[द्वाविंशोऽध्यायः]
भागसूचना
भिन्न-भिन्न ग्रहोंकी स्थिती और गतिका वर्णन
श्लोक-१
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति॥
मूलम्
यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं1 चाप्रदक्षिणं भगवतोप वर्णितममुष्य वयं कथमनुमिमीमहीति॥ १ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने पूछा—भगवन्! आपने जो कहा कि यद्यपि भगवान् सूर्य राशियोंकी ओर जाते समय मेरु और ध्रुवको दायीं ओर रखकर चलते मालूम होते हैं, किन्तु वस्तुतः उनकी गति दक्षिणावर्त नहीं होती—इस विषयको हम किस प्रकार समझें?॥ १॥
वीरराघवः
पूर्वमादित्यो नक्षत्राभिमुखं मकरादिषु राशिषु चरतीत्युक्तं तथा मेरुं ध्रुवं च परिवर्तत इति चोक्तं तदिदं गतिद्वयं युगपदेकस्याघटमानमुक्तानुवादपूर्वकं पृच्छति राजा यदिति । यदेतदित्यादिनोपवर्णितमित्यन्तेनोक्तस्यानुवादः, अमुष्येत्यादिना प्रश्नः, भगवता त्वया यदुपवर्णितं किं तम्मेरुं ध्रुवं च प्रदक्षिणेन परिभ्रमतो भगवत आदित्यस्य पुनः राशीनामभिमुखं नक्षत्राभिमुखतया राशिषु प्रचलनमित्येतत् द्वयं विरुद्धममुष्य सूर्यस्य कथमनुमिमीमहि कथमुपपन्नं भवतीति विश्वसिम इत्यर्थः ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
स होवाच
विश्वास-प्रस्तुतिः
यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वात्॥
मूलम्
यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिर2न्यैव प्रदेशान्तरेष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च 3प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वात्॥ २ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजीने कहा—राजन्! जैसे कुम्हारके घूमते हुए चाकपर बैठकर उसके साथ घूमती हुई चींटी आदिकी अपनी गति उससे भिन्न ही है क्योंकि वह भिन्न-भिन्न समयमें उस चक्रके भिन्न-भिन्न स्थानोंमें देखी जाती है—उसी प्रकार नक्षत्र और राशियोंसे उपलक्षित कालचक्रमें पड़कर ध्रुव और मेरुको दायें रखकर घूमनेवाले सूर्य आदि ग्रहोंकी गति वास्तवमें उससे भिन्न ही है; क्योंकि वे कालभेदसे भिन्न-भिन्न राशि और नक्षत्रोंमें देख पड़ते हैं॥ २॥
वीरराघवः
एवमापृष्टो बादरायणिराहेत्याह सूतः सहोवाचेति । शुकोक्तिमाह यथेत्यादिना राश्यन्तरे चोपलभ्यमानत्वादित्यन्तेन । विरुद्धमप्येकस्य गतिद्वयमुपपन्नमिति सदृष्टान्तमाह यथेति । भ्रमता कुलालचक्रेण सह भ्रमतां कुलालचक्राश्रयाणां पिपीलिकादीनां गतिरन्यैव दृश्यते दृष्टान्तेऽपि कथं तत्राह । प्रदेशान्तरे चक्रस्यैव प्रदेशान्तरे उपलभ्यमानत्वात् पिपीलिकादीनामित्यनुषङ्गः, यदि गतिरनन्या तर्हि प्रदेशान्तरे नोपलभ्येरन् अत उपलम्भाद्गतिरन्यैवेत्यर्थः । एवं दृष्टान्ते प्रदर्शितं गतिद्वयं दार्ष्टान्तिके साधयति एवमिति । एवं तथा नक्षत्रै राशिभिश्च उपलक्षितेन निराश्रयाणां नक्षत्रादीनामवस्थानासम्भवात्तदाश्रयं कालचक्रमनुमीयत इत्यभिप्रायेण उपलक्षितेनेत्युक्तं मेरुं ध्रुवं च प्रदक्षिणेन परिभ्रमता कालचक्रेण शिशुमारेण परिभ्रमतां तदाश्रयाणां कालचक्राश्रयाणां सूर्यादीनां ग्रहाणां नक्षत्राभिमुखतया राशिषु गतिरन्यान्या उपपद्यते एव, कुतः नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वादित्यन्वयः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्वृतुषु यथोपजोषमृतुगुणान् विदधाति॥
मूलम्
स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन 4विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्वृतुषु यथोपजोषमृतुगुणान् विदधाति॥ ३ ॥
अनुवाद (हिन्दी)
वेद और विद्वान् लोग भी जिनकी गतिको जाननेके लिये उत्सुक रहते हैं, वे साक्षात् आदिपुरुष भगवान् नारायण ही लोकोंके कल्याण और कर्मोंकी शुद्धिके लिये अपने वेदमय विग्रह कालको बारह मासोंमें विभक्त कर वसन्तादि छः ऋतुओंमें उनके यथायोग्य गुणोंका विधान करते हैं॥ ३॥
श्लोक-४
विश्वास-प्रस्तुतिः
तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिराम्नातैर्योगवितानैश्च श्रद्धया यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति॥
मूलम्
तमेतमिह पुरुषास्त्रय्या 5विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिराम्नातैर्योगवितानैश्च श्रद्धया यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति॥ ४ ॥
अनुवाद (हिन्दी)
इस लोकमें वर्णाश्रमधर्मका अनुसरण करनेवाले पुरुष वेदत्रयीद्वारा प्रतिपादित छोटे-बड़े कर्मोंसे इन्द्रादि देवताओंके रूपमें और योगके साधनोंसे अन्तर्यामीरूपमें उनकी श्रद्धापूर्वक आराधना करके सुगमतासे ही परम पद प्राप्त कर सकते हैं॥ ४॥
वीरराघवः
एवं प्रश्नस्योत्तरमभिधायाथ सूर्यरूपेणावस्थितस्य भगवतस्तत्तद्वर्णाश्रमधर्माराध्यत्वं स्वगत्या संवत्सरायनर्तुमालपक्षदिवानक्तादिरूपेण कालविभाजकत्वं चाह स इति । भगवानादिपुरुषः जगत्कारणभूतो नारायण एवं स सूर्यरूपेणावस्थितः “अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” इति सूर्यस्य भगवदात्मकत्वश्रवणात् शरीरात्मभावनिबन्धनं स एष नारायण इति सामानाधिकरण्यम् एवमादित्यवर्णो भगवान्नारायणो लोकानां स्वस्तये त्रयीमयं तत्कालनियमनेन कर्मणां विशुद्धेः साद्गुण्यस्य निमित्तं साद्गुण्यार्थमात्मानं द्वादशधा विभज्य वसन्तादिषु षट्सु ऋतुषु यथोपजोषं यथाकर्मभोगमृतुगुणान् शीतातपवातवर्षान् विदधाति करोतीत्यन्वयः । तत्र द्वादशधा विभागो नामादित्याख्यक्षेत्रज्ञे प्रतिमासमृतुगुणविधानोपयुक्तसङ्कल्परूपज्ञानेनानुप्रवेशः । “मासि मासि रविर्यो यस्तत्र तत्र भिदापरा । त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ॥ विष्णुशक्तिरवस्थानं सदादित्ये करोति सा । न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी ॥ एवं सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयी । अतः सप्तगतोपेतं स्वस्वान्तमधितिष्ठति ॥ तथा वाधिष्ठितः सोऽति जाज्वलीति स्वरश्मिभिः । ततः समस्तजगतां नाशं नयति चाखिलम्॥” इति श्रीवैष्णवपुराणोक्तेः, त्रयीमयत्वं नाम प्राचुर्येण त्रय्या स्तुत्यत्वं तदपि चोक्तं तचैव “ऋचः स्तुवन्ति पूर्वाह्ने मध्याह्ने च यजूंषि च । बृहद्रथन्तरादीनि सामान्याहुः क्षये रवेः ॥ त्रयमेषा त्रयी विष्णोः ऋग्यजुःसामसंज्ञिता” इति । कथम्भूतो विदधाति वेदेन तज्ज्ञैः कविभिश्च जिज्ञास्यमानो वेदैर्बोध्यमानः कविभिरुपास्यमान इत्यर्थः । एतदेवोपपादयति तमिति । तमेतमादित्यरूपेणावस्थितं भगवन्तमिह लोके पुरुषा वर्णाश्रमाचारानुवर्तिनः त्रय्या विद्यया श्रद्धया यजन्तः त्रय्या यजनमेव प्रपञ्चयति-उच्चावचैः कर्मभिराम्नातैर्योगवितानैश्चेति उच्चानुच्चैर्नानाविधैराम्नातैर्वैदिकैः कर्मभिर्यज्ञादिभिः योगवितानैः उपासनविस्तरैश्च आम्नातैरिति पूर्वोत्तराभ्यां सम्बध्यते वैदिकैरुपासनैश्चेत्यर्थः, यजन्त आराधयन्तोऽञ्जसा सुखेन आशु वा श्रेयः स्वर्गमोक्षादिरूपं सम्यक् प्राप्नुवन्तीत्यर्थः ॥ ३-४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्रगतो द्वादश मासान् भुङ्क्ते राशिसंज्ञान् संवत्सरावयवान्मासः पक्षद्वयं दिवा नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः॥
मूलम्
अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्रगतो द्वादश मासान् भुङ्क्ते राशिसंज्ञान् संवत्सरावयवान्मासः पक्षद्वयं6 दिवा नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः॥ ५ ॥
अनुवाद (हिन्दी)
भगवान् सूर्य सम्पूर्ण लोकोंके आत्मा हैं। वे पृथ्वी और द्युलोकके मध्यमें स्थित आकाशमण्डलके भीतर कालचक्रमें स्थित होकर बारह मासोंको भोगते हैं, जो संवत्सरके अवयव हैं और मेष आदि राशियोंके नामसे प्रसिद्ध हैं। इनमेंसे प्रत्येक मास चन्द्रमानसे शुक्ल और कृष्ण दो पक्षका, पितृमानसे एक रात और एक दिनका तथा सौरमानसे सवा दो नक्षत्रका बताया जाता है। जितने कालमें सूर्यदेव इस संवत्सरका छठा भाग भोगते हैं, उसका वह अवयव ‘ऋतु’ कहा जाता है॥ ५॥
श्लोक-६
विश्वास-प्रस्तुतिः
अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं कालमयनमाचक्षते॥
मूलम्
अथ च यावतार्धेन नभोवीथ्यां7 प्रचरति तं कालमयनमाचक्षते॥ ६ ॥
अनुवाद (हिन्दी)
आकाशमें भगवान् सूर्यका जितना मार्ग है, उसका आधा वे जितने समयमें पार कर लेते हैं, उसे एक ‘अयन’ कहते हैं॥ ६॥
श्लोक-७
विश्वास-प्रस्तुतिः
अथ च यावन्नभोमण्डलं सह द्यावापृथिव्योर्मण्डलाभ्यां कार्त्स्न्ये सह भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभिः समामनन्ति॥
मूलम्
अथ च यावन्नभोमण्डलं सह द्यावापृथिव्योर्मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभिः समामनन्ति॥ ७ ॥
अनुवाद (हिन्दी)
तथा जितने समयमें वे अपनी मन्द, तीव्र और समान गतिसे स्वर्ग और पृथ्वीमण्डलके सहित पूरे आकाशका चक्कर लगा जाते हैं, उसे अवान्तर भेदसे संवत्सर, परिवत्सर, इडावत्सर, अनुवत्सर अथवा वत्सर कहते हैं॥ ७॥
वीरराघवः
अथ ननु लोकानामन्तरात्मा भगवानेष आदित्यरूपेणावस्थितो द्यावापृथिव्योर्मध्ये यन्नभोवलयमन्तरिक्षं तस्य मध्ये यत्कालचक्रं शिशुमारं कालचक्रस्थमेषादिराशिषु नक्षत्राभिमुखं चरन्नित्यर्थः । द्वादश मासान् भुङ्क्ते संवत्सरावयवान् मासाख्यान् द्वादश भुङ्क्तेऽनुभवति मकरादिषु राशिषु द्वादशस्वादित्येषु चरत्सु सत्सु द्वादशमासा भवन्तीत्यर्थः । यानेवादित्यो द्वादश संवत्सरावयवान् भुङ्क्ते तानेव राशिसंज्ञान् मेषादिराशिसञ्चारनिमित्ता मासादिसंज्ञाः येषां तान् सम्वत्सरावयवान् मासादीन्मानभेदेन वदन्ति । तत्र चान्द्रेण मानेन मासः पक्षद्वयमिति वदन्ति तेषामेव चित्रादिनक्षत्रयुक्तत्वाच्चैत्रादिसंज्ञा भवन्ति । सौरेण मानेन सपादमहानक्षत्रद्वयमिति वदन्ति पित्र्येण मानेन दिवानक्तमहोरात्र इति वदन्तीत्यर्थः । एतद्द्वादशभागात्मकस्य संवत्सरस्य यावता भागेन मासद्वयात्मकेन षष्ठमंशं राशिद्वयं भुञ्जीत चरेत् आदित्य इति कर्तृपदमध्याहार्थं स वै तावान् काल ऋतुरित्युच्यते । स च सम्वत्सरस्य षष्ठोंऽश इत्यर्थः । अथ संवत्सरस्य यावता षण्मासात्मकेनार्द्धेन कालेन नभोवीथ्यां कालचक्रस्य राशिषट्के संचरितं प्रचलति तं कालमयनमाचक्षते, यावता कालेन मकरादिराशिषट्कं भवति तावन्तं कालमयनमाचक्षत इत्यर्थः । अथवा द्यावापृथिव्योर्मण्डलाभ्यां सह सन्धितमिति शेषः, यावन्नभोमण्डलं द्वादशराश्यात्मकं कार्त्स्न्येन यावता कालेनायनद्वयात्मकेन भुञ्जीत द्वादशराश्यात्मकं कृत्स्नं नभोमण्डलं भानोर्मन्दादिगतिभिर्यावता कालेन सञ्चरितं भवति तं कालं संवत्सरादिकमिति समामनन्ति इत्यर्थः । अत्रेदमवधेयं यदा शुक्लप्रतिपदि संक्रान्तिर्भवति तदा सौरचान्द्रमानयोर्युगपदुपक्रमो भवति स संवत्सरः सौरमानवर्षे षड् दिनानि वर्द्धन्ते चन्द्रमाने षट् ह्रसन्तीति द्वादशदिनव्यवधानादुभयोरप्रपञ्चाद्भावो भवति । एवं पञ्च वर्षाणि गच्छन्ति तन्मध्ये द्वौ मलमासौ भवतः । ततः पुनः षष्ठः सम्वत्सरो भवति तदेवमवान्तरभेदेन सम्वत्सरपरिवत्सरेडावत्सरानुवत्सरादिक्रमेण समामनन्तीति ॥ ५-७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते॥
मूलम्
एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते॥ ८ ॥
अनुवाद (हिन्दी)
इसी प्रकार सूर्यकी किरणोंसे एक लाख योजन ऊपर चन्द्रमा है। उसकी चाल बहुत तेज है, इसलिये वह सब नक्षत्रोंसे आगे रहता है। यह सूर्यके एक वर्षके मार्गको एक मासमें, एक मासके मार्गको सवा दो दिनोंमें और एक पक्षके मार्गको एक ही दिनमें तै कर लेता है॥ ८॥
वीरराघवः
एवं सूर्यस्य गतिभेदस्तत्कृतः कालविभागश्चोक्तः, अथ सोमज्ञशुक्रादीनां स्थानानि तद्गतिभेदान् तत्कृतशुभाशुभादिकार्यं चाह एवमित्यादिना यावदध्यायम् । अर्कगभस्तिभ्यो मण्डलरूपेभ्यः लक्षयोजनतः उपरिष्टादुपलभ्यमानः द्रुततरगमनोऽत एवं उग्रं चरतीत्युग्रचारी सन्नर्कस्य या सम्वत्सरभुक्तिः सम्वत्सरेण द्वादशराशिसञ्चारात्मिका भुक्तिः तां पक्षाभ्यामेव भुक्तं करोति एवमर्कस्य या मासभुक्तिः तां सपादर्क्षाभ्यां पादाधिकाभ्यां नक्षत्राभ्यां सपादनक्षत्रद्वयाभिमुखगमनेनैव सार्द्धसप्तोत्तरषष्टिमुहूर्त्तात्मककालेनेति यावत्, पक्षभुक्तिं दिनेनैव त्रिंशन्मुहूर्त्तात्मककालेनैव करोतीत्यर्थः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता मुहूर्तैर्भुङ्क्ते॥
मूलम्
अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीवनिर्व8हप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता मुहूर्तैर्भुङ्क्ते॥ ९ ॥
अनुवाद (हिन्दी)
यह कृष्णपक्षमें क्षीण होती हुई कलाओंसे पितृगणके और शुक्लपक्षमें बढ़ती हुई कलाओंसे देवताओंके दिन-रातका विभाग करता है तथा तीस-तीस मुहूर्तोंमें एक-एक नक्षत्रको पार करता है। अन्नमय और अमृतमय होनेके कारण यही समस्त जीवोंका प्राण और जीवन है॥ ९॥
श्लोक-१०
विश्वास-प्रस्तुतिः
य एष षोडशकलः पुरुषो भगवान्मनोमयोऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षिसरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय इति वर्णयन्ति॥
मूलम्
य एष षोडशकलः पुरुषो भगवान्मनोमयोऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षिसरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय इति वर्णयन्ति॥ १० ॥
अनुवाद (हिन्दी)
ये जो सोलह कलाओंसे युक्त मनोमय, अन्नमय, अमृतमय पुरुषस्वरूप भगवान् चन्द्रमा हैं—ये ही देवता, पितर, मनुष्य, भूत, पशु, पक्षी, सरीसृप और वृक्षादि समस्त प्राणियोंके प्राणोंका पोषण करते हैं; इसलिये इन्हें ‘सर्वमय’ कहते हैं॥ १०॥
वीरराघवः
अथ हे राजन् ! पूर्यमाणाभिः शुक्लपक्षेऽपक्षीयमाणाभिः कृष्णपक्षे कलाभिः विभक्ताभ्यां पूर्वपक्षापरपक्षाभ्यां शुक्लकृष्णपक्षाभ्यां पितॄणामहोरात्राण्यहोरात्रात्मकमेकं दिनं कुर्वाणः सर्वेषां जीवसमूहानां प्राणः प्राणाप्यायनकरः अत एव जीवः जीवयतीति जीवः जीवनहेतुः एवंभूत एकमेकं नक्षत्रं त्रिंशता मुहूर्त्तेर्भुङ्क्ते । षोडशकला यस्य स एव पुरुषश्चन्द्रशरीरको भगवान्मनोमयः मानसाधिदेवतात्वादन्नमयः ओषधीशत्वादमृतमयः सर्वप्राणिजीवनहेतुत्वाद्देवादीनां ये प्राणास्तेषामाप्यायनस्वभावत्वात्सर्वमय इति वर्णयन्ति तत्स्वरूपज्ञा इति शेषः ॥ ९-१० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभिजिताष्टाविंशतिः॥
मूलम्
तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभिजिताष्टाविंशतिः॥ ११ ॥
अनुवाद (हिन्दी)
चन्द्रमासे तीन लाख योजन ऊपर अभिजित् के सहित अट्ठाईस नक्षत्र हैं। भगवान्ने इन्हें कालचक्रमें नियुक्त कर रखा है, अतः ये मेरुको दायीं ओर रखकर घूमते रहते हैं॥ ११॥
वीरराघवः
ततश्चन्द्रमण्डलस्योपरिष्टात्त्रिलक्षयोजनतः अभिजिता सहाष्टाविंशतिर्नक्षत्राणि भवन्ति तथा च श्रुतिः कालायने कालचक्रे ईश्वरेणान्तरात्मभूतेन चोदितानि प्रेरितानि मेरुं प्रदक्षिणेनैव न तु तेषां सूर्यादिवत् पृथगन्या गतिरस्तीत्यर्थः, उत्तराषाढाश्रवणसन्धावभिजिन्नाम नक्षत्रं फलविशेषेण पृथक्कल्पितं तेन सहाष्टाविंशतिर्नक्षत्राणि भवन्ति । तथा च श्रुतिः “अभिजिन्नाम नक्षत्रमुपरिष्टादाषाढानाम्” इति ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते पुरतः पश्चात्सहैव वार्कस्य शैघ्र्यमान्द्यसाम्याभिर्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भग्रहोपशमनः॥
मूलम्
तत उपरिष्टादुशना द्विलक्षयोजनत9 उपलभ्यते पुरतः पश्चात्सहैव वार्कस्य शैघ्र्यमान्द्यसाम्याभिर्गतिभिरर्कवच्चरति लोकानां10 नित्यदानुकूल एव प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भग्रहोपशमनः॥ १२ ॥
अनुवाद (हिन्दी)
इनसे दो लाख योजन ऊपर शुक्र दिखायी देता है। यह सूर्यकी शीघ्र, मन्द और समान गतियोंके अनुसार उन्हींके समान कभी आगे, कभी पीछे और कभी साथ-साथ रहकर चलता है। यह वर्षा करनेवाला ग्रह है, इसलिये लोकोंको प्रायः सर्वदा ही अनुकूल रहता है। इसकी गतिसे ऐसा अनुमान होता है कि यह वर्षा रोकनेवाले ग्रहोंको शान्त कर देता है॥ १२॥
श्लोक-१३
विश्वास-प्रस्तुतिः
उशनसा बुधो व्याख्यातस्तत उपरिष्टाद् द्विलक्षयोजनतो बुधः सोमसुत उपलभ्यमानः प्रायेण शुभकृद्यदार्काद् व्यतिरिच्येत तदातिवाताभ्रप्रायानावृष्ट्यादिभयमाशंसते॥
मूलम्
उशनसा बुधो व्याख्यातस्तत उपरिष्टाद् द्विलक्षयोजनतो बुधः सोमसुत उपलभ्यमानः प्रायेण शुभकृद्यदार्काद् व्यतिरिच्येत तदातिवाताभ्रप्रायानावृष्ट्यादिभयमाशंसते॥ १३ ॥
अनुवाद (हिन्दी)
शुक्रकी गतिके साथ-साथ बुधकी भी व्याख्या हो गयी—शुक्रके अनुसार ही बुधकी गति भी समझ लेनी चाहिये। यह चन्द्रमाका पुत्र शुक्रसे दो लाख योजन ऊपर है। यह प्रायः मंगलकारी ही है; किन्तु जब सूर्यकी गतिका उल्लंघन करके चलता है, तब बहुत अधिक आँधी, बादल और सूखेके भयकी सूचना देता है॥ १३॥
वीरराघवः
ततो नक्षत्रमण्डलद्विलक्षयोजनत उपर्युशना शुक्रः उपलभ्यते स चार्कस्य पुरतः पश्चात् पुरतः सूर्येण भोक्ष्यमाणं नक्षत्रं पश्चाद् भुङ्क्ते सहैव भुज्यमाने तु नक्षत्रे शैघ्र्यादिगतिभिरर्कवञ्चरति । स च लोकानां सदानुकूल एव वर्त्तते यस्य शुक्रस्य चारेण क्रमस्थनक्षत्राद्यतिक्रमेण प्रायशो वर्षं वृष्टिरनुमीयतेऽतः स वृष्टिविष्टम्भग्रहोपशमनः वृष्टेर्विष्टम्भः स्तम्भनं यस्माद् ग्रहान्तमुपशमयतीति तथा उशनसा शुक्रेणेति प्रकारेण बुधोऽपि बुधगतिरपि व्याख्यातेत्यर्थः । सूर्यस्य पुरः पश्चात्सहैव वा चरतीति व्याख्यात इति भावः । किश्चिद्विशेषमाह तत इत्यादिना । ततः शुक्रमण्डलाद् द्विलक्षयोजनत उपरि सोमस्य सुतो बुधः उपलभ्यमानः लोकानां प्रायेणाशुभकृत् दुःखकृत्, अशुभकृत्त्वमेवाह यदार्काद्व्यतिरिच्यतेऽर्केण सह न चरति तदातिवातः अभ्रप्रायं मेघप्राचुर्यमनावृष्टिरित्यादिरूपं भयमाशंसते सूचयति ॥ १२-१३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो राशीन्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहोऽघशंसः॥
मूलम्
अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो राशीन्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहोऽघशंसः॥ १४ ॥
अनुवाद (हिन्दी)
इससे दो लाख योजन ऊपर मंगल है। वह यदि वक्रगतिसे न चले तो, एक-एक राशिको तीन-तीन पक्षमें भोगता हुआ बारहों राशियोंको पार करता है। यह अशुभ ग्रह है और प्रायः अमंगलका सूचक है॥ १४॥
वीरराघवः
ततो बुधमण्डलाद् द्विलक्षयोजनतः उपरिष्टादङ्गारक उपलभ्यमानम् एकैकं राशिं पक्षत्रयेण भुङ्क्ते यदि न वक्रेणाभिवर्तते त्रिभिस्त्रिभिः पक्षैर्यदि न वक्रस्थ: स्यात्तर्हि द्वादशराशीन् क्रमेण भुङ्क्ते इति पूर्वेणान्वयः । अयं प्रायेणाशुभग्रहोऽघशंसः दुःखसूचको वेत्यर्थः । यद्वा यदि न वक्रेणाभिवर्त्तते तदानुकूल इति शेषः, यदि वक्रेणाभिवर्त्तते तदाघशंसोऽपीत्यन्वयः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
तत उपरिष्टाद् द्विलक्षयोजनान्तरगतो भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य॥
मूलम्
तत उपरिष्टाद् द्विलक्षयोजनान्तरगतो भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति11 यदि न वक्रः स्यात्प्रायेणा12नुकूलो ब्राह्मणकुलस्य॥ १५ ॥
अनुवाद (हिन्दी)
इसके ऊपर दो लाख योजनकी दूरीपर भगवान् बृहस्पतिजी हैं। ये यदि वक्रगतिसे न चलें, तो एक-एक राशिको एक-एक वर्षमें भोगते हैं। ये प्रायः ब्राह्मणकुलके लिये अनुकूल रहते हैं॥ १५॥
श्लोक-१६
विश्वास-प्रस्तुतिः
तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमानः सर्वानेवानुपर्येति तावद्भिरनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकरः॥
मूलम्
तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमानः सर्वानेवानुपर्येति तावद्भिरनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकरः॥ १६ ॥
अनुवाद (हिन्दी)
बृहस्पतिसे दो लाख योजन ऊपर शनैश्चर दिखायी देते हैं। ये तीस-तीस महीनेतक एक-एक राशिमें रहते हैं। अतः इन्हें सब राशियोंको पार करनेमें तीस वर्ष लग जाते हैं। ये प्रायः सभीके लिये अशान्तिकारक हैं॥ १६॥
वीरराघवः
ततोऽङ्गारमण्डलाद्द्विलक्षयोजनानामन्तर उपरि तेन उपरि भागं गतो भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिचरति सोऽपि यदि न वक्रः स्यात्तर्हि ब्राह्मणकुलस्य प्रायशोऽनुकूलः । ततो बृहस्पतिमण्डलाद्योजनानां लक्षद्वयादुपरि शनैश्वरः प्रतीयमान उपलभ्यमान एकैकस्मिन् राशौ त्रिंशत् त्रिंशन्मासान् विलम्बमानः शनैः शनैर्गच्छन् सर्वानेव द्वादश राशीन् उपर्येति क्रमेण सञ्चरति तावद्भिः परिवत्सरैर्द्वादशजन्मादिराश्यवस्थानसहचरितत्रिंशस्त्रिंशन्मासानां गणनावशात् सम्पन्नैरनुवत्सरैः प्रायशः सर्वेषामशुभकर इत्यर्थः ॥ १५-१६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति॥
मूलम्
तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर13 उपलभ्यन्ते य एव14 लोकानां शमनुभावयन्तो भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं15 प्रक्रमन्ति॥ १७ ॥
अनुवाद (हिन्दी)
इनके ऊपर ग्यारह लाख योजनकी दूरीपर कश्यपादि सप्तर्षि दिखायी देते हैं। ये सब लोकोंकी मंगल-कामना करते हुए भगवान् विष्णुके परम पद ध्रुवलोककी प्रदक्षिणा किया करते हैं॥ १७॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ज्योतिश्चक्रवर्णने16 द्वाविंशोऽध्यायः॥ २२ ॥
वीरराघवः
ततः शनैश्चरमण्डलादुत्तरस्मादुपरिष्टादेकादशलक्षयोजनानामन्तरे देशे सप्तर्षय उपलभ्यन्ते के ते ये ऋषयः लोकानां शं सुखमेवानुभावयन्तः सम्पादयन्तः विष्णोर्यत्पदं स्थानं परममुत्कृष्टं ध्रुवमण्डलं तत्प्रदक्षिणं यथा तथा परिक्रमन्ति परिभ्रमन्ति ॥ १७ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां द्वाविंशोऽध्यायः ॥ २२ ॥