[षडविंशोऽध्यायः]
भागसूचना
नरकोंकी विभिन्न गतियोंका वर्णन
श्लोक-१
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
महर्ष एतद्वैचित्र्यं लोकस्य कथमिति॥
मूलम्
महर्ष एतद्वैचित्र्यं लोकस्य कथमिति॥ १ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने पूछा—महर्षे! लोगोंको जो ये ऊँची-नीची गतियाँ प्राप्त होती हैं, उनमें इतनी विभिन्नता क्यों है?॥ १॥
वीरराघवः
प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय इत्यनेनासां पुण्येन प्राप्यत्वोक्तेः केवलापुण्यगम्या अन्ये लोकाः सन्ति नरका इति सूचितं तानेव पिपृच्छिषुस्तावद्यदुक्तमेष्वपि लोकेषु सुखदुःखयोर्न्यूनाधिकभावलक्षणं वैचित्र्यमुच्चावचा विसदृशा इति तत्र कारणं पृच्छति राजा महर्ष इति । हे महर्षे ! त्वया यद्वैचित्र्यं सुखदुःखयोर्न्यूनाधिकभावलक्षणमेषु लोकेषु जीवलोकस्य व्यवस्थितमुक्तं तद्वैचित्र्यं कथमुपपद्यते को वा तत्र वैचित्र्ये हेतुरैकरूप्येणानुष्ठितेन प्रवृत्त्याख्येन धर्मेण भूरादिलोकान् प्राप्तेषु केषाञ्चित्सुखमेव केषाञ्चिद् दुःखमेवान्येषां तु मिश्रमित्येतद्वैचित्र्ये किं कारणमिति प्रश्नाशयः ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
ऋ1षिरुवाच
विश्वास-प्रस्तुतिः
त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति॥
मूलम्
त्रिगुणत्वात्क2र्तुः श्रद्धया कर्मगतयः पृथग्विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति॥ २ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजीने कहा—राजन्! कर्म करनेवाले पुरुष सात्त्विक, राजस और तामस—तीन प्रकारके होते हैं तथा उनकी श्रद्धाओंमें भी भेद रहता है। इस प्रकार स्वभाव और श्रद्धाके भेदसे उनके कर्मोंकी गतियाँ भी भिन्न-भिन्न होती हैं और न्यूनाधिकरूपमें ये सभी गतियाँ सभी कर्ताओंको प्राप्त होती हैं॥ २॥
वीरराघवः
सर्वेषां भूरादिलोकप्रापकधर्मस्य समानत्वेऽपि कर्तृवैचित्र्याच्छ्रद्धावैचित्र्याच्च सुखादिफलवैचित्र्यमित्युत्तरमाह त्रिगुणत्वादिति । कर्तुर्जीवस्य त्रिगुणत्वात्सत्त्वादिगुणत्रययुक्तत्वाच्छ्रद्वया सत्त्वादिगुणभेदभिन्नया त्रिविधया श्रद्धया कर्मणां गतयः फलानि पृथग्विधाः सर्वाः श्रद्धादितारतम्यनिमित्ततारतम्येनैव भवन्ति । अत्रेदमवगन्तव्यम् “न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः॥” इत्युक्तरीत्या सर्वेषां गुणत्रययोगाद् गुणानां ह्रासोल्लासादिरूपेण परिणामे चाविशिष्टे सति प्राचीनकर्मवासनानुगुणगुणत्रयपरिणामवशात् सात्त्विकादिभेदेन धर्मस्य कर्त्तारो बुद्धयः श्रद्धाः तन्निमित्तानि कर्माणि च त्रिधा भिद्यन्ते । तथा च गीतं भगवता “मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्त्तितः ॥ अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ प्रवृत्तिञ्च निवृत्तिञ्च कार्याकार्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ ! सात्त्विकी ॥ यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ ! राजसी ॥ अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ ! तामसी ॥ त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥” इत्यारभ्य “यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥” इति श्रद्धायास्त्रैविध्यमुक्तं सात्त्विकाः सात्त्विक्या श्रद्धया युक्ताः । “नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥” इति एवं स्थिते यः सात्त्विकः कर्ता सात्त्विकीभ्यां बुद्धिश्रद्धाभ्यां धर्माननुतिष्ठति सोऽनन्तसुखं मोक्षाख्यं तारतम्यरहितं प्राप्नोति, यश्च राजसो राजसीभ्यां बुद्धिश्रद्धाभ्यां धर्माननुतिष्ठति स भूरादिलोकाननुप्राप्य परिमितसुखं प्राप्नोति तत्रापि श्रद्धातारतम्यकृतं सुखतारतम्यमेव भवति, यस्तु तामसः इमान् लोकान् प्राप्यापि केवलं दुःखमेव प्राप्नोति भूरादिलोकप्रापकः प्रवृत्ताख्यो धर्मस्तु राजसतामसयोः कर्त्रोः समानो भवतीति ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति या ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणाः सृतयः सहस्रशः प्रवृत्तास्तासां प्राचुर्येणानुवर्णयिष्यामः॥
मूलम्
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव क3र्तुः श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति या ह्यनाद्यवि4द्यया कृतकामानां तत्परिणामलक्षणाः सृतयः सहस्रशः प्रवृत्तास्तासां प्राचुर्येणानुवर्णयिष्यामः॥ ३ ॥
अनुवाद (हिन्दी)
इसी प्रकार निषिद्ध कर्मरूप पाप करनेवालोंको भी उनकी श्रद्धाकी असमानताके कारण समान फल नहीं मिलता। अतः अनादि अविद्याके वशीभूत होकर कामनापूर्वक किये हुए उन निषिद्ध कर्मोंके परिणाममें जो हजारों तरहकी नारकी गतियाँ होती हैं, उनका विस्तारसे वर्णन करेंगे॥ ३॥
वीरराघवः
एवं धर्मस्य कर्त्रादितारतम्यमधर्मदृष्टान्तेनाह यथेति । यथा धर्मस्य श्रद्धादितारतम्यनिमित्तं सुखरूपफलतारतम्यं तथा प्रतिषिद्धलक्षणस्य प्रतिषिद्धरूपस्याधर्मस्य कर्तुः श्रद्धायाः अधर्मनिमित्तभूतायाः केवलतामस्याः श्रद्धायाः वैसादृश्यात्तारतम्यात्कर्मफलं दुःखरूपं विसदृशं तरतमं भवति, श्रद्धावैसादृश्ये कारणं वदन्कर्मफलवैसादृश्यमेवोपपादयति अनाद्यविद्येति । अविद्याकामशब्दः फलकामनापरः कर्मशब्दः तद्वासनापरः फलकामनायाः अज्ञानफलत्वात् । यद्वा यागादिरविद्या तत्प्रयुक्तानि यानि कामकर्माणि फलकामनापूर्वकमनुष्ठितानि पापानि वासनारूपेणावस्थितानि तेषां वैसादृश्यादित्यनुषङ्गः तेषां नानात्वेनावस्थितत्वाच्छ्रद्धावैसादृश्यं ततः सृतयो गतयः फलरूपाणि दुःखानीति यावत् तत्परिणामलक्षणः अविद्याकामकर्मपरिपाकस्वरूपाः सहस्रशः आनन्त्येनावान्तरतारतम्येन च प्रवृत्ता अनुभाव्याः सन्तीत्यर्थः । एवमुक्ते सति तर्ह्यनन्त्येन प्रवृत्ताः सृतयस्तदनुभवस्थानानि च साकल्येन वर्णनीयानीति राज्ञः प्रश्नोद्योगमालोच्य केवलतमोगुणमूलकानाद्यज्ञानप्रयुक्तकामकर्मरूपाणां पापानामवान्तरभेदेनानन्त्यात्तत्फलरूपाणां दुःखात्मनां गतीनामानन्त्यात्तदनुभवस्थानान्यपि बहूनि सन्तीति तेषां साकल्येन वर्णयितुमशक्यत्वात्तत्र प्रभूतदुःखरूपा गतीस्तत्स्थानानि च कानिचिद्वर्णयिष्यामीत्याह । तास्ताः प्राचुर्येणानुवर्णयिष्याम इति ॥ ३ ॥
श्लोक-४
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
नरका नाम भगवन् किं देशविशेषा अथवा बहिस्त्रिलोक्या आहोस्विदन्तराल इति॥
मूलम्
नरका नाम भगवन् किं देशविशेषा अथवा बहिस्त्रिलोक्या आहोस्विदन्तराल इति॥ ४ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने पूछा—भगवन्! आप जिनका वर्णन करना चाहते हैं, वे नरक इसी पृथ्वीके कोई देशविशेष हैं अथवा त्रिलोकीसे बाहर या इसीके भीतर किसी जगह हैं?॥ ४॥
वीरराघवः
एवमुक्ते राजा कार्त्स्न्येन तद्वर्णनप्रश्नं विहायाधर्मफलभूतदुःखानुभवस्थानानि नरकाः किं भूमेरेव देशविशेषा उत त्रिलोक्याः बहिर्वर्त्तन्ते उतान्तराले कयोश्चिल्लोकयोरन्तराले वर्त्तन्ते इति पृच्छति नरका इति । हे भगवन् ! त्रिलोक्या बहिः ब्रह्माण्डाद्बहिरावरणेष्वेव ॥ ४ ॥
श्लोक-५
मूलम् (वचनम्)
ऋषिरुवाच
विश्वास-प्रस्तुतिः
अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद्भूमेरुपरिष्टाच्च जलाद्यस्यामग्निष्वात्तादयः पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति॥
मूलम्
अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद् भूमेरुपरिष्टाच्च जलाद्यस्यामग्निष्वात्तादयः पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति॥ ५ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजीने कहा—राजन्! वे त्रिलोकीके भीतर ही हैं तथा दक्षिणकी ओर पृथ्वीसे नीचे जलके ऊपर स्थित हैं। इसी दिशामें अग्निष्वात्त आदि पितृगण रहते हैं, वे अत्यन्त एकाग्रतापूर्वक अपने वंशधरोंके लिये मंगलकामना किया करते हैं॥ ५॥
वीरराघवः
ब्रह्माण्ड एव वर्तन्त इत्याह अन्तराल एवेति । त्रिजगत्या ब्रह्माण्डस्यान्तराल एव गर्भ एव तत्रापि कस्यां दिशि दक्षिणस्यां तत्रापि कुत्र भूमेरधस्तादण्डजलादुपरि वर्तन्त इत्यर्थः । तां दक्षिणां दिशं विशिनष्टि यस्यामित्यादिना गद्यद्वयेन । यस्यां दक्षिणस्यां दिश्यग्निष्वात्तादयः पितॄणां गणाः परमेण समाधिना ध्यानयोगेन स्वानां गोत्राणां सत्या आशिष आशासानाः कुर्वाणाः एव पाकं पचतीतिवन्निर्द्देशः, निवसन्ति ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
यत्र ह वाव भगवान् पितृराजो वैवस्वतः स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासनः सगणो दमं धारयति॥
मूलम्
यत्र ह वाव भगवान् पितृराजो वैवस्वतः स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासनः सगणो दमं धारयति॥ ६ ॥
अनुवाद (हिन्दी)
उस नरकलोकमें सूर्यके पुत्र पितृराज भगवान् यम अपने सेवकोंके सहित रहते हैं तथा भगवान्की आज्ञाका उल्लंघन न करते हुए , अपने दूतोंद्वारा वहाँ लाये हुए मृत प्राणियोंको उनके दुष्कर्मोंके अनुसार पापका फल दण्ड देते हैं॥ ६॥
वीरराघवः
यत्र ह यस्यां हि दिशि पितृराजः पितॄणामधिपतिः वैवस्वतो यमः सम्परेतेषु मृतेषु स्वपुरुषैर्दृतैः स्वविषयं स्वदेशं प्रापितेषु जन्तुषु जीवेषु अनुलङ्घितमनतिक्रान्तं भगवतो नारायणस्य शासनं येन तथाभूतः सन् सगणः स्वकीयदूतगणसहितः यथाकर्मावद्यं दोषमवद्यं जुगुप्सितं कर्मैव कर्मावद्यं बहुलग्रहणाद्विशेष्यस्य पूर्वनिपातः । यथा कर्मावद्यमिति पदत्रयं वा, अवद्यं वेदशास्त्रजुगुप्सितं कर्म प्रतिषिद्धं हिंसादिकर्म यथा जन्तुभिर्निबन्धादिना यथा कृतं तदनुसारेणैव दोषं प्रति दमं दण्डं धारयति, कारयति जुगुप्सितकर्मरूपदोषानुसारेणैव दण्डयतीत्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
तत्र हैके नरकानेकविंशतिं गणयन्ति। अथ तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूपः कृमिभोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनमवीचिरयःपानमिति। किञ्च क्षारकर्दमो रक्षोगणभोजनः शूलप्रोतो दन्दशूकोऽवटनिरोधनः पर्यावर्तनः सूचीमुखमित्यष्टाविंशतिर्नरका विविधयातनाभूमयः॥
मूलम्
तत्र हैके नरकानेकविंशतिं गणयन्ति। अथ तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूपः कृमिभोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनमवीचिरयःपानमिति । किञ्च क्षारकर्दमो रक्षोगणभोजनः शूलप्रोतो दन्दशू5कोऽवटनिरोधनः पर्यावर्तनः सूचीमुखमित्यष्टाविंशतिर्नरका विविधयातनाभूमयः॥ ७ ॥
अनुवाद (हिन्दी)
परीक्षित्! कोई-कोई लोग नरकोंकी संख्या इक्कीस बताते हैं। अब हम नाम, रूप और लक्षणोंके अनुसार उनका क्रमशः वर्णन करते हैं। उनके नाम ये हैं—तामिस्र, अन्धतामिस्र, रौरव, महारौरव, कुम्भीपाक, कालसूत्र, असिपत्रवन, सूकरमुख, अन्धकूप, कृमिभोजन, सन्दंश, तप्तसूर्मि, वज्रकण्टकशाल्मली, वैतरणी, पूयोद, प्राणरोध, विशसन, लालाभक्ष, सारमेयादन, अवीचि और अयःपान। इनके सिवा क्षारकर्दम, रक्षोगणभोजन, शूलप्रोत, दन्दशूक, अवटनिरोधन, पर्यावर्तन और सूचीमुख—ये सात और मिलाकर कुल अट्ठाईस नरक तरह-तरहकी यातनाओंको भोगनेके स्थान हैं॥ ७॥
वीरराघवः
तत्र नरकाः कतीत्यपेक्षायामेके नरकानेकविंशतिं गणयन्तीत्याह तत्रेति । के त इत्यपेक्षायां तान्नामरूपलक्षणैः क्रमेण गणयामीत्याह । हे राजन् ! तान्नरकान्नामादिभिः तेऽनुक्रमिष्यामः । तत्र नामानि वाचकाः शब्दा रूपाणि परस्परविलक्षणदुःखजनकत्वाकाराः लक्षणानि चिह्नानि तत्तद्धिसादिकर्माणि यानि प्राणनिर्बन्धादीनि तादृशनिर्बन्धादिरूपचिह्नानि एभिरनुक्रमिष्यामः एभिः सह क्रमेण तुभ्यं वर्णयिष्याम इत्यर्थः । तानेव क्रमेण गणनया दर्शयति तामिस्र इत्यादिना अयःपानमित्यन्तेन गद्येन । तत्र वज्रकण्टकशाल्मलीति एको नरकः तथा अवीचिरित्येकः एवमेकविंशतिनरका भवन्ति केचिदित्यत्रारुचिबीजं त्वन्येषां सद्भाव इति । पुनस्तानेव निर्दिशति किञ्चेत्यादिना सूचीमुखमित्यन्तेन । एते सप्त पूर्वोक्तैस्तामिस्रादिभिः सहाष्टाविंशतिर्भवन्ति एते नरका विविधयातनाभूमयः दुःखानुभवभूमयः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके बलान्निपात्यते अनशनानुदपानदण्डताडनसंतर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छामुपयाति तामिस्रप्राये॥
मूलम्
तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके बलान्निपात्यते अनशनानुदपानदण्डताडनसंतर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छामुपयाति तामिस्रप्राये॥ ८ ॥
अनुवाद (हिन्दी)
जो पुरुष दूसरोंके धन, सन्तान अथवा स्त्रियोंका हरण करता है, उसे अत्यन्त भयानक यमदूत कालपाशमें बाँधकर बलात् तामिस्र नरकमें गिरा देते हैं। उस अन्धकारमय नरकमें उसे अन्न-जल न देना, डंडे लगाना और भय दिखलाना आदि अनेक प्रकारके उपायोंसे पीड़ित किया जाता है। इससे अत्यन्त दुःखी होकर वह एकाएक मूर्च्छित हो जाता है॥ ८॥
वीरराघवः
तानेकैकशस्तदनुभवनिमित्तानि पापानि च वर्णयति यस्त्विहेत्यादिना यावदध्यायसमाप्ति । यो जन्तुरिह लोके परस्य वित्तादीन्यपहरति स हि यमदूतैरतिभयङ्करैः कालपाशेन यमपाशेन बद्धो बलात्तामिस्राख्ये नरके निपात्यते । तामिस्रं विशिनष्टि तामिस्रप्राये तमःप्रचुरे यत्र तामिस्रे निपात्यमानः जन्तुरनशनापानजुष्टे प्रहारभर्त्सनादिभिर्यातनाभिः यात्यमानः पीड्यमानः कश्मलं दुखःमासादितः प्राप्त एकदैव मूर्च्छां प्राप्नोति तामिस्रप्राये इत्यनेनैषां तामिस्रादिनामानि योगरूढानीति ज्ञापितम् ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पतिर्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति॥
मूलम्
एवमेवान्धतामिस्रे यस्तु व6ञ्चयित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति यथा7 वनस्पतिर्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति॥ ९ ॥
अनुवाद (हिन्दी)
इसी प्रकार जो पुरुष किसी दूसरेको धोखा देकर उसकी स्त्री आदिको भोगता है, वह अन्धतामिस्र नरकमें पड़ता है। वहाँकी यातनाओंमें पड़कर वह जड़से कटे हुए वृक्षके समान, वेदनाके मारे सारी सुध-बुध खो बैठता है और उसे कुछ भी नहीं सूझ पड़ता। इसीसे इस नरकको अन्धतामिस्र कहते हैं॥ ९॥
वीरराघवः
एवमिति । यथा तामिस्रे तद्दुःखानुभवः एवमन्धतामिस्रेऽपीत्यर्थः । तदनुभवनिमित्तं पापमाह यस्त्विति । यस्तु जन्तुः पुरुषं पतिं वञ्चयित्वा तद्दारादीनादिशब्दाद्वित्तापत्यादीनि च उपयुङ्क्ते स्वोपयुक्तान् कुरुते तस्यैवमेवेति पूर्वेणान्वयः । तर्हि तामिस्रादन्धतामिस्रे को विशेष इत्यपेक्षायां तामिस्रान्तं विशिनष्टि यत्रेति । यत्रान्धतामिस्रे शरीरी देही विनिपात्यमानः यातनाभिस्तीव्राभिः पीड्यमानः तीव्रवेदनया नष्टा मतिर्यस्य नष्टा दृष्टिश्च यस्य तादृशो भवति वृश्च्यमानं छिद्यमानं मूलं यस्य तादृशो वनस्पतिर्यथा पततीति दृष्टान्तः अस्मात्कारणात्तमन्धतामिस्त्रमित्युपदिशन्तीत्यर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह विहाय स्वयमेव तदशुभेन रौरवे निपतति॥
मूलम्
यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह विहाय स्वयमेव तदशु8भेन रौरवे निपतति॥ १० ॥
अनुवाद (हिन्दी)
जो पुरुष इस लोकमें ‘यह शरीर ही मैं हूँ और ये स्त्री-धनादि मेरे हैं’ ऐसी बुद्धिसे दूसरे प्राणियोंसे द्रोह करके निरन्तर अपने कुटुम्बके ही पालन-पोषणमें लगा रहता है, वह अपना शरीर छोड़नेपर अपने पापके कारण स्वयं ही रौरव नरकमें गिरता है॥ १०॥
श्लोक-११
विश्वास-प्रस्तुतिः
ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेशः॥
मूलम्
ये9 त्विह यथैवामुना विहिंसिता जन्तवः परत्र यमया10तनामुपगतं त एव रुरवो भूत्वा तथा तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति स11र्पादतिक्रूरसत्त्वस्यापदेशः॥ ११ ॥
अनुवाद (हिन्दी)
इस लोकमें उसने जिन जीवोंको जिस प्रकार कष्ट पहुँचाया होता है परलोकमें यमयातनाका समय आनेपर वे जीव ‘रुरु’ होकर उसे उसी प्रकार कष्ट पहुँचाते हैं। इसीलिये इस नरकका नाम ‘रौरव’ है। ‘रुरु’ सर्पसे भी अधिक क्रूर स्वभाववाले एक जीवका नाम है॥ ११॥
वीरराघवः
रौरवानुभवनिमित्तं पापं तञ्च वर्णयति यस्त्विह वावेति । यस्तु शरीरी इह लोके एतच्छरीरमहमेतदपत्यकलत्रादिकं ममेत्येवं रूपाभ्यामहङ्कारममकाराभ्यां केवलम्भूतद्रोहेणैव स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स इह लोके तत्स्वकुटुम्बं विहाय स्वयमेक एव तेन पूर्वाचरितेनाशुभेन पापेन रौरवाख्ये नरके निपतति अमुना तेन निपतितेन पूर्वमिह लोके ये च जन्तवो यथा येन प्रकारेण विहिंसितास्त एव जन्तवः रुरवः रुरुसंज्ञका जन्तवो भूत्वा तेनैव प्रकारेण परत्र रौरवे नरके यातनामुपगतं तमेव विहिंसन्ति । यतस्तत्र गतं रुरवो हिंसन्त्यतस्तं नरकं रौरवमित्याहुरित्यर्थः । के ते रुरवः यत्र गतं हिंसन्ति इत्यत्राह रुरुरिति । सर्पादप्यतिक्रूरस्य भूरिशृङ्गाख्यस्य सत्त्वस्य जन्तोः रुरुरिति व्यपदेशो व्यवहार इत्यर्थः ॥ १०-११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः॥
मूलम्
एवमेव महारौरवो यत्र निपतितं पुरुषं क्र12व्यादा नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः॥ १२ ॥
अनुवाद (हिन्दी)
ऐसा ही महारौरव नरक है। इसमें वह व्यक्ति जाता है, जो और किसीकी परवा न कर केवल अपने ही शरीरका पालन-पोषण करता है। वहाँ कच्चा मांस खानेवाले रुरु इसे मांसके लोभसे काटते हैं॥ १२॥
श्लोक-१३
विश्वास-प्रस्तुतिः
यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र यमानुचराः कुम्भीपाके तप्ततैले उपरन्धयन्ति॥
मूलम्
यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र यमानुचराः कुम्भीपाके तप्ततैले उपरन्धयन्ति॥ १३ ॥
अनुवाद (हिन्दी)
जो क्रूर मनुष्य इस लोकमें अपना पेट पालनेके लिये जीवित पशु या पक्षियोंको राँधता है, उस हृदयहीन, राक्षसोंसे भी गये-बीते पुरुषको यमदूत कुम्भीपाक नरकमें ले जाकर खौलते हुए तैलमें राँधते हैं॥ १३॥
वीरराघवः
महारौरवमनुवर्णयति एवमेवेति । यथा रौरवे निपतितं रुरवो हिंसन्ति तथा महारौरवेऽपीत्यर्थः प्रथमान्तपाठे रौरवसदृश एव महारौरव इत्यर्थः । सादृश्यं च रुरुभिर्हिसनेन इयांस्तु ततो विशेष इत्याह यत्रेति । यत्र महारौरवे निपतितं पुरुषं देहिनं क्रव्यं निपतितस्य मांसमदन्तीति क्रव्यादास्तथाभूताः सन्तो रुरवः क्रव्येण निमित्तेन निपतितं घातयन्ति पुरुषस्यापि मांसं भक्षयन्तीत्यर्थः । तं क्रव्येणेति विभक्तिव्यत्यय आर्षः, अन्यथा “आदिखाद्योर्न" इत्यणौ कर्तुणौ कर्मत्वनिषेधात्तेनेति तृतीया, क्रव्यमिति द्वितीया च स्यात्, क्रव्येण निमित्तेन तं खादयन्तीत्यर्थस्त्वसङ्गतः स्यात्, क्रव्यादा इत्यनेन पौनरुक्त्याद्यथा क्रव्यादनस्वभावा अत एव क्रव्येण फलस्यैव हेतुत्वविवक्षया तृतीया, क्रव्यार्थं तं खादयन्ति “खिदेर्निवृत्तप्रेषणाण्णिच्” खिदिरत्र दंशनपरः खादयन्ति तं दंशन्तीत्यर्थः । अनेन पूर्वोक्तनिर्वाहः सूचितः । अथ कुम्भीपाकं तदनुभवनिमित्तं पापं च वर्णयति य इति । यः केवलं देहम्भरः शरीरपोषणमात्रपरः यश्चेह लोके उग्रः क्रूरः पशून् पक्षिणः प्राणतः सजीवान् उपरन्धयति पचति तमपकरुणं निष्कृपं पुरुषादै राक्षसैरपि विगर्हितममुत्र कुम्भीपाके नरके यमानुचरास्तप्ततैल उपरन्धयन्ति पचन्ति तत्र तैलकुम्भ्यां पच्यन्ते यत्र स कुम्भीपाक इत्यवयवार्थो विवक्षितः ॥ १२-१३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिःशरीर आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि॥
मूलम्
यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताम्रम13ये तप्तखले उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिःशरीर आस्ते शेते14 चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि॥ १४ ॥
अनुवाद (हिन्दी)
जो मनुष्य इस लोकमें माता-पिता, ब्राह्मण और वेदसे विरोध करता है, उसे यमदूत कालसूत्र नरकमें ले जाते हैं। इसका घेरा दस हजार योजन है। इसकी भूमि ताँबेकी है। इसमें जो तपा हुआ मैदान है, वह ऊपरसे सूर्य और नीचेसे अग्निके दाहसे जलता रहता है। वहाँ पहुँचाया हुआ पापी जीव भूख-प्याससे व्याकुल हो जाता है और उसका शरीर बाहर-भीतरसे जलने लगता है। उसकी बेचैनी यहाँतक बढ़ती है कि वह कभी बैठता है, कभी लेटता है, कभी छटपटाने लगता है, कभी खड़ा होता है और कभी इधर-उधर दौड़ने लगता है। इस प्रकार उस नर-पशुके शरीरमें जितने रोम होते हैं, उतने ही हजार वर्षतक उसकी यह दुर्गति होती रहती है॥ १४॥
वीरराघवः
अथ कालसूत्रस्थनरकानुभवनिमित्तं दुरितं तं च वर्णयति । यस्त्विह लोके पितृहन्ता ब्राह्मणहन्ता च स कालसूत्राख्ये नरके अयुतं योजनानि परितो मण्डलं यस्य तस्मिंस्ताम्रविकारे खले खलसमदेशे खलो नाम धान्यानि वितुषीकर्तुं कृतः कृत्रिमो भूमिविशेषः । उपर्यधस्तादग्न्यर्काभ्यामधस्ताद्वह्निना उपर्यर्केण चाभितप्यमानेऽभिनिवेशितः परितः पातितः क्षुत्पिपासाभ्यामन्तर्बहिश्च दह्यमानं शरीरं यस्य सः दह्यमानशब्दस्य पूर्वनिपातः । यद्वा शरीराद्वहिः शरीरं “अपपरिबहिरञ्चवः पञ्चम्या" इति समासे बहिःशब्दस्य उपसर्जनत्वात्पूर्वनिपातः अत एव समासविधानाज्ज्ञापकादन्तर्बहिःशब्दयोः सम्बन्धसामान्ये पञ्चमी भवति, शरीरसम्बन्धिबहिः प्रदेशे इत्यर्थः । अन्तःशब्देन सन्निधानात् शरीरान्तःप्रदेश एव उच्यते दह्यमानान्तःशरीरान्तः प्रदेशः बहिः शरीरं च यस्येत्यर्थः, एवम्भूतः ताम्रमये फलके उपवेश्यमानो याचनादि करोति याच्ञा चात्र हा हतोऽहं मां हापयेति प्रार्थना, एवं यावन्ति पशो रोमाणि तावत्सङ्ख्यानि वर्षाणां सहस्राणि तत्रास्ते इत्यर्थः । एवं भूयान् दुःखानुभवः कालः सूच्यते ज्ञायते यस्मिन् स कालसूत्र इत्यवयवाऽर्थोत्राभिप्रेतः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
यस्त्विह वै निजवेदपथादनापद्यपगतः पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतोधारैस्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते॥
मूलम्
य15स्त्विह वै निजवेदपथादनापद्यपगतः पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतोधारैस्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्महा पाखण्डानुगतं16 फलं भुङ्क्ते॥ १५ ॥
अनुवाद (हिन्दी)
जो पुरुष किसी प्रकारकी आपत्ति न आनेपर भी अपने वैदिक मार्गको छोड़कर अन्य पाखण्डपूर्ण धर्मोंका आश्रय लेता है, उसे यमदूत असिपत्रवन नरकमें ले जाकर कोड़ोंसे पीटते हैं। जब मारसे बचनेके लिये वह इधर-उधर दौड़ने लगता है, तब उसके सारे अंग तालवनके तलवारके समान पैने पत्तोंसे, जिनमें दोनों ओर धारें होती हैं, टूक-टूक होने लगते हैं। तब वह अत्यन्त वेदनासे ‘हाय, मैं मरा!’ इस प्रकार चिल्लाता हुआ पद-पदपर मूर्च्छित होकर गिरने लगता है। अपने धर्मको छोड़कर पाखण्डमार्गमें चलनेसे उसे इस प्रकार अपने कुकर्मका फल भोगना पड़ता है॥ १५॥
वीरराघवः
एवं कालसूत्रमभिधायाथासिपत्रवनं नरकं तत्प्राप्तिनिमित्तं च वर्णयति यस्त्विह वा इति । यस्तु देही निजवेदपथात्स्ववर्णाश्रमोचिताद्वेदविहिताद्धर्मादनापद्यपगतः अतिक्रान्तः आपदत्र देशकालवैपरीत्यप्रयुक्ता रोगादिनिमित्ता शक्तिः अनापद्यपगत इत्यनेनापदि स्वधर्मत्यागो न दोषावह इति सूचितं पाखण्डमवैदिकमस्मार्तं च केवलं स्वमनीषया कल्पितमत एव कुपथं कुत्सितं मार्गमाभासधर्ममुपगतस्तं देहिनमसिपत्रवनाख्यं नरकं प्रवेश्य प्रविष्टं कृत्वा कशया प्रहरन्ति यमभटा इति शेषः । कशा हि नामाश्वादीनां ताडयितुं निर्मितो दण्डाकारो रज्जुविशेषः । एवं कशया ताडितः तत्रासिपत्रवने आसादित इतस्ततो धावमानः तीव्रदण्डमसहमानो द्रुततरं गच्छति उभयतोधारैः पार्श्वद्वयेऽपि धारयुक्तैः खड्गस्य त्वेकस्मिन्नेव पार्श्वे धारा एभिस्तूभयतोधारैरित्यर्थः । तालवनस्यासिपत्रैः खड्गसदृशैः छिद्यमानानि सर्वाण्यङ्गानि यस्य तादृशः हाहाकारपूर्वकं हतोऽस्मीति वदन् परमया तीव्रया वेदनया पदे पदे मूर्च्छां प्राप्नोति पतति एवं स्वधर्महा स्वधर्मत्यागी पाषण्डानुगतं पाषण्डधर्माभासानुगुणं फलं दुःखमनुभवति असिसदृशानि पत्राणि येषां वृक्षाणां वनमसिपत्रवनमित्यवयवार्थः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण स्वनयन् क्वचिन्मूर्च्छितः कश्मलमुपगतो यथैवेहादृष्टदोषा उपरुद्धाः॥
मूलम्
यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण स्वनयन् क्वचिन्मूर्च्छितः कश्मलमुपगतो यथैवेहादृष्टदोषा उपरुद्धाः॥ १६ ॥
अनुवाद (हिन्दी)
इस लोकमें जो पुरुष राजा या राजकर्मचारी होकर किसी निरपराध मनुष्यको दण्ड देता है अथवा ब्राह्मणको शरीरदण्ड देता है, वह महापापी मरकर सूकरमुख नरकमें गिरता है। वहाँ जब महाबली यमदूत उसके अंगोंको कुचलते हैं, तब वह कोल्हूमें पेरे जाते हुए गन्नोंके समान पीड़ित होकर, जिस प्रकार इस लोकमें उसके द्वारा सताये हुए निरपराध प्राणी रोते-चिल्लाते थे, उसी प्रकार कभी आर्त स्वरसे चिल्लाता और कभी मूर्च्छित हो जाता है॥ १६॥
वीरराघवः
अथ सूकरमुखाख्यनरकं तत्प्राप्तिनिमित्तं पापं चानुवर्णयति यस्त्विहेति । इह लोके राजा वा राजपुरुषो वा कश्चिददण्ड्ये दण्डनानर्हे दण्डं दण्डनं प्रणयति कारयति दण्ड्येऽपि ब्राह्मणे शरीरदण्डं वा कारयति । “वपनं द्रविणादानं स्थानान्निर्यापणं तथा । एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥” इत्युक्तरीत्या दण्येऽपि ब्राह्मणे देहदण्डानर्हे यः शारीरं दण्डं कारयतीत्यर्थः । स पापीयान् सूकरमुखे नरके निपतति तत्र नरके सूकरस्येव मुखं येषां तैर्जन्तुभिः नितरां पीड्यमाना अवयवा यस्य तादृशः यथा इभेन गजेनेक्षुदण्डः पीड्यते तद्वदार्तस्वरेण स्वनयन् रुदन्मूर्छितः कश्मलं मोहमुपगतो भवति यथा पूर्वमिहादृष्टदोषा दोषरहितास्तेन उपरुद्धाः पीडिताः सन्तः कश्मलमुपगतास्तद्वदित्यर्थः । अवयवार्थस्तु सुव्यक्तः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ तैर्जन्तुभिः पशुमृगपक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तैः सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः॥
मूलम्
यस्त्विह वै भूतानामीश्व17रोपकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ तैर्जन्तुभिः पशुमृगपक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तैः सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः॥ १७ ॥
अनुवाद (हिन्दी)
जो पुरुष इस लोकमें खटमल आदि जीवोंकी हिंसा करता है, वह उनसे द्रोह करनेके कारण अन्धकूप नरकमें गिरता है। क्योंकि स्वयं भगवान्ने ही रक्तपानादि उनकी वृत्ति बना दी है और उन्हें उसके कारण दूसरोंको कष्ट पहुँचनेका ज्ञान भी नहीं है; किन्तु मनुष्यकी वृत्ति भगवान्ने विधि-निषेधपूर्वक बनायी है और उसे दूसरोंके कष्टका ज्ञान भी है। वहाँ वे पशु, मृग, पक्षी, साँप आदि रेंगनेवाले जन्तु, मच्छर, जूँ, खटमल और मक्खी आदि जीव—जिनसे उसने द्रोह किया था—उसे सब ओरसे काटते हैं। इससे उसकी निद्रा और शान्ति भंग हो जाती है और स्थान न मिलनेपर भी वह बेचैनीके कारण उस घोर अन्धकारमें इस प्रकार भटकता रहता है जैसे रोगग्रस्त शरीरमें जीव छटपटाया करता है॥ १७॥
वीरराघवः
अथान्धकूपं तत्प्राप्तिनिमित्तं पापं च वर्णयति यस्त्विह वा इति । यस्तु देही इह लोके ईश्वरेणोपकल्पिता मनुष्यरक्तपानादिरूपा वृत्तिर्येषामविदिता परस्य व्यथा यैरविवेकिभिस्तेषामज्ञातपरकृतदुःखानां वा भूतानां मत्कुणमशकादीनां व्यथामाचरति करोति कथम्भूतः स्वयं पुरुषोपकल्पितवृत्तिः परमेण परमपुरुषेण उपकल्पिता वर्णाश्रमादिविभागेन विधिनिषेधपूर्विका कल्पिता वृत्तिर्यस्य विविच्य ज्ञाता परस्य व्यथा येन विवेकी सन्नित्यर्थः । स एवंविधो भूतध्रुक् तदभिद्रोहेण भूतद्रोहेण निमित्तेनान्धकूपाख्ये नरके निपतति तत्रान्धकूपे हेति खेदेऽसौ पतितस्तैः पूर्वं हिंसितैर्जन्तुभिः कांश्चित्तान् दर्शयति पश्वित्यादिना । तेषामानन्त्यात्सङ्गृह्याह । ये के चाभिदुग्धा हिसितास्तैः सर्वैः पश्वादिरूपतामापन्नैः सर्वतोऽभिद्रुह्यमाणस्तैरेव विहता निद्रानिर्वृतिः निद्रासुखं यस्य तथा न लब्धमवस्थानं येन तथाभूतस्तमस्यन्धकारे परिभ्रमति । तत्र दृष्टान्तः - यथेति । कुशरीरे व्याध्याद्युपहते सञ्चारासमर्थे शरीरे जीवो यथाऽलब्धनिद्रः खिद्यति तथेत्यर्थः, अन्धकारावृतकूपोऽन्धकूप इत्यवयवार्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनोपनतमनिर्मितपञ्चयज्ञो वायससंस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं कृमिभिरेव भक्ष्यमाणः कृमिभोजनो यावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमात्मानं यातयते॥
मूलम्
यस्त्विह वा 18असंविभज्याश्नाति यत्किञ्चनोपनतमनिर्मितपञ्चयज्ञो वायससंस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र श19तसहस्रयोजने कृमिकुण्डे20 कृमिभूतः स्वयं कृमिभिरेव भक्ष्यमाणः कृमिभोजनो यावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमात्मानं यातयते॥ १८ ॥
अनुवाद (हिन्दी)
जो मनुष्य इस लोकमें बिना पंचमहायज्ञ किये तथा जो कुछ मिले, उसे बिना किसी दूसरेको दिये स्वयं ही खा लेता है, उसे कौएके समान कहा गया है। वह परलोकमें कृमिभोजन नामक निकृष्ट नरकमें गिरता है। वहाँ एक लाख योजन लंबा-चौड़ा एक कीड़ोंका कुण्ड है। उसीमें उसे भी कीड़ा बनकर रहना पड़ता है और जबतक अपने पापोंका प्रायश्चित्त न करनेवाले उस पापीके—बिना दिये और बिना हवन किये खानेके—दोषका अच्छी तरह शोधन नहीं हो जाता, तबतक वह उसीमें पड़ा-पड़ा कष्ट भोगता रहता है। वहाँ कीड़े उसे नोचते हैं और वह कीड़ोंको खाता है॥ १८॥
वीरराघवः
अथ कृमिभोजनं तदनुभवहेतुं पापं च वर्णयति । तु यस्त्विह वा असम्विभज्येति यस्तु देही इह लोके यद्भक्षादिकं दैवादुपनतं प्राप्तमप्यन्नमसम्बिभज्यातिथिभ्योऽप्रदायेत्यर्थः । अश्नाति स्वयं भुङ्क्ते यश्चानिर्मितपञ्चयज्ञः अननुष्ठितपञ्चमहायज्ञः स वायससंस्तुतः वायसैः समत्वेन वर्णितः परत्र परलोके कृमिभोजनाख्ये नरकाधमे निपतति तत्र शतसहस्रयोजनपरिमिते कृमिकुण्डे स्वयमपि कृमिभूतः कृमिभिरेव भक्ष्यमाणः कृमिभोजनः कृमीनेव भुञ्जानः यावद्यावन्ति योजनानि कृमिकुण्डं तावन्ति वर्षाण्यात्मानं यातयते दुःखयति । कथम्भूतम् अप्रत्ताप्रहुतादः प्रत्तं दत्तावशिष्टं प्रहुतं यज्ञावशिष्टं प्रत्तं च प्रहुतं न प्रत्तप्रहुते अप्रत्तप्रहुते ते अत्तीति अप्रत्तप्रहुतादः एवम्भूतोऽहमित्यकृतनिर्वेशः परितापो येन तमात्मानम् ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डैः सन्दंशैस्त्वचि निष्कुषन्ति॥
मूलम्
यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र राजन् यमपुरुषा अ21यस्मयैरग्निपिण्डैः सन्दंशैस्त्वचि निष्कुषन्ति॥ १९ ॥
अनुवाद (हिन्दी)
राजन्! इस लोकमें जो व्यक्ति चोरी या बरजोरीसे ब्राह्मणके अथवा आपत्तिका समय न होनेपर भी किसी दूसरे पुरुषके सुवर्ण और रत्नादिका हरण करता है, उसे मरनेपर यमदूत सन्दंश नामक नरकमें ले जाकर तपाये हुए लोहेके गोलोंसे दागते हैं और सँड़सीसे उसकी खाल नोचते हैं॥ १९॥
वीरराघवः
अथ संदंशाख्यं नरकं पापं च वर्णयति यस्त्विह वै स्तेयेनेति । इह यो देही स्तेयेन चौर्येण वा अनापदि ब्राह्मणस्यान्यस्य वा हिरण्यरत्नादीन्यपहरति तं देहिनं परत्र संदंशाख्ये नरके हे राजन् ! यमभटाः अग्निवर्णैः सन्तापेनाग्निवर्णतामापन्नैरयस्मयैः लोहमयैः संदशैः संदशन्त्येभिरिति संदंशाः तैश्छेदनसाधनैः शूलैः निष्कुषन्ति छिन्दन्ति, संदंशैः संदशन्ति यत्रेति संदंश इत्यवयवार्थः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं योषिदभिगच्छति तावमुत्र कशया ताडयन्तस्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुषरूपया सूर्म्या॥
मूलम्
यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं यो22षिदभिगच्छति तावमुत्र कशया ता23डयन्तस्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुष24रूपया सूर्म्या॥ २० ॥
अनुवाद (हिन्दी)
इस लोकमें यदि कोई पुरुष अगम्या स्त्रीके साथ सम्भोग करता है अथवा कोई स्त्री अगम्य पुरुषसे व्यभिचार करती है, तो यमदूत उसे तप्तसूर्मि नामक नरकमें ले जाकर कोड़ोंसे पीटते हैं तथा पुरुषको तपाये हुए लोहेकी स्त्री-मूर्तिसे और स्त्रीको तपायी हुई पुरुष-प्रतिमासे आलिंगन कराते हैं॥ २०॥
वीरराघवः
अथ तप्तसूर्मिं तत्प्राप्तिहेतुं दुरितं चानुवर्णयति यस्त्विह वा अगम्यामिति । यस्तु देही स्वयं पुरुषः सन्नगम्यामनुपेयां स्त्रियमभिगच्छति स्वयं योषित् स्त्री सती अगम्यमुपेतुमयोग्यं पुरुषं चोपगच्छति तं देहिनममुत्र सूर्म्याख्ये नरके कशया ताडयन्तः लोहमय्या तिग्मया तप्तया सूर्म्या स्थूणा सैव स्त्रीरूपेण पुरुषरूपेण चोत्कीर्णा तया सूर्म्या प्रतिमया पुरुषं पापिनमालिङ्गयन्ति स्त्रियं पापिनीं पुरुषरूपया सूर्म्यालिङ्गयन्ति । तप्ता सूर्मिर्यस्मिन् स तप्तसूर्मिंरित्यवयवार्थः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति॥
मूलम्
यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति॥ २१ ॥
अनुवाद (हिन्दी)
जो पुरुष इस लोकमें पशु आदि सभीके साथ व्यभिचार करता है, उसे मृत्युके बाद यमदूत वज्रकण्टकशाल्मली नरकमें गिराते हैं और वज्रके समान कठोर काँटोंवाले सेमरके वृक्षपर चढ़ाकर फिर नीचेकी ओर खींचते हैं॥ २१॥
वीरराघवः
अथ वज्रकण्टकशाल्मलीमाह यस्तु इह वै सर्वाभिगम इति । सर्वाभिगमः लोभादसेव्यसेवी पश्वाद्युपगन्तेति केचिद्व्याचक्षते, तं सर्वाभिगमममुत्र निरये वज्रकण्टकशाल्मलीसंज्ञके वर्त्तमानं पतितं वज्रमयानि कण्टकानि यस्य तं शाल्मलीं वृक्षमारोप्यारोह्य निष्कुषन्तीत्यर्थः । वज्रकण्टशाल्मलिर्यस्मिन् स इत्यवयवार्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश्चासुभिरुह्यमानाः स्वाघेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणितकेशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते॥
मूलम्
ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा ध25र्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश्चासुभिरुह्यमानाः स्वा26घेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणितकेशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते॥ २२ ॥
अनुवाद (हिन्दी)
जो राजा या राजपुरुष इस लोकमें श्रेष्ठ कुलमें जन्म पाकर भी धर्मकी मर्यादाका उच्छेद करते हैं, वे उस मर्यादातिक्रमणके कारण मरनेपर वैतरणी नदीमें पटके जाते हैं। यह नदी नरकोंकी खाईके समान है; उसमें मल, मूत्र, पीब, रक्त, केश, नख, हड्डी, चर्बी, मांस और मज्जा आदि गंदी चीजें भरी हुई हैं। वहाँ गिरनेपर उन्हें इधर-उधरसे जलके जीव नोचते हैं। किन्तु इससे उनका शरीर नहीं छूटता, पापके कारण प्राण उसे वहन किये रहते हैं और वे उस दुर्गतिको अपनी करनीका फल समझकर मन-ही-मन सन्तप्त होते रहते हैं॥ २२॥
वीरराघवः
वैतरणीं वर्णयति । य इति । राजन्याः क्षत्रियास्तेषां पुरुषा वा पाखण्डान्वैदिकान् धर्मसेतून् धर्ममर्यादान् भिन्दति नाशयन्ति कथम्भूताः भिन्नमर्यादा अतिक्रान्तधर्ममर्यादाः ते राजन्यादयः अस्यां वैतरण्यां नरकस्य परिखाभूतायां नद्यां यादसाङ्गणैरितस्ततो भक्ष्यमाणा अपि आत्मना देहेन न वियुज्यमाना अत्यक्तदेहा इत्यर्थः, तत्र हेतुः असुभिः प्राणैरुह्यमाणाः कर्मणः कर्तृत्वविवक्षायां तृतीयोद्धृतप्राणा इत्यर्थः, तत्रापि हेतुमाह स्वाघेनेति स्वकीयदुरितेनेत्यर्थः । स्वकीयदुरितेन कर्मपाकं स्वकीयपापकर्मफलमिदमित्येवं स्मरन्त उपतप्यन्ते क्लिश्यन्ति । नदीं विशिनष्टि विण्मूत्रेति । पूयं दुर्गन्धिविण्मूत्ररूपं पूयं विडादीनां वाहिन्यां वाहः प्रवाहः सोऽस्या अस्तीति तथा तस्यां वा नदीरूप एवायं नरक इत्यवयवार्थाभेदः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमास्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति तदेवातिबीभत्सितमश्नन्ति॥
मूलम्
ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमास्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति तदेवातिबीभत्सितमश्नन्ति॥ २३ ॥
अनुवाद (हिन्दी)
जो लोग शौच और आचारके नियमोंका परित्याग कर तथा लज्जाको तिलांजलि देकर इस लोकमें शूद्राओंके साथ सम्बन्ध गाँठकर पशुओंके समान आचरण करते हैं, वे भी मरनेके बाद पीब, विष्ठा, मूत्र, कफ और मलसे भरे हुए पूयोद नामक समुद्रमें गिरकर उन अत्यन्त घृणित वस्तुओंको ही खाते हैं॥ २३॥
वीरराघवः
अथ पूयोदमनुवर्णयति ये त्विहेति । ये देहिन इह वृषलीपतयः ब्राह्मणादयः सन्तः शूद्रायाः पतयो नष्टाः त्यक्ताः शौचादयो यैस्ते, तत्र शौचं स्नानपर्यन्तं सत्कर्म आचारः सन्ध्योपासनादिनियमः भक्ष्याभक्ष्यादिनियमः अत एव त्यक्ता लज्जा यैस्ते पशुचर्यां स्वेच्छाचारं कुर्वन्ति-पाकं पचतीतिवन्निर्देशः-तेऽपि प्रेत्य मृत्वा विडादिभिः पूर्णे अर्णववद्विस्तरे ह्लदे निपतन्ति तदेव विडादिकमेवातिदेयमश्नन्त्यदन्ति पूयमुदमुदकं यस्मिन्नित्यवयवार्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेताल्ँलक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति॥
मूलम्
ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेताल्ँलक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति॥ २४ ॥
अनुवाद (हिन्दी)
इस लोकमें जो ब्राह्मणादि उच्च वर्णके लोग कुत्ते या गधे पालते और शिकार आदिमें लगे रहते हैं तथा शास्त्रके विपरीत पशुओंका वध करते हैं, मरनेके पश्चात् वे प्राणरोध नरकमें डाले जाते हैं और वहाँ यमदूत उन्हें लक्ष्य बनाकर बाणोंसे बींधते हैं॥ २४॥
वीरराघवः
अथ प्राणनिरोधं सपापं वर्णयति । ये त्विह वै श्वगर्द्दभपतय इति । शुनां गर्द्दभानां च पतयः पालकाः ब्राह्मणा मृगयैव विहारो येषां तेऽतीर्थे मृगान्निघ्नन्ति अतीर्थेषु लोकरक्षणार्थत्वाभावात्प्राणिवधो दोषावहस्तीर्थेषु तु प्राणिसञ्चाराय कृतो दुष्टसत्त्ववधो न दोषाय भवति यतस्तस्मादतीर्थं इत्युक्तं, तानपि श्वगर्दभपतीनपि सम्परेतान् मृतान्वेशनसे प्राप्ताॅंल्लक्ष्यभूताॅंल्लक्ष्यीकृत्येत्यर्थः । इषुभिर्बाणैर्यमभटा विध्यन्ति । विध्यन्तीत्यनेन प्राणनिरोधनिमित्ता व्यथाभिप्रेतातोऽस्य नरकस्य प्राणनिरोध इति संज्ञा प्राणानां निरोधो यस्मिन्नित्यवयवार्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तानमुष्मिल्ँलोके वैशसे नरके पतितान्निरयपतयो यातयित्वा विशसन्ति॥
मूलम्
ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तानमुष्मिल्ँलोके वैशसे नरके पतितान्निरयपतयो यातयित्वा विशसन्ति॥ २५ ॥
अनुवाद (हिन्दी)
जो पाखण्डीलोग पाखण्डपूर्ण यज्ञोंमें पशुओंका वध करते हैं, उन्हें परलोकमें वैशस (विशसन) नरकमें डालकर वहाँके अधिकारी बहुत पीड़ा देकर काटते हैं॥ २५॥
वीरराघवः
अथ सपापं विशसनं वर्णयति । ये त्विह वै दाम्भिका इति । इह लोके ये वै देहिनः दाम्भिका लोकवञ्चका दम्भयज्ञेषु वयमपि यज्ञानुष्ठानपरा इति लोकान् प्रलोभयितुमारब्धेषु दम्भार्थयज्ञेषु पशून् विशसन्ति हिंसन्ति तान् दाम्भिकानमुष्मिन् वैशसनामाख्ये नरके निपतितान्निरयपतयः यमपुरुषाः यातयित्वा दुःखयित्वा विशसन्ति विहिंसन्ति यस्मिन् स विशसनः विशसन एव वैशसन इत्यवयवार्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
यस्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति काममोहितस्तं पापकृतममुत्र रेतःकुल्यायां पातयित्वा रेतः सम्पाययन्ति॥
मूलम्
यस्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति काममोहितस्तं पापकृतममुत्र रेतःकुल्यायां पातयित्वा रेतः सम्पा27ययन्ति॥ २६ ॥
अनुवाद (हिन्दी)
जो द्विज कामातुर होकर अपनी सवर्णा भार्याको वीर्यपान कराता है, उस पापीको मरनेके बाद यमदूत वीर्यकी नदी (लालभक्ष नामक नरक)-में डालकर वीर्य पिलाते हैं॥ २६॥
वीरराघवः
सपापं लालाभक्षमनुवर्णयति यस्त्विह वै सवर्णामिति । इह लोके यो वै द्विजः कामेन मोहितः सवर्णां भार्यां रेतः स्वरेतः पाययति पानं कारयति तं द्विजं पापकृतं रेतःकुल्यायां पातयित्वा रेतः सम्पाययन्ति यमपुरुषा इति शेषः । लाला रेतः तस्य भक्षणं यस्मिन् स लालाभक्षः इत्यवयवार्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि विंशतिश्च सरभसं खादन्ति॥
मूलम्
ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि प28रेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि विंशतिश्च सरभसं खादन्ति॥ २७ ॥
अनुवाद (हिन्दी)
जो कोई चोर अथवा राजा या राजपुरुष इस लोकमें किसीके घरमें आग लगा देते हैं, किसीको विष दे देते हैं अथवा गाँवों या व्यापारियोंकी टोलियोंको लूट लेते हैं, उन्हें मरनेके पश्चात् सारमेयादन नामक नरकमें वज्रकी-सी दाढ़ोंवाले सात सौ बीस यमदूत कुत्ते बनकर बड़े वेगसे काटने लगते हैं॥ २७॥
वीरराघवः
अथ सारमेयादनं सपापमनुवर्णयति ये त्विह वै दस्यव इति । इह ये दस्यवो दुष्टसत्त्वाः के ते अग्निदा गृहादीनां दाहका ये च गरदाः विषदाः ये बा राजभटा पुराकरग्रामान् पुराकरग्रामस्थान् आकरः खनिः सार्थान् जीवसमूहान् वा विलुम्पन्ति छिन्दन्ति हिंसन्तीत्यर्थः । तान् सम्परेतान् ये वज्रवन्निष्ठुरा दंष्ट्रा येषां ते यमदूताः श्वानः विंशत्यधिकसप्तशतसङ्ख्याकास्ते सरभसं ससंभ्रमं खादयन्ति खादन्तीत्यर्थः, निवृत्तप्रेषणात् खादेर्णिच् । सारमेयानां शुनामदनं सारमेयकर्तृकमदनं यस्मिन्नित्यवयवार्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधःशिरा निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्नः सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाणः पुनरारोपितो निपतति॥
मूलम्
य29स्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचि30मत्यधःशिरा निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्नः सम्पात्यते य31त्र जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाणः पुनरारोपितो निपतति॥ २८ ॥
अनुवाद (हिन्दी)
इस लोकमें जो पुरुष किसीकी गवाही देनेमें, व्यापारमें अथवा दानके समय किसी भी तरह झूठ बोलता है, वह मरनेपर आधारशून्य अवीचिमान् नरकमें पड़ता है। वहाँ उसे सौ योजन ऊँचे पहाड़के शिखरसे नीचेको सिर करके गिराया जाता है। उस नरककी पत्थरकी भूमि जलके समान जान पड़ती है। इसीलिये इसका नाम अवीचिमान् है। वहाँ गिराये जानेसे उसके शरीरके टुकड़े-टुकड़े हो जानेपर भी प्राण नहीं निकलते, इसलिये इसे बार-बार ऊपर ले जाकर पटका जाता है॥ २८॥
वीरराघवः
अथावीचिमन्तं सपापं वर्णयति यस्त्विह वा अनृतमिति । यस्त्विह लोके देही साक्षिणः कर्म साक्ष्यं तस्मिन् द्रव्यविनिमये वा क्रयविक्रयादिरूपे वाणिज्ये वानृतमसत्यं वदति स वै प्रेत्य कथञ्चिदत्यन्तदुःखेनावीचिमति नरके निरवकाशे निरालम्बे योजनशतपरिमितौन्नत्यादुन्नतदेशाद्विरिमूर्द्धसु पर्वतशिखरेष्वधःशिराः निपात्यते । अवीचिमच्छब्दस्यावयवार्थमाह यत्रेति । यत्र नरकेऽश्मपृष्ठरूपं स्थलं जलमिवावभासते तदवीचिमद्वीचिस्तरङ्गः तदस्यास्तीति वीचिमज्जलं न विद्यते वीचिमद्यस्मिन् सोऽवीचिमज्जलरहितमप्यश्मपृष्ठं जलमिवावभासते तदवीचिमदित्यर्थः । एवं निपात्यमानः पापी तिलप्रमाणशः विशीर्यमाणं शरीरं यस्य तथाभूतोऽपि न म्रियमाणः मरणमप्राप्तः पुनरपि तथैवारोपितो निपतति ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति प्रमादतस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति॥
मूलम्
यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति प्र32मादतस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति॥ २९ ॥
अनुवाद (हिन्दी)
जो ब्राह्मण या ब्राह्मणी अथवा व्रतमें स्थित और कोई भी प्रमादवश मद्यपान करता है तथा जो क्षत्रिय या वैश्य सोमपान* करता है, उन्हें यमदूत अयःपान नामके नरकमें ले जाते हैं और उनकी छातीपर पैर रखकर उनके मुँहमें आगसे गलाया हुआ लोहा डालते हैं॥ २९॥
पादटिप्पनी
- क्षत्रियों एवं वैश्योंके लिये शास्त्रमें सोमपानका निषेध है।
वीरराघवः
अथ सदुरितमयःपानं वर्णयति यस्त्विह वै विप्र इति । यो विप्रस्तत्कलत्रं वा सुरां पिबत्यन्योऽपि वा व्रतस्थः राजन्यो वै वैश्यो वा प्रमादात्सोमपीथः कृतसोमपान इत्यन्वयः । तयोः सोमस्थाने फलचमसविधानात्सोमपाननिषेधाच्च तथा च श्रुतिः “न्यग्रोधस्तेभिनीराहृत्य ताः सम्पिष्य दधन्युपमृज्य तमस्मै भक्ष्यं प्रयच्छेन्न सोमम्” इति स्तेभिनीः फलानि दधनि दध्नि, तेषां विप्रादीनां निरयं प्रापितानामुरसि पदा पादेनाक्रम्य द्रवमाणमत्यन्ततापेन द्रवीभूतं कार्ष्णायसमयोविशेषं तेषामास्ये मुखे निषिञ्चन्ति । अयसः पानं यस्मिन्नित्यवयवार्थः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
अथ च यस्त्विह वा आत्मसम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्शिरा निपातितो दुरन्ता यातना ह्यश्नुते॥
मूलम्
अथ च य33स्त्विह वा आत्मसम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्शिरा निपातितो दुरन्ता यातना ह्यश्नुते॥ ३० ॥
अनुवाद (हिन्दी)
जो पुरुष इस लोकमें निम्न श्रेणीका होकर भी अपनेको बड़ा माननेके कारण जन्म, तप, विद्या, आचार, वर्ण या आश्रममें अपनेसे बड़ोंका विशेष सत्कार नहीं करता, वह जीता हुआ भी मरेके ही समान है। उसे मरनेपर क्षारकर्दम नामके नरकमें नीचेको सिर करके गिराया जाता है और वहाँ उसे अनन्त पीड़ाएँ भोगनी पड़ती हैं॥ ३०॥
वीरराघवः
अथ सपापं क्षारकर्दममाह यस्त्विह वात्मसम्भावनेनेति । यो वै देहीह लोके स्वयं जन्मादिभिरधमः निकृष्ट आत्मनः स्वस्य सम्भावनेनौत्कृष्ट्यापादनेन जन्मादिमतः अत एव वरीयसः श्रेष्ठान्न बहुमन्येत किन्त्ववमन्येतेत्यर्थः । स पूर्वं मृतकप्राय एव मृत्वा क्षारकर्द्दमे नरकेऽवाक्शिरा अधः शिराः निपातित अपारयातना अश्नुतेऽनुभवति । क्षारः कर्दमो यस्मिन्नित्यवयवार्थः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशून् खादन्ति तांश्च ते पशव इव निहता यमसदने यातयन्तो रक्षोगणाः सौनिका इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादाः॥
मूलम्
ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च स्त्रि34यो नृपशून् खादन्ति तांश्च ते पशव इव35 निहता यमसदने यातयन्तो रक्षोगणाः सौनिका इव स्वधितिनावदा36यासृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादाः॥ ३१ ॥
अनुवाद (हिन्दी)
जो पुरुष इस लोकमें नरमेधादिके द्वारा भैरव, यक्ष, राक्षस आदिका यजन करते हैं और जो स्त्रियाँ पशुओंके समान पुरुषोंको खा जाती हैं, उन्हें वे पशुओंकी तरह मारे हुए पुरुष यमलोकमें राक्षस होकर तरह-तरहकी यातनाएँ देते हैं और रक्षोगण भोजन नामक नरकमें कसाइयोंके समान कुल्हाड़ीसे काट-काटकर उसका लोहू पीते हैं। तथा जिस प्रकार वे मांसभोजी पुरुष इस लोकमें उनका मांस भक्षण करके आनन्दित होते थे, उसी प्रकार वे भी उनका रक्तपान करते और आनन्दित होकर नाचते-गाते हैं॥ ३१॥
वीरराघवः
अथ रक्षोगणभोजनं सदुरितमाह । येत्विह वै पुरुषा इति । ये चेह पुरुषाः पुरुषस्य मेधेन हिंसया भद्रकाल्यादिदेवता यजेरन् याश्च स्त्रियः अशास्त्रीयान् शास्त्राविहितान्नृपशून्नररूपान्पशून् घातयन्ति ते च ताश्च तान् “पुमान् स्त्रिया” इत्येकशेषः - तांश्च पुरुषान् ताश्च स्त्रीरित्यर्थः । नृपशवस्तैर्निहतास्ते सर्वे यमसदने रक्षोगणा भूत्वा घातयन्ति दुःखयन्ति सौनिका इव । सूना नाम पशूनां वधस्थानं तत्र भवाः सौनिका “द्व्यजद्ब्राह्मणर्कप्रथमाध्वरपुरश्चरणनामाख्यातात्” इति द्व्यच्त्वाट्ठक् । स्वायुधेन विदार्य छित्त्वासृग्रक्तं पिबन्ति यथेह ते पुरुषादा हृष्यमाणाः सन्तः पूर्वमनृत्यन् जगुश्च तद्वन्नृत्यन्ति गायन्ति च । रक्षोगणानामसृग्भोजनं यस्मिन्नित्यवयवार्थः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून् शूलसूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मानः क्षुत्तृड्भ्यां चाभिहताः कङ्कवटादिभिश्चेतस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति॥
मूलम्
ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून् शूलसूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मानः क्षुत्तृड्भ्यां चाभिहताः कङ्कवटादिभिश्चेतस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति॥ ३२ ॥
अनुवाद (हिन्दी)
इस लोकमें जो लोग वन या गाँवके निरपराध जीवोंको—जो सभी अपने प्राणोंको रखना चाहते हैं—तरह-तरहके उपायोंसे फुसलाकर अपने पास बुला लेते हैं और फिर उन्हें काँटेसे बेधकर या रस्सीसे बाँधकर खिलवाड़ करते हुए तरह-तरहकी पीड़ाएँ देते हैं, उन्हें भी मरनेके पश्चात् यमयातनाओंके समय शूलप्रोत नामक नरकमें शूलोंसे बेधा जाता है। उस समय जब उन्हें भूख-प्यास सताती है और कंक, बटेर आदि तीखी चोंचोंवाले नरकके भयानक पक्षी नोचने लगते हैं, तब अपने किये हुए सारे पाप याद आ जाते हैं॥ ३२॥
वीरराघवः
अथ शूलप्रोतं तत्प्राप्तिहेतुं दुरितं च वर्णयति ये त्विह वा अनागस इति । इह ग्रामेऽरण्ये वा अनागसो निरपराधान् जीवितुमिच्छून् जन्तून् ये वै देहिनो वैश्रम्भिकैर्विश्वासोपायैरुपविश्रम्भय्य विश्वास्य शूलसूत्रादिषु प्रोतान् संलग्नान् कृत्वेत्यर्थः । क्रीडनकतया क्रीडार्थं यातयन्ति दुःखयन्ति तेऽपि च यमयातनासु प्रेत्य सूत्रशूलादिषु प्रोताः संलग्रा आत्मानः देहा येषां ते क्षुत्पिपासाभ्यां पीडिताश्च तिग्मतुण्डैः सूचीमुखवत्तीक्ष्णानि तुण्डानि मुखानि येषां तैः काकादिभिरितस्ततो हन्यमाना आत्मशमलं स्वीयं पापम् अहो एवम्विधमित्येवं स्मरन्ति । शूले शूलादौ प्रोता यस्मिन्निति शूलप्रोतमित्यवयवार्थः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्चमुखाः सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान्॥
मूलम्
ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्चमुखाः सप्तमुखा37 उपसृत्य ग्रसन्ति यथा बिलेशयान्॥ ३३ ॥
अनुवाद (हिन्दी)
राजन्! इस लोकमें जो सर्पोंके समान उग्रस्वभाव पुरुष दूसरे जीवोंको पीड़ा पहुँचाते हैं, वे मरनेपर दन्दशूक नामके नरकमें गिरते हैं। वहाँ पाँच-पाँच, सात-सात मुँहवाले सर्प उनके समीप आकर उन्हें चूहोंकी तरह निगल जाते हैं॥ ३३॥
वीरराघवः
अथ दन्दशूकं सपापमाह ये त्विह वै भूतानीति । ये च जना अत्युल्बणस्वभावाः अत्युग्रस्वभावाः यथा दन्दशूकाः सर्पास्तद्भूतानि उद्वेजयन्ति भीषयन्ति तेऽपि प्रेत्य दन्दशूकाख्ये दन्दशूकसंज्ञके नरके निपतन्ति । दन्दशूकं विशिनष्टि यत्रेति । हे नृप ! दन्दशूके दन्दशूकाः सर्पाः पञ्च मुखानि सप्त मुखानि येषां तादृशाः उपसृत्य समीपमागत्य ग्रसन्ति यथा विलेशयान् मूषकान् ग्रसन्ति तद्वद्दन्दशूका अस्मिन् सन्तीत्यवयवार्थः । अर्शआदेराकृतिगणत्वान्मत्वर्थीयोऽच्प्रत्ययः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति॥
मूलम्
ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति॥ ३४ ॥
अनुवाद (हिन्दी)
जो व्यक्ति यहाँ दूसरे प्राणियोंको अँधेरी खत्तियों, कोठों या गुफाओंमें डाल देते हैं, उन्हें परलोकमें यमदूत वैसे ही स्थानोंमें डालकर विषैली आगके धूएँमें घोंटते हैं। इसीलिये इस नरकको अवटनिरोधन कहते हैं॥ ३४॥
वीरराघवः
अथ सपापमवटं वर्णयति ये त्विह वा बालानिति । इह ये देहिनो बालानन्धान् काणानन्यानि वा बलहीनानि भूतान्यवटादिषु अवटो गर्तः यथा निरुन्धन्ति तथा सम्परेतानमुत्रावटनिरोधाख्ये नरके तेष्वेवावटादिष्वेव उपवेश्य सगरेण विषयुक्तेन वह्निना धूमेन वह्निसम्बन्धिना धूमेन निरुन्धन्ति । अवटो निरोधोऽस्मिन्नित्यवटनिरोधः, निरुन्धन्ते अन्यानस्मिन्निति निरोधः अवटो निरोधो यस्मिन्निति वावयवार्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा गृध्राः कङ्ककाकवटादयः प्रसह्योरुबलादुत्पाटयन्ति॥
मूलम्
यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्र38तुण्डा गृध्राः कङ्ककाकवटादयः प्रसह्योरुबलादुत्पाटयन्ति॥ ३५ ॥
अनुवाद (हिन्दी)
जो गृहस्थ अपने घर आये अतिथि-अभ्यागतोंकी ओर बार-बार क्रोधमें भरकर ऐसी कुटिल दृष्टिसे देखता है मानों उन्हें भस्म कर देगा, वह जब नरकमें जाता है, तब उस पापदृष्टिके नेत्रोंको गिद्ध, कंक, काक और बटेर आदि वज्रकी-सी कठोर चोंचोंवाले पक्षी बलात् निकाल लेते हैं। इस नरकको पर्यावर्तन कहते हैं॥ ३५॥
वीरराघवः
अक्षिपर्यावर्तं सदुरितमाह यस्त्विह वा अतिथीनिति । यश्चेह लोके स्वयं गृहस्वामी सन्नतिथीनज्ञातपूर्वानभ्यागतान् ज्ञातपूर्वानसकृदुपगतमन्युः सञ्जातक्रोधः दग्धुमिच्छुरिव पापेन तिरश्चीनेन चक्षुषा निरीक्षते तस्य च पापदृष्टेः प्रेतस्य निरयेऽक्षिपर्य्यावर्ताख्येऽक्षिणी नेत्रे वक्रं तुण्डं येषां ते काकादयः प्रसह्य बलादुत्पाटयन्ति । अक्ष्णोः पर्यावर्तनमुत्पाटनमस्मिन्नित्यवयवार्थः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षणः सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षणसंरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति॥
मूलम्
यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षणः सर्व39तोऽभिविशङ्की अर्थव्ययनाशचिन्तया परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह इवार्थम40भिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षणसंर41क्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र ह वित्तग्र42हं पापपुरुषं धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति॥ ३६ ॥
अनुवाद (हिन्दी)
इस लोकमें जो व्यक्ति अपनेको बड़ा धनवान् समझकर अभिमानवश सबको टेढ़ी नजरसे देखता है और सभीपर सन्देह रखता है, धनके व्यय और नाशकी चिन्तासे जिसके हृदय और मुँह सूखे रहते हैं, अतः तनिक भी चैन न मानकर जो यक्षके समान धनकी रक्षामें ही लगा रहता है तथा पैसा पैदा करने, बढ़ाने और बचानेमें जो तरह-तरहके पाप करता रहता है, वह नराधम मरनेपर सूचीमुख नरकमें गिरता है। वहाँ उस अर्थपिशाच पापात्माके सारे अंगोंको यमराजके दूत दर्जियोंके समान सूई-धागेसे सीते हैं॥ ३६॥
वीरराघवः
सूचीमुखं सपापमाह यस्त्विह वा आढ्याभिमतिरिति । यश्चेह लोके आढ्योऽहभित्यभिमतिरभिमानो यस्य स धनगर्ववानित्यर्थः । अहंकृतः श्रेष्ठोऽहमिति मानी तिर्यक् प्रेक्षणं यस्य सर्वतः गुर्वादेरपि शङ्की धनं चोरयिष्यतीति शङ्कमानः व्ययो विनियोगेनार्थक्षयः विनाशः समूलतः क्षयः तद्विषयया चिन्तया परिशुष्यमाणं हृदयं वदनं यस्य अतः निर्वृतिं सुखमनुपगतः अप्राप्तः ग्रह इव पिशाच इवार्थं वित्तमभितो रक्षति स चापि प्रेत्य तस्यार्थस्योत्पादनादिभिः शमलं पापं गृह्णातीति तथा उत्पादनं प्रथमतो मूलद्रव्यसम्पादनमुत्कर्षणं तस्य पश्चाद्वृद्ध्यादिना वर्द्धनं रक्षणं पालनम् एतत्प्रयुक्तरामशलग्रह इत्यर्थः । सूचीमुखाख्ये नरके निपतति । सूचीमुखं विशिनष्टि यत्र हेति । तं वित्तग्रहं धनपिशाचमत एव पापपुरुषाकृतिं पापं धर्मराजस्य यमस्य पुरुषाः तन्तुवायका इव सूत्रयुक्तसूच्या वस्त्रादिवेधकारिण इव सर्वेषु अङ्गेषु सूत्रैः परिवयन्ति सूत्रप्रोतान् तस्यावयवान् कुर्वन्तीत्यर्थः । नरकावयवार्थः स्पष्ट एव ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
एवंविधा नरका यमालये सन्ति शतशः सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति॥
मूलम्
एवंविधा नरका यमालये सन्ति 43शतशः सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति॥ ३७ ॥
अनुवाद (हिन्दी)
राजन्! यमलोकमें इसी प्रकारके सैंकड़ों-हजारों नरक हैं। उनमें जिनका यहाँ उल्लेख हुआ है और जिनके विषयमें कुछ नहीं कहा गया, उन सभीमें सब अधर्मपरायण जीव अपने कर्मोंके अनुसार बारी-बारीसे जाते हैं। इसी प्रकार धर्मात्मा पुरुष स्वर्गादिमें जाते हैं। इस प्रकार नरक और स्वर्गके भोगसे जब इनके अधिकांश पाप और पुण्य क्षीण हो जाते हैं, तब बाकी बचे हुए पुण्य-पापरूप कर्मोंको लेकर ये फिर इसी लोकमें जन्म लेनेके लिये लौट आते हैं॥ ३७॥
श्लोक-३८
विश्वास-प्रस्तुतिः
निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः। एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत्तद्भगवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममायागुणमयमनुवर्णितमादृतः पठति शृणोति श्रावयति स उपगेयं भगवतः परमात्मनोऽग्राह्यमपि श्रद्धाभक्तिविशुद्धबुद्धिर्वेद॥
मूलम्
निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः । एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत्तद्भगवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममायागुणम44यमनुवर्णितमादृतः पठति शृणोति श्रावयति स उपगेयं भगवतः परमात्मनोऽग्राह्यमपि श्रद्धाभक्तिविशुद्धबुद्धिर्वेद॥ ३८ ॥
अनुवाद (हिन्दी)
इन धर्म और अधर्म दोनोंसे विलक्षण जो निवृत्तिमार्ग है, उसका तो पहले (द्वितीय स्कन्धमें) ही वर्णन हो चुका है। पुराणोंमें जिसका चौदह भुवनके रूपमें वर्णन किया गया है, वह ब्रह्माण्डकोश इतना ही है। यह साक्षात् परम पुरुष श्रीनारायणका अपनी मायाके गुणोंसे युक्त अत्यन्त स्थूल स्वरूप है। इसका वर्णन मैंने तुम्हें सुना दिया। परमात्मा भगवान्का उपनिषदोंमें वर्णित निर्गुणस्वरूप यद्यपि मन-बुद्धिकी पहुँचके बाहर है तो भी जो पुरुष इस स्थूलरूपका वर्णन आदरपूर्वक पढ़ता, सुनता या सुनाता है, उसकी बुद्धि श्रद्धा और भक्तिके कारण शुद्ध हो जाती है और वह उस सूक्ष्मरूपका भी अनुभव कर सकता है॥ ३८॥
वीरराघवः
इदं नरकवर्णनं पापवर्णनं च दिङ्मात्रमित्याह । एवम्विधा उक्तविधा नरकाश्च शतशः सहस्रशो यमालये सन्ति तेषु नरकेषु सर्वं एवाधर्मवर्त्तिनो अत्रानुक्तबहुविधाधर्मपरा ये चेहोदिता उक्ता अधर्मवर्त्तिनः उक्तेषु नरकेषु निपतेयुस्तेऽपि पर्यायेण, तथैव विशन्ति यथोक्तेषु नरकेषु विशन्ति तथा तेष्वपि विशन्तीत्यर्थः । यद्वा तथेत्युत्तरान्वयी यथाधर्म्मानुवर्त्तिनो नरकेषु विशन्त्येवं धर्मानुवर्त्तिनः स्वर्गादौ विशन्तीत्याह तथैवेति । इतरत्र स्वर्गादौ इह लोके विशन्तीत्यत्राह इह त्विति । पुनर्भवे पुनः पुनः भवो जन्म यस्मिंस्तस्मिन्निह मर्त्यलोकादौ उभयशेषाभ्यां धर्माधर्मशेषाभ्यां भुक्तावशिष्टाभ्यामित्यर्थः विशन्ति जायन्त इत्यर्थः । एवं प्रवृत्तिधर्मवर्त्तिनां मार्गः कथितः । अथ निवृत्तिधर्मवर्त्तिनः क्व विशन्तीत्यत्राह । निवृत्तिलक्षणमार्ग इति । निवृत्तिधर्मप्राप्ते मार्गः आदावेव द्वितीयस्कन्ध एव “वैश्वानरं याति विहायसा गतः सुषुम्णया ब्रह्मपथेन” इत्यारभ्य कथित इत्यर्थः । एवं नरकेष्वाण्डकोशान्तर्भूतत्वेनैवोपवर्णितेषु सत्सु तर्हि महर्जनादिभुवनानि क्व सन्तीति राज्ञः प्रश्नोद्योगमन्वीक्ष्याह एतावानिति । अण्डकोश एतावानेवोक्तविधस्त्रिलोक्यात्मक एवेत्यर्थः । तर्हि चतुर्द्दशभुवनात्मकः त्रिलोक्यां व्यवहारः कथमिति शङ्कां निराकुर्वन्नण्डकोशं विशिनष्टि य इति । योऽण्डकोशः त्रिलोक्यात्मकः पुराणेषु चतुर्दशधा चतुर्दशभुवनात्मकत्वेन विकल्पितः विभेदितः उद्गीयते अतलादीनि भुवनानि भूलोके महरादीनि दिवो मण्डलेऽन्तर्भाव्यान्तरिक्षमण्डलेन सह त्रिलोक्यात्मकाण्डकोशोऽत्रानुवर्णितः अवान्तरभिदामाश्रित्य पुराणान्तरेषु चतुर्दशधोपवर्ण्यत इत्यर्थः । एतदण्डकोशवर्णनश्रवणपठनादिफलमनुवर्णयति य एतदिति । महापुरुषस्य भगवतो नारायणस्य यत्स्थविष्ठं स्थूलतमं रूपमात्ममायागुणमयं प्रकृतिगुणप्रचुरमनुवर्णितं तदादृतो यः तद्वर्णनरूपमिमं प्रबन्धमादरणपूर्वकं यः पठति यश्च शृणोति श्रावयति वा सोऽयमेव परमात्मन उपगेयमुपनिषद्गम्यमणिष्ठं सूक्ष्मं सर्वत्र व्यापनस्वभावं दिव्यमङ्गलविग्रहविशिष्टं दिव्यात्मस्वरूपमपि श्रद्धाभक्तिभ्यां विशुद्धा बुद्धिर्यस्य तथाभूतः सन् वेद स्थूलरूपज्ञानं सूक्ष्मरूपज्ञानफलकमिति स्थूलरूपज्ञानसम्पादकमेतत्प्रबन्धपठनादिकं परम्परया सूक्ष्मरूपविषयकज्ञानफलकमित्यर्थः ॥ ३७-३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः।
स्थूले निर्जितमात्मानं शनैः सूक्ष्मं धिया नयेदिति॥
मूलम्
श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः।
स्थूले निर्जितमात्मानं शनैः सूक्ष्मं धिया नयेदिति॥ ३९ ॥
अनुवाद (हिन्दी)
यतिको चाहिये कि भगवान्के स्थूल और सूक्ष्म दोनों प्रकारके रूपोंका श्रवण करके पहले स्थूलरूपमें चित्तको स्थिर करे, फिर धीरे-धीरे वहाँसे हटाकर उसे सूक्ष्ममें लगा दे॥ ३९॥
वीरराघवः
स्थूलरूपज्ञानस्य सूक्ष्मरूपज्ञानसाधनत्वमेवाह श्रुत्वेति । भगवतः स्थूलसूक्ष्मे उभे अपि रूपे यथावत् श्रुत्वा गुरुमुखात्पूर्वं स्थूलरूपे निर्जितमात्मानं चित्तं शनैः सूक्ष्मधिया उक्तविधदिव्यात्मस्वरूपविषयकज्ञानात्मधिया उक्तविधदिव्यात्मस्वरूपं नयेदित्यर्थः । एवं सति प्रपञ्चस्यापि भगवद्रूपत्वेनानुसंहितत्वात्कचिदपि व्याप्रियमाणं चित्तं भगवत्येव विशेष्यभूते व्यवस्थितं भवति इति तत्साधनत्वमिति भावः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
भूद्वीपवर्षसरिदद्रिनभःसमुद्र-
पातालदिङ्नरकभागणलोकसंस्था।
गीता मया तव नृपाद्भुतमीश्वरस्य
स्थूलं वपुः सकलजीवनिकायधाम॥
मूलम्
भूद्वीपवर्षसरिदद्रिनभःसमुद्रपातालदिङ्नरकभागणलोकसंस्था।
गीता मया तव नृपाद्भुतमीश्वरस्य स्थूलं वपुः सकलजीवनिकायधाम॥ ४० ॥
अनुवाद (हिन्दी)
परीक्षित्! मैंने तुमसे पृथ्वी, उसके अन्तर्गत द्वीप, वर्ष, नदी, पर्वत, आकाश, समुद्र, पाताल, दिशा, नरक, ज्योतिर्गण और लोकोंकी स्थितिका वर्णन किया। यही भगवान्का अति अद्भुत स्थूलरूप है, जो समस्त जीवसमुदायका आश्रय है॥ ४०॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां पञ्चमस्कन्धे नरकानुवर्णनं नाम षड्विंशोऽध्यायः॥ २६ ॥ ॥ इति पञ्चमः स्कन्धः समाप्तः॥ ॥ हरिः ॐ तत्सत्॥
वीरराघवः
किं तद्भगवतः स्थूलरूपं यद्ध्येयत्वेनोच्यते इत्यपेक्षायां तद्वदन्नुक्तमुपसंहरति भूद्वीपेति । भुवः तदवान्तरभेदानां द्वीपवर्षाणां भूमिष्ठानां सरितां नदीनामद्रीणां तथा नभसोऽन्तरिक्षस्य समुद्राणां पातालपर्यन्तानां भूविवराणां दिशां नरकाणां भागणलोकस्य नक्षत्रगणलोकस्य ध्रुवमण्डलस्य च-भशब्दस्य दीर्घ आर्षः-संस्था विन्यासविशेषाः हे नृप ! मया तव तुभ्यं गीताः कथिताः । एतदेव भ्वादिभगणलोकपर्यन्तं जगत्सकलजीवसमूहस्य धाम्न आश्रयभूतस्य भगवतः अद्भुतं विचित्रं स्थूलं वपुः शरीरं भवतीत्यर्थः ॥ ४० ॥
इति श्रीवत्सान्वयपयःपारावारराकासुधाकरस्य सर्वविद्यानिधेः श्रीशैलगुरोः सुतेन तच्चरणकमलपरिचर्याप्रसन्नतत्सूक्तिसमधिगतश्रीमद्भागवतार्थहृदयेन श्रीवैष्णवदासेन श्रीवीरराघवविदुषा कृतायां श्रीमद्भागवतचन्द्रचन्द्रिकाख्यायां श्रीभागवतव्याख्यायां पञ्चमस्कन्धे षडविंशोऽध्यायः ॥ २६ ॥ श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः ॥ समाप्तेयं पञ्चमस्कन्धव्याख्या ॥ ५ ॥
-
प्राचीने पाठे ‘ऋषिरुवाच’ पाठो न । ↩︎
-
कर्तृश्रद्धायाः । ↩︎
-
कर्तृश्रद्धायाः । ↩︎
-
विद्याकामानां । ↩︎
-
शूकोऽवटनिरोधनं पर्यावर्त्तनं । ↩︎
-
वञ्चित्वा । ↩︎
-
यथा हि वनस्पति । ↩︎
-
तद्शुभे रौखे । ↩︎
-
ये वेह तथैवामुना । ↩︎
-
यातनायतनमुपगतास्त । ↩︎
-
सर्पवदतिक्रूरसत्त्व । ↩︎
-
क्रव्यादा रुरवस्तं । ↩︎
-
मये खले । ↩︎
-
शेतेऽवतिष्ठति । ↩︎
-
यस्तु ह वै । ↩︎
-
पाषण्डानुगमनं । ↩︎
-
मीश्वरकल्पित । ↩︎
-
सङ्गेऽसंविभज्य । ↩︎
-
शतयोजने । ↩︎
-
ण्डे कृमिभिरेव भक्ष्यमाणः । ↩︎
-
अश्ममयैरग्नि । ↩︎
-
दपि गच्छति । ↩︎
-
ताडयेत्तिग्मया । ↩︎
-
पुरुषमूर्त्या । ↩︎
-
धर्मसेतुं । ↩︎
-
अधेन कर्मविपाकमनुस्मरन्त उपतप्यन्ते विण्मूत्र…..वाहिन्याम् । ↩︎
-
आपाययन्ति । ↩︎
-
परेतान् । ↩︎
-
ये स्विह वा अनृतं वदन्ति साक्ष्ये द्रव्यविनिमये वा कथञ्चित् । ↩︎
-
चीमयेऽधरिश । ↩︎
-
यत्तजलमिव । ↩︎
-
पुमानतस्तेषां निरयं । ↩︎
-
यस्त्विहात्मसंभावनेन । ↩︎
-
स्वस्त्रियो नृपशून् । ↩︎
-
इह । ↩︎
-
दार्य्यासृक् । ↩︎
-
उपश्लिष्य । ↩︎
-
वक्रतुण्डा । ↩︎
-
सर्वतः शङ्की व्ययनाशचिन्तया । ↩︎
-
मतिरक्षति । ↩︎
-
रक्षणसमलग्रहः । ↩︎
-
ग्रहणं । ↩︎
-
शतसहस्रशः । ↩︎
-
णमनुवर्णित । ↩︎