[प्रथमोऽध्यायः]
भागसूचना
अजामिलोपाख्यानका प्रारम्भ
श्लोक-१
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
निवृत्तिमार्गः कथित आदौ भगवता यथा।
क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः॥
मूलम्
निवृत्तिमार्गः कथित आदौ भगवता यथा।
क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः॥ १ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने कहा—भगवन्! आप पहले (द्वितीय स्कन्धमें) निवृत्तिमार्गका वर्णन कर चुके हैं तथा यह बतला चुके हैं कि उसके द्वारा अर्चिरादि मार्गसे जीव क्रमशः ब्रह्मलोकमें पहुँचता है और फिर ब्रह्माके साथ मुक्त हो जाता है॥ १॥
वीरराघवः
एवं नानाविधनरकेषु तत्प्राप्तिहेतुषुच्चावचेषु पापेषु चोपवर्णितेषु तन्निस्तारोपायं पिपृच्छिषुस्तावदुक्तमनुवदति निवृत्तिमार्ग इत्यादिभिः पञ्चभिः । भगवता त्वया आदौ द्वितीये निवृत्तिमार्गः यथावत्कथितः निवृत्तिनिवृत्तिधर्मः मोक्षधर्म इति यावत् । तस्य कामादिनिवृत्तिपूर्वकत्वात्तेन प्राप्यो मार्गः मुक्तिस्वरूपतदुपायादिकं सर्वं “गृहात्प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः ।” इत्यादिना कथितमित्यर्थः । कोऽसौ निवृत्तिमार्ग इत्यत्राह क्रमयोगेति । क्रमः स्वस्ववर्णाश्रमोचितपञ्चमहायज्ञादिरूपकर्मयोगानुष्ठानक्रमः आत्मयाथात्म्यज्ञानयोगः भगवद्भक्तियोगश्च तन्त्रेण योगशब्देन विवक्षितौ क्रमयोगाभ्यामुपलब्धेन ज्ञानकर्मयोगाभ्यामनुगृहीतेन भक्तियोगेनोपलब्धेन प्राप्तेन ब्रह्मणा हेतुनासंसृतिर्मुक्तिरिति यदेष निवृत्तिमार्ग इत्यर्थः । ब्रह्मण इति षष्ठ्यन्तपाठे ब्रह्मणः क्रमः क्रमयोगोपलब्धेन ज्ञानकर्मयोगाभ्यामुपलब्धेन भक्तियोगेनेति शेषः । केचिदत्र क्रमयोगोऽर्चिरादिप्राप्तिस्तेन उपलब्धो ब्रह्मणा चतुर्मुखस्तेन सहासंसृतिर्मोक्षो भवति । “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परम्पदम् ॥” इति वचनादित्याचक्षते । तत्र मोक्षेऽथ सम्पत्स्य इति शरीरपातावधिमात्रविलम्बश्रवणविरोधापत्तेः ‘ब्रह्मणा सह ते सर्वे’ इति वचनस्य “ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे” इति श्रुतेश्च विशेषवशाच्चतुर्मुखलोकप्राप्तजीवविषयात्पुण्यवशाच्चतुर्मुखलोकं प्राप्य तत्र निवृत्तोपासनाः ब्रह्मणा सह मुच्यन्त इति तदर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने।
योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः॥
मूलम्
प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने।
योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः॥ २ ॥
अनुवाद (हिन्दी)
मुनिवर! इसके सिवा आपने उस प्रवृत्तिमार्गका भी (तृतीय स्कन्धमें) भलीभाँति वर्णन किया है, जिससे त्रिगुणमय स्वर्ग आदि लोकोंकी प्राप्ति होती है और प्रकृतिका सम्बन्ध न छूटनेके कारण जीवोंको बार-बार जन्म-मृत्युके चक्करमें आना पड़ता है॥ २॥
वीरराघवः
तथा हे मुने ! शुक ! त्रैगुण्यविषयः प्रवृत्तिलक्षणश्च मार्गः कथितः कापिले त्रैगुण्यविपयत्रैगुण्ययुक्तपुरुषाधिकारः प्रवृत्त्या सुखदुःखादिसाधनधर्मेणालक्ष्यते प्राप्यत इति प्रवृत्तिलक्षणः, लक्ष्यतेऽनेनेति लक्षणं प्रवृत्तिर्लक्षणं यस्येति वा । कोऽसौ प्रवृत्तिलक्षणो मार्गस्तत्राह । अलीनप्रकृतेरविनष्टप्रकृतिसम्बन्धस्य जीवस्य योऽसौ पुनः पुनर्गुणसर्गः सृज्यतेऽनेनेति सर्गः गुणः गुणत्रयं सर्गो यस्य स गुणसर्गः पुनः पुनः सुखदुःखभोगार्थगुणकार्यरूपदेहसम्बन्ध इत्यर्थः । देहो हि कर्मफलभूतसुखदुःखादिभोगाय पुण्यापुण्यात्मकप्रवृत्त्याख्यकर्मणा प्राप्यते । कर्म हि देह-सम्बन्धोपादानद्वारा सुखदुःखादिसाधनं न साक्षादतो गुणसर्गः प्रवृत्तिलक्षणो मार्गो भवतीत्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः।
मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः॥
मूलम्
अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः।
मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः॥ ३ ॥
अनुवाद (हिन्दी)
आपने यह भी बतलाया कि अधर्म करनेसे अनेक नरकोंकी प्राप्ति होती है और (पाँचवें स्कन्धमें) उनका विस्तारसे वर्णन भी किया। (चौथे स्कन्धमें) आपने उस प्रथम मन्वन्तरका वर्णन किया, जिसके अधिपति स्वायम्भुव मनु थे॥ ३॥
वीरराघवः
अधर्मः कारणतया लक्षणं येषां ते नानाविधा नरकाश्चानुवर्णिताः तथा स्वायम्भुवसम्बन्धी आद्यो मन्वन्तरश्च व्याख्यातः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च।
द्वीपवर्षसमुद्राद्रिनद्युद्यानवनस्पतीन्॥
मूलम्
प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च।
द्वीपवर्षसमुद्राद्रिनद्युद्यानवनस्पतीन्॥ ४ ॥
अनुवाद (हिन्दी)
साथ ही (चौथे और पाँचवें स्कन्धमें) प्रियव्रत और उत्तानपादके वंशों तथा चरित्रोंका एवं द्वीप, वर्ष, समुद्र, पर्वत, नदी, उद्यान और विभिन्न द्वीपोंके वृक्षोंका भी निरूपण किया॥ ४॥
वीरराघवः
कोऽसौ स्वायम्भुवः यत्सम्बन्धी मन्वन्तरो व्याख्यातः तत्राह । यतः स्वायम्भुवमनोः प्रियव्रतोत्तानपादौ वंशः सन्ततिरपत्यभूताविति यावत् तथा तच्चरितानि प्रियव्रतोत्तानपादयोश्चरितानि च व्याख्यातानीत्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
धरामण्डलसंस्थानं भागलक्षणमानतः।
ज्योतिषां विवराणां च यथेदमसृजद्विभुः॥
मूलम्
धरामण्डलसंस्थानं भागलक्षणमानतः।
ज्योतिषां विवराणां च यथेदमसृजद्विभुः॥ ५ ॥
अनुवाद (हिन्दी)
भूमण्डलकी स्थिति, उसके द्वीप-वर्षादि विभाग, उनके लक्षण तथा परिमाण, नक्षत्रोंकी स्थिति, अतल-वितल आदि भू-विवर (सात-पाताल) और भगवान्ने इन सबकी जिस प्रकार सृष्टि की—उसका वर्णन भी सुनाया॥ ५॥
वीरराघवः
तथा द्वीपादीन् भूमण्डलसंस्थानज्योतिषां सूर्यादीनां विवराणामतलादीनां संस्थानं च भागादिभिर्व्याख्यातवानसीति शेषः, भागोऽवान्तरविभागः लक्षणमसाधारणकारणं मानं परिमाणं किं बहुना यथेदं भगवानसृजद्यादृग्विधमिदं जगद्भगवानसृजत् तथैव व्याख्यातमित्यर्थः, एवमुक्तानुवादः क्रमानादरेण कृतस्तत्रायं क्रमश्चार्थो विवक्षितः, प्रवृत्तिलक्षणो धर्मः “मन्वन्तरश्च व्याख्यातः “आद्यः स्वायम्भुवो यतः” इति च तृतीयस्कंधार्थानुवादकम् अधर्मलक्षण इति पूर्वार्धं प्रियव्रतोत्तानपादौ इत्यादिचतुर्थपञ्चमस्कन्धार्थानुवादकमिति ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
अधुनेह महाभाग यथैव नरकान्नरः।
नानोग्रयातनान्नेयात्तन्मे व्याख्यातुमर्हसि॥
मूलम्
अधुनेह महाभाग यथैव नरकान्नरः।
नानोग्रयातनान्नेयात्तन्मे व्याख्यातुमर्हसि॥ ६ ॥
अनुवाद (हिन्दी)
महाभाग! अब मैं वह उपाय जानना चाहता हूँ, जिसके अनुष्ठानसे मनुष्योंको अनेकानेक भयंकर यातनाओंसे पूर्ण नरकोंमें न जाना पड़े। आप कृपा करके उसका उपदेश कीजिये॥ ६॥
वीरराघवः
एवमुक्तमनूद्याथ पूर्वस्कन्धान्तेऽनुवर्णितनरकनिस्तरणोपायं पृच्छति । अधुनेहेति । हे महाभाग ! भागो विवेकात्मको बुद्धिविशेषः विवेको हि हेयमुपादेयं च भज्यतेऽनेनेति भागः-करणे घञ्-महांश्चासौ भागश्च महाभागः सोऽस्यास्तीति महाभागः-अर्शआद्यच्-नानाविधा उग्रास्तीव्रा यातना येषु तान्नरः अधुनैवाशु यथैव नेयात् येन साधनेन न प्राप्नुयात्तत्साधनं मे मह्यं व्याख्यातुमर्हसि ॥ ६ ॥
श्लोक-७
मूलम् (वचनम्)
श्रीशुक1 उवाच
विश्वास-प्रस्तुतिः
न चेदिहैवापचितिं यथांहसः
कृतस्य कुर्यान्मन उक्तिपाणिभिः।
ध्रुवं स वै प्रेत्य नरकानुपैति
ये कीर्तिता मे भवतस्तिग्मयातनाः॥
मूलम्
न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान्मनउक्तिपाणिभिः।
ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तिता मे भवतस्तिग्मयातनाः॥ ७ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजीने कहा—मनुष्य मन, वाणी और शरीरसे पाप करता है। यदि वह उन पापोंका इसी जन्ममें प्रायश्चित्त न कर ले, तो मरनेके बाद उसे अवश्य ही उन भयंकर यातनापूर्ण नरकोंमें जाना पड़ता है, जिनका वर्णन मैंने तुम्हें (पाँचवें स्कन्धके अन्तमें) सुनाया है॥ ७॥
वीरराघवः
एवमापृष्टो भगवान् बादरायणिस्तावदकृतनिष्कृतिभिरवश्यं स्वदुरितानुसारेण नरकाः प्राप्यन्त एवेति वदन्नवश्यं दुरितप्रतीकारे यतितव्यमित्याह न चेदिति द्वाभ्याम् । मनउक्तिपाणिभिर्मनोवाक्कायैः कृतस्यांहसः पापस्यापचितिं प्रायश्चित्तादिभिः क्षयं यदा इहैव लोके यदि न कुर्यात्तदा स वै अकृतनिष्कृतिर्देही प्रेत्य मृत्वा ध्रुवं तु तान्नरकानुपैति प्राप्नोति । नरकान्विशिनष्टि भवतस्ते तुभ्यं मे मया ये नरकास्तीग्मा तीव्रा यातना येषु तादृशाः कीर्तिताः कथिता इत्यर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
तस्मात्पुरैवाश्विह पापनिष्कृतौ
यतेत मृत्योरविपद्यताऽऽत्मना।
दोषस्य दृष्ट्वा गुरुलाघवं यथा
भिषक् चिकित्सेत रुजां निदानवित्॥
मूलम्
तस्मात्पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यताऽऽत्मना।
दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक् चिकित्सेत रुजां निदानवित्॥ ८ ॥
अनुवाद (हिन्दी)
इसलिये बड़ी सावधानी और सजगताके साथ रोग एवं मृत्युके पहले ही शीघ्र-से-शीघ्र पापोंकी गुरुता और लघुतापर विचार करके उनका प्रायश्चित्त कर डालना चाहिये, जैसे मर्मज्ञ चिकित्सक रोगोंका कारण और उनकी गुरुता-लघुता जानकर झटपट उनकी चिकित्सा कर डालता है॥ ८॥
वीरराघवः
एषु स्यादकृतनिष्कृतेर्नरकप्राप्तेर्दुर्निवारत्वात्पुरैव मृत्योर्मरणात्पूर्वमेवाविपद्यता विपत्तिमगच्छता पटुतरेणेत्यर्थः । आत्मना देहेनेहैव लोके पापस्य निष्कृतौ नाशे यतेत । किं कृत्वा दोषस्य पापस्य गुरुलाघवं भावप्रधानो निर्देशः-गौरवलाघवे दृष्ट्वा यथायोग्यं प्रायश्चित्ते यतेतेत्यर्थः । तत्र दृष्टान्तः-यथा रुजां रोगिणां निदानज्ञो भिषग्रोगानुसारेण चिकित्सितं प्रतीकारं कुर्यात् इति ॥ ८ ॥
श्लोक-९
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
दृष्टश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम्।
करोति भूयो विवशः प्रायश्चित्तमथो कथम्॥
मूलम्
दृष्टश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम्।
करोति भूयो विवशः प्रायश्चित्तमथो कथम्॥ ९ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने पूछा—भगवन्! मनुष्य राजदण्ड, समाजदण्ड आदि लौकिक और शास्त्रोक्त नरकगमन आदि पारलौकिक कष्टोंसे यह जानकर भी कि पाप उसका शत्रु है, पापवासनाओंसे विवश होकर बार-बार वैसे ही कर्मोंमें प्रवृत्त हो जाता है। ऐसी अवस्थामें उसके पापोंका प्रायश्चित्त कैसे सम्भव है?॥ ९॥
श्लोक-१०
विश्वास-प्रस्तुतिः
क्वचिन्निवर्ततेऽभद्रात्क्वचिच्चरति तत्पुनः।
प्रायश्चित्तमतोऽपार्थं मन्ये कुञ्जरशौचवत्॥
मूलम्
क्वचिन्निवर्ततेऽभद्रात्क्वचिच्च2रति तत्पुनः।
प्रायश्चित्तमतोऽपार्थं मन्ये कुञ्जरशौचवत्॥ १० ॥
अनुवाद (हिन्दी)
मनुष्य कभी तो प्रायश्चित्त आदिके द्वारा पापोंसे छुटकारा पा लेता है, कभी फिर उन्हें ही करने लगता है। ऐसी स्थितिमें मैं समझता हूँ कि जैसे स्नान करनेके बाद धूल डाल लेनेके कारण हाथीका स्नान व्यर्थ हो जाता है, वैसे ही मनुष्यका प्रायश्चित्त करना भी व्यर्थ ही है॥ १०॥
वीरराघवः
एवं प्रतिपदोक्तं प्रायश्चित्तमेव उपाय इत्युक्तं विषयपरवशस्य नरस्य पुनः पुनः पापाचरणशीलत्वात्तेषामानन्त्यात्प्रायश्चित्तानुष्ठानासम्भवात्तत्सम्भवे पुनर्दुरितसम्भावनया कृतप्रायत्वाञ्च नेदं प्रश्नस्योत्तरमिति वदन्नुपायान्तरं पृच्छति राजा दृष्टश्रुताभ्यामिति द्वाभ्याम् । यद्यस्माद् दृष्टश्रुताभ्यां प्रत्यक्षेण शिष्टगर्हादिना शास्त्रवचनेन चात्मनः स्वस्याहितमनिष्टसाधनमिति जानन्नपि पुनर्विवशः विषयपरवशः पापङ्करोत्यथो अतः प्रायश्चित्तं कथं व्यवस्थितं सद्दुरितशोधकं कथं भवेदित्यर्थः । अभद्रात्पापात्कचिन्निवर्त्तते विषयपरवशः क्वचिदभद्रं पुनश्चरति करोति । अथो अतः कृतमपि प्रायश्चित्तमपार्थं व्यर्थं भवति, अत्र दृष्टान्तः कुञ्जरशौचवदिति । यथा कुञ्जरो गजः स्नातोऽपि पुनः स्वशिरसि धूलिं प्रक्षिपति तस्य शौचं स्नानं व्यर्थं तद्वत्कृतमपि प्रायश्चित्तं पुनः पापाचरणाद् व्यर्थं मन्य इत्यर्थः । अत उपायान्तरं मे कथयितव्यमिति भावः ॥ ९-१० ॥
श्लोक-११
मूलम् (वचनम्)
श्रीशुक3 उवाच
विश्वास-प्रस्तुतिः
कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते।
अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनम्॥
मूलम्
कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते।
अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनम्॥ ११ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजीने कहा—वस्तुतः कर्मके द्वारा ही कर्मका निर्बीज नाश नहीं होता; क्योंकि कर्मका अधिकारी अज्ञानी है। अज्ञान रहते पापवासनाएँ सर्वथा नहीं मिट सकतीं। इसलिये सच्चा प्रायश्चित्त तो तत्त्वज्ञान ही है॥ ११॥
वीरराघवः
एवमुक्ते निरवशेषतया दुरितनिवर्तकं विवक्षुस्तावत्प्रायश्चित्तमपि कतिपयदुरितनिवर्त्तकत्वेनाधिकारिभेदेन व्यवस्थितमन्यथा प्रायश्चित्तविधायकमन्वादिस्मृतिवैय्यर्थ्यं स्यादित्याह भगवान् बादरायणिः । कर्मणेत्यादिना । कर्मणा प्रतिपदोक्तप्रायश्चित्ताख्येन कर्मणा कर्मणः पापकर्मणो निर्धारः आत्यन्तिकः पुनः पापसम्बन्धरहितो नेष्यते, यथोपदेशमेव दुरितनिवर्त्तकं प्रायश्चित्तं न तु ज्ञानवदुत्तरार्धस्यापि साकल्येन विनाशकमिति भावः, तर्हि प्रायश्चित्तविधिवैय्यर्थ्यमत आह । अविद्वदधिकारित्वादविदुषोऽपरमात्मोपासकस्याहङ्कारममकाररागद्वेषादिमतः प्रायश्चित्ते अधिकारित्वाद्विदुष उत्तरपूर्वाघयोरश्लेषविनाशकरस्य वेदनस्यैव सत्त्वान्न तत्पापनिवृत्तये प्रायश्चित्तापेक्षेति । यद्यपि तद्विधिवैयर्थ्यं तदाप्यविदुषस्तात्कालिकरोगोपशामकौषधादिवत्कतिपयदुरितनिरसनाय प्रायश्चित्तमपेक्षितमिति न तद्विधिवैय्यर्थ्यमिति भावः । अत एवोच्यते प्रायश्चित्तं विमर्शनमिति । विमृश्यत इति विमर्शनं “कृत्यल्युटो बहुलम्” इति बहुवचनात्कर्मणि घञ्, पापविशेषनिवर्त्तकत्वेन प्रायश्चित्तं विमृश्यते न कार्त्स्न्येनेत्यर्थः । यद्वा विमृश्यते विविच्यते पृथक्कृत्य निवर्त्यतेऽनेन पापमिति करणे घञ् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि।
एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते॥
मूलम्
नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि।
एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते॥ १२ ॥
अनुवाद (हिन्दी)
जो पुरुष केवल सुपथ्यका ही सेवन करता है, उसे रोग अपने वशमें नहीं कर सकते। वैसे ही परीक्षित्! जो पुरुष नियमोंका पालन करता है, वह धीरे-धीरे पापवासनाओंसे मुक्त हो कल्याणप्रद तत्त्वज्ञान प्राप्त करनेमें समर्थ होता है॥ १२॥
वीरराघवः
एवं प्रतिपदोक्तप्रायश्चित्तान्यधिकारिभेदेन कतिपयदुरितनिरसनक्षमाणि वेदनं तु निःशेषदुरितनिवर्त्तनद्वारा नरकपरिहारकमित्युक्तं तर्हि तादृशं वेदनङ्कैरुपायैर्निष्पद्यत इत्यपेक्षायां तन्निष्पत्तिप्रतिबन्धकनिरसनोपायैर्नियमैस्तन्निष्पद्यत एवेति सदृष्टान्तमाह नाश्नत इति । पथ्यमेवान्नमश्नतः पुरुषस्य व्याधयो नाभिभवन्ति न बाधन्ते हि हे राजन्! एवं नियमकृद्वक्ष्यमाणतया नियमवान् शनैः क्षेमाय दुःखासम्भिन्ननिरतिशयसुखाय कल्पते क्षमते मुक्तो भवतीत्यर्थः । शनैरित्यनेनेयं प्रणाल्यत्राभिप्रेता ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
तपसा ब्रह्मचर्येण शमेन च दमेन च।
त्यागेन सत्यशौचाभ्यां यमेन नियमेन च॥
मूलम्
तपसा ब्रह्मचर्येण शमेन च दमेन च।
त्यागेन सत्यशौचाभ्यां यमेन नियमेन च॥ १३ ॥
वीरराघवः
तावत्तआदिभिर्नियमैर्वेदनोत्पत्तिप्रतिबन्धकदुरितनिवृत्तिः ततो वेदनस्य निष्पत्तिस्ततो ब्रह्मप्राप्तिप्रतिबन्धकपूर्वोत्तराघविनाशाश्लेषौ ततो ब्रह्मप्राप्तिस्ततः क्षेम इति नियमान् दर्शयन् तेषां नोत्पत्तिप्रतिबन्धकदुरितनिवर्त्तकत्वमाह - तपसेति द्वाभ्याम् । तपसानशनादिना “तपसानाशकेन” इति श्रुतेः । अनाशकेनेत्यशननिषेधः, न तु सुतरामशननिषेधः । तथा सति देहधारणासम्भवेनोपासनानिष्पादनात् । तथा चोक्तं भगवता “युक्ताहारविहारस्य” इति । ब्रह्मचर्य्येण ऋत्वितरकालिकस्त्रीसङ्गादिराहित्येन शमेनान्तरिन्द्रियनिग्रहेण दमेन बाह्येन्द्रियनिग्रहेण त्यागेन सत्पात्रदानेन सत्यशौचाभ्यां सत्यभूतहितकारित्वमनृतावदनं च शौचं सदाचारः यमः कामानभिष्वङ्गः नियमः वर्णाश्रमधर्मः पञ्चमहायज्ञादिस्तेन ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः।
क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः॥
मूलम्
देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः।
क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः॥ १४ ॥
अनुवाद (हिन्दी)
जैसे बाँसोंके झुरमुटमें लगी आग बाँसोंको जला डालती है—वैसे ही धर्मज्ञ और श्रद्धावान् धीर पुरुष तपस्या, ब्रह्मचर्य, इन्द्रियदमन, मनकी स्थिरता, दान, सत्य, बाहर-भीतरकी पवित्रता तथा यम एवं नियम—इन नौ साधनोंसे मन, वाणी और शरीरद्वारा किये गये बड़े-से-बड़े पापोंको भी नष्ट कर देते हैं॥ १३-१४॥
वीरराघवः
एभिः धीराः शीतोष्णसुखदुःखादिद्वन्द्वसहनशीलाः धर्मज्ञाः निरतिशयसुखसाधनोपासनात्मकधर्मप्रतिपादकशास्त्रजन्यज्ञानवन्तः श्रद्धया स्वचिकीर्षितविषयकत्वरया युक्ताः सन्तः देहवाग्बुद्धिजं करणत्रयज्ञं महदप्यघं वेदनोत्पत्तिप्रतिबन्धकमनलोऽग्निर्वेणुगुल्ममिव क्षपयन्त्यपनुदन्ति । एवं तपआदिभिर्वेदनोत्पत्तिप्रतिबन्धकेऽघे निरस्ते तत उत्पन्नया वेदनया ब्रह्मप्राप्तिप्रतिबन्धकमघं निरस्यन्तीत्याह — केचिदिति । “मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये” इत्युक्तरीत्योक्तविधाधिकारिणां दुर्लभत्वाभिप्रायेण केचिदित्युक्तम् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
केचित्केवलया भक्त्या वासुदेवपरायणाः।
अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः॥
मूलम्
केचित्केवलया भक्त्या वासुदेवपरायणाः।
अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः॥ १५ ॥
अनुवाद (हिन्दी)
भगवान्की शरणमें रहनेवाले भक्तजन, जो बिरले ही होते हैं, केवल भक्तिके द्वारा अपने सारे पापोंको उसी प्रकार भस्म कर देते हैं, जैसे सूर्य कुहरेको॥ १५॥
वीरराघवः
ये केचिद्वासुदेवः परमयनं प्राप्यं प्राप्तिसाधनमाधारश्च येषां तादृशाः सन्तः तपआदिभिर्निष्पन्नया केवलया भक्त्योपासनात्मकभेदनया कार्त्स्न्येनाघं वासुदेवप्राप्तिप्रतिबन्धकं भास्कारः सूर्यो नीहारं तुहिनमिव धुन्वन्ति निरस्यन्ति । केवलयेत्यनेन भक्तेरुत्पत्तावेव तपआद्यपेक्षा तपआदिभिरुत्पन्ना भक्तिरेकैव पापं क्षपयतीत्यभिप्रेतम् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
न तथा ह्यघवान् राजन् पूयेत तप आदिभिः।
यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया॥
मूलम्
न तथा ह्यघवान् राजन् पूयेत तप आदिभिः।
यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया4॥ १६ ॥
मूलम् - कर्णावती
न तथा ह्यघवान् राजन् पूयेत तपआदिभिः।
यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया॥ १६ ॥
अनुवाद (हिन्दी)
परीक्षित्! पापी पुरुषकी जैसी शुद्धि भगवान्को आत्मसमर्पण करनेसे और उनके भक्तोंका सेवन करनेसे होती है, वैसी तपस्या आदिके द्वारा नहीं होती॥ १६॥
वीरराघवः
कार्त्स्न्येन धुन्वन्तीत्येतदेव प्रतिपादयति - न तथेति । हे राजन्! अघवान्पापी तपआदिभिः कृच्छ्रचाद्रायणादिभिः प्रायश्चित्तैः तथा नः पूयेत न शुद्ध्येत् यथा कृष्णे भगवत्यर्पितः समर्पितः प्राण; जीवात्मा येन तादृशः “ओमित्यात्मानं युञ्जीत” इति श्रुत्युक्तरीत्या भगवतश्चरणारविन्दयोः संन्यस्तात्मस्वरूप इत्यर्थः, तत्पूरुषाणां भागवतानां निषेवया यथा पूयेत तथा कृष्णार्पितप्राणः कार्त्स्न्येनाघं धुन्वन् पूयेत । अघवांस्तपआदिभिस्तु न कार्त्स्न्येन पूयेतेत्यर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः।
सुशीलाः साधवो यत्र नारायणपरायणाः॥
मूलम्
सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः।
सुशीलाः साधवो यत्र नारायणपरायणाः॥ १७ ॥
अनुवाद (हिन्दी)
जगत्में यह भक्तिका पंथ ही सर्वश्रेष्ठ, भयरहित और कल्याणस्वरूप है; क्योंकि इस मार्गपर भगवत्परायण, सुशील साधुजन चलते हैं॥ १७॥
वीरराघवः
उक्तं निःशेषदुरितक्षपणसमर्थं भगवद्भक्तियोगं विशिनष्टि - सध्रीचीन इति । लोके श्रेयःसाधनत्वेन विचार्यमाणे उपायसमुदायेऽयं भगवद्भक्तिरूपः पन्था उपायः सध्रीचीनः समीचीनः । कुतः हि यतोऽकुतोभयः कुतश्चिदपि भयरहितः क्षेमः आनन्दो मोक्षात्मको भवति, अत एव शोभनाचाराः साधवो नारायणपरायणाः सन्तो यत्र भगवद्भक्त्यात्मके पथि वर्त्तन्त इति शेषः । अत्र वासुदेवपरायणा नारायणपरायणा इत्यनयोर्मध्यपठितेन कृष्णार्पितप्राणा इत्यनेनात्मसमर्पणपूर्वकं भगवत्येवोपायोपेयभावानुसन्धानमेव वासुदेवपरायणत्वमिति सूच्यते । एवं च न्यासयोगोऽपि निरतिशयक्षेमङ्कर इति सूचितं स च स्वतो वा भक्त्यङ्गतया वेत्यन्यत् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम्।
न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः॥
मूलम्
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम्।
न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः॥ १८ ॥
अनुवाद (हिन्दी)
परीक्षित्! जैसे शराबसे भरे घड़ेको नदियाँ पवित्र नहीं कर सकतीं, वैसे ही बड़े-बड़े प्रायश्चित्त बार-बार किये जानेपर भी भगवद्विमुख मनुष्यको पवित्र करनेमें असमर्थ हैं॥ १८॥
वीरराघवः
एवं नानाविधानन्तदुःखावहनरकप्राप्तिनिमित्तदुरितनिस्तरणोपायो भगवद्भक्तियोग एवेत्यभिप्रायः । अथ प्रायश्चित्तान्यपि भगवत्पराङ्मुखं न निष्पुनन्तीत्याह - प्रायश्चित्तानीति । चीर्णान्यनुष्ठितानि प्रायश्चित्तानि नारायणपराङ्मुखं कदाचिन्नारायणमस्मरन्तं न निष्पुनन्ति न पवित्रयन्ति यथा सुरया पूर्णभाण्डमापगा गङ्गाजलानि तद्वन्नारायणस्मरणगर्भाण्येव प्रायश्चित्तानि चीर्णानि पुनन्ति न केवलानीति भावः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
सकृन्मनः कृष्णपदारविन्दयो-
र्निवेशितं तद्गुणरागि यैरिह।
न ते यमं पाशभृतश्च तद्भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः॥
मूलम्
सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि यैरिह।
न ते यमं पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः॥ १९ ॥
अनुवाद (हिन्दी)
जिन्होंने अपने भगवद्गुणानुरागी मन-मधुकरको भगवान् श्रीकृष्णके चरणारविन्द-मकरन्दका एक बार पान करा दिया, उन्होंने सारे प्रायश्चित्त कर लिये। वे स्वप्नमें भी यमराज और उनके पाशधारी दूतोंको नहीं देखते। फिर नरककी तो बात ही क्या है॥ १९॥
वीरराघवः
एवम “अधुनैव महाभाग ! यथैव नरकान्नरः” इति प्रश्नस्य परिहार उक्तो भवतीत्याह - सकृदिति । यैर्नरैरिह लोके तस्य भगवतो गुणेषु रागि आसक्तं मनः कृष्णपदारविन्दयोः सकृन्निवेशितं ते नराः यमं पाशधारिणो यमभटांश्च स्वप्नेऽपि न पश्यन्ति कुतः हि यस्मात् ते चीर्णनिष्कृताः निष्कृतिर्निष्कृतं भावे क्तः चीर्णं कृतं निष्कृतं सकृत्कृष्णपदारविन्दयोः मनोनिवेशनरूपं यैस्तादृशाः सकृन्निवेशितमित्यनेनायमर्थोऽभिप्रेतः निष्पन्नभगवद्भक्तियोगानां निरयप्राप्तिनिमित्तसमस्तवृजिनविधूननेन नित्यनिरतिशयानन्दरूपभगवत्प्राप्तिरिति किमु वक्तव्यं यतस्तद्गुणश्रवणनामस्मरणाद्यन्यतमेनापि मनस्तच्चरणनिवेशनरूपो भक्तियोगारम्भ एव सुतरां यमवश्यतापरिहारक इति । तथा चोक्तं भगवता “नेयाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ न हि कल्याणकृत्कश्चिद् दुर्गतिं तात ! गच्छति” इत्यादि च ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
अथ चोदाहरन्तीममितिहासं पुरातनम्।
दूतानां विष्णुयमयोः संवादस्तं निबोध मे॥
मूलम्
अथ चोदाहरन्तीममितिहासं पुरातनम्।
दूतानां विष्णुयमयोः संवादस्तं निबोध मे॥ २० ॥
अनुवाद (हिन्दी)
परीक्षित्! इस विषयमें महात्मालोग एक प्राचीन इतिहास कहा करते हैं। उसमें भगवान् विष्णु और यमराजके दूतोंका संवाद है। तुम मुझसे उसे सुनो॥ २०॥
वीरराघवः
अथ भक्तियोगारम्भस्यापि कैमुत्यन्यायेन दुरितनिवर्त्तकतां शनैर्मुक्त्युपायतां च वक्तुमन्यापदेशेनापि स्मृतस्य भगवन्नाम्नो भक्तियोगारम्भविरोधिदुरितनिवर्तकत्वे दृष्टान्ततयेतिहासं प्रस्तोष्यन् प्रतिजानीते - अत्रेति । आस्तां तावन्निष्पन्नभक्तियोगस्यारब्धभक्तियोगस्य वा न यमवश्यतेत्यन्यापदेशेन नामोच्चारणस्य यमवश्यतापरिहारकत्वं भक्तियोगारम्भकारणत्वञ्चेत्यत्रैव पुरातनमितिहासमुदाहरन्ति दृष्टान्तत्वेन कथयन्ति । इतिहासं विशिनष्टि - दूतानामिति । विष्णुयमयोर्ये दूतास्तेषां संवादरूपमितिहासं मे कथयतो मत्तो निबोध शृणु ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः।
नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः॥
मूलम्
कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः।
नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः॥ २१ ॥
अनुवाद (हिन्दी)
कान्यकुब्ज नगर (कन्नौज) में एक दासीपति ब्राह्मण रहता था। उसका नाम था अजामिल। दासीके संसर्गसे दूषित होनेके कारण उसका सदाचार नष्ट हो चुका था॥ २१॥
वीरराघवः
प्रतिज्ञातमितिहासमाह - कान्यकुब्ज इत्यादिना । कान्यकुब्जाख्ये जनपदे कश्चिन्नाम्नाजामिल इति प्रसिद्धो द्विजः दास्याः शूद्रयाः पतिरासीदिति शेषः । स च नष्टः सदाचारः स्ववर्णाश्रमधर्मो यस्य तादृशस्तत्र हेतुर्दास्याः संसर्गेण दूषितः पतितः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
बन्द्यक्षकैतवैश्चोर्यैर्गर्हितां वृत्तिमास्थितः।
बिभ्रत्कुटुम्बमशुचिर्यातयामास देहिनः॥
अनुवाद (हिन्दी)
वह पतित कभी बटोहियोंको बाँधकर उन्हें लूट लेता, कभी लोगोंको जूएके छलसे हरा देता, किसीका धन धोखाधड़ीसे ले लेता तो किसीका चुरा लेता। इस प्रकार अत्यन्त निन्दनीय वृत्तिका आश्रय लेकर वह अपने कुटुम्बका पेट भरता था और दूसरे प्राणियोंको बहुत ही सताता था॥ २२॥
वीरराघवः
गर्हितामार्यैर्गर्हितां वृत्तिमाश्रितो बन्द्यक्षैर्भाषाबन्धनपूर्वकैर्द्यूतैः कैतवैः शाठ्यैश्च कुटुम्बं बिभ्रन्नित्यमशुचिः यदा बन्द्यक्षादिभिः कुटुम्बकस्यानिर्वाहस्तदा देहिनः प्राणिनो यातयामास पक्षिमृगान् हिंसितवानित्यर्थः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
एवं निवसतस्तस्य लालयानस्य तत्सुतान्।
कालोऽत्यगान्महान् राजन्नष्टाशीत्यायुषः समाः॥
मूलम्
एवं निवसतस्तस्य लालयानस्य तत्सुतान्।
कालोऽत्यगान्महान् राजन्नष्टाशीत्यायुषः समाः॥ २३ ॥
अनुवाद (हिन्दी)
परीक्षित्! इसी प्रकार वह वहाँ रहकर दासीके बच्चोंका लालन-पालन करता रहा। इस प्रकार उसकी आयुका बहुत बड़ा भाग—अट्ठासी वर्ष बीत गया॥ २३॥
वीरराघवः
एवं निवसतो जीवतस्तस्य दास्याः सुतान् स्वोत्पादितान् लालयानस्य लालनं कुर्वतः हे महाराजन् ! समासान्तविधेरनित्यत्वात् “राजाह” इति दजभावः, कालः अभ्यगादतिक्रान्तः । कियान् कालोऽतिक्रान्तस्तत्राह - अष्टाशीति । परिमिता आयुषः सम्बन्धिन्य समाः संवत्सराः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः।
बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम्॥
मूलम्
तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः।
बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम्॥ २४ ॥
अनुवाद (हिन्दी)
बूढ़े अजामिलके दस पुत्र थे। उनमें सबसे छोटेका नाम था ‘नारायण’। माँ-बाप उससे बहुत प्यार करते थे॥ २४॥
वीरराघवः
तस्य प्रवयसः वार्द्धक्ययुक्तस्य दश पुत्राः स्थितास्तेषां मध्येऽवमः कनीयान् बाल एव स्थितः स च नाम्ना नारायण इति प्रसिद्धः प्रवयसः पुत्रोत्पत्तिकथनमपि पापातिशयज्ञापनार्थं “दास्यां चैव प्ररूढस्य निष्कृतिन विधीयते” इति स्मरणात् । स नारायणाख्यः पित्रोर्मातापित्रोर्भृशं नितरां दयितः प्रियः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि।
निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम्॥
मूलम्
स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि।
निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम्॥ २५ ॥
अनुवाद (हिन्दी)
वृद्ध अजामिलने अत्यन्त मोहके कारण अपना सम्पूर्ण हृदय अपने बच्चे नारायणको सौंप दिया था। वह अपने बच्चेकी तोतली बोली सुन-सुनकर तथा बालसुलभ खेल देख-देखकर फूला नहीं समाता था॥ २५॥
वीरराघवः
स द्विजस्तस्मिन्नभेके नारायणनाम्नि कलभाषिण्यव्यक्तमधुरभाषिणि बद्धहृदयः आसक्तचित्तः तस्यार्भकस्य लीलां चेष्टां निरीक्षमाणः जरठः जीर्णः भृशं मुमुदे हृष्टवान् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
भुञ्जानः प्रपिबन् खादन् बालकस्नेहयन्त्रितः।
भोजयन् पाययन्मूढो न वेदागतमन्तकम्॥
मूलम्
भुञ्जानः प्रपिबन् खादन् बालकस्नेहयन्त्रितः।
भोजयन् पाययन्मूढो न वेदागतमन्तकम्॥ २६ ॥
अनुवाद (हिन्दी)
अजामिल बालकके स्नेह-बन्धनमें बँध गया था। जब वह खाता तब उसे भी खिलाता, जब पानी पीता तो उसे भी पिलाता। इस प्रकार वह अतिशय मूढ़ हो गया था, उसे इस बातका पता ही न चला कि मृत्यु मेरे सिरपर आ पहुँची है॥ २६॥
वीरराघवः
स्वयम्भुञ्जानो बालकमपि तत्स्नेहपरवशो भोजयन् स्वयम्पिबंस्तमपि पाययन्मूढोऽज्ञः सन्नागतं प्राप्तं मृत्युं न वेद ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते।
मतिं चकार तनये बाले नारायणाह्वये॥
मूलम्
स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते।
मतिं चकार तनये बाले नारायणाह्वये॥ २७ ॥
अनुवाद (हिन्दी)
वह मूर्ख इसी प्रकार अपना जीवन बिता रहा था कि मृत्युका समय आ पहुँचा। अब वह अपने पुत्र बालक नारायणके सम्बन्धमें ही सोचने-विचारने लगा॥ २७॥
वीरराघवः
एवं वर्तमानः स द्विजः मृत्युकाले उपस्थिते सत्यज्ञो नारायणाख्ये पुत्र एव मतिं चकार मतिमासक्तामकरोदित्यर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
स पाशहस्तांस्त्रीन्दृष्ट्वा पुरुषान् भृशदारुणान्।
वक्रतुण्डानूर्ध्वरोम्ण आत्मानं नेतुमागतान्॥
मूलम्
स पाशहस्तांस्त्रीन्दृष्ट्वा पुरुषान् भृशदारुणान्।
वक्रतुण्डानूर्ध्वरोम्ण आत्मानं नेतुमागतान्॥ २८ ॥
अनुवाद (हिन्दी)
इतनेमें ही अजामिलने देखा कि उसे ले जानेके लिये अत्यन्त भयावने तीन यमदूत आये हैं। उनके हाथोंमें फाँसी है, मुँह टेढ़े-टेढ़े हैं और शरीरके रोएँ खड़े हुए हैं॥ २८॥
श्लोक-२९
विश्वास-प्रस्तुतिः
दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम्।
प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः॥
मूलम्
दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम्।
प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः॥ २९ ॥
अनुवाद (हिन्दी)
उस समय बालक नारायण वहाँसे कुछ दूरीपर खेल रहा था। यमदूतोंको देखकर अजामिल अत्यन्त व्याकुल हो गया और उसने बहुत ऊँचे स्वरसे पुकारा—‘नारायण!’॥ २९॥
सोऽजामिलस्त्रीन्पुरुषान् दृष्ट्वाकुलेन्द्रियः व्याकुलचित्तः दूरे क्रीडासक्तं नारायणाह्वयं पुत्रं प्लावितेन प्लुतत्वं नीतेन प्लुतीकृतेनेति यावत् स्वरेणोच्चैराजुहाव नारायणेत्याहूतवान् । कथम्भूतान् पुरुषान् पाशो हस्ते येषां भृशदारुणानत्युग्ररूपान् वक्राणि कुटिलानि तुण्डानि मुखानि येषाम् ऊर्ध्वमुखानि रोमाणि येषां तानात्मानं यमालयं प्रति नेतुमागतान् ॥ २८-२९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
निशम्य म्रियमाणस्य ब्रुवतो हरिकीर्तनम्।
भर्तुर्नाम महाराज पार्षदाः सहसाऽपतन्॥
मूलम्
निशम्य म्रियमाणस्य 7ब्रुवतो हरिकीर्तनम्।
भर्तुर्नाम महाराज पार्षदाः सहसाऽपतन्॥ ३० ॥
अनुवाद (हिन्दी)
भगवान्के पार्षदोंने देखा कि यह मरते समय हमारे स्वामी भगवान् नारायणका नाम ले रहा है, उनके नामका कीर्तन कर रहा है; अतः वे बड़े वेगसे झटपट वहाँ आ पहुँचे॥ ३०॥
वीरराघवः
म्रियमाणस्य मर्तुमुद्यतस्य मुखेन यद्धरिः कीर्त्यते येन तद्धरिकीत्तनम् इति नामविशेषणं तन्निशम्य श्रुत्वा हे महाराज! भर्तुर्भगवतः पार्षदाः सहसा त्वरया अभ्यपतन्नाजग्मुहि ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम्।
यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा॥
मूलम्
विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम्।
यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा॥ ३१ ॥
अनुवाद (हिन्दी)
उस समय यमराजके दूत दासीपति अजामिलके शरीरमेंसे उसके सूक्ष्मशरीरको खींच रहे थे। विष्णुदूतोंने उन्हें बलपूर्वक रोक दिया॥ ३१॥
वीरराघवः
तेऽभिपतिता विष्णुदूता ओजसा बलात्कारेण दासीपतिमजामिलमन्तहृदयाद्विकर्षतः यमप्रेष्यान् वारयामासुः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः।
के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम्॥
मूलम्
ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः।
के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम्॥ ३२ ॥
अनुवाद (हिन्दी)
उनके रोकनेपर यमराजके दूतोंने उनसे कहा—‘अरे, धर्मराजकी आज्ञाका निषेध करनेवाले तुमलोग हो कौन?॥ ३२॥
वीरराघवः
एवं निषेधितास्ते वैवस्वतस्य यमस्य पुरःसराः भृत्याः ऊचुः । उक्तिमेवाह — क इति । धर्मराजस्य यमस्य शासनमाज्ञां प्रतिषेद्धारो यूयं के ? ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
कस्य वा कुत आयाताः कस्मादस्य निषेधथ।
किं देवा उपदेवा वा यूयं किं सिद्धसत्तमाः॥
मूलम्
कस्य वा कुत आयाताः कस्मादस्य निषेधथ।
किं देवा उपदेवा वा यूयं किं सिद्धसत्तमाः॥ ३३ ॥
अनुवाद (हिन्दी)
तुम किसके दूत हो, कहाँसे आये हो और इसे ले जानेसे हमें क्यों रोक रहे हो? क्या तुमलोग कोई देवता, उपदेवता अथवा सिद्धश्रेष्ठ हो?॥ ३३॥
वीरराघवः
कस्य वा सम्बन्धिनः ? कस्माल्लोकादागता अस्य कस्माद् गुणलेशाद्धेतोः धर्मराजस्य शासनं निषेधथ । यूयं कि देवा उत उपदेवा गन्धर्वा अथवा सिद्धश्रेष्ठाः ? ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः।
किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः॥
मूलम्
सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः।
किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः॥ ३४ ॥
अनुवाद (हिन्दी)
हम देखते हैं कि तुम सब लोगोंके नेत्र कमलदलके समान कोमलतासे भरे हैं, तुम पीले-पीले रेशमी वस्त्र पहने हो, तुम्हारे सिरपर मुकुट, कानोंमें कुण्डल और गलोंमें कमलके हार लहरा रहे हैं॥ ३४॥
वीरराघवः
एवं पृष्ट्वा पुनस्तान् वर्णयन्तो यमशासनप्रतिषेधप्रयोजनं पृच्छन्ति सर्व इति त्रिभिः । सर्वे यूयं पद्मपलाशे इवाक्षिणी येषां पीतं कौशेयं कृमिकोशोत्थं वासो वस्त्रं येषां किरीटानि येषां सन्ति तथा कुण्डले येषां स्त इति तथा लसन्त्यः पुष्करमालाः कमलमालाः येषां सन्तीति ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः।
धनुर्निषङ्गासिगदाशङ्खचक्राम्बुजश्रियः॥
मूलम्
सर्वे च 8नूत्नवयसः सर्वे चारुचतुर्भुजाः।
धनुर्निषङ्गासिगदाशङ्खचक्राम्बुजश्रियः॥ ३५ ॥
अनुवाद (हिन्दी)
सबकी नयी अवस्था है, सुन्दर-सुन्दर चार-चार भुजाएँ हैं, सभीके करकमलोंमें धनुष, तरकश, तलवार, गदा, शंख, चक्र, कमल आदि सुशोभित हैं॥ ३५॥
वीरराघवः
तथा सर्वे यूयं नूत्नं नवं वयः येषां ते चारवः सुन्दराश्चत्वारो भुजा येषां धनुरादीनां श्रीः शोभा येषां धनुरादिधरा इत्यर्थः, तत्र निषङ्गः इषुधिरसिः खङ्गः अम्बुजं कमलम् ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
दिशो वितिमिरालोकाः कुर्वन्तः स्वेन रोचिषा।
किमर्थं धर्मपालस्य किङ्करान्नो निषेधथ॥
मूलम्
दिशो वितिमिरालोकाः कुर्वन्तः स्वेन रोचिषा।
किमर्थं धर्मपालस्य किङ्करान्नो निषेधथ॥ ३६ ॥
अनुवाद (हिन्दी)
तुमलोगोंकी अंगकान्तिसे दिशाओंका अन्धकार और प्राकृत प्रकाश भी दूर हो रहा है। हम धर्मराजके सेवक हैं। हमें तुमलोग क्यों रोक रहे हो?’॥ ३६॥
वीरराघवः
स्वेन रोचिषा दिशो वितिमिरालोका विगत तिमिरं तमः यस्मात्स आलोकः प्रकाशो यासां तादृशीः दिशः कुर्वन्त इत्यर्थः । धर्मराजस्य किङ्करान्नोऽस्मान् किमर्थं निषेधय कस्मै प्रयोजनाय निषेधयेत्यर्थः ॥ ३६ ॥
श्लोक-३७
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
इत्युक्ते यमदूतैस्तैर्वासुदेवोक्तकारिणः।
तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा॥
मूलम्
इत्युक्ते यमदूतैस्तैर्वासुदेवोक्तकारिणः।
तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा॥ ३७ ॥
मूलम्
इत्युक्ते यमदूतैस्तैर्वासुदेवोक्तकारिणः।
तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्वादया गिरा॥ ३७ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! जब यमदूतोंने इस प्रकार कहा, तब भगवान् नारायणके आज्ञाकारी पार्षदोंने हँसकर मेघके समान गम्भीर वाणीसे उनके प्रति यों कहा—॥ ३७॥
वीरराघवः
एवमुक्ता विष्णुपार्षदा आहुरित्याह मुनिः इत्युक्ता इवीत्थं यमदूतैरुक्तास्ते वासुदेवाज्ञाकारिणः पार्षदाः प्रहस्य तान् यमदूतान् प्रतीदं वक्ष्यमाणं गर्जितमेघवद्गम्भीरया गिरा वाण्योचुः ॥ ३७ ॥
श्लोक-३८
मूलम् (वचनम्)
विष्णुदूता ऊचुः
विश्वास-प्रस्तुतिः
यूयं वै धर्मराजस्य यदि निर्देशकारिणः।
ब्रूत धर्मस्य नस्तत्त्वं यच्च धर्मस्य लक्षणम्॥
मूलम्
यूयं वै धर्मराजस्य यदि निर्देशकारिणः।
ब्रूत धर्मस्य नस्तत्त्वं यच्च धर्मस्य लक्षणम्॥ ३८ ॥
अनुवाद (हिन्दी)
भगवान्के पार्षदोंने कहा—यमदूतो! यदि तुमलोग सचमुच धर्मराजके आज्ञाकारी हो तो हमें धर्मका लक्षण और धर्मका तत्त्व सुनाओ॥ ३८॥
वीरराघवः
उक्तिमेवाह – यूयमिति । धर्मराजस्येति हेतुगर्भ धर्म एव यमरूपेणावस्थित इत्यर्थः । तस्य यदि यूयं निर्द्देशकारिणः शासनकारिणः तर्हि यूयमपि धर्माधर्मस्वरूपज्ञा भवेयुरतो धर्मस्य तत्त्वं याथात्म्यं यदधर्मलक्षणं स्वरूपं तच्च नोऽस्मभ्यं ब्रूथ । यद्वा धर्मस्याधर्मस्य च तत्त्वं लक्षणं प्रमाणं चेत्यन्वयः ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
कथंस्विद् ध्रियते दण्डः किं वास्य स्थानमीप्सितम्।
दण्ड्याः कं कारिणः सर्वे आहोस्वित्कतिचिन्नृणाम्॥
मूलम्
कथंस्विद् ध्रियते दण्डः किं वास्य स्थानमीप्सितम्।
दण्ड्याः कं कारिणः सर्वे आहोस्वित्कतिचिन्नृणाम्॥ ३९ ॥
मूलम्
कथंस्विद् ध्रियते दण्डः किं वास्य स्थानमीप्सितम्।
दण्ड्याः किंकारिणः सर्वे आहोस्वित्कतिचिन्नृणाम्॥ ३९ ॥
अनुवाद (हिन्दी)
दण्ड किस प्रकार दिया जाता है? दण्डका पात्र कौन है? मनुष्योंमें सभी पापाचारी दण्डनीय हैं अथवा उनमेंसे कुछ ही?॥ ३९॥
वीरराघवः
तत्र दण्डनस्य प्रकारविषयादिकं पृच्छन्ति - कथंस्विदिति । दण्डः केन प्रकारेण क्रियते नित्यं दण्डस्य स्थानं विषयः किं स्थानमेव विकल्पयन्ति । दण्ड्या इति कारिणः । सर्वे नरा दण्ड्या आहोस्वित्कारिणां नृणां मध्ये कतिचिदेव ॥ ३९ ॥
श्लोक-४०
मूलम् (वचनम्)
यमदूता ऊचुः
विश्वास-प्रस्तुतिः
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः।
वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रुम॥
मूलम्
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः।
वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रुम॥ ४० ॥
मूलम् - कर्णावती
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः।
वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम॥ ४० ॥
अनुवाद (हिन्दी)
यमदूतोंने कहा—वेदोंने जिन कर्मोंका विधान किया है, वे धर्म हैं और जिनका निषेध किया है, वे अधर्म हैं। वेद स्वयं भगवान्के स्वरूप हैं। वे उनके स्वाभाविक श्वास-प्रश्वास एवं स्वयंप्रकाश ज्ञान हैं—ऐसा हमने सुना है॥ ४०॥
वीरराघवः
एवमुक्ता यमदूता आहुः - वेदेत्यादिना । वेदेन प्रणिहितः कर्त्तव्यत्वेन बोधितो धर्मः अधर्मस्तु तद्विपर्ययः अकर्त्तव्यत्वेन बोधितः । अनेन वेद एवायं धर्मोऽयमधर्म इत्यत्र प्रमाणमिति लक्षणमुक्तं वेदप्रणिहिततद्विपर्ययावेव धर्माधर्मयोः स्वरूपमिति चोक्तम् । ननु वेदस्यापि पौरुषेयत्वात्पुरुषस्य च भ्रमविप्रलम्भादिदोषसम्भवात्कथं वेदस्य धर्मप्रमापकत्वमित्यत आह - वेदो नारायण इति । साक्षान्नारायणादेव वेदः प्रसूतः न पौरुषेयत्वाशङ्केति भावः । कारणवाचिनो नारायणशब्दस्य कार्यकारणयोरभेदात्कार्यभूते वेदो वृत्तिः नारायणाद्वेदस्याविर्भावो लक्ष्यते “तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः”, “ऋचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत” इति च कार्यत्वप्रयुक्तानित्यत्वशङ्कां वारयतिस्वयम्भूरिति । स्वयमित्यात्मनेत्यर्थः । स्वयमात्मनैवाधिकृतरूपेणैवाविप्लुतपूर्वानुपूर्व्या प्रादुर्भवतीति स्वयम्भूरिति शुश्रुम यमादिभ्य इति शेषः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः।
गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम्॥
मूलम्
येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः।
गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम्॥ ४१ ॥
अनुवाद (हिन्दी)
जगत्के रजोमय, सत्त्वमय और तमोमय—सभी पदार्थ, सभी प्राणी अपने परम आश्रय भगवान्में ही स्थित रहते हैं। वेद ही उनके गुण, नाम, कर्म और रूप आदिके अनुसार उनका यथोचित विभाजन करते हैं॥ ४१॥
वीरराघवः
कोऽसौ नारायणः यतः प्रादुर्भूतो वेदस्तत्राह — येनेति । येन स्वधाग्नि स्वस्वरूपेऽन्तः प्रविश्य धारकेऽमी भावाः वेददेवमनुष्यादयः पदार्था रजआदिगुणत्रयप्रचुराः गुणनामक्रियारूपैः यथायथं यथाकर्म भाव्यन्ते विभाव्यन्ते सृज्यन्ते स नारायण इत्यर्थः । तत्र गुणाः शान्तिक्षमासौन्दर्यादयः नामानि वेदो देवो मनुष्यो ब्राह्मण इत्यादि क्रिया अर्थप्रत्यायनाध्ययनादयः रूपाणि शब्दात्मकत्वार्थात्मकत्वादीनि ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
सूर्योऽग्निः खं मरुद्गावः सोमः सन्ध्याहनी दिशः।
कं कुः कालो धर्म इति ह्येते दैह्यस्य साक्षिणः॥
मूलम्
सूर्योऽग्निः खं मरुद्गावः सोमः सन्ध्याहनी दिशः।
9कं कुः कालो धर्म इति ह्येते दैह्यस्य साक्षिणः॥ ४२ ॥
अनुवाद (हिन्दी)
जीव शरीर अथवा मनोवृत्तियोंसे जितने कर्म करता है, उसके साक्षी रहते हैं—सूर्य, अग्नि, आकाश, वायु, इन्द्रियाँ, चन्द्रमा, सन्ध्या, रात, दिन, दिशाएँ, जल, पृथ्वी, काल और धर्म॥ ४२॥
वीरराघवः
भवतु धर्मे वेदः प्रमाणं वेदप्रणिहितो धर्मः वेदश्च नारायणादुद्भूतो नारायणस्त्वीदृशस्तथापि प्रतिक्षणसंसारिभिरनुष्ठितौ धर्माधर्मावनन्तौ कथं ज्ञायेते तत्राह - सूर्य इति । खमाकाशः अहश्च रात्रिश्चाहनी । द्विवचननिर्द्देशसामर्थ्याद्रात्रिर्विवक्षिता । कमुदकं कुः पृथ्वी स्वयं साक्षाद्धर्मश्व खादयः तदधिदेवताः सूर्याग्निसोमाश्चैते चतुर्द्दश दैह्यस्य देहस्य कर्म दैह्यं-ब्राह्मणादित्वात्कर्मणि व्यञ्-बुद्धीन्द्रियमनः प्राणात्मकेन देहेन क्रियमाणस्य कर्मणः साक्षिणः साक्षाद्द्रष्टारः सूर्य्यादिमुखेन दैह्योधर्मो ज्ञायत इत्यर्थः ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते।
सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः॥
मूलम्
एतैरधर्मो10 विज्ञातः स्थानं दण्डस्य युज्यते।
सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः॥ ४३ ॥
अनुवाद (हिन्दी)
इनके द्वारा अधर्मका पता चल जाता है और तब दण्डके पात्रका निर्णय होता है। पापकर्म करनेवाले सभी मनुष्य अपने-अपने कर्मोंके अनुसार दण्डनीय होते हैं॥ ४३॥
वीरराघवः
एतैरेवाधर्मोऽपि ज्ञायत इत्याहुः । एतैरधर्मो विज्ञात इति एतैर्ज्ञापितोऽधार्मिको दण्डस्य विषय इत्याहुः । स्थानं दण्डस्य युज्यत इति दण्ड्याः किं कारिणः सर्व इत्यस्योत्तरमाहुः । सर्वे कारिणः अतस्ते सर्वे कर्मानुरोधेन दण्डं प्रत्यर्हन्ति धर्ममनुतिष्ठतामपि विषयपरवशत्वादधर्मोऽवर्जनीयः, अधर्मफलानुभवदशायां च ते दण्डमर्हन्तीत्यभिप्रायेण सर्वे कर्मानुरोधेन दण्डमर्हन्तीत्युक्तम् ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
सम्भवन्ति हि भद्राणि विपरीतानि चानघाः।
कारिणां गुणसङ्गोऽस्ति देहवान् न ह्यकर्मकृत्॥
मूलम्
सम्भवन्ति हि भद्राणि विपरीतानि चानघाः।
कारिणां गुणसङ्गोऽस्ति देहवान् न ह्यकर्मकृत्॥ ४४ ॥
अनुवाद (हिन्दी)
निष्पाप पुरुषो! जो प्राणी कर्म करते हैं, उनका गुणोंसे सम्बन्ध रहता ही है। इसीलिये सभीसे कुछ पाप और कुछ पुण्य होते ही हैं और देहवान् होकर कोई भी पुरुष कर्म किये बिना रह ही नहीं सकता॥ ४४॥
वीरराघवः
एतदेव प्रतिपादयन्ति - सम्भवन्ति हीति । हे अनघाः ! भद्राणि पुण्यानि विपरीतान्यपुण्यानि च सम्भवन्ति भद्राणि कुर्वतामभद्राण्यवर्जनीयतया आपतन्तीत्यर्थः । कुतः यतस्तेषां कारिणां गुणेषु शब्दादिविषयेषु सङ्गः व्यासक्तिरस्ति विषयपरवशत्वात्तेषामभद्राण्यपि सम्भवन्तीत्यर्थः । धर्माधर्मपरिहारेण तूष्णीं वर्त्तमाना न दण्डमर्हेयुस्तत्राहुः देहवान्न ह्यकर्मकृत् न हि देहवानकर्मकृदस्तीत्यर्थः । स्वरूपतः कर्मपरिहारेणावस्थातुं न कोऽपि देही प्रभुरिति सर्वेऽपि देहिनः कारित्वात्पर्यायेण दण्डमर्हन्तीति भावः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
येन यावान् यथाधर्मो धर्मो वेह समीहितः।
स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै॥
मूलम्
येन यावान् यथाधर्मो धर्मो वेह 11समीहितः।
स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै॥ ४५ ॥
अनुवाद (हिन्दी)
इस लोकमें जो मुनष्य जिस प्रकारका और जितना अधर्म या धर्म करता है, वह परलोकमें उसका उतना और वैसा ही फल भोगता है॥ ४५॥
वीरराघवः
कथंस्विद्ध्रियते दण्ड इत्यस्योत्तरमाहुः - येन गुणत्रयसंसृष्टेन जीवेन कर्त्रा यथा स्वस्वगुणोन्मेषानुसारेण धर्मोऽधर्मो वा यावान् देहसमीहितः देहेन बुद्धीन्द्रियमनः प्राणसङ्घातरूपेण देहेन करणेन समीहितः स कर्त्ता तावदेव तत्फलं स्वर्गनरकादिरूपं धर्माधर्मफलममुत्र भुङ्क्ते न धार्मिको नरकं न वा अधार्मिकः स्वर्गं नाप्यल्पपापान्महद्दुःखं नाप्यल्पधर्मान्महत्सुखं भुङ्क्ते इत्यर्थः । धर्मो यथेति दृष्टान्तो वा तत्रायमर्थः - यथा धर्मो यावान् देहसमीहितः तावदेव तत्फलं सुखममुत्र स्वर्गे भुङ्क्ते एवमधर्मोऽपि यावांस्तावदेव तत्फलं दण्डरूपं भुङ्क्ते इति ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते।
भूतेषु गुणवैचित्र्यात्तथान्यत्रानुमीयते॥
मूलम्
यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते।
भूतेषु 12गुणवैचित्र्यात्तथान्यत्रानुमीयते॥ ४६ ॥
अनुवाद (हिन्दी)
देवशिरोमणियो! सत्त्व, रज और तम—इन तीन गुणोंके भेदके कारण इस लोकमें भी तीन प्रकारके प्राणी दीख पड़ते हैं—पुण्यात्मा, पापात्मा और पुण्य-पाप दोनोंसे युक्त अथवा सुखी, दुःखी और सुख-दुःख दोनोंसे युक्त; वैसे ही परलोकमें भी उनकी त्रिविधताका अनुमान किया जाता है॥ ४६॥
वीरराघवः
न केवलं परत्रैव कर्मानुसारेण तत्फलभोग अपि त्विहापि लोके प्राचीनकर्मानुसारेणैव फलभोग उपलब्धस्तद्वत्परलोकेऽप्यनुमीयत इत्याहुः - यथेति । हे देवप्रवराः ! इह लोके भूतेषु गुणवैचित्र्यात्सत्त्वादिगुणोन्मेषनिमित्तप्राचीनसात्त्विकादि कर्मवैचित्र्यात्त्रैविध्यं सुखित्वदुःखित्वमूढत्वरूपं त्रैविध्यम् उपलभ्यते गुणवैचित्र्यनिमित्तमिदं त्रैविध्यमिति सर्वजनीनं ज्ञायते तथान्यत्र परलोकेऽपि गुणवैचित्र्यात्त्रैविध्यमनुभूयत इत्यर्थः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा।
एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम्॥
मूलम्
13वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा।
एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम्॥ ४७ ॥
अनुवाद (हिन्दी)
वर्तमान समय ही भूत और भविष्यका अनुमान करा देता है। वैसे ही वर्तमान जन्मके पाप-पुण्य भी भूत और भविष्य-जन्मोंके पाप-पुण्यका अनुमान करा देते हैं॥ ४७॥
वीरराघवः
एवं भूतभविष्यद्वर्त्तमानकालत्रयगोचरेषु कारिषु कर्मानुसारेणैव फलभोगः कर्म च धर्माधर्ममिश्ररूपं तच्च सत्त्वादिगुणोन्मेषनिमित्तमिति चोक्तम् । इदानीं धर्मादिरूपं कर्म सत्त्वादिगुणोन्मेषनिमित्तमिति कथं ज्ञायत इत्यपेक्षायां कार्येण कारणमनुमीयत इति सदृष्टान्तमाहुः - वर्त्तमान इति । यथा वर्तमानः कालः सुखदुःखाद्यनुभवसहचरितः कालः अनयोर्द्धर्माधर्मयोर्गुणाः निमित्तभूताः सत्त्वादयस्तेषां सुखदुःखमोहरूपैः कार्यैरभिज्ञापकः, यथा वर्तमानकालिका धर्मादिनिमित्ताः सुखदुःखमोहाः स्वनिमित्तभूतानां धर्मादीनां सत्त्वादिगुणोन्मेषमूलत्वं ज्ञापयन्तीत्यर्थः । एवमेतद्वर्त्तमानकालिकं दुःखादित्रयं जन्मान्ययोरन्यजन्मनोः बहुलवचनाद्विशेषणस्य परनिपातः पूर्वापरजन्मनोः धर्माधर्मयोर्निदर्शनं तयोः सत्त्वादिगुणोन्मेषमूलत्वाभिज्ञापकमित्यर्थः । सत्त्वादयो हि धर्मादिरूपकर्मोपादानद्वारा तत्फलत्वेन सुखदुःखादीन् जनयन्ति न साक्षादतः सुखादीनां सत्त्वादिकार्यत्वात्कार्यभूतैस्तैः स्वनिमित्तभूतधर्मादीनां सत्त्वादिमूलत्वमनुमीयते कार्येण कारणानुमानादिति भावः ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
मनसैव पुरे देवः पूर्वरूपं विपश्यति।
अनुमीमांसतेऽपूर्वं मनसा भगवानजः॥
मूलम्
मनसैव पुरे देवः पूर्वरूपं विपश्यति।
अनुमीमांसतेऽपूर्वं मनसा भगवानजः॥ ४८ ॥
अनुवाद (हिन्दी)
हमारे स्वामी अजन्मा भगवान् सर्वज्ञ यमराज सबके अन्तःकरणोंमें ही विराजमान हैं। इसलिये वे अपने मनसे ही सबके पूर्वरूपोंको देख लेते हैं। वे साथ ही उनके भावी स्वरूपका भी विचार कर लेते हैं॥ ४८॥
वीरराघवः
येन यावान् यथाधर्म इति कर्मेव स्वानुरूपसुखदुःखादिकारणमित्युक्तं तस्य क्षणिकत्वात्कथं कालान्तरे सुखादिनिमित्तत्वमित्यत आहुः - मनसैवेति । पुरे देहे देवः स्वतेजसा दीप्यमानः न तु जीववत्कर्मणा सङ्कुचितज्ञान इत्यर्थः । जीवान्तरात्मतयावस्थितः परमात्मा मनसैव नित्यासङ्कुचितापरिच्छिन्नधर्मभूतज्ञानेनैव पूर्वरूपं प्राक्तनजन्मसम्बन्धि पुण्यपापादिरूपं विपश्यति पुण्यपापादिरूपदर्शनेन चिकीर्षितानुग्रहनिग्रहवान भवतीति भावः । तथाऽजो भगवान् मनसापूर्वमनु प्राचीनं कर्मानुसृत्यैव मीमांसते तत्फलदानादिप्रकारं चिन्तयति कर्मणः क्षणिकत्वेऽपि तन्निमित्तानुग्रहनिग्रहवान् परमात्मा तदनुसारेण सुखदुःखादिफलदो भवतीति भावः ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि।
न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा॥
मूलम्
यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि।
न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा॥ ४९ ॥
अनुवाद (हिन्दी)
जैसे सोया हुआ अज्ञानी पुरुष स्वप्नके समय प्रतीत हो रहे कल्पित शरीरको ही अपना वास्तविक शरीर समझता है, सोये हुए अथवा जागनेवाले शरीरको भूल जाता है, वैसे ही जीव भी अपने पूर्वजन्मोंकी याद भूल जाता है और वर्तमान शरीरके सिवा पहले और पिछले शरीरोंके सम्बन्धमें कुछ भी नहीं जानता॥ ४९॥
वीरराघवः
यदि कर्मनिमितनिग्रहानुग्रहस्तदनुरोधिफलदः परमात्मा तर्ह्ययं जीवः परमात्मानुग्रहापादकं शुभमेव कर्माचरन् सुखमेव किं नाश्नुत इत्यत्राहुः - यथेति । तमसा युक्तः अन्धकारेणाभिभूत अत एवाज्ञः यथा व्यक्तं शरीरमेवोपास्ते चिन्तयति न तु पूर्वे पुरः स्थितमपरं पृष्ठतः स्थितं च वेद निद्रया युक्तं स्वप्नाऽभिव्यक्तं देहाद्युपास्ते न तु जाग्रद्देहादि वेदेति वार्थः । तथा जीवोऽपि तमसाज्ञानेन युक्तः देहात्माभिमानस्वतन्त्रात्माभिमानयुक्त इत्यर्थः । अत एवाज्ञः कर्मणा संकुचितज्ञानः व्यक्तं वर्त्तमानं देहमुपास्तेऽनुसन्धत्ते न तु पूर्वं प्राक्तनमपरं भविष्यच्च शरीरं वेद । तत्र हेतुः - नष्टा जन्मस्मृतिः पूर्वापरजन्मस्मृतिर्यस्य सः पूर्वापरजन्मविषयकस्मृत्यभावात्केवलवर्त्तमानदेहात्माभिमानशीलत्वाञ्च तत्परवशोऽज्ञो जीवः प्रकृतेः देहसुखोचितमेव कर्म करोति न तु परमात्मप्रसादापादकं शुभं कर्मेति भावः ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः।
एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते॥
मूलम्
पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः।
एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते॥ ५० ॥
अनुवाद (हिन्दी)
सिद्धपुरुषो! जीव इस शरीरमें पाँच कर्मेन्द्रियोंसे लेना-देना, चलना-फिरना आदि काम करता है, पाँच ज्ञानेन्द्रियोंसे रूप-रस आदि पाँच विषयोंका अनुभव करता है और सोलहवें मनके साथ सत्रहवाँ वह स्वयं मिलकर अकेले ही मन, ज्ञानेन्द्रिय और कर्मेन्द्रिय—इन तीनोंके विषयोंको भोगता है॥ ५०॥
वीरराघवः
एवं जीवानामविद्याकर्मवासनाभिस्तिरोहितस्वरूपाणां सत्त्वादिगुणत्रयसंसृष्टानां स्वस्वगुणोन्मेषनिमित्तधर्माधर्ममिश्ररूपेण कर्मणा सुखदुःखमिश्ररूपफलानुभवाय देवतिर्यङ्मनुष्यरूपेण संसरतां धर्मादिनिमित्तेश्वरानुग्रहहेतुकः सुखाद्यनुभव उक्तः । अथैषां संसरणप्रकारं तद्धेतुं च प्रपञ्चयंस्तन्निस्तरणोपायमाहुः - पञ्चभिरित्यादिभिः सप्तभिः । पञ्चभिः कर्मेन्द्रियैः पाण्यादिभिः स्वार्थानुपादानगत्यादीन् पञ्च कुरुते । अथ ननु पञ्चभिर्ज्ञानेन्द्रियैः श्रोत्रादिभिः पञ्च शब्दादीन्वेद केन करोति वेद च षोडशेन भूतपञ्चकदशेन्द्रियायापेक्षया षोडशं मनः तेन मनःसंयुक्तैः पञ्चभिः कुरुते पञ्चभिर्वेद चेत्यर्थः । कथंभूतः स्वयं जीव एक एव शरीरवदनेकद्रव्यसङ्घातरूपत्वाभावादेक इत्युक्तमिति जीवनानात्वमत्र निषिध्यत इति न भ्रमितव्यं सप्तदशः उक्तषोडशतत्त्वापेक्षया सप्तदशः त्रीन् सुखदुःखमोहान् भुङ्क्तेऽनुभवतीत्यर्थः ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
तदेतत् षोडशकलं लिङ्गं शक्तित्रयं महत्।
धत्तेऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम्॥
मूलम्
तदेतत् षोडशकलं लिङ्गं शक्तित्रयं महत्।
धत्तेऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम्॥ ५१ ॥
मूलम् - कर्णावती
तदेतत् षोडशकलं लिङ्गं शक्तित्रयं महत्।
धत्तेऽनु संसृतिं पुंसि हर्षशोकभयार्तिदाम्॥ ५१ ॥
अनुवाद (हिन्दी)
जीवका यह सोलह कला और सत्त्वादि तीन गुणोंवाला लिंगशरीर अनादि है। यही जीवको बार-बार हर्ष, शोक, भय और पीड़ा देनेवाले जन्म-मृत्युके चक्करमें डालता है॥ ५१॥
वीरराघवः
तदेतत् षोडशकलं षोडशकला अवयवा यस्य तत् षोडशकलं षोडशतत्त्वात्मकं शक्तित्रयं शक्तीनां त्रयं यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः प्रकाशक्रियावरणशक्तिमत्सत्त्वादिगुणत्रयात्मकविद्याकर्मवासनारूपशक्तित्रयाश्रयं वा महत्कार्यदशायां स्थूलाकारं लिङ्गं सूक्ष्मशरीरं पुंसि जीवे हर्षशोकभयार्त्तिदामनुसंसृतिं गर्भजन्माद्यवस्थां परिवृत्तिरूपां धत्ते आपादयति षोडशकलात्मकलिङ्गसम्बन्धनिमित्तो जीवस्य संसार इति भावः ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
देह्यज्ञोऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते।
कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति॥
मूलम्
देह्यज्ञोऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते।
कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति॥ ५२ ॥
मूलम्
देह्यज्ञोऽजितषड्वर्गोनेच्छन् कर्माणि कार्यते।
कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति॥ ५२ ॥
अनुवाद (हिन्दी)
जो जीव अज्ञानवश काम, क्रोध, लोभ, मोह, मद, मत्सर—इन छः शत्रुओंपर विजय प्राप्त नहीं कर लेता, उसे इच्छा न रहते हुए भी विभिन्न वासनाओंके अनुसार अनेकों कर्म करने पड़ते हैं। वैसी स्थितिमें वह रेशमके कीड़ेके समान अपनेको कर्मके जालमें जकड़ लेता है और इस प्रकार अपने हाथों मोहका शिकार बन जाता है॥ ५२॥
वीरराघवः
एवं लिङ्गे संसृतिं पुंस्यादधति सत्ययं देही अज्ञः देहात्माभिमानवानत एवाजितषड्वर्गः अजितषडिन्द्रियकार्यः नेच्छन्निच्छन्नषि बलादित्यर्थः । कर्माणि धर्माधर्ममिश्ररूपाणि कार्यते शक्तित्रयात्मकेन लिङ्गेनेति शेषः । एवं कृतेन कर्मणा कोशकार इवात्मानं स्वस्वरूपमाच्छाद्य तिरोधाप्य मुह्यति देह एवाहमिति मोहं प्राप्नोति कोशकारः कीटविशेषः स यथा तन्तून करण्डरूपेण सृष्ट्वा स्वनिर्गमोपायं न जानाति तद्विदिति दृष्टान्तार्थः ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात्॥
मूलम्
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात्॥ ५३ ॥
अनुवाद (हिन्दी)
कोई शरीरधारी जीव बिना कर्म किये कभी एक क्षण भी नहीं रह सकता। प्रत्येक प्राणीके स्वाभाविक गुण बलपूर्वक विवश करके उससे कर्म कराते हैं॥ ५३॥
वीरराघवः
नेच्छन् कर्माणि कार्यत इत्येतदेव प्रतिपादयति - न हि कश्चिदिति । कश्चिद्देही जातु कदाचिदपि अकर्मकृत् कर्माकुर्वन्न तिष्ठति अन्ततस्तृणच्छेदादिकं वा कुर्वन्नेव तिष्ठतीति भावः । स्वाभाविकैरनादिसिद्धैर्गुणैः सत्त्वादिभिर्बलात्कर्माणि विषयादीनि कार्यते एवेत्यर्थः ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत।
यथायोनि यथाबीजं स्वभावेन बलीयसा॥
मूलम्
लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत।
यथायोनि यथाबीजं स्वभावेन बलीयसा॥ ५४ ॥
अनुवाद (हिन्दी)
जीव अपने पूर्वजन्मोंके पाप-पुण्यमय संस्कारोंके अनुसार स्थूल और सूक्ष्म शरीर प्राप्त करता है। उसकी स्वाभाविक एवं प्रबल वासनाएँ कभी उसे माताके-जैसा (स्त्रीरूप) बना देती हैं, तो कभी पिताके-जैसा (पुरुषरूप)॥ ५४॥
वीरराघवः
एवमव्यक्तं संसरता जीवेनाव्यक्तमनभिज्ञातं निमित्तं संसृतिनिमित्तमवर्जनीयतया कृतं कर्म लब्ध्वा कर्मवासनाश्रयं सदित्यर्थः । लिङ्गमिति कर्तृपदमध्याहार्यं व्यक्ताव्यक्तं स्थूलसूक्ष्मरूपं भवति उत्पत्तिदशायां देहरूपेण स्थूलाकारं मरणदशायां सूक्ष्माकारं च भवतीत्यर्थः । यद्वाव्यक्तं मूलप्रकृतिरूपं प्रधानं कर्तृ तन्निमित्तं जन्ममरणनिमित्तं कर्म लब्ध्वाऽवलम्ब्य व्यक्ताव्यक्तं भवति कदाचित षोडशकलात्मकत्वेनाव्यक्तं कदाचिद्देवादिदेहाकारेण व्यक्तं भवति । एकस्य प्रधानस्य स्थूलावस्था उत्पत्तिः तस्यैव पुनः सूक्ष्मावस्था मरणमिति हि जन्ममरणयाथात्म्यविद् आचक्षते । तथा चोक्तं भगवता - “अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव” इति । यद्वा - कर्मानुसारेणैव पिपीलिकादिरूपाः सूक्ष्मा गजादिरूपाः स्थूलाश्च देहा भवन्तीत्यर्थः । तद्व्यक्तमपि यथायोनि यथाबीजमेवेत्याहुः - यथायोनीति । यथायोनि पश्वादियोन्यनतिक्रमेण यथाबीजं कर्मानुसारेण । यद्वा - यथायोनि मातृसदृशं यथाबीजं पितृसदृशं च बलीयसा स्वभावेन सात्त्विकादिकर्मवासनारूपस्वभावेन भवतीत्यर्थः ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः।
आसीत् स एव नचिरादीशसङ्गाद्विलीयते॥
मूलम्
एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः।
आसीत् स एव नचिरादीशसङ्गाद्विलीयते॥ ५५ ॥
मूलम् - कर्णावती
एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः।
आसीत् स एव न चिरादीशसङ्गाद्विलीयते॥ ५५ ॥
अनुवाद (हिन्दी)
प्रकृतिका संसर्ग होनेसे ही पुरुष अपनेको अपने वास्तविक स्वरूपके विपरीत लिंगशरीर मान बैठा है। यह विपर्यय भगवान्के भजनसे शीघ्र ही दूर हो जाता है॥ ५५॥
वीरराघवः
प्रपञ्चितं संसरणप्रकारं तद्धेतुं चोपसंहरति - एष इति । पुरुषस्य जीवस्य प्रकृतिसङ्गेन यो विपर्ययः संसारः स एष एवंविधः । अथ संसरणनिस्तरणोपायमाहुः - असदिति । असदसमीचीनः स एवं विपर्यय एव । यद्वा - असदपुरुषार्थरूपः प्रकृतिकार्यरूपो वा परमार्थतो जीवेऽविद्यमानो वा विपर्ययस्य प्रकृतिसङ्गप्रयुक्तत्वस्यानुपदमेवोक्तत्वादीशसङ्गादीश्वरभक्त्या न चिरादाशु विलीयते विलीनो भवति निवर्त्तत इत्यर्थः ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः।
धृतव्रतो मृदुर्दान्तः सत्यवान्मन्त्रविच्छुचिः॥
मूलम्
अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः।
धृतव्रतो मृदुर्दान्तः सत्यवान्मन्त्रविच्छुचिः॥ ५६ ॥
अनुवाद (हिन्दी)
देवताओ! आप जानते ही हैं कि यह अजामिल बड़ा शास्त्रज्ञ था। शील, सदाचार और सद्गुणोंका तो यह खजाना ही था। ब्रह्मचारी, विनयी, जितेन्द्रिय, सत्यनिष्ठ, मन्त्रवेत्ता और पवित्र भी था॥ ५६॥
वीरराघवः
एवं प्रश्नान् परिहृत्य प्रकृतस्याजामिलस्य दण्ड्यत्वज्ञापनाय तद्वृत्तिं प्रपञ्चयन्ति - अयं त्वित्यादिना यावदध्यायम् । अयमजामिलः तावच्छ्रुतसंपन्नः वेदशास्त्राध्ययनसम्पन्नः शीलं सुखभावः वृत्तं सदाचारः गुणाः शान्त्यादयः एषामाश्रयः धृतं व्रतं स्त्रीसङ्गराहित्यात्मकब्रह्मचर्य्यरूपं येन मृदुः कोमलहृदयः दान्तो जितबाह्येन्द्रियः सत्यवागृतवादी मन्त्रवित्सावित्र्यादिमन्त्रोपासकः शुचिः सदा पवित्रः ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
गुर्वग्न्यतिथिवृद्धानां शुश्रूषुर्निरहङ्कृतः।
सर्वभूतसुहृत्साधुर्मितवागनसूयकः॥
अनुवाद (हिन्दी)
इसने गुरु, अग्नि, अतिथि और वृद्ध पुरुषोंकी सेवा की थी। अहंकार तो इसमें था ही नहीं। यह समस्त प्राणियोंका हित चाहता, उपकार करता, आवश्यकताके अनुसार ही बोलता और किसीके गुणोंमें दोष नहीं ढूँढ़ता था॥ ५७॥
वीरराघवः
गुर्वादीनां शुश्रूषुः सेवकः अनहङ्कृतः । उक्तगुणकृताहङ्काररहितः सर्वभूतानां सुहृत्प्रियकारी साधुः परकार्यसाधकः मितवाग्यथोचितवक्ता अनेसूयकः गुणेषु दोषानाविष्कारकः ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
एकदासौ वनं यातः पितृसन्देशकृद् द्विजः।
आदाय तत आवृत्तः फलपुष्पसमित्कुशान्॥
मूलम्
एकदासौ वनं यातः पितृसन्देशकृद् द्विजः।
आदाय तत आवृत्तः फलपुष्पसमित्कुशान्॥ ५८ ॥
अनुवाद (हिन्दी)
एक दिन यह ब्राह्मण अपने पिताके आदेशानुसार वनमें गया और वहाँसे फल-फूल, समिधा तथा कुश लेकर घरके लिये लौटा॥ ५८॥
वीरराघवः
एवम्भूतोऽसौ द्विजः कदाचित्पितुर्निर्द्देशं पित्रा आदिष्टं प्रयोजनं करोतीति तथा वनं प्रति गतः ततो वनात्फलादीनादायावृत्तः ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया।
पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया॥
मूलम्
ददर्श कामिनं 16कञ्चिच्छूद्रं सह भुजिष्यया।
पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया॥ ५९ ॥
वीरराघवः
पुनर्गच्छन् तत्र वने भुजिष्यया दास्या सह वर्त्तमानं कञ्चित्कामिनं शूद्रं दृष्टवान् । कथम्भूतया दास्या मैरेयं मधु पैष्ठीं सुरां पीत्वा मदेन मैरेयमधुमदेनाघूर्णिते भ्रमन्ती नेत्रे यस्यास्तया ॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम्।
क्रीडन्तमनु गायन्तं हसन्तमनयान्तिके॥
मूलम्
मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम्।
क्रीडन्तमनु गायन्तं हसन्तमनयान्तिके॥ ६० ॥
अनुवाद (हिन्दी)
लौटते समय इसने देखा कि एक भ्रष्ट शूद्र, जो बहुत कामी और निर्लज्ज है, शराब पीकर किसी वेश्याके साथ विहार कर रहा है। वेश्या भी शराब पीकर मतवाली हो रही है। नशेके कारण उसकी आँखें नाच रही हैं, वह अर्द्धनग्न अवस्थामें हो रही है। वह शूद्र उस वेश्याके साथ कभी गाता, कभी हँसता और कभी तरह-तरहकी चेष्टाएँ करके उसे प्रसन्न करता है॥ ५९-६०॥
वीरराघवः
मत्तयात एव विश्लथन्नीव्या विश्वयंती स्रंसमाना नीवी धृतवस्त्रग्रन्थिर्यस्यास्तया कथम्भूतं शूद्रं व्यपेतं सत्पथादपेतं वाहीकमित्यर्थः । अत एव निरपत्रपं निर्लज्जमेवम्भूतमनयोक्तविधया भुजिष्यया सहान्तिके समीप एव क्रीडादिकं कुर्वन्तं शूद्रम् ॥ ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम्।
जगाम हृच्छयवशं सहसैव विमोहितः॥
मूलम्
दृष्ट्वा तां कामलिप्तेन बाहुना 17परिरम्भिताम्।
जगाम हृच्छयवशं सहसैव विमोहितः॥ ६१ ॥
अनुवाद (हिन्दी)
निष्पाप पुरुषो! शूद्रकी भुजाओंमें अंगरागादि कामोद्दीपक वस्तुएँ लगी हुई थीं और वह उनसे उस कुलटाका आलिंगन कर रहा था। अजामिल उन्हें इस अवस्थामें देखकर सहसा मोहित और कामके वश हो गया॥ ६१॥
वीरराघवः
कामेन गर्वितेन शूद्रेण कर्त्रा बाहुना भुजेन परिरम्भितामालिङ्गितां तां दासीं च दृष्ट्वा हृच्छयस्य मनसिजस्य वशं जगाम प्राप कथम्भूतः सहसा बलाद्दैवेन स्वकीयदुरदृष्टेन विमोहितः ॥ ६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
स्तम्भयन्नात्मनाऽऽत्मानं यावत्सत्त्वं यथाश्रुतम्।
न शशाक समाधातुं मनो मदनवेपितम्॥
मूलम्
स्तम्भयन्नात्मनाऽऽत्मानं यावत्सत्त्वं 18यथाश्रुतम्।
न शशाक समाधातुं मनो मदनवेपितम्॥ ६२ ॥
अनुवाद (हिन्दी)
यद्यपि अजामिलने अपने धैर्य और ज्ञानके अनुसार अपने कामवेगसे विचलित मनको रोकनेकी बहुत-बहुत चेष्टाएँ कीं, परन्तु पूरी शक्ति लगा देनेपर भी वह अपने मनको रोकनेमें असमर्थ रहा॥ ६२॥
वीरराघवः
यावत्सत्त्वं यावद्बलं यथाश्रुतं गुरुमुखाच्छुतं मनोनिग्रहप्रकारमनतिक्रम्यात्मना विवेकेनात्मानं मनः स्तम्भयनियमयन्नपि मदनवेपितं मनः समाधातुं नियन्तुं न शशाक नाशक्नोत् ॥ ६२ ॥
श्लोक-६३
विश्वास-प्रस्तुतिः
तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतनः।
तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह॥
मूलम्
तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतनः।
तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह॥ ६३ ॥
अनुवाद (हिन्दी)
उस वेश्याको निमित्त बनाकर काम-पिशाचने अजामिलके मनको ग्रस लिया। इसकी सदाचार और शास्त्रसम्बन्धी चेतना नष्ट हो गयी। अब यह मन-ही-मन उसी वेश्याका चिन्तन करने लगा और अपने धर्मसे विमुख हो गया॥ ६३॥
वीरराघवः
सा दासी निमित्तं यस्य सः स्मर एव व्याजग्रहः कपटपिशाचप्तेन ग्रस्तः गृहीतः, अतएव विचेतनः विगतपूर्वस्मृतिः, तां दासीमेव मनसा चिन्तयन् स्वधर्मात्संध्योपासनादेर्विरराम धर्मं तत्याज हेति खेदे अहो एवम्भूतस्येदृशी दशा प्राप्तेति ॥ ६३ ॥
श्लोक-६४
विश्वास-प्रस्तुतिः
तामेव तोषयामास पित्र्येणार्थेन यावता।
ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा॥
मूलम्
तामेव तोषयामास पित्र्येणार्थेन यावता।
ग्राम्यैर्मनोरमैः कामैः प्रसीदेत 19यथा तथा॥ ६४ ॥
अनुवाद (हिन्दी)
अजामिल सुन्दर-सुन्दर वस्त्र-आभूषण आदि वस्तुएँ, जिनसे वह प्रसन्न होती, ले आता। यहाँतक कि इसने अपने पिताकी सारी सम्पत्ति देकर भी उसी कुलटाको रिझाया। यह ब्राह्मण उसी प्रकारकी चेष्टा करता, जिससे वह वेश्या प्रसन्न हो॥ ६४॥
वीरराघवः
यावता कृत्स्नेन पित्र्येण पितृसम्बन्धिना अर्थेन वित्तेन तां दासीमेव तोषयामास तथा ग्राम्यैर्ग्रामेषु साधुभिरभिलषितैः कामैर्वस्त्राभरणादिभिर्यथा प्रीयेत सा तथा तां तोषयामास ॥ ६४ ॥
श्लोक-६५
विश्वास-प्रस्तुतिः
विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम्।
विससर्जाचिरात्पापः स्वैरिण्यापाङ्गविद्धधीः॥
मूलम्
विप्रां20 स्वभार्यामप्रौढां कुले महति लम्भिताम्।
विससर्जाचिरात्पापः स्वैरिण्यापाङ्ग21विद्धधीः॥ ६५ ॥
अनुवाद (हिन्दी)
उस स्वच्छन्दचारिणी कुलटाकी तिरछी चितवनने इसके मनको ऐसा लुभा लिया कि इसने अपनी कुलीन नवयुवती और विवाहिता पत्नीतकका परित्याग कर दिया। इसके पापकी भी भला कोई सीमा है॥ ६५॥
वीरराघवः
अप्रौढामरजःप्रादुर्भावां प्रियां सुन्दरीं महति कुले सत्कुले लम्भितां लब्धां भार्यामचिरादाशु विससर्ज । पापः पापाचारः स्वैरिण्या कर्यापाङ्गेन करणेन विद्धा विनाशिता धीर्विवेको यस्य सः ॥ ६५ ॥
श्लोक-६६
विश्वास-प्रस्तुतिः
यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम्।
बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम्॥
मूलम्
यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम्।
बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम्॥ ६६ ॥
अनुवाद (हिन्दी)
यह कुबुद्धि न्यायसे, अन्यायसे जैसे भी जहाँ कहीं भी धन मिलता, वहींसे उठा लाता। उस वेश्याके बड़े कुटुम्बका पालन करनेमें ही यह व्यस्त रहता॥ ६६॥
वीरराघवः
न्यायतोऽन्यायतो वा यतस्ततो धनमुपनिन्ये आनीतवान् मन्दधीरयमजामिलः कुटुम्बिन्याः पुत्रवत्याः कुटुम्बं पुत्रादिरूपं बभार षुपोष ॥ ६६ ॥
श्लोक-६७
विश्वास-प्रस्तुतिः
यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यार्यगर्हितः।
अवर्तत चिरं कालमघायुरशुचिर्मलात्॥
मूलम्
यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यार्यगर्हितः।
अवर्तत चिरं कालमघायुरशुचिर्मलात्॥ ६७ ॥
मूलम् - कर्णावती
यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यार्यगहितः।
अवर्तत चिरं कालमघायुरशुचिर्मलात्॥ ६७ ॥
अनुवाद (हिन्दी)
इस पापीने शास्त्राज्ञाका उल्लंघन करके स्वच्छन्द आचरण किया है। यह सत्पुरुषोंके द्वारा निन्दित है। इसने बहुत दिनोंतक वेश्याके मल-समान अपवित्र अन्नसे अपना जीवन व्यतीत किया है, इसका सारा जीवन ही पापमय है॥ ६७॥
वीरराघवः
एवं तस्य वृत्तिमभिधायावश्यमस्य दण्डं प्रत्यर्हतास्तीत्याहुः । यद्यस्मादसावजामिलः शास्त्रपथमतिक्रम्य स्वेच्छाचारी आर्य्यैः शिष्टैर्गर्हितः अघायुः पापाभिवृद्धायुष्कः दासीसङ्गरूपान्मलान्नित्यमशुचिः सन् चिरङ्कालमवर्त्तत ।। ६७ ॥
श्लोक-६८
विश्वास-प्रस्तुतिः
तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम्।
नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति॥
मूलम्
तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम्।
नेष्यामोऽकृतनि22र्वेशं यत्र दण्डेन शुद्ध्यति॥ ६८ ॥
अनुवाद (हिन्दी)
इसने अबतक अपने पापोंका कोई प्रायश्चित्त भी नहीं किया है। इसलिये अब हम इस पापीको दण्डपाणि भगवान् यमराजके पास ले जायँगे। वहाँ यह अपने पापोंका दण्ड भोगकर शुद्ध हो जायगा॥ ६८॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धेऽजामिलोपाख्याने प्रथमोऽध्यायः॥ १ ॥
वीरराघवः
ततः कृतं किल्बिषं पापं येन अकृतः निर्वेशः निष्कृतिर्येन तमेनं दण्डपाणेर्यमस्य सकाशं प्रति नेष्यामः प्रापयिष्यामः सकाशं विशिनष्टि । यत्र दण्डपाणेः सकाशे दण्डेन नरकानुभवरूपेण शुद्ध्यति ॥ ६८ ॥
इति श्रीमद्भागवते महापुराणे षष्टस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकाख्यायां टीकायां प्रथमोऽध्यायः ॥ १ ॥
-
प्रा. पा. बादरायणिरुवाच ↩︎
-
प्रा. पा. - क्व वा चरति । ↩︎
-
प्रा. पा. बादरायणिरुवाच ↩︎
-
प्रा. पा. - तत्परस्य तु सेवया । ↩︎
-
प्रा. पा. - क्षैः कैतवै । ↩︎
-
प्रा. पा. - माश्रितः । ↩︎
-
प्रा. पा. - मुखतो हरिकीर्तनम् । ↩︎
-
प्रा. पा. - तुल्यवयसः । ↩︎
-
प्रा. पा. - कालः स्वयं धर्म इति । ↩︎
-
प्रा. पा. - र्मोऽभिज्ञातः । ↩︎
-
प्रा. पा. - समर्जितः । ↩︎
-
प्रा. पा. - त्र्याद्यथा । ↩︎
-
प्रा. पा. - मानोऽप्ययं कालो । ↩︎
-
प्रा. पा. - पुरनहङ्कृतः । ↩︎
-
प्रा. पा. - साधुऋतबागन । ↩︎
-
प्रा. पा. - कुच्छुचिः । ↩︎
-
प्रा. पा. - परिवर्तिताम् । ↩︎
-
प्रा. पा. - यथाश्रयम् । ↩︎
-
प्रा. पा. - यथा यथा । ↩︎
-
प्रा. पा. - प्रियां स्वभार्या । ↩︎
-
प्रा. पा. - ङ्गबद्धधीः । ↩︎
-
प्रा. पा. - निर्वेदं । ↩︎