२४ राह्वादिस्थितिबिलस्वर्गमर्यादानिरूपणम्

[चतुर्विंशोऽध्यायः]

भागसूचना

राहु आदिकी स्थिती, अतलादि नीचेके लोकोंका वर्णन

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत भगवदनुकम्पया स्वयमसुरापसदः सैंहिकेयो ह्यतदर्हस्तस्य तात जन्म कर्माणि चोपरिष्टाद्वक्ष्यामः॥

मूलम्

अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत भगवदनुकम्पया स्वयमसुरापसदः सैहिकेयो ह्यतदर्हस्तस्य तात जन्म कर्माणि चोपरिष्टाद्वक्ष्यामः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! कुछ लोगोंका कथन है कि सूर्यसे दस हजार योजन नीचे राहु नक्षत्रोंके समान घूमता है। इसने भगवान‍्की कृपासे ही देवत्व और ग्रहत्व प्राप्त किया है, स्वयं यह सिंहिकापुत्र असुराधम होनेके कारण किसी प्रकार इस पदके योग्य नहीं है। इसके जन्म और कर्मोंका हम आगे वर्णन करेंगे॥ १॥

वीरराघवः

एवं सूर्यादारभ्य ध्रुवपर्यन्तं दिवो मण्डलसन्निवेशमनुवर्ण्याथ सूर्यादधस्तात्स्वर्भान्वादिमण्डलमनुवर्णयति अधस्तादित्यादिना । सूर्यस्याधस्ताद्योजनानामयुते स्वर्भानुः राहुर्नक्षत्रवचरतीत्येके वदन्ति तं विशिनष्टि योऽसाविति । योऽसौ स्वर्भानुर्भगवत्कृपयामरत्वं ग्रहत्वं चालभत लेभे केवलभगवत्कृपैव तस्यामरत्वादौ हेतुः, न तु तस्य तद्योग्यतास्तीत्याह । हि यतः सिंहिकायाः पुत्रः राहुरसुराधमः अत एवामरत्वाद्यनर्हः किं तस्य भगवत्कृपाविषयत्वोपपादकमित्याह तस्येति । तस्य राहोर्जन्म कर्माणि च उपरिष्टादष्टमस्कन्धे वक्ष्यामः नाधुनेत्यर्थः । तत्रैव स्फुटीभविष्यतीति नात्रावसर इति भावः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहोर्यः पर्वणि तद्‍व्यवधानकृद्वैरानुबन्धः सूर्याचन्द्रमसावभिधावति॥

मूलम्

यददस्तरणेर्मण्डलं प्रतषतस्तद्विस्तरतो योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहोर्यः पर्वणि तद्‍व्यवधानकृद्वैरानुबन्धः सूर्याचन्द्रमसावभिधावति॥ २ ॥

अनुवाद (हिन्दी)

सूर्यका जो यह अत्यन्त तपता हुआ मण्डल है, उसका विस्तार दस हजार योजन बतलाया जाता है। इसी प्रकार चन्द्रमण्डलका विस्तार बारह हजार योजन है और राहुका तेरह हजार योजन। अमृतपानके समय राहु देवताके वेषमें सूर्य और चन्द्रमाके बीचमें आकर बैठ गया था, उस समय सूर्य और चन्द्रमाने इसका भेद खोल दिया था; उस वैरको याद करके यह अमावास्या और पूर्णिमाके दिन उनपर आक्रमण करता है॥ २॥

वीरराघवः

राहुप्रसङ्गादुपरागस्वरूपं वक्तुमाह यदद इति । प्रतपतस्तरणेः सूर्यस्य यददः यत्तत्प्रसिद्धं मण्डलं तद्विस्तारतो योजनायुतमयुतयोजनविस्तृतमाचक्षते ततः सूर्यमण्डलादुपरितनसोममण्डलं द्वादशसहस्रयोजनविस्तृतं सूर्यमण्डलादधस्ततो राहोर्मण्डलं तु त्रयोदशसहस्रयोजनविस्तृतमतः सूर्यसोममण्डलाभ्यां स्वर्भानोर्मण्डलस्य विस्तृतत्वात्कदाचित्सूर्यसोममण्डलाच्छादकत्वं सम्भवतीति भावः । यः स्वर्भानुस्तद्वयवधानकृदमृतपानदशायां तयोः सूर्याचन्द्रमसोरभिमुखं धावति ताभ्यां कलहायाभिमुखं गच्छतीत्यर्थः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकितहृदय आरादेव निवर्तते तदुपरागमिति वदन्ति लोकाः॥

मूलम्

तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकितहृदय आरादेव निवर्तते तदुपरागमिति वदन्ति लोकाः॥ ३ ॥

अनुवाद (हिन्दी)

यह देखकर भगवान‍्ने सूर्य और चन्द्रमाकी रक्षाके लिये उन दोनोंके पास अपने प्रिय आयुध सुदर्शन चक्रको नियुक्त कर दिया है। वह निरन्तर घूमता रहता है, इसलिये राहु उसके असह्य तेजसे उद्विग्न और चकितचित्त होकर मुहूर्तमात्र उनके सामने टिककर फिर सहसा लौट आता है। उसके उतनी देर उनके सामने ठहरनेको ही लोग ‘ग्रहण’ कहते हैं॥ ३॥

वीरराघवः

तदभिधावनं निशम्य दृष्ट्वोभयोरपि रक्षणाय भगवता परमपुरुषेण भागवतं भगवत्सम्बन्धि तत् सुदर्शनाख्यमस्त्रं तेजसा दुर्विषहं दुःखेनापि सोढुमशक्यं मुहुर्मुहुः परिभ्रममाणं प्रति मुहूर्तमभिमुखतयावस्थितो राहुरुद्विजमानो भयमापन्नश्चकितहृदयश्चञ्चलचित्तः आरादेव दूरादेव निवर्तते तदेवोपरागो ग्रहणमिति जनाः वदन्ति । अभिधावनदशायां यत् यत् स्वमण्डलेन सूर्याचन्द्रमसोर्मण्डलाच्छादनं तदेव ग्रहणमिति जना उपरागस्वरूपाभिज्ञा वदन्तीत्यर्थः । तत्र ऋजुवस्थितिभ्यामर्धग्राससर्वग्रासौ न तु वस्तुतो प्रासोऽस्तीति दूरान्तरत्वात् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव॥

मूलम्

ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव॥ ४ ॥

अनुवाद (हिन्दी)

राहुसे दस हजार योजन नीचे सिद्ध, चारण और विद्याधर आदिके स्थान हैं॥ ४॥

श्लोक-५

विश्वास-प्रस्तुतिः

ततोऽधस्ताद्यक्षरक्षःपिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा उपलभ्यन्ते॥

मूलम्

ततोऽधस्ताद्यक्षरक्षःपिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा उपलभ्यन्ते॥ ५ ॥

अनुवाद (हिन्दी)

उनके नीचे जहाँतक वायुकी गति है और बादल दिखायी देते हैं, अन्तरिक्ष लोक है। यह यक्ष, राक्षस, पिशाच, प्रेत और भूतोंका विहारस्थल है॥ ५॥

श्लोक-६

विश्वास-प्रस्तुतिः

ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी यावद्धंसभासश्येनसुपर्णादयः पतत्त्रिप्रवरा उत्पतन्तीति॥

मूलम्

ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी यावद्धंसभासश्येनसुपर्णादयः पतत्त्रिप्रवरा उत्पतन्तीति॥ ६ ॥

अनुवाद (हिन्दी)

उससे नीचे सौ योजनकी दूरीपर यह पृथ्वी है। जहाँतक हंस, गिद्ध, बाज और गरुड़ आदि प्रधान-प्रधान पक्षी उड़ सकते हैं, वहींतक इसकी सीमा है॥ ६॥

वीरराघवः

ततः स्वर्भानोरधस्तात्तावन्मात्र एवायुतयोजनान्तर एव सिद्धादीनां सदनानि स्थानानि ततोऽधस्तात्सिद्धादिसदनेभ्योऽधस्तात् यक्षादीनां विहाराजिरं विहारस्थानमन्तरिक्षं गृहहीनं वर्तते तस्यावधिमाह । यावद्वायुः प्रधावति भृशं धावति तस्याप्यवधिमाह । यावन्मेघा उपलभ्यन्त इति ततो यक्षादीनां विहारान्तरिक्षादधस्ताच्छतयोजनान्तरेणेयं पृथिवी भूर्लोको वर्तते, पृथिव्या उपरि भूर्लोकस्यावधिमाह यावदिति । यावद्धंसादयः पक्षिश्रेष्ठा बलिनः उत्पतन्त्युद्गच्छन्ति तावद्भूर्लोकमित्यर्थः ॥ ४-६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

उपवर्णितं भूमेर्यथासंनिवेशावस्थानमवनेरप्यधस्तात् सप्त भूविवरा एकैकशो योजनायुतान्तरेणायामविस्तारेणोपक्लृप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति॥

मूलम्

उपवर्णितं भूमेर्यथासंनिवेशावस्थानमवनेरप्यधस्तात् सप्त भूविवरा एकैकशो योजनायुतान्तरेणायाम1विस्तारेणोपक्लृप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति॥ ७ ॥

अनुवाद (हिन्दी)

पृथ्वीके विस्तार और स्थिति आदिका वर्णन तो हो ही चुका है। इसके भी नीचे अतल, वितल, सुतल, तलातल, महातल, रसातल और पाताल नामके सात भू-विवर (भूगर्भस्थित बिल या लोक) हैं। ये एकके नीचे एक दस-दस हजार योजनकी दूरीपर स्थित हैं और इनमेंसे प्रत्येककी लंबाई-चौड़ाई भी दस-दस हजार योजन ही है॥ ७॥

वीरराघवः

भूमण्डलं तु सप्रपञ्चमुपवर्णितं प्रागित्याह उपवर्णितमिति । यद्भूमेः सन्निवेशेनावयवविन्यासेनावस्थानं तद्यथा तदुपवर्णितमेव ध्रुवमण्डलादारभ्य भूपर्यन्तो लोकसन्निवेश उक्तः । अथ भूमेरधस्तनानां लोकानां सन्निवेशमाह अवनेरपीत्यादिना उत्तराध्यायान्तेन ग्रन्थेन । अवनेर्भूलोकादधस्तात् सप्तभूविवरा भूम्यामेव विवराः सन्ति ते चैकशो योजनानामयुतं तेनान्तरा मध्य उच्छ्रितं भावे क्तः उच्छ्रायः औन्नत्यं योजनायुतान्तरोच्छ्रितमायामो दैर्घ्यं विस्तारश्चायुतयोजनपरिमितस्तेषां समाहारद्वन्द्वः तेन योजनायुतान्तरोच्छ्रितायामविस्तारेण उपकल्पिता विवराणामूर्ध्वं भूमेः योजनायुतोच्छ्रितस्तथा बिलानामायामो विस्तारश्चायुतयोजनपरिमित इत्यर्थः । तारतम्येन भोगतारतम्येन चोपक्लृप्ताः भूर्लोकापेक्षया विवरेषु भोगाधिक्यमस्तीत्यर्थः । विवराणि सप्त निर्दिशति अतलमित्यादिना पातालमित्यन्तेन ग्रन्थेन ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्यानाक्रीडविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्ति॥

मूलम्

एतेषु हि वि2लस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्यानाक्रीडविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्ति॥ ८ ॥

अनुवाद (हिन्दी)

ये भूमिके बिल भी एक प्रकारके स्वर्ग ही हैं। इनमें स्वर्गसे भी अधिक विषयभोग, ऐश्वर्य, आनन्द, सन्तान-सुख और धन-सम्पत्ति है। यहाँके वैभवपूर्ण भवन, उद्यान और क्रीडास्थलोंमें दैत्य, दानव और नाग तरह-तरहकी मायामयी क्रीडाएँ करते हुए निवास करते हैं। वे सब गार्हस्थ्यधर्मका पालन करनेवाले हैं। उनके स्त्री, पुत्र, बन्धु, बान्धव और सेवकलोग उनसे बड़ा प्रेम रखते हैं और सदा प्रसन्नचित्त रहते हैं। उनके भोगोंमें बाधा डालनेकी इन्द्रादिमें भी सामर्थ्य नहीं है॥ ८॥

वीरराघवः

तारतम्येनेत्येतदेव सप्तविवरासाधारण्येन दर्शयति एतेष्वित्यादिना अथातल इत्यतः प्राक्तनेन ग्रन्थेन । एतेषु बिलस्वर्गेषु दैत्यादयो निवसन्तीत्यन्वयः । कथम्भूतेषु स्वर्गादप्यधिकः कामभोगश्चैश्वर्यानन्दः ऐश्वर्यप्रसक्तिसन्तोषश्च भूतिः सम्पत्तिश्च विभूतिरीशितव्यवर्गश्चाधीशशब्दस्य नित्यसापेक्षत्वात् समासः अभितः सुसमृद्धानि भवनान्यागाराणि उद्यानादीनि क्रीडास्थानानि विहारस्थानानि च येषु यत्र क्रीडा खेलनं विहारः स्त्रीसम्भोगः, कथंभूताः-नित्यप्रमुदिता अनुरक्ताः कलत्रादयो येषां तथाभूताः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवनप्राकारगोपुरसभाचैत्यचत्वरायतनादिभिर्नागासुरमिथुनपारावतशुकसारिकाकीर्णकृत्रिमभूमिभिर्विवरेश्वरगृहोत्तमैः समलङ्‍कृताश्चकासति॥

मूलम्

येषु महाराज मयेन मायाविना वि3निर्मिताः पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवनप्राकारगोपुरसभाचैत्यचत्वरायतनादिभिर्नागासुरमिथुनपारावतशुकसा4रिकाकीर्णकृत्रिमभूमिभिर्विवरेश्वरगृहोत्तमैः समलङ्‍कृताश्चकासति॥ ९ ॥

अनुवाद (हिन्दी)

महाराज! इन बिलोंमें मायावी मयदानवकी बनायी हुई अनेकों पुरियाँ शोभासे जगमगा रही हैं, जो अनेक जातिकी सुन्दर-सुन्दर श्रेष्ठ मणियोंसे रचे हुए चित्र-विचित्र भवन, परकोटे, नगरद्वार, सभाभवन, मन्दिर, बड़े-बड़े आँगन और गृहोंसे सुशोभित हैं; तथा जिनकी कृत्रिम भूमियों(फर्शों)-पर नाग और असुरोंके जोड़े एवं कबूतर, तोता और मैना आदि पक्षी किलोल करते रहते हैं, ऐसे पातालाधिपतियोंके भव्य भवन उन पुरियोंकी शोभा बढ़ाते हैं॥ ९॥

वीरराघवः

किञ्च हे महाराज ! येषु बिलस्वर्गेषु मायाविनासुरेण मयेन निर्मिताः पुरः पुराणि चकासति इत्यन्वयः । कथम्भूता नानाविधा ये मणिप्रवरास्तेषां प्रवेका मुख्यास्तैर्विरचितैर्विचित्रैर्भवनादिभिस्तथा विवरेश्वराणां गृहोत्तमैश्च समलंकृताः कथम्भूतैः गृहोत्तमैर्नागाश्चासुराश्च मिथुनीभूताः पारावतादयश्च तैराकीर्णाः सङ्कुलाः कृत्रिमा वेदिकादिरूपा भूमयो येषु तैः, नानास्वनमिथुनेति पाठे नानास्वनत्वं मिथुनीभूतपारावतादिविशेषणम् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

उद्यानानि चातितरां मनइन्द्रियानन्दिभिः कुसुमफलस्तबकसुभगकिसलयावनतरुचिरविटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुनविविधविहङ्गमजलाशयानाममलजलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादिवनेषु कृतनिकेतनानामेकविहाराकुलमधुरविविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रियमतिशयितानि॥

मूलम्

उद्यानानि चा5तितरां मनइन्द्रियानन्दिभिः कुसुमफलस्तबकसुभगकिसलयावनतरुचि6रविटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुनविविधविहङ्गमजलाशयानाममलजलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीर7नीरजकुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादिवनेषु कृतनिकेतनानामेकविहाराकुलमधुरविविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रियमतिशयितानि॥ १० ॥

अनुवाद (हिन्दी)

वहाँके बगीचे भी अपनी शोभासे देवलोकके उद्यानोंकी शोभाको मात करते हैं। उनमें अनेकों वृक्ष हैं, जिनकी सुन्दर डालियाँ फल-फूलोंके गुच्छों और कोमल कोंपलोंके भारसे झुकी रहती हैं तथा जिन्हें तरह-तरहकी लताओंने अपने अंगपाशसे बाँध रखा है। वहाँ जो निर्मल जलसे भरे हुए अनेकों जलाशय हैं, उनमें विविध विहंगोंके जोड़े विलास करते रहते हैं। इन वृक्षों और जलाशयोंकी सुषमासे वे उद्यान बड़ी शोभा पा रहे हैं। उन जलाशयोंमें रहनेवाली मछलियाँ जब खिलवाड़ करती हुई उछलती हैं, तब उनका जल हिल उठता है। साथ ही जलके ऊपर उगे हुए कमल, कुमुद, कुवलय, कह्लार, नीलकमल, लालकमल और शतपत्र कमल आदिके समुदाय भी हिलने लगते हैं। इन कमलोंके वनोंमें रहनेवाले पक्षी अविराम क्रीडा-कौतुक करते हुए भाँति-भाँतिकी बड़ी मीठी बोली बोलते रहते हैं, जिसे सुनकर मन और इन्द्रियोंको बड़ा ही आह्लाद होता है। उस समय समस्त इन्द्रियोंमें उत्सव-सा छा जाता है॥ १०॥

वीरराघवः

तथा कनकलताभिरालिङ्गितानां संश्लिष्टानां कुसुमस्तबकैः फलस्तबकैः सुन्दर किसलयैश्चावनता नम्रा रुचिरा विटपाः शाखा येषां तेषां विटपिनां वृक्षाणामुद्यानानि क्रीडावनानि मनस इन्द्रियाणां चानन्दिनीभिरानन्दकारिणीभिः स्त्रीभिर्विवरेश्वरस्त्रीभिरमरलोकश्रियमतिशयितानि अतिक्रान्तानि येषु विवरेषु चकासतीत्यन्वयः । पुनः कैरमरलोकश्रियमतिशयितान्युद्यानानि चकासति अमलैः स्वच्छः जलैः पूर्णानां समिथुनानां चक्रवाकादिभिर्मिथुनसहिता ये विविधा विहङ्गास्तेषां कुलं समूहस्तस्य कोलाहलो येषु तेषां जलाशयानां सम्बन्धिझषसमूहस्योलङ्घनेन विहारेण क्षुभितं सञ्चलितं यन्नीरं जलं तस्मिन् यानि नीरजादीनि तेषां वनेषु कृतं निकेतनं स्थानं येषां पक्षिणामिति शेषः, सामर्थ्यान्नानाविधैर्विहारैराकुला मधुरा ये विविधाः स्वरादयः आदिशब्देन गमनेक्षणादयो विवक्षिताः । तैः कथम्भूतैः इन्द्रियाणामानन्दजनकैः स्त्रीभिरिति यावत्, उक्तविधविटपिनामुक्तविधानां मनइन्द्रियाणां चानन्दिभिस्त्रीभिरिन्द्रियोत्सवैः उक्तविधानां पक्षिणां चोक्तविधैः स्वरादिभिश्चामरलोकश्रियमतिशयितान्युद्यानानि येषु विवरेषु चकासतीत्यर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

यत्र ह वाव न भयमहोरात्रादिभिः कालविभागैरुपलक्ष्यते॥

मूलम्

यत्र ह वाव न भयमहोरात्रादिभिः कालविभागैरुपलक्ष्यते॥ ११ ॥

अनुवाद (हिन्दी)

वहाँ सूर्यका प्रकाश नहीं जाता, इसलिये दिन-रात आदि कालविभागका भी कोई खटका नहीं देखा जाता॥ ११॥

श्लोक-१२

विश्वास-प्रस्तुतिः

यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्ते॥

मूलम्

यत्र8 हि महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्ते॥ १२ ॥

अनुवाद (हिन्दी)

वहाँके सम्पूर्ण अन्धकारको बड़े-बड़े नागोंके मस्तकोंकी मणियाँ ही दूर करती हैं॥ १२॥

वीरराघवः

यत्र ह वाव येषु हि विवरेषु कालविभागैः कालावयवैः अहोरात्रादिभिर्भयं नोपलक्ष्यते तत्रत्यानामायुषो भूयस्त्वादिति भावः । यत्र येषु विवरेषु ये महान्तोऽहिप्रवराः सर्पश्रेष्ठास्तेषां ये शिरोमणयः फणामणयः ते सर्वं कृत्स्नं तमोऽन्धकारं प्रबाधन्ते निरस्यन्ति ॥ ११-१२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति॥

मूलम्

न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति॥ १३ ॥

अनुवाद (हिन्दी)

इन लोकोंके निवासी जनओषधि, रस, रसायन, अन्न, पान और स्नानादिका सेवन करते हैं, वे सभी पदार्थ दिव्य होते हैं; इन दिव्य वस्तुओंके सेवनसे उन्हें मानसिक या शारीरिक रोग नहीं होते तथा झुर्रियाँ पड़ जाना, बाल पक जाना, बुढ़ापा आ जाना, देहका कान्तिहीन हो जाना, शरीरमेंसे दुर्गन्ध आना, पसीना चूना, थकावट अथवा शिथिलता आना तथा आयुके साथ शरीरकी अवस्थाओंका बदलना—ये कोई विकार नहीं होते। वे सदा सुन्दर, स्वस्थ, जवान और शक्तिसम्पन्न रहते हैं॥ १३॥

वीरराघवः

एतेषु विवरेषु वसतामाधयो मनःपीडा व्याधयो रोगाः वलिस्त्वग्गतो विकारः पलितं केशेषु शौक्ल्यमेतदुभयमूलभूता जरा आदिशब्देन मतिभ्रंशादिर्गृह्यते तथा देहस्य वैवर्ण्यं रूपान्तरं दुर्गन्धः पूतिगन्धः स्वेदः खेदः क्लमः भ्रमः ग्लानिरनुत्साह इति एते वयोऽवस्थाश्च दिव्यौषधै रसायनपानैर्दिव्यैरशनस्नानादिभिश्च न भवन्ति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसश्चक्रापदेशात्॥

मूलम्

न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसश्चक्रापदेशात्॥ १४ ॥

अनुवाद (हिन्दी)

उन पुण्यपुरुषोंकी भगवान‍्के तेजरूप सुदर्शन चक्रके सिवा और किसी साधनसे मृत्यु नहीं हो सकती॥ १४॥

वीरराघवः

तथा तेषां बिलस्थानां कल्याणानां निर्दुःखानां कस्मादपि मृत्युर्न हि प्रभवति कोऽपि तान्मारयितुं समर्थो न भवतीत्यर्थः । भवतीति पाठे मृत्युर्मरणं कुतश्चिदपि तेषां नास्तीत्यर्थः । तर्ह्यमरास्ते किं तत्राह विनेति । चक्रापदेशाश्चक्रसंज्ञाद्भगवत्तेजसोऽत्ररूपाद्विना सुदर्शनास्त्राद्विना नान्यस्मान्न मृत्युस्तस्मात्त्वस्त्येवेत्यर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यस्मिन् प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि भयादेव स्रवन्ति पतन्ति च॥

मूलम्

यस्मिन् प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि भयादेव स्रवन्ति पतन्ति च॥ १५ ॥

अनुवाद (हिन्दी)

सुदर्शन चक्रके तो आते ही भयके कारण असुररमणियोंका गर्भस्राव और गर्भपात* हो जाता है॥ १५॥

पादटिप्पनी
  • ‘आचतुर्थाद‍्भवेत्स्रावः पातः पंचमषष्ठयोः’ अर्थात् चौथे मासतक जो गर्भ गिरता है, उसे ‘गर्भस्राव’ कहते हैं तथा पाँचवें और छठे मासमें गिरनेसे वह ‘गर्भपात’ कहलाता है।
वीरराघवः

तदेवाह । यस्मिन् सुदर्शनास्त्रे विवरेषु प्रविष्टे सत्यसुरवधूनां पुंसवनानि गर्भाः प्रायेण चक्रभयात् प्रस्रवन्ति पूर्णाश्चेत्पतन्तीत्यर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्णवतिर्मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं सिद्धोऽहमित्ययुतमहागजबलमात्मानमभिमन्यमानः कत्थते मदान्ध इव॥

मूलम्

अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्णवतिर्मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं सिद्धोऽहमित्ययुतमहागजबलमात्मानमभिमन्यमानः कत्थते मदान्ध इव॥ १६ ॥

अनुवाद (हिन्दी)

अतल लोकमें मयदानवका पुत्र असुर बल रहता है। उसने छियानबे प्रकारकी माया रची है। उनमेंसे कोई-कोई आज भी मायावी पुरुषोंमें पायी जाती हैं। उसने एक बार जँभाई ली थी, उस समय उसके मुखसे स्वैरिणी (केवल अपने वर्णके पुरुषोंसे रमण करनेवाली), कामिनी (अन्य वर्णोंके पुरुषोंसे भी समागम करनेवाली) और पुंश्चली (अत्यन्त चंचल स्वभाववाली)—तीन प्रकारकी स्त्रियाँ उत्पन्न हुईं। ये उस लोकमें रहनेवाले पुरुषोंको हाटक नामका रस पिलाकर सम्भोग करनेमें समर्थ बना लेती हैं और फिर उनके साथ अपनी हाव-भावमयी चितवन, प्रेममयी मुसकान, प्रेमालाप और आलिंगनादिके द्वारा यथेष्ट रमण करती हैं। उस हाटक-रसको पीकर मनुष्य मदान्ध-सा हो जाता है और अपनेको दस हजार हाथियोंके समान बलवान् समझकर ‘मैं ईश्वर हूँ, मैं सिद्ध हूँ,’ इस प्रकार बढ़-बढ़कर बातें करने लगता है॥ १६॥

वीरराघवः

एवं सामान्यतो विवरानुपवर्ण्याथ विशेषेण विवर्णयिषुस्तावदतलं विवरमनुवर्णयति अथेति । अतलाख्ये बिवरे मयस्य पुत्रो बलो नाम निवसति तं विशिनष्टि । येनेति । येन बलेनैव सृष्टा इह षण्णवतिसंख्याका मायाः तासां मायानां मध्ये काश्चन माया अद्यापि केचिन्मायाविनो धारयन्ति यस्य बलस्य विजृम्भमाणस्य सतः तन्मुखात्त्रयः स्त्रीणां गणा उद्बभूवुः । गणानेवाह स्वैरिण्यः कामिन्यः पुंश्चल्य इति सवर्णरताः स्वैरिण्यः कामिन्यस्त्वसवर्णरताः तत्राप्यति चञ्चलाः पुंश्चल्यः त्रिविधास्ता विशिनष्टि । या वै स्वैरिण्यादयः स्त्रियो बिलायनं विवरं प्रविष्टं पुरुषं हाटकाख्येन रसेन रसायनेन साधयित्वा स्ववशीकृत्य बलायनमिति पाठे तत्र प्रविष्टं पुरुषं रसेन बलायनं साधयित्वा सम्भोगसमर्थं कृत्वा स्वेऽसाधारणा विलासास्तत् पूर्वको योऽवलोकः अनुरागयुक्तं यत् स्मितं संलापो रहोभाषणमुपगूहनमालिङ्गनमेवमादिभिः स्वैरं रमयन्ति किल । हाटकाख्यं रसं विशिनष्टि यस्मिन्निति । यस्मिन् रसे उपयुक्त सेविते सत्युपयोक्ता पुरुषः आत्मानमयुतमहादिग्गजबलं मन्यमानो मदान्ध इवाहमीश्वरः सिद्धोऽहमिति कत्थते श्लाघते ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वरः स्वपार्षदभूतगणावृतः प्रजापतिसर्गोपबृंहणाय भवो भवान्या सह मिथुनीभूत आस्ते यतः प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण यत्र चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति॥

मूलम्

ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वरः स्वपा9र्षदभूतगणावृतः प्रजापतिसर्गोपबृंहणाय भवो भवान्या सह मिथुनीभू10त आस्ते यतः प्रवृत्ता सरित्प्रवरा हाटकी नाम भ11वयोर्वीर्येण यत्र चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति॥ १७ ॥

अनुवाद (हिन्दी)

उसके नीचे वितल लोकमें भगवान् हाटकेश्वर नामक महादेवजी अपने पार्षद भूतगणोंके सहित रहते हैं। वे प्रजापतिकी सृष्टिकी वृद्धिके लिये भवानीके साथ विहार करते रहते हैं। उन दोनोंके तेजसे वहाँ हाटकी नामकी एक श्रेष्ठ नदी निकली है। उसके जलको वायुसे प्रज्वलित अग्नि बड़े उत्साहसे पीता है। वह जो हाटक नामका सोना थूकता है, उससे बने हुए आभूषणोंको दैत्यराजोंके अन्तःपुरोंमें स्त्री-पुरुष सभी धारण करते हैं॥ १७॥

पादटिप्पनी
वीरराघवः

एवमतलाख्यो विवर उपवर्णितः । अथ वितलं वर्णयति तत इति । ततोऽतलादधस्ताद्वितले विवरे भगवान् हरो रुद्रः हाटकेश्वरः स्वपार्षदैर्भूतगणैः प्रमथगणैः परिवृतः प्रजापतिसर्गः ब्रह्मणादिष्टः सर्गस्तस्योपबृंहणाय वृद्धये भवान्या सह मिथुनीभूयास्ते, यदुक्तं हाटकेश्वर इति नाम तस्मिन्निमित्तं स्पष्टयति यत इति । भवानीभवयोर्मिथुनीभूतयोर्वीर्येण हाटकिन्याख्या सरित्प्रवरा यतः प्रवृत्ता तस्माद्भवो हाटकस्य सुवर्णस्य ईश्वर उत्पादकत्वाद्धाटकेश्वर इत्युच्यते इति भावः । ननु हाटकिन्याख्यसरित्प्रवरायाः प्रभवत्वेऽपि न हाटकप्रभवत्वं तत्राह । यत्र हाटकिन्यां सरित्प्रवरायां चित्रभानुरभिः मातरिश्वना वायुना समिध्यमानः सम्यग्दीप्यमानः ओजसा बलेनापिवत् हाटकिनीं पीतवान् तेनाग्निना निष्ठ्यूतं फूत्कृत्य त्यक्तं हाटकाख्यं सुवर्णमसुवर्णमसुरेन्द्राणां विवरवासिनामवरोधेष्वन्तःपुरेषु पुरुषा पुरुषीभिः स्त्रीभिः सह भूषणेनाभरणेन धारयन्ति भूषणानि कारयित्वा धारयन्तीत्यर्थः । हाटकिन्या अन्ततो हाटकाख्यसुवर्णरूपेण परिणामात्तत्प्रभवोऽपि हाटकेश्वर इति भावः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्वधर्मेणाराधयंस्तमेवभगवन्तमाराधनीयमपगतसाध्वस आस्तेऽधुनापि॥

मूलम्

ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण प12राक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्वधर्मेणाराधयंस्तमेवभगवन्तमाराधनीयमपगतसाध्वस आस्तेऽधुनापि॥ १८ ॥

अनुवाद (हिन्दी)

वितलके नीचे सुतल लोक है। उसमें महायशस्वी पवित्रकीर्ति विरोचनपुत्र बलि रहते हैं। भगवान‍्ने इन्द्रका प्रिय करनेके लिये अदितिके गर्भसे वटु-वामनरूपमें अवतीर्ण होकर उनसे तीनों लोक छीन लिये थे। फिर भगवान‍्की कृपासे ही उनका इस लोकमें प्रवेश हुआ। यहाँ उन्हें जैसी उत्कृष्ट सम्पत्ति मिली हुई है, वैसी इन्द्रादिके पास भी नहीं है। अतः वे उन्हीं पूज्यतम प्रभुकी अपने धर्माचरणद्वारा आराधना करते हुए यहाँ आज भी निर्भयतापूर्वक रहते हैं॥ १८॥

वीरराघवः

अथ सुतलं वर्णयति तत इति । ततो वितलादधस्तात्सुतले विवरेऽप्युरुश्रवा विपुलकीर्तिः पुण्यश्लोकः स्मरतां पुण्यापादकयशःसम्पन्नः महाभागवतो भागवताग्रगण्यः विरोचनस्यात्मजो बलिरधुनाप्यास्ते इत्यन्वयः, कथम्भूतः महेन्द्रस्य प्रियं कर्तुमिच्छता प्रथमं दितेः सकाशाद् भूत्वा बटुवामनरूपेण लब्धः कायो देहो येन तेन भगवता प्रथमं परिक्षिप्तमपहृतं लोकत्रयं यस्य तथाभूतः पुनर्भगवतोऽनुकम्पयैव सुतले विवरे प्रवेशित इन्द्रादीनामपि दुर्लभया सुसमृद्धया श्रिया सम्पदा जुष्टः सेवितः भयरहितः तमेव भगवन्तं स्वधर्मेण स्वोचितधर्मेणाराधयन् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद‍्भगवत्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य यद‍्बिलनिलयैश्वर्यम्॥

मूलम्

नो13 एवैतत्साक्षात्कारो भूमिदानस्य यत्तद‍्भगवत्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य यद‍्बिलनिलयैश्वर्यम्॥ १९ ॥

अनुवाद (हिन्दी)

राजन्! सम्पूर्ण जीवोंके नियन्ता एवं आत्मस्वरूप परमात्मा भगवान् वासुदेव-जैसे पूज्यतम, पवित्रतम पात्रके आनेपर उन्हें परम श्रद्धा और आदरके साथ स्थिर चित्तसे दिये हुए भूमिदानका यही कोई मुख्य फल नहीं है कि बलिको सुतल लोकका ऐश्वर्य प्राप्त हो गया। यह ऐश्वर्य तो अनित्य है। किन्तु वह भूमिदान तो साक्षात् मोक्षका ही द्वार है॥ १९॥

श्लोक-२०

विश्वास-प्रस्तुतिः

यस्य ह वाव क्षुत्पतनप्रस्खलनादिषु विवशः सकृन्नामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते॥

मूलम्

यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः सकृन्नामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवो14ऽन्यथैवोपलभन्ते॥ २० ॥

अनुवाद (हिन्दी)

भगवान‍्का तो छींकने, गिरने और फिसलनेके समय विवश होकर एक बार नाम लेनेसे भी मनुष्य सहसा कर्मबन्धनको काट देता है, जब कि मुमुक्षुलोग इस कर्मबन्धनको योगसाधन आदि अन्य अनेकों उपायोंका आश्रय लेनेपर बड़े कष्टसे कहीं काट पाते हैं॥ २०॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तद‍्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद आत्मतयैव॥

मूलम्

तद‍्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद आत्मतयैव॥ २१ ॥

अनुवाद (हिन्दी)

अतएव अपने संयमी भक्त और ज्ञानियोंको स्वस्वरूप प्रदान करनेवाले और समस्त प्राणियोंके आत्मा श्रीभगवान‍्को आत्मभावसे किये हुए भूमिदानका यह फल नहीं हो सकता॥ २१॥

वीरराघवः

एतत् सर्वसम्पत्समृद्धं सुतलाधिपत्यं तद्भूदानफलमिति न मन्तव्यमित्याह नो एवैतदिति । यद्विलनिलये विवरस्थाने ऐश्वर्यं तदेतद्भूमिदानस्य साक्षात्कारः फलं न भवत्येव । कुत इत्यपेक्षायामेवंभूतस्य दानस्य साक्षादपवर्गहेतुत्वादित्याशयेन भूमिदानं विशिनष्टि । भगवति षाड्गुण्यपूर्णेऽशेषभूतजातानां ये जीवभूताः प्रत्यगात्मानस्तेषामप्यात्मभूते परमात्मन्यन्तःप्रविश्य धारके वासुदेवे तीर्थतमे पावनतमे पात्र उपपन्ने समीपं प्राप्ते सति तस्मिन् परया निरुपाधिकया श्रद्धया कर्तव्यविषयत्वरया समाहितं मनश्चित्तं येन तेन बलिना सम्प्रतिपादितस्य कृतस्य साक्षादपवर्गसाधनभूतस्य भगवतस्तीर्थतमत्वमेवोपपादयति यस्येति । यस्य हि भगवतो नाम सकृदपि विवशोऽपि क्षुत्पतनस्खलनादिष्ववस्थास्वपि गृणन् पुरुषः कर्मरूपबन्धनमञ्जसा सुखेन विधुनोति निरस्यति सकृत् स्मरणमात्रेणापि समस्तवृजिननिरासक्षमनामवतो भगवतस्तीर्थतमत्वं कैमुत्यन्यायसिद्धमिति भावः । कर्मबन्धं विशिनष्टि यस्य ह वा इति । यस्य हि कर्मबन्धस्य प्रतिबाधनं निरसनोपायमिह मुमुक्षवोऽन्यथा कर्मयोगादिरूपेण उपलभन्ते जानन्ति तत् कर्मबन्धनं धुनोतीति पूर्वेणान्वयः । प्रतिसाधनमिति पाठे प्रतिक्षेपसाधनं निरसनोपायमित्येवार्थः, यथा कर्मयोगादिकं भगवद्भक्तियोगोत्पत्तिप्रतिबन्धकप्राचीनकर्मबन्धनिरसनद्वारा भक्तियोगानुग्राहकत्वेन भक्तियोगद्वारा कृत्स्नपूर्वोत्तराघनिवर्तकमेवं नामस्मरणमपीत्यत्राभिप्रेतोऽर्थः, अन्यथा भक्तियोगानर्थक्यापत्तेरित्यवगन्तव्यम् । एवं तीर्थतमे सर्वेषामात्मनि भागवतानामात्मदे आत्मपर्यन्तवदान्ये आत्मतमे निरतिशयप्रियतमे भगवति विनियुक्तस्य लोकत्रयस्य न बिलनियमनैश्वर्यं फलमिति पूर्वेणैवान्वयः ॥ १९-२१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

न वै भगवान्नूनममुष्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्यमेवातनुतेति॥

मूलम्

न वै भगवान्नूनममुष्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्यमेवातनुतेति॥ २२ ॥

अनुवाद (हिन्दी)

भगवान‍्ने यदि बलिको उसके सर्वस्वदानके बदले अपनी विस्मृति करानेवाला यह मायामय भोग और ऐश्वर्य ही दिया तो उन्होंने उसपर यह कोई अनुग्रह नहीं किया॥ २२॥

वीरराघवः

ननु यद्येतद्दानमपवर्गद्वारं यदि वा बलिमहाभागवतः यदि वा भगवानात्मदस्तर्ह्यस्यापवर्गमेव प्रदाय किं नानुजग्राहेत्यपेक्षायामभ्युपगतप्रारब्धस्य विद्ययाऽविनाश्यस्यावश्यानुभाव्यत्वादेनमपवर्गदानेन न तदैवानुजग्राह, किं त्वभ्युपगतप्रारब्धफलबिलनिलयनैश्वर्यमेवादादित्याह न वा इति । भगवानमुष्य बलेर्न निजग्राह तदेवानुग्रहं न कृतवान् आत्मानुस्मृतिमोषणं स्वविषयस्मृतिघातकं स्वमायाया विलसितं भोगरूपमैश्वर्यं भोगनिमित्तं वा ऐश्वर्यं बिलनिलयनैश्वर्यं तदेवातनुत तेने दत्तवानित्यर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

यत्तद‍्भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच॥

मूलम्

यत्तद‍्भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच॥ २३ ॥

अनुवाद (हिन्दी)

जिस समय कोई और उपाय न देखकर भगवान‍्ने याचनाके छलसे उसका त्रिलोकीका राज्य छीन लिया और उसके पास केवल उसका शरीरमात्र ही शेष रहने दिया, तब वरुणके पाशोंमें बाँधकर पर्वतकी गुफामें डाल दिये जानेपर उसने कहा था॥ २३॥

वीरराघवः

महाभागवत इत्यनेन भगवद्दास्ये एवाभिलाषित्वं विवक्षितं तत्तस्य तदुक्तयैव स्पष्टयितुमाह यदिति । यत्तत्प्रसिद्धमिति वक्ष्यमाणमुवाचेत्यन्वयः । कथम्भूतः अनधिगतः अलब्धः अन्यः याच्ञेतरः उपायो येन तेन भगवता बलेर्भागवतत्वाद्दण्डनानर्हत्वादुपायान्तराभावादनधिगतान्योपायेनेत्युक्तम्, एवंभूतेन भगवता याच्ञाव्याजेनापहृतं स्वशरीरमात्रावशेषितमुर्वरितस्वशरीरमात्रं यल्लोकत्रयं तद्यस्य तथाभूतः स्वव्यतिरिक्तभगवदपहृतलोकत्रय इत्यर्थः, वरुणपाशैश्च प्रतिमुक्तः प्रतिश्रुतार्थन्यूनतायां वरुणपाशैः प्रतिबद्ध इत्यर्थः । गिरिदर्यामपविद्धः प्रक्षिप्तोऽपि सन् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्तमतिहाय स्वयमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयसः कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम्॥

मूलम्

नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो यस्य सचिवो मन्त्राय12 वृत एकान्ततो बृहस्पतिस्तमतिहाय13 स्वयमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयसः कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम्॥ २४ ॥

अनुवाद (हिन्दी)

‘खेद है, यह ऐश्वर्यशाली इन्द्र विद्वान् होकर भी अपना सच्चा स्वार्थ सिद्ध करनेमें कुशल नहीं है। इसने सम्मति लेनेके लिये अनन्यभावसे बृहस्पतिजीको अपना मन्त्री बनाया; फिर भी उनकी अवहेलना करके इसने श्रीविष्णुभगवान‍्से उनका दास्य न माँगकर उनके द्वारा मुझसे अपने लिये ये भोग ही माँगे। ये तीन लोक तो केवल एक मन्वन्तरतक ही रहते हैं, जो अनन्त कालका एक अवयवमात्र है। भगवान‍्के कैंकर्यके आगे भला, इन तुच्छ भोगोंका क्या मूल्य है॥ २४॥

वीरराघवः

उक्तिमेवाह नूनमिति । बतेति खेदे, भगवान् विद्वानप्यसाविन्द्रः पुरुषार्थेषु नूनं न निष्णातः न कुशलः पुरुषार्थेषु तारतम्यानभिज्ञ इत्यर्थः, यस्यैकान्तेन बृहस्पतिः सचिवः सहायो मन्त्रायालोचनाय वृतः सोऽपि पुरुषार्थेषु नूनं न निष्णातः अनिष्णातः । अनिष्णातत्वमेवाह तमिति । यतस्तं पुरुषार्थरूपं भगवन्तमतिहाय तद्दास्यमयाचतेत्यर्थः, तं मन्त्रप्रदं बृहस्पतिमतिहायेति वा उपेन्द्रेणेन्द्रावरजरूपेण श्रीवामनेन द्वारभूतेनेन्द्र एवात्मानं मामात्मनः स्वस्याशिषः लोकत्रयरूपा याः आशिष अयाचत याचितवान्न त्वेतस्य भगवतो दास्यमयाचतेत्यर्थः । तस्मिन् प्रसन्ने तद्दास्यमेव याचितव्यं न त्वितरदल्पमित्याह । अतिगम्भीररंहसः निरतिशयगम्भीरवेगस्य कालस्य वश्यमिदं मन्वन्तरपरिवृत्तं मन्वतरपर्य्यन्तवर्तिलोकत्रयं लोकत्रयाधिपत्यं कियदत्यल्पमेतदित्यर्थः, अतस्तन्न याचितव्यमिति भावः । अत इन्द्रः पुरुषार्थेषु न निष्णातः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः परमिति भगवतोपरते खलु स्वपितरि॥

मूलम्

यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः परमिति भगवतोपरते खलु स्वपितरि॥ २५ ॥

अनुवाद (हिन्दी)

हमारे पितामह प्रह्लादजीने—भगवान‍्के हाथों अपने पिता हिरण्यकशिपुके मारे जानेपर—प्रभुकी सेवाका ही वर माँगा था। भगवान् देना भी चाहते थे, तो भी उनसे दूर करनेवाला समझकर उन्होंने अपने पिताका निष्कण्टक राज्य लेना स्वीकार नहीं किया॥ २५॥

वीरराघवः

अस्मत्पितामहस्तु प्रह्लादः एक एव पुरुषार्थेषु निष्णात इत्याह यस्येति । अस्मत्पितामहः प्रह्लादो यस्य भगवतोऽनुदास्यं दासानुदासत्वमेव वृतवान्किल न तु स्वपितुर्हिरण्यकशिपोः सम्बन्धि ऐश्वर्य्यम्, अवरणहेतुं तस्याभिप्रायं प्रकाशयति यदुतेति । भगवता नृहरिणा स्वपितरि हिरण्यकशिपौ उपरते हते सति भगवता दीयमानमपि स्वपित्र्यं न वव्रे । कुतः यद्यस्मात्परिमितमिति परिमितत्वात्पित्र्यं न वव्रे उतापि त्वकुतोभयं पदं वव्रे स्वयं देहावसाने मुक्तिं याचितवानित्यर्थः । भगवतः परमिति पाठे भगवतोऽन्यदिति पित्र्यं न वत्रे इत्यर्थः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्विधः परिहीणभगवदनुग्रह उपजिगमिषतीति॥

मूलम्

तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्विधः परिहीणभगवदनुग्र14ह उपजिगमिषतीति॥ २६ ॥

अनुवाद (हिन्दी)

वे बड़े महानुभाव थे। मुझपर तो न भगवान‍्की कृपा ही है और न मेरी वासनाएँ ही शान्त हुई हैं; फिर मेरे-जैसा कौन पुरुष उनके पास पहुँचनेका साहस कर सकता है?॥ २६॥

वीरराघवः

मक्षिकेव गरुत्मतो गतिं को वा तस्य प्रह्लादस्य पन्थानमनुसर्तुं शक्नोतीत्याह-तस्यातः को वा अमृदिता अनुपहताः कषायाः कर्मबन्धा येन परिक्षीणः अपसृतः भगवदनुग्रहो यस्य तथाविधोऽस्मद्विधो मादृशः पुमान् तस्य महानुभावस्य प्रह्लादस्यानुपथं पन्थानमुपजिगमिषति उपगन्तुमिच्छति इति ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान् स्वयमखिलजगद‍्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्‍गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः॥

मूलम्

तस्यानुचरितमु15परिष्टाद्विस्तरिष्यते यस्य भगवान् स्वयमखिलजगद‍्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्‍गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः॥ २७ ॥

अनुवाद (हिन्दी)

राजन्! इस बलिका चरित हम आगे (अष्टम स्कन्धमें) विस्तारसे कहेंगे। अपने भक्तोंके प्रति भगवान‍्का हृदय दयासे भरा रहता है। इसीसे अखिल जगत‍्के परम पूजनीय गुरु भगवान् नारायण हाथमें गदा लिये सुतल लोकमें राजा बलिके द्वारपर सदा उपस्थित रहते हैं। एक बार जब दिग्विजय करता हुआ घमंडी रावण वहाँ पहुँचा, तब उसे भगवान‍्ने अपने पैरके अँगूठेकी ठोकरसे ही लाखों योजन दूर फेंक दिया था॥ २७॥

वीरराघवः

नन्वेवम्भूतश्चेद्वलिस्ततस्तस्यैव चरितं विस्तरेणोच्यतां तत्राह । तस्य बलेरनुचरितमुपरिष्टादष्टमे विस्तरिष्यते विस्तरेण कथयिष्यत इत्यर्थः । कार्त्स्न्येन तत्प्रभावः केनापि वर्णयितुं न शक्य इत्यभिप्रायेण पुनस्तमेव विशिनष्टि यस्येति । यस्य बलेर्द्वारि भगवानवतिष्ठते कथम्भूतः स्वयमखिलजगतां गुरुः, अनेन द्वारपालकत्वानर्हता सूच्यते, नारायणः सर्वशेषी अनेनापि तदेव सूच्यते एवंभूतो ह्याश्रितवात्सल्यवशो गदापाणिः सन् । गदापाणिं तं भगवन्तं विशिनष्टि-येन गदापाणिना बलेर्द्वाःस्थेन भगवता कर्त्रा अङ्गुष्ठेन पदा पादावयवेनाङ्गुष्टेन दिग्विजयसमये स्वसमीपमागतो दशकन्धरो रावणो योजनायुतानामयुतम् उच्चाटितः उच्चाटनं प्रापितः । दिग्विजयं कुर्वन् रावणः कदाचिद्वलेर्द्वारि विशन् द्वाःस्थेन गदाभृता भगवता बहुदूरतः क्षिप्त इति श्रीरामायणादौ प्रसिद्धम् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते॥

मूलम्

ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता 16पुरारिणा त्रिलोकीशं चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो 17मायाविनामाचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते॥ २८ ॥

अनुवाद (हिन्दी)

सुतललोकसे नीचे तलातल है। वहाँ त्रिपुराधिपति दानवराज मय रहता है। पहले तीनों लोकोंको शान्ति प्रदान करनेके लिये भगवान् शंकरने उसके तीनों पुर भस्म कर दिये थे। फिर उन्हींकी कृपासे उसे यह स्थान मिला। वह मायावियोंका परम गुरु है और महादेवजीके द्वारा सुरक्षित है, इसलिये उसे सुदर्शन चक्रसे भी कोई भय नहीं है। वहाँके निवासी उसका बहुत आदर करते हैं॥ २८॥

वीरराघवः

एवं सुतलमुपवर्ण्याथ तलातलं वर्णयति तत इति । ततः सुतलादधस्तात्तलातले विवरे मयाख्यो दानवेन्द्रः महीयते तलातलस्थैर्बहुमन्यत इत्यर्थः । कथंभूतः प्रथमं त्रिपुराधिपतिर्भूत्वा त्रिलोक्यां शं सुखं कर्तुमिच्छता भगवता त्रिपुरारिणा रुद्रेण निर्दग्धं पुरत्रयं यस्य तस्य पुरारेः प्रसादाल्लब्धं पदं तलातलाख्यं विवरं यस्य स मायाविनामाचार्यो मायातन्त्रोपदेष्टा महादेवेन रुद्रेण परिरक्षितो विगतं सुदर्शनाद्भयं यस्य तथाभूतः सन्, सुदर्शनभक्तिमता महादेवेन परिरक्षितत्वाद्विगतसुदर्शनभय इत्युक्तम् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहकतक्षककालियसुषेणादिप्रधाना महाभोगवन्तः पतत्त्रिराजाधिपतेः पुरुषवाहादनवरतमुद्विजमानाः स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्वचित्प्रमत्ता विहरन्ति॥

मूलम्

ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहकतक्षककालियसुषेणादिप्रधाना महाभोगवन्तः पतत्त्रिराजाधिपतेः पुरुषवाहादनवरतमुद्वि18जमानाः स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्वचित्प्रमत्ता विहरन्ति॥ २९ ॥

अनुवाद (हिन्दी)

उसके नीचे महातलमें कद्रूसे उत्पन्न हुए अनेक सिरोंवाले सर्पोंका क्रोधवश नामक एक समुदाय रहता है। उनमें कुहक, तक्षक, कालिय और सुषेण आदि प्रधान हैं। उनके बड़े-बड़े फन हैं। वे सदा भगवान‍्के वाहन पक्षिराज गरुडजीसे डरते रहते हैं; तो भी कभी-कभी अपने स्त्री, पुत्र, मित्र और कुटुम्बके संगसे प्रमत्त होकर विहार करने लगते हैं॥ २९॥

वीरराघवः

अथ महातलमनुवर्णयति । तत इति । ततः तलातलादधस्तान्महातले विवरे नैकं शिरो येषां तेषामनेकशिरसामित्यर्थः । काद्रवेयाणां कद्रोरपत्यभूतानां सर्पाणां गणः क्रोधवशसंज्ञकोऽस्ति । गणे कांश्चित्प्रधानान्निर्दिशन् विशिनष्टि कुहकेत्यादिना । कुहकादयः प्रधानाः मुख्या येषां ते महाभोगवन्तः दीर्घकायाः महापुरुषस्य भगवतो वाहनभूतात्पक्षिराजानामप्यधिपतेर्गरुत्मतोऽनवरतं निरन्तरम् उद्विजमाना बिभ्यतः स्वकलत्रादिरूपकुटुम्बासक्त्या प्रमत्ताः सन्तः कचिद्विहरन्ति ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो नाम निवातकवचाः कालेया हिरण्यपुरवासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवतः सकललोकानुभावस्य हरेरेव तेजसा प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद‍्बिभ्यति॥

मूलम्

ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो नाम निवातकवचाः कालेया हिरण्यपुरवासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवतः सकललोकानुभावस्य हरे19रेव तेजसा प्रति20हतबलावलेपा विलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद‍्बिभ्यति॥ ३० ॥

अनुवाद (हिन्दी)

उसके नीचे रसातलमें पणि नामके दैत्य और दानव रहते हैं। ये निवातकवच, कालेय और हिरण्यपुरवासी भी कहलाते हैं। इनका देवताओंसे विरोध है। ये जन्मसे ही बड़े बलवान् और महान् साहसी होते हैं। किन्तु जिनका प्रभाव सम्पूर्ण लोकोंमें फैला हुआ है, उन श्रीहरिके तेजसे बलाभिमान चूर्ण हो जानेके कारण ये सर्पोंके समान लुक-छिपकर रहते हैं तथा इन्द्रकी दूती सरमाके कहे हुए मन्त्रवर्णरूप* वाक्यके कारण सर्वदा इन्द्रसे डरते रहते हैं॥ ३०॥

पादटिप्पनी
  • एक कथा आती है कि जब पणि नामक दैत्योंने पृथ्वीको रसातलमें छिपा लिया, तब इन्द्रने उसे ढूँढ़नेके लिये सरमा नामकी एक दूतीको भेजा था। सरमासे दैत्योंने सन्धि करनी चाही, परन्तु सरमाने सन्धि न करके इन्द्रकी स्तुति करते हुए कहा था—‘हता इन्द्रेण पणयः शयध्वम्’ (हे पणिगण! तुम इन्द्रके हाथसे मरकर पृथ्वीपर सो जाओ, इसी शापके कारण उन्हें सदा इन्द्रका डर लगा रहता है।
वीरराघवः

अथ रसातलमनुवर्णयति । ततो महातलादधस्ताद्रसातले विवरे दैतेयदानवाः दितेः पुत्राः दनुपुत्राच पणय इति प्रसिद्धास्ते च निवातकवचाः कालकेया हिरण्यपुरवासिन इति त्रिविधाः विबुधानां देवानां प्रत्यनीकाः प्रतिपक्षिणः उत्पत्त्यैव महाबलशालिनः महान्तश्च ते साहसिकाः सहसा दर्पेण चरन्तीति साहसिकाः तथाभूताः सन्तः सर्वेषु लोकेष्वनुभावो यस्य तस्य भगवतो हरेस्तेजसैव सुदर्शनास्त्रेण प्रतिहतः बलावलेपः बलनिमित्तो गर्वो येषां ते तादृशा बिलेशया इव सर्पा इव वसन्ति । तानेव विशिनष्टि य इति । ये वै पणयः इन्द्रदूत्या सरमया देवशुन्या प्रयुक्ताभिर्मन्त्रवर्णभूताभिर्वाग्भिरिन्द्राद् बिभ्यति भयं प्राप्नुवन्ति । एवं हि वैदिकमाख्यानं पणिभिरसुरैर्निगूढां गामन्वेष्टुं सरमां देवशुनीमिन्द्रेण प्रहितां सन्धिमिच्छवः पणयः प्राहुः किमिच्छन्ती सरमे ! इत्यादिना, सा च सन्धिमनिच्छन्ती इन्द्रस्तुतिपूर्वकं तान्प्रति धर्षणमाह “हता इन्द्रेण पणयः शयध्वम्” इत्यादि । ते च तच्छ्रुत्वा विभ्यतीति ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा निवसन्ति येषामु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णवः पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति॥

मूलम्

ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा21 निवसन्ति येषामु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णवः पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति॥ ३१ ॥

अनुवाद (हिन्दी)

रसातलके नीचे पाताल है। वहाँ शंख, कुलिक, महाशंख, श्वेत, धनंजय, धृतराष्ट्र, शंखचूड़, कम्बल, अश्वतर और देवदत्त आदि बड़े क्रोधी और बड़े-बड़े फनोंवाले नाग रहते हैं। इनमें वासुकि प्रधान हैं। उनमेंसे किसीके पाँच, किसीके सात, किसीके दस, किसीके सौ और किसीके हजार सिर हैं। उनके फनोंकी दमकती हुई मणियाँ अपने प्रकाशसे पाताल-लोकका सारा अन्धकार नष्ट कर देती हैं॥ ३१॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे रा22ह्लादिस्थितिबिलस्वर्गमर्यादानिरूपणं नाम चतुर्विंशोऽध्यायः॥ २४॥

वीरराघवः

एवं रसातलमनुवर्ण्याथ पातालमनुवर्णयति तत इति । ततो रसातलादधस्तात्पाताले विवरे नागलोकानां सर्परूपाणां जनानां पतयो वासुकिः प्रमुखः प्रधानो येषां ते शङ्खादयो महाभोगिनः फणिनः महाफणिनः महानमर्षः क्रोधो येषां महाक्रोधाः निवसन्ति, तानेव विशिनष्टि । येषामुह वै येषां हि पञ्चादिसंख्यानि शीर्षाणि येषां शीर्ष्णामिति वक्तव्ये शीर्षाणामित्यार्षं-तेषां-सर्पाणां फणानां फणासु आधारस्य सम्बन्धमात्रविवक्षया षष्ठी, विरचिता धृता ये महामणयो रोचिष्णवः सदा प्रकाशनशीलाः तेषां स्वरोचिषा पातालविवरं पातालविवरसम्बन्धितमोजालं विधमन्त्यपनुदन्तीति ॥ ३१ ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां चतुर्विंशोऽध्यायः ॥ २४ ॥


  1. मविस्ताराः सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव ततोऽधस्तादुरगाणामुपक्लृप्ता अतलं । ↩︎

  2. बिलस्थलेषु । ↩︎

  3. निर्मिताः । ↩︎

  4. शारिका । ↩︎

  5. नितरां । ↩︎

  6. चिरविटपिनां । ↩︎

  7. नीलनीरज । ↩︎

  8. यत्र महाहि । ↩︎

  9. पारिषट्भू । ↩︎

  10. भूय । ↩︎

  11. तयोर्वीर्येण । ↩︎

  12. परिक्षिप्तस्वर्लोकत्रयो । ↩︎ ↩︎

  13. यद्येतत्साक्षात्कारो । ↩︎ ↩︎

  14. ऽन्यथेवेहोप । ↩︎ ↩︎

  15. मुत्तरस्माद्विस्तरिष्यते यद्भगवान् । ↩︎

  16. त्रिपुरारिणा त्रिलोक्यर्थं । ↩︎

  17. मायानामाचार्यो । ↩︎

  18. मुद्विग्नमनसा त्वक । ↩︎

  19. हरेरिव । ↩︎

  20. हतावलेपा विलशया इव वसन्ति ये वै सुरमये । ↩︎

  21. मर्षाः सन्ति । ↩︎

  22. विवरावयववर्णनं नाम । ↩︎