१८ भुवनकोशवर्णनम्

[अष्टादशोऽध्यायः]

भागसूचना

भिन्न-भिन्न वर्षोंका वर्णन

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

तथा च भद्र-श्रवा नाम धर्म-सुतस्
तत्-कुलपतयः पुरुषा
भद्राश्व-वर्षे साक्षाद‍् भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हय-शीर्षाभिधानां
परमेण समाधिना संनिधाप्येदम् अभिगृणन्त उपधावन्ति

मूलम्

तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षाद‍्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना संनिधाप्येदमभिगृणन्त उपधावन्ति॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! भद्राश्ववर्षमें धर्मपुत्र भद्रश्रवा और उनके मुख्य-मुख्य सेवक भगवान् वासुदेवकी हयग्रीवसंज्ञक धर्ममयी प्रिय मूर्तिको अत्यन्त समाधिनिष्ठाके द्वारा हृदयमें स्थापित कर इस मन्त्रका जप करते हुए इस प्रकार स्तुति करते हैं॥ १॥

वीरराघवः

एवमिलावृते उपास्यं रूपम् उपासनम् उपासनप्रकारं चाभिधाय भद्राश्ववर्षादिषु तानाहाध्यायद्वयेन तथा चेति । भद्रश्रवाः नाम धर्मसुतो भद्राश्ववर्षाधिपतिः तस्य कुलपतयः कुलश्रेष्ठाः सेवकमुख्या उपासकमुख्याश्च भद्रश्रवसः पुरुषा भद्राश्ववर्षे मेरोः पूर्वस्मिन्साक्षाद्भगवतो वासुदेवस्य साक्षाच्छन्दः यत्साक्षादपरोक्षाद् ब्रह्मेत्यादाविव ब्रह्मशब्दस्य भगवच्छब्दस्य च पौष्कल्येन प्रवृत्तिनिमित्तवत्परत्वसूचनार्थः । प्रियामिति वासुदेवकथनं न तु रामकृष्णादितनुभ्योऽस्या हयशीर्षाभिधानायाः प्रीत्यतिशयद्योतनार्थं धर्ममयीं यज्ञोपासनादिधर्मावेदकवेदप्रचुरामित्यर्थः । ईदृशधर्ममयत्वं रामादिष्वप्यविशिष्टं तथापि प्राधान्येन विस्रस्तवेदाहरणतदुपदेशार्थत्वादस्यास्तन्वा धर्ममयीमित्युक्तं हयग्रीवाख्यां तनुं परमेण साक्षात्कारपर्यन्तकाष्ठां गतेन समाधिना सन्निधाप्य साक्षात्कृत्वेदं वक्ष्यमाणं मन्त्रवचः अधिगृणन्तो जपन्त उपधावन्ति वक्ष्यमाणश्लोकैः स्तुवन्तीत्यर्थः ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

भद्रश्रवस ऊचुः

विश्वास-प्रस्तुतिः

ॐ नमो भगवते धर्मायात्म-विशोधनाय नम इति॥

मूलम्

ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति॥ २ ॥

अनुवाद (हिन्दी)

भद्रश्रवा और उनके सेवक कहते हैं—‘चित्तको विशुद्ध करनेवाले ओंकारस्वरूप भगवान् धर्मको नमस्कार है’॥ २॥

वीरराघवः

ओंकारार्थः पूर्ववद्भगवच्छब्दार्थश्च धर्माय पूर्वोत्तरभागात्मकवेदावेदिप्रमेयो धर्मस्तत्र पूर्वभागस्याराध्यस्वरूपशोधनप्रकारावेदकत्वेनाराध्यतात्पर्यकत्वात् । “ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥” इत्युक्तरीत्या भगवत एव पूर्वभागप्रमेयत्वम्, उत्तरभागप्रमेयं तु स्पष्टमेवेति । धर्मायेत्यस्य, पूर्वोत्तरभागप्रमेयायेत्यर्थः, आत्मविशोधनाय आत्मान्तःकरणं जीवो वा शोध्यते येन स आत्मविशोधनस्तस्मै यत्प्रसादादन्तःकरणं जीवो वा शुद्धिं रजस्तमोभ्यामनभिभवरूपां प्रकृतिसम्बन्धराद्दित्यद्वारा ब्रह्मप्राप्तिरूपां मुक्तिं च प्राप्नोति स तथोच्यते । अत्र धर्मायेत्यनेन प्रापकव्यापकपरम्परायामुपायत्वमुच्यते, आत्मविशोधनायेत्यनेन प्राप्यत्वमुक्तं भगवच्छब्देन तदुभयोपयुक्तगुणवत्त्वं विवक्षितम् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

अहो विचित्रं भगवद्-विचेष्टितं
घ्नन्तं जनोऽयं हि मिषन् न पश्यति
ध्यायन्न् असद् यर्हि विकर्म सेवितुं
निर्हृत्य पुत्रं पितरं +++(च)+++ जिजीविषति

मूलम्

अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति।
ध्यायन्नसद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति॥ ३ ॥

अनुवाद (हिन्दी)

अहो! भगवान‍्की लीला बड़ी विचित्र है,
जिसके कारण यह जीव
सम्पूर्ण लोकोंका संहार करनेवाले कालको देखकर भी नहीं देखता
और तुच्छ विषयोंका सेवन करनेके लिये
पापमय विचारोंकी उधेड़-बुनमें लगा हुआ
अपने ही हाथों अपने पुत्र और पितादिकी लाशको जलाकर भी
स्वयं जीते रहनेकी इच्छा करता है॥ ३॥

वीरराघवः

स्तुतिरूपान् श्लोकानाह अहो इति । तावद्भगवन्मायाया दुरत्ययत्वद्योतनाय विस्मयमाना आहुः । घ्नन्तं मृत्युं पित्रादिदृष्टान्तेनायं जनो मिषन् पश्यन्नपि न पश्यति नात्मनोऽनुसंधत्ते इत्येतद्भगवद्विचेष्टितं भगवन्मायावैभवरूपम् एतच्छब्दादिचित्रं विस्मयनीयम् । अहो विचित्रमिति निपातसंघात आश्चर्यद्योतकः । कथम्भूतो न पश्यति पुत्रं पितरं च मृतं निर्हृत्य दग्ध्वा स्वयं तदुपार्जितैर्जिजीविषुर्जीवितुमिच्छुः किमर्थमसत्तुच्छं विषयसुखं सेवितुं किं कुर्वन् यर्हि यदा विकर्म विरुद्ध कर्मोपायं ध्यायन् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

वदन्ति विश्वं कवयः स्म नश्वरं
पश्यन्ति चाध्यात्म-विदो विपश्चितः।
तथापि मुह्यन्ति तवाज मायया
सुविस्मितं कृत्यम् अजं नतो ऽस्मि तम्॥

मूलम्

1दन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः।
तथापि मुह्यन्ति तवाज मा2यया सुविस्मितं कृत्यमजं नतोऽस्मि तम्॥ ४ ॥

अनुवाद (हिन्दी)

विद्वान् लोग जगत‍्को नश्वर बताते हैं और सूक्ष्मदर्शी आत्मज्ञानी ऐसा ही देखते भी हैं; तो भी जन्मरहित प्रभो! आपकी मायासे लोग मोहित हो जाते हैं। आप अनादि हैं तथा आपके कृत्य बड़े विस्मयजनक हैं, मैं आपको नमस्कार करता हूँ॥ ४॥

वीरराघवः

नन्वविद्वान्न पश्यति किमत्र चित्रमत्राह वदन्तीति । कवय अधीतवेदान्तविद्या विश्वं जगत् नश्वरं केवलं वदन्ति न त्वनुसन्दधते, नन्वात्मयाथात्म्यविदोऽनुसन्दधत एव तत्राह । अध्यात्मविदः अधीतवेदान्तविद्याः विपश्चितः उपासितस्वात्मपरमात्मानः यद्यपीदं विश्वं पश्यन्ति तथापि हे अज ! तव मायया मुह्यन्ति मोहं प्राप्नुवन्ति विपश्चितामपि पुत्रमरणादिनिमित्तशोकदर्शनादिति भावः । अत इदं कृतं भगवद्विचेष्टितं सुविस्मयं विस्मयनीयम् ईदृशमोहनिवृत्तये केवलं त्वां प्रपत्स्यामहे इत्याहुः । अजं जन्ममरणादिसंसार धर्मप्रतिभटम् त्वां नतोऽस्मि ‘कर्तरिक्तः’ नमस्कृतवानस्मि प्रत्येकाभिप्रायमेकवचनम् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

विश्वोद‍्भव-स्थान-निरोध-कर्म ते
ह्य् अ-कर्तुर् अङ्गी-कृतम् अप्य् अपावृतः।
युक्तं न चित्रं त्वयि कार्य-कारणे
सर्वात्मनि व्यतिरिक्ते च वस्तुतः॥

मूलम्

विश्वोद‍्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतः।
युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च व3स्तुतः॥ ५ ॥

अनुवाद (हिन्दी)

परमात्मन्! आप अकर्ता और मायाके आवरणसे रहित हैं तो भी जगत‍्की उत्पत्ति, स्थिति और प्रलय—ये आपके ही कर्म माने गये हैं। सो ठीक ही है, इसमें कोई आश्चर्यकी बात नहीं है। क्योंकि सर्वात्मरूपसे आप ही सम्पूर्ण कार्योंके कारण हैं और अपने शुद्धस्वरूपमें इस कार्य-कारणभावसे सर्वथा अतीत हैं॥ ५॥

वीरराघवः

ननु किं यदेतञ्चित्रं यज्जीवमोहनानुकूलमायाप्रेरणमिति ततोऽप्येतद्विचित्रतरमकर्तुर्मम विश्वसृष्ट्यादिकर्तृत्वमस्ति तञ्चाबन्धकं चेत्यत्राहुः । विश्वोद्भवेति । अकर्तुः “चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥” इत्युक्तरीत्या चातुर्वर्ण्यचातुराश्रम्यादिव्यवस्थयातिविचित्रजगत्सृष्ट्यादिकर्तृत्वेऽपि तत्तत्कर्मायत्तदेवादिवैचित्र्यादकर्तुस्ते तव-कर्तरि षष्ठी-त्वयेत्यर्थः । विश्वस्य जगतः उद्भवस्थाननिरोधकर्म सृष्टिस्थितिप्रलयरूपं कर्म अङ्गीकृतं स्वीकृतमिति यत्तद्युक्तमेव न तु त्वयि विचित्रं जीवस्येव न बन्धकमित्यभिप्रायः । कुतः यतस्त्वमपावृतः कदाचिदपि पुण्यपापाख्यकर्मणा ज्ञानसङ्कोचरहितः । जीवानां तु “अनृतेन हि प्रत्यूढाः तेषां सत्यानां सतामनृतमपिधानम्” इति कर्माख्याविद्यया ज्ञानसङ्कोचरूपावरणसद्भावात् अविद्यावृतज्ञानैरनुष्ठितानां पूर्वपूर्ववासनानुरूपाणां सुखदुःखादिजननद्वारा बन्धकत्वं युक्तं, भगवतो नित्यनिरस्तनिखिलदोषस्य सार्वज्ञादिगुणविशिष्टस्य जगदुदयविभवलयलीलस्य विश्वसृष्ट्यादि कर्म न बन्धकमित्यभिप्रायः । अपावृतः अपगतावरणः अविद्याकृतावरणप्रतिभदस्तस्यापावृतस्य तवेति षष्ठ्यन्तत्वेन व्याख्येयम् । अपावृतमिति पाठे विश्वोद्भवादिकर्माङ्गीकृतमनावरकं तिरोधानद्वारा न बन्धकमिति युक्तं जीवस्येवेत्यर्थः । आवरणद्वारा वैषम्यनैघृर्ण्यादिहेयापादकं नेति वेत्यर्थः । कुतो मम विश्वोद्भवादि कर्म नावरकं तत्राहुः । कार्यकारणे कार्यकारणरूपे स्थूलसूक्ष्मावस्थचिदचिद्वस्तुशरीरकत्वेन तद्रूप इत्यर्थः । कार्यकारणरूपत्वं च न तादात्म्यनिबन्धनं किं त्वात्मा देवो जात इत्यादितदन्तरात्मप्रयुक्तमित्याशयेन सर्वात्मनीत्युक्तम्, एवंभूतेऽपि वस्तुतः प्रकृतिपुरुषाभ्यां विविक्तस्वरूपतः व्यतिरिक्ते साक्षात्कार्यत्वकारणत्वोभयावस्थान्वयरहिते त्वयि न हि कर्तृत्वमात्रेण कर्मणो बन्धकत्वमपि तु कर्मायत्तकर्तृत्वेन, अन्यथा मुक्तानामपि जक्षणादिकर्तृत्वस्य बन्धकत्वापत्तेः । अयं भावः-यद्यपि बिम्बसृष्ट्यादिकर्तृत्वेन विश्वोपादानत्वेन च विश्वगतविकाराश्रयत्वाद्विश्वोद्भवादि कर्म तव बन्धकमिति सम्भाव्यते, तथापि विश्वोद्भवादिकर्मणो लीलारूपत्वेन कर्मायत्तत्वाभावात्स्वरूपान्यथाभावस्वभावान्यथाभावरूपविकाराश्रयप्रकृतिपुरुषशरीरकस्यैव कार्यकारणोभयावस्थाश्रयत्वात्सद्वारकावस्थाश्रयत्वेऽपि साक्षादवस्थाश्रयत्वाभावाच्च न विश्वोद्भवादि कर्म बन्धकं यथा जीवस्य शरीराधिष्ठातृत्वमात्रेण शरीरगतकौमारयौवनाद्याश्रयत्वमित्यर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

वेदान् युगान्ते तमसा तिरस्कृतान्
रसातलाद्यो नृतुरङ्गविग्रहः।
प्रत्याददे वै कवयेऽभियाचते
तस्मै नमस्तेऽवितथेहिताय इति॥

मूलम्

वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः।
प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्तेऽवितथेहिताय इति॥ ६ ॥

अनुवाद (हिन्दी)

आपका विग्रह मनुष्य और घोड़ेका संयुक्त रूप है। प्रलयकालमें जब तमःप्रधान दैत्यगण वेदोंको चुरा ले गये थे, तब ब्रह्माजीके प्रार्थना करनेपर आपने उन्हें रसातलसे लाकर दिया। ऐसे अमोघ लीला करनेवाले सत्यसंकल्प आपको मैं नमस्कार करता हूँ॥ ६॥

वीरराघवः

एवं विविधविचित्रशक्तिमत्त्वेन भगवन्तं स्तुत्वा अथैतदवतारप्रयोजनमाविष्कुर्वन्तो नमस्कुर्वन्ति वेदानिति । युगान्ते कस्मिंश्चिद्दैनंदिनप्रलये तमसा दैत्यरूपेण तिरस्कृतानपनीतान् वेदान् नृतुरङ्गविग्रहः ना च तुरङ्गश्च नृतुरङ्गौ विग्रहो यस्य स नृतुरङ्गविग्रहः हयशिरोमूर्तिर्यो भगवान् अभियाचते कवये चतुर्मुखाय प्रत्याददे प्रत्यर्पितवान् तस्मै तेऽवि तथेहितायामोघचेष्टाय ते तुभ्यं नमः नमस्करोमीति ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते। तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये। तद्दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशीलाचरितः प्रह्रादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति॥

मूलम्

हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते । तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये । तद्दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशीलाचरितः प्रह्लादोऽव्य4वधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति॥ ७ ॥

अनुवाद (हिन्दी)

हरिवर्षखण्डमें भगवान् नृसिंहरूपसे रहते हैं। उन्होंने यह रूप जिस कारणसे धारण किया था, उसका आगे (सप्तम स्कन्धमें) वर्णन किया जायगा। भगवान‍्के उस प्रिय रूपकी महाभागवत प्रह्लादजी उस वर्षके अन्य पुरुषोंके सहित निष्काम एवं अनन्य भक्तिभावसे उपासना करते हैं। ये प्रह्लादजी महापुरुषोचित गुणोंसे सम्पन्न हैं तथा इन्होंने अपने शील और आचरणसे दैत्य और दानवोंके कुलको पवित्र कर दिया है। वे इस मन्त्र तथा स्तोत्रका जप-पाठ करते हैं॥ ७॥

वीरराघवः

अथ हरिवर्षें मेरोर्दक्षिणे उपास्योपासकोपासनाप्रकारानाह । हरिवर्षे चेति । नरहरिरूपेण नृसिंहरूपेणास्ते सन्निहितो भवति तन्नृसिंहरूपपरिग्रहे निमित्तमुत्तरत्र सप्तमस्कन्धे वक्ष्यामः । तत्प्रियतमं रूपं प्रह्लादस्तद्वर्षपुरुषैः सहाव्यवधानानन्यभक्तियोगेन अव्यवधानः अविच्छिन्नः विघ्नानुपहतः अनन्यः न विद्यतेऽन्यत्फलं यस्य सोऽनन्यः प्रयोजनान्तररहितः तेन भक्तियोगेन उपास्ते आराधयतीत्यर्थः । प्रह्लादं विशिनष्टि महापुरुषो भगवास्तस्य ये गुणास्तेषां भाजनमाश्रयः भगवद्गुणसमानगुणक इत्यर्थः, महाभागवतो भागवतश्रेष्ठः दैत्यानां दानवानां च यत्कुलं तत्पवित्रीक्रियतेऽनेनेति दैत्यदानवकुलतीर्थीकरणम् एवंभूतं शीलमाचरितं शीलरूप आचारो यस्य । यद्वा उक्तविधं शीलं सद्वृत्तिः शौचाचमनसंध्योपासनादिरूपमाचरितम् आचारो यज्ञदानहोमादिरूपश्च यस्य इदं वक्ष्यमाणमुदाहरति जपति ॥ ७॥

श्लोक-८

विश्वास-प्रस्तुतिः

ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा। अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम्॥

मूलम्

ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माश5यान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा । अभयमभयमात्मनि भू6यिष्ठा ॐ क्ष्रौम् ॥ ८ ॥

अनुवाद (हिन्दी)

—‘ओंकारस्वरूप भगवान् श्रीनृसिंहदेवको नमस्कार है। आप अग्नि आदि तेजोंके भी तेज हैं, आपको नमस्कार है। हे वज्रनख! हे वज्रदंष्ट्र! आप हमारे समीप प्रकट होइये, प्रकट होइये; हमारी कर्म-वासनाओंको जला डालिये, जला डालिये। हमारे अज्ञानरूप अन्धकारको नष्ट कीजिये, नष्ट कीजिये। ॐ स्वाहा। हमारे अन्तः-करणमें अभयदान देते हुए प्रकाशित होइये। ॐ क्ष्रौम्’॥ ८॥

वीरराघवः

इदमादिष्टमेवाह ओमिति । ओं भगवच्छन्दार्थो पूर्ववत् तेजसामपि तेजसे तेजोऽन्तरैरप्रकाश्याय सर्वतेजसा प्रकाशायेत्यर्थः । तथा च श्रुतिः “न तत्र सूर्यो भाति न चन्द्रतारकम् । नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।” इति कठवल्लीष्वाम्नायते, तद्रूपमेव चाथर्वणे परं ब्रह्माधिकृत्य श्रूयते । अतोऽत्र परं ब्रह्मत्वं विवक्षितम् । आविराविर्भव आविर्भवाविर्भव । आविःशब्दो निपातः प्राकट्यद्योतकः, तस्य द्विर्वचनं पुनः पुनः प्रकटीभवेत्यर्थः । अत्र वज्रवदप्रतिहतनखदंष्ट्रेति सम्बोधनं कर्माशयान् कर्मवासनाः रन्धय रन्धय निर्दहेति द्विर्वचनं ये भूयिष्ठा बहुलास्तान् कर्माशयानित्याशयविशेषणमध्याहारेणेति बोध्यम् । आत्मने मह्यमभयं भयप्रतिभटं यथा तथाविर्भवेत्यनुषङ्गः । यद्वा भूयिष्ठा इति विभक्तिप्रतिरूपकमव्ययं भूयसार्थकं भूयः अभयमाविर्भवेत्यर्थः । अथवाभयं यथा भयाभावं यथा तथा भूयिष्ठाः भूयांसोऽभयं बहुला वयं भवामेत्यर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां
ध्यायन्तु भूतानि शिवं मिथो धिया।
मनश्च भद्रं भजतादधोक्षजे
आवेश्यतां नो मतिरप्यहैतुकी॥

मूलम्

स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया।
मनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी॥ ९ ॥

अनुवाद (हिन्दी)

‘नाथ! विश्वका कल्याण हो, दुष्टोंकी बुद्धि शुद्ध हो, सब प्राणियोंमें परस्पर सद‍्भावना हो, सभी एक-दूसरेका हितचिन्तन करें, हमारा मन शुभ मार्गमें प्रवृत्त हो और हम सबकी बुद्धि निष्काम-भावसे भगवान् श्रीहरिमें प्रवेश करे॥ ९॥

वीरराघवः

श्लोकानाह स्वस्तीति । विश्वस्य जगतः स्वस्ति मङ्गलं भूयात् । ननु विश्वस्य स्वस्तिप्रार्थने खलस्यापि भवेत्तच्च साधुपीडां विना न स्यादन्योऽन्यमङ्गलं ध्यायतां भूतानां परस्परं घातं विना न भवेदित्याशङ्क्याह । खलः प्रसीदतां खलो दुर्मतिः प्रसन्नो भवतु क्रोधादिकं परित्यज्य सुमतिर्भवत्वित्यर्थः । भूतानि मिथः परस्परं केवलं शिवमेव धिया सुमत्या ध्यायन्तु तेषां भूतानां मनश्च भद्रमुपशमादिकं भजतु नोऽस्माकं मतिरपिशब्दाद् भूतानां च मतिः अहैतुकी फलाभिसंधिरहिता सत्यधोक्षजे भगवत्यावेश्यतामावेशिता भवतु । भगवत्प्रवणा भवत्वित्यर्थः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

मागारदारात्मजवित्तबन्धुषु
सङ्गो यदि स्याद‍्भगवत्प्रियेषु नः।
यः प्राणवृत्त्या परितुष्ट आत्मवान्
सिद्‍ध्यत्यदूरान्न तथेन्द्रियप्रियः॥

मूलम्

मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद‍्भगवत्प्रियेषु नः।
यः प्राणवृत्त्या परितुष्ट आत्मवान् सिद्‍ध्यत्यदूरान्न तथेन्द्रियप्रियः॥ १० ॥

अनुवाद (हिन्दी)

प्रभो! घर, स्त्री, पुत्र, धन और भाई-बन्धुओंमें हमारी आसक्ति न हो; यदि हो तो केवल भगवान‍्के प्रेमी भक्तोंमें ही। जो संयमी पुरुष केवल शरीर-निर्वाहके योग्य अन्नादिसे सन्तुष्ट रहता है, उसे जितनी शीघ्र सिद्धि प्राप्त होती है, वैसी इन्द्रिय-लोलुप पुरुषको नहीं होती॥ १०॥

वीरराघवः

मेति । नोऽस्माकं सङ्ग आसक्तिः क्वापि मा न स्यात् । यदि क्वापि कथंचित्स्यात्तर्ह्यगारादिषु न स्यात्किन्तु भगवत्प्रियेषु भागवतेष्वेव स्यात्तत्रागाराणि गृहाः भवत्वगारादिष्वप्यासक्तिस्तत्र को दोष इत्याशङ्कायां भागवतसङ्गगृहादिसङ्गयोर्गुणदोषावाह । यः पुमानात्मवान् भगवत्प्रियसङ्गेन समाहितमनाः प्राणवृत्त्या प्राणधारणमात्रोपयुक्तवस्तुपरिग्रहेण परितुष्टः यथा सिध्यति भगवत्कथाश्रवणाचार्योपसत्त्यादिप्रणाड्या दूरादाशु मुक्तो भवति न तथा इन्द्रियप्रियः इन्द्रियपोषणप्रियः शब्दादिविषयप्रवणचित्तः सिध्यतीत्यर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

यत्सङ्गलब्धं निजवीर्यवैभवं
तीर्थं मुहुः संस्पृशतां हि मानसम्।
हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं
को वै न सेवेत मुकुन्दविक्रमम्॥

मूलम्

यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम्।
हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम्॥ ११ ॥

अनुवाद (हिन्दी)

उन भगवद‍्भक्तोंके संगसे भगवान‍्के तीर्थतुल्य पवित्र चरित्र सुननेको मिलते हैं, जो उनकी असाधारण शक्ति एवं प्रभावके सूचक होते हैं। उनका बार-बार सेवन करनेवालोंके कानोंके रास्तेसे भगवान् हृदयमें प्रवेश कर जाते हैं और उनके सभी प्रकारके दैहिक और मानसिक मलोंको नष्ट कर देते हैं। फिर भला, उन भगवद‍्भक्तोंका संग कौन न करना चाहेगा?॥ ११॥

वीरराघवः

पुनः सत्सङ्गतेः सिद्धिहेतुत्वमेव प्रपञ्चयति यत्सङ्गेति । येषां भगवत्प्रियाणां ज्ञानिनां सङ्गेनैव लब्धं प्राप्तं निजवीर्यवैभवं मच्चित्तस्य भगवद्ध्यानसामर्थ्यं भगवत्प्रियसङ्गेनैव मया लब्धमित्यर्थः । तथा हि तीर्थं गङ्गादितीर्थवत्पवित्ररूपं भगवद्यशः मुहुः संस्पृशतां सम्यक्सेवमानानां मानसं श्रुतिभिः श्रोत्रेन्द्रियैरन्तः प्रतिष्ठितो भगवानङ्गजमन्तर्गतमलं हरति निर्मलं च मनः तद्ध्यानसमर्थमिति भावः । अत ईदृशं मुकुन्दस्य विक्रमं यशः को वै पुमान्न सेवेत मुकुन्दविक्रमसेवा च भगवत्प्रियसङ्गायेति सङ्गतिरेव प्रार्थ्यते इति भावः । यद्वा येषां भगवत्प्रियाणां सङ्गाल्लब्धं प्राप्तं निजवीर्यवैभवं निजशब्दो भगवत्परः भगवद्वीर्यवैभवं मुहुः संस्पृशतां पुंसां श्रुतिभिः श्रोत्रेन्द्रियव्यापारैः श्रवणादिभिरन्तः प्रविष्टो भगवान्मानसं मनःसम्बन्धिमलं हरति । तत्र दृष्टान्तः यथा भगवच्चरणाम्बुजातं गङ्गादितीर्थं संस्पृशतामङ्गजं शारीरमलं हरतीति शेषः पूर्ववत् । अथवा यत्सङ्गलब्धं निजवीर्यवैभवं निजासाधारणं वीर्यवैभवं प्रभावातिशयो यस्य तथाभूतं मुकुन्दस्य विक्रमं मुहुः संस्पृशतां श्रुतिभिरन्तर्गतोऽजो मानसं मलं हरति यथा तत्पादाम्बुजतीर्थमङ्गजं मलमिति वा योजना | अत्र न सेवेतेत्यत्र तं मुकुन्दविक्रममित्यध्याहारः, तस्य संस्पृशतामित्यनेनान्वितत्वादवृत्तिर्वा, मुकुन्दविक्रममित्यस्याद्ययोजनायां तु तीर्थप्रदस्य गौण्या वृत्त्या भगवद्यशसि वृत्तिः अङ्गशब्दस्य मनःपरत्वं च । द्वितीययोजनायां तु न कोऽपि दोषः, एतत्सङ्गतेर्भगवद्यशःश्रवणं ततो मनोनैर्मल्यं ततस्तस्य भगवद्ध्यानसामर्थ्यं ततश्च भगवदुपासना ततोऽपि च सिद्धिरिति प्रणाडी दर्शिता भवति ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

यस्यास्ति भक्तिर्भगवत्यकिञ्चना
सर्वैर्गुणैस्तत्र समासते सुराः।
हरावभक्तस्य कुतो महद‍्गुणा
मनोरथेनासति धावतो बहिः॥

मूलम्

यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः।
हरावभक्तस्य कुतो महद‍्गुणा मनोरथेनासति धावतो बहिः॥ १२ ॥

अनुवाद (हिन्दी)

जिस पुरुषकी भगवान‍्में निष्काम भक्ति है, उसके हृदयमें समस्त देवता धर्म-ज्ञानादि सम्पूर्ण सद‍्गुणोंके सहित सदा निवास करते हैं। किन्तु जो भगवान‍्का भक्त नहीं है, उसमें महापुरुषोंके वे गुण आ ही कहाँसे सकते हैं? वह तो तरह-तरहके संकल्प करके निरन्तर तुच्छ बाहरी विषयोंकी ओर ही दौड़ता रहता है॥ १२॥

वीरराघवः

इदानीं भगवद्भक्तिं प्रस्तौति यस्येति । अकिञ्चना नास्ति किञ्चन यस्याः सा अकिञ्चना किञ्चिदैहिकामुष्मिकं च फलमनवलम्बमाना सम्यगासते तमेवानुवर्तन्ते इत्यर्थः । एवं भक्तस्य सद्गुणाश्रयत्वमुक्त्वाभक्तस्य तदभावमाह हराविति । हरौ भगवत्यभक्तस्यात एवासति शब्दादौ मनोरथेन बहिर्द्धावतः विचिन्वतः महद्गुणा महतां भगवद्भक्तानां ये गुणा उक्तास्ते कुतः कस्माद्धेतोः भवेयुः । अतोऽभक्तस्य न महद्गुणाश्रयत्वमित्यर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

हरिर्हि साक्षाद‍्भगवान् शरीरिणा-
मात्मा झषाणामिव तोयमीप्सितम्।
हित्वा महांस्तं यदि सज्जते गृहे
तदा महत्त्वं वयसा दम्पतीनाम्॥

मूलम्

हरिर्हि साक्षाद‍्भगवान् शरीरिणामात्मा झषाणामिव तोयमीप्सितम्।
हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम्॥ १३ ॥

अनुवाद (हिन्दी)

जैसे मछलियोंको जल अत्यन्त प्रिय—उनके जीवनका आधार होता है, उसी प्रकार साक्षात् श्रीहरि ही समस्त देहधारियोंके प्रियतम आत्मा हैं। उन्हें त्यागकर यदि कोई महत्त्वाभिमानी पुरुष घरमें आसक्त रहता है तो उस दशामें स्त्री-पुरुषोंका बड़प्पन केवल आयुको लेकर ही माना जाता है; गुणकी दृष्टिसे नहीं॥ १३॥

वीरराघवः

ननु विषयासक्तोऽपि कश्चिल्लोके महानेव दृश्यतेऽत आह हरिरिति । यथा झषाणां मीनानामीप्सितं तोयं जलमिवात्मधारकं तेन विना जीवनाभावात् तथा शरीरिणां देहिनां साक्षाद्भगवानेवात्मा धारकः । तथा च श्रुतिः “को ह्येवान्यत्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्” । “निरतिशयानन्दरूप आकाशः सर्वप्रकाशकः परमात्मा यदि न स्यान्नोपासितः स्यात्तदा को ह्यन्यादैहिकामुष्मिकसुखसम्पादनेन जीवयेत् को वा प्राण्यादापवर्गिकसुखसम्पादनेनोज्जीवयेत्” इति श्रुत्यर्थः । तथा च स्मरति भगवान् वाल्मीकिः “न च सीता त्वया हीना न चाहमपि राघव ! मुहूर्त्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥” इति हि यस्मादेवं तस्मात्तं भगवन्तं महानपि वयोरूपपश्वन्नपुत्रधनादिसमृद्धोऽपि हित्वा यदि गृहे सज्जते आसक्तो भवति । महान्तमिति पाठे महत्पुरुषं भगवन्तं विहायेत्यर्थः । तदा दम्पतीनां वयसा महत्त्वं न तु ज्ञानादिभिरित्यर्थः । मिथुनीभूतानां यद्व्यआदिभिर्निर्वृत्तः क्षणिकोऽन्ततो निरतिशयदुःखहेतुः सुखलेशः तत्कृतमेव तेषां माहात्म्यं न तु निरतिशयानन्दापादकस्वात्मपरमात्मयाथात्म्यानुभवकृतमिति भावः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तस्माद्रजोरागविषादमन्यु-
मानस्पृहाभयदैन्याधिमूलम्।
हित्वा गृहं संसृतिचक्रवालं
नृसिंहपादं भजताकुतोभयमिति॥

मूलम्

तस्माद्रजोरागविषादमन्युमानस्पृहाभयदैन्याधिमूलम्।
हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजताकुतोभयमिति॥ १४ ॥

अनुवाद (हिन्दी)

अतः असुरगण! तुम तृष्णा, राग, विषाद, क्रोध, अभिमान, इच्छा, भय, दीनता और मानसिक सन्तापके मूल तथा जन्म-मरणरूप संसारचक्रका वहन करनेवाले गृह आदिको त्यागकर भगवान् नृसिंहके निर्भय चरणकमलोंका आश्रय लो’॥ १४॥

वीरराघवः

तस्मादिति । तस्माद्भगवद्भक्तेर्निरतिशयसुखहेतुत्वाद्विषयासक्तेर्निरतिशयदुःखहेतुत्वाच्च रजआदीनां मूलं संसृतिचक्रवालं संसारपरिवृत्तिहेतुं गृहं संसृतिर्जन्ममरणरूपा तस्याश्चक्रवालं मण्डलमविच्छेदो यस्मात् गृहं हित्वेत्यर्थः, नृसिंहस्य पादं भजतां कुतो भयं दुःखं न तु कुतोऽपि भयमित्यर्थः । तत्र रजः कामः विषयाभिलाषरूपः रागः क्रोधः विषयानुभवविरोधिविषयः विषादः विषयविहतिनिमित्तः शोकः मानोऽहङ्कारः महाजनावमानहेतुः मन्युस्तज्जन्यः क्रोधः स्पृहा परदारधनादिष्वीप्सा भयमागामिदुःखे हेतुदर्शनज्ञानजं तब्जं दैन्यं मनसोऽवसादः आधिस्तत्कृता मनःपीडा ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहितॄणां पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसंख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति॥

मूलम्

केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहितॄणां पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसंख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति॥ १५ ॥

अनुवाद (हिन्दी)

केतुमालवर्षमें लक्ष्मीजीका तथा संवत्सर नामक प्रजापतिके पुत्र और पुत्रियोंका प्रिय करनेके लिये भगवान् कामदेवरूपसे निवास करते हैं। उन रात्रिकी अभिमानी देवतारूप कन्याओं और दिवसाभिमानी देवतारूप पुत्रोंकी संख्या मनुष्यकी सौ वर्षकी आयुके दिन और रातके बराबर अर्थात् छत्तीस-छत्तीस हजार वर्ष है और वे ही उस वर्षके अधिपति हैं। वे कन्याएँ परमपुरुष श्रीनारायणके श्रेष्ठ अस्त्र सुदर्शनचक्रके तेजसे डर जाती हैं; इसलिये प्रत्येक वर्षके अन्तमें उनके गर्भ नष्ट होकर गिर जाते हैं॥ १५॥

वीरराघवः

अथ केतुमाले वर्षे उपास्योपासकादीनाह केतुमालेऽपीति । भगवान्कामदेवरूपेण प्रद्युम्नरूपेण केतुमाले वर्षे आस्त इति शेषः । किमर्थं लक्ष्म्याः प्रियं कर्तुमिच्छया किं च प्रजापतेः संवत्सरस्य “संवत्सरो वै प्रजापतिः” इति श्रुतेः । तस्य दुहितरो रात्र्यभिमानिन्यो देवताः पुत्रा अहरभिमानिनो देवाः केतुमालवर्षाधिपतयः तासां तेषां च पुरुषायुषा अहोरात्रसंख्यानानां पुरुषस्यायुः पुरुषायुषम् ‘अचतुरविचतुरे’त्यादिना निपातनात्समासान्तोऽच्प्रत्ययः । एकं पुरुषायुषं वर्षशतमहोरात्रमहोरात्रस्थानीयं परिसंख्यानं गणनं येषां ते तथोक्ताः अहश्च रात्रिश्चाहोरात्रः “अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः” इति समासान्तोऽच्प्रत्ययः, पुरुषायुषपरिमाणकमहोरात्रं येषामित्यर्थः । षट्त्रिंशत्सहस्रपरिमितायुषाणामिति यावत्, तेषां प्रियचिकीर्षया च यासां प्रजापतेर्दुहितृणां रात्र्यभिमानिनीनां देवतानां कथंभूतानां महापुरुषस्य भगवतो महास्त्रस्य चक्रराजस्य तेजसा उद्वेजितं भीतं मनो यासां तासां गर्भाः संवत्सरान्ते गर्भाधानादारभ्य तत्संवत्सरान्ते विध्वस्ता अत एव व्यसवः विगतप्राणाः सन्तो निपतन्ति ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकलीलयाकिञ्चिदुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते॥

मूलम्

अतीव सुललितगतिविलसितविलसितरुचिरहासलेशावलोकलीलया किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते॥ १६ ॥

अनुवाद (हिन्दी)

भगवान् अपने सुललित गति-विलाससे सुशोभित मधुर-मधुर मन्द-मुसकानसे मनोहर लीलापूर्ण चारु चितवनसे कुछ उझके हुए सुन्दर भ्रूमण्डलकी छबीली छटाके द्वारा वदनारविन्दका राशि-राशि सौन्दर्य उँडेलकर सौन्दर्यदेवी श्रीलक्ष्मीको अत्यन्त आनन्दित करते और स्वयं भी आनन्दित होते रहते हैं॥ १६॥

श्लोक-१७

विश्वास-प्रस्तुतिः

तद‍्भगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताहःसु च तद‍्भर्तृभिरुपास्ते इदं चोदाहरति॥

मूलम्

तद‍्भगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताहःसु च तद‍्भर्तृभिरुपास्ते इदं चोदाहरति॥ १७ ॥

अनुवाद (हिन्दी)

श्रीलक्ष्मीजी परम समाधियोगके द्वारा भगवान‍्के उस मायामय स्वरूपकी रात्रिके समय प्रजापति संवत्सरकी कन्याओंसहित और दिनमें उनके पतियोंके सहित आराधना और वे इस मन्त्रका जप करती हुई भगवान‍्की स्तुति करती हैं॥ १७॥

वीरराघवः

अतीवेति । तत्र रमां लक्ष्मी रमयन् स्वीयानीन्द्रियाणि रमयते, केन साधनेन रमयन् तदाह । अतीव सुललितया सुन्दरया गत्या यो विलासस्तेन विलसितो रुचिरो हासलेशो मन्दस्मितं तत्सहितोऽवलोक एव लीला तयाकिञ्चिदुत्तम्भितमुत्तुङ्गितं सुन्दरं यद्भ्रूमण्डलं तेन सुभगं यद्वदनारविन्दं तस्य श्रिया शोभया भगवतस्तन्मायामयं मायाप्रचुरमात्मीयसङ्कल्पेन परिगृहीतमित्यर्थः । ज्ञानपर्यायोऽत्र मायाशब्दः, रमां लक्ष्मीं देवीं देवस्य भगवतः सम्बन्धिनीं “पुंयोगादाख्यायाम्” इति ङीष्, संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिः रात्र्यभिमानिनीभिर्देवताभिरुपेता सती संवत्सरस्याहस्सु च तद्भर्तृभिः रात्र्यभिमानिदेवताभर्तृभिर्दिवाभिमानिभिर्देवैरुपेता परमेण समाधियोगेन उपास्ते ॥ १६-१७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

ॐ ह्रां ह्रीं ह्रूँ ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलायच्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय सहसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात्॥

मूलम्

ॐ ह्रां ह्रीं ह्रूँ ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलायच्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय सहसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात्॥ १८ ॥

अनुवाद (हिन्दी)

‘जो इन्द्रियोंके नियन्ता और सम्पूर्ण श्रेष्ठ वस्तुओंके आकर हैं, क्रियाशक्ति, ज्ञानशक्ति और संकल्प-अध्यवसाय आदि चित्तके धर्मों तथा उनके विषयोंके अधीश्वर हैं, ग्यारह इन्द्रिय और पाँच विषय—इन सोलह कलाओंसे युक्त हैं, वेदोक्त कर्मोंसे प्राप्त होते हैं तथा अन्नमय, अमृतमय और सर्वमय हैं—उन मानसिक, ऐन्द्रियक एवं शारीरिक बलस्वरूप परम सुन्दर भगवान् कामदेवको ‘ॐ ह्रां ह्रीं ह्रूं’ इन बीजमन्त्रोंके सहित सब ओरसे नमस्कार है’॥ १८॥

वीरराघवः

इदं वक्ष्यमाणमन्त्रवाक्यं चोदाहरन्ति जपन्ति बहुवचनं संवत्सरदुहितृतद्भर्त्रभिप्रायकं जप्यं मन्त्रमाह । ॐ भगवच्छब्दार्थः पूर्ववत् हृषीकाणामिन्द्रियाणामीशाय नियन्त्रे सर्वैः प्रकृतिपुरुषयोरसम्भावनीयैगुणविशेषैः सत्यज्ञानादिभिः गाम्भीर्यादिभिः “सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः” इत्यादिश्रुतिसिद्धैर्विवक्षितमाश्रयत्वेन वक्तुं प्रतिपादयितुमिष्टमात्मस्वरूपं यस्य तस्मै कल्याणगुणाश्रयत्वेन वेदान्तैः प्रतिपाद्यमानायेत्यर्थः, सर्वत्राधिकरणार्थोऽनुसन्धेयः, आकूतीनां क्रियाणां चित्तीनां ज्ञानानां चेतसां संकल्पाध्यवसायादीनां कर्मेन्द्रियज्ञानेन्द्रियमनोव्यापाराणां विशेषः पृथिवी, बहुवचनमाकाशाद्यभिप्रायकं पृथिवीप्रभृतिपञ्चमहाभूतानां चाधिपतये नियन्त्रे इदं चाधिपत्यं न सत्यपि पृथग्भावे भृत्यनिरूपितनियन्तृभावस्य राज्ञ इव, अपि त्वात्मत्वप्रयुक्तमिति द्योतयितुं शरीरात्मभावनिबन्धनसामानाधिकरण्यमाह षोडशकलायेति । षोडशकलाः पञ्चभूतानि मनःसहितान्येकादशेन्द्रियाणि एतत्स्वरूपाय तच्छरीरकत्वेनावस्थितायेत्यर्थः, षोडशकला अंशा मूर्त्तयो यस्येति बहुव्रीहिर्वा । पञ्चभूतान्येकादश इन्द्रियाणि च जगत्कारणत्वमाह । छन्दोमयाय छन्दःप्रचुराय “तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यद्यग्वेदः” इति श्रुत्यर्थोऽत्र विवक्षितः । एवं समष्टितत्त्वशरीरकत्वमभिधाय व्यष्टितत्त्वात्मकत्वमाह । अन्नमयाय अन्नमयशब्दोऽत्र व्यष्ट्यवस्थातत्त्वसंघातात्मकदेहपरः, तद्रूपाय व्यष्टिशरीरकायेत्यर्थः । एवं व्यष्टिसमष्ट्यात्मकतत्त्वान्तरात्मकत्वमभिधाय जीवान्तरात्मकत्वमपि सामानाधिकरण्येनाभिधत्ते अमृतमयायेति । अमृतशब्दोऽत्र जीववाची परमात्मपर्यन्तः अमृतशरीरकायेत्यर्थः, उक्तानुक्तकालाद्यन्तरात्मत्वाभिप्रायेणाह । सर्वमयायेति सर्वात्मकायेत्यर्थः । किं बहुना तत्तद्वस्तुगतशक्तिरूपस्त्वमेवेत्याह । सहसे मनःसामर्थ्यरूपाय ओजसे इन्द्रियशक्तिरूपाय बलाय देहशक्तिरूपाय सहआदेर्हेतुत्वाच तादात्म्यव्यपदेशः कान्ताय निरतिशयप्रीतिविषयाय कामाय स्वीयेषु निरतिशयप्रीतिविशिष्टाय ते तुभ्यमुभयत्र पुरस्तात्पृष्ठतश्च नमो नमनं भूयादस्त्वित्यर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

स्त्रियो व्रतैस्त्वा हृषिकेश्वरं स्वतो
ह्याराध्य लोके पतिमाशासतेऽन्यम्।
तासां न ते वै परिपान्त्यपत्यं
प्रियं धनायूंषि यतोऽस्वतन्त्राः॥

मूलम्

स्त्रियो व्रतैस्त्वा हृषिकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम्।
तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः॥ १९ ॥

अनुवाद (हिन्दी)

‘भगवन्! आप इन्द्रियोंके अधीश्वर हैं। स्त्रियाँ तरह-तरहके कठोर व्रतोंसे आपकी ही आराधना करके अन्य लौकिक पतियोंकी इच्छा किया करती हैं। किन्तु वे उनके प्रिय पुत्र, धन और आयुकी रक्षा नहीं कर सकते; क्योंकि वे स्वयं ही परतन्त्र हैं॥ १९॥

वीरराघवः

एवमिमं मन्त्रमुदाहरन्ती इति पत्नी लक्ष्मीः पतिशब्दप्रवृत्तिनिमित्तपौष्कल्यविशिष्टस्त्वमेवेत्याह स्त्रिय इति । स्वतः हृषीकाणामिन्द्रियाणामधीश्वरमधिपतिं स्वतःशब्देनाधिपत्यस्य निरुपाधिकत्वं व्यज्यते, एवंभूतं त्वां व्रतैराराध्य लोके संसारे स्त्रियः अन्यं पतिमाशासते कामयन्ते ते चाशास्यमानाः पतयः तासां कामयमानानां स्त्रीणां प्रियं प्रीतिविषयमात्मापत्यधनायूंषि च न परिपान्ति न रक्षन्ति पातुमसमर्थत्वादिति भावः । तत्कुतः यतस्ते पतयः अन्यतन्त्राः कर्मवश्याः तेषां पतित्वं हि कर्मायत्तं न हि कर्मपरवशाः कर्मनिर्हरणे समर्था इति भावः । एवं निरुपाधिकरक्षकत्वस्यैव पतिशब्दप्रवृत्तिनिमित्तत्वात्ते ते पतय एव न भवन्तीत्यभिप्रायः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

स वै पतिः स्यादकुतोभयः स्वयं
समन्ततः पाति भयातुरं जनम्।
स एक एवेतरथा मिथो भयं
नैवात्मलाभादधि मन्यते परम्॥

मूलम्

स वै पतिः स्यादकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम्।
स एक एवेतरथा मिथो भयं नैवात्मलाभादधि मन्यते परम्॥ २० ॥

अनुवाद (हिन्दी)

सच्चा पति (रक्षा करनेवाला या ईश्वर) वही है, जो स्वयं सर्वथा निर्भय हो और दूसरे भयभीत लोगोंकी सब प्रकारसे रक्षा कर सके। ऐसे पति एकमात्र आप ही हैं; यदि एकसे अधिक ईश्वर माने जायँ, तो उन्हें एक-दूसरेसे भय होनेकी सम्भावना है। अतएव आप अपनी प्राप्तिसे बढ़कर और किसी लाभको नहीं मानते॥ २०॥

वीरराघवः

एवमन्यत्र पतिशब्दोऽमुख्यवृत्त इत्युक्तं भगवति तु मुख्यवृत्त इत्याह स वा इति । सः मन्त्रोक्तगुणसम्पन्नः भवान्पतिर्वै वैशब्दोऽवधारणे भवानेव पतिरित्यर्थः । तथा च श्रुतयः ‘एष सर्वेश्वरः एष भूताधिपतिरेष भूतपालः । पतिं विश्वस्यात्मेश्वरं न तस्य कश्चित्पतिरस्ति लोके’ इति सूत्रं चैतद्विषयकम् “अनन्याधिपतिः” इति । कुतो मम निरुपाधिकपतित्वं तत्राह । अकुतोभयः नास्ति कुतोऽपि भयं यस्य सोऽकुतोभयः अकर्मवश्यत्वेन कर्मकृतपारतन्त्र्याभावान्निरुपाधिकरक्षकत्वं त्वय्येवेति भावः । अत एव भयातुरं जनं समन्ततः पाति सर्वेभ्योऽपि भयेभ्यस्त्रायते स च निरुपाधिकपतिर्भवानेक एव, इतरथा ईश्वरद्वित्वे मण्डलेश्वराणामिव मिथोऽन्योऽन्यं भयं स्यात् यतो भवानेक एव पतिरत एव भवानात्मलाभात्परमन्यदधि अधिकं न मन्यते आत्मनो लाभः परमात्मशेषत्वज्ञानं तस्मिन्नेव हि सत्यात्मनः सत्ता इतरथासत्प्रायतैव तन्मात्रमेव चेतनसंरक्षणे भवानपेक्षते न तु ततोऽन्यदित्यर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

या तस्य ते पादसरोरुहार्हणं
निकामयेत्साखिलकामलम्पटा।
तदेव रासीप्सितमीप्सितोऽर्चितो
यद‍्भग्नयाच्ञा भगवन् प्रतप्यते॥

मूलम्

या तस्य ते पादसरोरुहार्हणं निकामयेत्साखिलकामलम्पटा।
तदेव रासीप्सितमीप्सितोऽर्चितो यद‍्भग्नयाच्ञा भगवन् प्रतप्यते॥ २१ ॥

अनुवाद (हिन्दी)

भगवन्! जो स्त्री आपके चरणकमलोंका पूजन ही चाहती है और किसी वस्तुकी इच्छा नहीं करती—उसकी सभी कामनाएँ पूर्ण हो जाती हैं; किन्तु जो किसी एक कामनाको लेकर आपकी उपासना करती है, उसे आप केवल वही वस्तु देते हैं। और जब भोग समाप्त होनेपर वह नष्ट हो जाती है तो उसके लिये उसे सन्तप्त होना पड़ता है॥ २१॥

वीरराघवः

तदेव प्रपञ्चयति येति । अखिलेषु कामेषु पत्यपत्यधनायुरादिषु लम्पटा आसक्ता सती या स्त्री तस्योक्तविधस्य ते तव पादसरोरुहयो रर्हणमाराधनं न कामयेन्न कुर्यात्तस्यास्तदेवेप्सितं पत्यपत्यादिकं क्षुद्रं फलमर्चितस्त्वं रासि ददासि “रा दाने” इति धातुः, कथंभूतः त्वमीप्सितः प्रीतिविषयः पुरुषार्थरूपः सर्वविधपुरुषार्थरूपं त्वामपुरुषार्थरूपं मत्वा त्वत्तोऽन्यं यत्किञ्चित्पुरुषार्थं त्वत्तः प्रार्थयते तस्यास्तदेव पुरुषार्थाभासं ददासि न तु स्वात्मानमित्यभिप्रायः, यतस्त्वत्तोऽन्यदपुरुषार्थरूपमत एव भग्ना याच्ञा याचितार्थो यस्यास्तथाभूता सती हे भगवन् ! कामदेव ! प्रतप्यते दुःखिता भवति न तु लब्धात्माहमिति नितरां सुख्यतीत्यभिप्रायः । ईप्सितार्चितमिति पाठान्तरं तदा इष्टत्वेन पूजिते प्रकृतमीप्सितमिति यावत् तुच्छपुरुषार्थरूपमपि निरतिशयपुरुषार्थरूपत्वेन मन्यमानं पत्यपत्याद्यन्यतमं सांसारिकमेव फलं रासीत्यभिप्रायः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

मत्प्राप्तयेऽजेशसुरासुरादय-
स्तप्यन्त उग्रं तप ऐन्द्रियेधियः।
ऋते भवत्पादपरायणान्न मां
विन्दन्त्यहं त्वद्धृदया यतोऽजित॥

मूलम्

मत्प्राप्तयेऽजेशसुरासुरादयस्तप्यन्त उग्रं तप ऐन्द्रियेधियः।
ऋते भवत्पादपरायणान्न मां विन्दन्त्यहं त्वद्धृदया यतोऽजित॥ २२ ॥

अनुवाद (हिन्दी)

अजित! मुझे पानेके लिये इन्द्रिय-सुखके अभिलाषी ब्रह्मा और रुद्र आदि समस्त सुरासुरगण घोर तपस्या करते रहते हैं; किन्तु आपके चरण-कमलोंका आश्रय लेनेवाले भक्तके सिवा मुझे कोई पा नहीं सकता; क्योंकि मेरा मन तो आपमें ही लगा रहता है॥ २२॥

वीरराघवः

ननु लक्ष्मीर्हि लोके पुरुषार्थत्वेन प्रसिद्धा, न त्वहं तत् कथमेवमुच्यते तत्राह मत्प्राप्तय इति । ऐन्द्रिये शब्दादौ धीर्येषां तथाभूताः ‘कण्ठेकालवदलुक्समासः’ अजो ब्रह्मा ईशो रुद्रः सुरा इन्द्रादयः असुराश्च ये यद्यपि मत्प्राप्तये मां प्राप्तुं भवत्पादपरायणादृते भवत्पादारविन्दशरणवरणं विनान्यदुग्रं तपः तप्यन्ति ‘पाकं पचती’तिवन्निर्देशः तपः कुर्वन्तीत्यर्थः, तथापि मां न विन्दन्ति न प्राप्नुवन्ति । कुतः हे अजित ! यतोहं त्वद्धृदया तव हृदया हृत् अया प्राप्ता त्वद्धृद्रताहं त्वदपृथक्सिद्धत्वेन मम त्वदन्तर्गतत्वेनैव पुरुषार्थरूपत्वं न तु पृथगित्यर्थः । यद्वा त्वन्निरतिशयपुरुषार्थरूपा त्वं हृदये हृद्गतो यस्यास्तथाभूताहं त्वय्येव हृदयं यस्याः सेति निरतिशयपुरुषार्थरूपस्य तव नित्यं मद्धृद्गतत्वेनाहमपि पुरुषार्थ रूपा भवामि न तु स्वत इत्यर्थः, अतो ये भगवत्पादारविन्दपरायणास्तानेवामनुवर्तयामीत्यभिप्रायः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं
कराम्बुजं यत्त्वदधायि सात्वताम्।
बिभर्षि मां लक्ष्म वरेण्य मायया
क ईश्वरस्येहितमूहितुं विभुरिति॥

मूलम्

स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम्।
बिभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुरिति॥ २३ ॥

अनुवाद (हिन्दी)

अच्युत! आप अपने जिस वन्दनीय करकमलको भक्तोंके मस्तकपर रखते हैं, उसे मेरे सिरपर भी रखिये। वरेण्य! आप मुझे केवल श्रीलांछनरूपसे अपने वक्षःस्थलमें ही धारण करते हैं; सो आप सर्वसमर्थ हैं, आप अपनी मायासे जो लीलाएँ करते हैं, उनका रहस्य कौन जान सकता है?॥ २३॥

वीरराघवः

इदाना तत्कृपां प्रार्थयते । स त्वमिति । यः पुरुषार्थरूपः स त्वं हे अच्युत ! वन्दितं सर्वपुरुषार्थंप्रदत्वेन स्तुतं तत्कराम्बुजं मम शिरसि निधेहि । कथंभूतं यत्सात्वतामेकान्तिनां शीर्ष्णि अधायि कृपया निहितं, मत्पूर्णकृपाविषया त्वमप्यपूर्वं किमिदं प्रार्थयसे, तत्राह हे वरेण्य ! मायया मायामयरूपेण श्रीवत्सेन सह मां चिह्नं वक्षसि बिभर्षि चिह्नरूपेण बिभर्षीत्यर्थः । श्रीवत्सस्य प्रधानात्मकत्वं “श्रीवत्सस्थानमपरमनन्तेन समाश्रितम् । प्रधानबुद्धिरप्यास्ते गदारूपेण माधवम्” इति भगवता पराशरेणोक्तं माययेति दृष्टान्तार्थः यथा श्रीवत्सं तथा लक्ष्म तथाहमपि लक्ष्म अतः सात्वतस्य शिरसि कृपास्त्येवेत्यभिप्रायः । “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । ज्ञानी व्वात्मैव मे मतम्” इत्युक्तभगवदभिप्रायमालोच्य शीर्ष्णि सात्वतां यदधायीत्युक्तम् । अत्र कारणं न कोऽपि वेत्तु प्रभुरित्याह । ईश्वरस्य तवेहितं चेष्टितमभिप्रेतं वा ऊहितुं कथयितुं को वा प्रभुः समर्थः न कोऽपीत्यर्थः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

रम्यके च भगवतः प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनोः प्राक्प्रदर्शितं स इदानीमपि महता भक्तियोगेनाराधयतीदं चोदाहरति॥

मूलम्

रम्यके च भगवतः प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनोः प्राक्प्रदर्शितं स इदानीमपि महता भक्तियोगेनाराधयतीदं चोदाहरति॥ २४ ॥

वीरराघवः

एवं केतुमाले उपास्योपासकादिकमुक्तमथ रम्यके तदाह रम्यके चेति । प्राम्युगान्तसमये मनो रम्यकवर्षाधिपतेः प्रदर्शितं यन्मात्स्यं रूपं भगवतः प्रियतमं तदेव रूपं स एव मनुः रम्यके वर्षे इदानीमपि महताविच्छिन्नेन भक्तियोगेनाराधयन्नास्ते ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति॥

मूलम्

ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्वाय नम इति॥ २५ ॥

अनुवाद (हिन्दी)

रम्यकवर्षमें भगवान‍्ने वहाँके अधिपति मनुको पूर्वकालमें अपना परम प्रिय मत्स्यरूप दिखाया था। मनुजी इस समय भी भगवान‍्के उसी रूपकी बड़े भक्तिभावसे उपासना करते हैं और इस मन्त्रका जप करते हुए स्तुति करते हैं—‘सत्त्वप्रधान मुख्य प्राण सूत्रात्मा तथा मनोबल, इन्द्रियबल और शरीरबल ओंकारपदके अर्थ सर्वश्रेष्ठ भगवान् महामत्स्यको बार-बार नमस्कार है’॥ २४-२५॥

वीरराघवः

मन्त्रमाह ओमिति । सत्त्वाय शुद्धसत्त्वमूर्तये मुखे भवः मुख्यः तस्मै प्रथमावतारायेत्यर्थः । प्राणाय जीवयित्रे प्राणव्यष्ट्यन्तरात्मने वा ओजसे इन्द्रियशक्त्यधिष्ठात्रे बलाय शरीरशक्त्यधिष्ठात्रे तत्तदवतारासाधारणगुणाः सर्वत्रोपासनार्थं मन्त्रेषूक्ताः, एवम्भूताय महते दृष्टविसजातीयमत्स्याय नमः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

अन्तर्बहिश्चाखिललोकपालकै-
रदृष्टरूपो विचरस्युरुस्वनः।
स ईश्वरस्त्वं य इदं वशेऽनय-
न्नाम्ना यथा दारुमयीं नरः स्त्रियम्॥

मूलम्

अन्तर्बहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुस्वनः।
स ईश्वरस्त्वं य इदं वशेऽनयन्नाम्ना यथा दारुमयीं नरः स्त्रियम्॥ २६ ॥

अनुवाद (हिन्दी)

प्रभो! नट जिस प्रकार कठपुतलियोंको नचाता है, उसी प्रकार आप ब्राह्मणादि नामोंकी डोरीसे सम्पूर्ण विश्वको अपने अधीन करके नचा रहे हैं। अतः आप ही सबके प्रेरक हैं। आपको ब्रह्मादि लोकपालगण भी नहीं देख सकते; तथापि आप समस्त प्राणियोंके भीतर प्राणरूपसे और बाहर वायु-रूपसे निरन्तर संचार करते रहते हैं। वेद ही आपका महान् शब्द है॥ २६॥

वीरराघवः

कृत्स्नचिदचिदात्मकजगन्नियन्तृत्वरक्षकत्वविशिष्टं स्तुवन्ति । अन्तर्बहिरिति । लोकपालैरन्तर्बहिरदृष्टं रूपं यस्य उर्वधिकं स्वनो वेदात्मको नादो यस्य तथाभूतस्त्वमीश्वर एव कोऽसावीश्वर इत्याह । य इदं विश्वं चिदचिदात्मकं कृत्स्नं जगद्विधिनिषेधावलम्बनभूतेन ब्राह्मणादिनाम्ना वशेऽनयन्नीतवान् नयनं चात्र नियमनपूर्वकं रक्षणं यथा दारुमयीं दारुणो विकाररूपां स्त्रियं स्त्रीप्रतिकृतिं नरः स्ववशीकृत्य नाटयति तथेति । अनेन कृत्स्नजगन्नियन्तृत्वकथनेन कारणत्वमप्युक्तं कारणत्वनेतृत्वयोरेकगतत्वात् “एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः” इति श्रवणात् सर्वभूतान्तरात्मेत्यनेन नेतृत्वमेक इत्यनेन कारणत्वञ्चोक्तम् “एको ह वै नारायण आसीत्” इत्यनेन संवादादित्यर्थः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

यं लोकपालाः किल मत्सरज्वरा
हित्वा यतन्तोऽपि पृथक् समेत्य च।
पातुं न शेकुर्द्विपदश्चतुष्पदः
सरीसृपं स्थाणु यदत्र दृश्यते॥

मूलम्

यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक् समेत्य च।
पा7तुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते॥ २७ ॥

अनुवाद (हिन्दी)

एक बार इन्द्रादि इन्द्रियाभिमानी देवताओंको प्राणस्वरूप आपसे डाह हुआ। तब आपके अलग हो जानेपर वे अलग-अलग अथवा आपसमें मिलकर भी मनुष्य, पशु, स्थावर-जंगम आदि जितने शरीर दिखायी देते हैं—उनमेंसे किसीकी बहुत यत्न करनेपर भी रक्षा नहीं कर सके॥ २७॥

वीरराघवः

इदञ्च जगन्नियतृत्वादिकमनितरसाधारणमित्याह यमिति । मत्सरज्वरं मत्सरः परैश्वर्यासहिष्णुत्वं स एव ज्वरस्तं हित्वापि पृथक् समेत्य संघीभूयापि वा यतन्तोऽपि लोकपाला इन्द्रादयो यं प्रपञ्चं पातुं रक्षितुं न शेकुः न प्राभवन् । प्रपञ्चं विशिनष्टि यद्द्विपदादिरूपं चरिष्णु स्थास्नु पर्वतादिरूपस्थावरजातं च अत्र प्रपञ्चे दृश्यते त्वं तु रक्षितवानित्यर्थः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

भवान् युगान्तार्णव ऊर्मिमालिनि
क्षोणीमिमामोषधिवीरुधां निधिम्।
मया सहोरु क्रमतेऽज ओजसा
तस्मै जगत्प्राणगणात्मने नम इति॥

मूलम्

भवान् युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम्।
मया सहोरु क्रमतेऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति॥ २८ ॥

अनुवाद (हिन्दी)

अजन्मा प्रभो! आपने मेरे सहित समस्त औषध और लताओंकी आश्रयरूपा इस पृथ्वीको लेकर बड़ी-बड़ी उत्ताल तरंगोंसे युक्त प्रलयकालीन समुद्रमें बड़े उत्साहसे विहार किया था। आप संसारके समस्त प्राणसमुदायके नियन्ता हैं; मेरा आपको नमस्कार है’॥ २८॥

वीरराघवः

भवानिति । ऊर्मिमालिनि उच्चतरतरङ्गपङ्क्तियुक्ते युगान्तार्णवे कस्मिंश्चिद्दैनंदिनप्रलयार्णवे ओषधीनां वीरुधां गुल्मानां च निधिमाश्रयभूतामिमां क्षोणीं भूमिं मया मनुना सह वृत्वेति शेषः, यो भवानोजसा उर्वधिकं विक्रमते विचरति । यद्वा पातुमित्यस्यानुषङ्गः क्षोणीं पातुं क्रमते उत्सहत इत्यर्थः, यतोऽजस्त्वम् । यद्वा हे उरुक्रम ! तेजओजसा तेजोरूपेण सङ्कल्परूपज्ञानात्मकेन ओजसा बलेन न तु साधनान्तरेणेमां क्षोणीं रक्षितवानित्यध्याहारः उवाह धृतवानित्यर्थः । तस्मै जगत्प्राणगणात्मने तुभ्यं नमः । जगत्प्राणगणः प्रतिशरीरं प्राणव्यष्टिगणः तदन्तरात्मन इत्यर्थः । जगत्प्राणगुणात्मन इति पाठे तु जगत्प्राणरूपगुणस्वभावायेत्यर्थः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषैः पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति॥

मूलम्

हिर8ण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह पितृ9गणाधिपतिरुपधावति मन्त्रमिमं चानुजपति॥ २९ ॥

अनुवाद (हिन्दी)

हिरण्मयवर्षमें भगवान् कच्छपरूप धारण करके रहते हैं। वहाँके निवासियोंके सहित पितृराज अर्यमा भगवान‍्की उस प्रियतम मूर्तिकी उपासना करते हैं और इस मन्त्रको निरन्तर जपते हुए स्तुति करते हैं॥ २९॥

वीरराघवः

अथ हिरण्मयवर्षे उपास्योपासनादीनाह हिरण्मय इति । भगवान् कूर्मरूपं बिभ्राणो हिरण्मये वर्षे निवसति तस्य भगवतस्तां प्रियतमां कूर्मतनुं पितृगणानामधिपतिरर्यमा तद्वर्षस्थैः पुरुषैः सहोपधावति अनुवर्तते उपास्ते इत्यर्थः । शेषं पूर्ववत् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते॥

मूलम्

ॐ नमो भगवते अकूपाराय सर्वस10त्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते॥ ३० ॥

अनुवाद (हिन्दी)

—‘जो सम्पूर्ण सत्त्वगुणसे युक्त हैं, जलमें विचरते रहनेके कारण जिनके स्थानका कोई निश्चय नहीं है तथा जो कालकी मर्यादाके बाहर हैं, उन ओंकारस्वरूप सर्वव्यापक सर्वाधार भगवान् कच्छपको बार-बार नमस्कार है’॥ ३०॥

वीरराघवः

अकूपाराय कूर्मरूपाय कुत्सिताः स्वल्पा आपो यस्मिंस्तत्कूपं स्वाश्रयतया तद्रात्यादधाति स्वीकरोतीति कूपारः स न भवतीत्यकूपारः, सर्वे सत्त्वा जन्तवः गुणास्तद्गता हेयाः कल्याणाश्च ज्ञानशक्तिबलैश्वर्यादयः ते विशेषणानि सद्वारकाण्यद्वारकाणि च प्रकारभूतानि यस्य तस्मै तत्र सर्वसत्त्वानां कल्याणगुणानां च साक्षाद्विशेषणत्वं सत्त्वगतगुणानां सत्त्वद्वारा विशेषणत्वमिति विवेकः । अनुपलक्षितस्थानायान्तःसमुद्रे मन्दरमूले स्थितायेत्यर्थः, अवर्ष्मणे प्राकृतदेहरहिताय वर्ष्मणे इत्यप्राकृतदिव्यदेहाय वर्ष्मशब्दो देहिपर्यन्तवृत्तिः वर्ष्मणे श्रेष्ठायेति वा गरीयसे वा गरीयस्त्वं च कालानवच्छिन्नत्वं भूम्ने महिमवतेऽवस्थानायाधारभूताय अधिकरणे ल्युट्, गुणभेदाभिप्राया नमः पदावृत्तिः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

यद्रूपमेतन्निजमाययार्पित-
मर्थस्वरूपं बहुरूपरूपितम्।
संख्या न यस्यास्त्ययथोपलम्भनात्
तस्मै नमस्तेऽव्यपदेशरूपिणे॥

मूलम्

यद्रूपमेतन्निजमाययार्पित11मर्थस्वरूपं बहुरूपरूपितम्।
संख्या न यस्यास्त्ययथोपलम्भनात् तस्मै नमस्तेऽव्यपदेशरूपिणे॥ ३१ ॥

अनुवाद (हिन्दी)

भगवन्! अनेक रूपोंमें प्रतीत होनेवाला यह दृश्यप्रपंच यद्यपि मिथ्या ही निश्चय होता है, इसलिये इसकी वस्तुतः कोई संख्या नहीं है; तथापि यह मायासे प्रकाशित होनेवाला आपका ही रूप है। ऐसे अनिर्वचनीयरूप आपको मेरा नमस्कार है॥ ३१॥

वीरराघवः

विश्वरूपत्वानन्तत्वादिगुणविशिष्टं स्तौति यद्रूपमिति । एतत् जगत् यस्य रूपं शरीरं तस्मै व्यवसायरूपिणे नम इत्यन्वयः । व्यवसायरूपिणे सम्यग्ज्ञानप्रवर्तकायेत्यर्थः । यद्वा व्यवसायोऽत्र नित्यासंकुचितापरिच्छिन्नं ज्ञानं तदेव रूपमाकारस्तदस्यास्तीति तथा तस्मै नमस्ते व्यपदेशरूपिणे इति पाठान्तरं तत्र व्यपदेशरूपिणे व्यपदिश्यते इति व्यपदेशः वाग्व्यवहारार्हः देवमनुष्यादिनामरूपात्मकः प्रपञ्चः स जगदेव रूपं तदस्यास्तीति तथा । न च यद्रूपमित्यनेन पौनरुक्त्यं व्यपदेश्यरूपिण इत्यस्यैवोपपादकत्वात् श्लोकशेषस्य अव्यपदेशरूपिणे इति वा छेदः, अव्यपदेशं चेतनसजातीयत्वेन व्यपदेष्टुमशक्यं रूपं तदस्यास्तीति तथा तस्मै एतच्छब्दनिर्द्दिष्टं जगद्विशिनष्टि । निजमाययार्पितं प्रकृत्या निर्वाततम् अर्थरूपं भोग्यत्वेन प्रतीयमानं बहुरूपरूपितं जातिगुणादिनिरूप्यं एवंविधं जगत् यस्य रूपं यस्य च संख्यापरिच्छेदो नास्ति कुतः अयथोपलम्भनात् यथावत् साकल्येन उपलम्भाभावात् । यस्येत्यनेन जगद्वा परामृश्यते यस्य जगतः संख्या प्रकाशो नास्ति, कुतः अयथोपलम्भनादब्रह्मात्मकत्वेनोपलम्भात् । यद्यपि जगत्प्रतीयते एव तथाप्यविदुषामब्रह्मात्मकत्वेन तत्प्रतीत्यभिप्रायेण संख्या न यस्यास्तीत्युक्तम् । यद्वा यस्य जगतः अयथोपलम्भनात्संख्यापरिच्छेदो नास्ति अयथोपलम्भनात्साकल्येन उपलम्भनाभावात् “कोटिशो ह्यण्डराशयः” इति जगतोऽप्यानन्त्यादिति भावः । यद्वास्य जगतः अयथोपलम्भनादयथार्थत्वेनोपलम्भनात् मायार्पितत्वार्थस्वरूपत्वबहुरूपरूपितत्वभगवच्छरीरत्वादिव्यतिरेकेणोपलम्भनात् संख्या प्रकाशो नास्ति जगतः, उक्ताकारविपरीताकारोपलम्भो भ्रमरूप इत्यर्थः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

जरायुजं स्वेदजमण्डजोद‍्भिदं
चराचरं देवर्षिपितृभूतमैन्द्रियम्।
द्यौः खं क्षितिः शैलसरित्समुद्र-
द्वीपग्रहर्क्षेत्यभिधेय एकः॥

मूलम्

जरायुजं स्वेदजमण्डजोद‍्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियम्।
द्यौः खं क्षितिः शैलसरित्समुद्रद्वीपग्रहर्क्षेत्यभिधेय एकः॥ ३२ ॥

अनुवाद (हिन्दी)

एकमात्र आप ही जरायुज, स्वेदज, अण्डज, उद‍्भिज्ज, जंगम, स्थावर, देवता, ऋषि, पितृगण, भूत, इन्द्रिय, स्वर्ग, आकाश, पृथ्वी, पर्वत, नदी, समुद्र, द्वीप, ग्रह और तारा आदि विभिन्न नामोंसे प्रसिद्ध हैं॥ ३२॥

वीरराघवः

एवं विश्वरूपत्वमनन्तत्वञ्चोक्तं यतो विश्वरूपस्त्वमत एव द्यौःखमादिशब्दैः भवानेवाभिधीयत इत्याह जरायुजमिति । हे देव! चराचरभेदेन द्विविधं पुनर्जरायुजादिभेदेन चतुर्विधमेतज्जगत् तव विभूतिभेदं विभूतिविशेषरूपमित्यर्थः । अत एव द्यौःखमित्याद्येवमभिधेयस्त्वमेक एव द्यौरादिशब्दैरभिधीयमानस्त्वमेवेत्यर्थः “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि तत्सृष्ट्वा तदेवानुप्राविशत्तदनुप्रविश्य सच्चत्यञ्चाभवत्” इति श्रुत्युक्तविधया नामरूपतद्बुद्धीनां परमात्मपर्यन्तत्वसिद्धेः द्यौरादीनां परमात्मशरीरत्वाच्छरीरवाचिनां शब्दानां शरीरिपर्यन्ताभिधानस्य गवादिशुक्लादिजातिगुणादिशब्दानां व्यक्तिगुण्यादिपर्यन्ताभिधानवदाकृत्यधिकरणन्यायसिद्धत्वाच्च द्यौः खमित्येवं रूपेण त्वमेव वाच्यो बोध्यश्चेत्यभिप्रायः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

यस्मिन्नसंख्येयविशेषनाम-
रूपाकृतौ कविभिः कल्पितेयम्।
संख्या यया तत्त्वदृशापनीयते
तस्मै नमः सांख्यनिदर्शनाय ते इति॥

मूलम्

यस्मिन्नसंख्येयविशेषनामरूपाकृतौ कविभिः कल्पितेयम्।
संख्या यया तत्त्वदृशापनीयते तस्मै नमः सांख्यनिदर्शनाय ते इति॥ ३३ ॥

अनुवाद (हिन्दी)

आप असंख्य नाम, रूप और आकृतियोंसे युक्त हैं; कपिलादि विद्वानोंने जो आपमें चौबीस तत्त्वोंकी संख्या निश्चित की है—वह जिस तत्त्वदृष्टिका उदय होनेपर निवृत्त हो जाती है, वह भी वस्तुतः आपका ही स्वरूप है। ऐसे सांख्यसिद्धान्तस्वरूप आपको मेरा नमस्कार है’॥ ३३॥

वीरराघवः

एवमनन्तविविधविचित्रविभूतिमत्त्वमुक्तम् । ननु सङ्ख्या न यस्यास्तीत्यानन्त्यमुक्तं तदयुक्तं पृथिव्यादितत्त्वानां चतुर्विंशत्यादिसङ्ख्यावच्छिन्नत्वादत आह यस्मिन्निति । असङ्ख्येयान्यनन्तत्वात्परिच्छेत्तुमशक्यानि विशेषणानि विलक्षणानि देवादिनामानि रूपाणि चाकृतयश्च यस्य रूपशब्देन पृथिव्यादिद्रव्यं विवक्षितं तत्सङ्घातगतसङ्ख्यानमाकृतिशब्देन तद्वाचकशब्दो नामशब्देन विवक्षितः । असङ्ख्येया विशेषा येषामिति पूर्वत्र बहुव्रीहिः उक्तानि नामानि रूपाण्याकृतयश्च यस्येति वा एतादृशे प्रकृतिपुरुषकालशरीरकेऽसङ्ख्येयवैभवे त्वयि इयं चतुर्विंशतिः पञ्चविंशतिरित्यादिरूपा सङ्ख्या कविभिः कपिलादिभिः पृथिव्यादितत्त्वयाथात्म्यविद्भिः कल्पिता मन्दबुद्धीनां सुखग्रहणाय सङ्कल्प्य संगृह्य प्रदर्शिता । वस्तुतः पृथिव्यादीनामचेतनतत्त्वानामनन्तावान्तरभेदानां च चेतनानां च परमात्मनश्चानन्त्यादसङ्ख्येयत्वमेवेति भावः । एवं कल्पिता सङ्ख्या यया तत्त्वदृशा यद्विषयया तात्त्विकबुद्ध्यानन्तवैभवत्वयाथात्म्यबुद्ध्यापनीयते अपनुद्यतेऽसङ्ख्यातविभूतित्वात्तस्मै साङ्ख्यनिदर्शनाय संख्या बुद्धिर्व्यवसायात्मिका प्रकृतिपुरुषेश्वरयाथात्म्यविषया सैव साङ्ख्यं नितरां दृश्यतेऽनेनेति निदर्शनं यस्य साङ्ख्यज्ञानगम्यायेत्यर्थः । ननु भगवद्विभूतिभूतस्य जगत आनन्त्ये कथं भगवत्स्वरूपस्यानन्त्यं प्रकृतिपुरुषादिनिरूप्यं हि तस्यानन्त्यं प्रकृतिपुरुषपरत्वमेव न घटते नान्यथा, अत्रोच्यतेदेशकालवस्तुपरिच्छेदराहित्यरूपं हि तावदानन्त्यं तदेव त्रिविधमानन्त्यं परमात्मनि सुस्थम् । इदमत्रास्त्यत्र नास्तीदमिदानीमस्ति कल्पान्तरे नास्ति इति देशकालपरिच्छेदयोरभावादिदमिदं न भवतीति वस्तुपरिच्छेदस्यापि सर्ववस्तुसामानाधिकरण्याभावरूपस्याभावाद् ब्रह्मणः सर्वात्मकत्वेन सर्ववस्तुसमानाधिकृतित्वव्यपदेशविषयत्वात् जीवानां त्वणुपरिमाणविषयत्वेऽपि तेषामानन्त्याद्धर्मभूतज्ञानस्य संसारदशायां कर्मसङ्कुचितत्वेऽपि वस्तुतस्तदभावान्मुक्तिदशायाम् ‘स चानन्त्याय कल्पते’ इत्यानन्त्यश्रवणाद् ब्रह्मणोऽचेतनात्परत्वं जीवद्वारकतया “अनेन जीवेनात्मनानुप्रविश्य” इति श्रवणाज्जीवस्वरूपस्य नित्यत्वाच्च तेषामप्यानन्त्यं देशतः कालतश्चास्त्येव अचेतनस्यापि कारणावस्थायां निरतिशयसूक्ष्मदशापन्नत्वेऽपि कार्यावस्थायामानन्त्यमस्त्येव, तर्हि प्रकृतिपुरुषापेक्षया परमात्मन आनन्त्ये को विशेष इति चेदियांस्तु विशेषः-यत्कार्यावस्थायां कारणावस्थायाञ्च स्वरूपेण गुणैश्चानन्त्यमितरयोस्तु देशतः कालतश्च धर्मकृतं कालकृतं मुक्तावस्थाकार्यावस्थयोरिति । ननु ब्रह्मणः स्वरूपस्य सर्वात्मकत्वेन सर्ववस्तुसामानाधिकरण्यात्मकवस्त्वपरिच्छेदसत्त्वेऽपि कथं मद्गुणानां वस्त्वपरिच्छेद इति चेदेवं तर्हि वस्त्वपरिच्छेदः यद्गुणैर्निकर्षः तद्यथा दशवर्णस्वर्णापेक्षया नववर्णस्वर्णस्य पवित्रत्वोज्ज्वलत्वगुरुत्वादिभिर्गुणैर्निकर्षस्तदपेक्षया च कलधौतस्यैवं गुणैर्निकर्षाभावो वस्तुपरिच्छेदो बोध्यः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः कृतवराहरूप आस्ते तं तु देवी हैषा भूः सह कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति॥

मूलम्

उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः कृतवराहरूप आस्ते तं तु देवी हैषा भूः सह कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति॥ ३४ ॥

अनुवाद (हिन्दी)

उत्तर कुरुवर्षमें भगवान् यज्ञपुरुष वराहमूर्ति धारण करके विराजमान हैं। वहाँके निवासियोंके सहित साक्षात् पृथ्वीदेवी उनकी अविचल भक्तिभावसे उपासना करती और इस परमोत्कृष्ट मन्त्रका जप करती हुई स्तुति करती हैं—॥ ३४॥

वीरराघवः

अथोत्तरेषु कुरुषूपास्यादिकमाह उत्तरेष्विति । कृतं धृतं वराहरूपं येन तादृशो भगवान् षाण्ड्गुण्यपूर्णः यज्ञपुरुषः यज्ञशरीरकः तदाराध्यस्तत्फलदश्चास्ते । तं तु वराहरूपं भगवन्तमेषा भूर्देवी कुरुभिः कुरुवर्षस्थैः पुरुषैः सहास्खलितभक्तियोगेनाविच्छिन्नभक्तियोगेनोपधावत्यनुवर्त्तते भक्तियोगेनाराधयतीत्यर्थः । इमां वक्ष्यमाणां परमां श्रेष्ठामुपनिषदमावर्तयति जपति ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते॥

मूलम्

ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महा12ध्वरावयवाय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते॥ ३५ ॥

अनुवाद (हिन्दी)

‘जिनका तत्त्व मन्त्रोंसे जाना जाता है, जो यज्ञ और क्रतुरूप हैं तथा बड़े-बड़े यज्ञ जिनके अंग हैं—उन ओंकारस्वरूप शुक्लकर्ममय त्रियुगमूर्ति पुरुषोत्तम भगवान् वराहको बार-बार नमस्कार है’॥ ३५॥

वीरराघवः

ओं भगवच्छब्दार्थौ पूर्ववत् । मन्त्रतत्त्वलिङ्गाय मन्त्रप्रतिपाद्यं वस्तु तदेव लिङ्गं शरीरं यस्य । यद्वा मन्त्रतत्त्वस्य स्वरूपस्य लिङ्गं ज्ञापको यस्य मन्त्रतत्त्वे मन्त्रतत्प्रतिपादिते लिङ्गे शरीरे ज्ञापके वा यस्येति वा । यद्वा मन्त्रगतानि तत्त्वानि इन्द्राद्यर्थस्वरूपाणि तानि लिङ्गानि शरीराणि यस्य तस्मै यज्ञक्रतवे असोमकाः यागाः, यज्ञाः ससोमाः क्रतवः, तदुभयाय तदन्तरात्मत्वात्तदाराध्यत्वात्तत्फलदत्वाच्च तत्तादात्म्यं विवक्षितं, महान्तोऽध्वरा अवयवभूता यस्य यद्वाध्वरस्यावयवाः स्रकस्रुवेडादयः महान्तः अध्वरा अवयवाः स्रुगादयो यस्य स्रुगादिरूपेण यष्टृभिरनुसन्धेया यस्य तस्मै इत्यर्थः । तथा चोक्तं तृतीये “स्रुक्तुण्ड आसीत्स्रुव ईश नासयोरिडोदरे चमसाः कर्णरन्ध्रे” इत्यादिना महापुरुषाय “वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्” इति पुरुषसूक्तप्रतिपाद्यजगत्कारणत्वाद्यनन्तकल्याणमहागुणविशिष्टाय पुरुषाय सर्वान्तरात्मने कर्मशुक्लाय कर्मणा शुद्धाय विशुद्धाय विशुद्धकर्मणे संसृतिप्रतिभटकर्मणे इति यावन्न तु कर्मरहितायेत्यर्थः “सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः” इति देवमनुष्यादिसजातीयविजातीयाबन्धकसर्वकर्माश्रयत्वश्रवणात् “निष्क्रियं निष्कलम्” इत्यनेन बन्धककर्मानाश्रयत्वमुच्यते, त्रियुगाय कर्मशुक्लायापि त्रियुगाय षाड्गुण्यपूर्णाय त्रीणि युगानि ज्ञानशक्त्यादीनि यस्य तस्मै । यद्यपि भगवत इत्यनेनापि षाड्गुण्यपूर्णतोक्ता कर्मशुक्लायेत्यनेन क्रियाश्रयत्वकथनप्रयुक्तं जीवस्येवाज्ञानादिकं वारयितुं त्रियुगायेत्युक्तमतो न पौनरुक्त्यमरुणाय अरुणवर्णाय श्वेतवराहरूपत्वेऽपि चक्षुषोररुणवर्णत्वात्तदभिप्रायेणारुणायेत्युक्तं भवतीति मन्त्रार्थो ज्ञेयः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्विव जातवेदसम्।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थैर्नम ईरितात्मने॥

मूलम्

यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम्।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने॥ ३६ ॥

अनुवाद (हिन्दी)

‘ऋत्विज्गण जिस प्रकार अरणिरूप काष्ठखण्डोंमें छिपी हुई अग्निको मन्थनद्वारा प्रकट करते हैं, उसी प्रकार कर्मासक्ति एवं कर्मफलकी कामनासे छिपे हुए जिनके रूपको देखनेकी इच्छासे परमप्रवीण पण्डितजन अपने विवेकयुक्त मनरूप मन्थनकाष्ठसे शरीर एवं इन्द्रियादिको बिलो डालते हैं। इस प्रकार मन्थन करनेपर अपने स्वरूपको प्रकट करनेवाले आपको नमस्कार है॥ ३६॥

वीरराघवः

सर्वान्तरात्मत्वमुमुक्षूपास्यत्वादिकमनुसन्दधाना नमस्करोति यस्येति । कवयः प्रकृतिपुरुषेश्वरयाथात्म्यविदः यस्य विपश्चितः सर्वज्ञस्य तव विविधं पश्यच्चिद्विपश्चित् पृषोदरादित्वात् पश्यच्छब्दस्य स्थाने पकारादेशः “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति विपश्चिच्छन्दो ब्रह्मणि प्रयुक्तः, स्वरूपम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इतिलक्षणलक्षितं गुणेषु गुणपरिणामरूपेषु देवादिशरीरेन्द्रियसंसृष्टेषु भूतेषु क्रियार्थेगूढं क्रियार्थैः कर्मफलैगूढं तिरोहितं जीवसम्बन्धिक्रियाफलैस्तेषां गूढम् “तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्” इति जीवानां कर्मभिः परमात्मस्वरूपस्य तिरोहितत्व श्रवणात् दिदृक्षवो द्रष्टुं साक्षात्कर्तुमिच्छवः दारुषु जातवेदसमिव मध्ना विवेकसाधनेन मनसा मध्नन्ति विविञ्चते पञ्चविंशतितत्त्वेभ्यः पृथक्कृत्य पश्यन्तीत्यर्थः । दारुष्विव जातवेदसमित्यनेन दृष्टान्तेन सर्वान्तरात्मत्वयुक्तं दिदृक्षवः कवय इत्यनेनोपास्यत्वमुक्तमीक्षितात्मने कर्त्तरि क्तः ईश्वराय परमात्मने नमः । ईरितात्मन इति पाठे ईरिताः नियमिता आत्मानो जीवा यस्य तस्मै इत्यर्थः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुनिरीक्षितात्मने।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
र्निरस्तमायाकृतये नमो नमः॥

मूलम्

द्रव्यक्रियाहेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभिर्निरस्तमायाकृतये नमो नमः॥ ३७ ॥

अनुवाद (हिन्दी)

विचार तथा यम-नियमादि योगांगोंके साधनसे जिनकी बुद्धि निश्चयात्मिका हो गयी है—वे महापुरुष द्रव्य (विषय), क्रिया (इन्द्रियोंके व्यापार), हेतु (इन्द्रियाधिष्ठाता देवता), अयन (शरीर), ईश, काल और कर्ता (अहंकार) आदि मायाके कार्योंको देखकर जिनके वास्तविक स्वरूपका निश्चय करते हैं ऐसे मायिक आकृतियोंसे रहित आपको बार-बार नमस्कार है॥ ३७॥

वीरराघवः

गुणशब्दोपलक्षितचिदचिदात्मकजगदन्तरात्मत्वेन तद्वैलक्षण्यमुक्तं तदेव विशदयन्नमस्करोति द्रव्येति । अङ्गेत्यभिमुखीकरणं हे भगवन्नतिशयात्मबुद्धिभिरतिशयितात्मपरमात्मविषयबुद्धिमद्भिः पुरुषैरन्वीक्षया निपुणनिरूपणेन वस्तुतः परमार्थतः प्रकृतिपुरुषविलक्षणत्वेनेति यावत् निरीक्षितः आत्मा स्वरूपं यस्य निरस्तमायाकृतये निरस्ता मायाकृतिः प्रकृतिकार्यं यस्मात्तस्मै ते नमो नम इत्यन्वयः । कैः सह कुत्र निरीक्षणं तत्राह । द्रव्यं भूतपञ्चकं क्रियाक्रियाहेतुर्वागादिकर्मेन्द्रियमयनं ज्ञानेन्द्रियमीयतेऽनेनेति ज्ञानसाधनत्वाच्चक्षुरादेर्ज्ञानेन्द्रियस्य एषां समाहारद्वन्द्वः एतत्सङ्घातरूपे शरीरे सकर्तृभिः सपरिष्वञ्जकैः मायागुणैः सह निरीक्षितात्मने नमः । देहभूतेन्द्रियगुणत्रयजीवात्मभिः सह विविच्य निरीक्षितायेत्यर्थः । अनेन पूर्वश्लोके गुणपदं देवाद्यवस्थजीवोपलक्षणमित्यावेदितुम् अन्यथास्मिन् श्लोके जीवोपस्थापककर्तृपदासङ्गतिः स्पष्टैव । एवञ्च गुणपदेन देहमात्रमभिप्रेत्य तेषु जीवतादात्म्येन मथ्नन्तीति न भ्रमितव्यम् ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

करोति विश्वस्थितिसंयमोदयं
यस्येप्सितं नेप्सितमीक्षितुर्गुणैः।
माया यथाऽयो भ्रमते तदाश्रयं
ग्राव्णो नमस्ते गुणकर्मसाक्षिणे॥

मूलम्

करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितमीक्षितुर्गुणैः।
माया यथायो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे॥ ३८ ॥

अनुवाद (हिन्दी)

जिस प्रकार लोहा जड होनेपर भी चुम्बककी सन्निधिमात्रसे चलने-फिरने लगता है, उसी प्रकार जिन सर्वसाक्षीकी इच्छामात्रसे—जो अपने लिये नहीं, बल्कि समस्त प्राणियोंके लिये होती है—प्रकृति अपने गुणोंके द्वारा जगत‍्की उत्पत्ति, स्थिति और प्रलय करती रहती है; ऐसे सम्पूर्ण गुणों एवं कर्मोंके साक्षी आपको नमस्कार है॥ ३८॥

वीरराघवः

निरस्तमायाकृतय इत्यनेन मायाकार्यदोषप्रतिभटत्वमुक्तं तदुपपत्तये मायाया ईश्वरवश्यतामाह करोतीति । यो भगवान् यस्य प्रधानस्य गुणैः सत्त्वादिभिः प्रधानाभिप्रायेण यस्येति नपुंसकनिर्देशः विश्वस्य स्थितिसंयमोदयं स्थितिलयोदयं करोति, कथंभूतमीप्सितं धर्मार्थकाममोक्षार्थचतुष्टयस्य साधनोपयुक्तकरणकलेवरादिप्रदानेन जीवानुग्रहार्थत्वाज्जगत्सृष्ट्यादेस्तस्येप्सितत्वं जीवार्थत्वेनेप्सितमिति यावत्स्वार्थत्वेनानीप्सितमित्यर्थः, तस्मादीक्षितुः सङ्कल्परूपज्ञानवतस्तस्य ततः माया सत्त्वादिगुणात्मिका त्वच्छरीरभूता मायां यथा ग्राव्णोऽयस्कान्तात्तदाश्रयं तदभिमुखं सदयो लोहं भ्रमति तथा त्वत्सङ्कल्पानुगुणकारिणी भ्रमतीति भावः । यद्वा ईक्षितुः “तदैक्षत बहुस्यां प्रजायेय” इत्युक्तविधलक्षणवतः तस्य तव माया यस्येति षष्ठी शरीरशरीरिभावसम्बन्धे त्वच्छरीरभूता माया । यद्वा तादधीन्ये षष्ठी, दृष्टान्तस्य सामर्थ्यात्त्वदधीना माया त्वदाहितशक्तिर्विश्वस्य सृष्ट्यादि करोति इत्यर्थः । स्वतोऽशक्ता या कथमनुप्रवेशमात्रेण शक्तिमती स्यात्तत्राह । “यथायो भ्रमते तदाश्रयं ग्राव्ण” इति विश्वसृष्ट्यादिकर्तृत्वस्य परमात्मधर्मत्वेन माया करोतीत्युक्तमिति तदुच्यते भगवदवताररूपाणां ब्रह्मादीनां सृष्ट्यादिकर्तृत्वस्य रजआदिमायागुणप्राचुर्यप्रयुक्तत्वान्माया विश्वसृष्ट्यादिकं करोतीत्युक्तमिति नेप्सितमित्यनेन विश्वस्थित्यादिकं न भगवतो भोगार्थमित्युक्तम् । ईप्सितमित्यनेन जीवानुग्रहार्थं चेति सूचितम् । ननु विश्वस्थित्यादिकं न जीवानुग्रहार्थं किन्तु गर्भजन्मजरामरणादिदुःखहेतुत्वेन जीवनिग्रहार्थमेव स्यात् । किञ्च हितकरणहिताकरणादिप्रयुक्तवैषम्यनैघृण्यं च भगवतः प्रसज्येत तत्राह । नमस्ते गुणकर्मसाक्षिण इति गुणानां मायागुणानां सत्त्वादीनां कर्मणां पुण्यपापरूपाणां चादृष्टादीनां साक्षिणे साक्षाद् द्रष्ट्रे ते नमः जीवगुणकर्मानुसारित्वात् हिताकरणादेर्न वैषम्यनैर्धृण्यदोषप्रसक्तिरिति भावः । तथा च सूत्रम् “वैषम्यनैर्घृण्ये न सापेक्षत्वात्, न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च” इति । अयं भावः-भगवान् जगदादौ स्वस्मिन्नुपसंहृतचिदचित्तत्त्वः सर्वज्ञः सर्वशक्तिः परमकारुणिकोऽवाप्तसमस्तकामः स्वस्मिन् प्रलीनमसत्कल्पं चेतनवर्गमालोक्य सर्वेषां सामान्येन धर्मादिपुरुषार्थसाधनत्वाराधनोपयुक्तकरणकलेवराणि प्रदायाराधनप्रकारावबोधि वेदाख्यं शास्त्र च प्रदर्श्य स्वयं जगत्सृष्ट्यादिलील आस्ते । ततस्ते जीवाः करणकलेवराणि परिगृह्य प्राचीनकर्मवासनानुसारेण साध्वसाधुकर्माणि कुर्वन्तः स्वस्वकर्मानुसारेण ईश्वरादिष्टं फलं भुञ्जते इति नेश्वरस्य वैषम्यादिप्रसक्तिरिति ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

प्रमथ्य दैत्यं प्रतिवारणं मृधे
यो मां रसाया जगदादिसूकरः।
कृत्वाग्रदंष्ट्रे निरगादुदन्वतः
क्रीडन्निवेभः प्रणतास्मि तं विभुमिति॥

मूलम्

प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसा13या जगदादिसूकरः।
कृ14त्वाग्रदंष्ट्रे निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुमिति॥

अनुवाद (हिन्दी)

आप जगत‍्के कारणभूत आदिसूकर हैं। जिस प्रकार एक हाथी दूसरे हाथीको पछाड़ देता है, उसी प्रकार गजराजके समान क्रीडा करते हुए आप युद्धमें अपने प्रतिद्वन्द्वी हिरण्याक्ष दैत्यको दलित करके मुझे अपनी दाढ़ोंकी नोकपर रखकर रसातलसे प्रलयपयोधिके बाहर निकले थे। मैं आप सर्वशक्तिमान् प्रभुको बार-बार नमस्कार करती हूँ’॥ ३९॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोश15वर्णनं नामाष्टादशोऽध्यायः॥ १८ ॥

वीरराघवः

प्रकृतावतारचरित्रं वदन्ती नमस्करोति प्रमथ्येति । यो जगतामादिः कारणभूतः सूकरः मां पृथ्वीं दंष्ट्राग्रे कृत्वा निधाय रसातलादारभ्य उदन्वतः प्रलयार्णवादिभो गज इव निरगात्ततश्च प्रतिवारणं प्रतिगजतुल्यं दैत्यं हिरण्याक्षं प्रमथ्य हत्वा क्रीडन् स्थितः तं विभुं प्रणतास्मि ॥ ३९ ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकायाम् अष्टादशोऽध्यायः ॥ १८ ॥


  1. विदन्ति । ↩︎

  2. माययाऽऽशु विस्मितं । ↩︎

  3. वस्तुनि । ↩︎

  4. व्यवधानमनन्यभक्ति । ↩︎

  5. शयान् तमो ग्रस ॐ । ↩︎

  6. भूयिष्टाः क्षौम् । ↩︎

  7. ज्ञातुं न शेकु । ↩︎

  8. हिरण्मये तु । ↩︎

  9. पितॄणां गणाधिपति । ↩︎

  10. तत्त्वगुण । ↩︎

  11. तं ह्यथत्वरूपं । ↩︎

  12. महाध्वराय । ↩︎

  13. रसायां । ↩︎

  14. हृत्वोग्रदंष्ट्रे । ↩︎

  15. कोशानुवर्णनं । ↩︎