलाषः कर्म एभिर्जातं तमिमं बन्धं गर्भजन्माद्यवस्थापरिवृत्तिरूपं संसारं विमुच्यापोह्य कथम्भूतः सर्वेषु भूतेषु सुहृत् शान्तः निगृहीतान्तरिन्द्रियः करुणः सर्वभूतेषु कृपावानात्मवान् प्रशस्तमनस्कः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया।
विक्रीडितो ययैवाहं क्रीडामृग इवाधमः॥
मूलम्
मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया।
विक्रीडितो ययैवा10हं क्रीडामृग इवाधमः॥ ३७ ॥
अनुवाद (हिन्दी)
भगवान्की मायाने स्त्रीका रूप धारण करके मुझ अधमको फाँस लिया और क्रीडामृगकी भाँति मुझे बहुत नाच नचाया। अब मैं अपने-आपको उस मायासे मुक्त करूँगा॥ ३७॥
वीरराघवः
योषिद्व्याजया भगवन्मायया ग्रस्तमात्मानं मोचये तां विशिनष्टि । ययैवाहमधमो । ज्ञानशून्यः क्रीडामृगः इव क्रीडितः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम्।
धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः॥
मूलम्
ममाहमिति 11देहादौ हित्वामिथ्यार्थधीर्मतिम्।
धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः॥ ३८ ॥
अनुवाद (हिन्दी)
मैंने सत्य वस्तु परमात्माको पहचान लिया है; अतः अब मैं शरीर आदिमें ‘मैं’ तथा ‘मेरे’ का भाव छोड़कर भगवन्नामके कीर्तन आदिसे अपने मनको शुद्ध करूँगा और उसे भगवान्में लगाऊँगा॥ ३८॥
वीरराघवः
देहे आदिशब्दात्तदनुबन्धिन्यहंममेति या मिथ्यार्थधीर्मतिर्मिथ्याश्रययाथार्थ्याधीर्देहाद्यर्थविषया धीस्तद्रूपा मतिस्ताम् । अनहमर्थदेहाद्यर्थविषयकाहंधियो विपरीतरूपत्वान्मिथ्यार्थधीरित्युक्तं मोहार्थधीरिति पाठान्तरं तत्रापि मोहात्मिकामहन्त्वेन देहादिरूपार्थधीरूपामित्येवार्थः । हित्वा त्यक्त्वा भगवति तत्कीर्तनादिभिः शुद्धं मनो धास्ये आधास्ये ॥ ३८ ॥
श्लोक-३९
मूलम् (वचनम्)
श्रीशुक12 उवाच
विश्वास-प्रस्तुतिः
इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु।
गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः॥
मूलम्
इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु।
गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः॥ ३९ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! उन भगवान्के पार्षद महात्माओंका केवल थोड़ी ही देरके लिये सत्संग हुआ था। इतनेसे ही अजामिलके चित्तमें संसारके प्रति तीव्र वैराग्य हो गया। वे सबके सम्बन्ध और मोहको छोड़कर हरिद्वार चले गये॥ ३९॥
वीरराघवः
इतीत्थं जात उत्पन्नः सुष्ठु नितरां निर्वेदो यस्य तादृशः साधुषु क्षणमात्रसङ्गेन मुक्तं सर्वानुबन्धनं पुत्रादिस्नेहो येन सः गङ्गाद्वारं हरिक्षेत्रम् उपेयायोपगतवान् ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
स तस्मिन् देवसदन आसीनो योगमाश्रितः।
प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि॥
मूलम्
स तस्मिन् देवसदन आसीनो योगमाश्रितः।
प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि॥ ४० ॥
अनुवाद (हिन्दी)
उस देवस्थानमें जाकर वे भगवान्के मन्दिरमें आसनसे बैठ गये और उन्होंने योगमार्गका आश्रय लेकर अपनी सारी इन्द्रियोंको विषयोंसे हटाकर मनमें लीन कर लिया और मनको बुद्धिमें मिला दिया॥ ४०॥
वीरराघवः
सोऽजामिलः तस्मिन् देवसदने देवो भगवान् सीदति सन्निहितो भवत्यस्मिन् गङ्गाद्वारे उपविष्टः योगं भगवद्भक्तियोगमाश्रितः आरभतेत्यर्थः । प्रत्याहृतः विषयेभ्यः इन्द्रियग्रामः अन्तर्बाह्येन्द्रियसङ्घो येन तादृशः प्रथममात्मानं प्रत्यगात्मानं गुणेभ्यः गुणपरिणामेभ्यः विविच्य पृथक्त्वेनानुसन्धाय तस्मिन्नात्मनि प्रत्यगात्मनि मनो युयुजे ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना।
युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि॥
मूलम्
ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना।
युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि॥ ४१ ॥
अनुवाद (हिन्दी)
इसके बाद आत्मचिन्तनके द्वारा उन्होंने बुद्धिको विषयोंसे पृथक् कर लिया तथा भगवान्के धाम अनुभवस्वरूप परब्रह्ममें जोड़ दिया॥ ४१॥
श्लोक-४२
विश्वास-प्रस्तुतिः
यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुरः।
उपलभ्योपलब्धान् प्राग्ववन्दे शिरसा द्विजः॥
मूलम्
यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुरः।
उपलभ्योपलब्धान् प्राग्ववन्दे शिरसा द्विजः॥ ४२ ॥
मूलम् - कर्णावती
यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुरः।
उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः॥ ४२ ॥
अनुवाद (हिन्दी)
इस प्रकार जब अजामिलकी बुद्धि त्रिगुणमयी प्रकृतिसे ऊपर उठकर भगवान्के स्वरूपमें स्थित हो गयी, तब उन्होंने देखा कि उनके सामने वे ही चारों पार्षद, जिन्हें उन्होंने पहले देखा था, खड़े हैं। अजामिलने सिर झुकाकर उन्हें नमस्कार किया॥ ४२॥
वीरराघवः
तत आत्मनः जीवान्तर्यामिणः परमात्मनः समाधिना ध्यानेन तस्मिन् ब्रह्मणि स्वरूपेण गुणैश्च निरतिशयबृहत्यनुभवात्मनि ज्ञानस्वरूपे भगवद्धाम्नि भगवच्छब्दवाच्ये तेजसि युयुजे स्थिरीकृतचित्तः सन् यर्हि यदोपरता शब्दादिभ्यो निवृत्ता धीर्यस्य तादृशस्तस्मिन् काले पुरोऽग्रे पुरुषान् पूर्वदृष्टान् भगवत्पादानद्राक्षीत्ततः प्रागुपलब्धान् प्राप्तान् पुरुषानुपलभ्याभिज्ञाय द्विजः शिरसा वन्दे ॥ ४१-४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु।
सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम्॥
मूलम्
हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु।
सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम्॥ ४३ ॥
अनुवाद (हिन्दी)
उनका दर्शन पानेके बाद उन्होंने उस तीर्थस्थानमें गंगाके तटपर अपना शरीर त्याग दिया और तत्काल भगवान्के पार्षदोंका स्वरूप प्राप्त कर लिया॥ ४३॥
वीरराघवः
दर्शनादनु दर्शनादनन्तरं गङ्गायास्तीर्थे कलेवरं त्यक्त्वा गङ्गायामिति पाठे तीर्थे गङ्गाद्वारे क्षेत्रे गङ्गायां त्यक्त्वेत्यर्थः । सद्यः भगवत्पार्श्ववर्त्तिनां पार्षदानां स्वरूपं तत्समानं रूपं जगृहे गृहीतवान् ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
साकं विहायसा विप्रो महापुरुषकिङ्करैः।
हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः॥
मूलम्
साकं विहायसा विप्रो महापुरुषकिङ्करैः।
हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः॥ ४४ ॥
अनुवाद (हिन्दी)
अजामिल भगवान्के पार्षदोंके साथ स्वर्णमय विमानपर आरूढ़ होकर आकाशमार्गसे भगवान् लक्ष्मीपतिके निवासस्थान वैकुण्ठको चले गये॥ ४४॥
वीरराघवः
स विप्रोऽजामिलः महापुरुषकिङ्करैः साकं हैमं विमानमारुह्य विहायसा आकाशमार्गेणाचिरादिनेत्यर्थः । ययौ गतः केत्यत आह । यत्र श्रियः लक्ष्म्याः पतिरास्ते वैकुण्ठे इत्यर्थः । भगवत्पार्श्ववर्त्तिस्वरूपग्रहणमूर्ध्वक्रमेण वैकुण्ठगमनानन्तरं वेदितव्यं तत्र गतस्य तत्सायुज्यत्वादिति भावः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
एवं स विप्लावितसर्वधर्मा
दास्याः पतिः पतितो गर्ह्यकर्मणा।
निपात्यमानो निरये हतव्रतः
सद्यो विमुक्तो भगवन्नाम गृह्णन्॥
मूलम्
एवं स विप्लावितसर्वधर्मा 13दास्याः पतिः पतितो गर्ह्यकर्मणा।
निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन्॥ ४५ ॥
अनुवाद (हिन्दी)
परीक्षित्! अजामिलने दासीका सहवास करके सारा धर्म-कर्म चौपट कर दिया था। वे अपने निन्दित कर्मके कारण पतित हो गये थे। नियमोंसे च्युत हो जानेके कारण उन्हें नरकमें गिराया जा रहा था। परन्तु भगवान्के एक नामका उच्चारण करनेमात्रसे वे उससे तत्काल मुक्त हो गये॥ ४५॥
वीरराघवः
उक्तमितिहासमुपसंहरन् भगवन्नामकीर्त्तनात्तद्विषयमत्यापादकमुपायान्तरमुत्कृष्टं नास्तीत्याह । एवमिति द्वाभ्याम् । एवमित्थं स द्विजः विप्लावितः विनाशितः सर्वः स्ववर्णाश्रमोचितः धर्मो येन दास्याः पतिरत एव पतितः स्वधर्माच्च्युतः गर्ह्यं निन्दितं कर्म यस्य हतं व्रतं अयं श्रुतसम्पन्नः शीलवृत्तगुणालय इत्यादिनोक्तं यस्य अत एव नरके निपात्यमानः यमभटैरिति शेषः । तथाभूतोऽपि भगवन्नाम गृह्णन्नुच्चरन् सद्यः विमुक्तोऽभूदित्यर्थः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
नातः परं कर्मनिबन्धकृन्तनं
मुमुक्षतां तीर्थपदानुकीर्तनात्।
न यत्पुनः कर्मसु सज्जते मनो
रजस्तमोभ्यां कलिलं ततोऽन्यथा॥
मूलम्
नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात्।
न यत्पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथा॥ ४६ ॥
अनुवाद (हिन्दी)
जो लोग इस संसारबन्धनसे मुक्त होना चाहते हैं, उनके लिये अपने चरणोंके स्पर्शसे तीर्थोंको भी तीर्थ बनानेवाले भगवान्के नामसे बढ़कर और कोई साधन नहीं है; क्योंकि नामका आश्रय लेनेसे मनुष्यका मन फिर कर्मके पचड़ोंमें नहीं पड़ता। भगवन्नामके अतिरिक्त और किसी प्रायश्चित्तका आश्रय लेनेपर मन रजोगुण और तमोगुणसे ग्रस्त ही रहता है तथा पापोंका पूरा-पूरा नाश भी नहीं होता॥ ४६॥
वीरराघवः
मुमुक्षतां संसारबन्धनान्मोक्तुमिच्छतां तनमूलकर्मरूपबन्धस्य निकृन्तनं कृत्यते छिद्यतेऽनेनेति कृन्तनमतस्तीर्थपदस्य भगवतोऽनुकीर्त्तनात्परमन्यन्नास्ति यद्यस्मादनुकीर्तनाद्रजस्तमोभ्यां कलिलं कश्मलं मनः कर्मसु संसृतिहेतुषु पुनर्न सज्जते इति न किन्तु संसृतिहेतुषु कर्मसु सज्जत एवेत्यर्थः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
य एवं परमं गुह्यमितिहासमघापहम्।
शृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत्॥
मूलम्
य एवं परमं गुह्यमितिहासमघापहम्।
शृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत्॥ ४७ ॥
वीरराघवः
अथेतिहासश्रवणादिफलमाह । य इति । परमतीव गुह्यं गोप्यमघापहं पापहरमिममितिहासं यः पुमान् श्रद्धया युक्तः शृणुयाद्यश्च भक्त्यानुकीर्त्तयेत्कथयेत् ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
न वै स नरकं याति नेक्षितो यमकिङ्करैः।
यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते॥
मूलम्
न वै स नरकं याति नेक्षितो14 यमकिङ्करैः।
यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते॥ ४८ ॥
अनुवाद (हिन्दी)
परीक्षित्! यह इतिहास अत्यन्त गोपनीय और समस्त पापोंका नाश करनेवाला है। जो पुरुष श्रद्धा और भक्तिके साथ इसका श्रवण-कीर्तन करता है, वह नरकमें कभी नहीं जाता। यमराजके दूत तो आँख उठाकर उसकी ओर देखतक नहीं सकते। उस पुरुषका जीवन चाहे पापमय ही क्यों न रहा हो, वैकुण्ठलोकमें उसकी पूजा होती है॥ ४७-४८॥
वीरराघवः
स पुमान्नरकं न याति नैव प्राप्नोत्येव यमकिङ्करैरीक्षितोऽपि न भवति यद्यप्यमङ्गलः पापवानपि मर्त्यः श्रवणादिकं कुर्वन्विष्णुलोके श्रीवैकुण्ठे महीयते पूज्यते भगवद्विषयकमत्युत्पत्तिद्वारा भगवल्लोकं प्राप्य तत्रत्यैर्बहुमन्यत इत्यर्थः ॥ ४८॥
श्लोक-४९
विश्वास-प्रस्तुतिः
म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम्।
अजामिलोऽप्यगाद्धाम किं पुनः श्रद्धया गृणन्॥
मूलम्
म्रियमाणो हरेर्नाम गृ15णन् पुत्रोपचारितम्।
अजामिलोऽप्यगाद्धाम किं पुनः श्रद्धया गृणन्॥ ४९ ॥
अनुवाद (हिन्दी)
परीक्षित्! देखो—अजामिल-जैसे पापीने मृत्युके समय पुत्रके बहाने भगवान्के नामका उच्चारण किया! उसे भी वैकुण्ठकी प्राप्ति हो गयी! फिर जो लोग श्रद्धाके साथ भगवन्नामका उच्चारण करते हैं, उनकी तो बात ही क्या है॥ ४९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 16षष्ठस्कन्धेऽजामिलोपाख्याने द्वितीयोऽध्यायः॥ २ ॥
वीरराघवः
एवं श्रवणकीर्त्तनादिभक्तियोगारम्भस्य कैमुत्यन्यायेन यमवश्यतापरिहारकत्वं वक्तुं कथितमितिहासमजामिलदृष्टान्तन्यायेन तद्वदन्नुपसंहरति । त्रियमाण इति । अजामिलो म्रियमाणः पुत्रोपचारेण अमुख्यया वृत्त्या प्रयुक्तमुपचरितमेव हरेर्नाम गृह्णन् धाम हरेः स्थानमगात् प्राप्तः किमुत श्रद्धया हरेर्गुणान् गुणप्रतिपादकान्नारायणादिशब्दान् कीर्तयन्नित्यर्थः ॥ ४९ ॥
-
प्रा. पा. - बादरायणिरुवाच । ↩︎
-
प्रा. पा. - प्रीत्याऽऽहुर्नय । ↩︎
-
प्रा. पा. - रस्तन्निरिहते । ↩︎
-
प्रा. पा. - ह्यर्पितात्मानं । ↩︎
-
प्रा. पा. - ष्कुतैस्तैरुदितैः । ↩︎
-
प्रा. पा. - नोत्सुकः । ↩︎
-
प्रा. पा. - अथाजामिल आकर्ण्य । ↩︎
-
प्रा. पा. - अहोऽधुना मया त्यक्ता । ↩︎
-
प्रा. पा. - यत्तद्विन्दन्ति । ↩︎
-
प्रा. पा. - यथैवाहं । ↩︎
-
प्रा. पा. - देहं नो हित्वा । ↩︎
-
प्राचीने पाठे ‘श्रीशुक उवाच’ पाठो न । ↩︎
-
प्रा. पा. - दासीपतिः पतितो । ↩︎
-
प्रा. पा. - निष्कृतो । ↩︎
-
प्रा. पा. - गृह्णन्पुत्रप्रचारितम् । ↩︎
-
स्कन्धे द्वितीयोऽध्यायः । ↩︎