भागसूचना
श्रीसङ्कर्षणदेवका विवरण और स्तुति
श्लोक-१
विश्वास-प्रस्तुतिः
श्रीशुक उवाच
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृदृश्ययो: सङ्कर्षणमहमित्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते॥
मूलम्
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति सात्वतीया द्र1ष्टृदृश्ययोः सङ्कर्षणमहमित्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—राजन्! पाताललोकके नीचे तीस हजार योजनकी दूरीपर अनन्त नामसे विख्यात भगवान्की तामसी नित्य कला है। यह अहंकाररूपा होनेसे द्रष्टा और दृश्यको खींचकर एक कर देती है, इसलिये पांचरात्र आगमके अनुयायी भक्तजन इसे ‘संकर्षण’ कहते हैं॥ १॥
वीरराघवः
एवं पातालान्तान् भूविवराननुवर्ण्याथ पातालपर्यन्तस्य भूमण्डलस्य धारकं रसाया मूले स्थितमनन्तमनुवर्णयति पञ्चविंशेन । तस्य पातालस्य मूलदेशेऽधस्तात्त्रिंशद्योजनसहस्रान्तरे आस्ते का सा या चास्ते तत्राह या वा इति । अनन्त इति समाख्याता प्रसिद्धानन्तसंज्ञिकेत्यर्थः । तामसी तामसाहङ्काराधिष्ठात्री या भगवतः कला अंशरूपा सा इत्यर्थः । सैव सङ्कर्षण इत्युच्यते तदाह प्रमातार इति । सात्त्वतीयाः सङ्कर्षणप्रोक्तसात्त्वताख्यपञ्चरात्रनिष्ठाः प्रमातार उक्तभगवत्कलायाथात्म्यविदस्तमनन्तं सङ्कर्षण इत्याचक्षते । किमिदं सङ्कर्षणनामाश्वकर्णादिवत्केवलरूढं किम्वा पङ्कजादिवद्योगरूढमित्यपेक्षायां योगरूढमित्याह द्रष्टृदृश्ययोरिति । यतोऽयमनन्तः द्रष्टृदृश्ययोर्ज्ञातृज्ञेययोः सन्निकर्षणं सन्निकृष्यते विषयीक्रियतेऽतीन्द्रियार्थोऽनेनेति सन्निकर्षणमतीन्द्रियार्थविषयकज्ञानसाधनं स्वयं यथातीन्द्रियार्थविषयकज्ञानवानेवमितरेषामप्यतीन्द्रियार्थविषयकज्ञानापादक इत्यर्थः । यत एवमनन्तस्ततस्तं सङ्कर्षण इत्याचक्षते । सङ्कर्षणत्वमेव स्पष्टयति अहमित्यभिमानलक्षण इति । अहमिति प्रतीयमानोऽतीन्द्रियो यो जीवस्तद्विषयकोऽभिमानः अहमिति प्रतीतिस्तस्य लक्ष्यतेऽनेनेति लक्षणं कारणं हेतुरिति यावज्जीववर्गाभिमानिदेवतात्वात्तेषामहमिति बुद्धिवृत्तिहेतुरित्यर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्ते: सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते॥
मूलम्
य2स्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्तेः सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते॥ २ ॥
अनुवाद (हिन्दी)
इन भगवान् अनन्तके एक हजार मस्तक हैं। उनमेंसे एकपर रखा हुआ यह सारा भूमण्डल सरसोंके दानेके समान दिखायी देता है॥ २॥
वीरराघवः
एवमनन्तशब्दोऽपि तस्मिन् योगरूढ इत्याह यस्येति । यच्छब्दानां स एव भगवाननन्त इत्युत्तरेणान्वयः । यस्य भगवतः सहस्रशिरसः अनन्तमूर्त्तेरेकस्मिन्नेव शीर्षणि ध्रियमाणं धार्य्यमाणमिदं कृत्स्नभूमण्डलं सिद्धार्थ इव श्वेतसर्षप इव लक्ष्यते दृश्यतेऽतोऽपरिच्छिन्नत्वादनन्त इत्युच्यत इति भावः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
यस्य ह वा इदं कालेनोपसंजिहीर्षतोऽमर्षविरचितरुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत्॥
मूलम्
यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्षविरचितरुचिरभ्रमद्भ्रुवोरन्तरेण सा3ङ्कर्षणो नाम रुद्र एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत्॥ ३ ॥
अनुवाद (हिन्दी)
प्रलयकाल उपस्थित होनेपर जब इन्हें इस विश्वका उपसंहार करनेकी इच्छा होती है, तब इनकी क्रोधवश घूमती हुई मनोहर भ्रुकुटियोंके मध्यभागसे संकर्षण नामक रुद्र प्रकट होते हैं। उनकी व्यूहसंख्या ग्यारह है। वे सभी तीन नेत्रोंवाले होते हैं और हाथमें तीन नोकोंवाले शूल लिये रहते हैं॥ ३॥
वीरराघवः
यदुक्तं तामसीति तामसाहङ्काराधिष्ठातृत्वं तद्विशदयति यस्य ह वेति । कालेन द्विपरार्द्धावसानरूपकालेनेदं कृत्स्नं जगत् संजिहीर्षतः संहर्तुमिच्छतः यस्य सङ्कर्षणस्यामर्षेण क्रोधेन विरचिते कुटिलीकृते रुचिरे भ्रमन्त्यौ भ्रुवौ तयोरन्तरेण मध्ये साङ्कर्षणाख्यः एकादशानां व्यूहः गणः एकादशरुद्रसमुदायरूपः कथम्भूतस्त्र्यक्षः त्रीण्यक्षीणि यस्य स त्र्यक्षः तिस्रः शिखा यस्य तादृशं शूलमुत्तम्भयन्नूर्ध्वं धारयन्नुदतिष्ठद्बभूव । तामसाहङ्काराधिष्ठातृत्वाज्जगत्संहर्तृतामसरुद्रगणोत्पादक इत्यर्थः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
यस्याङ्घ्रिकमलयुगलारुणविशदनखमणिषण्डमण्डलेष्वहिपतय: सह सात्वतर्षभैरेकान्तभक्तियोगेनावनमन्त: स्ववदनानि परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनस: खलु विलोकयन्ति॥
मूलम्
यस्याङ्घ्रिकमलयुगलारुणविशदनखमणिषण्डम4ण्डलेष्वहिपतयः सह सात्त्वतर्षभैरेकान्तभक्तियोगेनावन5मन्तः स्ववदनानि परिस्फु6रत्कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनसः खलु विलोकयन्ति॥ ४ ॥
अनुवाद (हिन्दी)
भगवान् संकर्षणके चरणकमलोंके गोल-गोल स्वच्छ और अरुणवर्ण नख मणियोंकी पंक्तिके समान देदीप्यमान हैं। जब अन्य प्रधान-प्रधान भक्तोंके सहित अनेकों नागराज अनन्य भक्तिभावसे उन्हें प्रणाम करते हैं, तब उन्हें उन नखमणियोंमें अपने कुण्डलकान्तिमण्डित कमनीय कपोलोंवाले मनोहर मुखारविन्दोंकी मनमोहिनी झाँकी होती है और उनका मन आनन्दसे भर जाता है॥ ४॥
वीरराघवः
सुभगत्वमाह यस्येति । अहीनां पतयः सात्त्वतश्रेष्ठैः सह यस्य सङ्कर्षणस्यांघ्रिकमलयुगलेऽरुणा विशदा नखा एव मणयस्तेषां षण्डस्तस्य मण्डलेषु एकान्तभक्तियोगेनाव्यभिचरितभक्तियोगेनावनमन्तः प्रणमन्तः उक्तविधेषु नखमणिमण्डलेषु प्रतिबिम्बितानि अतिमनोहराणि परितः स्फुरतां कुण्डलानां प्रभया मण्डितानि गण्डस्थलानि येषु तानि स्ववदनानि प्रमुदितं मनो येषां तादृशाः सन्तः मुखं विलोकयन्ति खलु नूनम् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
यस्यैव हि नागराजकुमार्य आशिष आशासानाश्चार्वङ्गवलयविलसितविशदविपुलधवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनोन्मथित हृदयमकरध्वजावेशरुचिरललितस्मितास्तदनुरागमदमुदितमदविघूर्णितारुणकरुणावलोकनयनवदनारविन्दं सव्रीडं किल विलोकयन्ति॥
मूलम्
यस्यैव हि नागराजकुमार्य आशिष आशासानाश्चार्वङ्गवलयविलसितविशदविपुलधवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानुलेपेना7वलिम्पमानास्तदभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरललितस्मितास्तदनुरागमदमुदितमदविघूर्णितारुणकरुणावलोकनयनवदनारविन्दं सव्रीडं किल विलोकयन्ति॥ ५ ॥
अनुवाद (हिन्दी)
अनेकों नागराजोंकी कन्याएँ विविध कामनाओंसे उनके अंगमण्डलपर चाँदीके खम्भोंके समान सुशोभित उनकी वलयविलसित लंबी-लंबी श्वेतवर्ण सुन्दर भुजाओंपर अरगजा, चन्दन और कुंकुमपंकका लेप करती हैं। उस समय अंगस्पर्शसे मथित हुए उनके हृदयमें कामका संचार हो जाता है। तब वे उनके मदविह्वल सकरुण अरुण नयनकमलोंसे सुशोभित तथा प्रेममदसे मुदित मुखारविन्दकी ओर मधुर मनोहर मुसकानके साथ सलज्जभावसे निहारने लगती हैं॥ ५॥
वीरराघवः
तथा नागराजानां कुमार्यः आशिषः पुरुषार्थानाशासानाः कामयमानाः यस्य सङ्कर्षणस्य चारुभिः सुन्दरैरङ्गदैर्वलयैश्च विलसिताः प्रकाशिताश्च ते विशदा निर्मलाश्च विपुला दीर्घाः सुभगाः कोमलाश्च रुचिराः सुन्दराश्र भुजास्त एव रजतस्तम्भास्तेष्वगरुकुङ्कुमचन्दनानां पङ्कश्चानुलेपस्तेनावलिम्पमाना लेपनं कुर्वाणास्तेषां भुजानामभिमर्शेन स्पर्शेन उन्मथिते हृदये मकरध्वजस्य कामस्यावेशेन रुचिरं च ललितं च यत्स्मितं तद्यासां तथाभूताः सत्यः तस्य सङ्कर्षणस्यानुरागमदमुदितमदविघूर्णितारुणकरुणावलोकनयनवदनारविन्दं सव्रीडं यथा तथा विलोकयन्ति । स्वाश्रितेषु मदेन स्वानुभवजनितेन च मुदिते तन्मदेन विघूर्णिते प्रचलिते च ईषदरुणे करुणावलोकनयने यस्मिन् तद्वदनारविन्दमिति तस्यार्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते॥
मूलम्
स8 एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते॥ ६ ॥
अनुवाद (हिन्दी)
वे अनन्त गुणोंके सागर आदिदेव भगवान् अनन्त अपने अमर्ष (असहनशीलता) और रोषके वेगको रोके हुए वहाँ समस्त लोकोंके कल्याणके लिये विराजमान हैं॥ ६॥
वीरराघवः
स उक्तविध एष सङ्कर्षणाख्योऽनन्तस्त्रिविधपरिच्छेदरहितः अनन्तकल्याणगुणार्णवः जगत्कारणभूतो देवः स्वतेजसा दीप्यमानः उपसंहृतः अमर्षरोषयोर्जगत्संहारविषययोरसहनक्रोधयोर्वेगो येन तथाभूतः लोकानां साधुजनानां स्वस्तये सुखायास्ते तिष्ठतीत्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
ध्यायमान: सुरासुरोरगसिद्धगन्धर्वविद्याधरमुनिगणैरनवरतमदमुदितविकृतविह्वललोचन: सुललितमुखरिकामृतेनाप्यायमान: स्वपार्षदविबुधयूथपतीनपरिम्लानरागनवतुलसिकामोदमध्वासवेन माद्यन्मधुकरव्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति॥
मूलम्
ध्यायमानः सुरासुरोरगसिद्धगन्धर्वविद्याधरमुनिगणैरनवरतमदमुदितविकृतविह्वललोचनः सुललितमु9खरिकामृतेनाप्यायमानः स्वपार्षदविबुधयू10थपतीनपरिम्लानरागन11वतुलसिकामोदमध्वासवेन माद्यन्मधुकरव्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति॥ ७ ॥
अनुवाद (हिन्दी)
देवता, असुर, नाग, सिद्ध, गन्धर्व, विद्याधर और मुनिगण भगवान् अनन्तका ध्यान किया करते हैं। उनके नेत्र निरन्तर प्रेममदसे मुदित, चंचल और विह्वल रहते हैं। वे सुललित वचनामृतसे अपने पार्षद और देवयूथपोंको सन्तुष्ट करते रहते हैं। उनके अंगपर नीलाम्बर और कानोंमें केवल एक कुण्डल जगमगाता रहता है तथा उनका सुभग और सुन्दर हाथ हलकी मूठपर रखा रहता है। वे उदार लीलामय भगवान् संकर्षण गलेमें वैजयन्ती माला धारण किये रहते हैं, जो साक्षात् इन्द्रके हाथी ऐरावतके गलेमें पड़ी हुई सुवर्णकी शृंखलाके समान जान पड़ती है। जिसकी कान्ति कभी फीकी नहीं पड़ती, ऐसी नवीन तुलसीकी गन्ध और मधुर मकरन्दसे उन्मत्त हुए भौंरे निरन्तर मधुर गुंजार करके उसकी शोभा बढ़ाते रहते हैं॥ ७॥
वीरराघवः
पुनः कथम्भूतः सुरादीनां गणैर्ध्यायमानः अनवरतं मदेन स्वानुभवजनितमदेन मुदितः स चासौ विकृतविह्वललोचनः विकृते घूर्णिते विह्वले परवशे इव स्थिते लोचने यस्य सः सुललितेन सुन्दरेण भावगर्भेण स्मितेन मुखरिकामृतेन वचनामृतेन स्वपार्षदान् स्वविबुधयूथानां पतींश्चाप्यायमानः हर्षयन् अपरिम्लानः अक्षीणः रागो रक्तिमा यस्यास्तस्या नवतुलसिकाया नूतनकृष्णतुलस्या आमोदः मधुरूपः आसवश्च तयोः समाहारस्तेन माद्यतां मधुकराणां व्रातास्तेषां मधुरगीतेन श्रीर्यस्यास्तां स्वामसाधारणी वैजयन्त्याख्यां वनमालां दधदिति शेषः । बिभर्तीत्यनेन वान्वयः । नीले वाससी यस्य एकमेव कुण्डलं यस्य हलस्य ककुदि पृष्ठे कृतो न्यस्तः सुभगः सुकुमारश्च सुन्दरो भुजो येन एवम्भूतो भगवान् सङ्कर्षणः माहेन्द्रः महेन्द्रसम्बन्धी वारणेन्द्र इव ऐरावत इव शुभ्रः उदारा लीला यस्य सः काञ्चनीं स्वर्णमयीं कक्षां रसनां बिभर्ति । कक्षे भवा कक्षा वरत्राख्या चर्ममयी वध्रिका “नध्री वध्री वरत्रा स्यात्” इत्यमरकोशोक्ता तामध्यस्य जान्वोश्चावष्टम्भार्थं योगपट्टिकाख्यां स्वर्णमयीं बिभर्ति इत्यर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारद: सह तुम्बुरुणा सभायां ब्रह्मण: संश्लोकयामास॥
मूलम्
य एष एव12नुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालक13र्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभा14वान् भगवान् स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास॥ ८ ॥
अनुवाद (हिन्दी)
परीक्षित्! इस प्रकार भगवान् अनन्त माहात्म्य-श्रवण और ध्यान करनेसे मुमुक्षुओंके हृदयमें आविर्भूत होकर उनकी अनादिकालीन कर्मवासनाओंसे ग्रथित सत्त्व, रज और तमोगुणात्मक अविद्यामयी हृदयग्रन्थिको तत्काल काट डालते हैं। उनके गुणोंका एक बार ब्रह्माजीके पुत्र भगवान् नारदने तुम्बुरु गन्धर्वके साथ ब्रह्माजीकी सभामें इस प्रकार गान किया था॥ ८॥
वीरराघवः
एवं सङ्कर्षण उपवर्णित इदानीमुक्तविध उपास्यमान उपासकानामन्तर्हृदयं गतः प्रकृतिसम्बन्धं निरस्यतीत्याह य एष इति । एष भगवाननन्तः एवमनुश्रुतः उक्तविधत्वेन गुरुमुखाच्छुतः अभिध्यायमानः “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति श्रुत्यर्थोऽत्र प्रत्यभिज्ञातः । अतः सामर्थ्याच्छ्रवणानन्तरम्मत इति लभ्यते मुमुक्षूणां संसारादात्मानं मोक्तुमिच्छतामनादिकालप्रवृत्ताभिः कर्मवासनाभिर्ग्रथितं सन्दर्भितमविद्यामयं देहात्मभ्रान्तिस्वतन्त्रात्मभ्रान्तिरूपाज्ञानमयं ग्रन्थिं ग्रन्थिवद् दुर्मोच्यं सत्त्वरजस्तमोमयं सत्त्वादिगुणप्रचुरं गुणत्रयसम्बन्धप्रयुक्तानादिकालप्रवृत्तकर्मवासनाविद्याग्रन्थिरूपं संसारमित्यर्थः । ध्यानेन मुमुक्षूणामन्तर्हृदये सन्निहितः आशु भिनत्ति नितरां निरस्यतीत्यर्थः, तस्य भगवतः सङ्कर्षणस्येममुक्तमनुभावं प्रभावं तुम्बुरुणा सह स्वयम्भुवः पुत्रो नारदो ब्रह्मणश्चतुर्मुखस्य सभायां संश्लोकयामास वर्णयामास ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
उत्पत्तिस्थितिलयहेतवोऽस्य कल्पा:
सत्त्वाद्या: प्रकृतिगुणा यदीक्षयाऽऽसन्।
यद्रूपं ध्रुवमकृतं यदेकमात्मन्
नानाधात्कथमु ह वेद तस्य वर्त्म॥
मूलम्
उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन्।
यद्रूपं ध्रुवमकृतं यदेकमात्मन् नानाधात्कथमु ह वेद तस्य वर्त्म॥ ९ ॥
अनुवाद (हिन्दी)
जिनकी दृष्टि पड़नेसे ही जगत्की उत्पत्ति, स्थिति और प्रलयके हेतुभूत सत्त्वादि प्राकृत गुण अपने-अपने कार्यमें समर्थ होते हैं, जिनका स्वरूप ध्रुव (अनन्त) और अकृत (अनादि) है तथा जो अकेले होते हुए ही इस नानात्मक प्रपंचको अपनेमें धारण किये हुए हैं—उन भगवान् संकर्षणके तत्त्वको कोई कैसे जान सकता है॥ ९॥
वीरराघवः
प्रथमं तद्वर्णने स्वस्यानधिकारद्योतनाय तत्स्वरूपस्य दुर्ज्ञेयत्वमभिप्रयन्कारणत्वेन तमुपलक्षयति उत्पत्तीति । अस्य जगतः उत्पत्त्यादिहेतुभूताः सत्त्वाद्याः प्रकृतिगुणाः सत्त्वरजस्तमोगुणाः क्रमोऽत्राविवक्षितः रजःसत्त्वतमोगुणाः क्रमेण जगदुत्पत्त्यादिहेतुभूता यस्य भगवत ईक्षया सिसृक्षया कल्पाः सृष्ट्यादिसमर्था आसन् बभूवुः गुणत्रयात्मिका प्रकृतिः स्वयं महदादिकार्यवर्गहेतुभूतापि स्वयमसमर्था सती यस्य सिसृक्षारूपेक्षया सृष्ट्यादिसमर्थाभूदित्यर्थः । अनेन जगन्निमित्तकारणत्वमुक्तम् “तदैक्षत बहु स्याम्” इति श्रौतस्य कर्तृत्वस्यात्र प्रत्यभिज्ञानात् निमित्तकारणत्वं नाम स्वशरीरभूतप्रकृतिपुरुषकालानां स्वकार्याकारेण परिणामोपयुक्तप्रवर्तनाश्रयत्वं यथा कुलालादेः स्वकीयमृत्पिण्डादेर्घटादिरूपपरिणामोपयुक्तप्रवर्तनाश्रयत्वम् । अथोपादानकारणत्वेन लक्षयति यद्रूपमिति । आत्मन्नात्मनि स्वस्मिन्नेवं देवादिनामरूपाद्यभावादविभागेन स्थितं ध्रुवं नित्यम् “प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि” इति गीतोक्तेः कारणावस्थायामेवम्भूतं यद्रूपं प्रकृतिपुरुषात्मकं शरीरं तत्सिसृक्षानन्तरमात्मनि नानाकृतं देवादिनामरूपविभागविभक्तं कृतमधाद् धृतवान् तस्य भगवतः वर्त्म स्वरूपं लोकविलक्षणं कथमुह कथं हि वेद मादृशः इति शेषः । पूर्वमात्मन्यविभागेन स्थितमात्मनि नानाकृतं रूपमधादित्यनेनैकत्वनानात्वे आत्मपर्यन्त इति विज्ञायते । इदमेव हि तस्य उपादानत्वं यत्प्रकृतिपुरुषगतदेवादिविभागस्य स्वशरीरभूतप्रकृतिपुरुषद्वारा आत्मपर्यन्तत्वमिति । यद्वा पूर्वमेकत्वेनात्मनि स्थितं पश्चान्नानाकृतमात्मन्यधादित्यन्वयः । धारणं चात्र अन्तः प्रविश्य प्रशासनेन । इयमेव हि परमात्मनः कारणता कार्यता च यदविभक्तनामरूपप्रकृतिपुरुषनियमनं विभक्तनामरूपावस्थप्रकृतिपुरुषनियमनं चेति ज्ञातव्यम् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
मूर्तिं न: पुरुकृपया बभार सत्त्वं
संशुद्धं सदसदिदं विभाति यत्र।
यल्लीलां मृगपतिराददेऽनवद्या-
मादातुं स्वजनमनांस्युदारवीर्य:॥
मूलम्
मूर्तिं नः पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं विभाति यत्र।
यल्लीलां मृगपतिराददेऽनवद्यामादातुं स्वजनमनांस्युदारवीर्यः॥ १० ॥
अनुवाद (हिन्दी)
जिनमें यह कार्य-कारणरूप सारा प्रपंच भास रहा है तथा अपने निजजनोंका चित्त आकर्षित करनेके लिये की हुई जिनकी वीरतापूर्ण लीलाको परम पराक्रमी सिंहने आदर्श मानकर अपनाया है, उन उदारवीर्य संकर्षण भगवान्ने हमपर बड़ी कृपा करके यह विशुद्ध सत्त्वमय स्वरूप धारण किया है॥ १०॥
वीरराघवः
यद्यप्येवं दुर्ज्ञेयं स्वरूपं तथापि भक्तानुजिघृक्षयैवं साङ्कर्षणं रूपं कृतवानिति कतिपयधर्मैर्वर्णयितुं शक्य इत्याह मूर्त्तिमिति । यत्र यस्मिन् भगवतीदं परिदृश्यमानं सदसश्चिदचिदात्मकं जगद्विभाति स भगवान्नोऽस्माकं कृपयास्मासु कृपयेत्यर्थः । संशुद्धं रजस्तमोभ्याममिश्रितं यच्छुद्धं सत्त्वं तन्मूर्त्तिं बभार दिव्यमङ्गलविग्रहरूपेण धृतवानित्यर्थः । भक्तानां नोऽनुग्रहायैव निरतिशयकृपया मूर्त्तिमिमां बभारेति भावः । कथमेवं ज्ञायत इत्यत आह यदिति । यद्यस्मान्मृगपतिः सिंह इवोदारवीर्यः । यद्वा मृग्यन्तेऽन्विष्यन्त इति मृगा ब्रह्मादयो देवास्तेषामपि पतिः “तं देवतानां परमं च दैवतं पतिं पतीनां परमं परस्तात्” इति श्रुतेः ब्रह्मादीनामप्यन्वेषणीय इति भावः । अनेन परत्वं सूच्यते, उदारवीर्यः जगत्कर्तृत्वादिसामर्थ्ययुक्त एवम्भूतोऽपि स्वजनानामस्माकं मनांस्यादातुं ग्रहीतुं स्ववशीकर्तुमिति यावत् अनवद्यामकर्मनिर्मितां लीलामहिपतिः सात्त्वतर्षभः नागराजकुमार्यादिसुखाराध्यः सात्त्वततन्त्रं प्रणयन् भूमण्डलभरणादिरूपां लीलामाददे परिगृहीतवान् । सात्त्वततन्त्रप्रणेतृत्वं महाभारते उक्तम् “सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः । अस्मान् प्रवक्ष्यते धर्मान् मनुः स्वायम्भुवस्तथा ॥” इति । लीलामादद इत्यनेन सौलभ्यं सूच्यते, अनेनैव तद्वर्णने मादृशानामधिकार इति तात्पर्यम् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
यन्नाम श्रुतमनुकीर्तयेदकस्मा-
दार्तो वा यदि पतित: प्रलम्भनाद्वा।
हन्त्यंह: सपदि नृणामशेषमन्यं
कं शेषाद्भगवत आश्रयेन्मुमुक्षु:॥
मूलम्
यन्नाम श्रुतमनुकीर्तयेदकस्मादार्तो वा यदि पतितः प्रलम्भनाद्वा।
हन्त्यंहः सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेन्मुमुक्षुः॥ ११ ॥
अनुवाद (हिन्दी)
जिनके सुने-सुनाये नामका कोई पीड़ित अथवा पतित पुरुष अकस्मात् अथवा हँसीमें भी उच्चारण कर लेता है तो वह पुरुष दूसरे मनुष्योंके भी सारे पापोंको तत्काल नष्ट कर देता है—ऐसे शेषभगवान्को छोड़कर मुमुक्षु पुरुष और किसका आश्रय ले सकता है?॥ ११॥
वीरराघवः
एवं परत्वसौलभ्ययोगः समाश्रयणीयताहेतुरुक्तः, अथ नामप्रभावपर्यालोचनयापि स एव समाश्रयणीय इत्याह यन्नामेति । आर्त्तः रोगादिपीडितः महापातक्यपि यस्य भगवतोऽनन्तस्य नाम यद्यनुकीर्तयेदकस्माद्वा प्रलम्भनाद्वा परिहासाद्वा यस्य नाम यदि श्रुतं च वा स्यादार्तेन पतितेन वा तर्हि स एव पतितादिः स्वपातित्यादिभिर्विमुक्त इतरेषामपि नृणामात्मानं स्मरतामशेषमंहो दुरितं हन्ति । अतः मुमुक्षोः परम्परयाप्यशेषदुरितनिरसनक्षमनामधेयाच्छेषादन्यं कमाश्रयेदित्यर्थः । शेषयति स्वाश्रितमिति नामनिर्वचनमत्राभिप्रेतम् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो
भूगोलं सगिरिसरित्समुद्रसत्त्वम्।
आनन्त्यादनिमितविक्रमस्य भूम्न:
को वीर्याण्यधिगणयेत्सहस्रजिह्व:॥
मूलम्
मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो भू15गोलं सगिरिसरित्समुद्रसत्त्वम्।
आनन्त्यादनिमितविक्रमस्य भूम्नः को वी16र्याण्यधिगणयेत्सहस्रजिह्वः॥ १२ ॥
अनुवाद (हिन्दी)
यह पर्वत, नदी और समुद्रादिसे पूर्ण सम्पूर्ण भूमण्डल उन सहस्रशीर्षा भगवान्के एक मस्तकपर एक रज:कणके समान रखा हुआ है। वे अनन्त हैं, इसलिये उनके पराक्रमका कोई परिमाण नहीं है। किसीके हजार जीभें हों, तो भी उन सर्वव्यापक भगवान्के पराक्रमोंकी गणना करनेका साहस वह कैसे कर सकता है?॥ १२॥
वीरराघवः
“इषुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात् ॥” इत्युक्तरीत्या अनन्तकल्याणगुणगणराशेरनन्तस्य साकल्येन कल्याणगुणान् वर्णयितुं कः प्रभुरित्याशयेनाह मूर्द्धनीति | गिरिभिः पर्वतैः सहिताः सरितः समुद्राः सत्त्वा जन्तवः यस्मिंस्तद्भूमण्डलं यस्य सहस्रशिरसोऽनन्तस्य मूर्द्धन्यणुवदर्पितं तस्य भूम्नोऽपरिच्छिन्नस्यानन्त्यादेवेतरैरियत्तयाविदितः विक्रमः प्रकारो यस्य तस्यानन्तस्य वीर्याणि कल्याणगुणरूपाणि सहस्रजिह्वोऽपि को वा गणयेदेतावन्तीति गणयेद्गणनां करोतीति भावः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
एवम्प्रभावो भगवाननन्तो
दुरन्तवीर्योरुगुणानुभाव:।
मूले रसाया: स्थित आत्मतन्त्रो
यो लीलया क्ष्मां स्थितये बिभर्ति।
मूलम्
एवम्प्रभावो भगवाननन्तो दुरन्तवी17र्योरुगुणानुभावः।
मूले रसायाः स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये बिभर्ति॥ १३ ॥
अनुवाद (हिन्दी)
वास्तवमें उनके वीर्य, अतिशय गुण और प्रभाव असीम हैं। ऐसे प्रभावशाली भगवान् अनन्त रसातलके मूलमें अपनी ही महिमामें स्थित स्वतन्त्र हैं और सम्पूर्ण लोकोंकी स्थितिके लिये लीलासे ही पृथ्वीको धारण किये हुए हैं॥ १३॥
वीरराघवः
किमिदं भूमण्डलं कर्मवशाद्विभर्त्ति नेत्याह एवमिति । एवंप्रभावः उक्तविधापरिच्छिन्नप्रभावः अत एवानन्तः अनन्तपदं पुष्कलप्रवृत्तिनिमित्ताश्रयं दुरन्तमपारं वीर्यं बलं यस्य उरवो गुणास्तेषामनुभावः प्रभावो यस्य स भगवान् सङ्कर्षण आत्मतन्त्रः स्वतन्त्रः अकर्मवश्य एव सल्ँलीलया स्थितयेऽवस्थानाय पालनायेति यावत् पृथ्वीं बिभर्ति ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिता: कामान् कामयमानै:॥
मूलम्
एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिताः कामान् कामयमानैः॥ १४ ॥
अनुवाद (हिन्दी)
राजन्! भोगोंकी कामनावाले पुरुषोंकी अपने कर्मोंके अनुसार प्राप्त होनेवाली भगवान्की रची हुई ये ही गतियाँ हैं। इन्हें जिस प्रकार मैंने गुरुमुखसे सुना था, उसी प्रकार तुम्हें सुना दिया॥ १४॥
वीरराघवः
उक्तमुपसंहरति एता इति । कामान् कामयमानैर्नृभिरुपगन्तव्याः प्राप्याः तत्तत्कर्मानुसारेणेश्वरेण सृष्टाः गतयः फलरूपा लोका इह ब्रह्माण्डे एता एवैतावत्य एव ताश्च यथोपदेशं सम्प्रदायागतोपदेशमनतिक्रम्यानुवर्णिताः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
एतावतीर्हि राजन् पुंस: प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं व्याचख्ये किमन्यत्कथयाम इति॥
मूलम्
एतावतीर्हि राजन् पुंसः प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं व्याचख्ये किमन्यत्कथयाम इति॥ १५ ॥
अनुवाद (हिन्दी)
मनुष्यको प्रवृत्तिरूप धर्मके परिणाममें प्राप्त होनेवाली जो परस्पर विलक्षण ऊँची-नीची गतियाँ हैं, वे इतनी ही हैं; इन्हें तुम्हारे प्रश्नके अनुसार मैंने सुना दिया। अब बताओ और क्या सुनाऊँ?॥ १५॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भूविवरविध्युपवर्णनं नाम पञ्चविंशोऽध्यायः॥ २५ ॥
वीरराघवः
एवमुक्तमुपसंहृत्य राज्ञः प्रश्नावसरप्रदानाय उक्ता गतयो नृभिर्द्धर्मैः प्राप्या इति पुनरुपसंहरति एता इति । हे राजन् ! पुंसः संसारिणः प्रवृत्तिरूपस्य सकामस्य धर्मस्य विपाकगतयः फलरूपा गतयो नानाविधा विसदृशाः सुखदुःखतारतम्येन व्यवस्थिताः । एतावत्य एव ताश्च यथाप्रश्नं व्याख्याताः वर्णिता मयेति शेषः ॥ १५ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकायां पञ्चविंशोऽध्यायः ॥ २५ ॥
-
द्रष्टृदर्शनयोः सन्निकर्षेण । ↩︎
-
तस्येदं । ↩︎
-
संकर्षणो । ↩︎
-
मण्डलं ह्यधिपतयः । ↩︎
-
नमन्ति स्व । ↩︎
-
परिस्फुरत्प्रभामण्डलीमण्डित । ↩︎
-
न विलिम्पमाना । ↩︎
-
स भगवानन । ↩︎
-
मुखविकारामृतेना । ↩︎
-
यूथपपतीनां परि । ↩︎
-
वनतुलसि । ↩︎
-
मनुश्रुतोऽभिध्याय । ↩︎
-
कर्मणां वा । ↩︎
-
भावमुद्वहन् भग । ↩︎
-
भूगोलकं । ↩︎
-
र्याण्यभिगण । ↩︎
-
वीर्यो गुणानुभावः । ↩︎