२० समुद्रवर्षसंनिवेशपरिमाणलक्षणो

[विंशोऽध्यायः]

भागसूचना

अन्य छः द्वीपों तथा लोकालोकपर्वतका वर्णन

श्लोक-१

मूलम् (वचनम्)

श्रीशुक1 उवाच

विश्वास-प्रस्तुतिः

अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते॥

मूलम्

अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! अब परिमाण,लक्षण और स्थितिके अनुसार प्लक्षादि अन्य द्वीपोंके वर्षविभागका वर्णन किया जाता है॥ १॥

वीरराघवः

एवं जम्बूद्वीपः सप्रपञ्चमुपवर्णितः । अथ प्लक्षादीनां द्वीपानामुपवर्णनं प्रतिजानीते शुकः । अतः परमिति । प्लक्षादीनां ये वर्षास्तेषां विभागः प्रमाणं परिमाणं लक्षणं तेषु वसतामायुरिन्द्रियोजःसहोबलबुद्धिविक्रमादीनां स्वभावतो वर्द्धकत्वरूपं संस्थानमनितरासाधारणाकारः एभिरुपवर्ण्यते ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन। प्लक्षो जम्बूप्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगेनोपरराम॥

मूलम्

जम्बूद्वीपोऽयं यावत्प्र2माणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन । प्लक्षो जम्बूप्रमाणो द्वीपाख्याक3रो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगेनोपरराम॥ २ ॥

अनुवाद (हिन्दी)

जिस प्रकार मेरु पर्वत जम्बूद्वीपसे घिरा हुआ है, उसी प्रकार जम्बूद्वीप भी अपने ही समान परिमाण और विस्तारवाले खारे जलके समुद्रसे परिवेष्टित है। फिर खाई जिस प्रकार बाहरके उपवनसे घिरी रहती है, उसी प्रकार क्षारसमुद्र भी अपनेसे दूने विस्तारवाले प्लक्षद्वीपसे घिरा हुआ है। जम्बूद्वीपमें जितना बड़ा जामुनका पेड़ है, उतने ही विस्तारवाला यहाँ सुवर्णमय प्लक्ष (पाकर)-का वृक्ष है। उसीके कारण इसका नाम प्लक्षद्वीप हुआ है। यहाँ सात जिह्वाओंवाले अग्निदेव विराजते हैं। इस द्वीपके अधिपति प्रियव्रतपुत्र महाराज इध्मजिह्व थे। उन्होंने इसको सात वर्षोंमें विभक्त किया और उन्हें उन वर्षोंके समान ही नामवाले अपने पुत्रोंको सौंप दिया तथा स्वयं अध्यात्मयोगका आश्रय लेकर उपरत हो गये॥ २॥

वीरराघवः

तावत् प्लक्षद्वीपमुपवर्णयति । जम्बूद्वीप इत्यादिना जम्ब्वाख्येनेत्यन्तम् । दृष्टान्तार्थं यथा जम्बूद्वीपो यावद्विस्तारः लक्षयोजनविशालः । तावता लक्षयोजनविस्तीर्णेन क्षारोदधीना लवणसमुद्रेण परितो वेष्टित आवृतः यथा च मेरुर्द्वीपमध्यस्थो जम्ब्वाख्येन द्वीपेन परिवेष्टित इत्यनुषङ्गः । तथा लवणोदधिरपि ततः लवणोदधेर्द्विगुणविशालेन द्विलक्षयोजनविस्तीर्णेन प्लक्षाख्येन परितः अभितः क्षिप्तः आवृतो जम्बूद्वीपस्याप्यत्रत्यैः साकल्येनादृष्टत्वात् अप्रसिद्धत्वात् दृष्टान्तान्तरमाह । यथा परिखा बाह्योपवनेन परिक्षिप्तेति लिङ्गपरिणामेनानुषङ्गः, द्वीपमध्यस्थः प्लक्षो वृक्षः जम्बूप्रमाणः जम्बूवृक्षतुल्योच्छ्रायः द्वीपस्य आख्यातिराख्यानं यत् प्लक्षेति नामधेयं तत्कर आपादकः हिरण्मयः प्रकाशबहुलः उत्थित ऊर्ध्वं स्थितः यत्र यस्मिन् प्लक्षवृक्षमूले सप्त जिह्वाः ज्वाला यस्य तादृशोऽग्निरुपास्ते तिष्ठति तस्य द्वीपस्याधिपतिरित्यनेन चिरं तद्द्वीपाधिपत्यं कृतवानिति गम्यते । प्रियव्रतस्यात्मज आग्निध्रानुज इध्मजिह्वः तं प्लक्षद्वीपं सीमाबन्धनेन सप्तवर्षात्मकं विभज्य सप्तानां वर्षाणां नामानि तान्येव नामानि येषां तेभ्यः पुत्रेभ्यः सप्त वर्षाण्याकलय्य समर्प्य स्वयमात्मयोगेन भगवदुपासनात्मकभक्तियोगेनोपररामोपरतः संसारान्मुक्तोऽभूदित्यर्थः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः॥

मूलम्

शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तै4वाभिज्ञाताः॥ ३ ॥

अनुवाद (हिन्दी)

इन वर्षोंके नाम शिव, यवस, सुभद्र, शान्त, क्षेम, अमृत और अभय हैं। इनमें भी सात पर्वत और सात नदियाँ ही प्रसिद्ध हैं॥ ३॥

वीरराघवः

पुत्रनामानि वर्षाणि निर्दिशति शिवमित्यादिना । तान्पुत्रानाकलय्येति पूर्वेणान्वयः । तेषु वर्षेषु गिरयो नद्यश्च सप्त सप्तैवाभिज्ञाताः प्रसिद्धा आसन्नित्यर्थः । तावत्पर्वतान्नामभिर्निर्दिशति मणिकूट इति मेघमाल इत्यन्तेन । एते एव वर्षाणां मर्यादागिरय इत्याह । सेतुशैला इति । नदीर्निर्दिशति नामभिः अरुणेत्यादिना विश्वम्भरेत्यन्तेन । इतिशब्देनैतैरेव नामभिस्तत्र तत्र शिवादिवर्षे व्यवह्रियन्त इति सूच्यते । नदीर्विशिनष्टि महानद्य इति । स्वच्छत्वपवित्रत्वविस्तृतत्वादिमहागुणाश्रया इत्यर्थः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः। अरुणा नृम्णाऽऽङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरा इति महानद्यः। यासां जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते॥

मूलम्

मणिकूटो वज्रकूट5 इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति से6तुशैलाः। अरुणा 7नृम्णाऽऽङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरा इति महानद्यः । यासां8 जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते॥ ४ ॥

अनुवाद (हिन्दी)

वहाँ मणिकूट, वज्रकूट, इन्द्रसेन, ज्योतिष्मान्, सुपर्ण, हिरण्यष्ठीव और मेघमाल—ये सात मर्यादापर्वत हैं तथा अरुणा, नृम्णा, आंगिरसी, सावित्री, सुप्रभाता, ऋतम्भरा और सत्यम्भरा—ये सात महानदियाँ हैं। वहाँ हंस, पतंग, ऊर्ध्वायन और सत्यांग नामके चार वर्ण हैं। उक्त नदियोंके जलमें स्नान करनेसे इनके रजोगुण-तमोगुण क्षीण होते रहते हैं। इनकी आयु एक हजार वर्षकी होती है। इनके शरीरोंमें देवताओंकी भाँति थकावट, पसीना आदि नहीं होता और सन्तानोत्पत्ति भी उन्हींके समान होती है। ये त्रयीविद्याके द्वारा तीनों वेदोंमें वर्णन किये हुए स्वर्गके द्वारभूत आत्मस्वरूप भगवान् सूर्यकी उपासना करते हैं॥ ४॥

वीरराघवः

पुनस्ता एव नदीर्विशिषस्तेषु प्लक्षद्वीपवर्षेषु चतुरो वर्णान्नामभिर्निर्दिशन्नेषामायुःपरिमाणमुपास्यञ्चाह । यासामिति । यासामरुणादिनदीनां जलस्योपस्पर्शेन स्नानपानादिना विधूतं रजस्तमश्च येषां ते चत्वारो वर्णाः हंसादिसंज्ञाः ब्राह्मणादिसंज्ञास्थानीया हंसादिसंज्ञाः सहस्रं वर्षाण्यायुरेषां ते यादृशाः विबुधोपमं संदर्शनं सौन्दर्यं येषां तानि प्रजननान्यपत्यानि येषामेवम्भूताः सन्तुस्त्रय्या विद्यया वेदविद्यया वेदोक्तकर्मयोगादिभिः तन्मूलस्मृत्याद्युक्तमार्गैश्च यथायोग्यं त्रयीमयम् ऋग्यजुरादिवेदप्रचुरं तद्धारकत्वात् तदध्यापयितृत्वात्तत्प्रतिपाद्यत्वाच्च तत्प्राचुर्यं बोध्यं सूर्यं सूर्यशरीरकमात्मानं परमात्मानं यजन्ते आराधयन्ति ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मणः।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति॥

मूलम्

प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मणः।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति॥ ५ ॥

अनुवाद (हिन्दी)

वे कहते हैं कि ‘जो सत्य (अनुष्ठानयोग्य धर्म) और ऋत(प्रतीत होनेवाले धर्म), वेद और शुभाशुभ फलके अधिष्ठाता हैं—उन पुराणपुरुष विष्णुस्वरूप भगवान् सूर्यकी हम शरणमें जाते हैं’॥ ५॥

वीरराघवः

तेषां जप्यमानमन्त्रमाह प्रत्नस्येति । प्रत्नस्य पुराणस्यानादेर्जगत्कारणस्येति यावत् सत्यस्य निर्विकारस्य । प्रत्नस्येत्यनेन समष्टिजीवव्यावृत्तिः तस्य सादित्वात् । सत्यस्येत्यनेन व्यष्ट्यवस्थचेनाचेतनन्यावृत्तिः, तयोर्विकारित्वादृतस्य निरतिशयसुकृतस्य धर्माद्यर्वाचीनसुकृतफलप्रदस्येत्यर्थः ऋतस्य तदधीनत्वादुपचारान्तदभेदेन निर्देशः । ऋतशब्दो हि सुकृतफलपरः “ऋतं पिबन्तौ सुकृतस्य लोके” इति श्रौतप्रयोगात् । यद्वा ऋतशब्दः पुण्यस्य कर्मणो वाचकः, उपचारात्तदन्तरात्मतया तत्कारयितरि प्रयुज्यते, पुण्यस्य कर्मणः कारयितुरित्यर्थः । तत्कारयितृत्वञ्च श्रुतेः “एष एव साधु कर्म कारयति यमुन्निनीषति” इति ऋतशब्दो हि पुण्यस्य कर्मणोऽपि वाचकः “यथा पुण्वस्य कर्मणां दुराद्गन्धो वाति” इति पुण्यं कर्म प्रस्तुत्य तत्प्रतिसम्बन्धिनो पुण्यस्य कर्मण एवम् “अनृतादात्मानं जुगुप्सेत” इत्यनृतशब्देन निर्देशात्पुण्यस्य कर्मणः ऋतशब्दो वाचक इत्यवगम्यते । तथा अमृतस्य च मृत्योश्चेत्यमृतमृत्युशब्दावपि बन्धमोक्षवाचकौ उपचारात्तद्वन्तौ प्रयुक्तौ । भगवतश्च बन्धमोक्षहेतुत्वञ्च श्रुतम् “संसारमोक्षस्थितिबन्धहेतुः” इति “उतामृतत्वस्येशानो यदन्नेनातिरोहति” इति च, एवम्भूतस्य ब्रह्मणो विष्णोर्यद्रूपं शरीरभूतं तत्सूर्याख्यमात्मानं जीवविशेषमीमहि शरणं व्रजेम । प्रतर्दनविद्यान्यायेनात्र सूर्यजीवशरीरकपरमात्मोपासनमुक्तमित्यवमन्तव्यम् ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहो बलं बुद्धिर्विक्रम इति च सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्तते॥

मूलम्

प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहो बलं बुद्धिर्विक्रम इति च सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्तते॥ ६ ॥

अनुवाद (हिन्दी)

प्लक्ष आदि पाँच द्वीपोंमें सभी मनुष्योंको जन्मसे ही आयु, इन्द्रिय, मनोबल, इन्द्रियबल, शारीरिक बल, बुद्धि और पराक्रम समानरूपसे सिद्ध रहते हैं॥ ६॥

वीरराघवः

प्लक्षादिषु पञ्चसु द्वीपेषु अविशेषेण सामान्येन सर्वेषां पुरुषाणामायुरादिरूपा सिद्धिरौत्पत्तिकी जन्मसिद्धा वर्त्तते । अत्रेदमवगन्तव्यं मानसोत्तरगिरेर्मण्डलाकारत्वोक्तेरेवेषु प्लक्षादिषु पञ्चसु द्वीपेषु वर्षाद्रयस्तिर्यक्त्वाकारा उभयतोऽब्धिस्पृशः । अन्यथा सप्तभिः सप्तवर्षाणां विभागासम्भवाच्च श्रीवैष्णवे पुराणे वर्षाणां पूर्वादिक्रमेणोक्तेश्चेति ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

प्लक्षः स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशालः समानेन सुरोदेनावृतः परिवृङ्क्ते॥

मूलम्

प्लक्षः9 स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशालः समानेन सुरोदेनावृतः परिवृङ्क्ते॥ ७ ॥

अनुवाद (हिन्दी)

प्लक्षद्वीप अपने ही समान विस्तारवाले इक्षुरसके समुद्रसे घिरा हुआ है। उसके आगे उससे दुगुने परिमाणवाला शाल्मलीद्वीप है, जो उतने ही विस्तारवाले मदिराके सागरसे घिरा है॥ ७॥

वीरराघवः

एवं प्लक्षद्वीपः सवर्षपर्वतनदीसवर्णाश्रमपुरुष उपवर्णितः, अथ तद्दृष्टान्तेन शाल्मलीद्वीपमनुवर्णयति प्लक्ष इति । यथा प्लक्षद्वीपः समानेन स्वतुल्यविशालेनेक्षुरसोदेन द्विलक्षयोजनविशालेनावृतस्तथा शाल्मलीद्वीपोऽपि द्विगुणविशालः प्लक्षद्वीपापेक्षया चतुर्लक्षयोजनविशाल इत्यर्थः । स्वमानेन चतुर्लक्षयोजनविशालेन सुरोदधिनाभितो वृत्तेनाकारेणावृतः परिवेष्टितः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयमाहुर्भगवतश्छन्दःस्तुतः पतत्त्रिराजस्य सा द्वीपहूतये उपलक्ष्यते॥

मूलम्

यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयमाहुर्भगवतश्छन्दःस्तुतः पतत्त्रिराजस्य सा द्वीपहूतये उपलक्ष्यते॥ ८ ॥

अनुवाद (हिन्दी)

प्लक्षद्वीपके पाकरके पेड़के बराबर उसमें शाल्मली (सेमर)-का वृक्ष है। कहते हैं, यही वृक्ष अपने वेदमय पंखोंसे भगवान‍्की स्तुति करनेवाले पक्षिराज भगवान् गरुडका निवासस्थान है तथा यही इस द्वीपके नामकरणका भी हेतु है॥ ८॥

वीरराघवः

यत्र द्वीपे शाल्मली प्लक्षद्वीपसमानविस्तारा आस्ते तां विशिनष्टि । यस्यां शाल्मल्यो वावकिलशब्दो निपातसमुदायः प्रसिद्धिद्योतकश्छन्दस्तुतः छन्दोभिः “सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो मायत्रं चक्षुः स्तोमः आत्मा साम ते तनू वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञीयं पुच्छं छन्दांस्यङ्गानि धिष्णि प्रारिशिखा यंजूषि नाम” इत्यादिभिः छन्दोऽवयवत्वेन स्तूयते इति छन्दस्तुत् आर्षत्वात्कर्मणि क्विप्, तस्य छन्दसामक्षरेयत्तारूपपरिणामात्मकानां गायत्र्यादीनां तच्चक्षुराद्यवयवत्वं तेषां तच्चक्षुराद्यवयवदृष्ट्योपासननिबन्धनमित्यवगन्तव्यम् । यद्वा छन्दः सुपर्णोऽसीत्यादिरूपं स्तुत्यं यस्य गायत्र्याद्यवयवकत्वेन स्तावकं यस्येत्यर्थः । एवम्भूतस्य पतत्रिराजस्य पक्षिराजस्य गरुत्मतः सौपर्पास्य निलयनं नीडमाहुः विपश्चित इति शेषः, सा शाल्मली द्वीपहूतये हूतिर्व्यवहारः शाल्मलीद्वीप इति व्यवहारायेत्यर्थः, उपलभ्यते उपलक्ष्यते दृश्यत इत्यर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तद्‍द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति॥

मूलम्

तद्‍द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति॥ ९ ॥

अनुवाद (हिन्दी)

इस द्वीपके अधिपति प्रियव्रतपुत्र महाराज यज्ञबाहु थे। उन्होंने इसके सुरोचन, सौमनस्य, रमणक, देववर्ष, पारिभद्र, आप्यायन और अविज्ञात नामसे सात विभाग किये और इन्हें इन्हीं नामवाले अपने पुत्रोंको सौंप दिया॥ ९॥

वीरराघवः

तस्य द्वीपस्य शाल्मलस्याधिपतिः चिरं कृताधिपत्यो यज्ञबाहुः प्रियव्रतस्यात्मनः सप्तभ्यः स्वसुतेभ्यः तन्नामानि स्वपुत्रतुल्यनामानि सप्त वर्षाणि व्यभजद्विभज्यादादित्यर्थः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहस्रश्रुतिरिति। अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति॥

मूलम्

तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मु10कुन्दः पुष्पवर्षः सहस्रश्रुतिरिति । अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति॥ १० ॥

अनुवाद (हिन्दी)

इनमें भी सात वर्षपर्वत और सात ही नदियाँ प्रसिद्ध हैं। पर्वतोंके नाम स्वरस, शतशृंग, वामदेव, कुन्द, मुकुन्द, पुष्पवर्ष और सहस्रश्रुति हैं तथा नदियाँ अनुमति, सिनीवाली, सरस्वती, कुहू, रजनी, नन्दा और राका हैं॥ १०॥

वीरराघवः

पुत्राणां वर्षाणां च साधारणैर्नामभिर्वर्षाणि निर्दिशति सुरोचनमित्यादिना । तेषु सुरोचनादिषु वर्षेषु शैलाः सप्त नद्यश्च अभिज्ञाताः प्रसिद्धाः, अन्ये च शैला नद्यश्च सन्तीत्यर्थः । तावत्सप्त शैलानाह स्वरस इत्यादिना । सेतुशैलाः मर्यादागिरयः नदीराह । अनुमतिरित्यादिना ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते॥

मूलम्

तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरेषन्धर11संज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते॥ ११ ॥

अनुवाद (हिन्दी)

इन वर्षोंमें रहनेवाले श्रुतधर, वीर्यधर, वसुन्धर और इषन्धर नामके चार वर्ण वेदमय आत्मस्वरूप भगवान् चन्द्रमाकी वेदमन्त्रोंसे उपासना करते हैं॥ ११॥

वीरराघवः

तद्वर्षपुरुषाणां चतुर्धा वर्णविभागं तेषामाराध्यं भगवद्रूपं जप्यमानमन्त्रञ्चाह तद्वर्षेत्यादिना । श्रुतधरादिशब्दाः संज्ञानामानि येषां ते बेदमयं वेदप्रचुरं भगवदात्मकं सोमाख्यं सोमाख्यमात्मानं जीवविशेषं वेदेन वेदेनोक्तेन तन्मूलस्मृत्याद्युक्तेन स्वस्ववर्णोचितस्वधर्मेण यजन्ते आराधयन्ति ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

स्वगोभिः पितृदेवेभ्यो विभजन् कृष्णशुक्लयोः।
प्रजानां सर्वासां राजान्धः सोमो न आस्त्विति॥

मूलम्

स्व12गोभिः पितृदेवेभ्यो विभजन् कृष्णशुक्लयोः।
प्रजानां सर्वासां राजान्धः सोमो न आस्त्विति॥ १२ ॥

अनुवाद (हिन्दी)

(और कहते हैं—) ‘जो कृष्णपक्ष और शुक्लपक्षमें अपनी किरणोंसे विभाग करके देवता, पितर और सम्पूर्ण प्राणियोंको अन्न देते हैं, वे चन्द्रदेव हमारे राजा (रंजन करनेवाले) हों’॥ १२॥

वीरराघवः

खगोभिः स्वकिरणैः शुक्लकृष्णयोः पक्षयोः स पिढदेवेभ्योऽन्धमन्नं शुक्लपक्षे देवेभ्यः कृष्णे पितृभ्यश्चान्नं विभजन् स्वगोभिश्चन्द्रस्य शुक्लकृष्णपक्षविभाजकत्वाभावे उचितकाले पित्रादीनां स्वधास्वाहापूर्वकं हविर्दानमेव न स्यादिति भावः । यत एव पित्रादीनामप्यसाङ्कर्येणान्नस्य विभागेन प्रदापयिताऽतो नोऽस्माकं सर्वासां प्रजानां राजा चन्द्रः सोमः अमृतमस्तु सुखकरोऽस्त्विति यावत् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

एवं सुरोदाद‍्बहिस्तद्‍द्विगुणः समानेनावृतो घृतोदेन यथापूर्वः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृतस्तद्द्वीपाख्याकरो ज्वलन इवापरः स्वशष्परोचिषा दिशो विराजयति॥

मूलम्

एवं सुरोदाद‍्बहिस्तद्‍द्विगुणः समानेनावृतो घृतोदेन यथापूर्वः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृतस्तद्द्वीपाख्या13करो ज्वलन इवापरः स्वशष्परोचिषा दिशो विराजयति14॥ १३ ॥

अनुवाद (हिन्दी)

इसी प्रकार मदिराके समुद्रसे आगे उससे दूने परिमाणवाला कुशद्वीप है। पूर्वोक्त द्वीपोंके समान यह भी अपने ही समान विस्तारवाले घृतके समुद्रसे घिरा हुआ है। इसमें भगवान‍्का रचा हुआ एक कुशोंका झाड़ है, उसीसे इस द्वीपका नाम निश्चित हुआ है। वह दूसरे अग्निदेवके समान अपनी कोमल शिखाओंकी कान्तिसे समस्त दिशाओंको प्रकाशित करता रहता है॥ १३॥

वीरराघवः

एवं शाल्मलीद्वीप उपवर्णितः, अथैतद्दृष्टान्तेन कुशद्वीपमनुवर्णयति एवमिति । यथा पूर्वः शाल्मलः तथा कुशद्वीपोऽपि सुरोदधेर्बहिः द्विगुणमानेनाष्टलक्षयोजनविशालेन घृतोदधिना परिवेष्टितः स्वयमप्यष्टलक्षयोजनविशालः यस्मिन् कुशद्वीपे द्वीपस्य कुशद्वीपस्य व्यपदेशकरः अपरोऽग्निरिव प्रकाशबहुलः देवेन भगवता ब्रह्मणा निर्मितः स्वशष्पाणां स्वावयवानां कोमलतृणानां रोचिषा दिशो दश विराजयति प्रकाशयति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तद्‍द्वीपपतिः प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आतिष्ठत वसुवसुदानदृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्यः॥

मूलम्

तद्‍द्वीपपतिः प्रैयव्रतो राजन् हिरण्य15रेता नाम स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं16 तप आतिष्ठत वसुवसुदानदृढरुचिना17भिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्यः॥ १४ ॥

अनुवाद (हिन्दी)

राजन्! इस द्वीपके अधिपति प्रियव्रतपुत्र महाराज हिरण्यरेता थे। उन्होंने इसके सात विभाग करके उनमेंसे एक-एक अपने सात पुत्र वसु, वसुदान, दृढरुचि, नाभिगुप्त, स्तुत्यव्रत, विविक्त और वामदेवको दे दिया और स्वयं तप करने चले गये॥ १४॥

वीरराघवः

तस्य कुशद्वौषस्याधिपतिः हिरण्यरेतो नाम प्रियव्रतस्य पुत्रः स्वीयं सप्तभ्यः स्वपुत्रेभ्यो वस्वादिवर्षनामभ्यः यथाभागं विभज्य स्वयं तप आतिष्ठत तपसा युक्तोऽभूदित्यर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्त सप्तैव चक्रश्चतुःशृङ्गः कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति॥

मूलम्

तेषां वर्षेषु सीमागिरयो नद्यश्चाभि18ज्ञाताः सप्त सप्तैव चक्रश्चतुःशृङ्गः क19पिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्र20मालेति॥ १५ ॥

अनुवाद (हिन्दी)

उनकी सीमाओंको निश्चय करनेवाले सात पर्वत हैं और सात ही नदियाँ हैं। पर्वतोंके नाम चक्र, चतुःशृंग, कपिल, चित्रकूट, देवानीक, ऊर्ध्वरोमा और द्रविण हैं। नदियोंके नाम हैं—रसकुल्या, मधुकुल्या, मित्रविन्दा, श्रुतविन्दा, देवगर्भा, घृतच्युता और मन्त्रमाला॥ १५॥

वीरराघवः

वर्षनाम्नः सप्तपुत्रान्निर्दिशति वस्वित्यादिना । वस्वादीनामितरेतरयोगद्वन्द्वः, तेषां वर्षेषु तत्तुल्यनामसीमागिरयः सप्त तथा नद्यश्च सप्त बभूवुः । शैलान्निर्दिशति चक्र इत्यादिना । सेतुशैला मर्यादागिरयः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

यासां पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन यजन्ते॥

मूलम्

यासां पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन यजन्ते॥ १६ ॥

अनुवाद (हिन्दी)

इनके जलमें स्नान करके कुशद्वीपवासी कुशल, कोविद, अभियुक्त और कुलक वर्णके पुरुष अग्निस्वरूप भगवान् हरिका यज्ञादि कर्मकौशलके द्वारा पूजन करते हैं॥ १६॥

वीरराघवः

नदीराह रसकुल्येत्यादिना । नदीर्घिशिनष्टि महानद्य इति । पुनर्नदीर्विशिषन् तद्द्वीपस्थानां पुरुषाणां चतुर्धा वर्णविभागं तेषामुपास्यं भगवद्रूपं जप्यमानं मन्त्रञ्चाह यासामिति । यासां रसकुल्यादिनदीनां पयोभिर्जलैर्विधूतमलाः कुशद्वीपो नीडः स्थानं येषां ते कुशलकोविदादिसंज्ञाः जातवेदसरूपिणं जातवेदा एवं जातवेदसः-प्रज्ञादित्वात् स्वार्थिकोऽण्प्रत्ययः, सः अग्निरेव रूपं शरीरं जातवेदसरूपं तदस्यास्तीति तथा तं भगवन्तं कर्मनैपुण्येन यजन्ते आराधयन्ति ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

परस्य ब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट्।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति॥

मूलम्

परस्य21 ब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट्।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति॥ १७ ॥

अनुवाद (हिन्दी)

(तथा इस प्रकार स्तुति करते हैं—) ‘अग्ने! आप परब्रह्मको साक्षात् हवि पहुँचानेवाले हैं; अतः भगवान‍्के अंगभूत देवताओंके यजनद्वारा आप उन परमपुरुषका ही यजन करें’॥ १७॥

वीरराघवः

हे जातवेदः ! त्वं साक्षात्परस्य ब्रह्मणोऽसि तदीयोऽसि तच्छरीरभूतोऽसीत्यर्थः । तथा हव्यवाडसि हव्यमिन्द्रादीनां भगवदात्मकानां यज्ञियं हव्यं वहति प्रापयति इन्द्राद्यन्तर्यामिणं भगवन्तं प्रतीति तथाभूतोऽसीत्यर्थः । अतो देवानां पुरुषस्य परमपुरुषस्याङ्गानां शरीरभूतानाम् “स आत्मा अङ्गान्यन्या देवताः” इति श्रुतेरात्मशब्दप्रतिसम्बन्धि अङ्ग शरीरमेवम्भूतानामिन्द्रादीनां सम्बन्धिनां भगवदात्मकेन्द्राद्याराधनभूतेन यज्ञेन तदन्तरात्मानं परमपुरुषं यज्ञमाराधय तत्प्रीतिं जनय, अङ्गेभ्यः समर्पितं हविरङ्गिने समर्पयेत्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

तथा घृतोदाद‍्बहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन क्षीरोदेन परित उपक्लृप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते॥

मूलम्

तथा22 घृतोदाद‍्बहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन क्षीरोदेन परित उपक्लृप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते॥ १८ ॥

अनुवाद (हिन्दी)

राजन्! फिर घृतसमुद्रसे आगे उससे द्विगुण परिमाणवाला क्रौंचद्वीप है। जिस प्रकार कुशद्वीप घृतसमुद्रसे घिरा हुआ है, उसी प्रकार यह अपने ही समान विस्तारवाले दूधके समुद्रसे घिरा हुआ है। यहाँ क्रौंच नामका एक बहुत बड़ा पर्वत है, उसीके कारण इसका नाम क्रौंचद्वीप हुआ है॥ १८॥

वीरराघवः

एतद्द्वीपदृष्टान्तेन क्रौञ्चद्वीपमनुवर्णयति । तथेति यथा कुशद्वीपः घृतोदेन स्वसमविशालेन वेष्टितस्तथा कुशद्वीपाद्बहिः क्रौञ्चद्वीपोऽपि द्विगुणः कुशद्वीपाद द्विगुणः षोडशलक्षयोजनविशालः स्वमानेन षोडशलक्षयोजनविशालेन दधिमण्डोदेन मथितदधिसमानोदकेन समुद्रेणाभित उपक्लृप्तः परिवृतः यस्मिन् क्रौञ्चे द्वीपे द्वीपस्य नाम क्रौञ्च इति संज्ञा तन्निर्वर्तकः क्रौञ्चो नाम पर्वतश्रेष्ठः आस्ते ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव॥

मूलम्

योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव॥ १९ ॥

अनुवाद (हिन्दी)

पूर्वकालमें श्रीस्वामिकार्तिकेयजीके शस्त्रप्रहारसे इसका कटिप्रदेश और लता-निकुंजादि क्षत-विक्षत हो गये थे, किन्तु क्षीरसमुद्रसे सींचा जाकर और वरुणदेवसे सुरक्षित होकर यह फिर निर्भय हो गया॥ १९॥

वीरराघवः

क्रौञ्चपर्वतं विशिनष्टि य इति । योऽसौ क्रौञ्चो गिरिः पूर्वं गुहस्य कार्तिकेयस्य प्रहरणेनायुधेन उन्मथिता नितम्बाः कुञ्जानि च यस्य तथाभूतः पश्चाद्दधिमण्डोदेनासिच्यमानः दधिमण्डोदे लीनः पश्चाद्भगवता वरुणेनाभिगुप्तः अभयप्रदानेनाभिरक्षितः निरस्तभयो बभूव ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं भगवान् भगवतः परमकल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम॥

मूलम्

तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे23 द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं24 भगवान् भगवतः परमकल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम॥ २० ॥

अनुवाद (हिन्दी)

इस द्वीपके अधिपति प्रियव्रतपुत्र महाराज घृतपृष्ठ थे। वे बड़े ज्ञानी थे। उन्होंने इसको सात वर्षोंमें विभक्त कर उनमें उन्हींके समान नामवाले अपने सात उत्तराधिकारी पुत्रोंको नियुक्त किया और स्वयं सम्पूर्ण जीवोंके अन्तरात्मा, परम मंगलमय कीर्तिशाली भगवान् श्रीहरिके पावन पादारविन्दोंकी शरण ली॥ २०॥

वीरराघवः

तस्मिन्नपि क्रौञ्चद्वीपेऽपि प्रियव्रतात्मजो घृतपृष्ठो नामाधिपतिः सप्तधा वर्षाणि विभज्य तेषु पुत्रतुल्यनामसु सप्तसु वर्षेषु रिक्थादान् दायादान् सप्त पुत्रान् वर्षाणामधिपतीन्निवेश्य प्रतिष्ठाप्य स्वयं परमकल्याणं निरतिशयमङ्गलरूपं यशो यस्य तस्यात्मभूतस्य स्वान्तरात्मनो भगवतः हरेर्बन्धहारिणश्चरणारविन्दं जगाम भक्त्या प्राप्तः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां वर्षगिरयः सप्त सप्तैव नद्यश्चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती वृत्तिरूपवती पवित्रवती शुक्लेति॥

मूलम्

आमो25 मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां वर्षगि26रयः सप्त सप्तैव नद्यश्चाभिख्याताः शुक्लो वर्धमानो भोजन उपवर्हिणो 27नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती 28वृत्तिरूपवती पवित्रवती शुक्लेति॥ २१ ॥

अनुवाद (हिन्दी)

महाराज घृतपृष्ठके आम, मधुरुह, मेघपृष्ठ, सुधामा, भ्राजिष्ठ, लोहितार्ण और वनस्पति—ये सात पुत्र थे। उनके वर्षोंमें भी सात वर्षपर्वत और सात ही नदियाँ कही जाती हैं। पर्वतोंके नाम शुक्ल, वर्धमान, भोजन, उपबर्हिण, नन्द, नन्दन और सर्वतोभद्र हैं तथा नदियोंके नाम हैं—अभया, अमृतौघा, आर्यका, तीर्थवती, वृत्तिरूपवती, पवित्रवती और शुक्ला॥ २१॥

वीरराघवः

घृतपृष्ठसुतानाह अमोघ इत्यादि । तेषाममोघादीनां यानि वर्षाण्यमोघादीनि तेषां गिरयो मर्यादागिरयः सप्त तथा नद्यः सप्तैवाभिज्ञाताः । अन्ये च ते ताश्च सन्तीति भावः । गिरीनाह शुक्ल इत्यादि । नदीराह अभयेत्यादिना ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

यासामम्भः पवित्रममलमुपयुञ्जानाः पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां पूर्णेनाञ्जलिना यजन्ते॥

मूलम्

यासामम्भः पवित्रममलमुपयुञ्जानाः 29पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां पूर्णेनाञ्जलिना यजन्ते॥ २२ ॥

अनुवाद (हिन्दी)

इनके पवित्र और निर्मल जलका सेवन करनेवाले वहाँके पुरुष, ऋषभ, द्रविण और देवक नामक चार वर्णवाले निवासी जलसे भरी हुई अंजलिके द्वारा आपोदेवता (जलके देवता)-की उपासना करते हैं॥ २२॥

वीरराघवः

ता विशिंषंस्तद्वर्षस्थानां चतुर्धा वर्णविभागं भजनीयं भगवद्रूपं मन्त्रं चाह यासामिति । यासामभयादीनां निर्मलं पवित्रमम्भ उपयुञ्जानाः स्नानाद्युपयुक्तं कुर्वाणा गुर्वादिचतुर्वर्णनामानः पुरुषाः आपोमयमप्शरीरकं देवं भगवन्तं पूर्णेनापामञ्जलिना जलाञ्जलिना आराधयन्त्यर्घादिप्रदानेनेति भावः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः सुवः।
ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुव इति॥

मूलम्

आपः30 पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः सुवः।
ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुव इति॥ २३ ॥

अनुवाद (हिन्दी)

(और कहते हैं—) ‘हे जलके देवता! तुम्हें परमात्मासे सामर्थ्य प्राप्त है। तुम भूः, भुवः और स्वः—तीनों लोकोंको पवित्र करते हो; क्योंकि स्वरूपसे ही पापोंका नाश करनेवाले हो। हम अपने शरीरसे तुम्हारा स्पर्श करते हैं, तुम हमारे अंगोंको पवित्र करो’॥ २३॥

वीरराघवः

हे आपः ! यूयं पुरुषस्य भगवतो वीर्याः शक्तिरूपाः तदपृथक्सिद्धविशेषणभूतास्तच्छरीरभूता इति यावत् स्थ भवथ तथा भूर्भुवः स्वः इति भूरादिलोकत्रयं पुनन्त्यः पवित्रयन्त्यः स्थेत्यनुषङ्गः । यत एवमतः स्पृशताममीवघ्नीः पापहराः आत्मनो भुवः परमात्मन उत्पन्नाः ताः युष्मान् स्पृशत इति शेषः, नोऽस्मान् पुनन्तु भगवत्य इत्यर्थः । आत्मना भवमिति पाठे आत्मना देहेन स्पृशताममीवघ्नीर्युष्मान्स्पृशतां नोऽस्माकं भवं जन्म पुनन्त्वित्यर्थः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

एवं पुरस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परीतो यस्मिन् शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति॥

मूलम्

एवं पुरस्तात्क्षीरोदात्परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परीतो यस्मिन्31 शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति॥ २४ ॥

अनुवाद (हिन्दी)

इसी प्रकार क्षीरसमुद्रसे आगे उसके चारों ओर बत्तीस लाख योजन विस्तारवाला शाकद्वीप है, जो अपने ही समान परिमाणवाले मट्ठेके समुद्रसे घिरा हुआ है। इसमें शाक नामका एक बहुत बड़ा वृक्ष है, वही इस क्षेत्रके नामका कारण है। उसकी अत्यन्त मनोहरसुगन्धसे सारा द्वीप महकता रहता है॥ २४॥

वीरराघवः

एतद्दृष्टान्तेन शाकद्वीपमनुवर्णयति । एवं यथा क्रौञ्चस्तथेत्यर्थः, दधिमण्डोदात्परतः बहिः उपवेशितः विन्यस्तः शाकद्वीपः द्वात्रिंशल्लक्षयोजनविशालः समानेन द्वात्रिंशलक्षयोजनविशालेन क्षीरोदधिना परिवेष्टितः यस्मिन् शाकद्वीपे शाकाख्यो महीरुहः स्वकीयस्य क्षेत्रस्य व्यपदेशकः नामनिर्वर्त्तकः आस्त इति शेषः । तं विशिनष्टि यस्येति । यस्य शाकस्य वृक्षस्य महासुरभिर्गन्धः निरतिशयसुगन्धः तं कृत्स्नं शाकद्वीपमनुवासयति सुरभीकरोति ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान् पुरोजवमनोजव पवमानधूम्रानीकचित्ररेफबहुरूपविश्वधारसंज्ञान्निधाप्याधिपतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश॥

मूलम्

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान् पुरोजवमनोजवप32वमानधूम्रानीकचित्ररेफबहुरूपविश्वधारसंज्ञान्निधाप्याधिपतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश॥ २५ ॥

अनुवाद (हिन्दी)

मेधातिथि नामक उसके अधिपति भी राजा प्रियव्रतके ही पुत्र थे। उन्होंने भी अपने द्वीपको सात वर्षोंमें विभक्त किया और उनमें उन्हींके समान नामवाले अपने पुत्र पुरोजव, मनोजव, पवमान, धूम्रानीक, चित्ररेफ, बहुरूप और विश्वधारको अधिपतिरूपसे नियुक्त कर स्वयं भगवान् अनन्तमें दत्तचित्त हो तपोवनको चले गये॥ २५॥

वीरराघवः

तस्यापि शाकद्वीपस्याप्यधिपतिर्मेधातिथिर्नाम प्रियव्रतात्मज एव सोऽपि पुत्रतुल्यनामानि वर्षाणि विभज्य तेषु वर्षेष्वात्मजान् पुरोजवादिसंज्ञान्निधाय प्रतिष्ठाप्य स्वयमनन्तेऽपरिच्छिन्नानन्दस्वरूपे भगवत्यावेशिता निहिता मतिर्येन तादृशस्तपोवनं तपसो योग्यं वनं प्रविवेश तपसा सिद्धोऽभूदित्यर्थः॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति॥

मूलम्

एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तै33व ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रु34तिर्निजधृतिरिति॥ २६ ॥

अनुवाद (हिन्दी)

इन वर्षोंमें भी सात मर्यादापर्वत और सात नदियाँ ही हैं। पर्वतोंके नाम ईशान, उरुशृंग,बलभद्र, शतकेसर, सहस्रस्रोत, देवपाल और महानस हैं तथा नदियाँ अनघा, आयुर्दा, उभयस्पृष्टि, अपराजिता, पंचपदी, सहस्रस्रुति और निजधृति हैं॥ २६॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमसः परमसमाधिना यजन्ते॥

मूलम्

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमसः परमसमाधिना यजन्ते॥ २७ ॥

अनुवाद (हिन्दी)

उस वर्षके ऋतव्रत, सत्यव्रत, दानव्रत और अनुव्रत नामक पुरुष प्राणायामद्वारा अपने रजोगुण-तमोगुणको क्षीण कर महान् समाधिके द्वारा वायुरूप श्रीहरिकी आराधना करते हैं॥ २७॥

वीरराघवः

अथ शाकद्वीपवर्षविभागं पुत्रनामपूर्वकं पर्वतान्नदीश्चाह एतेषामिति । तेषु पुरोजवादिषु वर्षेषु सप्त सीमापर्वताः तथा नद्यश्च सप्तैवासन् । पर्वतान्नदीश्चाह ईशानः शृङ्ग इति । अनघेत्याभ्यां गद्याभ्याम् । तद्वर्षस्थाः पुरुषाः ऋतव्रतादिचतुर्वर्णात्मकाः वाय्वात्मकं वायुशरीरकं भगवन्तं परमसमाधिना निरतिशयध्यानयोगेन यजन्ते आराधयन्ति । कथम्भूताः सन्तः प्राणायामैरासमन्ताद्विधूतं निरस्तं रजस्तमश्च येषां तादृशाः सन्तः ॥ २६-२७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः।
अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे स्फुटम्॥

मूलम्

35अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः।
अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे स्फुटम्॥ २८ ॥

अनुवाद (हिन्दी)

(और इस प्रकार उनकी स्तुति करते हैं—) ‘जो प्राणादि वृत्तिरूप अपनी ध्वजाओंके सहित प्राणियोंके भीतर प्रवेश करके उनका पालन करते हैं तथा सम्पूर्ण दृश्य जगत् जिनके अधीन है, वे साक्षात् अन्तर्यामी वायुभगवान् हमारी रक्षा करें’॥ २८॥

वीरराघवः

यो वायुशरीरकः परमात्मान्तः प्रविश्य मुख्यप्राणरूपेणान्तः प्रविष्टः सन्नात्मनः स्वस्य चिह्नभूताभिः पञ्चभिः प्राणापानादिभिर्वृत्तिभिः “यः प्राणेन प्राणिति योऽपानेनापानिति” इत्यादिश्रुतिः भूतानि बिभर्ति स साक्षादीश्वरोऽन्तः प्रविश्य नियन्ता नः अस्मान् पातु यस्य प्राणशरीरकस्य भगवतः वशे इदं जगद्वर्तते भगवतो वायुशरीरकत्वादन्तर्यामीश्वरसामानाधिकरण्यम् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

एवमेव दधिमण्डोदात्परतः पुष्करद्वीपस्ततो द्विगुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन् बृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम्॥

मूलम्

एवमेव दधिमण्डोदात्परतः पुष्करद्वीपस्ततो द्विगुणायामः समन्तत उपकल्पितः समानेन स्वादूद36केन समुद्रेण बहिरावृतो यस्मिन् बृह37त्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम्॥ २९ ॥

अनुवाद (हिन्दी)

इसी तरह मट्ठेके समुद्रसे आगे उसके चारों ओर उससे दुगुने विस्तारवाला पुष्करद्वीप है। वह चारों ओरसे अपने ही समान विस्तारवाले मीठे जलके समुद्रसे घिरा है। वहाँ अग्निकी शिखाके समान देदीप्यमान लाखों स्वर्णमय पंखड़ियोंवाला एक बहुत बड़ा पुष्कर (कमल) है, जो ब्रह्माजीका आसन माना जाता है॥ २९॥

वीरराघवः

अथ पुष्करद्वीपमनुवर्णयति एवमिति । क्षीरोदधेः परस्तात्पुष्करद्वीपः ततः शाकद्वीपाद् द्विगुणायामः द्विगुणविशालः चतुःषष्टिलक्षयोजनविशालः समन्ततश्चक्षुर्दिक्षु उपकल्पितः ईश्वरेणेति शेषः । यद्वा प्रियव्रतरथचरणनेमिनेति शेषः । स्वसमानविशालेन चतुःषष्टिलक्षयोजनविस्तीर्णेन शुद्धोदकेन शुद्धोदकसमुद्रेण बहिः समन्ततः पिहितः परिवृतः यस्मिन् पुष्करद्वीपे बृहद् विपुलं पुष्करं कमलं ज्वलनशिखावदमलानां प्रकाशमानानां कनकपत्राणामयुतानामयुतानि यस्य तद्भगवतः कमलासनस्य चर्तुमुखस्याध्यासनं परिकल्पितं तत्कर्णिकामध्यगतत्वेन तद्वर्षस्थाः पुरुषा चतुर्मुखमुपासत इत्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

तद्‍द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति॥

मूलम्

तद्‍द्वीपमध्ये मानसोत्त38रनामैक एवार्वाचीनपरा39चीनवर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं40 देवानामहोरात्राभ्यां परिभ्रमति॥ ३० ॥

अनुवाद (हिन्दी)

उस द्वीपके बीचोबीच उसके पूर्वीय और पश्चिमीय विभागोंकी मर्यादा निश्चित करनेवाला मानसोत्तर नामका एक ही पर्वत है। यह दस हजार योजन ऊँचा और उतना ही लम्बा है। इसके ऊपर चारों दिशाओंमें इन्द्रादि लोकपालोंकी चार पुरियाँ हैं। इनपर मेरुपर्वतके चारों ओर घूमनेवाले सूर्यके रथका संवत्सररूप पहिया देवताओंके दिन और रात अर्थात् उत्तरायण और दक्षिणायनके क्रमसे सर्वदा घूमा करता है॥ ३०॥

वीरराघवः

अस्मिन् द्वीपे मर्यादागिरिर्मानसोत्तरनामा एक एवेत्याह तद्द्वीपमध्य इति । पुष्करद्वीपमध्ये एक एव मानसोत्तराख्योऽयुतयोजनानि उच्छ्राय औन्नत्यमायामो विस्तारश्च यस्य सः अर्वाचीनपराचीनयोरन्तर्वर्त्तिबहिर्वर्तिनोर्वर्षयोर्मर्यादागिरिः यत्र मानसोत्तरे गिरौ चतसृषु दिक्षु इन्द्र आदिर्येषां तेषामिन्द्राग्निवरुणकुबेराणां लोकपालानां पुराणि सन्ति, यस्य मानसोत्तरगिरेः उपरि स्थितेन्द्रादिलोकपालपुरीणामुपरि मेरुं परिक्रमतः परितो भ्रमतः सूर्यरथस्य यच्चक्रं संवत्सरात्मकं तद्देवानामहोरात्राभ्यामुत्तरायणदक्षिणायनाभ्यां स्वावयवाभ्यां चक्रवत् लौकिकरथचक्रवत्परिभ्रमति ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तद्‍द्वीपस्याप्यधिपतिः प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद‍्भगवत्कर्मशील एवास्ते॥

मूलम्

तद्‍द्वीपस्याप्यधिपतिः प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रम41णकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद‍्भगवत्कर्मशील एवास्ते॥ ३१ ॥

अनुवाद (हिन्दी)

उस द्वीपका अधिपति प्रियव्रतपुत्र वीतिहोत्र भी अपने पुत्र रमणक और धातकिको दोनों वर्षोंका अधिपति बनाकर स्वयं अपने बड़े भाइयोंके समान भगवत्सेवामें ही तत्पर रहने लगा था॥ ३१॥

वीरराघवः

तस्य पुष्करद्वीपस्यापि पतिर्वीतिहोन्नाख्यः प्रियव्रतात्मज एव तस्य वीतिहोत्रस्यात्मजौ पुत्रौ रमणघातकाख्यौ रमणधातकयोर्वर्षयोः पतीकृत्वेत्यर्थः, अयं वीतिहोत्रः पूर्वजवन्मेधातिथिवद्भगवदाराधनरूपकर्मशील एवास्ते आसीदित्यर्थः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाऽऽराधयन्तीदं चोदाहरन्ति॥

मूलम्

तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाऽऽराधयन्तीदं चोदाहरन्ति॥ ३२ ॥

अनुवाद (हिन्दी)

वहाँके निवासी ब्रह्मारूप भगवान् हरिकी ब्रह्मसालोक्यादिकी प्राप्ति करानेवाले कर्मोंसे आराधना करते हुए इस प्रकार स्तुति करते हैं—॥ ३२॥

वीरराघवः

तत्पुष्करद्वीपवर्षपुरुषाः ब्रह्मरूपिणं चतुर्मुखशरीरकं भगवन्तं कर्मणा कर्मयोगविशिष्टेन कर्मणा मनोव्यापाररूपेण भगवदुपासनयोगेन, कर्मशब्दो हि मनोव्यापाररूपोपासनायोगेऽपि वर्त्तते ‘प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात्’ इति सौत्रप्रयोगात् प्रकाशादिवत् ज्ञानानन्दादिस्वरूपवन्मूर्त्तामूर्तप्रपञ्चविशिष्टताया अपि ब्रह्मगुणत्वाद्वैशेष्यं प्रतीयते “तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च” इत्यादिब्रह्मस्वरूपभूतप्रकाशानन्दादिवञ्च तेषां वामदेवादीनां संराधनात्मके कर्मण्यभ्यासादुपलभ्यते तद्वच्चाभ्यस्तसंराधनानां तेषां मूर्त्तामूर्त्तादिना विशिष्टत्वमप्यविशेषेण प्रतीयते इति तदर्थः । तथा च “वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् । शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ॥” इति भगवतामनुनापि मानसैः कर्मदोषैरिति मनोव्यापारे कर्मशब्दः प्रयुक्तः । अकर्मण इति पाठे अकर्मणे कर्मबन्धनिरासाय कर्मणा स्वस्ववर्णोचितकर्मणेत्यर्थः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत्।
एकान्तमद्वयं शान्तं तस्मै भगवते नम इति॥

मूलम्

यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत्।
एकान्तमद्वयं शान्तं तस्मै भगवते नम इति॥ ३३ ॥

अनुवाद (हिन्दी)

‘जो साक्षात् कर्मफलरूप हैं और एक परमेश्वरमें ही जिनकी पूर्ण स्थिति है तथा जिनकी सब लोग पूजा करते हैं, ब्रह्मज्ञानके साधनरूप उन अद्वितीय और शान्तस्वरूप ब्रह्ममूर्ति भगवान‍्को मेरा नमस्कार है’॥ ३३॥

वीरराघवः

भेदेन वर्णाश्रमभेदेनोपलक्षितो जनः यद् ब्रह्मणः परस्य लिङ्गं शरीरभूतम् । यद्वा ब्रह्म देवस्तदेव लिङ्गं ज्ञापकं यस्य तद्ब्रह्मलिङ्ग वेदावबोध्यं कर्ममयं जगत्सृष्ट्यात्मककर्मप्रचुरमादिक्षेत्रज्ञत्वाद् ब्रह्मणः परमात्मनो लिङ्गं शरीरमर्चयेदाराधयेत् कथमद्वैतमिति क्रियाविशेषणं देवमनुष्यादिकार्यवर्गं प्रति ब्रह्मणः समष्टिरूपत्वात्कार्यकारणयोरभेदाध्यवसायादद्वैतं यथा भवति तथार्चयेदित्यर्थः। यच्चतुर्मुखरूपं केवलदेवावबोध्यं व्यष्टिसृष्ट्यात्मककर्मप्रचुरं ब्रह्मणः परस्य शरीरभूतमद्वैतं यथा तथार्चयेदिति यावत्, तथैकान्तमित्यपि क्रियाविशेषणमेकान्तमव्यभिचरितं यथा तथार्चयेदिति तस्मै भगवते हिरण्यगर्भाय ते नमः ॥ ३३ ॥

श्लोक-३४

मूलम् (वचनम्)

ऋषिरुवाच

विश्वास-प्रस्तुतिः

ततः परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले परित उपक्षिप्तः॥

मूलम्

ततः परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले परित उपक्षिप्तः॥ ३४ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! इसके आगे लोकालोक नामका पर्वत है। यह पृथ्वीके सब ओर सूर्य आदिके द्वारा प्रकाशित और अप्रकाशित प्रदेशोंके बीचमें उनका विभाग करनेके लिये स्थित है॥ ३४॥

वीरराघवः

एवं शुद्धोदधिपर्यन्तं सप्तद्वीपात्मकं भूमण्डलमनुवर्ण्याथ ततः परमनुवर्णयति तत इति । ततः शुद्धोदात्परस्ताद् बहिर्लोकालोकाख्यः पर्वत आस्ते इति शेषः, तस्य लोकालोक इति नाम्नि प्रवृत्तिनिमित्तमाह । यतो लोकालोकयोरन्तराले मध्ये उपकल्पितः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमिः काञ्चन्यन्याऽऽदर्शतलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित्पुनः प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृताऽऽसीत्॥

मूलम्

यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमिः काञ्चन्यन्याऽऽदर्शतलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित्पुनः प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृताऽऽसीत्॥ ३५ ॥

अनुवाद (हिन्दी)

मेरुसे लेकर मानसोत्तर पर्वततक जितना अन्तर है, उतनी ही भूमि शुद्धोदक समुद्रके उस ओर है। उसके आगे सुवर्णमयी भूमि है, जो दर्पणके समान स्वच्छ है। इसमें गिरी हुई कोई वस्तु फिर नहीं मिलती, इसलिये वहाँ देवताओंके अतिरिक्त और कोई प्राणी नहीं रहता॥ ३५॥

श्लोक-३६

विश्वास-प्रस्तुतिः

लोकालोक इति समाख्या यदनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते॥

मूलम्

लोकालोक इति समाख्या यदनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते॥ ३६ ॥

अनुवाद (हिन्दी)

लोकालोकपर्वत सूर्य आदिसे प्रकाशित और अप्रकाशित भूभागोंके बीचमें है, इससे इसका यह नाम पड़ा है॥ ३६॥

श्लोक-३७

विश्वास-प्रस्तुतिः

स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गभस्तयोऽर्वाचीनांस्त्रील्ँलोकानावितन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते तावदुन्नहनायामः॥

मूलम्

स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गभस्तयोऽर्वाचीनांस्त्रील्ँलोकानावितन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते तावदुन्नहनायामः॥ ३७ ॥

अनुवाद (हिन्दी)

इसे परमात्माने त्रिलोकीके बाहर उसके चारों ओर सीमाके रूपमें स्थापित किया है। यह इतना ऊँचा और लम्बा है कि इसके एक ओरसे तीनों लोकोंको प्रकाशित करनेवाली सूर्यसे लेकर ध्रुवपर्यन्त समस्त ज्योतिर्मण्डलकी किरणें दूसरी ओर नहीं जा सकतीं॥ ३७॥

वीरराघवः

ननु ततः परस्तादित्युक्तं तदेव कियतान्तरेणेत्यपेक्षायां तदन्तर्वर्त्तिनीं भूमिमाह । मानसोत्तरमेर्वोरन्तराले मध्ये यावती भूमिरास्ते मेरोर्मध्यादारभ्य मानसोत्तरपर्यन्तं सार्द्धसप्तलक्षोत्तरसार्द्धकोटियोजनपरिमता भूमिरास्ते तावती भूमिः शुद्धोदात्परतोऽस्तीत्यर्थः । ततोऽन्यामेकोनचत्वारिंशल्लक्षोत्तराष्टकोटियोजनमितां भूमिमाह काञ्चनीति । काञ्चनी स्वर्णमयी आदर्शतलोपमा दर्पणोदरतुल्या निर्जना भूमिर्लोकालोकशुद्धोदध्योरन्तराले वर्तत इत्यर्थः । ततस्तां विशिनष्टि यस्यां लोकालोकान्तरालवर्तिन्यां सार्धसप्तलक्षोत्तरसार्द्धकोटियोजनात्मिकायां शुद्धोदाद बाह्याया भूमेः परस्ताद्विद्यमानायामेकोनचत्वारिंशल्लक्षोत्तराष्टकोटिपरिमितायां भूम्यां निहितः कश्चित्पदार्थः पुनर्नोपलभ्यते दर्पणोदरतुल्यत्वात्तस्या इति भावः । न हि दर्पणोदरे निहितमाषादिस्तिष्ठतीति लोकालोकाद्वाह्यमाह तस्मादिति । तस्माल्लोकालोकपर्वताद्बहिः सर्वैः सत्त्वैर्जन्तुभिः परिहृता रहिता आसीद् भूमिरित्यनुषङ्गः । अलोका भूमिरास्त इत्यर्थः, इदमेव हि पर्वतस्य लोकालोकसमाख्यायां निमित्तमित्याह लोकेत्यादिना । स्वपर्यन्ताया अन्तर्भूम्या लोकशब्दवाच्यत्वात्स्वस्माद्बाह्याया अलोकशब्दवाच्यत्वाच्चोभयोरन्तरालवर्तिनानेन पर्वतेन स्वनिष्ठान्तरालवर्त्तित्वेन धर्मेण हेतुना स्वस्मिल्लोकालोक इति समाख्या व्यवस्थाप्यते व्यवहृतसमाख्योऽयं पर्वतो भवतीत्यर्थः । पर्वतं विशिनष्टि स इति । लोकालोकः भूरादिलोकत्रयमन्तरमन्तर्गतं यस्य तस्मिन्विषये ईश्वरेण परिवृताकारेण निहित इत्यर्थः । गर्भस्थ लोकत्रयत्वेन लोकालोकयोर्मर्यादात्वेन चेश्वरेणायमचलो निहित इत्यर्थः । एतदेव प्रपञ्चयति यस्मादिति । सूर्यप्रभृतीनां ध्रुवपर्यन्तानां ज्योतिर्गणानां गभस्तयो मरीचयः त्रिलोकान् भूरादीनर्वाचीनानधःस्थान् वितन्वानाः समन्तात्प्रकाशयन्तो यस्माल्लोकालोकपर्वतरूपात्प्रतिबन्धात्कदाचिदपि पराचीनाः परितो व्याप्ताः पर्वताद् बहिः प्रकाशमाना भवितुं नोत्सहन्ते न शक्नुवन्ति तावदुन्नहनमौन्नत्यं तदनुरूप आयामो विस्तारश्च यस्य सः ध्रुवादप्युन्नतत्वाद् गर्भस्थत्रिलोकीत्वाच्च लोकालोकयोर्मर्यादारूपः इत्यर्द्धपर्वताद् बहिः सूर्यादिप्रकाशाद् बाह्य लोके आलोकस्तद्वान् लोकः आलोकरहितोऽलोक इति च लोकालोकशब्दयोः प्रवृत्तिनिमित्तमुक्तं भवति ॥ ३५-३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

एतावाल्ँलोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तितः कविभिः स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य तुरीयभागोऽयं लोकालोकाचलः॥

मूलम्

एतावाल्ँलोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तितः कविभिः स पञ्चाशत्कोटिगणितस्य भू42गोलस्य तुरीयभागोऽयं लोकालोकाचलः॥ ३८ ॥

अनुवाद (हिन्दी)

विद्वानोंने प्रमाण, लक्षण और स्थितिके अनुसार सम्पूर्ण लोकोंका इतना ही विस्तार बतलाया है। यह समस्त भूगोल पचास करोड़ योजन है। इसका चौथाई भाग (अर्थात् साढ़े बारह करोड़ योजन विस्तारवाला) यह लोकालोकपर्वत है॥ ३८॥

वीरराघवः

तावदुन्नहनायाम इत्युक्तमौन्नत्यं कियद्योजनपरिमितमित्यपेक्षायां तद्वक्तुं तस्य कृत्स्नभूमण्डलपरिमितेः कथनापेक्षत्वात्तत्परिमाणमाह एतावानेवेति । लोकस्य कृत्स्नभूमण्डलस्य विन्यासः संस्थानमानादिभिरेतावानिति पञ्चाशत्कोटियोजनपरिमित इति कविभिः भूमण्डलयाथात्म्यविद्भिः चिन्तितः सम्यग् ज्ञातः । पर्वतस्यौन्नत्यपरिमितिमाह स त्विति । पञ्चाशत्कोटियोजनविस्तृतस्य भूगोलस्य यस्तुरीयो भागः सार्द्धद्वादशकोटियोजनात्मकः तत्परिमितौन्नत्यवान् तदनुगुणायामश्चेत्यर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद‍्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभः पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतवः॥

मूलम्

तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद‍्गुरुणा43धिनिवेशिता ये द्विरदपतय ऋषभः पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतवः॥ ३९ ॥

अनुवाद (हिन्दी)

इसके ऊपर चारों दिशाओंमें समस्त संसारके गुरु स्वयम्भू श्रीब्रह्माजीने सम्पूर्ण लोकोंकी स्थितिके लिये ऋषभ, पुष्करचूड, वामन और अपराजित नामके चार गजराज नियुक्त किये हैं॥ ३९॥

वीरराघवः

तस्य लोकालोकस्य गिरेरुपरिष्टाचतसृष्वाशासु पूर्वादिषु दिक्षु अखिलजगद्गुरुणा आत्मयोनिना ब्रह्मणा ऋषभादिसंज्ञाश्चत्वारो द्विरदपतयः गजश्रेष्ठा ये निवेशितास्ते सकललोकानां स्थितिहेतवः क्षेमहेतवः आसते ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान् परममहापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्‍ध्युपलक्षणं विष्वक्सेनादिभिः स्वपार्षदप्रवरैः परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डैः सन्धारयमाणस्तस्मिन् गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते॥

मूलम्

तेषां 44स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान् परममहापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्‍ध्युपलक्षणं विष्वक्सेनादिभिः स्वपार्षदप्रवरैः परिवारितो निजवरायुधोपशोभि45तैर्निजभुजदण्डैः सन्धारयमाणस्तस्मिन् गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते॥ ४० ॥

अनुवाद (हिन्दी)

इन दिग्गजोंकी और अपने अंशस्वरूप इन्द्रादि लोकपालोंकी विविध शक्तियोंकी वृद्धि तथा समस्त लोकोंके कल्याणके लिये परम ऐश्वर्यके अधिपति सर्वान्तर्यामी परमपुरुष श्रीहरि अपने विष्वक्सेन आदि पार्षदोंके सहित इस पर्वतपर सब ओर विराजते हैं। वे अपने विशुद्ध सत्त्व (श्रीविग्रह)-को जो धर्म, ज्ञान, वैराग्य और ऐश्वर्य आदि आठ महासिद्धियोंसे सम्पन्न है धारण किये हुए हैं। उनके करकमलोंमें शंख-चक्रादि आयुध सुशोभित हैं॥ ४०॥

श्लोक-४१

विश्वास-प्रस्तुतिः

आकल्पमेवं वेषं गत एष भगवानात्मयोगमायया विरचितविविधलोकयात्रागोपीथायेत्यर्थः॥

मूलम्

आकल्पमेवं46 वेषं गत एष भगवानात्मयोगमायया विरचितवि47विधलोकयात्रागोपीथायेत्यर्थः॥ ४१ ॥

अनुवाद (हिन्दी)

इस प्रकार अपनी योगमायासे रचे हुए विविध लोकोंकी व्यवस्थाको सुरक्षित रखनेके लिये वे इसी लीलामयरूपसे कल्पके अन्ततक वहाँ सब ओर रहते हैं॥ ४१॥

वीरराघवः

तेषां द्विरदपतीनां स्वांशभूतानामिन्द्रादिलोकपालानाञ्च नानाविधसामर्थ्याभिवृद्धये सकललोकस्वस्तये भगवान् तस्मिन्पर्वते आस्ते इत्यन्वयः । कथम्भूतः परमः सर्वोत्कृष्टः निरतिशयकल्याणगुणाश्रयः पुरुषः विभूतिद्वयाधिपतिः सर्वान्तरात्मा आत्मनः स्वस्य यद्विशुद्धं सत्वं तद्धारयमाणः शुद्धसत्त्वमयाकर्मवश्यं दिव्यमङ्गलविग्रहं बिभ्राण इत्यर्थः । कथम्भूतं शुद्धसत्त्वं धर्मादयः उपलक्षणानि दर्शनसाधनानि यस्य तद्धर्माद्युपलक्षणं तत्र धर्मो वर्णाश्रमोचितकर्मयोगः, ज्ञानं प्रकृतिविविक्तात्मज्ञानयोगः, वैराग्यमन्तर्बाह्येन्द्रियनियमः, ऐश्वर्यादयः अष्टौ सिद्धयः, अणिमादयो योगसिद्धयः एभिरुपलक्ष्यते कर्मयोगज्ञानयोगानुगृहीतेनाणिमाद्यष्टैश्वर्यसिद्धिपर्यन्तेनोपासनेनोपलक्ष्यमित्यर्थः, स्वपार्षदश्रेष्ठैर्विष्वक्सेनप्रभृतिभिः परिवृतः स्वकीयैः श्रेष्ठैश्चक्रादिभिरायुधैरुपशोभिताः दोषः भुजा दण्डाकारास्तैरुपलक्षितः तस्मिल्लोकालोके गिरिवरे सर्वत्र सकलजगतां स्वस्तय आस्ते इत्यर्थः । कियन्तं कालमास्त इत्यत्राह आकल्पमिति । एष भगवानात्ममायया विरचितो विविधो यो लोकः तस्य यात्रा जीवनं तस्या गोपीथाय रक्षणाय चाकल्पमेवम्भूतं वेषं लीलया प्राप्त आस्त इत्यर्थः । एवं जम्बूद्वीपादीनां परिमाणकथनेन शुद्धोदधिपर्यन्तभूमण्डलस्य मेरोर्मूलस्य मध्यादारभ्याभितः शुद्धोदधिपर्यन्तमृजुगमने पञ्चशतसहस्राधिकत्रिपञ्चाशल्लक्षान्तरकोटिद्वययोजनात्मकं परिमाणमुक्तं भवति । तथा चोक्तमन्यत्रापि “कोटिद्वयं त्रिपञ्चाशल्लक्षाणि च ततः परम् । पञ्चाशच्च सहस्राणि सप्तद्वीपाः ससागराः ॥ ततो हेममयी भूमिदेशकोट्यो वरानने ! देवानां क्रीडनाथाय लोकालोकस्ततः परम् ।” इति एवं शुद्धोदधेर्बाह्यायाः काञ्चनीभूमेर्गर्भभूतायाः परिमाणमपि यावन्मानसोत्तरमेर्वोरन्तरा तावती भूमिरित्यनेन सार्द्धसप्तलक्षोत्तरसार्द्धकोटियोजनात्मकमुक्तं, यद्यप्यादर्शभूमेर्विशिष्य परिमाणं नोक्तं तथापि कृत्स्नभूमण्डलस्य पञ्चाशत्कोटियोजनपरिमितत्वोक्तस्तत्र सप्तद्वीपससागरात्मकस्य परिमाणोक्तेरलोकस्य लोकसमानपरिमाणस्य वक्ष्यमाणत्वाच्च “ततो हेममयी भूमिर्देशकोट्यः” इति वचनान्तरानुरोधाच्च परिशेषादेकोनचत्वारिंशल्लक्षोत्तराष्टकोटियोजनात्मकं परिमाणं वेदितव्यं, हेमभूमेर्दशकोटियोजनपरिमितत्वकथनं पूर्वोक्तसार्द्धसप्तलक्षोत्तरसार्द्धकोटियोजनसङ्ख्यया पूर्वोक्तभूम्या सह किञ्चिदूनमस्तीत्यभिप्रायेणेति द्रष्टव्यम् ॥ ४०-४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद‍्बहिर्लोकालोकाचलात्। ततः परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति॥

मूलम्

योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद‍्बहिर्लोकालोकाचलात् । ततः परस्ताद् योगेश्वरगतिं विशुद्धामुदाहरन्ति॥ ४२ ॥

अनुवाद (हिन्दी)

लोकालोकके अन्तर्वर्ती भूभागका जितना विस्तार है, उसीसे उसके दूसरी ओरके अलोक प्रदेशके परिमाणकी भी व्याख्या समझ लेनी चाहिये। उसके आगे तो केवल योगेश्वरोंकी ही ठीक-ठीक गति हो सकती है॥ ४२॥

वीरराघवः

एवं लोकालोकपर्यन्तस्य लोकस्य मेरोरारभ्य सार्द्धद्वादशकोटियोजनपरिमाणमुक्तमथालोकपरिमाणमाह अथेति । ननु हे राजन् ! तेन लोकालोकान्तर्वर्तिनः परिमाणकथनेन लोकालोकाद्बहिर्बाह्यो देशः तस्य लोकस्य परिमाणमपि व्याख्यातमलोकोऽपि लोकेन तुल्यपरिमाणः सार्द्धद्वादशकोटियोजनपरिमाण इत्यर्थः । अत्रेदमवगन्तव्यं पञ्चाशत्कोटियोजनात्मकभूमण्डले मेरुर्मध्ये वर्तते, तस्मादारभ्य चतुर्दिक्षु अण्डभित्तिपर्यन्तमृजुगमनेन पञ्चविंशतिकोटियोजनानि भवन्ति । दक्षिणाण्डभित्तिमारभ्योत्तरभित्तिपर्यन्तमृजुगमने तु पञ्चाशत्कोटियोजनानि भवन्ति एवं पश्चिमत आरभ्य पूर्वभित्तिपर्यन्तेऽपि द्रष्टव्यम् । तत्र मेरोरारभ्याण्डभित्तिपर्यन्ते पञ्चविंशतिकोटियोजनात्मके भूभागे जम्बूद्वीपविभागः पञ्चाशत्सहस्रयोजनात्मकः ततो लवणोदध्यादयः समुद्राः प्लक्षादयो द्वीपाश्च यथोक्तयोजनपरिमाणाः । एवं पञ्चाशत्सहस्रौत्तरपञ्चाशल्लक्षाधिककोटिद्वययोजनपरिमिता सप्तसागरसप्तद्वीपात्मिका भूमिः शुद्धोदधेर्बाह्यभूमिः सार्द्धसप्तलक्षोत्तरसार्द्धकोटियोजनपरिमिता बाह्या आदर्शभूमिरेकोनचत्वारिंशल्लक्षोत्तराष्टकोटियोजनपरिमिता, सङ्कलय्य गणनया सार्द्धद्वादशकोटियोजनानि भवन्ति । ततो लोकालोकात्परालोकभूमिः सार्द्धद्वादशकोटियोजनपरिमितेति तत्र न लोकानां सञ्चार इत्याह । ततः परस्तादिति । ततो लोकालोकाद्वहिर्विशुद्धां योगप्रभावविशुद्धां योगेश्वराणामेव गतिं सञ्चारमुदाहरन्ति कथयन्तीत्यर्थः । वस्तुतस्त्वत्र शुद्धोदधेः परस्तात्काञ्चनभूम्यतिरिक्ता भूमिर्न प्रतीयत एव किन्तु काञ्चन्या एव भूमेर्मेरुमानसोत्तरमध्यस्य भूपरिमाणं गम्यते । अत एव हि श्रीवैष्णवे पुराणे “स्वादूदकस्य परतः दृश्यते लोकसंस्थितिः । द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता” इति काञ्चनभूमिरेवोक्ता । अत एव हि “ततः काञ्चनभूमिस्तु दशकोट्यो वरानने !” इति वचनान्तरमप्युपपन्नं तत्रायमर्थः । अथालोकपरिमाणमाह अथेति । ननु योऽन्तर्विस्तारः लोकालोकपर्यन्तवर्त्तिनो भूमण्डलस्य विस्तारः कथित इति शेषः, एतेनान्तर्वर्तिनः परिमाणकथनेनालोकस्य लोकालोकपर्यन्ताद् बाह्यवर्त्तिनोऽपि परिमाणमाख्यातं कथितप्रायं पञ्चाशत्कोटियोजनपरिमिते भूमण्डले लोकालोकान्तर्वर्त्तिनो विस्तारे कथितेऽवशिष्टमलोकस्य परिमाणमपि कथितप्रायमेवेत्यर्थः । अत्रेदमवगन्तव्यं पञ्चाशत्कोटियोजनपरिमितं भूमण्डलं मेरोर्मूलमध्यादारभ्याभितश्चतुर्द्धाण्डगोलपर्यन्तं विभजनीयमेवं विभक्ताश्चत्वारो भागा अल्पमूला विपुलाग्रभागास्त्रिकोणाकारा भवन्ति यथा मेरोरारभ्य लवणोदधिविभक्ता भागाः । तत्रैकैकस्मिन्भागे मेरोरारभ्याण्डभित्तिपर्यन्तमृजुगमने पञ्चविंशतिकोटियोजनानि भवन्ति तेषामेव भागानामाद्यन्तभागयोः समीकरणेन गणनायां सार्द्धद्वादशकोटियोजनानि भवन्ति यथा च मेरोरारभ्य लवणोदधिपर्यन्तेषु चतुर्षु भागेष्वेकैकस्मिन् भागे मेरुमूलादारभ्य ऋजुगमनेन शुद्धोदधिपर्यन्तं पञ्चाधिकसहस्राधिकत्रिपञ्चाशल्लक्षोत्तरकोटिद्वययोजनात्मकः शुद्धोदादारभ्य लोकालोकपर्यन्तं सार्द्धसप्तलक्षोत्तरसार्द्धकोटियोजनपरिमितः लोकालोकादारभ्याण्डभित्तिपर्यन्तो लोकभाग एकोनचत्वारिंशल्लक्षाधिकाष्टकोटियोजनपरिमितः मिलित्वा सार्द्धद्वादशकोटियोजन एकैको भागो भवति । चतुर्णां भागानां मेलनेऽण्डभित्तेर्दक्षिणत आरभ्योत्तरभित्तिपर्यन्तमृजुगमने पञ्चाशत्कोटियोजनानि भवन्ति । एवं पाश्चात्यामण्डभित्तिमारभ्य पूर्वभित्तिपर्यन्तं गमनेऽपीति बोध्यम् । भागानां समीकारेण गणनायां त्वन्यदेव परिमाणं भवतीति अयमप्यपरो विशेषः । सार्द्धद्वादशकोट्यात्मके एकैकस्मिन् भागे योऽयं शुद्धोदधिपर्यन्तः पञ्चाशत्सहस्राधिकत्रिपञ्चलक्षोत्तरकोटिद्वययोजनपरिमित एकैको भागस्तस्मिन्नपि भागे मेरोर्मूलादारभ्य ऋजुगमने लवणोदधिपर्यन्तो जम्बूद्वीपविभागः पञ्चाशत्सहस्रयोजनपरिमितः, ततो लवणोदधिभागोऽपि ऋजुगमनेन लक्षयोजनपरिमितः ततः प्लक्षद्वीपो द्विलक्षयोजनात्मकः, तत इक्षुरससमुद्रोऽपि द्विलक्षयोजनात्मकः, एवं ततः शाल्मलादयो द्वीपाः सुरोदादयश्च समुद्राः चतुर्लक्षादिरूपयथोक्तपरिमाणा एव वेदितव्याः । एवं शुद्धोदधिपर्यन्तं सङ्कलय्य गणनायां पञ्चाधिकसहस्राधिकत्रिपञ्चाशल्लक्षोत्तरकोटिद्वययोजनात्मकोक्तसङ्ख्या सम्पन्ना भवतीति ततः “काञ्चनी भूमिः” सार्द्धसप्तलक्षोत्तरसार्द्धकोटियोजनपरिमिता ततो “द्विगुणा काञ्चनी भूमिः” इति तु श्रीविष्णुपुराणवचनं पूर्वोक्तशुद्धोदधिपर्यन्तया भूम्या सह षण्णवतिलक्षन्यूनद्विगुणेत्येव तात्पर्य्यकं दशकोट्य इति वचनान्तरं तु लोकादारभ्य पुनर्लोकालोकपर्यन्तमृजुगमनेन चतुर्द्दशलक्षोत्तरदशकोटियोजनप्रमिता भूमिर्भवतीत्येतदभिप्रायकं द्विगुणत्वदशकोटित्वकथनं न्यूनाधिकभागावनादृत्येत्यतो न विरोध इति । ततो लोकालोकाचलः ततोऽन्धकारभूमिः सा च पारिशेष्यादवशिष्टकोटियोजनपरिमिता, एवञ्च मेरोरारभ्य पञ्चविंशतिकोटियोजनानि भवन्तीति द्रष्टव्यम् ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम्।
सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः॥

मूलम्

अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम्।
सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः॥ ४३ ॥

अनुवाद (हिन्दी)

राजन्! स्वर्ग और पृथ्वीके बीचमें जो ब्रह्माण्डका केन्द्र है, वही सूर्यकी स्थिति है। सूर्य और ब्रह्माण्डगोलकके बीचमें सब ओरसे पच्चीस करोड़ योजनका अन्तर है॥ ४३॥

वीरराघवः

एवं मेरुमध्यस्थमवधीकृत्य भूमण्डलस्य परिमाणमुक्तमथ ब्रह्माण्डस्य कियत्परिमाणकं वावधीकृत्य परिमातव्यमित्यपेक्षायामाह । अण्डमध्यगत इति । अण्डमध्यगतः अण्डमध्ये स्थितः सूर्यः यथा भूमण्डलस्य मध्ये मेरुः स्थितस्तद्वदित्यर्थः । किं तन्मध्यं यत्र स्थितः सूर्यस्तत्राह द्यावाभूम्योर्यदन्तरमिति । द्यावाभूम्योरूर्ध्वाधः कपालयोर्यदन्तरं मध्यस्थानमित्यर्थः । अनेन सूर्यमवधीकृत्याण्डस्य परिमाणं कार्यमेवेत्युक्तं भवति । सूर्याण्डभित्त्योर्मध्ये पञ्चविंशतिकोट्यः स्युरित्यर्थः । सूर्यमवधीकृत्याण्डभित्तिपर्यन्तमूर्ध्वमधस्तात्पार्श्वतश्च पञ्चविंशतिकोटियोजनानि भवन्तीत्यर्थः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड इति व्यपदेशः। हिरण्यगर्भ इति यद्धिरण्याण्डसमुद‍्भवः॥

मूलम्

मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड इति व्यपदेशः।
हिरण्यगर्भ इति यद्धिरण्याण्डसमुद‍्भवः॥ ४४ ॥

अनुवाद (हिन्दी)

सूर्य इस मृत अर्थात् मरे हुए (अचेतन) अण्डमें वैराजरूपसे विराजते हैं, इसीसे इनका नाम ‘मार्त्तण्ड’ हुआ है। ये ‘हिरण्यमय (ज्योतिर्मय) ब्रह्माण्डसे प्रकट हुए हैं, इसलिये इन्हें हिरण्यगर्भ’ भी कहते हैं॥ ४४॥

वीरराघवः

अण्डप्रसङ्गात्सूर्यचतुर्मुखादीनामण्डसम्बन्धादेव मार्तण्डहिरण्यगर्भादिनामवत्त्वमित्याह मृतेऽण्ड इति । मृते नश्वरे एतस्मिन्नण्डे यतः स्थितः ततोऽसौ सूर्यो मार्तण्ड उच्यते, मृतञ्च तदण्डं च मृताण्डं मृताण्डे भवः मार्ताण्डः-शकन्ध्वादित्वात्पररूपे मार्तण्ड इत्यपि साधुः, यद्यस्माद्धिरण्ये हिरण्यमये समुद्भवो यस्य स ब्रह्मा हिरण्यगर्भ इत्युच्यते । हिरण्याण्डस्य गर्भभूतत्वाद्धिरण्यगर्भ इत्युच्यते इत्यर्थः । यद्वा हिरण्यगर्भ इति सूर्यस्यैव कचिद्व्यपदेशनिर्वाहार्थमेव ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

सूर्येण हि विभज्यन्ते दिशः खं द्यौर्मही भिदा।
स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः॥

मूलम्

सूर्येण हि विभज्यन्ते दिशः खं द्यौर्मही भिदा।
स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः॥ ४५ ॥

अनुवाद (हिन्दी)

सूर्यके द्वारा ही दिशा, आकाश, द्युलोक (अन्तरिक्षलोक), भूर्लोक, स्वर्ग और मोक्षके प्रदेश, नरक और रसातल तथा अन्य समस्त भागोंका विभाग होता है॥ ४५॥

वीरराघवः

यदुक्तमण्डपरिमाणे सूर्यस्यावधित्वं तदेव न केवलं किन्तु दिगादिविभागेऽप्यवधित्वं सूर्यस्यास्तीत्याह सूर्येणेति । दिशः पूर्वादयः एवं खमन्तरिक्षं द्यौः स्वर्लोकः मही भूमिः भिदान्योऽपि विभागः स्वर्गापवर्गौ भोगमोक्षदेशौ नरकाः रसौकांसि अतलादीनि च सर्वशः कृत्स्नशः सूर्येणैव विभज्यन्ते ज्ञायन्त इत्यर्थः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम्।
सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः॥

मूलम्

देवतिर्यङ्मनुष्याणां सरीसृ48पसवीरुधाम्।
सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः॥ ४६ ॥

अनुवाद (हिन्दी)

सूर्य ही देवता, तिर्यक्, मनुष्य, सरीसृप और लता-वृक्षादि समस्त जीवसमूहोंके आत्मा और नेत्रेन्द्रियके अधिष्ठाता हैं॥ ४६॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे 49भुवनकोशवर्णने समुद्रवर्षसंनिवेशपरिमाणलक्षणो विंशोऽध्यायः॥ २० ॥

वीरराघवः

न केवलं दिगादिविभाजक एव सूर्यः किन्तु देवादीनां चक्षुरिन्द्रियाधिष्ठाता चेत्याह देवेति । आत्मा भगवदात्मकः सूर्यः देवादीनां सर्वेषां जीवनिकायानां जीवसमूहानां दृगीश्वरः दृगधिष्ठाता अगानां स्थावराणां वीरुधाञ्च चक्षुरिन्द्रियस्यानभिव्यक्तस्य भासकत्वाच्च चक्षुरिन्द्रियाधिष्ठातृत्वमप्युक्तम् ॥ ४६ ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकायां विंशोऽध्यायः ॥ २० ॥


  1. ऋषिरुवाच । ↩︎

  2. वान् । ↩︎

  3. ख्यातिकरो । ↩︎

  4. व पतन्त्यभिज्ञाताः । ↩︎

  5. टः शतशृङ्गमिन्द्र । ↩︎

  6. सप्तशैलाः । ↩︎

  7. मृगगणाऽऽङ्गि । ↩︎

  8. आसां । ↩︎

  9. प्लक्षस्तु । ↩︎

  10. कुमुदः पुष्पः । ↩︎

  11. धरेपुन्धरसंज्ञा । ↩︎

  12. प्राचीने पाठे ‘स्वगोभिः पितृदेवेभ्यो….’ त आरभ्य ‘सोमो न आस्त्विति’ पर्यन्त एकश्लोको न । ↩︎

  13. ख्यायनो ज्वलन । ↩︎

  14. विराजति । ↩︎

  15. ण्यरोमा नाम । ↩︎

  16. स्वयं तु तप । ↩︎

  17. चिराभिगुप्त । ↩︎

  18. ज्ञाताः सप्तैव चक्र । ↩︎

  19. पिलो वित्रकूटो । ↩︎

  20. मधुमालेति । ↩︎

  21. पाठे ‘परस्य ब्रह्मणः….’ श्लोको न । ↩︎

  22. प्राचीने पाठे ‘तथा घृतोदाद्बहिः’ पाठो न । ↩︎

  23. श्वेतद्वीपे । ↩︎

  24. स्वयं भगवतः परम । ↩︎

  25. आम्रो । ↩︎

  26. गिरयः सप्तैव नद्य । ↩︎

  27. नन्दनः सर्व । ↩︎

  28. तृप्तिरूपवती । ↩︎

  29. प्रर्षभ । ↩︎

  30. प्राचीने पाठे ‘आपः पुरुषवीर्याः….’ श्लोको न । ↩︎

  31. यस्मिन् हि शा । ↩︎

  32. वेपमान । ↩︎

  33. सप्त ईशान । ↩︎

  34. सहसूतिर्निज । ↩︎

  35. प्राचीने पाठे ‘अन्तः प्रविश्य….’ श्लोको न । ↩︎

  36. दकसमुद्रेण । ↩︎

  37. पुष्करं ज्वलन । ↩︎

  38. सोत्तरो नामैक । ↩︎

  39. प्राचीनयोर्वर्धयो । ↩︎

  40. चक्रमहोरात्राभ्यां । ↩︎

  41. णकघातकनामानौ । ↩︎

  42. भूगोलकस्य । ↩︎

  43. भिनिवेशिता । ↩︎

  44. स्वाधिपतीनां महेन्द्रादीनां लोकपालानां विविध । ↩︎

  45. भितैर्भुजदण्डैः । ↩︎

  46. मेष एवमात्मयोग । ↩︎

  47. त्रिविधलोकयात्रा । ↩︎

  48. सूपमृगवीरुधाम् । ↩︎

  49. प्राचीने पाठे ‘भुवनकोशवर्णने’ पाठो न । ↩︎