२३ शिशुमारसंस्थावर्णनम्

भागसूचना

शिशुमारचक्रका वर्णन

श्लोक-१

विश्वास-प्रस्तुतिः

श्रीशुक उवाच

मूलम् (वचनम्)

श्रीशुक1 उवाच

विश्वास-प्रस्तुतिः

अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णो: परमं पदमभिवदन्ति यत्र ह महाभागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भि: सबहुमानं दक्षिणत: क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णित:॥

मूलम्

अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महाभागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णितः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! सप्तर्षियोंसे तेरह लाख योजन ऊपर ध्रुवलोक है। इसे भगवान् विष्णुका परम पद कहते हैं। यहाँ उत्तानपादके पुत्र परम भगवद‍्भक्त ध्रुवजी विराजमान हैं। अग्नि, इन्द्र, प्रजापति कश्यप और धर्म—ये सब एक साथ अत्यन्त आदरपूर्वक इनकी प्रदक्षिणा करते रहते हैं। अब भी कल्पपर्यन्त रहनेवाले लोक इन्हींके आधार स्थित हैं। इनका इस लोकका प्रभाव हम पहले (चौथे स्कन्धमें) वर्णन कर चुके हैं॥ १॥

वीरराघवः

एवं सूर्यादीनां गतिविशेषास्तत्स्थानविशेषाः कार्यविशेषाश्चोक्ताः अथ ध्रुवस्य स्थानं व्यापारं चाह अथेति । तस्मादृषिमण्डलात्परतस्त्रयोदशलक्षयोजनानां परस्ताद्यत्तत्प्रसिद्धं विष्णोः परमं पदमामनन्ति विष्णोरभिव्यक्तिस्थानत्वात्परमं पदमित्युक्तं किन्तत्परमं पदं तत्राह यत्रेति । यत्र परमे पदे महाभागवतो औत्तानपादिः उत्तानपादपुत्रः अग्न्यादिभिः सबहुमानं प्रदक्षिणतः क्रियमाणः उपास्ते तिष्ठति तस्य ध्रुवस्यानुभावः प्रभावः उपवर्णितश्चतुर्थस्कन्धे इति शेषः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनामनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहित: शश्वदवभासते॥

मूलम्

स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनामनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्वदवभासते2॥ २ ॥

अनुवाद (हिन्दी)

सदा जागते रहनेवाले अव्यक्तगति भगवान् कालके द्वारा जो ग्रह-नक्षत्रादि ज्योतिर्गण निरन्तर घुमाये जाते हैं, भगवान‍्ने ध्रुवलोकको ही उन सबके आधारस्तम्भरूपसे नियुक्त किया है। अत: यह एक ही स्थानमें रहकर सदा प्रकाशित होता है॥ २॥

वीरराघवः

स हि ध्रुवः भगवदात्मकेनानभिव्यक्तवेगेन कालचक्रेण भ्राम्यमाणानां ग्रहाणां सूर्यादीनामश्विन्यादिनक्षत्राणां च सर्वेषां स्थाणुरिव निश्चलोऽवष्टम्भोऽवलम्ब ईश्वरेण विष्टम्भत्वेन विहितः स्थापितः शश्वत् सदा एकत्रैवावभासते ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

यथा मेढीस्तम्भ आक्रमणपशव: संयोजितास्त्रिभिस्त्रिभि: सवनैर्यथास्थानं मण्डलानि चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ्‍क्रमन्ति नभसि यथा मेघा: श्येनादयो वायुवशा: कर्मसारथय: परिवर्तन्ते एवं ज्योतिर्गणा: प्रकृतिपुरुषसंयोगानुगृहीता: कर्मनिर्मितगतयो भुवि न पतन्ति॥

मूलम्

यथा मेढीस्तम्भ3 आक्रमणपशवः संयोजितास्त्रिभिस्त्रिभिः4 सवनैर्यथास्थानं मण्डलानि चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ्‍क्रमन्ति नभसि यथा मेघाः श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि न पतन्ति॥ ३ ॥

अनुवाद (हिन्दी)

जिस प्रकार दायँ चलानेके समय अनाजको खूँदनेवाले पशु छोटी, बड़ी और मध्यम रस्सीमें बँधकर क्रमश:निकट, दूर और मध्यमें रहकर खंभेके चारों ओर मण्डल बाँधकर घूमते रहते हैं, उसी प्रकार सारे नक्षत्र और ग्रहगण बाहर-भीतरके क्रमसे इस कालचक्रमें नियुक्त होकर ध्रुवलोकका ही आश्रय लेकर वायुकी प्रेरणासे कल्पके अन्ततक घूमते रहते हैं। जिस प्रकार मेघ और बाज आदि पक्षी अपने कर्मोंकी सहायतासे वायुके अधीन रहकर आकाशमें उड़ते रहते हैं, उसी प्रकार ये ज्योतिर्गण भी प्रकृति और पुरुषके संयोगवश अपने-अपने कर्मोंके अनुसार चक्‍कर काटते रहते हैं, पृथ्वीपर नहीं गिरते॥ ३॥

वीरराघवः

स्थाणुरिवावष्टम्भ इत्येतदेवोपपादयति । यथा मेढीस्तम्भः त्रिभिस्त्रिगुणितैः सूत्रैः संयोजिता बद्धा धान्यक्रमणपशवो बलीवर्दाः मेढीस्तम्भमवलम्ब्येह मण्डलानि पादविक्षेपस्थानानि चरन्त्येवं नक्षत्रगणाः सूर्यादयो ग्रहाश्च एतस्मिन् कालचक्रे अन्तर्बहिर्योगेन आयोजिताः केचिदन्तर्योजिताः केचिद् बहिर्योजिताः सन्तो ध्रुवमवलम्ब्यैव वायुना वायुपाशेनोदीर्यमाणाः धार्यमाणा आकल्पान्तं परितः भ्रमन्ते कर्मवशाद्वायुपाशवश्यत्वात् ध्रुवावलम्बत्वाच्च भुवि न पतन्तीति भावः । एतदेव दृष्टान्तेन स्पष्टयति नभसीति । यथा मेघाः श्येनादयः पक्षिणश्च वायुपाशवशाः कर्मसारथयः कर्मावलम्बाः नभसि परिवर्तन्ते न तु भुवि पतन्ति एवं ज्योतिर्गणा अपि प्रकृतिपुरुषयोर्यः संयोगः सम्बन्धः कर्मायत्तः तेनानुगृहीताः नक्षत्रादिरूपतां प्राप्ता जीवा एव कर्मायत्तप्रकृतिसम्बन्धवशान्नक्षत्रादिशरीरभाज इत्यर्थः । अत एव कर्म निमित्तं यासां ता गतयो येषामिति तथा केवलनभःसञ्चारापादककर्मायत्तनभोमात्रगतयो भुवि न पतन्ति । कर्मणां तत्परिणामानां च वैचित्र्यादग्नेरूर्ध्वज्वलनवद्वायोस्तिर्यग्गतिवन्नभसि भ्रमणं भुव्यपतनं च उपपद्यत इति भावः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति॥

मूलम्

केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति॥ ४ ॥

अनुवाद (हिन्दी)

कोई-कोई पुरुष भगवान‍्की योगमायाके आधारपर स्थित इस ज्योतिश्चक्रका शिशुमार (सूँस)-के रूपमें वर्णन करते हैं॥ ४॥

वीरराघवः

एवं ज्योतिर्गणानां कर्मायत्तो नभस्सञ्चार उक्तः, अथ सर्वाधारस्य भगवत एव शिशुमाराकारेणावस्थितत्वात्तदाश्रयाणां पतनशङ्कैव नास्तीत्यभिप्रयन् ज्योतिर्गणस्य शिशुमाराश्रयत्वं योगिनामुपासनेन सम्पादयति केचिदिति । शिशुमारसंस्थानस्य शिशुमारशरीरस्य भगवतो वासुदेवस्य कृत्स्नचिदचिदात्मकजगद्वारकस्य योगधारणायां वासुदेवविषयकमनःसमाधिरूपधारणायामेवैतज्ज्योतिरनीकं ज्योतिर्जालं केचिद्वेदभागे योगिनो वर्णयन्ति ज्योतिरनीकाश्रयं शिशुमारं भगवदात्मकमुपास्यं बोधयन्तीत्यर्थः । ज्योतिरनीकाश्रयं शिशुमारं योगधारणायां विषयीकुर्वन्तीति वार्थः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

यस्य पुच्छाग्रेऽवाक्शिरस: कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्‍गूले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छमूले धाता विधाता च कटॺां सप्तर्षय:। तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये। यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवा: समसंख्या भवन्ति। पृष्ठे त्वजवीथी आकाशगङ्गा चोदरत:॥

मूलम्

यस्य पुच्छाग्रेऽवाक्शिरसः5 कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्‍गूले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाशगङ्गा चोदरतः॥ ५ ॥

अनुवाद (हिन्दी)

यह शिशुमार कुण्डली मारे हुए है और इसका मुख नीचेकी ओर है। इसकी पूँछके सिरेपर ध्रुव स्थित है। पूँछके मध्यभागमें प्रजापति, अग्नि, इन्द्र और धर्म हैं। पूँछकी जड़में धाता और विधाता हैं। इसके कटिप्रदेशमें सप्तर्षि हैं। यह शिशुमार दाहिनी ओरको सिकुड़कर कुण्डली मारे हुए है। ऐसी स्थितिमें अभिजित् से लेकर पुनर्वसुपर्यन्त जो उत्तरायणके चौदह नक्षत्र हैं, वे इसके दाहिने भागमें हैं और पुष्यसे लेकर उत्तराषाढ़ापर्यन्त जो दक्षिणायनके चौदह नक्षत्र हैं, वे बायें भागमें हैं। लोकमें भी जब शिशुमार कुण्डलाकार होता है, तब उसके दोनों ओरके अंगोंकी संख्या समान रहती है, उसी प्रकार यहाँ नक्षत्र-संख्यामें भी समानता है। इसकी पीठमें अजवीथी (मूल, पूर्वाषाढ़ा और उत्तराषाढ़ा नामके तीन नक्षत्रोंका समूह)है और उदरमें आकाशगंगा है॥ ५॥

वीरराघवः

एतदेव प्रपञ्चयति यस्येत्यादिना । यस्य भगवदात्मकस्य कुण्डलीभूतदेहस्य सर्पवत्कुण्डलीभूतो वलयीभूतो देहो यस्य अर्वागधस्ताच्छिरो यस्य अनेनोर्ध्वपुच्छस्येत्यवगम्यते तस्य शिशुमारस्य पुच्छाग्रे ध्रुव उपकल्पितः उपास्यः, योगिभिरिति शेषः । शिशुमारावयवेषु यत्र यस्यावस्थानं तदाश्रयत्वेन तत्र तस्यावयवस्योपासनं कृतं कैश्चित्तथैवाधुनापि कर्तव्यं तेषामवस्थितिस्तत्र तत्रैव ज्ञेयेत्यत्र प्रतिपाद्यते । पुच्छाग्रे हि ध्रुवो व्यवस्थितः, तथा च श्रीवैष्णवे पुराणे “उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् । सतारशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥" इति तस्य शिशुमारस्य लाङ्गूले पुच्छाग्रादधोभागे प्रजापत्यादयश्चत्वारो व्यवस्थिताः, अतः प्रजापत्याद्याश्रयत्वेन लाङ्गूलोपासनं कर्तव्यमित्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । पुच्छस्य मूले धाता विधाता चोपकल्पित इत्यनुषङ्गः । कट्यां सप्तर्षय इत्यत्रापि प्रजापत्यादयश्चैवं व्यवस्थिताः लाङ्गूले प्रजापतिः प्रजापतेरधस्तादग्निस्ततोऽधस्तादिन्द्रः ततोऽप्यधो धर्म इति तस्य दक्षिणावर्त्तकुण्डलीभूतशरीरस्य दक्षिणपार्श्वे यान्युद्गयननक्षत्राण्यभिजिदादीनि पुनर्वस्वन्तानि चतुर्दश उपकल्पयन्ति उपासते, यानि दक्षिणायननक्षत्राणि पुष्यादीन्युत्तराषाढान्तानि च तानि वामपार्श्वे उपकल्पयन्ति । एतदेव स्थानविशेषेण विभज्य दर्शयितुं दक्षिणोत्तरपार्श्वयोरवयवसाम्यं तावदाह यस्येति । कुण्डलाकारः सर्पाकारः सन्निवेशो यस्य तस्य शिशुमारस्य उभयोरपि पार्श्वयोर्यथावयवाः समसङ्ख्या भवन्ति तस्य पृष्ठे त्वजवीथी नाम सूर्यस्य दक्षिणायनाख्या शीघ्रगतिर्मार्गविशेषः, उदरे आकाशगङ्गा उपकल्पिताः, आर्द्रेत्यादि युञ्जीत ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

पुनर्वसुपुष्यौ दक्षिणवामयो: श्रोण्योरार्द्राश्लेषे च दक्षिणवामयो: पश्चिमयो: पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासंख्यं श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं च दक्षिणवामयो: कर्णयोर्मघादीन्यष्ट नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्क्रिषु युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत्॥

मूलम्

पुनर्वसुपुष्यौ दक्षिणवामयोः6 श्रोण्योरार्द्राश्लेषे च दक्षिणवामयोः पश्चिमयोः पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासंख्यं श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं च दक्षिणवामयोः7 कर्णयोर्मघादीन्यष्ट नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्क्रिषु8 युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि9 दक्षिणपार्श्ववङ्क्रिषु10 प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत्॥ ६ ॥

अनुवाद (हिन्दी)

राजन्! इसके दाहिने और बायें कटितटोंमें पुनर्वसु और पुष्य नक्षत्र हैं, पीछेके दाहिने और बायें चरणोंमें आर्द्रा और आश्लेषा नक्षत्र हैं तथा दाहिने और बायें नथुनोंमें क्रमश: अभिजित् और उत्तराषाढ़ा हैं। इसी प्रकार दाहिने और बायें नेत्रोंमें श्रवण और पूर्वाषाढ़ा एवं दाहिने और बायें कानोंमें धनिष्ठा और मूल नक्षत्र हैं। मघा आदि दक्षिणायनके आठ नक्षत्र बायीं पसलियोंमें और विपरीत क्रमसे मृगशिरा आदि उत्तरायणके आठ नक्षत्र दाहिनी पसलियोंमें हैं। शतभिषा और ज्येष्ठा—ये दो नक्षत्र क्रमश: दाहिने और बायें कंधोंकी जगह हैं॥ ६॥

श्लोक-७

विश्वास-प्रस्तुतिः

उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारक: शनैश्चर उपस्थे बृहस्पति: ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुध: प्राणापानयो राहुर्गले केतव: सर्वाङ्गेषु रोमसु सर्वे तारागणा:॥

मूलम्

11उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये 12नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः॥ ७ ॥

अनुवाद (हिन्दी)

इसकी ऊपरकी थूथनीमें अगस्त्य, नीचेकी ठोडीमें नक्षत्ररूप यम, मुखोंमें मंगल, लिंगप्रदेशमें शनि, ककुद‍्में बृहस्पति, छातीमें सूर्य, हृदयमें नारायण, मनमें चन्द्रमा, नाभिमें शुक्र, स्तनोंमें अश्विनीकुमार, प्राण और अपानमें बुध, गलेमें राहु, समस्त अंगोंमें केतु और रोमोंमें सम्पूर्ण तारागण स्थित हैं॥ ७॥

वीरराघवः

स्थानविशेषेणोभयनक्षत्राणां स्थानविभागकल्पनामाह पुनर्वस्वित्यादिना । पुनर्वसुरुद्गयनान्तं नक्षत्रं पुष्यो दक्षिणायनस्याधस्थावुभौ क्रमेण दक्षिणवामयोः श्रोण्योरुपकल्प्यौ आर्द्रेत्यादि युञ्जीतानुसन्दधीत उत्तरायणनक्षत्रेष्वभिजिदादिषु पुनर्वस्वन्तेषु पुनर्वस्वाद्रोभिजिच्छ्रवणधनिष्ठा दक्षिणश्रोणिपादनासिकालोचनकर्णनासिकास्थानेषु ज्ञेयाः । मृगशीर्षारोहिणीकृत्तिकाभरण्यश्विनीरेवत्युत्तराभाद्रपूर्वाभाद्रपदा अष्टौ नक्षत्राणि दक्षिणपार्श्वेऽवगन्तव्यानि । शतभिषग्दक्षिणस्कन्धे दक्षिणायननक्षत्रेषु पुष्यप्रभृत्युत्तराषाढान्तेषु पुष्याश्लेषोत्तराषाढापूर्वाषाढामूलाख्यानि पञ्च नक्षत्राणि पादनासिकालोचनकर्णस्थानेषु योज्यानि मघादीन्यनुराधान्तानि क्रमेणाष्टौ नक्षत्राणि वामपार्श्वे योज्यानि । ज्येष्ठाख्यं वामस्कन्धे योज्यं, हनुः कपोलप्रान्तदेशः, अगस्त्ययमावपि नक्षत्ररूपेण वर्तेते इत्यभिप्रायः, बृहस्पतिः ककुदि गलपृष्ठे केतव इति बहुवचनं केत्वाकारनक्षत्राणां तारासद्भावाभिप्रायेण प्रयुक्तं शेषं स्पष्टम् ॥ ६-७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

एतदु हैव भगवतो विष्णो: सर्वदेवतामयं रूपमहरह: सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति॥

मूलम्

एतदु हैव भगवतो विष्णोः सर्वदेवतामयं रूपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो13 ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति॥ ८ ॥

अनुवाद (हिन्दी)

राजन्! यह भगवान् विष्णुका सर्वदेवमय स्वरूप है। इसका नित्यप्रति सायंकालके समय पवित्र और मौन होकर दर्शन करते हुए चिन्तन करना चाहिये तथा इस मन्त्रका जप करते हुए भगवान‍्की स्तुति करनी चाहिये—‘सम्पूर्ण ज्योतिर्गणोंके आश्रय, कालचक्रस्वरूप, सर्वदेवाधिपति परमपुरुष परमात्माका हम नमस्कारपूर्वक ध्यान करते हैं’॥ ८॥

वीरराघवः

एवं प्रतिनियतस्थानग्रहनक्षत्रतारामयं शिशुमारचक्रं नित्यमुपास्यमित्याह एतदिति । एतदुहैव एतद्वै सर्वदेवतामयं भगवतो विष्णो रूपं शरीरं शिशुमारचक्रम् अहरहः सन्ध्यायां प्रयतः समाहितचित्तो वाग्यतो मौनी सन्निरीक्षमाण उपतिष्ठेत वक्ष्यमाणमन्त्रेण स्तुवीत मन्त्रमेवाह नम इति । ज्योतिषां लोकाय कालायनाय कालस्याश्रयभूताय कालचक्रस्वरूपाय वा अनिमिषां ब्रह्मादीनामपि पतये तेषामपि कालवश्यत्वान्महापुरुषाय परमपुरुषात्मकाय नमः अभिधीमहीति उक्तरूपं महापुरुषं ध्यायेम इत्यर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

ग्रहर्क्षतारामयमाधिदैविकं
पापापहं मन्त्रकृतां त्रिकालम्।
नमस्यत: स्मरतो वा त्रिकालं
नश्येत तत्कालजमाशु पापम्॥

मूलम्

ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम्।
नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम्॥ ९ ॥

अनुवाद (हिन्दी)

ग्रह, नक्षत्र और ताराओंके रूपमें भगवान‍्का आधिदैविकरूप प्रकाशित हो रहा है; वह तीनों समय उपर्युक्त मन्त्रका जप करनेवाले पुरुषोंके पाप नष्ट कर देता है। जो पुरुष प्रात:, मध्याह्न और सायं—तीनों काल उनके इस आधिदैविक स्वरूपका नित्यप्रति चिन्तन और वन्दन करता है, उसके उस समय किये हुए पाप तुरन्त नष्ट हो जाते हैं॥ ९॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे शिशुमारसंस्थावर्णनं नाम त्रयोविंशोऽध्यायः॥ २३ ॥

वीरराघवः

एवं शिशुमाराकृतेर्भगवतोऽनुसन्धाननमस्कारयोः फलमाह ग्रहर्क्षेति । ग्रहनक्षत्रतारामयमाधिदैविकमधिदैवे वर्त्तमानं देवेभ्यः उत्कृष्टमित्यर्थः । हरे रूपं शिशुमारं त्रिकालं नमस्यतः नमस्कुर्वतः स्मरतो वा त्रिकालं मन्त्रकृतां उक्तमन्त्रं जपतां वा तत्कालजं पापमाशु शीघ्रं नश्येत नष्टं भवेदित्यर्थः । तत्कालजमित्यनेन तत्तद्भूतभविष्यद्वर्त्तमानकालजं विवक्षितम् ॥ ९ ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां त्रयोविंशोऽध्यायः ॥ २३ ॥


  1. ऋषिरुवाच । ↩︎

  2. दाभासते । ↩︎

  3. मेधीस्तम्भ । ↩︎

  4. तास्त्रिभिः सवने । ↩︎

  5. च्छ्राग्रेऽर्वाक्छिरसः । ↩︎

  6. योरार्द्राश्लेषे च । ↩︎

  7. प्राचीने पाठे ‘दक्षिणवामयोः’ पाठो न । ↩︎

  8. पार्श्ववक्षःसु । ↩︎

  9. मृगशीर्षर्क्षादीन्यु । ↩︎

  10. क्षिणपार्श्वेषु प्रातिलोम्येन शतभिषाज्येष्ठे । ↩︎

  11. उत्तरहृनावगस्त्योऽधरहनौ यमो मुखे चा । ↩︎

  12. नासायामुशना स्तनयोः । ↩︎

  13. नमो नमो ज्यो । ↩︎