१७

[सप्तदशोऽध्यायः]

भागसूचना

गंगाजीका विवरण और भगवान् शंकरकृत संकर्षणदेवकी स्तुति

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्‍गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद‍्भगवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः॥

मूलम्

तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्‍गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद‍्भगवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! जब राजा बलिकी यज्ञशालामें साक्षात् यज्ञमूर्ति भगवान् विष्णुने त्रिलोकीको नापनेके लिये अपना पैर फैलाया, तब उनके बायें पैरके अँगूठेके नखसे ब्रह्माण्डकटाहका ऊपरका भाग फट गया। उस छिद्रमें होकर जो ब्रह्माण्डसे बाहरके जलकी धारा आयी, वह उस चरणकमलको धोनेसे उसमें लगी हुई केसरके मिलनेसे लाल हो गयी। उस निर्मल धाराका स्पर्श होते ही संसारके सारे पाप नष्ट हो जाते हैं, किन्तु वह सर्वथा निर्मल ही रहती है। पहले किसी और नामसे न पुकारकर उसे ‘भगवत्पदी’ ही कहते थे। वह धारा हजारों युग बीतनेपर स्वर्गके शिरोभागमें स्थित ध्रुवलोकमें उतरी, जिसे ‘विष्णुपद’ भी कहते हैं॥ १॥

वीरराघवः

एवं जम्बूद्वीपपर्वतवर्षतत्परिमाणादिकमभिधायाथ गङ्गागमनकथनपूर्वकमिलावृतादिवर्षेषु रुद्रादीनां संकर्षणादिभगवन्मूर्त्युपासनाप्रकारमुपद्वीपविन्यासं चाह सप्तदशादित्रिभिरध्यायैः तत्र भगवत इति । यज्ञस्य लिङ्गस्य यज्ञमूर्तेस्तत्र भगवतः पूज्यस्य विष्णोर्वामनरूपस्य विक्रमतस्त्रिलोकी पादत्रयेण क्रममाणस्य सतः तस्य वामपादाङ्गुष्ठनखेन निर्भिन्नमूर्ध्वमुपरिभागो यस्य तस्याण्डकटाहस्य विवरेण रन्ध्रेणान्तः प्रविष्टा या बाह्यजलधारा सातिमहता कालेन दिवो मूर्द्धन्यवततारेत्यन्वयः । जलधारां विशिनष्टि तस्य त्रिविक्रमस्य यच्चरणपङ्कजं तस्यावनेजनेन क्षालनेनारुणं कुङ्कुमं तदेव किञ्जल्कास्तैरुपरञ्जिता एवाखिलस्य जगतोऽघं पापमेव मलं तदपहं निवर्तकमुपस्पर्शनं जलं यस्याः सा तत्र हेतुरमला स्वरूपतो दुरितनिरसनक्षमा यद्वा अखिलजगद्घमलापहोपस्पर्शनाप्यमला अन्तरमलसङ्गशून्या साक्षाद्भगवत्पदीति यदनुपलक्षितं जाह्नवीभागीरथीत्याद्युपलक्षणान्तररहितं वचो नामधेयं तेनाभिधीयमाना भूस्पर्शनात्पूर्वं जाह्नव्यादिनामान्तररहिता तथा केवलं भगवत्पदीति नामधेयेनाभिधीयमानेत्यर्थः । कोऽसौ दिवो मूर्द्धा यत्रावतीर्णा तत्राह यत्तदिति । यद्विष्णुपदमाहुस्तत्रेत्यर्थः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवनमुत्कृष्यमाणभगवद‍्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्‍मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलकोऽधुनापि परमादरेण शिरसा बिभर्ति॥

मूलम्

यत्र1 ह वाव वीरव्रत औत्तानपादिः परमभागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवनमुत्कृष्यमाणभगवद‍्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयु2गलकुड्‍मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलकोऽधुनापि परमादरेण शिरसा बिभर्ति॥ २ ॥

अनुवाद (हिन्दी)

वीरव्रत परीक्षित्! उस ध्रुवलोकमें उत्तानपादके पुत्र परम भागवत ध्रुवजी रहते हैं। वे नित्यप्रति बढ़ते हुए भक्तिभावसे ‘यह हमारे कुलदेवताका चरणोदक है’ ऐसा मानकर आज भी उस जलको बडे़ आदरसे सिरपर चढ़ाते हैं। उस समय प्रेमावेशके कारण उनका हृदय अत्यन्त गद‍्गद हो जाता है, उत्कण्ठावश बरबस मुँदे हुए दोनों नयनकमलोंसे निर्मल आँसुओंकी धारा बहने लगती है और शरीरमें रोमांच हो आता है॥ २॥

वीरराघवः

किन्तद्विष्णुपदं तत्राह यत्रेति । ध्रुवमण्डले इत्यर्थः । यत्र दिवो मूर्द्धनि वीरव्रतः दृढसङ्कल्पः भागवतश्रेष्ठः औत्तानपादिः ध्रुवः अस्मत्कुलदेवताया भगवतः चरणारविन्दोदकमिति हेतोः परमादरेण यां धारामनुसवनं त्रिकालं शिरसाऽद्यापि बिमर्तीत्यन्वयः । यद्वा अनुसवनं प्रतिक्षणं वर्द्धमानो यो भगवद्भक्तियोगः तेन दृढमत्यन्तं क्लिद्यमानं प्रीयमाणमन्तःकरणं यस्यात एवौत्कंठ्येन विवशमामीलितं च यल्लोचनयुगलं तदेव कुड्मले ताभ्यां विगलितममलं बाष्पं तस्य कलया सहाभिव्यज्यमानं रोमपुलकानां कुलं यस्य तथाभूतः सन्नित्यर्थः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

ततः सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमानमद्यापि जटाजूटैरुद्वहन्ति॥

मूलम्

ततः सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमानमद्यापि जटाजूटैरुद्वहन्ति॥ ३ ॥

अनुवाद (हिन्दी)

इसके पश्चात् आत्मनिष्ठ सप्तर्षिगण उनका प्रभाव जाननेके कारण ‘यही तपस्याकी आत्यन्तिक सिद्धि है’ ऐसा मानकर उसे आज भी इस प्रकार आदरपूर्वक अपने जटाजूटपर वैसे ही धारण करते हैं, जैसे मुमुक्षुजन प्राप्त हुई मुक्तिको। यों ये बडे़ ही निष्काम हैं; सर्वात्मा भगवान् वासुदेवकी निश्चल भक्तिको ही अपना परम धन मानकर इन्होंने अन्य सभी कामनाओंको त्याग दिया है, यहाँतक कि आत्मज्ञानको भी ये उसके सामने कोई चीज नहीं समझते॥ ३॥

वीरराघवः

ततः सप्तर्षयः तस्या गङ्गायाः प्रभावाभिज्ञाः सन्तो नोऽस्माकं तपः सिद्धिफलमियं विष्णुपदी सैवैतावती इतोऽधिका नास्तीत्येवं मन्वाना अद्यापि बहुमानं जटा एव मुकुटानि तैरुद्वहन्तीत्यन्वयः । तत्र दृष्टान्तः मुमुक्षवो मुक्तिमिवागताम् इति । तत्र हेतुः सर्वात्मनि भगवति वासुदेवेऽविच्छिन्नभक्तियोगलाभेनैव उपेक्षिता अनादृता अन्यपुरुषार्था अर्थकामादय आत्मगतिः कैवल्यं च यैस्त इति सप्तर्षिविशेषणम् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

ततोऽनेकसहस्रकोटिविमानानीक सङ्कुलदेवयानेनावतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति॥

मूलम्

ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतर3न्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति॥

अनुवाद (हिन्दी)

वहाँसे गंगाजी करोड़ों विमानोंसे घिरे हुए आकाशमें होकर उतरती हैं और चन्द्रमण्डलको आप्लावित करती मेरुके शिखरपर ब्रह्मपुरीमें गिरती हैं॥ ४॥

वीरराघवः

ततोऽनेकसहस्रकोटीनां विमानानामनीकैः संघैः संकुलितेन देवयानेनाकाशमार्गेणावतरन्त्यधः प्रस्रवन्तीन्दुमण्डलमावार्य्याप्लाव्य मेरुमूर्द्धस्थे ब्रह्मसदने निपतति ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति सीतालकनन्दा चक्षुर्भद्रेति॥

मूलम्

तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवाभिनि4विशति सीतालकनन्दा चक्षुर्भद्रेति॥ ५ ॥

अनुवाद (हिन्दी)

वहाँ ये सीता, अलकनन्दा, चक्षु और भद्रा नामसे चार धाराओंमें विभक्त हो जाती हैं तथा अलग-अलग चारों दिशाओंमें बहती हुई अन्तमें नद-नदियोंके अधीश्वर समुद्रमें गिर जाती हैं॥ ५॥

वीरराघवः

तत्र चतुर्द्धा विभज्यमाना सीतादिसंज्ञाश्चतस्रो धारा भूत्वा सीतादिनामभिरभिधीयमाना चतुर्दिशं नदनदीपतिं समुद्रमेवाभिनिविशति समुद्रे प्रविशति “अभिनिविशश्च” इत्याधारस्य कर्मसंज्ञायां द्वितीया । नामान्याह सीतेति ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽधः प्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति॥

मूलम्

सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽधः प्रस्रवन्ती गन्धमादनमूर्धसु5 पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति॥ ६ ॥

अनुवाद (हिन्दी)

इनमें सीता ब्रह्मपुरीसे गिरकर केसराचलोंके सर्वोच्च शिखरोंमें होकर नीचेकी ओर बहती गन्धमादनके शिखरोंपर गिरती है और भद्राश्ववर्षको प्लावित कर पूर्वकी ओर खारे समुद्रमें मिल जाती है॥ ६॥

वीरराघवः

तत्र चतसृणां धाराणां मध्ये सीता प्राचीना धारा ब्रह्मसदनात्केसरादिशिखरेभ्यः केसराचलादीनि मेरुसमानोच्छ्रायत्वात्प्रथमं तेषामादिशिखरेषु मुख्यशृङ्गेषु पतति ततस्तेभ्योऽधोऽधः प्रस्रवन्ती गन्धमादनस्य मूर्द्धसूपरिभागे पतित्वान्तरेण भद्राश्ववर्षं भद्राश्ववर्षस्य मध्ये च स्यन्दमाना प्राच्यां दिशि क्षारसमुद्रे प्रविशति ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति॥

मूलम्

एवं माल्यवच्छिखरान्नि6ष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति॥ ७ ॥

अनुवाद (हिन्दी)

इसी प्रकार चक्षु माल्यवान् के शिखरपर पहुँचकर वहाँसे बेरोक-टोक केतुमालवर्षमें बहती पश्चिमकी ओर क्षारसमुद्रमें जा मिलती है॥ ७॥

वीरराघवः

तथा चक्षुःसंज्ञा प्रतिचीना धारा माल्यवच्छिखरे निपतित्वा ततोऽधः प्रस्रवन्ती अनुपरतः अप्रतिहतो वेगो यस्याः सा केतुमालं वर्षमभितो व्याप्य केतुमालस्य मध्ये स्रवन्तीत्यर्थः । प्रतीच्यां दिशि सरिताम्पतिं समुद्रं प्रविशति आधारस्यैव कर्मत्वविवक्षयात्र द्वितीया । एवमुत्तरत्राप्यभिनिविशश्चेत्यत्रोपसर्गसङ्घातपूर्वत्वस्यैव विवक्षितत्वात् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद‍्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति॥

मूलम्

भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद‍्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां7 दिशि जलधिमभिप्रविशति॥ ८ ॥

अनुवाद (हिन्दी)

भद्रा मेरुपर्वतके शिखरसे उत्तरकी ओर गिरती है तथा एक पर्वतसे दूसरे पर्वतपर जाती अन्तमें शृंगवान् के शिखरसे गिरकर उत्तरकुरु देशमें होकर उत्तरकी ओर बहती हुई समुद्रमें मिल जाती है॥ ८॥

वीरराघवः

तथा भद्रासंज्ञा धारा उत्तरतो मेरुशिखरान्निपतन्ती गिरिशिखरात्कुमुदशिखरादुञ्चलितोर्ध्वं गच्छन्ती नीलशिखरमुञ्चलिता चेत् पर्वतस्य शिखरमतिहायास्पृष्ट्वैव शृङ्गवतः पर्वतस्य शृङ्गे पतित्वा ततोऽधः स्यन्दमाना उत्तरान् कुरूनभितो व्याप्य उदीच्यां दिशि लवणार्णवं प्रविशति ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद‍्बहूनि गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यतिरभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षिणस्यां दिशि जलधिमभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदेऽश्वमेधराजसूयादीनां फलं न दुर्लभमिति॥

मूलम्

तथैवालकनन्दा 8दक्षिणेन ब्रह्मसदनाद‍्बहूनि गिरिकूटान्यतिक्र9म्य हेमकूटाद्धैमकूटान्यतिरभसतररंहसा लुठयन्ती 10भारतमभिवर्षं दक्षिणस्यां दिशि 11जलधिमभिप्रविशति यस्यां12 स्नानार्थं चागच्छतः पुंसः पदे पदेऽश्वमेधराजसूयादीनां फलं न दुर्लभमिति॥ ९ ॥

अनुवाद (हिन्दी)

अलकनन्दा ब्रह्मपुरीसे दक्षिणकी ओर गिरकर अनेकों गिरिशिखरोंको लाँघती हेमकूट पर्वतपर पहुँचती है, वहाँसे अत्यन्त तीव्र वेगसे हिमालयके शिखरोंको चीरती हुई भारतवर्षमें आती है और फिर दक्षिणकी ओर समुद्रमें जा मिलती है। इसमें स्नान करनेके लिये आनेवाले पुरुषोंको पद-पदपर अश्वमेध और राजसूय आदि यज्ञोंका फल भी दुर्लभ नहीं है॥ ९॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो मेर्वादिगिरिदुहितरः शतशः॥

मूलम्

अन्ये च नदा नद्यश्च वर्षे वर्षे13 सन्ति बहुशो मेर्वादिगिरिदुहितरः शतशः॥ १० ॥

अनुवाद (हिन्दी)

प्रत्येक वर्षमें मेरु आदि पर्वतोंसे निकली हुई और भी सैकड़ों नद-नदियाँ हैं॥ १०॥

वीरराघवः

तथैवालकनन्दासंज्ञा धारा मेरौ ब्रह्मसदनादक्षिणतः स्रवन्ती बहूनि गिरिशिखराण्यतिक्रम्य मध्यस्थपर्वतशिखराण्यस्पृष्ट्वैव हेमकूटहिमवत्कूटानि हेमकूटहिमवत्पर्वतयोः शृङ्गाण्यतिरभसतररंहसाविस्खलितवेगेन लुठन्ती भिन्दन्ती भारतं वर्षमभिव्याप्य दक्षिणस्यां दिशि समुद्रमनुप्रविशति । अन्ये च नदा नद्यश्च अन्ये चान्याश्चान्ये “पुमान् स्त्रिया” इत्येकशेषः, मेर्वादिगिरीणां दुहितरः तत्प्रसूता वर्षे शतशः सन्ति ॥ ९-१० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति॥

मूलम्

तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति॥ ११ ॥

अनुवाद (हिन्दी)

इन सब वर्षोंमें भारतवर्ष ही कर्मभूमि है। शेष आठ वर्ष तो स्वर्गवासी पुरुषोंके स्वर्गभोगसे बचे हुए पुण्योंको भोगनेके स्थान हैं। इसलिये इन्हें भूलोकके स्वर्ग भी कहते हैं॥ ११॥

वीरराघवः

तत्रापि जम्बूद्वीपेऽपि भारतं वर्षमेव कर्मक्षेत्रं कर्मणां सुखदुःखनिमित्तानां पुण्यापुण्यरूपाणां क्षेत्रमनुष्ठानस्थानं व्यपदिशन्तीत्युत्तरेणान्वयः । अन्यानि त्वष्टौ वर्षाणि स्वर्गिणां पुण्यकर्मणां पुण्यशेषस्य भुक्तावशिष्टस्य पुण्यकर्मण उपभोगस्थानान्यत एव भौमानि स्वर्गपदानि व्यपदिशन्ति न तु तानि पुण्यापुण्यकर्मक्षेत्राणीत्यर्थः । नन्वत्र केवलेष्टापूर्तदत्तकर्मकारिणां धूमादिना पितृयानेन पथा चन्द्रमसं गतानां तत्र सुखानुभवक्षीणपुण्यकर्मणां पुनरत्रागमनं श्रुतं “यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्त इति सम्पतन्त्यनेन स्वर्गं लोकमि"ति संपातः कर्मोच्यते श्रुत्यन्तरं च ‘प्राप्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे’ इति पुण्यापुण्यकर्मानुष्ठानायेत्यर्थः । तत्कथं पुण्यशेषावस्थानं कथन्तरां तेषां तद्भोगस्थानत्वम् । उच्यते, तावदवश्यं भोगावशिष्टानामनुष्यफलानामकृतप्रायश्चित्तानां कर्मणां सद्भावो वक्तव्यः । अन्यथेह कर्मनिमित्तस्य जन्मनोऽसम्भवात्पुनरवरोहणानुपपत्तेः । तथा च श्रूयते “रमणीयचरणा रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं क्षत्रिययोनिं वैश्ययोनि वा” इति स्मृतिरपि “वर्णाश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टतरजातिकुलरूपायुः श्रुतवित्तसुखमेधसो जन्म प्रतिपद्यन्ते” इति एवं च भुक्तावशिष्टेन पुण्येन कर्मणातिशयविशिष्टभोगार्थं तद्देशेषुत्पत्तिः सम्भवतीति ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुन व्यवायापवर्गवर्षधृतैकगर्भकलत्राणां तत्र तु त्रेतायुगसमः कालो वर्तते॥

मूलम्

एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भकलत्राणां तत्र तु त्रेतायुगसमः कालो वर्तते॥ १२ ॥

अनुवाद (हिन्दी)

वहाँके देवतुल्य मनुष्योंकी मानवी गणनाके अनुसार दस हजार वर्षकी आयु होती है। उनमें दस हजार हाथियोंका बल होता है तथा उनके वज्रसदृश सुदृढ़ शरीरमें जो शक्ति, यौवन और उल्लास होते हैं—उनके कारण वे बहुत समयतक मैथुन आदि विषय भोगते रहते हैं। अन्तमें जब भोग समाप्त होनेपर उनकी आयुका केवल एक वर्ष रह जाता है, तब उनकी स्त्रियाँ गर्भ धारण करती हैं। इस प्रकार वहाँ सर्वदा त्रेतायुगके समान समय बना रहता है॥ १२॥

वीरराघवः

तान्यष्टौ वर्षाणि वर्णयति येष्विति यत्र हेति च गद्यद्वयेन । येष्विति येष्वष्टसु वर्षेषु पुरुषाणां त्रेतायुगसमः कालो वर्तते सुखोत्कर्षात् त्रेतायुगसाम्यमुक्तं कृतयुगे हि सर्वे ध्याननिष्ठाः द्वापरादौ तु दुःखबहुलाः कथम्भूतानां देवतुल्यानां नागायुतबलानां पुरुषाणामयुतं पुरुषमानेनायुर्वर्षाणि येषां वज्रवद् दृढं संहननं शरीरं तस्मिन् बलवयोमोदास्तैः प्रमुदितानि यानि महान्ति सौरतानि येषां तानि मिथुनानि तेषां व्यवायापवर्गेऽलंभोगावसाने एकवर्षावशिष्टे आयुषि धृत एको गर्भो यैस्तादृशानि कलत्राणि येषाम् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहितमहार्हणाः सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमानविटपलताविटपिभिरुपशुम्भमानरुचिरकाननाश्रमायतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्‍कुटकारण्डवसारसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडादिभिर्विचित्रविनोदैः सुललितसुरसुन्दरीणां कामकलिलविलासहासलीलावलोकाकृष्टमनोदृष्टयः स्वैरं विहरन्ति॥

मूलम्

यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहितमहार्हणाः सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमानविटपलताविटपिभिरुपशुम्भमानरु14चिरकाननाश्रमायतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोद15मुदितराजहंसजलकुक्‍कुटकारण्डवसारसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडादिभिर्विचित्रविनोदैः सुललितसुरसुन्दरीणां कामकलिलविलासहासलीलावलोका16कृष्टमनोदृष्टयः स्वैरं विहरन्ति॥ १३ ॥

अनुवाद (हिन्दी)

वहाँ ऐसे आश्रम, भवन और वर्ष, पर्वतोंकी घाटियाँ हैं जिनके सुन्दर वन-उपवन सभी ऋतुओंके फूलोंके गुच्छे, फल और नूतन पल्लवोंकी शोभाके भारसे झुकी हुई डालियों और लताओंवाले वृक्षोंसे सुशोभित हैं; वहाँ निर्मल जलसे भरे हुए ऐसे जलाशय भी हैं; जिनमें तरह-तरहके नूतन कमल खिले रहते हैं और उन कमलोंकी सुगन्धसे प्रमुदित होकर राजहंस, जलमुर्ग, कारण्डव, सारस और चकवा आदि पक्षी तरह-तरहकी बोली बोलते तथा विभिन्न जातिके मतवाले भौंरे मधुर-मधुर गुंजार करते रहते हैं। इन आश्रमों, भवनों, घाटियों तथा जलाशयोंमें वहाँके देवेश्वरगण परम सुन्दरी देवांगनाओंके साथ उनके कामोन्मादसूचक हास-विलास और लीला-कटाक्षोंसे मन और नेत्रोंके आकृष्ट हो जानेके कारण जलक्रीडादि नाना प्रकारके खेल करते हुए स्वच्छन्द विहार करते हैं तथा उनके प्रधान-प्रधान अनुचरगण अनेक प्रकारकी सामग्रियोंसे उनका आदर-सत्कार करते रहते हैं॥ १३॥

वीरराघवः

यत्र वर्षे देवपतयः देवश्रेष्ठाः स्वैः स्वैः सेवकगणानां नायकैः विहितमहार्हणाः कृतमहोपचाराः सन्तः स्वैरं विहरन्तीत्यन्वयः । एतेषु स्थानेषु सर्वेषु सत्सु कुसुमस्तबकादीनां श्रिया समृद्ध्यात्यन्तं नम्यमानाः प्रह्णीभूताः शाखा लताश्च येषां तैर्विटपिभिर्वृक्षैरुपशोभमानानि रुचिराणि काननानि येषु तेष्वाश्रमायतनेषु गिरिद्रोणीषु च तिर्यगन्तरान्तर्भूमिषु तथामलेषु जलाशयेषु च विकचानि विविधानि नवानि वनरुहाणि नीरजानि तेषामामोदेन प्रमुदितै राजहंसादिभिर्मधुकराणां चाकृतिभिः जातिविशेषैरुपकूजितेषु सत्सु तेषु जलक्रीडायां ये विविधा विनोदास्तैः सुललितानामतिसुन्दरीणां सुरस्त्रीणां कामेन कलिलैः क्षुभितैः विलासादिभिराकृष्टं मनो दृष्टिश्च येषाम् एवम्भूताः सन्तः स्वेच्छापूर्वकं विहरन्तीत्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

नवस्वपि वर्षेषु भगवान्नारायणो महापुरुषः पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि संनिधीयते॥

मूलम्

नवस्वपि वर्षेषु भगवान्नारायणो महापुरुषः पुरुषाणां तदनुग्रहायात्मतत्त्वव्यू17हेनात्मनाद्यापि संनिधीयते॥ १४ ॥

अनुवाद (हिन्दी)

इन नवों वर्षोंमें परमपुरुष भगवान् नारायण वहाँके पुरुषोंपर अनुग्रह करनेके लिये इस समय भी अपनी विभिन्न मूर्तियोंसे विराजमान रहते हैं॥ १४॥

वीरराघवः

इलावृतादिषु नवस्वपि वर्षेषु भगवान्नारायणः महापुरुषेण तत्तद्वर्षपतिना सेव्यमानः पुरुषाणां तत्तद्वर्षपुरुषाणां वक्ष्यमाणानुग्रहाय पुरुषाननुग्रहीतुमात्मतत्त्वव्यूहेनात्मना विगत ऊहस्तर्कः व्यूह आत्मतत्त्वस्य जीवतत्त्वस्य व्यूहो यस्मिंस्तेन जीवैर्दृष्टवस्तुसजातीयत्वेन चिन्तयितुमशक्येनात्मनेत्यर्थः । यद्वा आत्मनः स्वात्मनः तत्त्वं तस्य भावस्तत्त्वं कल्याणगुणास्तेषां व्यूहः समूहो यस्य तेनात्मना समस्तकल्याणगुणविशिष्टेनात्मनेत्यर्थः । न त्वात्मतत्त्वव्यूहेन सङ्कर्षणादिरूपेणेत्यर्थः । हरिवर्षादिषूपास्यानां नरहर्यादिरूपाणां विभवत्वेन व्यूहत्वाभावात् नवस्वपि वर्षेष्वित्यनेन सह विरोधापत्तेः, सन्निधीयते सन्निहितो भवतीत्यर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

इलावृते तु भगवान् भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि॥

मूलम्

इलावृते तु भगवान् भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि18॥ १५ ॥

अनुवाद (हिन्दी)

इलावृतवर्षमें एकमात्र भगवान् शंकर ही पुरुष हैं। श्रीपार्वतीजीके शापको जाननेवाला कोई दूसरा पुरुष वहाँ प्रवेश नहीं करता; क्योंकि वहाँ जो जाता है, वही स्त्रीरूप हो जाता है। इस प्रसंगका हम आगे (नवम स्कन्धमें) वर्णन करेंगे॥ १५॥

वीरराघवः

तत्रेलावृतादिषु क्रमेणोपास्यमानरूपं तदुपासकं चाह इलावृते वर्षे भगवान् भवो रुद्र एवैकः पुरुषो वसति नापरः पुरुषस्तत्र वसति । तत्र हेतुः भवान्याः शापरूपं यन्निमित्तं स्त्रीत्वनिमित्तं तज्जानातीति तथा भवान्याः शापनिमित्तज्ञोऽपरः पुरुषस्तत्र न वसति यदि शापमजानन्नपि तत्र प्रविशति तर्हि स्त्रीत्वमाप्नोतीत्याह । यत्प्रविष्टस्य यत्रेलावृते प्रविष्टस्य स्त्रीभाव आपद्यते तत्र प्रविष्टस्य स्त्रीत्वनिमित्तं शापरूपं पश्चान्नवमस्कन्धे वक्ष्यामीत्यर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मसमाधिरूपेण संनिधाप्यैतदभिगृणन् भव उपधावति॥

मूलम्

भवानीनाथैः स्त्रीगणार्बुदसहस्रै19रवरुध्यमानो भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मसमाधिरूपेण संनिघाप्यैतदभिगृणन् भव उपधावति॥ १६ ॥

अनुवाद (हिन्दी)

वहाँ पार्वती एवं उनकी अरबों-खरबों दासियोंसे सेवित भगवान् शंकर परम पुरुष परमात्माकी वासुदेव, प्रद्युम्न, अनिरुद्ध और संकर्षणसंज्ञक चतुर्व्यूह-मूर्तियोंमेंसे अपनी कारणरूपा संकर्षण नामकी तमःप्रधान चौथी मूर्तिका ध्यानस्थित मनोमय विग्रहके रूपमें चिन्तन करते हैं और इस मन्त्रका उच्चारण करते हुए इस प्रकार स्तुति करते हैं*॥ १६॥

पादटिप्पनी
  • भगवान‍्का विग्रह शुद्ध चिन्मय ही है परन्तु संहार आदि तामसी कार्योंका हेतु होनेसे इसे तामसी मूर्ति कहते हैं।
वीरराघवः

तत्र भवानी रुद्राणी नाथा स्वामिनी ईश्वरी येषां तैः स्त्रीणामर्बुदसहस्रैरवरुध्यमानः सेव्यमानः भवो रुद्रः भवानीनाथ इति पृथक्पदं भवविशेषणं वा अनेन भवानीसामीप्यं विवक्षितम् । आत्मनः स्वस्य प्रकृतिं कारणभूतां चतुर्मूर्तेर्वासुदेवादिरूपेणावस्थितस्य भगवतो महापुरुषस्य सङ्कर्षणसंज्ञां तुरीयां मूत्तिरूपामित्यर्थः । वासुदेवप्रद्युम्नानिरुद्धसङ्कर्षणक्रमविवक्षया तुरीयामित्युक्तं क्रमानादरणात् तामसीं तमोऽधिष्ठात्रीं तमःशब्देनात्र प्रधानं विवक्षितम् “तम आसीत्तमसा गूढमग्रे प्रकेतम् अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते” इति प्रयोगात् ज्ञानावरणाञ्च तमसो नियन्त्रीमित्यर्थः, आत्मनि चित्ते समाधिरेव रूपमाकारो यस्य तेन उपायेनेति शेषः, सन्निधाप्य साक्षात्कृत्य एतद्वक्ष्यमाणं मन्त्रात्मकं वाक्यमनुगृणन् जपन्नुपधावति स्तौति भज इत्यादिभिरित्यर्थः ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति॥

मूलम्

ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति॥ १७ ॥

वीरराघवः

जप्यमन्त्रमाह ओं नम इति । ओमिति ब्रह्मणो निर्देशः “ओं तत्सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः” इति वचनात्स्वव्यतिरिक्तं चिदचिदात्मकं सर्वं जगन्नित्यविभूर्ति च स्वशेषतया स्वभावेनैव स्वीकृतवत इत्यर्थः । भगवत इत्यनेन पूर्णषाड्गुण्यं विवक्षितं, महापुरुषायेत्यनेन निखिलजगदुदयविभवलयलीलत्वमभिप्रेतं महापुरुषशब्दस्य “वेदाहमेतं पुरुषं महान्तम्” इति पुरुषसूक्तार्थप्रत्यभिज्ञापकत्वात् तत्र च ‘तस्माद्विराडजायते’त्यादिना कृत्स्नजगत्कारणतत्त्वप्रतिपादनात् ‘अद्भयः सम्भूतः’ इत्यनुवाकोऽप्यत्र प्रत्यभिज्ञायते तत्रापि महापुरुषशब्दश्रवणात् अद्भयः सम्भूत इत्यनुवाकस्य हिरण्यगर्भः समवर्तताग्रे इत्यनेनाष्टर्चेन सहाद्भयः सम्भूतब्रह्मा गर्भः इत्यष्टावित्येकवाक्यत्वप्रतिपादनाद्धिरण्यगर्भादिकारणत्वच्छायानुकारिणामपि वैदिकवाक्यानां महापुरुषपरत्वमवगतं सर्वगुणानां चेतनाचेतनयोरसम्भावितानां जगत्कारणत्वौपयिकानामाश्रयणसौकर्यापादकानामाश्रितकार्यापादकादीनां च सर्वज्ञत्वसर्वशक्तित्ववात्सल्यसौशील्यसौलभ्यज्ञानशक्तिमूर्त्तेः प्राप्त्यादीनां सङ्ख्यानं कथनं श्रुतिगणेन यस्मिंस्तस्मै अनेन “सर्वे वेदा यत्पदमामनन्ति” इति श्रुत्यर्थो विवक्षितः, सर्वगुणानां सङ्ख्यानं च न परिच्छिन्नत्वेन क्रियते, अपि त्वानन्त्येन स्वरूपतो गुणतश्चानन्त्याभिप्रायेणानन्तायेत्युक्तमनेनोपास्यत्वप्राप्यत्वादिकं च विवक्षितम्, एवम्भूत तत्प्राप्त्युपायस्तदुपासनं तच्चरणवरण एव नान्य इति पुरुषसूक्तार्थप्रत्यभिज्ञानादेव स्फोरितस्तत्र “तमेवं विद्वानमृत इह भवति नान्यः पन्था” इति वेदनातिरिक्तोपायान्तरनिषेधात् तदेव शब्दतो व्यञ्जयन्नाह अव्यक्तायेति । व्यक्तैरिन्द्रयादिभिर्न व्यज्यते न गृह्यते इत्यव्यक्तः, ‘न चक्षुषा गृह्यते नापि वाचे’त्यादिश्रुत्यर्थोऽनुसन्धेयः, एवंभूताय नमः नतिर्नमस्कारोऽत्र तत्पूर्वकोपासनोपलक्षकः तदेव नमः मद्रक्षणोपायमित्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

भजे भजन्यारणपादपङ्कजं
भगस्य कृत्स्नस्य परं परायणम्।
भक्तेष्वलं भावित भूतभावनं
भवापहं त्वा भवभावमीश्वरम्॥

मूलम्

भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम्।
भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भवभावमीश्वरम्॥ १८ ॥

अनुवाद (हिन्दी)

भगवान् शंकर कहते हैं—‘ॐ जिनसे सभी गुणोंकी अभिव्यक्ति होती है, उन अनन्त और अव्यक्तमूर्ति ओंकारस्वरूप परमपुरुष श्रीभगवान‍्को नमस्कार है।’ ‘भजनीय प्रभो! आपके चरणकमल भक्तोंको आश्रय देनेवाले हैं तथा आप स्वयं सम्पूर्ण ऐश्वर्योंके परम आश्रय हैं। भक्तोंके सामने आप अपना भूतभावन स्वरूप पूर्णतया प्रकट कर देते हैं तथा उन्हें संसारबन्धनसे भी मुक्त कर देते हैं, किन्तु अभक्तोंको उस बन्धनमें डालते रहते हैं। आप ही सर्वेश्वर हैं, मैं आपका भजन करता हूँ॥ १७-१८॥

वीरराघवः

तत्प्रतिरूपान् श्लोकानाह भज इत्यादिना । ईश्वरं त्वां भज इत्यन्वयः । तमीश्वरं विशिनष्टि भजन्यारणपादपङ्कजं भजन्यं भजनीयमुपास्यमरणं प्राप्यं पादपङ्कजं यस्य तं-अनीयर ईकारलोप आर्ष:-भजन्येति पृथक् पदं सम्बुद्ध्यन्तं वा । यद्वा भजनं कुर्वाणा भजनाः भजनशब्दाद्भावसाधनात्तत्करोतीति व्यन्तात् कृतटिलोपात्कर्तरि किप्, तान् याति प्राप्नोति तेषां सन्निहितो भवति इति भजन्य इति व्युत्पाद्यते भजन्शब्दे नान्ते कर्मण्युपपदे “आतोऽनुपसर्गे कः” । टिलोपस्य स्थानिवत्त्वान्न लोपः, कृत्स्नस्य समग्रस्य भगस्यैश्वर्यादिवर्गस्य परं केवलं परायणमाश्रयं भक्तेष्वलमत्यर्थं भावितं प्रकटीकृतं भूतभावनं भूतानि भाव्यन्ते उत्पाद्यन्ते येन तत्तथा निखिलभूतकारणं स्वस्य रूपं येनेत्यर्थः । यद्वा भूतभावनं भूतानामभ्युदयहेतुं भक्तेषु भवापहं भवनाशनमित्यर्थः । भवभावं संसारस्य प्रवर्तकं स्वसङ्कल्पायत्तजीवसम्बन्धमोचकमित्यर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

न यस्य मायागुणचित्तवृत्तिभि-
र्निरीक्षतो ह्यण्वपि दृष्टिरज्यते।
ईशे यथा नोऽजितमन्युरंहसां
कस्तं न मन्येत जिगीषुरात्मनः॥

मूलम्

न यस्य मायागुणचित्तवृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्यते।
ईशे यथा नोऽजितमन्युरंहसां कस्तं न मन्येत जिगीषुरात्मनः॥ १९ ॥

अनुवाद (हिन्दी)

प्रभो! हमलोग क्रोधके आवेगको नहीं जीत सके हैं तथा हमारी दृष्टि तत्काल पापसे लिप्त हो जाती है। परन्तु आप तो संसारका नियमन करनेके लिये निरन्तर साक्षीरूपसे उसके सारे व्यापारोंको देखते रहते हैं। तथापि हमारी तरफ आपकी दृष्टिपर उन मायिक विषयों तथा चित्तकी वृत्तियोंका नाममात्रको भी प्रभाव नहीं पड़ता। ऐसी स्थितिमें अपने मनको वशमें करनेकी इच्छावाला कौन पुरुष आपका आदर न करेगा?॥ १९॥

वीरराघवः

एवमुपास्यत्वप्राप्यत्वषाड्गुण्यपूर्त्यभ्युदयहेतुत्वं बन्धमोक्षकारणत्वादिभिर्द्धर्मैश्चिदचिद्वैलक्षण्यमुक्तम् । तदेव वैधर्म्यं दृष्टान्तेन विशदयति न यस्येति । यस्य निरीक्षतः सर्वं स्वतः पश्यतः ईश इति षष्ठ्यन्तमीश्वरस्येत्यर्थः । दृष्टिर्ज्ञानं मायागुणचित्तवृत्तिभिः प्रकृतिगुणकार्यरागद्वेषादिचित्तवृत्तिभिरण्वप्यल्पमपि नाज्यते नानुविध्यते अजितमन्युरंहसामजितक्रोधवेगानां नोऽस्माकं यथेति वैधर्म्ये दृष्टान्तः । ईशे इति पाठे ईश् ईशनं नियमनं तस्मै निरीक्षत इत्यन्वयः । तमेवंभूतं भगवन्तमात्मन इन्द्रियाणि देहान् वा तदुपलक्षितं संसारं जिगीषुर्जेतुमिच्छुः को नाम पुमान्नानुमन्येत नाद्रियेत सर्वोऽपि मुमुक्षुस्त्वां सेवत इत्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

असद्दृशो यः प्रतिभाति मायया
क्षीबेव मध्वासवताम्रलोचनः।
न नागवध्वोऽर्हण ईशिरे ह्रिया
यत्पादयोः स्पर्शनधर्षितेन्द्रियाः॥

मूलम्

असद्दृशो यः प्रतिभाति मायया क्षीवेव मध्वासवताम्रलोचनः।
न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः॥ २० ॥

अनुवाद (हिन्दी)

आप जिन पुरुषोंको मधु-आसवादि पानके कारण अरुणनयन और मतवाले जान पड़ते हैं, वे मायाके वशीभूत होकर ही ऐसा मिथ्या दर्शन करते हैं तथा आपके चरणस्पर्शसे ही चित्त चंचल हो जानेके कारण नागपत्नियाँ लज्जावश आपकी पूजा करनेमें असमर्थ हो जाती हैं॥ २०॥

वीरराघवः

रागद्वेषादिभिर्वृत्तिभिर्दृष्टिर्नाज्यते इत्युक्तं तत्कथं तामसत्वेन प्रतीयमानस्य रागादेरनुदय इत्याशङ्क्याह । असद्दृश इति । असद्दृशः अपरमार्थदृष्टेः असति देहे दृष्टिरात्मनोऽभिमानो यस्य तस्येति वा जनस्य माययाविद्ययाज्ञानेन मध्वासवः मादक आसवः मद्यं तेन मध्वासवाभ्यां वा ताम्रे रक्ते लोचने यस्य तथाभूतो यः क्षीबः मत्तः स इवेति प्रतिभाति यो भवान्-क्षीबेवेत्यत्र सन्धिसर्षः-परमार्थ-तस्तु शुद्धसत्त्वमयाप्राकृतस्वेच्छोपात्ताकर्मवश्यकल्याणविग्रह इत्यर्थः । अत एव हि नागवध्वो नागानां स्त्रियः नागकन्यकाः यस्य तव पादपद्मयोः स्पर्शनेन धर्षितं व्याकुलितमिन्द्रियं मनो यासां ताः कामादिपारवश्या वयं रागादिप्रतिमाः शुद्धसत्त्वमूर्तेः पादौ कथं स्प्रष्टुं प्रभवाम इति धर्षितेन्द्रियाः सत्यः अर्हणं पूजां न ईशिरे न समर्था बभूवुः । निश्शङ्कं कर्तुमिति शेषः । एवंभूतं को नानुमन्येतेति पूर्वेणान्वयः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

यमाहुरस्य स्थितिजन्मसंयमं
त्रिभिर्विहीनं यमनन्तमॄषयः।
न वेद सिद्धार्थमिव क्वचित्स्थितं
भूमण्डलं मूर्धसहस्रधामसु॥

मूलम्

यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमॄषयः।
न वेद सिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु॥ २१ ॥

अनुवाद (हिन्दी)

वेदमन्त्र आपको जगत‍्की उत्पत्ति, स्थिति और लयका कारण बताते हैं; परन्तु आप स्वयं इन तीनों विकारोंसे रहित हैं; इसलिये आपको ‘अनन्त’ कहते हैं। आपके सहस्र मस्तकोंपर यह भूमण्डल सरसोंके दानेके समान रखा हुआ है, आपको तो यह भी नहीं मालूम होता कि वह कहाँ स्थित है॥ २१॥

वीरराघवः

पुनरैश्वर्यमेव व्यञ्जयन्नाह यमिति चतुर्भिः । अस्य चिदचिन्मिश्रस्य जगतः स्थितिजन्मसंयमं स्थित्युत्पत्तिसंहारकारणम् ऋषयो वेदान्ता यमाहुः ऋषय इति दीर्घ आर्षः, कारणत्वेऽपि त्रिभिर्गुणैः सत्त्वादिभिर्विहीनं त्रैगुण्यापरवशमनन्तं स्वरूपतः स्वभावतश्च देशकालवस्त्वपरिच्छन्नमाहुः “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् अस्थूलमनण्वह्रस्वं सत्यं ज्ञानमनन्तम्” इत्यादयः श्रुतयोऽत्र ऋषिशब्दविवक्षिताः । अनन्तत्वमेवाह यो मूर्द्धभूतानि सहस्रसंख्याकानि धामानि फणरूपाणि तेषु मध्ये क्वचित् सिद्धार्थमिव सर्षपमिव स्थितं भूमण्डलं न वेद भारत्वेन नानुसन्धत्ते न जानाति वा । यच्छब्दानां कस्तं न मन्येतेति पूर्वेणान्वयः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

यस्याद्य आसीद् गुणविग्रहो महान्
विज्ञानधिष्ण्यो भगवानजः किल।
यत्सम्भवोऽहं त्रिवृता स्वतेजसा
वैकारिकं तामसमैन्द्रियं सृजे॥

मूलम्

यस्याद्य आसीद् गुणविग्रहो महान् विज्ञानधिष्ण्यो भगवानजः किल।
यत्सम्भवोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे॥ २२ ॥

अनुवाद (हिन्दी)

जिनसे उत्पन्न हुआ मैं अहंकाररूप अपने त्रिगुणमय तेजसे देवता, इन्द्रिय और भूतोंकी रचना करता हूँ—वे विज्ञानके आश्रय भगवान् ब्रह्माजी भी आपके ही महत्तत्त्वसंज्ञक प्रथम गुणमय स्वरूप हैं॥ २२॥

वीरराघवः

यस्येति । अपादानस्य सम्बन्धमात्रविवक्षया षष्ठी, यस्मात् महाशरीरेषु महत्त्वाभिमानी विज्ञानधिष्ण्यः जगन्निर्माणाद्युपयुक्तज्ञानाश्रयः गुणविग्रहः रजःप्रचुरविग्रहः आद्यः रुद्राद्यपेक्षया आदौ भवः भगवानजो ब्रह्मा आसीत्, यत्संभवः यस्माद् ब्रह्मणः सकाशात्संभवोऽहं रुद्रः किमर्थं त्रिवृता त्रिवृताहङ्कारेण-अध्ययनेन वसतीतिवत् फलस्यैव हेतुत्वविवक्षया तृतीया, देहेषु त्रिविधाहङ्कारप्रवृत्त्यर्थं जातोऽहमित्यर्थः । स्वतेजसा स्वस्य संकर्षणमूर्तेस्तेजसा स्वदत्तेनाहङ्कार प्रवर्तनोपयुक्तेन ज्ञानेन वैकारिकं सात्विकं तामसमैन्द्रियकं राजसं सृजे देहेषु त्रिविधाहङ्कारं प्रवर्त्तयामीत्यर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

एते वयं यस्य वशे महात्मनः
स्थिताः शकुन्ता इव सूत्रयन्त्रिताः।
महानहं वैकृततामसेन्द्रियाः
सृजाम सर्वे यदनुग्रहादिदम्॥

मूलम्

एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः।
महानहं वैकृततामसेन्द्रियाः सृजाम सर्वे यदनुग्रहादिदम्॥ २३ ॥

अनुवाद (हिन्दी)

महात्मन्! महत्तत्त्व, अहंकार-इन्द्रियाभिमानी देवता, इन्द्रियाँ और पंचभूत आदि हम सभी डोरीमें बँधे हुए पक्षीके समान आपकी क्रियाशक्तिके वशीभूत रहकर आपकी ही कृपासे इस जगत‍्की रचना करते हैं॥ २३॥

वीरराघवः

एत इति महान्महत्तत्त्वम् अहमहङ्कारस्तद्द्विधा भेदमाह वैकृततामसैन्द्रियाः सात्त्विकाहङ्कारो वैकृतः तामसो भूतादिः ऐन्द्रियो राजसः सर्वे ब्रह्मादयो वयं यस्य महात्मनो भगवतो वशे सूत्रे रज्ज्वां यन्त्रिताः बद्धाः शकुन्ता इव सन्तो यस्य भगवतोऽनुग्रहादिदं ब्रह्माण्डं तदन्तर्वर्तिवस्तुजातं च व्यष्टिसमष्ट्यात्मकं यथायथं सृजामः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

यन्निर्मितां कर्ह्यपि कर्मपर्वणीं
मायां जनोऽयं गुणसर्गमोहितः।
न वेद निस्तारणयोगमञ्जसा
तस्मै नमस्ते विलयोदयात्मने॥

मूलम्

यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुणसर्गमोहितः।
न वेद निस्तारणयोगमञ्जसा तस्मै न20मस्ते विलयोदयात्मने॥ २४ ॥

अनुवाद (हिन्दी)

सत्त्वादि गुणोंकी सृष्टिसे मोहित हुआ यह जीव आपकी ही रची हुई तथा कर्मबन्धनमें बाँधनेवाली मायाको तो कदाचित् जान भी लेता है, किन्तु उससे मुक्त होनेका उपाय उसे सुगमतासे नहीं मालूम होता। इस जगत‍्की उत्पत्ति और प्रलय भी आपके ही रूप हैं। ऐसे आपको मैं बार-बार नमस्कार करता हूँ’॥ २४॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे सप्तदशोऽध्यायः॥ १७ ॥

वीरराघवः

एवं सर्वजगत्कारणत्वसत्यज्ञानानन्तत्वसर्वान्तरत्वानन्याधिपतित्वादिगुणविशिष्टं स्तुत्वा “प्रधानक्षेत्रपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः” इति बन्धमोक्षहेतुत्वेन स्तुवन्नमस्करोति यन्निर्मितामिति । येन भगवता निर्मितां कर्मपर्वणी कर्माख्यग्रन्थिमती मायां प्रकृतिं गुणमयसर्गेण गुणपरिणामात्मकदेहेन्द्रियादिसम्बन्धेन मोहितः स्वात्मपरमात्मयाथात्म्यज्ञानरहितोऽब्रह्मात्मकत्वस्वतन्त्रात्मत्वादिभ्रमयुक्तो जनो जन्ममरणादिकसांसारिकधर्मभाक् जीवः न वेद मायास्वरूपमेव न वेद कि तन्निस्तारणोपायं न वेदेति वक्तव्यमित्याह । तन्निस्तारणयोगं मायानिस्तारणोपायमञ्जसा सुखेन न वेद तस्मै तद्विलयोदयात्मने तद्विलयः प्रकृतिसंबन्धविलयस्तदुदयः प्रकृतिसंबन्धः तदुभयापादनोपयुक्तमात्मज्ञानं यस्य तस्मै नम इति ॥ २४ ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां सप्तदशोऽध्यायः ॥ १७ ॥


  1. यत्र वा ह वाव । ↩︎

  2. युगलविगलितामल । ↩︎

  3. न्ती चन्द्रमण्डल । ↩︎

  4. निविशते । ↩︎

  5. मूर्धनि । ↩︎

  6. न्निष्पतन्त्यनुपरतवेगा । ↩︎

  7. उदीच्यां प्रविशति । ↩︎

  8. दक्षिणेन तु ब्रह्म । ↩︎

  9. प्राचीने पाठे ‘क्रम्य’ पाठः खण्डितः । ↩︎

  10. भारतवर्ष दक्षिणस्यां । ↩︎

  11. लवण जलधिमधिप्रविशति । ↩︎

  12. प्राचीने पाठे ‘यस्यां स्नानार्थं….’ त आरभ्य ‘फलं न दुर्लभमिति’ पर्यन्तोऽशो न । ↩︎

  13. वर्षे बहुशो । ↩︎

  14. रुचिराश्रमायतन । ↩︎

  15. मोदमदमुदितराजहंसबल । ↩︎

  16. लोकाः स्वैरं विहरन्ति । ↩︎

  17. व्यूहैरात्मनाद्यापि । ↩︎

  18. पश्चाद्वक्ष्यामः । ↩︎

  19. सहस्रैर्व्यवरुद्ध्यमानो । ↩︎

  20. नमस्तद्विलयोद । ↩︎