[एकोनविंशोऽध्यायः]
भागसूचना
किम्पुरुष और भारतवर्षका वर्णन
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसंनिकर्षाभिरतः परमभागवतो हनुमान् सह किम्पुरुषैरविरतभक्तिरुपास्ते॥
मूलम्
किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसंनिकर्षाभिरतः परमभागवतो हनुमान् सह किम्पुरुषैरविरतभक्तिरुपास्ते॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—राजन्! किम्पुरुषवर्षमें श्रीलक्ष्मणजीके बड़े भाई, आदिपुरुष, सीताहृदयाभिराम भगवान् श्रीरामके चरणोंकी सन्निधिके रसिक परम भागवत श्रीहनुमान् जी अन्य किन्नरोंके सहित अविचल भक्तिभावसे उनकी उपासना करते हैं॥ १॥
वीरराघवः
एवमिलावृतादिषु वर्षेषु सप्तसूपास्यादिकमुक्तमथेदानीं किंपुरुषे भारते च वर्षे तद्वदन्येषां मध्ये भारतवर्षश्रेष्ठ्यं चाहेकोनविंशेन । तत्रादौ किंपुरुषे उपास्यां भगवत्तनुं तदुपासकं जप्यं मन्त्रं चाह किंपुरुष इति । आदिपुरुषं जगत्कारणभूतं परमपुरुषं लक्ष्मणस्य सौमित्रेरग्रजं सीताया मैथिल्या अभिराममनुरूपं रामं दाशरथिं रामम् “रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥’ इति निरुक्तरामशब्दपुष्कलप्रवृत्तिनिमित्ताश्रयं तस्य श्रीरामस्य यौ चरणौ तयोः सन्निकर्षः सान्निध्यं भजनमिति यावत्तस्मिन्नभिरत आसक्तो महाभागवतो हनुमानाञ्जनेयः किंपुरुषवर्षस्थैः सहाविरता अविच्छिन्ना भक्तिर्यस्य तादृश उपास्ते ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति॥
मूलम्
आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति॥ २ ॥
अनुवाद (हिन्दी)
वहाँ अन्य गन्धर्वोंके सहित आर्ष्टिषेण उनके स्वामी भगवान् रामकी परम कल्याणमयी गुणगाथा गाते रहते हैं। श्रीहनुमान् जी उसे सुनते हैं और स्वयं भी इस मन्त्रका जप करते हुए इस प्रकार उनकी स्तुति करते हैं॥ २॥
वीरराघवः
भगवतो भर्तुः श्रीरामस्य कथां गन्धर्वैरुप समीपे गीयमानां आर्ष्टिषेणेन किंपुरुषवर्षस्य पुरुषश्रेष्ठेन सह सम्यगुपशृणोति स्वयमिदं वक्ष्यमाणमुपांशु गायति जपति ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन उपासितलोकाय नमः साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति॥
मूलम्
ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन उपासितलोकाय नमः साधुवाद1निकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति॥ ३ ॥
अनुवाद (हिन्दी)
हम ॐकारस्वरूप पवित्रकीर्ति भगवान् श्रीरामको नमस्कार करते हैं। आपमें सत्पुरुषोंके लक्षण, शील और आचरण विद्यमान हैं, आप बङे ही संयतचित्त, लोकाराधनतत्पर, साधुताकी परीक्षाके लिये कसौटीके समान और अत्यन्त ब्राह्मणभक्त हैं। ऐसे महापुरुष महाराज रामको हमारा पुनः पुनः प्रणाम है’॥ ३॥
वीरराघवः
ॐ भगवच्छब्दार्थौ पूर्ववत् । उत्तमैर्ब्रह्मादिभिः श्लोक्यते स्तूयते, उत्तमः निरतिशयः श्लोकः यशो यस्येति वा तस्मै आर्याणां लक्षणानि व्रतानि च शीलानि यस्मिन् उपशिक्षितः संयतः आत्मा चित्तं येन, उपाश्रितः लोको येन साधुवादः साधुत्वसिद्धः तस्य निकषणाय निकषाश्मवन्निर्द्धारणस्थानाय ब्रह्मणि कुले साधुः ब्रह्मण्यः, तत्र साधुरिति यत्प्रत्ययः “ये चाभावकर्मणोः” इति प्रकृतिभावान्न टिलोपः । “अप्यहं जीवितं जह्यां त्वां वा सीते ! सलक्ष्मणाम् । न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥” इत्युक्तरीत्या ब्राह्मणसंरक्षणबद्धैकदीक्षत्वमेवात्र ब्रह्मण्यत्वं स चासौ देवः स्वतेजसा दीप्यमानः अस्पृष्टप्राकृतदोषस्तस्मै । यद्वा ब्रह्म वेद तत्र साधुः सम्यक् प्रतिपाद्यः स चासौ देवस्तस्मै महापुरुषाय पुंसूक्तप्रतिपाद्यजगत्कारणत्वोपयुक्तकल्याणगुणविशिष्टाय परमपुरुषाय महाराजाय । “राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान् । ईश्वरं तं विजानीध्वं स पिता स प्रजापतिः ॥” इत्युक्तमहाराजाय । नमःपदावृत्तिर्गुणभेदाभिप्राया ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
यत्तद्विशुद्धानुभवमात्रमेकं
स्वतेजसा ध्वस्तगुणव्यवस्थम्।
प्रत्यक् प्रशान्तं सुधियोपलम्भनं
ह्यनामरूपं निरहं प्रपद्ये॥
मूलम्
यत्तद्विशुद्धानुभवमात्रमेकं स्वतेजसा ध्वस्तगुणव्यवस्थम्।
प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये॥ ४ ॥
अनुवाद (हिन्दी)
‘भगवन्! आप विशुद्ध बोधस्वरूप, अद्वितीय, अपने स्वरूपके प्रकाशसे गुणोंके कार्यरूप जाग्रदादि सम्पूर्ण अवस्थाओंका निरास करनेवाले, सर्वान्तरात्मा, परम शान्त, शुद्ध बुद्धिसे ग्रहण किये जानेयोग्य, नाम-रूपसे रहित और अहंकारशून्य हैं; मैं आपकी शरणमें हूँ॥ ४॥
वीरराघवः
प्रकृतिपुरुषविलक्षणपरमात्मस्वरूपं विशोध्य तच्छ्रीरामरूपेणावस्थितं नमस्करोति यदिति । विशुद्धं रागाद्यकलुषितं तदनुभवैकमात्रं ज्ञानैकस्वरूपं मात्रचा क्वचिदप्यजडस्वरूपत्वं विवक्षितं विशुद्धानुभवैकमात्रमनेन स्वरूपं निर्दिश्यते स्वतेजसा स्वप्रकाशेन नित्यासङ्कुचितानन्दस्वरूपविषयकधर्मभूतज्ञानेन ध्वस्ता नित्यं निरस्ता गुणा रजआदयः तत्कृतास्तिस्र उत्पत्तिस्थितिमरणभूता अवस्था यस्य । स्वतेजसा ध्वस्तगुणव्यवस्थमित्यनेन प्रकृतिसंसृष्टचेतनव्यावृत्तिः, स ह्यध्वस्तगुणव्यवस्थः प्रशान्तमशनायापिपासाशोकमोहजरामृत्युरूपोर्मिषड्गुणरहितानन्दस्वरूपम् । यद्वा विशुद्धशब्देनैन्द्रियकानुभवव्यावृत्तिः प्रशान्तशब्देन नित्यं रागाद्यकलुषितत्वमुच्यतेऽनेन मुक्तचेतनव्यावृत्तिः । स हि बद्धावस्थायां रागादिभिः कलुषितः प्रत्यक् स्वस्मै भासमानमनेन पराचोऽचेतनस्य व्यावृत्तिः, न ह्यचेतनं स्वस्मै अवभासते किन्तु परस्मै एव सुधिया सम्यग्ज्ञानेनोपलम्भनमुपलभ्यते इत्युपलम्भनम् “दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः । हृदा मनीषा मनसाभिक्लृप्तः” इति श्रुत्युक्तयोगपरिशुद्धबुद्ध्योपलभ्यमानमित्यर्थः । अनेनैव तत्कारणत्वमप्युपलक्षितम् “कश्च ध्येयः कारणं तु ध्येयम्” इति ध्येयत्वकारणत्वयोरेकनिष्ठत्वश्रवणात् । यदि कारणं तर्हि कारणत्वस्य भाव्यवस्थाविशेषवतः प्रागवस्थायोगित्वरूपत्वाद्देवादिनामरूपाश्रयत्वं स्यात्ततश्च “सत्यं ज्ञानमनन्तं निष्क्रियं निष्कलम्” इत्यादिनिर्विकारित्वश्रवणविरोधस्तत्राह अनामरूपमिति । न विद्येते स्वमात्रनिष्ठे देवादिनामरूपे यस्य प्रकृतिपुरुषविशिष्टस्यैव कारणत्वाद्देवादिनामरूपयोः स्वविशेषणीभूतप्रकृतिपुरुषगतत्वात्तद्वारा सनामरूपत्वेऽपि साक्षादनामरूपमित्यर्थः, एवम्भूतं यद्वेदान्तेषु प्रसिद्धं तत्परब्रह्मस्वरूपं नरहरिं पुरुषोत्तममिति यावत् । एवं च “द्वाविमौ पुरुषौ लोके” इत्यारभ्य “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः” इति भगवद्गीतोक्तनित्यमुक्तबद्धत्रिविधचेतनव्यावृत्तस्वरूपं विवक्षितं, तत्र हि कूटस्थशब्देन मुक्तो नित्यसिद्धश्च चेतन उच्यते, उभयोरपि प्राकृतविकारराहित्येनाक्षरकूटस्थशब्दवाच्यत्वात् । यद्यपि प्रशान्तशब्देन मुक्तव्यावृत्तिस्तथापि नित्यसिद्धव्यावृत्तये नृहरिमित्युक्तं निरहमिति पाठे त्वनामरूपत्वे निरहं हेतुः अहमर्थान्निर्गतः अहंशब्देनाहङ्कारः प्रकृतिपरिणामविशेषः जीवश्चोच्यते । आत्मनोऽप्यहमर्थत्वात्ततश्च निरहं प्रकृतिपुरुषगतविकारातीतं हि यतस्तस्मादनामरूपमिति योजना बोध्या । एवंभूतं प्रपद्ये उपायोपेयभावेनाध्यवस्यामीत्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
मर्त्यावतारस्त्विह मर्त्यशिक्षणं
रक्षोवधायैव न केवलं विभोः।
कुतोऽन्यथा स्याद्रमतः स्व आत्मनः
सीताकृतानि व्यसनानीश्वरस्य॥
मूलम्
मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः।
कुतोऽन्यथा स्याद्रमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य॥ ५ ॥
अनुवाद (हिन्दी)
प्रभो! आपका मनुष्यावतार केवल राक्षसोंके वधके लिये ही नहीं है, इसका मुख्य उद्देश्य तो मनुष्योंको शिक्षा देना है! अन्यथा, अपने स्वरूपमें ही रमण करनेवाले साक्षात् जगदात्मा जगदीश्वरको सीताजीके वियोगमें इतना दुःख कैसे हो सकता था॥ ५॥
वीरराघवः
नन्वस्तु परस्य ब्रह्मणोऽनामरूपत्वं श्रीरामस्य त्वनारूपत्वमित्ययुक्तं तस्य मनुष्यनामरूपभाक्त्वात्तत्राह मन्येति । विभोः परस्यैव ब्रह्मण इह लोके श्रीरामरूपेण मर्त्यावतारः मनुष्यावतारः अवतारो नामाजहत्स्वभावस्यैव रूपान्तरपरिग्रहः । एवञ्च परब्रह्मेहाजहत्स्वभावं मनुष्यसजातीयरूपं परिगृहीतवदिति भावः । किमवतारप्रयोजनं तत्राह मर्त्यशिक्षणं मर्त्यानां संसारदोषज्ञापनेन धर्मसंस्थापनं साधुपरित्राणं प्रयोजनमिति भावः । ननु मर्त्यशिक्षणं नावतारप्रयोजनं किन्तु रावणादिरक्षोवध एवेत्यत्राह । रक्षोवधायैव न केवलमिति । विभोर्मयवतारो न केवलं रक्षोवधार्थमेवापि तु मर्त्यशिक्षणमेव तस्य प्रधानं प्रयोजनमित्यर्थः । तथा चोक्तं भगवता “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥” इति विनाशाय चेत्यत्र चशब्दोऽन्वाचयपरः भिक्षामट गामानयेतिवत् दुष्कृतविनाशनमानुषङ्गिकं प्रयोजनमित्यर्थः । धर्मो नाम चातुर्वर्ण्यचातुराश्रम्यव्यवस्थयावस्थित ईश्वराराधनरूपपञ्चमहायज्ञादिः तस्य संस्थापनं संसारदोषज्ञापनेन शिक्षणं दुष्कृतविनाशनं तु सङ्कल्पमात्रेणाप्युपपद्यते, साधूनां शय्यासनाटनभोजनादिषु भगवता सह वर्तमानानां तं विना क्षणमात्रमपि कल्पसहस्रं मन्वानानां दर्शनस्पर्शनसंभाषणादिभिः परित्राणं सुखीकरणं धर्मसंस्थापनञ्च सङ्कल्पमात्रेणाप्युपपद्यत इति भावः । यदुक्तं मर्त्यशिक्षणार्थमेवावतार इति तदस्मिन्नेवावतारे निदर्शयति कुत इत्यादिना । अन्यथावतारस्य मर्त्यशिक्षणार्थत्वाभावे ईश्वरस्य । ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्ज्जुन ! तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥’ इत्युक्तसर्वनियन्तुः दारापहर्तृरावणाद्यन्तरात्मतया दारापहरणादिकं कारायितुः स्वे स्वस्मिन्निरतिशयापरिच्छिन्नानन्दस्वरूपे आत्मनि रमतः उक्तविधस्वस्वरूपानुभवेन नित्यसन्तुष्टस्य विषयासक्तिरहितस्य सीताकृतानि सीताविश्लेषादिभिः कृतानि व्यसनानि दुःखानि कुतः कस्माद्धेतोः स्यात् । प्रत्येकाभिप्रायं स्यादित्येकवचनम् । कुतोऽन्यथा स्यू रमत इति पाठस्तु सुगमः । सर्वनियन्तुः सर्वान्तरात्मनः स्वानुभवसन्तुष्टस्य श्रीरामस्वरूपेणावस्थितस्य परब्रह्मणः सीताविश्लेषादिकृतव्यसनानुकरणं निरतिशयदुःखावहः संसार इति लोकस्य प्रदर्शयितुमेव अन्यथोक्तविधस्य तस्य सीताकृतव्यसनादि न घटत इति भावः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
न वै स आत्माऽऽत्मवतां सुहृत्तमः
सक्तस्त्रिलोक्यां भगवान् वासुदेवः।
न स्त्रीकृतं कश्मलमश्नुवीत
न लक्ष्मणं चापि विहातुमर्हति॥
मूलम्
न वै स आत्माऽऽत्मवतां सुहृत्तमः सक्तस्त्रिलोक्यां भगवान् वासुदेवः।
न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमर्हति॥ ६ ॥
अनुवाद (हिन्दी)
आप धीर पुरुषोंके आत्मा१ और प्रियतम भगवान् वासुदेव हैं; त्रिलोकीकी किसी भी वस्तुमें आपकी आसक्ति नहीं है। आप न तो सीताजीके लिये मोहको ही प्राप्त हो सकते हैं और न लक्ष्मणजीका त्याग ही कर सकते हैं२॥ ६॥
पादटिप्पनी
१. यहाँ शंका होती है कि भगवान् तो सभीके आत्मा हैं, फिर यहाँ उन्हें आत्मवान् (धीर) पुरुषोंके ही आत्मा क्यों बताया गया? इसका कारण यही है कि सबके आत्मा होते हुए भी उन्हें केवल आत्मज्ञानी पुरुष ही अपने आत्मारूपसे अनुभव करते हैं—अन्य पुरुष नहीं। श्रुतिमें जहाँ-कहीं आत्मसाक्षात्कारकी बात आयी है, वहीं आत्मवेत्ताके लिये ‘धीर’ शब्दका प्रयोग किया है। जैसे ‘कश्चिद्धीरः प्रत्यगात्मानमैक्षत’ इति ‘नः शुश्रुम धीराणाम्’ इत्यादि। इसीलिये यहाँ भी भगवान्को आत्मवान् या धीर पुरुषका आत्मा बताया है।
२. एक बार भगवान् श्रीराम एकान्तमें एक देवदूतसे बात कर रहे थे। उस समय लक्ष्मणजी पहरेपर थे और भगवान्की आज्ञा थी कि यदि इस समय कोई भीतर आवेगा तो वह मेरे हाथसे मारा जायगा। इतनेमें ही दुर्वासा मुनि चले आये और उन्होंने लक्ष्मणजीको अपने आनेकी सूचना देनेके लिये भीतर जानेको विवश किया। इससे अपनी प्रतिज्ञाके अनुसार भगवान् बड़े असमंजसमें पड़ गये। तब वसिष्ठजीने कहा कि लक्ष्मणजीके प्राण न लेकर उन्हें त्याग देना चाहिये; क्योंकि अपने प्रियजनका त्याग मृत्युदण्डके समान ही है। इसीसे भगवान्ने उन्हें त्याग दिया।
वीरराघवः
एतदेवोपपादयति नेति । स श्रीरामरूपेणावस्थितः परमात्मा आत्मवतां प्रशस्तमनसां निर्धूतनिखिलसांसारिकधर्म्माणां सनकादीनामात्मा सुहृत्तमः स्वाश्रितेषु निरतिशयसौहार्दनिष्ठः आश्रितानां निरतिशयप्रीतिविषयश्च भगवान् ज्ञानशक्तिबलैश्वर्यादिषाड्गुण्यपूर्णः वासुदेवः “सर्वत्रासौ समस्तश्च वसत्यत्रेति वै यतः । ततो वासुदेवेति विद्वद्भिः परिकीर्तितः ॥” इत्युक्तरित्या सर्वत्रावस्थितोऽपि तद्गतदोषैरसंस्पृष्टः सर्वं स्वधार्यत्वेन स्वशेषत्वेन च परिगृहीतवांश्च त्रिलोक्यां कृत्स्नजगदन्तर्भूते कस्मिंश्चिदपि शब्दादिविषयभूते वस्तुनि न सक्त:-वैशब्दोऽवधारणे-न सक्त एवेत्यर्थः । यतो न सक्तः अत एव स्त्रीकृतं स्त्रीविश्लेषादिकृतं कश्मलं दुःखं नाश्नुवीत, अवतारस्य मर्त्यशिक्षणार्थत्वाभावे स्त्रीकृतं कश्मलमेवम्भूतो न प्राप्नुयादेवान्यथेत्यस्य सर्वत्रानुषङ्गः, तथा लक्ष्मणं चशब्दात्सीतां च विहातुं त्यक्तुं नार्हति । निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणाद्युपयुक्तशरीरभेदैः शेषत्वं गतस्य भगवतो नित्यानपायिनो न तस्यावताररूपम् । “भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते । कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते ॥” इति सर्वावस्थोचिताशेषशेषतैकरतिकृतनित्यकिङ्करतां प्रार्थयमानं लक्ष्मणम् । “नित्यैवैषा जगन्माता लक्ष्मीर्नित्यानपायिनी । राघवत्वे भवेत्सीता रुक्मिणी कृष्णजन्मनि ॥ अन्येष्वप्यवतारेषु विष्णोरेषानपायिनी ।” इत्युक्तविधां नित्यानपायिनीं लक्ष्म्यवताररूपां भगवतीं सीतां च मर्त्यशिक्षणमन्तरेण “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । मित्रभावेन संप्राप्तं न त्यजेयं कथञ्चन । अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम ॥” इति वदन् कथं त्यक्तुमर्हति । अतः केवलं मर्त्यशिक्षणार्थं सांसारिकपुरुषचेष्टामनुसृतवानित्यर्थः । सीतालक्ष्मणत्यागस्तु श्रीरामायणे उत्तरकाण्डे प्रसिद्धः । अत्रात्मवतामात्मेत्यनेन “अमृतस्य तु नाशास्ति वित्तेन, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति वीतरागोपास्यत्वप्रतिपादकश्रुत्यर्थप्रत्यभिज्ञानात्तस्य सर्गादिभिरकालुष्यं सूचितम् । अत एव स्त्रीसंयोगवियोगकृतसुखदुःखाद्यभावश्चावेदितः, भगवानित्यनेन षाड्गुण्यपूर्णत्वोक्त्यावाप्तसमस्तकामत्वोक्तिलाभात् स्त्रीसङ्गादिनिमित्तसुखानादरश्चोक्तः, सुहृत्तम इत्यनेन ‘न स्मरत्यपकाराणां शतमप्यात्मवत्तया । कथञ्चिदुपकारेण कृतेनैकेन तुष्यति ॥’ इत्युक्तरीत्या दोषाननवेक्ष्य तारतम्यमनालोच्य उपकाराभासमवलम्ब्य स्वाश्रितत्वमात्रेणापरित्यजतो निरतिशयसुहृत्तमस्य मर्त्यशिक्षणमन्तरेण नित्यानपायिनोः सीतालक्ष्मणयोस्त्यागो न घटत इत्युक्तं भवति ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
न जन्म नूनं महतो न सौभगं
न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः।
तैर्यद्विसृष्टानपि नो वनौकस-
श्चकार सख्ये बत लक्ष्मणाग्रजः॥
मूलम्
न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः।
तैर्यद्विसृष्टा2नपि नो वनौकसश्चकार सख्ये बत लक्ष्मणाग्रजः॥ ७ ॥
अनुवाद (हिन्दी)
आपके ये व्यापार केवल लोकशिक्षाके लिये ही हैं। लक्ष्मणाग्रज! उत्तम कुलमें जन्म, सुन्दरता, वाक्चातुरी, बुद्धि और श्रेष्ठ योनि—इनमेंसे कोई भी गुण आपकी प्रसन्नताका कारण नहीं हो सकता, यह बात दिखानेके लिये ही आपने इन सब गुणोंसे रहित हम वनवासी वानरोंसे मित्रता की है॥ ७॥
वीरराघवः
तारतम्यमनादृत्य यस्याश्रितत्वमात्रेण निरतिशयप्रीतिविशिष्टत्वरूपं तदस्मिन्नेवावतारे दर्शयति नेति । महतः शरणागतशब्दभाजं निहीनजन्मादिविशिष्टं पापीयांसमपि रक्षितुं बद्धदीक्षस्य श्रीरामरूपेणावस्थितस्य ब्रह्मणः जन्म विप्रादिजन्म न तोषहेतुः तथा सौन्दर्याध्ययनसुबुद्धिजातयो न तोषहेतवः, तिर्यक्ष्वपि तस्यानुग्रहदर्शनादिति भावः, तथाहि तिरश्चो भावः तैर्यञ्चं तिर्यक्त्वं तेन सृष्टान् वनौकसः वनस्थानस्मान् कपीन् प्रति लक्ष्मणाग्रजः पूर्वोक्तविधानन्तावताररूपलक्ष्मणाग्रजो नित्यं तत्सहचरः श्रीरामः सख्यं चकार बतेत्याश्वर्ये । सख्य इति पाठे सख्ये विषये नश्चकारेत्यर्थः, तैर्यद्विसृष्टानिति पाठे यत् यस्मात्तैर्जन्मसौभगादिभिः विसृष्टान्परित्यक्तानपि नोऽस्मान् सख्ये चकार जन्मादिकतारतम्यमनवेक्ष्य संश्रयमात्रेणास्माभिर्हीनैः सख्यं कृतवान् बताहो अस्य सुह्लत्तमत्वमेवंविधमिति निर्वक्तुमशक्यमित्यर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
सुरोऽसुरो वाप्यथ वानरो नरः
सर्वात्मना यः सुकृतज्ञमुत्तमम्।
भजेत रामं मनुजाकृतिं हरिं
य उत्तराननयत्कोसलान्दिवमिति॥
मूलम्
सुरोऽसुरो वाप्यथ वानरो नरः सर्वात्मना यः सुकृतज्ञमुत्तमम्।
भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान्दिवमिति॥ ८ ॥
अनुवाद (हिन्दी)
देवता, असुर, वानर अथवा मनुष्य—कोई भी हो, उसे सब प्रकारसे श्रीरामरूप आपका ही भजन करना चाहिये; क्योंकि आप नररूपमें साक्षात् श्रीहरि ही हैं और थोड़े कियेको भी बहुत अधिक मानते हैं। आप ऐसे आश्रितवत्सल हैं कि जब स्वयं दिव्यधामको सिधारे थे, तब समस्त उत्तरकोसलवासियोंको भी अपने साथ ही ले गये थे’॥ ८॥
वीरराघवः
यत एव निरतिशयसुहृत्तमस्ततस्तं मनुजाकृतिं मनुष्याकारं श्रीहरिं सुकृतमुपकाराभिज्ञम् “मय्येव जीर्णतां यातु यत्त्वयोपकृतं कपे ! । नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्क्षति ॥” इति मां प्रत्युक्तविधोपकाराभिज्ञं पुरुषोत्तमं श्रीरामं सुरासुरनराणां मध्ये यः कश्चित्सर्वात्मना सर्वप्रकारेण केनापि तदीयतासम्पादनप्रकारेणेति यावत् भजेत कथं तन्मात्रेणैव तमनुगृह्णातीत्यत्राह । यः श्रीरामः उत्तरकोसलानुत्तरकोसलस्थान् लोकान् तरुगुल्मलतादींश्च स्वदेशवासित्वमात्रमवलम्ब्य दिवं स्वर्गमनयत् प्रापितवान् । न केवलं ज्ञानक्रियाभक्तियोगानेवापेक्ष्यानुगृह्णात्यपि तु यत्किञ्चिद्व्याजमात्रमवलम्ब्यानुगृह्णात्ययं श्रीराम इति भावः । तथा चोक्तं श्रीवत्साङ्कमिश्रैः “त्वामामनन्ति कवयः करुणामृताब्धे ! ज्ञानक्रियाभजनलभ्यमलभ्यमन्यैः । एतेषु केन वरदोत्तरकोसलस्थाः पूर्वं सदूर्वमभजन्न हि जन्तवस्त्वाम् ॥” इति ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
भारतेऽपि वर्षे भगवान्नरनारायणाख्य आकल्पान्तमुपचितधर्मज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरति॥
मूलम्
भारतेऽपि वर्षे भगवान्नरनारायणाख्य आकल्पान्तमुपचितधर्मज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरति॥ ९ ॥
अनुवाद (हिन्दी)
भारतवर्षमें भी भगवान् दयावश नर-नारायणरूप धारण करके संयमशील पुरुषोंपर अनुग्रह करनेके लिये अव्यक्तरूपसे कल्पके अन्ततक तप करते रहते हैं। उनकी यह तपस्या ऐसी है कि जिससे धर्म, ज्ञान, वैराग्य, ऐश्वर्य, शान्ति और उपरतिकी उत्तरोत्तर वृद्धि होकर अन्तमें आत्मस्वरूपकी उपलब्धि हो सकती है॥ ९॥
वीरराघवः
अथ भारते वर्षे उपास्यं भगवद्रूपम् उपासकं जप्यमानं मन्त्रं स्तोत्रं चाह भारतेऽपीति । भारतेऽपि वर्षे भगवान्नारायणाख्यो बदरिकाश्रमे । आकल्पान्तं कल्पपर्यन्तमव्यक्तगतिरेतदर्थमेवं करोतीतीतरैरविज्ञातचेष्टस्तपश्चरति । कथंभूतम् उपचिताः प्रवृद्धा धर्मादयो येन तदुपचितधर्मज्ञानवैराग्यैश्वर्ययोगोपरमात्मोपलम्भनमात्मा उपलभ्यते साक्षात्क्रियते येन तदात्मोपलम्भनं ततः कर्मधारयः, तत्र धर्मः कर्मयोगः ज्ञानमात्मयाथात्म्यज्ञानयोगः वैराग्यं मनोनिग्रहः ऐश्वर्याण्यणिमादीनि योगः प्राणजयः उपरमो बाह्येन्द्रियजयः । किमर्थमेवमनीश्वरवत्तपश्चरतीत्यत्राह । आत्मवतामनुग्रहायात्मवतोऽनुग्रहीतुं मुमुक्षव एवम्बिधं तपः कुर्युरित्येवं शिक्षया ताननुग्रहीतुमिति यावत् आत्मवत्स्वनुग्रहे तस्य कृपैव कारणमित्याशयेनाह अनुकम्पयेति ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभिः प्रजाभिर्भगवत्प्रोक्ताभ्यां सांख्ययोगाभ्यां भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाणः परमभक्तिभावेनोपसरति इदं चाभिगृणाति॥
मूलम्
तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभिः प्रजाभिर्भगवत्प्रोक्ताभ्यां सांख्ययोगाभ्यां भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाणः परमभक्तिभावेनोपसरति इदं चाभिगृणाति॥ १० ॥
अनुवाद (हिन्दी)
वहाँ भगवान् नारदजी स्वयं श्रीभगवान्के ही कहे हुए सांख्य और योगशास्त्रके सहित भगवन्महिमाको प्रकट करनेवाले पांचरात्रदर्शनका सावर्णि मुनिको उपदेश करनेके लिये भारतवर्षकी वर्णाश्रम-धर्मावलम्बिनी प्रजाके सहित अत्यन्त भक्तिभावसे भगवान् श्रीनर-नारायणकी उपासना करते और इस मन्त्रका जप तथा स्तोत्रको गाकर उनकी स्तुति करते हैं॥ १०॥
वीरराघवः
तं श्रीमन्नारायणं भगवान् षाड्गुण्यपूर्णः नारदः वर्णाश्रमवतीभिर्वर्णाश्रमधर्मानुवर्त्तनीभिः भारतीभिर्भरतवर्षवासिनीभिः प्रजाभिः सह साङ्ख्यमात्मयाथात्म्यज्ञानयोगः योगोऽसङ्गवर्णाश्रमोचितपञ्चमहायज्ञादिरूपः कर्मयोगः । आभ्यां भगवत्प्रोक्ताभ्यां भगवता गीताचार्येण प्रोक्ताभ्याम् “अशोच्यानन्वशोचस्त्वम्” इत्यारभ्य “एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु” इत्यारभ्य चोक्ताभ्यां गीताया वेदवदनादित्वादेवमुक्तं परमभक्तिभावेन परमभक्तिरूपेण भावेनाभिप्रायेण उपसरति अनुवर्तते कर्मयोगज्ञानयोगानुगृहीतनिरतिशयभक्तियोगेनानुवर्तत इत्यर्थः । कथंभूतः भगवतोऽनुभवः उपवर्ण्यते येन पञ्चरात्रेण तद्भगवद्नुभवोपवर्णनं तत्पञ्चरात्रं सावर्णेर्मनोरुपदेक्ष्यमाणः इदमुदाहरति ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति॥
मूलम्
ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परम3हंसपरमगुरवे आत्मारामाधिपतये नमो नम इति॥ ११ ॥
अनुवाद (हिन्दी)
—‘ओंकारस्वरूप, अहंकारसे रहित, निर्धनोंके धन, शान्तस्वभाव ऋषिप्रवर भगवान् नर-नारायणको नमस्कार है। वे परमहंसोंके परम गुरु और आत्मारामोंके अधीश्वर हैं, उन्हें बार-बार नमस्कार है॥ ११॥
वीरराघवः
मन्त्रमाह ओमिति । ओंभगवच्छब्दार्थौ पूर्ववत्, परमं निरतिशयं शीलं स्वभावो यस्य तस्मै सौशील्यविशिष्टायेत्यर्थः । महतो मन्दैः सह नीरन्ध्रेण संश्लेषस्वभावत्वं सौशील्यम् अयमाश्रयणसौकर्यापादको गुणः इदं वात्सल्यसौलभ्यस्वामित्वानामप्याश्रयणसौकर्यापादकानामुपलक्षणमुपरतानात्म्यायानात्मा देहेन्द्रियादिः तस्य भावः प्रकारः धर्मः अशनायादिषडूर्मिवर्गः उपरतं निरस्तमनात्म्यं यस्माद्येन वा तस्मै अकिञ्चनवित्ताय नास्ति किञ्चन प्रार्थनीयं येषां तेऽकिञ्चना निष्कामा मुमुक्षवस्तेषां वित्ताय निधये नरनारायणरूपेणावतीर्णाय परमहंसाय पर उत्कर्षो मा न भवति हंसो जीवो यस्मात् पृषोदरादित्वात् माशब्दस्य ह्रस्वः । यद्वा हन्ति निरस्यति निखिलान् दोषानिति हंसः पृषोदरादित्वात् साधुः “भवेद्वर्णागमाद्धंस” इत्यानुशासनिकस्मरणात्, परमश्चासौ हंस इति कर्मधारयः, परमः निरतिशयकल्याणगुणगणः हंसो निरस्तनिखिलदोषः तस्मै परमगुरवे निरतिशयहितोपदेष्ट्रे आत्मारामाय नित्यासङ्कुचितापरिच्छिन्नानन्दरूपस्वात्मानुभवपरायाधिपतये भूतानामधिपतये “एष भूताधिपतिः” इति श्रवणात् । नमस्काराभ्यासो गुणभेदाभिप्रायकः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
गायति चेदम्—
कर्तास्य सर्गादिषु यो न बध्यते
न हन्यते देहगतोऽपि दैहिकैः।
द्रष्टुर्न दृग्यस्य गुणैर्विदूष्यते
तस्मै नमोऽसक्तविविक्तसाक्षिणे॥
मूलम्
गायति चेदम्—
कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः।
द्रष्टुर्न दृग्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे॥ १२ ॥
अनुवाद (हिन्दी)
यह गाते हैं—
‘जो विश्वकी उत्पत्ति आदिमें उनके कर्ता होकर भी कर्तृत्वके अभिमानसे नहीं बँधते, शरीरमें रहते हुए भी उसके धर्म भूख-प्यास आदिके वशीभूत नहीं होते तथा द्रष्टा होनेपर भी जिनकी दृष्टि दृश्यके गुण-दोषोंसे दूषित नहीं होती—उन असंग एवं विशुद्ध साक्षिस्वरूप भगवान् नर-नारायणको नमस्कार है॥ १२॥
वीरराघवः
इदं वक्ष्यमाणश्लोकचतुष्टयं स्तुतिरूपं गायति पठतीत्यर्थः । यद्वा इदं वक्ष्यमाणं गुणजातं गायति तावज्जगत्कारणं चिदचिद्विलक्षणं निरस्तनिखिलदोषं निस्समाभ्यधिकं सर्वज्ञं नमस्करोति कर्त्तेति । अस्य कृत्स्नस्य चिचिदात्मकस्य जगतः सृष्ट्यादौ कर्त्तापि यो न बध्यते नाभिमन्यते “चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्त्तारमव्ययम्” इति भगवदुक्तरीत्या कृत्स्नजगत्स्रष्टारमात्मानं तद्गुणकर्मायत्तदेवमनुष्यपशुपादपतारतम्येन कर्त्तारं न मन्यते सृज्यानां देवादिपदार्थानां देवत्वमनुष्यत्वादिनानाविधसर्गकर्मणि सृज्यशक्तीनामेव गुणकर्मणां प्रधानकारणत्वादात्मानं गुणकर्मानुगुणकर्त्तारं मन्यते, न तु साक्षाद्वैचित्र्यं प्रति हेतुं मन्यत इत्यर्थः । तथा देहगतोऽपि अन्तरात्मतया देवादिदेहस्थोऽपि दैहिकैर्देहसम्बन्धप्रयुक्तैः सुखदुःखादिभिर्यो न हन्यते नाभिभूयते एवं द्रष्टुर्जीवस्य यद्दृश्यमचेतनं प्रधानं तस्य गणैः रजआदिभिर्यो न दृश्यते न संकुचितज्ञानो भवति । कर्तृत्वेऽपि मोहाभावात् त्रिगुणात्मकप्रधानशरीरकत्वेऽपि गुणकृतज्ञानसङ्कोचाभावाच्च जीवाद्वैलक्षण्यमुक्तं द्रष्टुर्जीवस्य गुणैः संसारित्वादिभिर्दृश्यस्य गुणैर्जात्यादिभिश्च न दूष्यत इति वा योजना । एवं चिदचिद्वैलक्षण्यमुक्तमत एवासक्तो रागादिरहितो विविक्तोऽसहायः स्वतुल्याधिकद्वितीयवस्तुरहितः साक्षी सर्वस्य चेतनाचेतनात्मकस्य जगतः द्रष्टा चेत्यसक्तविविक्तसाक्षी तस्मै ते नमः | “कर्त्तास्य सर्गादिषु यो न बध्यते” इत्यपि पाठः । तत्रास्य जगतः सर्गादौ सृष्टिस्थितिलयेषु कर्त्तापि न बध्यते असक्तत्वाज्जीवस्तु स्वगुणानुगुणपरमात्मायत्तः कर्त्ता स्वकर्मायत्तभोगसङ्गात् स्वातन्त्र्येण कर्त्तास्मीत्यभिमानेन बध्यते संसारी भवति, परमात्मा जगत्सर्गादौ निरपेक्षः कर्त्तापि न बध्यते जगद्व्यापारस्य लीलारूपत्वेन सुखदुःखादिफलभोगार्थत्वाभावात्तत्रासक्त्यभावादिति भावः । तथा देहगतोऽपि दैहिकैः देहसम्बन्धप्रयुक्तैः सुखदुःखादिभिर्न हन्यते नाभिहतो भवति, कुतः विविक्तत्वान्निरस्तनिखिलदोषतया समस्तकल्याणगुणाकरतया च जीवपर्यन्तेभ्यो देहेन्द्रियादिभ्यो विलक्षणत्वाद्विलक्षणस्वस्वरूपावलोकनशीलत्वादिति भावः । तथा च शारीरकं सूत्रम् ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इति सर्वत्रावस्थानतोऽपि न परस्य ब्रह्मणोऽपुरुषार्थगन्धः सम्भवति कुतः सर्वत्र श्रुतिस्मृतिषु परं ब्रह्मोभयलिङ्गमुभयलक्षणं निरस्तनिखिलदोषमनन्तकल्याणगुणाकरमभिधीयत इति तदर्थः, “अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः” इत्यादयः श्रुतयः । ‘समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः । परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥’ इत्यादयः स्मृतयः । अयं भावः जीवस्य कर्मवश्यत्वात्तत्कर्मानुगुण्येन तत्तद्वस्तुसम्बन्धोऽपुरुषार्थ एव स्यात्परस्य तु ब्रह्मणः स्वाधीनः स एव सम्बन्धस्तद्विचित्रनियमनरूपलीलारसायैव स्यादिति दिक् । तथा च श्रुतिः “तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति” इति तथा द्रष्टुः स्वस्वकर्मानुगुणज्ञानाश्रयस्य “अनृतेन हि प्रत्यूढास्तेषां सत्यानां सतामनृतमपिधानम्” इति श्रुत्युक्तरीत्या कर्मणा तिरोहितज्ञानस्य जीवस्य यद् दृश्यं कर्मायत्तदर्शनविषयं यत्प्रधानं तस्य गुणैः रजआदिभिर्न दृष्यते च गुणपरवशो न भवति कुतः साक्षित्वात्साक्षाद् द्रष्टृत्वात् “साक्षाद्रष्टरि संज्ञायाम्” इति साक्षिशब्दो व्युत्पादितः, साक्षिशब्दोऽवयववृत्त्या समुदायरूढ्या च भगवत्येव मुख्यवृत्तः ‘अव्ययः पुरुषः साक्षी’ति भगवन्नामसहस्रपाठात् अतः संज्ञायामित्यस्य न विरोधः । द्रष्टुरिति दृष्टान्तार्थं यथा द्रष्टा दृश्यगुणैर्दृष्यते तथा साक्षी परमात्मा न दूष्यत इति । अयं भावः - जीवस्य स्वकर्मानुगुणमेव दृश्यदर्शनं न तु साक्षात्साकल्येनेति गुणैर्दूषणं परमात्मनस्तु निरुपाधिकं साक्षाद्दृश्ययाथात्म्यदर्शनमिति न गुणवश्यता किन्तु गुणानामेव परमात्मवश्यतेति एवंभूताय असक्तसाक्षिणे नम इत्यर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
इदं हि योगेश्वर योगनैपुणं
हिरण्यगर्भो भगवाञ्जगाद यत्।
यदन्तकाले त्वयि निर्गुणे मनो
भक्त्या दधीतोज्झितदुष्कलेवरः॥
मूलम्
इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत्।
यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः॥ १३ ॥
अनुवाद (हिन्दी)
योगेश्वर! हिरण्यगर्भ भगवान् ब्रह्माजीने योगसाधनकी सबसे बड़ी कुशलता यही बतलायी है कि मनुष्य अन्तकालमें देहाभिमानको छोड़कर भक्तिपूर्वक आपके प्राकृत गुणरहित स्वरूपमें अपना मन लगावे॥ १३॥
वीरराघवः
एवं जीवपरयोर्हेयास्पदत्वतत्प्रत्यनीकत्वे उक्ते, इदानीं जीवस्य हेयनिरसनोपायो देहाद्यनासक्त्या परमात्मनस्तव भक्तिरेव सैव पूरा चतुर्मुखेन मह्यमभिहितेत्याह इदं हीति । हे योगेश्वर ! हिरण्यगर्भः योगे यन्नैपुणं कौशलं जगाद तदिदमेव । किन्तदित्यत्राह उज्झितदुष्कलेवरः उपेक्षितशरीरः कलेवरशब्दः तदनुबन्धिनामप्युपलक्षकः, उपेक्षितदेहानुबन्धी पुमान् भवात् प्रभृति अन्तकाले अन्तकालपर्यन्तं भक्त्या ध्यानयोगेन त्वयि मनो धारयेत्स्थिरं कुर्यादिति यत् ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
यथैहिकामुष्मिककामलम्पटः
सुतेषु दारेषु धनेषु चिन्तयन्।
शङ्केत विद्वान् कुकलेवरात्ययाद्
यस्तस्य यत्नः श्रम एव केवलम्॥
मूलम्
यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन्।
शङ्केत विद्वान् कुकलेवरात्ययाद् यस्तस्य यत्नः श्रम एव केवलम्॥ १४ ॥
अनुवाद (हिन्दी)
लौकिक और पारलौकिक भोगोंके लालची मूढ पुरुष जैसे पुत्र, स्त्री और धनकी चिन्ता करके मौतसे डरते हैं—उसी प्रकार यदि विद्वान्को भी इस निन्दनीय शरीरके छूटनेका भय ही बना रहा, तो उसका ज्ञानप्राप्तिके लिये किया हुआ सारा प्रयत्न केवल श्रम ही है॥ १४॥
वीरराघवः
एवं देहाद्युपेक्षया परमात्मभक्तिरेव जीवस्यानर्थपरिहारिणीत्युक्तमिदानीमुक्तविधभक्तिरहितस्य केवलशास्त्राध्ययनादिप्रयासो निष्फल इत्याह यदेति । ऐहिकेषु पशुपुत्रान्नादिष्वामुष्मिकेषु स्वर्गादिषु कामेषु लम्पटः आसक्तः सुतादिषु विषयेषु चिन्तयन् तेषामनपायोपेयत्वं चिन्तयन्नित्यर्थः । विद्वानधीतशास्त्रोऽपि कुत्सितस्य कलेवरस्यात्ययान्मृत्योः शङ्केत बिभीयात् तस्य यो यत्नः शास्त्राध्ययनादिरूपः स केवलं श्रम एव निष्फल एव, मरणभीतस्य शास्त्रश्रमो निष्फल इत्यर्थः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
तन्नः प्रभो त्वं कुकलेवरार्पितां
त्वन्माययाहंममतामधोक्षज।
भिन्द्याम येनाशु वयं सुदुर्भिदां
विधेहि योगं त्वयि नः स्वभावमिति॥
मूलम्
तन्नः प्रभो त्वं कुकलेवरार्पितां त्वन्माययाहंममतामधोक्षज।
भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावमिति॥ १५ ॥
अनुवाद (हिन्दी)
अतः अधोक्षज! आप हमें अपना स्वाभाविक प्रेमरूप भक्तियोग प्रदान कीजिये, जिससे कि प्रभो! इस निन्दनीय शरीरमें आपकी मायाके कारण बद्धमूल हुई दुर्भेद्य अहंता-ममताको हम तुरन्त काट डालें’॥ १५॥
वीरराघवः
यतो विदुषोऽपीयमेव दशा तत्तस्मात्प्रभो ! हे अधोक्षज ! त्वमेव नो योगं विधेहि सम्पादय त्वत्प्रसादादेव नो योगसिद्धिरिति भावः । ईदृशं योगं त्वयि स्वभावजं निरुपाधिकं कामानुपहतमिति यावत्, येन योगेन वयं त्वन्मायया नः कुत्सिते कलेवरेऽर्पितामाहितां सुदुर्भिदामुपायान्तरैः सर्वदा त्यक्तुमशक्यामहंममतामहङ्कारममकाररूपामविद्यामाशु भिन्द्याम त्यजेम, त्वत्प्रसादायत्तत्वद्भक्तियोग एवानर्थनिवर्त्तक इति भावः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिर्ऋष्यमूकः श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमानृक्षगिरिः पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिरिति चान्ये च शतसहस्रशः शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसङ्ख्याताः॥
मूलम्
भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभः कूटकः कोल्ल4कः सह्यो देवगिरिर्ऋष्यमूकः श्रीशैलो वेङ्क5टो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमानृक्षगिरिः पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोका6मुख इन्द्रकीलः कामगिरिरिति चान्ये च शतसहस्रशः शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसङ्ख्याताः॥ १६ ॥
अनुवाद (हिन्दी)
राजन्! इस भारतवर्षमें भी बहुत-से पर्वत और नदियाँ हैं—जैसे मलय, मंगलप्रस्थ, मैनाक, त्रिकूट, ऋषभ, कूटक, कोल्लक, सह्य, देवगिरि, ऋष्यमूक, श्रीशैल, वेंकट, महेन्द्र, वारिधार, विन्ध्य, शुक्तिमान्, ऋक्षगिरि, पारियात्र, द्रोण, चित्रकूट, गोवर्धन, रैवतक, ककुभ, नील, गोकामुख, इन्द्रकील और कामगिरि आदि। इसी प्रकार और भी सैकड़ों-हजारों पर्वत हैं। उनके तट प्रान्तोंसे निकलनेवाले नद और नदियाँ भी अगणित हैं॥ १६॥
वीरराघवः
एवं भारते उपास्यभगवद्रूपादिकमुक्तमथास्मिन्नेव वर्षे प्राधान्येन पुण्यतमान् पर्वतान्नदीश्चाह । तत्र प्रथमं पर्वतान् संग्रहेणाह । भारतेऽपीत्यपिशब्दाद्वर्षान्तरेऽप्यनुक्ताः पर्वता नद्यश्च सन्तीति सूचितम् । सरितः सरिच्छैलाः बहवः सन्ति तावच्छैलानुद्दिशति मलय इत्यादिना कामगिरिरित्यन्तेन । अन्ये च बहवः सन्तीत्याह । अन्ये च शतशः शैलाः सन्तीत्यनुषङ्गः, नदीर्वक्ष्यमाणास्तासामुत्पत्तिस्थानं प्रभावञ्चाह तेषामिति । तेषां शैलानां नितम्बेभ्यस्तटेभ्यः प्रभवाः सम्भूताः नदाः प्रायेण पश्चिमाभिमुखाः न पूर्वाभिमुखा असङ्ख्याताः सन्ति ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
एतासामपो भारत्यः प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति॥
मूलम्
एतासामपो भारत्यः प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति॥ १७ ॥
अनुवाद (हिन्दी)
ये नदियाँ अपने नामोंसे ही जीवको पवित्र कर देती हैं और भारतीय प्रजा इन्हींके जलमें स्नानादि करती है॥ १७॥
श्लोक-१८
विश्वास-प्रस्तुतिः
चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णा वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्धः शोणश्च नदौ महानदी वेदस्मृतिर्ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश्चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महानद्यः॥
मूलम्
च7न्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णा वे8ण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धु9रन्धः शोणश्च नदौ महानदी वेदस्मृतिर्ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोध10स्वती सप्तवती सु11षोमा शतद्रूश्चन्द्रभागा मरुद्वृधा वितस्ता असिन्की विश्वेति महानद्यः॥ १८ ॥
अनुवाद (हिन्दी)
उनमेंसे मुख्य-मुख्य नदियाँ ये हैं—चन्द्रवसा, ताम्रपर्णी, अवटोदा, कृतमाला, वैहायसी, कावेरी, वेणी, पयस्विनी, शर्करावर्ता, तुंगभद्रा, कृष्णा, वेण्या, भीमरथी, गोदावरी, निर्विन्ध्या, पयोष्णी, तापी, रेवा, सुरसा, नर्मदा, चर्मण्वती, सिन्धु, अन्ध और शोण नामके नद, महानदी, वेदस्मृति, ऋषिकुल्या, त्रिसामा, कौशिकी, मन्दाकिनी, यमुना, सरस्वती, दृषद्वती, गोमती, सरयू, रोधस्वती, सप्तवती, सुषोमा, शतद्रू, चन्द्रभागा, मरुद्वृधा, वितस्ता, असिक्नी और विश्वा॥ १८॥
वीरराघवः
एतासां नदनदीनाम् आपो जलानि भारत्यः भरतवर्षस्थाः प्रजाः कर्म पूर्वसवर्णदीर्घाभाव आर्षः, नामभिरेव पुनन्ति नामभिरेव पवित्रयन्ति हि । “गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥” इत्याद्यभियुक्तस्मरणमत्रानुसन्धेयं, या आपो नामभिरेव पुनन्ति प्रजास्ता अपः प्रजा आत्मना देहेनापि स्पृशन्ति । यद्वा भारत्यः भरतवर्षस्थपुण्याश्चापो नामभिरेव प्रजाः पुनन्ति नामतः आपः प्रजा आत्मना देहेनापि स्पृशन्तीत्यन्वयः । नदीरुद्दिशति चन्द्रमसेत्यादिना विश्वेत्यन्तेन । सिन्धुः शोणश्च नदावित्याह सिन्धुः शोणश्च नदाविति । कावेर्याः पृथगुक्तत्वान्मरुवृधेति नद्यन्तरपरः गोबलीबर्द्दन्यायात् गङ्गा तु पूर्वं प्रपञ्चितैवेत्यत्रानुक्तेति बोध्यम् ॥ १७-१८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति॥
मूलम्
अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति॥ १९ ॥
अनुवाद (हिन्दी)
इस वर्षमें जन्म लेनेवाले पुरुषोंको ही अपने किये हुए सात्त्विक, राजस और तामस कर्मोंके अनुसार क्रमशः नाना प्रकारकी दिव्य, मानुष और नारकी योनियाँ प्राप्त होती हैं; क्योंकि कर्मानुसार सब जीवोंको सभी योनियाँ प्राप्त हो सकती हैं। इसी वर्षमें अपने-अपने वर्णके लिये नियत किये हुए धर्मोंका विधिवत् अनुष्ठान करनेसे मोक्षतककी प्राप्ति हो सकती है॥ १९॥
वीरराघवः
अस्य भारतवर्षस्य प्राशस्त्यप्रतिपादनपरानभियुक्तैर्गीतान् श्लोकान् वक्ष्यन्नस्य प्राशस्त्ये कारणमाह अस्मिन्नेवेत्यादिना प्रसङ्ग इत्यन्तेन गद्येन । अस्मिन्नेव वर्षे भारते लब्धं जन्म विप्रादिजन्म यैस्तैः पुरुषैः शुक्ललोहितकृष्णवर्णेन सत्त्वरजस्तमोगुणकल्पितकुशलमिश्ररूपेण स्वारब्धेन स्वकृतेन कर्मणा बह्वयः दिव्यादिगतयः तत्र शुक्लकर्मणा दिव्यगतिः रजःकर्मणा मनुष्यलोकगतिः तामसकर्मणा नारकगतिः । तथा च भगवता गीतम् ‘ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृतिस्था अधो गच्छन्ति तामसाः ॥’ इति अत्रापि तृतीये उक्तम् “आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे । धरां रजःस्वभावेन” इत्यादिना । एवं दिव्यादिगतय आत्मनः स्वस्य विधीयन्ते हि यस्मात्सर्वा एव गतयः आनुपूर्व्येण कर्मानुसारेण सर्वेषां भवन्ति, सर्वेषामविशेषेण त्रैगुण्यवश्यत्वाद् गुणानां ह्लासोल्लादिभिः कृतानि कर्माणि दिव्यादिगतीः सर्वाः सर्वेषामापादयन्तीत्यर्थः । एवमस्मिन्नेव वर्षे यथावर्णविधानं यस्य ब्रह्मक्षत्रियादेः यद्विधानम् “शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ शौर्यन्तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥” इत्यादिविधानं गुर्वनलशुश्रूषापञ्चमहायज्ञादिरूपविधानं च तदनतिक्रम्य यथावर्णविधानमनभिसंहितफलस्वस्ववर्णाश्रमोचितकर्मानुष्ठानानुगृहीतभक्तियोगेनेत्यर्थः, अपवर्गो मोक्षश्च भवति । एतच्चात्र वर्षे मोक्षसाधनबहुधर्मानुष्ठानसम्भवाभिप्रायेणोक्तं न त्वन्यत्रापवर्गसाधनधर्मानुष्ठानासम्भवाभिप्रायेण । “तदुपर्यपि बादरायणः सम्भवात्” इत्युपरितनलोकेष्वपि ब्रह्मविद्याधिकारस्य भगवता बादरायणेनैव सूत्रितत्वात् सूत्रे तदुपर्यपीति रम्यकादिवर्षाणामप्युपलक्षणम् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः॥
मूलम्
योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः॥ २० ॥
अनुवाद (हिन्दी)
परीक्षित्! सम्पूर्ण भूतोंके आत्मा, रागादि दोषोंसे रहित, अनिर्वचनीय, निराधार परमात्मा भगवान् वासुदेवमें अनन्य एवं अहैतुक भक्तिभाव ही यह मोक्षपद है। यह भक्तिभाव तभी प्राप्त होता है, जब अनेक प्रकारकी गतियोंको प्रकट करनेवाली अविद्यारूप हृदयकी ग्रन्थि कट जानेपर भगवान्के प्रेमी भक्तोंका संग मिलता है॥ २०॥
वीरराघवः
ननु यथावर्णविधानं कदापवर्गो भवति को वा स्वस्ववर्णाश्रमोचितो धर्मः साक्षादपवर्गसाधनमुत कस्यचिदनुग्राहकः, अनुग्राहकश्चेत् कोऽसावनुग्राह्यः, कथं वा अनुग्राहकः अनुग्राह्यश्च कीदृशः अनुग्राह्यविषयश्च कीदृश इत्याशङ्क्याह योऽसाविति । यदा ह्यविद्याग्रन्थिरन्धनद्वारेणाविद्यापुण्यपापात्मकं कर्म भक्तियोगोत्पत्तिविरोधिप्राचीनकर्म तद्रन्धनद्वारेण तन्निरसनद्वारेण महापुरुषो भगवान् तस्मिन् प्रसङ्गो भवति तदा यथाविधानमपवर्गश्च भवतीत्यन्वयः । “धर्मेण पापमपनुदति, कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तत” इति श्रुतिस्मृत्युक्तरीत्या स्वस्ववर्णोचितानभिसंहितफलकर्मानुष्ठानेनाविद्याग्रन्थिनिरसनं तद्द्वारेण महापुरुषे प्रसङ्गः प्रकृष्टः सङ्गः विजातीयप्रत्ययान्तरात्मवतो ध्यानरूपो मनोव्यापारो भवति तदापवर्गो भवतीत्यर्थः । अविद्याशब्दोऽत्र पुण्यपापात्मककर्मपरः, तदेव कर्म “अविद्यया मृत्युं तीर्त्वा विद्यया मृतमश्नुते । इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ॥” इत्यादिषु मृत्युशब्देनाभिधीयते अविद्यया मृत्युमित्यादावविद्याशब्देनानभिसंहितफलं वर्णाश्रमोचितं कर्मोच्यते । विद्येतरदन्यथा मृत्युतरणोपायत्वश्रवणविरोधात्तत्राविद्याशब्दस्थानीयोऽत्र यथावर्णविधानशब्दः तत्रत्यमृत्युशब्दस्थानीयोत्राविद्याशब्दः । अविद्याशब्दो हि विद्येतरदविद्याकर्मेत्येवं कर्ममात्रे वर्तमानो यथोचितं क्वचिदनभिसंहितफलं वर्णाश्रमोचितं विहितं कर्माभिदधाति क्वचिदून्धकं कर्मेति विवेकः । महापुरुषप्रसङ्गं विशिनष्टि । अनानागतिनिमित्तः नानागतिः स्वर्गनरकादिगतिस्तन्निमित्तो न भवतीत्यनानागतिनिमित्तः स्वर्गादिगतिनिवारकः मोक्षसाधनमिति भावः । निमित्ताविद्याग्रन्थीति पाठे नानागतिनिमित्तेति छेदः, स्वर्गनरकादिनानागतिनिमित्तभूता याविद्या तद्रूपो यो ग्रन्थिस्तस्य रन्धनद्वारेणेत्यर्थः । ग्रन्थिशब्देनाविद्याया दुर्मोचनीयत्वमभिप्रेतं, न विद्यते अन्यदैहिकामुष्मिकरूपं निमित्तं फलं यस्य अनन्यनिमित्तः निष्काम इत्यर्थः, स चासौ भक्तिलक्षणो भक्तिरूपश्चेति कर्मधारयः । एवं यदाहीत्यस्योत्तरमुक्तं वर्णाश्रमधर्मस्य भक्तियोगानुग्राहकत्वं तत्प्रकारश्चोक्तः । अविद्याग्रन्थिरन्धनद्वारेणेत्यनेन महापुरुषप्रसङ्ग इत्यन्तेन वानुग्राह्यं वोक्तम् । अनन्यनिमित्तभक्तियोगलक्षण इत्यनेनानुग्राह्याकारश्वोक्तः । महापुरुषपुरुषप्रसङ्ग इति पाठे महापुरुषाणां प्रकृष्टः सङ्गो यस्य सः भक्तियोगलक्षण इत्यर्थः । अथानुग्राह्यविषयं महापुरुष इत्यनेनाभिप्रेतं दर्शयति सर्वभूतात्मनेत्यादिना । यद्यपि सर्वभूतात्मवासुदेवशब्दयोस्तुल्यार्थता तथापि देवताविशेषं निर्दिधारयिषया वासुदेव इत्युक्तं वासुदेवशब्दावयवार्थप्रदर्शनाय सर्वात्मनीत्युक्तम् । इत्यतो न पौनरुक्त्यं, भक्तियोगविषयं चिदचिद्विलक्षणत्वेन विशिष्टमनात्म्ये इति - आत्मनो भावः प्रकारः अपृथक्सिद्धविशेषणं शरीरमात्म्यं ततोऽन्यस्मिन् । स किं जीवः नेत्याह । अनिरुक्ते देवमनुष्यादिनामरूपाभ्यामनिरुक्ते अनात्म्ये इत्यचेतनव्यावृत्तिः, अनिरुक्त इति बद्धजीवव्यावृत्तिः, स तर्हि किं मुक्तजीवो नेत्याह । अनिलयने आधारान्तरानपेक्षाय अनेन मुक्तजीवव्यावृत्तिः । तेषां हि भगवानाधारः “ब्रह्मभूयाय कल्पते, ब्रह्मणो हि प्रतिष्ठाहम्” इत्युक्तत्वात् अत्र ब्रह्मशब्दो मुक्तजीवपर औचित्यात् स तर्हि नित्यसिद्धः नेत्याह परमात्मनीति । अक्षरशब्दवाच्याभ्यां मुक्तनित्यसिद्धाभ्यां क्षरशब्दवाच्याद्वद्धचेतनाच्च योऽन्यत्वेन गीतः परमात्मा । “द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽ-क्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।” इति तस्मिन्नित्यर्थः । एवंविधे भगवति षाड्गुण्यपूर्णे निरस्तनिखिलदोषे योऽसावनन्यनिमित्तभक्तियोगलक्षण इत्यन्वयः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
एतदेव हि देवा गायन्ति—
अहो अमीषां किमकारि शोभनं
प्रसन्न एषां स्विदुत स्वयं हरिः।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकं स्पृहा हि नः॥
मूलम्
एतदेव हि देवा गायन्ति—
अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः।
यैर्जन्म लब्धं नृषु भारता12जिरे मुकुन्दसेवौपयिकं स्पृहा हि नः॥ २१ ॥
अनुवाद (हिन्दी)
देवता भी भारतवर्षमें उत्पन्न हुए मनुष्योंकी इस प्रकार महिमा गाते हैं—‘अहा! जिन जीवोंने भारतवर्षमें भगवान्की सेवाके योग्य मनुष्य-जन्म प्राप्त किया है, उन्होंने ऐसा क्या पुण्य किया है? अथवा इनपर स्वयं श्रीहरि ही प्रसन्न हो गये हैं? इस परम सौभाग्यके लिये तो निरन्तर हम भी तरसते रहते हैं॥ २१॥
वीरराघवः
एवं स्वर्गापवर्गसाधनभूतबहुविधधर्मानुष्ठानोपयुक्तप्रदेशत्वादस्य वर्षस्य प्राशस्त्यप्रतिपादनपरान् श्लोकान् वक्तुं तेषामविगीततां दर्शयति एतदेव हीति । एतद्वर्षप्राशस्त्यं गायन्ति देवा इति शेषः । श्लोकानेवाह अहो इत्यादिना । अमीषामेभिः कर्तुः सम्बन्धविवक्षया षष्ठी, किं शोभनं सुकृतमकारि अहो अपिस्त्वित् किं स्वयं साधनं विनैव हरिर्भगवान् प्रसन्नः किं निरतिशयसुकृतमेवमेभिः कृतं किं वा स्वयमेवैषां भगवान् प्रसन्न एवंरूपस्य धर्मस्य दुष्करत्वादिति वितर्क्यते क इसे इत्यत्राह । यैर्जीवैः भारताजिरे भारतवर्षाङ्गणे भारतप्रदेश इत्यर्थः । एवम्भारताजिरस्य यत्रापि नृजन्मनश्च प्राशस्त्यमुक्तं तत्र कारणं मुकुन्दसेवौपथिकमित्युक्तम् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
किं दुष्करैर्नः क्रतुभिस्तपोव्रतै-
र्दानादिभिर्वा द्युजयेन फल्गुना।
न यत्र नारायणपादपङ्कज-
स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात्॥
मूलम्
किं दुष्करैर्नः क्रतुभिस्तपोव्रतैर्दानादिभिर्वा द्युजयेन फल्गुना।
न यत्र नारायणपादपङ्कजस्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात्॥ २२ ॥
अनुवाद (हिन्दी)
हमें बड़े कठोर यज्ञ, तप, व्रत और दानादि करके जो यह तुच्छ स्वर्गका अधिकार प्राप्त हुआ है—इससे क्या लाभ है? यहाँ तो इन्द्रियोंके भोगोंकी अधिकताके कारण स्मृतिशक्ति छिन जाती है, अतः कभी श्रीनारायणके चरणकमलोंकी स्मृति होती ही नहीं॥ २२॥
वीरराघवः
वर्षान्तरस्थानां लोकान्तरस्थानां मनुष्याणां भगवत्सेवानुपयुक्ति वदंस्तान्निन्दन्ति त्रिभिः किमिति । दुःखेनापि कर्तुमशक्यैः क्रतुभिस्तपोव्रतैः तपःसहितैर्वा व्रतैः तपः कृच्छ्रचान्द्रायणादिरूपं व्रतं प्राजापत्यादिकं दानं पात्रेषु द्रव्यत्यागात्मकं कृत्वादिभिस्तत्साध्येन फल्गुनाल्पास्थिरफलेन द्युजयेन स्वर्गप्राप्त्या वा किं न किञ्चित्फलं कुतः यत्र स्वर्गादौ श्रीमन्नारायणस्य पादपङ्कजस्य स्मृतिर्नास्ति प्रत्युत निरतिशयितादिन्द्रियाणामुत्सवात् सुखात् स्मृतिः प्रनष्टाभून् । अधिकेन्द्रियोत्सव एव भगवत्सेवाविरोधीति भावः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
कल्पायुषां स्थानजयात्पुनर्भवात्
क्षणायुषां भारतभूजयो वरम्।
क्षणेन मर्त्येन कृतं मनस्विनः
संन्यस्य संयान्त्यभयं पदं हरेः॥
मूलम्
कल्पायुषां स्थानजयात्पुनर्भवात् क्षणायुषां भारतभूजयो वरम्।
क्षणेन मर्त्येन कृतं मनस्विनः संन्यस्य संयान्त्यभयं पदं हरेः॥ २३ ॥
अनुवाद (हिन्दी)
यह स्वर्ग तो क्या—जहाँके निवासियोंकी एक-एक कल्पकी आयु होती है किन्तु जहाँसे फिर संसारचक्रमें लौटना पड़ता है, उन ब्रह्मलोकादिकी अपेक्षा भी भारतभूमिमें थोड़ी आयुवाले होकर जन्म लेना अच्छा है; क्योंकि यहाँ धीर पुरुष एक क्षणमें ही अपने इस मर्त्यशरीरसे किये हुए सम्पूर्ण कर्म श्रीभगवान्को अर्पण करके उनका अभयपद प्राप्त कर सकता है॥ २३॥
वीरराघवः
कल्पमायुर्येषां पुनर्भवः जन्म यस्य तस्मात्स्थानजयादुपरितनलोकप्राप्तेः आकल्पानुभाव्यसुखोपरिलोकापेक्षयेत्यर्थः, क्षणमल्पमायुर्येषां तेषां भारतभूजयः भारतवर्षप्राप्तिः, जि-जये जय उत्कर्षप्राप्तिः ऊर्ध्वस्थानेषु सुखोत्कर्षप्राप्यपेक्षया भारतवर्षे जन्मलाभरूपोत्कर्षप्राप्तिरूपो जयो वरं श्रेष्ठ इत्यर्थः । भारतभूजयश्रेष्ठ्ये हेतुमाह । अस्थिरेण मर्त्येन मरणशीलेन शरीरेण कृतं क्रियाजातं संन्यस्य भगवति समर्प्य मनस्विनः प्रशस्तमनसः भगवदुपासकाः सन्तः हरेरभयं न विद्यते भयं कालकृतं जन्मजरामरणादिनिमित्तं यस्मिन् तत्पदं स्थानं श्रीवैकुण्ठरूपं यान्ति । कल्पायुषस्तु कल्पानन्तरं पुनर्भवमेव यान्तीत्यर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
न यत्र वैकुण्ठकथासुधापगा
न साधवो भागवतास्तदाश्रयाः।
न यत्र यज्ञेशमखा महोत्सवाः
सुरेशलोकोऽपि न वै स सेव्यताम्॥
मूलम्
न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः।
न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम्॥ २४ ॥
अनुवाद (हिन्दी)
‘जहाँ भगवत्कथाकी अमृतमयी सरिता नहीं बहती, जहाँ उसके उद्गमस्थान भगवद्भक्त साधुजन निवास नहीं करते और जहाँ नृत्य-गीतादिके साथ बड़े समारोहसे भगवान् यज्ञपुरुषकी पूजा-अर्चा नहीं की जाती—वह चाहे ब्रह्मलोक ही क्यों न हो, उसका सेवन नहीं करना चाहिये॥ २४॥
वीरराघवः
अतो यत्र वैकुण्ठस्य भगवतः कथारूपाः सुधापगा अमृतनद्यो न सन्ति तदाश्रया भगवत्कथामृतनदीसेवापरा साधवः साधूनां लक्षणलक्षिता भागवताश्च न सन्ति यत्र च महान्तो नित्यपक्षमाससंवत्सरायनाद्युत्सवा येषां यज्ञेशमखाः यज्ञेशस्य भगवतः “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च” इति भगवदुक्तेः “इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः” इति श्रुतेश्च तस्य मखा आराधनरूपा यज्ञाः न सन्ति स सुरेशस्य ब्रह्मणो लोकोऽपि सेव्यतां प्राप्यतां न याति प्राप्यो न भवतीत्यर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
प्राप्ता नृजातिं त्विह ये च जन्तवो
ज्ञानक्रियाद्रव्यकलापसम्भृताम्।
न वै यतेरन्नपुनर्भवाय ते
भूयो वनौका इव यान्ति बन्धनम्॥
मूलम्
प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम्।
न वै13 यतेरन्नपुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम्॥ २५ ॥
अनुवाद (हिन्दी)
जिन जीवोंने इस भारतवर्षमें ज्ञान (विवेकबुद्धि), तदनुकूल कर्म तथा उस कर्मके उपयोगी द्रव्यादि सामग्रीसे सम्पन्न मनुष्यजन्म पाया है, वे यदि आवागमनके चक्रसे निकलनेका प्रयत्न नहीं करते, तो व्याधकी फाँसीसे छूटकर भी फलादिके लोभसे उसी वृक्षपर विहार करनेवाले वनवासी पक्षियोंके समान फिर बन्धनमें पड़ जाते हैं॥ २५॥
वीरराघवः
एवं भारतवर्षेऽन्तरस्थान् विनिन्द्याधुना भारतवर्षस्थानपि नरानमुमुक्षून्निन्दति प्राप्ता इति । इहास्मिन् भारते वर्षे ये च जन्तवो जीवाः नृजातिं मनुष्यजन्म प्राप्ताः कथम्भूता द्रव्यक्रियाज्ञानकलापसम्भृतां द्रव्यं भूतपञ्चकं क्रिया कर्मेन्द्रियाणि ज्ञानं ज्ञानेन्द्रियाणि च एतेषां कलापेन सङ्घातेन च संभृतां पूर्णां भगवद्गुणकीर्तनार्चनपदप्रक्रमणगुणश्रवणविग्रहावलोकनसमर्पितफलस्याघ्राणनोपयुक्तस्रग्गंधवासोऽलंकारचर्चितोच्छिष्टभोजनादिरूपसर्वविधभगवत्सेवोपयुक्तज्ञानकर्मेन्द्रियतदाश्रयभूतसङ्घातपूर्णामित्यर्थः, एवंविधां नृजातिं प्राप्ता अपि यद्यपुनर्भवाय मुक्तये न यतेरन् यत्नं न कुर्युश्चेन्तर्हि भूयः पुनः वनौका इव वने स्थिता ओकाः शकुन्ता इव “ओकः शकुन्तपृषतौ” इति कोशः “उच समवाये” इत्यस्माद्धातोः कप्रत्यये गुणः कुत्वं च “ओक उचः कः” इति सूत्रेण निपात्यतेकप्रत्ययस्तु “इगुपधज्ञाप्रीकिरः कः" इत्यधिकारे “घञर्थे कविधानम्” इति वचनेन, यद्यपि घञ्यप्येतद्रूपसिद्धिस्तथाप्यन्तोदात्तार्थमिदं निपातनं घञि सतिञित्स्वरेणाद्युदात्तः स्यात्, दिवौकसः जलौकस इत्येवमादौ तु असुप्रत्यये “उणादयो बहुलम्” इति वचनात्कुत्वं द्रष्टव्यम् । यथा शकुन्ता लुब्धकान्मुक्ता अपि पुनर्यदि तत्रैव प्रमत्ताः विहरन्ति तर्हि पुनर्यथा बध्यन्ते तद्वत् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
यैः श्रद्धया बर्हिषि भागशो हवि-
र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः।
एकः पृथङ्नामभिराहुतो मुदा
गृह्णाति पूर्णः स्वयमाशिषां प्रभुः॥
मूलम्
यैः श्रद्धया बर्हिषि भागशो हविर्निरुप्तमिष्टं विधिमन्त्रवस्तुतः।
एकः पृथङ्नामभिराहुतो मुदा गृह्णाति पूर्णः स्वयमाशिषां प्रभुः॥ २६ ॥
अनुवाद (हिन्दी)
‘अहो! इन भारतवासियोंका कैसा सौभाग्य है! जब ये यज्ञमें भिन्न-भिन्न देवताओंके उद्देश्यसे अलग-अलग भाग रखकर विधि, मन्त्र और द्रव्यादिके योगसे श्रद्धापूर्वक उन्हें हवि प्रदान करते हैं, तब इस प्रकार इन्द्रादि भिन्न-भिन्न नामोंसे पुकारे जानेपर सम्पूर्ण कामनाओंके पूर्ण करनेवाले स्वयं पूर्णकाम श्रीहरि ही प्रसन्न होकर उस हविको ग्रहण करते हैं॥ २६॥
वीरराघवः
अहो भारतवासिनां भाग्यमित्याहुः । यैरिति । यैर्भारतवासिभिर्नरैः बर्हिषि यज्ञे श्रद्धया विधिना प्रकारेण मन्त्रेण वस्तुतश्चरुपुरोडाशादिभेदेन चेष्टं देवतोद्देशेन त्यक्तं तथा भागशः “अग्नये त्वा जुष्टं निर्वपामि” इत्येवं भागशो निरुप्तं च हविः अग्नीन्द्रादिरूपेणैक एव स्थितः पृथग्नामभिरग्नीन्द्रादिनामभिराहुतः-हुत इति दीर्घाभाव आर्षः-पूर्णः स्वतोऽवाप्तसमस्तकामः अविजिघत्सोऽपि इति यावत् हविर्गृह्णातीत्यर्थः, पूर्णः किमर्थं गृह्णाति तत्राह आशिषां प्रभुरिति । यत आशिषां पुरुषार्थानां प्रभुर्दाता अतो यष्टृणामाशिषः प्रदातुं तत्कृताराधनं परिगृह्णातीत्यर्थः । तदुक्तं भगवता “ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्” इति ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
सत्यं दिशत्यर्थितमर्थितो नृणां
नैवार्थदो यत्पुनरर्थिता यतः।
स्वयं विधत्ते भजतामनिच्छता-
मिच्छापिधानं निजपादपल्लवम्॥
मूलम्
सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः।
स्वयं विधत्ते भजतामनिच्छतामिच्छापिधानं निजपादपल्लवम्॥ २७ ॥
अनुवाद (हिन्दी)
यह ठीक है कि भगवान् सकाम पुरुषोंके माँगनेपर उन्हें अभीष्ट पदार्थ देते हैं, किन्तु यह भगवान्का वास्तविक दान नहीं है; क्योंकि उन वस्तुओंको पा लेनेपर भी मनुष्यके मनमें पुनः कामनाएँ होती ही रहती हैं। इसके विपरीत जो उनका निष्कामभावसे भजन करते हैं, उन्हें तो वे साक्षात् अपने चरणकमल ही दे देते हैं—जो अन्य समस्त इच्छाओंको समाप्त कर देनेवाले हैं॥ २७॥
वीरराघवः
आशिषां प्रभुरित्यनेन धर्मादिचतुर्विधपुरुषार्थेप्सुभिर्भगवान् भारते वर्षे आराध्य इत्युक्तं तत्रापि केवलमुमुक्षून स्तुवन्ति सत्यमिति । अर्थितस्तत्पुरुषार्थेप्सुभिः प्रार्थितः सन् भगवानर्थितं याचितं तं पुरुषार्थं दिशति ददातीति सत्यं तत्रापि नैवार्थदः न परमपुरुषार्थदः अस्थिराल्पपुरुषार्थदो न तु नित्यनिरतिशयमोक्षरूपार्थप्रदोऽभूदित्यर्थः । अर्वाचीनपुरुषार्थदानानन्तरमप्यर्थितुर्याच्ञाया अनिवृत्तेरर्थितं दिशन्नपि न दत्तवानिति भावः । एतदेवाह जनः अवाप्तपुरुषार्थोऽपि यद्यतः पुरुषार्थान्तरं पुनरीश्वरं प्रत्यर्थिता याचिता एवमितरपुरुषार्थेप्सूनां नित्ययाचकत्वान्नित्यदरिद्रत्वमुक्तं, तथा च वक्ष्यत्येकादशे “दरिद्रो यस्त्वसन्तुष्टः” इति, अथानिच्छतां मुमुक्षूणां सर्वपुरुषार्थानां मोक्षान्तर्भावादार्ढ्यत्वमाहुः अनिच्छतामकामयमानानां भजतां जनानाम् इच्छापिधानम् इच्छायाः पिधानमाच्छादकं स्वकीयं पादपल्लवं स्वयमेव विधत्ते समस्तपुरुषार्थरूपं स्वात्मानमेव ददातीत्यर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
यद्यत्र नः स्वर्गसुखावशेषितं
स्विष्टस्य सूक्तस्य कृतस्य शोभनम्।
तेनाजनाभे स्मृतिमज्जन्म नः स्याद्
वर्षे हरिर्यद्भजतां शं तनोति॥
मूलम्
यद्यत्र नः स्व14र्गसुखावशेषितं स्विष्टस्य सूक्तस्य कृतस्य शोभनम्।
तेनाजनाभे स्मृतिमज्जन्म नः स्याद् वर्षे हरिर्यद्भजतां शं तनोति॥ २८ ॥
अनुवाद (हिन्दी)
अतः अबतक स्वर्गसुख भोग लेनेके बाद हमारे पूर्वकृत यज्ञ, प्रवचन और शुभ कर्मोंसे यदि कुछ भी पुण्य बचा हो, तो उसके प्रभावसे हमें इस भारतवर्षमें भगवान्की स्मृतिसे युक्त मनुष्यजन्म मिले; क्योंकि श्रीहरि अपना भजन करनेवालेका सब प्रकारसे कल्याण करते हैं’॥ २८॥
वीरराघवः
एवं भारते मुमुक्षून् प्रस्तूयाथ स्वमनीषितमाविष्कुर्वन्तस्तमेव भारतं स्तुवन्ति यदीति । यदि नः अस्माकं कृतस्य स्विष्टस्य सम्यग्यजनस्य सूक्तस्य प्रवचनस्य स्वर्गसुखावशेषितं स्वर्गसुखेनावशेषितम् अस्माभिः कृतं यागादिरूपं स्वर्गादिसुखं सम्पाद्य किञ्चिच्छोभनं सुकृतमुपभुक्तावशिष्टमस्ति चेद्यदीत्यर्थः । तेन आचरितेन शुभेन कर्मणा नोऽस्माकमजनाभे भारते वर्षे भगवद्विषयकस्मृतिमज्जन्म नृजन्म स्यात् । नृजन्मन्येव भगवद्विषयकस्मृतिसम्भवात् सम्भावितस्मृतिमात्रजीवनजन्मना किं स्यादित्यत्राहुः । यतः स्मृतिवशाद्भजतां हरिः शं सुखं मोक्षरूपं सुखं तनोति ददातीत्यर्थः ॥ २८ ॥
श्लोक-२९
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्वान्वेषण इमां महीं परितो निखनद्भिरुपकल्पितान्॥
मूलम्
जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्वान्वेषण इमां महीं परितो निखनद्भिरुपकल्पितान्॥ २९ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—राजन्! राजा सगरके पुत्रोंने अपने यज्ञके घोड़ेको ढूँढ़ते हुए इस पृथ्वीको चारों ओरसे खोदा था। उससे जम्बूद्वीपके अन्तर्गत ही आठ उपद्वीप और बन गये, ऐसा कुछ लोगोंका कथन है॥ २९॥
वीरराघवः
एवं नवखण्डात्मकं जम्बूद्वीपं ससंस्थानं सपर्वतनदीं सवर्णाश्रमधर्मवन्मनुजमुपवर्ण्याथ जम्बूद्वीपस्योपद्वीपानष्टौ आह जम्बूद्वीपस्येति । हे राजन् ! एके अभियुक्ता अद्धा जम्बूद्वीपस्योपद्वीपान् उपदिशन्ति ते जम्बूद्वीपाः न प्रियव्रतस्य रथचरणनेमिना परिक्लृप्ता इत्याह । सगरात्मजैः यागीयाश्वस्यान्वेषणसमये इमां जम्बूद्वीपात्मिकां पृथिवीं तत्र निखनद्भिरवदारयद्भिरुपकल्पिता ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति॥
मूलम्
तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको म15न्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति॥ ३० ॥
अनुवाद (हिन्दी)
वे स्वर्णप्रस्थ, चन्द्रशुक्ल, आवर्तन, रमणक, मन्दरहरिण, पांचजन्य, सिंहल और लंका हैं॥ ३०॥
वीरराघवः
तेषामुद्देशं प्रतिजानीते तद्यथेति । तानुद्दिशति स्वर्णप्रस्थ इत्यादिना ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो यथोपदेशमुपवर्णित इति॥
मूलम्
एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो यथोपदेशमुपवर्णित इति॥ ३१ ॥
अनुवाद (हिन्दी)
भरतश्रेष्ठ! इस प्रकार जैसा मैंने गुरुमुखसे सुना था, ठीक वैसा ही तुम्हें यह जम्बूद्वीपके वर्षोंका विभाग सुना दिया॥ ३१॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे जम्बूद्वीपवर्णनं नामैकोनविंशोऽध्यायः॥ १९ ॥
वीरराघवः
एवं सोपद्वीपं जम्बूद्वीपमुपवर्ण्योपसंहरति एवमिति । हे भारतोत्तम ! जम्बूद्वीपस्य ये वर्षा इलावृतादयस्तेषां विभागो यथोपदेशं यथाक्रममनुवर्णितः ॥ ३१ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायाम् एकोनविंशोऽध्यायः ॥ १९ ॥