२१ ज्योतिश्चक्रसूर्यरथमण्डलवर्णनम्

[एकविंशोऽध्यायः]

भागसूचना

सूर्यके रथ और उसकी गतिका वर्णन

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एतावानेव भूवलयस्य संनिवेशः प्रमाणलक्षणतो व्याख्यातः॥

मूलम्

एतावानेव भूवलयस्य संनिवेशः प्रमाणलक्षणतो व्याख्यातः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! परिमाण और लक्षणोंके सहित इस भूमण्डलका कुल इतना ही विस्तार है, सो हमने तुम्हें बता दिया॥ १॥

श्लोक-२

विश्वास-प्रस्तुतिः

एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्विदलयोर्निष्पावादीनां ते अन्तरेणान्तरिक्षं तदुभयसन्धितम्॥

मूलम्

1तेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्वि2दलयोर्निष्पावादीनां ते अन्तरेणान्तरिक्षं तदुभयसन्धितम्॥ २ ॥

अनुवाद (हिन्दी)

इसीके अनुसार विद्वान् लोग द्युलोकका भी परिमाण बताते हैं। जिस प्रकार चना-मटर आदिके दो दलोंमेंसे एकका स्वरूप जान लेनेसे दूसरेका भी जाना जा सकता है, उसी प्रकार भूर्लोकके परिमाणसे ही द्युलोकका भी परिमाण जान लेना चाहिये। इन दोनोंके बीचमें अन्तरिक्षलोक है। यह इन दोनोंका सन्धिस्थान है॥ २॥

श्लोक-३

विश्वास-प्रस्तुतिः

यन्मध्यगतो भगवांस्तपताम्पतिस्तपन आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा स एष उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मान्द्यशैघ्र्यसमानाभिर्गतिभिरारोहणावरोहणसमानस्थानेषु यथासवनमभिपद्यमानो मकरादिषु राशिष्वहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते॥

मूलम्

यन्मध्यगतो भगवांस्तपताम्पतिस्तपन आतपेन त्रि3लोकीं प्रतपत्यवभासयत्यात्मभासा स एष उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मान्द्यशैघ्य्र4समानाभिर्गतिभिरारोहणावरोहणसमानस्थानेषु यथासवनमभिपद्यमानो मकरादिषु राशिष्वहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते॥ ३ ॥

अनुवाद (हिन्दी)

इसके मध्यभागमें स्थित ग्रह और नक्षत्रोंके अधिपति भगवान् सूर्य अपने ताप और प्रकाशसे तीनों लोकोंको तपाते और प्रकाशित करते रहते हैं। वे उत्तरायण, दक्षिणायन और विषुवत् नामवाली क्रमशः मन्द, शीघ्र और समान गतियोंसे चलते हुए समयानुसार मकरादि राशियोंमें ऊँचे-नीचे और समान स्थानोंमें जाकर दिन-रातको बड़ा, छोटा या समान करते हैं॥ ३॥

वीरराघवः

एवं कृत्स्नस्य भूमण्डलस्य सन्निवेशं तत्परिमाणञ्चाभिधायाथ दिवो मण्डलपरिमाणं सूर्यगतिञ्च विवक्षुर्वक्ष्यमाणस्योक्तसापेक्षत्वादुक्तमनुवदति त्रिभिरध्यायैः । एतावानेवेति । भूमण्डलस्य सन्निवेशः संस्थानं प्रमाणादिभिरेतावानेव पञ्चाशत्कोटियोजनपरिमित एवमाख्यातः । एवकारेण उक्ताधिकपरिमाणव्यावृत्तिः, वक्ष्यमाणमवतारयति एतेन भूमण्डलपरिमाणेन दिवो मण्डलस्यापि मानं परिमाणं तद्विदः दिवो मण्डलमपि पञ्चाशत्कोटियोजनपरिमितमित्येवोपदिशन्ति कथयन्तीत्यर्थः । कथमन्यस्य परिमाणकथनेनान्यस्यापि परिमाणं ज्ञातुं शक्यमित्यपेक्षायां दृष्टान्तमाह । यथा द्विदलयोर्निष्पावादीनामिति । निष्पावो गोधूमादिधान्यानि चूर्णयितुं शिल्पिभिर्निर्मितः द्विदलात्मकः पाषाणविशेषः बाह्यद्वयदलविशिष्टो धान्यविशेषो निष्पूयते सूर्पादिभिरिति निष्पावः “निरभ्योः पूल्वोः" इति घञ् निष्पावप्रभृतीनां द्वयोर्दलयोर्मध्येऽधःस्थितस्य दलस्य परिमाणे कथिते उपरितनदलमपि तत्तुल्यपरिमाणमिति कथितं भवति तथेत्यर्थः । अस्तु दिवो मण्डलं भूमण्डलेन तुल्यपरिमाणं किन्तद्भूमण्डलद्युमण्डलयोर्मध्यं यत्र स्थितं सूर्यमवधीकृत्य परिच्छेदः कार्य इत्युक्तं तत्राह तयोरिति । तयोर्भूमण्डलद्युमण्डलयोरन्तरेण मध्येऽन्तरिक्षमन्तरिक्षलोकमुपदिशन्तीत्यनुषङ्गः । कथम्भूतं तदुभयसन्धितं ताभ्यां भूमण्डलद्युमण्डलाभ्यामुभयतः अध ऊर्ध्वञ्च सन्धितं संलग्नं सन्दृब्धमित्यर्थः । यस्यान्तरिक्षस्य मध्यगतो मध्ये स्थितो भगवांस्तपतां पतिः तापं कुर्वतां पतिरग्न्यादीनां मध्ये पतिः श्रेष्ठः तपनः सूर्य आतपेन त्रिलोकीं भूर्भुवः सुव इत्यात्मिकां प्रतपति प्रकाशयत्यात्मनः स्वस्य भासा कान्त्या त्रिलोकीमवभासयति प्रकाशयति स्वस्वकर्मणि प्रवृत्तां करोतीत्यर्थः । किमयं सूर्य एकत्र स्थित एव त्रिलोकीं प्रतपत्यवभासयति उताटन्नेव । यद्यटन्नेव तर्हि सदैकरूपेणाटति उत कदाचित्त्वरया कदाचिच्छनैः कदाचित्समं किम्वोर्ध्वमेवाटति अथवा अधः आहोस्विदुभयतः केषु स्थानेष्वटति कथम्वा तद्गतिकृतो भवत्यहोरात्रपरिमाणविभाग इत्याद्यपेक्षायामाह स एष इति । स एष अन्तरिक्षमध्यगतः सूर्य उदगयनादिसंज्ञाभिर्मान्द्यादिगतिभिरारोहणादिस्थानेषु यथाकालमारोहणादिकमभिपद्यमानः मकरादिषु राशिषु वर्तमानः अहानि रात्रीश्च दीर्घह्रस्वसमानानि विधत्ते कुरुते । मार्गस्य अल्पीयस्त्वं तावत् “अशीतिमण्डलशतं काष्ठ्योरन्तरं द्वयोः । आरोहणावरोहाभ्यां भानोरब्देन या गतिः” इति श्रीवैष्णवपुराणोक्तरीत्या शेषग्रहर्क्षताराश्च येऽन्तर्मध्यबहिर्वलयत्रयाकारे अशीतिशतकुण्डलाकारे रेखामये अवाक्शिरस्कदक्षिणावर्तकुण्डलीभूतसर्पाकारे भगवदात्मके शिशुमाराख्ये कालचक्रेऽधिश्रित्यारोहणावरोहणसमवस्थानेष्वन्तर्वलयबाह्यवलमध्यमवलयेषूदगयनादिसंज्ञाभिर्मान्द्यादिगतिभिर्यथासवनमीश्वरादृष्टकालमनतिक्रम्याभिपद्यमानः प्राप्तः सन्मकरादिषु शिशुमाराख्यस्य मकाराद्याकाररेखामयमण्डलेषु नक्षत्राभिमुखतया सञ्चरन्नहरादीनि ह्रस्वानि दीर्घाणि समानानि च कुरुते । तत्र बहिर्वलयादन्तर्वलयगमनमारोहणं तदेवोदगयनमारोहे च चिरगतिमार्गस्य राशीकृतभूयस्त्वादन्तर्वलयाद् बहिर्वलयगमनमवरोहणं तदेव दक्षिणायनमवरोहे च ह्रस्व इति गतेर्मार्गस्य राशीकृतस्याल्पीयस्त्वात् समवस्थानशब्दनिर्दिष्टेषु मध्यमवलये गमनं समवस्थितिः तदेव विषुवस्थितिः तत्र समगतिमार्गस्य राशीकृतस्य साम्याद् आरोहणादिकम्’, “ध्रुवेण मुच्यमानेन पुरा रश्मियुगेन तु । तस्यैव बाह्यतः सूर्यो भ्रमते मण्डलानिः च” इति । आरोहणे चिरगत्यैव दिनवृद्धिरात्रिह्रासश्च भवति, अवरोहणे द्रुतगमनेऽह्नां ह्रासः रात्रिवृद्धिश्च समवस्थितावहोरात्रस्य साम्यमिति भेदः ॥ १-३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्येव वर्धन्ते ह्रसति च मासि मास्येकैका घटिका रात्रिषु॥

मूलम्

यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृष5भादिषु पञ्चसु च राशिषु चरति तदाहान्येव व6र्धन्ते ह्रसति च मासि मास्येकैका घटिका रात्रिषु॥ ४ ॥

अनुवाद (हिन्दी)

जब सूर्यभगवान् मेष या तुला राशिपर आते हैं, तब दिन-रात समान हो जाते हैं; जब वृषादि पाँच राशियोंमें चलते हैं, तब प्रतिमास रात्रियोंमें एक-एक घड़ी कम होती जाती है और उसी हिसाबसे दिन बढ़ते जाते हैं॥ ४॥

वीरराघवः

एतदेव प्रतिपिपादयिषुस्तावत्कासु राशिषु चरन्नहोरात्रस्य साम्याधिकं विधत्ते इति शङ्कायामहोरात्रिकृतसाम्याधिकविभागमाह यदेति । यदा वृषभादिषु वृषभ आदिर्यासां तासु वृषभमिथुनकर्कटसिंहकन्यासु राशिषु पञ्चसु यदा चरति तदाहान्येव वर्द्धन्ते न तु रात्रय इत्यर्थः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहोरात्राणि विपर्ययाणि भवन्ति॥

मूलम्

यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहोरात्राणि विपर्ययाणि भवन्ति॥ ५ ॥

अनुवाद (हिन्दी)

जब वृश्चिकादि पाँच राशियोंमें चलते हैं, तब दिन और रात्रियोंमें इसके विपरीत परिवर्तन होता है॥ ५॥

श्लोक-६

विश्वास-प्रस्तुतिः

यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं रात्रयः॥

मूलम्

यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं रात्रयः॥ ६ ॥

अनुवाद (हिन्दी)

इस प्रकार दक्षिणायन आरम्भ होनेतक दिन बढ़ते रहते हैं और उत्तरायण लगनेतक रात्रियाँ॥ ६॥

श्लोक-७

विश्वास-प्रस्तुतिः

एवं नव कोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदयमध्याह्नास्तमयनिशीथानीति भूतानां प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश्चतुर्दिशम्॥

मूलम्

एवं नव कोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदयमध्याह्नास्तमयनिशीथानीति भूतानां प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश्चतुर्दिशम्॥ ७ ॥

अनुवाद (हिन्दी)

इस प्रकार पण्डितजन मानसोत्तर पर्वतपर सूर्यकी परिक्रमाका मार्ग नौ करोड़, इक्यावन लाख योजन बताते हैं। उस पर्वतपर मेरुके पूर्वकी ओर इन्द्रकी देवधानी, दक्षिणमें यमराजकी संयमनी, पश्चिममें वरुणकी निम्लोचनी और उत्तरमें चन्द्रमाकी विभावरी नामकी पुरियाँ हैं। इन पुरियोंमें मेरुके चारों ओर समय-समयपर सूर्योदय, मध्याह्न, सायंकाल और अर्धरात्रि होते रहते हैं; इन्हींके कारण सम्पूर्ण जीवोंकी प्रवृत्ति या निवृत्ति होती है॥ ७॥

श्लोक-८

विश्वास-प्रस्तुतिः

तत्रत्यानां दिवसमध्यङ्गत एव सदाऽऽदित्यस्तपति सव्येनाचलं दक्षिणेन करोति॥

मूलम्

तत्रत्यानां दिवसमध्यङ्गत एव सदाऽऽदित्यस्तपति सव्येनाचलं दक्षिणेन करोति॥ ८ ॥

अनुवाद (हिन्दी)

राजन्! जो लोग सुमेरुपर रहते हैं उन्हें तो सूर्यदेव सदा मध्याह्नकालीन रहकर ही तपाते रहते हैं। वे अपनी गतिके अनुसार अश्विनी आदि नक्षत्रोंकी ओर जाते हुए यद्यपि मेरुको बायीं ओर रखकर चलते हैं तो भी सारे ज्योतिर्मण्डलको घुमानेवाली निरन्तर दायीं ओर बहती हुई प्रवह वायुद्वारा घुमा दिये जानेसे वे उसे दायीं ओर रखकर चलते जान पड़ते हैं॥ ८॥

वीरराघवः

यद्यपि वृषभमिथुनयोरेवाह्नां वृद्धिः कर्कटादिषु ह्रासस्तथापि रात्र्यपेक्षयाधिकत्वाद्वर्द्धन्त इत्युक्तं ह्रसति चेति मासि मासि रात्रिषु एकैका घटिका ह्रसति चाहस्सु एकैका घटिका वर्द्धते चेत्यर्थः । वृश्चिकधनुर्मकरकुम्भराशिषु पञ्चसु वर्तते चरति तदाहोरात्राणि विपर्ययाणि रात्रयो वर्द्धन्तेऽहानि ह्रसन्तीत्यर्थः । पूर्ववद्दिनापेक्षयात्र ह्रासो बोध्यः । अत्राप्यकैका घटिका रात्रिषु वर्द्धतेऽहस्सु ह्रसतीत्यवगन्तव्यमिदं च स्थूलदृष्ट्योक्तं वृद्धिह्रासयोः प्रतिमासवैषम्यादथ तात्त्विकं वृद्धिह्रासमाह यावदिति । दक्षिणायनपर्यन्तमहानि वर्द्धन्ते रात्रयो ह्रसन्ति तत उत्तरायणपर्यन्तम् अहानि ह्रसन्ति रात्रयो वर्द्धन्त इत्यर्थः । एतदेव प्रपञ्चितं श्रीवैष्णवे- “अयनस्योत्तरस्यादौ मकरं याति भास्करः । ततः कुम्भं च मीनं च राशिराश्यन्तरं द्विज ॥
त्रिष्वेतेषु च भुक्तेषु ततो वैषुवती गतिः । प्रयाति सविता कुर्वन्नहोरात्रं ततः समम् ॥
ततो रात्रिः क्षयं याति वर्द्धतेऽनुदिनं दिनम् । ततश्च मिथुनस्यान्ते परां काष्ठामुपागतः ॥
राशिकर्कटकं प्राप्य कुरुते दक्षिणायनम् । कुलालचक्रपर्यन्तो यथा शीघ्रं प्रवर्त्तते ॥
अतिवेगितया कालं वायुवेगगतश्चरन् । तस्मात् प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥
सूर्यो द्वादशभिः शैध्यान्मुहूर्तेर्दक्षिणायने । त्रयोदशार्द्धमृक्षाणां ह्रासमाचरते द्विज ॥
मुहूर्त्तेस्तावदृक्षाणि वक्तुमष्टादशैश्चरन् । कुलालचक्रमध्यस्थो यथा मन्दं प्रवर्त्तते ॥
तथोदगयने सूर्यः सर्पते मन्दविक्रमः । तस्माद्दीर्घेण कालेन भूमिमल्पां च गच्छति ॥
अष्टादशमुहूर्तं तु उत्तरायणपश्चिमम् । अहो भवति तत्रापि चरते मन्दविक्रमः ॥
त्रयोदशार्द्धमह्नां वै ऋक्षाणां चरते रविः । मुहूर्तैस्तावदृक्षाणि रात्रौ द्वादशभिश्चरन् ॥
अतो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा । कुलालचक्रनाभिस्तु यथा तत्रैव वर्तते ॥
ध्रुवस्तथा हि मैत्रेय ! तत्रैव परिवर्तते । उभयोः काष्ठ्योर्मध्ये भ्रमते मण्डलानि तु ॥
दिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः । एवं प्रमाणमेवैष मार्गं याति दिवाकरः ॥
अहोरात्रेण यो भुङ्क्ते समस्ता राशयो द्विज । षडेव राशीन् यो भुङ्क्ते रात्रावान्यांश्च षड्दिवा ॥
राशिप्रमाणजनिता दीर्घह्रस्वात्मता ततः । तथा निशायां राशीनां प्रमाणैर्लघुदीर्घता ॥
दिनान्ते दीर्घह्रस्वत्वं तद्भागेनैव जायते । उत्तरे प्रक्रमे शीघ्रा निशि मन्दा गतिर्दिवा ॥
दक्षिणे त्वयने सैव विपरीता विवस्वतः ॥” इति यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति, इत्यनेन उत्तरायणे मेषमासे साम्यमहोरात्रस्य दक्षिणायने तुलामासे साम्यमित्युक्तमेतदेव श्रीवैष्णवेऽप्युक्तम् “तुलामेषगते भानौ समं रात्रिदिनं तु तत्” इति । एवं सूर्यस्य मन्दादिगतिभिरहोरात्रपरिमाणविभाग उक्तः । अथाहोरात्रविभागात्परिमाणविभागाद्यर्थम् । मानसोत्तरे मेरुं परिभ्रमता सूर्येण कति योजनानि परिभ्रमितानि भवन्तीत्यपेक्षायामाह एवमिति । एवं मन्दादिगतिभिर्मानसोत्तरगिरिपरिवर्त्तमानस्य मानसोत्तरे मेरुपरिवर्तमानस्य योजनानां तेन परिभ्राम्यमाणानां नवकोटय एकपञ्चाशल्लक्षाणि चेत्युपदिशन्ति इत्यर्थः । अथोदयास्तमयादिस्वरूपं विविक्षुस्तदुपोद्घातं प्रपञ्चयति तस्मिन्नित्यादिना विभावरी नामेत्यन्तेन । तस्मिन्मानसोत्तरगिरौ पूर्वस्मात्पूर्वस्मिन् दिशि देवधानीं नाम पुरीं दक्षिणदिशो नाम्ना संयमनीं पुरीं पश्चिमे वारुणीं नाम वरुणाधिष्ठितां निम्लोचनीं नाम उत्तरतः सौम्यां सोमाधिष्ठितां विभावरीं नाम पुरीमुपदिशन्तीति पूर्वेणान्वयः । ऐन्द्रीमिति इन्द्राधिष्ठितामिन्द्रेण रक्ष्यमाणामित्यर्थः । तथा याम्यामिति यमेन पाल्यमानामिति ज्ञेयम् । अथोदयादिकमाह तास्विति । तासु देवधान्यादिचतसृषु पुरीषु मेरोश्चतुर्दिशं चतुर्दिक्षु समयविशेषेण कालविशेषेण भूतानां भूमण्डलस्थानां प्रवृत्तिनिवृत्तिनिमित्तानि व्यापारतदभावनिमित्तानि उदयादीनि भवन्ति । तत्रास्तमयान्तानि प्रवृत्तिनिमित्तानि उदयादीनि प्रवृत्तिनिमित्तानि निशीथादीनि निवृत्तिनिमित्तानि तदा भूतानां सुप्तत्वादिति विवेकः । आदिशब्दात्पूर्वोत्तररात्रेर्मार्गा विवक्षिताः, मेरोश्चतुर्दिशमित्यस्यायं भावः यानि मेरोर्दक्षिणतः भूतानि तेषामैन्द्रीमारभ्य पूर्वादयो दिशस्तु क्रमेण उदयादयश्चत्वारो भवन्ति यानि पश्चिमतः येषां याम्यामारभ्य यान्युत्तरतस्तेषां वारुणीमारभ्य यानि पूर्वतस्तेषां सौम्यामारभ्येति ज्ञेयमिति मेरौ स्थितानां तु नोदयादिकमस्तीत्याह तत्रत्यानामिति । तत्रत्यानां मेरौ स्थितानां तु भूतानामादित्यः दिवसमध्यं गतः एव मध्याह्नगत एव सदा विदधानः व्यापारयन् तपति प्रकाशते, किञ्च सर्वेषां द्वीपवर्षाणां मेरुमुत्तरं करोतीत्याह सव्येनेति । आदित्यं पश्यतां सव्येन स्थितं मेरुमारभ्य स्वदक्षिणभागे स्थितं करोतीत्यर्थः । यत्र यः पश्यत्यादित्यं सैव तत्र प्राची तस्य च वामतो मेरुस्तिष्ठतीति भावः । समयविशेषेणेत्यस्यायमभिप्रायः “उदयास्तमने चैव सर्वकालं तु सम्मुखे । दिशास्वशेषासु तथा मैत्रेय ! विदिशासु च ॥ यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् । विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान् द्वे पुरे तथा ॥” इति विष्णुपुराणोक्तरीत्या दक्षिणावर्त्तप्रवहाख्यवायुना भ्रममाणज्योतिश्चक्रवशादतिदूरतो भूसंलग्नस्येव कालविशेषे दर्शनमुदयः, आकाशमारूढस्येव दर्शनं मध्याह्नः, भूमिप्रविष्टस्येव दर्शनमस्तमयः, ततोऽति दूरगमने निशीथ इति कालविशेषकृताविर्भावादिकमेवोदयास्तादिकमिति । एवम् “अद्भयो वा एष प्रातरुदेति अपः सायं प्रविशति” इति श्रौतव्यवहारोऽपि समुद्रतीरस्थदृष्टिकृतः, मानसोत्तरे भ्रमतो रवेरप्सु प्रवेशासम्भवादिति भावः ॥ ५-८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समानसूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन्॥

मूलम्

यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समानसूत्रनिपाते प्र7स्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन्॥ ९ ॥

अनुवाद (हिन्दी)

जिस पुरीमें सूर्यभगवान‍्का उदय होता है, उसके ठीक दूसरी ओरकी पुरीमें वे अस्त होते मालूम होंगे और जहाँ वे लोगोंको पसीने-पसीने करके तपा रहे होंगे, उसके ठीक सामनेकी ओर आधी रात होनेके कारण वे उन्हें निद्रावश किये होंगे। जिन लोगोंके मध्याह्नके समय वे स्पष्ट दीख रहे होंगे, वे ही जब सूर्य सौम्यदिशामें पहुँच जायँ, तब उनका दर्शन नहीं कर सकेंगे॥ ९॥

वीरराघवः

यथोक्तमस्योदयास्तमनादेर्नियमं दर्शयति यत्रोदेतीत्यादिना । यत्र ऐन्द्र्यादिपुरे उदेति उदयं प्राप्नोति दृष्टो भवतीति यावत् तस्य उदयस्थानस्य समानसूत्रनिपाते वारुण्यां निम्लोचत्यस्तं गच्छति न तिर्यग्दर्शनं प्राप्नोतीत्यर्थः । यत्र हि याम्यादौ पुरि स्यन्देनाभितपति स्वेदोद्गमेनाभितपति मध्याह्नस्थितो भवतीति यावदेष भगवान् सूर्य्यस्तस्य समानसूत्रनिपाते न्यूनाधिकदेशे सौम्यादौ पुरे स्थितः प्रस्वापयति याम्यदिक्स्थितानामर्द्धरात्रं करोतीत्यर्थः । ये याम्यदिशि स्थिताः अस्तं गते सूर्यमनुपश्येरन् ते तत्र गतं सौम्यदिग्गतं न पश्यन्ति एवं याम्यादिषु पुरीषु उदयादिनियमो द्रष्टव्यः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि चोपयाति॥

मूलम्

यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चद8शघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि चोपयाति॥ १० ॥

अनुवाद (हिन्दी)

सूर्यदेव जब इन्द्रकी पुरीसे यमराजकी पुरीको चलते हैं, तब पंद्रह घड़ीमें वे सवा दो करोड़ और साढ़े बारह लाख योजनसे कुछ—पचीस हजार योजन—अधिक चलते हैं॥ १०॥

वीरराघवः

एवमुदयादिदेशनियम उक्तः, अथेन्द्रादिपुर्याः याम्यादिपुरीं कियता कालेन कति योजनानि गच्छतीत्यपेक्षायामाह यदेति । यदा ऐन्द्र्यादिपुर्याः प्रचलति निष्क्रान्तो भवति तदा पञ्चदशघटिकात्मकेन कालेन त्रैराशिकगणितेन योजनानां सार्द्धद्वादशलक्षाणि साधिकानि पञ्चविंशतिसहस्राधिकानि सपादकोटिद्वयं पञ्चविंशतिलक्षाधिककोटिद्वयं चातिक्रम्येति शेषः, याम्यां पुरीमुपयाति ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्चक्रे समभ्युद्यन्ति सह वा निम्लोचन्ति॥

मूलम्

एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्चक्रे समभ्युद्यन्ति सह वा9 निम्लोचन्ति॥ ११ ॥

अनुवाद (हिन्दी)

फिर इसी क्रमसे वे वरुण और चन्द्रमाकी पुरियोंको पार करके पुनः इन्द्रकी पुरीमें पहुँचते हैं। इस प्रकार चन्द्रमा आदि अन्य ग्रह भी ज्योतिश्चक्रमें अन्य नक्षत्रोंके साथ-साथ उदित और अस्त होते रहते हैं॥ ११॥

वीरराघवः

एवं ततो याम्यायाः प्रचलति एवमुक्तकालेन उक्तयोजनानि वारुणीं पुरीं गच्छति । एवमुत्तरत्रापि योन्यमेवं सूर्यस्योदयास्तमयादिस्वरूपं तद्देशनियमं कालपरिमाणं योजनपरिमाणं चाभिधायाथ सोमादीनामपि ग्रहाणामभ्युदयादिकमाह तथेति । ज्योतिश्चक्रेण तारागणेन सह वर्त्तमाना अन्ये सोमादयो ग्रहा अपि नक्षत्रैरश्विन्यादिभिः सह तथा सूर्यवदिन्द्रादिपुरीषु गमनं प्रत्यभ्युद्यन्ति उद्गच्छन्ति उदयं प्राप्नुवन्ति सहैव निम्लोचन्त्यस्तं प्राप्नुवन्तीत्यर्थः । यद्यपि वस्तुतः सूर्यस्यापि नक्षत्रैः सहैव उदयास्तमयौ तथापि तत्साहित्यादर्शनात्सोमादीनामेव तत्साहित्यमुक्तमिति भावः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चतसृषु परिवर्तते पुरीषु॥

मूलम्

एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चतसृषु परिवर्तते पुरीषु॥ १२ ॥

अनुवाद (हिन्दी)

इस प्रकार भगवान् सूर्यका वेदमय रथ एक मुहूर्तमें चौंतीस लाख आठ सौ योजनके हिसाबसे चलता हुआ इन चारों पुरियोंमें घूमता रहता है॥ १२॥

श्लोक-१३

विश्वास-प्रस्तुतिः

यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद् भ्रमन्मानसोत्तरगिरौ परिभ्रमति॥

मूलम्

यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद् भ्रमन्मानसोत्तरगिरौ परिभ्रमति॥ १३ ॥

अनुवाद (हिन्दी)

इसका संवत्सर नामका एक चक्र(पहिया) बतलाया जाता है। उसमें मासरूप बारह अरे हैं, ऋतुरूप छः नेमियाँ (हाल) हैं, तीन चौमासेरूप तीन नाभि (आँवन) हैं। इस रथकी धुरीका एक सिरा मेरुपर्वतकी चोटीपर है और दूसरा मानसोत्तर पर्वतपर। इसमें लगा हुआ यह पहिया कोल्हूके पहियेके समान घूमता हुआ मानसोत्तर पर्वतके ऊपर चक्‍कर लगाता है॥ १३॥

वीरराघवः

पञ्चदशघटिकाभिः सपादकोटिद्वयं साधिकानि सार्द्धद्वादशलक्षाणि योजनानि गच्छतीत्युक्तं तत्रैकेन मुहूर्त्तेन कति योजनानि गच्छतीत्यपेक्षायामाह । एवमिति । त्रयीमय इत्युपासनार्थमुक्तं वेदरूपेणोपास्यः सौरो रथ एकमुहूर्त्तेनाष्टशताधिकचतुस्त्रिंशल्लक्षयोजनानि चतसृषु देवधान्यादिषु पुरीषु परिभ्रमते । कोऽसौ सौरो रथः एकेन मुहूर्त्तेन यः परिभ्रमते तत्राह यस्येति । यस्य सौरथस्यैकं चक्रं संवत्सरात्मकं समामनन्त्युपासते । चक्रं विशिनष्टि द्वादशारं द्वादश मासा अरा यस्य षडृतवो नेमयो यस्य त्रीणि चातुर्मास्यानि नाभयो यस्य इदमप्युपासनार्थमेवोक्तं मासादिरूपेण संवत्सरेण रूपेण चोपास्यमानमित्यर्थः । सौरो रथः परिवर्त्तत इत्युक्तं स किं निरवलम्ब एव एष भ्रमतीत्यत्र विशिनष्टि यस्येति । यस्य रथस्याक्षो मेरोर्मूर्ध्नि कृतमूलः अक्षशब्दोऽत्रोपचारात्तत्स्थितायां धुरि वर्तते, एवं द्वितीयोऽक्ष इत्यत्रापि यत्र रथो मानसोत्तरे कृतोत्तरभागः मानसोत्तरगिरौ लक्षार्द्धोपरि वायुबद्धभूमौ कृतोत्तरभागः वायुना निबद्धोत्तरभागः, अन्यथायुतार्द्धमात्रोच्छ्रायत्वान्मानसोत्तरगिरेर्मेरोश्चतुरशीतियोजनोच्छ्रायत्वादतस्तस्य साम्यानुपपत्तेः । कोऽसावितरभागः यो मानसोत्तरे कृतमूलः तत्राह यत्रेति । यत्र इतरभागे प्रोतं सद्रविरथचक्रं तैलयन्त्रवन्मानसोत्तरगिरौ परितो भ्रमति ॥ १२-१३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन सम्मितस्तैलयन्त्राक्षवद् ध्रुवे कृतोपरिभागः॥

मूलम्

तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन सम्मितस्तैलयन्त्राक्षवद् ध्रुवे कृतोपरिभागः॥ १४ ॥

अनुवाद (हिन्दी)

इस धुरीमें—जिसका मूल भाग जुड़ा हुआ है, ऐसी एक धुरी और है। वह लंबाईमें इससे चौथाई है। उसका ऊपरी भाग तैलयन्त्रके धुरेके समान ध्रुवलोकसे लगा हुआ है॥ १४॥

वीरराघवः

तस्मिन्नक्षे चक्रप्रान्ते कृतमूलः निबद्धपूर्वभागः द्वितीयोऽक्षः प्रथमोऽक्षः मेरुमानसोत्तरायतः सार्द्धसप्तलक्षोत्तरसार्द्धकोटियोजनप्रमाणः तस्य तुर्यमानेन सार्द्धसप्तत्रिंशत्सहस्राधिकैकोनचत्वारिंशल्लक्षयोजनमानेन संमितः परिमितः ध्रुवे कृतः-वायुपाशेन बद्ध उपरिभागो यस्य तथाभूतः । तं निदर्शयति तैलयन्त्राक्षवत्तैलयन्त्राक्षदृष्टान्तेन ज्ञातव्य इत्यर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

रथनीडस्तु षट्त्रिंशल्लक्षयोजनायतस्तत्तुरीयभागविशालस्तावान् रविरथयुगो यत्र हयाश्छन्दोनामानः सप्तारुणयोजिता वहन्ति देवमादित्यम्॥

मूलम्

रथनीडस्तु षट्त्रिंशल्लक्षयोजनायतस्तत्तुरीयभागविशालस्तावान् रविरथयुगो यत्र हयाश्छन्दोनामानः सप्तारुणयोजिता वहन्ति देवमादित्यम्॥ १५ ॥

अनुवाद (हिन्दी)

इस रथमें बैठनेका स्थान छत्तीस लाख योजन लंबा और नौ लाख योजन चौड़ा है। इसका जूआ भी छत्तीस लाख योजन ही लंबा है। उसमें अरुण नामके सारथिने गायत्री आदि छन्दोंके-से नामवाले सात घोड़े जोत रखे हैं, वे ही इस रथपर बैठे हुए भगवान् सूर्यको ले चलते हैं॥ १५॥

वीरराघवः

रथनीडादेः परिमाणमाह रथनीड इति । नीडो रथिन उपवेशस्थानं ष‌ट्त्रिंशल्लक्षयोजनायामः तुरीयभागविशालः नवलक्षयोजनविशालः रविरथयुगोऽपि तावान् षट्त्रिंशल्लक्षयोजनायामः तुरीयभागविशालः । युगं विशिनष्टि । यत्र युगेऽरुणेन सूतेन योजिताः सप्त हया गायत्र्यादिच्छन्दोनामानः देवं द्योतमानमादित्यं वहन्ति गन्तव्यदेशं प्रापयन्तीत्यर्थः । अश्वनामानि श्रीवैष्णवे पुराणे उक्तानि - ‘हयाश्च सप्तच्छन्दांसि तेषां नामानि मे शृणु । गायत्री च बृहत्युष्णिग् जगती त्रिष्टुबेव च ॥ अनुष्टुप्पङ्क्तिरित्युक्तः छन्दांसि हरयो रवेः ।’ इति । नन्वेवम् “एकोऽश्वो वहति सप्तनामा” इति श्रुतिविरोध इति चेदुच्यते एक इत्यनेनैकसूर्य उच्यते अश्व इति जात्यभिप्राय एकत्वनिर्देशः “एको व्रीहिः सुसम्पन्नः” इत्यादिवत् सप्तनामेत्यादिसप्तनामान इत्युच्यते तथा चैकरूपा गायत्र्यादिसप्तनामानोऽश्वा वहन्तीति श्रुत्यर्थः । उपबृंहणानुसरणादेव हि श्रुत्यर्थनिर्णय इति तेषां गायत्र्यादिनामकत्वं तद्दृष्टयोपासनार्थमुक्तम् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः सौत्ये कर्मणि किलास्ते॥

मूलम्

पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः सौत्ये कर्मणि किलास्ते॥ १६ ॥

अनुवाद (हिन्दी)

सूर्यदेवके आगे उन्हींकी ओर मुँह करके बैठे हुए अरुण उनके सारथिका कार्य करते हैं॥ १६॥

श्लोक-१७

विश्वास-प्रस्तुतिः

तथा वालखिल्या ऋषयोऽङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि पुरतः सूर्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति॥

मूलम्

तथा वालखिल्या ऋषयोऽङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि पुरतः सूर्यं सूक्त10वाकाय नियुक्ताः संस्तुवन्ति॥ १७ ॥

अनुवाद (हिन्दी)

भगवान् सूर्यके आगे अँगूठेके पोरुएके बराबर आकारवाले वालखिल्यादि साठ हजार ऋषि स्वस्तिवाचनके लिये नियुक्त हैं। वे उनकी स्तुति करते रहते हैं॥ १७॥

वीरराघवः

अरुणयोजिता देवं वहन्तीत्युक्तं कुत्र स्थितोऽश्वान् योजयति इति तत्राह पुरस्तादिति । सवितुः पुरस्तात्पुरस्थितोऽरुणः सौत्ये अश्वयोजनरूपे कर्मण्यास्ते इत्यर्थः । पुरस्तात्स्थितोऽपि किं सवितुरभिमुखतो वर्तते नेत्याह । पश्चाच्च नियुक्तः पुरस्तात्स्थितोऽपि प्रत्यङ्मुख आस्ते । यद्वा यत्सूर्यस्य पुरस्तस्यैव पश्चिमत्वादित्युक्तमेवं वालखिल्या ऋषयोऽपि षष्टिसहस्रसंख्याका अङ्गुष्ठपर्वप्रमिताः सूर्यस्य पुरतो रथे स्थिताः सूक्तवाकाय वाक उक्तिः सूक्तरूपो वाकः सूक्तवाकः तस्मै सुभाषितरूपोक्तये संस्तुतये इति यावन्नियुक्ताः आदिष्टाः सन्तः सूर्यं संस्तुवन्ति ॥ १६-१७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्नानानामानः पृथक्‍कर्मभिर्द्वन्द्वश उपासते॥

मूलम्

तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः सप्त चतुर्द11श मासि मासि भगवन्तं सूर्यमात्मा12नं नानानामानं पृथङ्नानानामानः पृथक्‍कर्मभिर्द्वन्द्वश उपासते॥ १८ ॥

अनुवाद (हिन्दी)

इनके अतिरिक्त ऋषि, गन्धर्व, अप्सरा, नाग, यक्ष, राक्षस और देवता भी—जो कुल मिलाकर चौदह हैं, किन्तु जोड़ेसे रहनेके कारण सात गण कहे जाते हैं—प्रत्येक मासमें भिन्न-भिन्न नामोंवाले होकर अपने भिन्न-भिन्न कर्मोंसे प्रत्येक मासमें भिन्न-भिन्न नाम धारण करनेवाले आत्मस्वरूप भगवान् सूर्यकी दो-दो मिलकर उपासना करते हैं॥ १८॥

वीरराघवः

तथान्ये ऋष्यादयः सप्त गणा एकैकशः चतुर्दश चतुर्दश द्वन्द्वशः मासे मासे पृथङ्नामभिरादित्यमुपासत इत्यन्वयः । तत्र ग्रामण्यो यक्षाः, कथंभूतमादित्यमात्मानं सर्वेषां दिगधिष्ठातृत्वादात्मानं भगवदात्मकत्वाद्वात्मानं मासभेदभिन्ननामानं कथंभूताः पृथङ्नामानः परस्परविलक्षणनामानः । पृथक्कर्माणि श्रीवैष्णवे प्रपञ्चितानि “स्तुवन्ति ऋषयस्स्तवैर्गन्धर्वैर्गीयते पुरः । नृत्यन्त्योऽप्सरसो यान्ति तस्य चानु निशाचराः ॥ वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः । वालखिल्यास्तथैवैनं परिवार्य सहासते” इत्यादिना । यद्यप्यत्र मासि चतुर्दश चतुर्दश उपासत इति प्रतीयते, श्रीवैष्णवे तु सप्त सप्तेति तथा हि - “सप्तधाधिऽष्ठितो देवैरादित्यो मुनिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामण्यैर्यक्षराक्षसैः ॥ धाता कृतस्थली चैव पुलस्त्यो वासुकिस्तथा । रथकृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैव सप्तमः ॥ एते वहन्ति वै चैत्रे मधुमासे सदैव हि । मैत्रेय ! स्यन्दने भानोः सप्त मासाधिकारिणः ॥ अर्यमा पुलहश्चैव रथौजाः पुञ्जिकस्थली । प्रहेतिः कच्छनीरश्च नारदश्च रथे रवेः । माधवे निवसन्त्येते शुक्रसंज्ञे निबोध मे ॥ मित्रोऽत्रिस्तक्षकः कक्षः पौरुषेयोऽथ मेनका । महारथश्च नश्चैव मैत्रेयैते वसन्ति वै ॥” इत्यादि, तथाप्येकैकस्मिन्मासाधिकारिणि गणे प्रधानभूताः सप्त वैष्णवे कथिता इत्यतो न विरोधः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

लक्षोत्तरं सार्धनवकोटियोजनपरिमण्डलं भूवलयस्य क्षणेन सगव्यूत्युत्तरं द्विसहस्रयोजनानि स भुङ्‍क्ते॥

मूलम्

लक्षोत्तरं सार्धनवकोटियो13जनपरिमण्डलं भूवलयस्य क्षणेन स14गव्यूत्युत्तरं द्विसहस्रयोजनानि स भुङ्‍क्ते॥ १९ ॥

अनुवाद (हिन्दी)

इस प्रकार भगवान् सूर्य भूमण्डलके नौ करोड़, इक्यावन लाख योजन लंबे घेरेमेंसे प्रत्येक क्षणमें दो हजार दो योजनकी दूरी पार कर लेते हैं॥ १९॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ज्योतिश्च15क्रसूर्यरथमण्डलवर्णनं नामैकविंशोऽध्यायः॥ २१ ॥

वीरराघवः

पूर्वे मानसोत्तरं परिवर्तमानस्य लक्षोनसार्द्धनवकोटियोजनानि भवन्ति इत्युक्तं भवति, कियता कालेन कति योजनानि गच्छतीत्यत्र उक्तमेव मुहूर्त्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानीति । इदानीं क्षणेन कति योजनानि गच्छतीत्यत्राह लक्षोत्तरमिति । नवकोट्येकपञ्चाशल्लक्षयोजनपरिमितं सूर्येण परिभ्राम्यमाणं भूमण्डलं तस्य भूवलयस्य क्रोशद्वयाधिकद्विसहस्रयोजनानि स सूर्यः क्षणेन कालेन भुङ्क्ते गच्छतीत्यर्थः ॥ १९ ॥


  1. एतदेव दिवो । ↩︎

  2. विदलयोर्नि । ↩︎

  3. त्रील्लोकान् । ↩︎

  4. शैध्यप्रसमानाभिगतिभिरारोहणस्थानेषु । ↩︎

  5. वृषादिषु । ↩︎

  6. विवर्धन्ते । ↩︎

  7. प्रस्थापयति । ↩︎

  8. शभिर्घदिकाभिः । ↩︎

  9. वामिनिम्लोचन्ति । ↩︎

  10. सूक्तवाक्याय । ↩︎

  11. र्दश मासि भगव । ↩︎

  12. त्मानं पृथगात्मानः पृथ । ↩︎

  13. योजनमण्डलं । ↩︎

  14. सगत्युत्तरं । ↩︎

  15. श्चक्रानुवर्णनं । ↩︎