[षोडशोऽध्यायः]
भागसूचना
भूवनकोशका वर्णन
श्लोक-१
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह दृश्यते॥
मूलम्
उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह दृश्यते1 ॥ १ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने कहा—मुनिवर! जहाँतक सूर्यका प्रकाश है और जहाँतक तारागणके सहित चन्द्रदेव दीख पड़ते हैं, वहाँतक आपने भूमण्डलका विस्तार बतलाया है॥ १॥
श्लोक-२
विश्वास-प्रस्तुतिः
तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः सप्त सिन्धव उपक्लृप्ता यत एतस्याः सप्तद्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचित एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं विजिज्ञासामि॥
मूलम्
तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः सप्त सिन्धव उपक्लृप्ता यत एत2स्याः सप्तद्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचित एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं विजिज्ञासामि ॥ २ ॥
अनुवाद (हिन्दी)
उसमें भी आपने बतलाया कि महाराज प्रियव्रतके रथके पहियोंकी सात लीकोंसे सात समुद्र बन गये थे, जिनके कारण इस भूमण्डलमें सात द्वीपोंका विभाग हुआ। अतः भगवन्! अब मैं इन सबका परिमाण और लक्षणोंके सहित पूरा विवरण जानना चाहता हूँ॥ २॥
श्लोक-३
विश्वास-प्रस्तुतिः
भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं तदु हैतद् गुरोऽर्हस्यनुवर्णयितुमिति॥
मूलम्
भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं तदु हैतद् गुरोऽर्हस्यनुवर्णयितुमिति॥ ३ ॥
अनुवाद (हिन्दी)
क्योंकि जो मन भगवान्के इस गुणमय स्थूल विग्रहमें लग सकता है, उसीका उनके वासुदेवसंज्ञक स्वयंप्रकाश निर्गुण ब्रह्मरूप सूक्ष्मतम स्वरूपमें भी लगना सम्भव है। अतः गुरुवर! इस विषयका विशदरूपसे वर्णन करनेकी कृपा कीजिये॥ ३॥
वीरराघवः
एवं श्रुतप्रियव्रतसंतानतचरित्रो राजा प्रियव्रतचरित्रे संग्रहेणाभिहितायां द्वीपादिकल्पनायां विशेषं कथान्ते उक्तानुवादपूर्वकं पृच्छति उक्त इति । भूमण्डलस्यायामविशेषः दैर्घ्यविशेषः विशालतेति यावत् उक्तः किंपर्यन्त उक्तस्तदाह यावदादित्यस्तपति यत्र चासौ शुक्लकृष्णपक्षयोर्नक्षत्रगणैः सह चन्द्रमा वा दृश्यते किंपर्यन्तमादित्यस्तपति चन्द्रमा वा दृश्यते तत्राह । यत्र भूमण्डलविस्तारे एतस्या भुवः सप्तद्वीपानां जम्ब्वादीनां ये विशेषा नाममानलक्षणादयस्तेषां विकल्पः भेदो भगवन् ! त्वया सूचितः संग्रहेणोक्तः एतदेव भूमण्डलमखिलं मानतो लक्षणतश्चकारान्नामतश्चाहं सर्वं विस्तरतो विजिज्ञासामि ज्ञातुमिच्छामि । किं तजिज्ञासयेत्यत्राह भगवत इति । गुणमये सत्त्वादिगुणपरिणामरूपे भगवतः स्थूलरूपें आवेशितं मनः हि यस्मादगुणे सत्त्वादिगुणरहितेऽप्राकृत इति यावत् सूक्ष्मतमेऽङ्गुष्ठप्रमिते शुद्धसत्त्वमये रूपे तथात्मज्योतिषि स्वयं प्रकाशे परमात्मस्वरूपे ब्रह्मणि भगवद्वासुदेवादिशब्दवाच्ये आवेशितुमासक्तं क्षममलं भवेदतो जिज्ञासामि ततो मम जिज्ञासुत्वाद्धे गुरो ! एतद्भूमण्डलं मानलक्षणादिभिरनुवर्णितुमर्हसि ॥ १-३ ॥
श्लोक-४
मूलम् (वचनम्)
ऋषिरुवाच
विश्वास-प्रस्तुतिः
न वै महाराज भगवतो मायागुणविभूतेः काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव भूगोलकविशेषं नामरूपमानलक्षणतो व्याख्यास्यामः॥
मूलम्
न वै महाराज भगवतो मायागुणविभूतेः काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव भूगोलकविशेषं नामरूपमानलक्षणतो व्याख्यास्यामः॥ ४ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी बोले—महाराज! भगवान्की मायाके गुणोंका इतना विस्तार है कि यदि कोई पुरुष देवताओंके समान आयु पा ले, तो भी मन या वाणीसे इसका अन्त नहीं पा सकता। इसलिये हम नाम, रूप, परिमाण और लक्षणोंके द्वारा मुख्य-मुख्य बातोंको लेकर ही इस भूमण्डलकी विशेषताओंका वर्णन करेंगे॥ ४॥
वीरराघवः
इत्यापृष्टो बादरायणिस्तावद्भगवद्विभूतेरनन्तत्वात्कार्त्स्न्येन वाङ्मनसयोरविषयतां वदन्मानादिभिर्भूमण्डलवर्णनं प्रतिजानीते न वा इति । हे महाराज ! भगवतो मायागुणानां विभूतिः सत्त्वादिगुणपरिणामानन्तब्रह्माण्डात्मिका लीलाविभूतिस्तस्याः स्थानविशेषाणां विभूत्यन्तर्गतलोकानामित्यर्थः । काष्ठामन्तं नामरूपतः नामरूपाभ्यां मनसा वचसा वाऽधिगन्तुं ज्ञातुं वक्तुं च पुरुषायुष्येणापि पुरुषो नालन प्रभुः स्थानविशेषाणामानन्त्यादिति भावः, तस्मात् कार्त्स्न्येन वाङ्मनसाविषयत्वात् प्राधान्येन भूगोलस्य विशेषमवान्तरभेदं नाममानलक्षणैः व्याख्यास्यामः प्रकटयिष्याम इति ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
यो वायं द्वीपः कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रम्॥
मूलम्
यो3 वायं द्वीपः कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रम्॥ ५ ॥
अनुवाद (हिन्दी)
यह जम्बूद्वीप—जिसमें हम रहते हैं, भूमण्डलरूप कमलके कोशस्थानीय जो सात द्वीप हैं, उनमें सबसे भीतरका कोश है। इसका विस्तार एक लाख योजन है और यह कमलपत्रके समान गोलाकार है॥ ५॥
श्लोक-६
विश्वास-प्रस्तुतिः
यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति॥
मूलम्
यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति॥ ६ ॥
अनुवाद (हिन्दी)
इसमें नौ-नौ हजार योजन विस्तारवाले नौ वर्ष हैं, जो इनकी सीमाओंका विभाग करनेवाले आठ पर्वतोंसे बँटे हुए हैं॥ ६॥
श्लोक-७
विश्वास-प्रस्तुतिः
एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्धनि द्वात्रिंशत् सहस्रयोजनविततो मूले षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः॥
मूलम्
एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले षोडशसहस्रं4 तावतान्तर्भूम्यां प्रविष्टः॥ ७ ॥
अनुवाद (हिन्दी)
इनके बीचो-बीच इलावृत नामका दसवाँ वर्ष है, जिसके मध्यमें कुलपर्वतोंका राजा मेरुपर्वत है। वह मानो भूमण्डलरूप कमलकी कर्णिका ही है। वह ऊपरसे नीचेतक सारा-का-सारा सुवर्णमय है और एक लाख योजन ऊँचा है। उसका विस्तार शिखरपर बत्तीस हजार और तलैटीमें सोलह हजार योजन है तथा सोलह हजार योजन ही वह भूमिके भीतर घुसा हुआ है अर्थात् भूमिके बाहर उसकी ऊँचाई चौरासी हजार योजन है॥ ७॥
वीरराघवः
तदेवाह यो वा इति । प्रसिद्धोऽयं द्वीपो जम्बूद्वीपः कुवलयं भूमण्डलं तदेव कमलं तस्य कोशाः सप्तद्वीपाः तेष्वभ्यन्तरः अन्तरवर्ती कोशः जम्बूद्वीपः इत्यर्थः । स नियुतयोजनविशालः लक्षयोजनविस्तीर्णः समवर्तुलः समो वर्तुलश्च वर्तुलत्वेन कोणाभावात्सर्वतः समपरिमाण इत्यर्थः । यथा पुष्करस्य पत्रं कमलपलाशं समवर्तुलं तथेति यस्मिन् जम्बूद्वीपे वर्षाणि प्रत्येकं नवयोजनसहस्रमायामो येषां तानि आयामोऽत्र विस्तार एतच्च भद्राश्वकेतुमालव्यतिरेकेण द्रष्टव्यं तत्सन्निवेशश्चान्यत्रोक्तः “धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम्” इत्यादिना अष्टभिः समर्पितैः नीलश्वेतशृङ्गवन्निषधहेमकूटहिमालयमाल्यवद्गन्धमादनाख्यैः सुष्ठु विभक्तानि असङ्कीर्णानि भवन्ति वर्त्तन्ते तेषां नवानां वर्षाणां मध्ये इलावृतं नाम वर्षमभ्यन्तरमन्तर्विद्यते इत्यर्थः । यस्य जम्बूद्वीपस्य इलावृतवर्षस्य वा नाभ्यां मध्येऽवस्थितः सौवर्णाः सुवर्णमयः कुलगिरीणां राजा मेरुः द्वीपस्य जम्ब्वाख्यस्यायामो विस्तारः लक्षयोजनप्रमाणस्तावत्समुन्नाहः उच्छ्रायो यस्य तथाभूतः कुवलयं भूमण्डलमेव कमलं तस्य कर्णिकाभूत इव स्थितः तस्य मेरोर्मूर्द्धा उपरिभागः द्वात्रिंशत्सहस्त्रयोजनविस्तीर्णः मूले षोडशसहस्राणां योजनानां यस्य सः सुमेरुरिति विशेष्यानुषङ्गः । योजनमिति नपुंसकपाठे तस्य मेरोर्मूले षोडशसहस्राणां योजनानां समाहारः षोडशसहस्रयोजनं परिमाणं वेदितव्यमित्यर्थः, पात्रादित्वात्स्रीत्वाभावः । तावता षोडशसहस्रमानेन भूम्यामन्तः प्रविष्टः, एवं लक्षयोजनोन्नाहः सुमेरुरिति फलितम् ॥ ५-७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो रम्यकहिरण्यमयकुरूणां वर्षाणां मर्यादागिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्रपृथव एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति॥
मूलम्
उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो रम्यकहिरण्यमयकुरूणां5 वर्षाणां मर्यादागिरयः प्रागायता उभयतः क्षारोदावधयो द्वि6सहस्रपृथव एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर उ7त्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति॥ ८ ॥
अनुवाद (हिन्दी)
इलावृतवर्षके उत्तरमें क्रमशः नील, श्वेत और शृंगवान् नामके तीन पर्वत हैं—जो रम्यक, हिरण्मय और कुरु नामके वर्षोंकी सीमा बाँधते हैं। वे पूर्वसे पश्चिमतक खारे पानीके समुद्रतक फैले हुए हैं। उनमेंसे प्रत्येककी चौड़ाई दो हजार योजन है तथा लम्बाईमें पहलेकी अपेक्षा पिछला क्रमशः दशमांशसे कुछ अधिक कम है, चौड़ाई और ऊँचाई तो सभीकी समान है॥ ८॥
वीरराघवः
उत्तरेणेलावृतम् इलावृतवर्षस्योत्तरोत्तरं क्रमेण नीलश्वेतशृङ्गवत्संज्ञका रम्यकादीनां त्रयाणां वर्षाणां मर्यादागिरयः सीमापर्वताः प्रागायताः पूर्वतो दीर्घाः उभयतः पूर्वपश्चिमयोः क्षारोदो लवणसमुद्र एवावधिर्येषां ते लवणोद्धिपर्यन्ता इत्यर्थः, द्विसहस्रयोजनविस्तीर्णा दशांशादधिको योंऽशस्तेन दैर्ध्य एवं ह्रसन्ति न तूञ्चत्वपृथुत्वयोः, नीलादिषु त्रिषु पूर्वपूर्वापेक्षया उत्तरोत्तरस्य दैर्घ्ये दशांशादधिकांशेन न्यूनमित्यर्थः, द्वीपस्य मण्डलाकारत्वादिति भावः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासंख्यम्॥
मूलम्
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासंख्यम्॥ ९ ॥
अनुवाद (हिन्दी)
इसी प्रकार इलावृतके दक्षिणकी ओर एकके बाद एक निषध, हेमकूट और हिमालय नामके तीन पर्वत हैं। नीलादि पर्वतोंके समान ये भी पूर्व-पश्चिमकी ओर फैले हुए हैं और दस-दस हजार योजन ऊँचे हैं। इनसे क्रमशः हरिवर्ष, किम्पुरुष और भारतवर्षकी सीमाओंका विभाग होता है॥ ९॥
वीरराघवः
एवं दक्षिणेनेलावृतमिलावृतवर्षस्य दक्षिणतः निषेधादयस्त्रयः पर्वताः क्रमेण नीलादिभिः समपरिमाणा अयुतयोजन उत्सेध उच्छ्रायो येषां ते, अयं चोत्सेधो नीलादीनामपि द्रष्टव्यः, नीलादिषु पृथुत्वं चैषामिति द्रष्टव्यं हरिवर्षादीनां त्रयाणां यथासङ्ख्यं मर्यादागिरयः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते॥
मूलम्
तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्वि8सहस्रं पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते॥ १० ॥
अनुवाद (हिन्दी)
इलावृतके पूर्व और पश्चिमकी ओर—उत्तरमें नील पर्वत और दक्षिणमें निषध पर्वततक फैले हुए गन्धमादन और माल्यवान् नामके दो पर्वत हैं। इनकी चौड़ाई दो-दो हजार योजन है और ये भद्राश्व एवं केतुमाल नामक दो वर्षोंकी सीमा निश्चित करते हैं॥ १०॥
वीरराघवः
तथेलावृतमपरेणेलावृतस्यापरेण पश्चात्पूर्वेण पुरस्ताच्च माल्यवद्गन्धमादनावपरेण माल्यवान् पूर्वेण गन्धमादनः इत्येतौ पर्वतौ क्रमेणानीलनिषधायतौ उत्तरतो नीलपर्यन्तं दक्षिणतो निषधपर्यन्तं च दीर्घौ नीलनिषधपर्यन्तोन्तरदक्षिणाग्रावित्यर्थः, तावेव द्विसहस्रपृथू विस्तीर्णौ इत्यर्थः । तावेव केतुमालभद्राश्वयोर्वर्षयोः सीमानं मर्यादां विदधाते कुरुतः । नन्वेवं सति पूर्वापररेखायामिलावृतवेष्टितो मेरुर्मध्ये ततः पूर्वापरतो गिरिद्वयं वर्षद्वयं च नातः किञ्चिदस्ति दक्षिणोत्तरदिशायां च तथैवेलावृतवेष्टितो मेरुर्मध्ये उभयतस्त्रीणि वर्षाणि गिरयश्च तत्कथं सर्वतो लक्षप्रमाणत्वं जम्बूद्वीपस्य । उच्यते, मेरोः षोडसहस्राणि सर्वतः स्थितत्वादिलावृतस्याऽष्टादश अन्येषां षण्णां वर्षाणां चतुष्पञ्चाशद्गिरीणां द्वादश चेत्येवं दक्षिणोत्तरदिशि तावल्लक्षं पूर्वापररेखायामपि सुमेरोरिलावृतस्य चतुस्त्रिंशद् गिर्योश्चत्वारि शेषाणि द्विषष्टिसहस्राणि केतुमालभद्राश्वयोरित्येवं लक्षं सर्वतः स्थित्तत्वादिलावृतस्याष्टादश पूर्वापरवर्षयोरासमुद्रदैर्घ्यं द्रष्टव्यं नातो विरोधः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय उपक्लृप्ताः॥
मूलम्
मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय उपक्लृप्ताः॥ ११ ॥
अनुवाद (हिन्दी)
इनके सिवा मन्दर, मेरुमन्दर, सुपार्श्व और कुमुद—ये चार दस-दस हजार योजन ऊँचे और उतने ही चौड़े पर्वत मेरुपर्वतकी आधारभूता थूनियोंके समान बने हुए हैं॥ ११॥
श्लोक-१२
विश्वास-प्रस्तुतिः
चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः पर्वतकेतव इवाधिसहस्रयोजनोन्नाहास्तावद् विटपविततयः शतयोजनपरिणाहाः॥
मूलम्
चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः पर्वतकेतव इवाधिसहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजनपरिणाहाः॥ १२ ॥
अनुवाद (हिन्दी)
इन चारोंके ऊपर इनकी ध्वजाओंके समान क्रमशः आम, जामुन, कदम्ब और बड़के चार पेड़ हैं। इनमेंसे प्रत्येक ग्यारह सौ योजन ऊँचा है और इतना ही इनकी शाखाओंका विस्तार है। इनकी मोटाई सौ-सौ योजन है॥ १२॥
वीरराघवः
मन्दरादयश्चत्वारो गिरयः प्रागादिक्रमेण मेरोश्चतुर्दिशमवष्टम्भगिरयः मेखला इव अवष्टम्भन्ति प्रतिबध्नन्तीत्यवष्टम्भास्ते च ते उपक्लृप्ताः विन्यस्ताः । कथम्भूता अयुतयोजनौ प्रमाणौ विस्तारोच्छ्रायौ येषां तथाभूताश्चतुष्वैतेषु सन्दरादिषु क्रमेणाम्रजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपश्रेष्ठाः पर्वतानां केतवो ध्वजा इवाधिसहस्रमेकादशशतान्युन्नाहो येषां तावत्प्रमाणानां विटपानां शाखानां विततिर्येषां शतयोजनपरिणाहो विस्तारो येषां ते उपक्लृप्ता इत्यनुषङ्गः ॥ ११-१२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति॥
मूलम्
ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति॥ १३ ॥
अनुवाद (हिन्दी)
भरतश्रेष्ठ! इन पर्वतोंपर चार सरोवर भी हैं—जो क्रमशः दूध, मधु, ईखके रस और मीठे जलसे भरे हुए हैं। इनका सेवन करनेवाले यक्ष-किन्नरादि उपदेवोंको स्वभावसे ही योगसिद्धियाँ प्राप्त हैं॥ १३॥
वीरराघवः
तथा चत्वारो हृदाश्च क्रमेण क्षीरमध्विक्षुरसशुद्धजलात्मकाः सन्ति तानेव विशिनष्टि । यदुपस्पर्शिनः तज्जलस्पर्शिनः सिद्धादयः स्वाभाविकान्यष्ट सहैश्वर्याणि हे राजन् ! धारयन्ति ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति॥
मूलम्
देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति॥ १४ ॥
अनुवाद (हिन्दी)
इनपर क्रमशः नन्दन, चैत्ररथ, वैभ्राजक और सर्वतोभद्र नामके चार दिव्य उपवन भी हैं॥ १४॥
श्लोक-१५
विश्वास-प्रस्तुतिः
येष्वमरपरिवृढाः सह सुरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमानः किल विहरन्ति॥
मूलम्
ये9ष्वमरपरिवृढाः सह सुरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमानः किल विहरन्ति॥ १५ ॥
अनुवाद (हिन्दी)
इनमें प्रधान-प्रधान देवगण अनेकों सुरसुन्दरियोंके नायक बनकर साथ-साथ विहार करते हैं। उस समय गन्धर्वादि उपदेवगण इनकी महिमाका बखान किया करते हैं॥ १५॥
वीरराघवः
देवोद्यानानि देववनानि क्रमेण नन्दनादीनि भवन्ति । तान्येव विशिनष्टि येषु देवोद्यानेषु सुरललनानां सुरस्त्रीणां ललामभूषणं तद्वत्स्थिताः सुरवनितानां श्रेष्ठा इत्यर्थः । तासां यूथस्य पतयः ताभिः सह सम्भूय उपदेवगणैः उपगीयमानः महिमा येषां ते विहरन्ति । देवानां क्रीडास्थानानीत्यर्थः ॥ १४-१५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति॥
मूलम्
मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेव10चूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति॥ १६ ॥
अनुवाद (हिन्दी)
मन्दराचलकी गोदमें जो ग्यारह सौ योजन ऊँचा देवताओंका आम्रवृक्ष है, उससे गिरिशिखरके समान बड़े-बड़े और अमृतके समान स्वादिष्ट फल गिरते हैं॥ १६॥
वीरराघवः
चूतादिप्रभवा नदीराह मन्दरेति । मन्दरशिखरस्याधस्तात्प्रदेशे एकादशशतयोजनमुत्तुङ्ग उन्नतो यो देवचूतः तस्य शिरसः सकाशाद्गिरिशिखरवत्स्थूलानि फलानि । फलप्रमाणमुक्तं वायुपुराणे- “अरत्नीनां शतान्यष्टौ एकषष्ठ्यधिकानि च । फलप्रमाणमाख्यातमृषिभिस्तत्त्वदर्शिभिः” इति । अमृतकल्पानि अमृततुल्यानि फलन्ति । फलानि फलन्तीति गौर्गच्छतीतिवत् कृदर्थविशेषणत्वाद्धात्वर्थस्याविवक्षा बोध्या । ग्राहकाभावात्पक्कानि भवन्तीत्यर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धिबहुलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति॥
मूलम्
तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धिबहुलारुणर11सोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति॥ १७ ॥
अनुवाद (हिन्दी)
वे जब फटते हैं, तब उनसे बड़ा सुगन्धित और मीठा लाल-लाल रस बहने लगता है। वही अरुणोदा नामकी नदीमें परिणत हो जाता है। यह नदी मन्दराचलके शिखरसे गिरकर अपने जलसे इलावृत वर्षके पूर्वी-भागको सींचती है॥ १७॥
वीरराघवः
तेषां फलानां विशीर्णानामधः पातेन भिद्यमानानामतीव मधुरश्चासौ स्वतः सुरभिश्च सुगन्धिश्च चान्येषां गन्धैरधिवासित इति उपरिष्टात् बहुलश्चारुणश्च रसः स एवोदकं तेनारुणोदानामारुपोदेति । प्रसिद्धा नदी मन्दरशिखरान्निपतन्त्यधोऽधः स्पन्दमाना पूर्वेणेलावृतमिलावृतवर्षस्य पूर्वं प्रदेशमुपप्लावयति सिञ्चति आत्मानमुपस्यन्दयतीत्यर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति॥
मूलम्
यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति॥ १८ ॥
अनुवाद (हिन्दी)
श्रीपार्वतीजीकी अनुचरी यक्षपत्नियाँ इस जलका सेवन करती हैं। इससे उनके अंगोंसे ऐसी सुगन्ध निकलती है कि उन्हें स्पर्श करके बहनेवाली वायु उनके चारों ओर दस-दस योजनतक सारे देशको सुगन्धसे भर देती है॥ १८॥
वीरराघवः
अरुणोदां नदीं विशिनष्टि यदिति । यस्या अरुणोदाया उपजोषणाद्रसपानाद्भवान्या अनुचरीणां पुण्यजनानां यातुधानानां या वध्वः तासामवयवसंस्पर्शेन सुगन्धसुरभिर्वातो वायुः समन्तात्सर्वतो दिशं दशयोजनमनुवासयति सुरभीकरोति ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकायनिभानां रसेन जम्बू नाम नदी मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति॥
मूलम्
एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकायनिभानां रसेन जम्बू नाम नदी मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्य12न्दयति॥ १९ ॥
अनुवाद (हिन्दी)
इसी प्रकार जामुनके वृक्षसे हाथीके समान बड़े-बड़े प्रायः बिना गुठलीके फल गिरते हैं। बहुत ऊँचेसे गिरनेके कारण वे फट जाते हैं। उनके रससे जम्बू नामकी नदी प्रकट होती है, जो मेरुमन्दर पर्वतके दस हजार योजन ऊँचे शिखरसे गिरकर इलावृतके दक्षिण भू-भागको सींचती है॥ १९॥
वीरराघवः
एवं जम्बूफलानां मेरुमन्दरोत्सङ्गनिरूढजम्बूफलानामत्युच्चान्मेरुमन्दरात् यो निपातस्तेन विशीर्णानां भिन्नानामनस्थिप्रायाणामतिसूक्ष्मबीजानामिभकायनिभानां गजशरीरसदृशानां रसेन जम्बूनदीति प्रसिद्धा मेरुमन्दरस्य शिखराद्युतयोजनोच्छ्रायाद् भूतले निपतन्ती दक्षिणेनेलावृतमिलावृतस्य दक्षिणभागं यावदिलावृतमात्मानमुपस्यन्दयति इलावृतस्य दक्षिणं भागं प्राप्य वहतीत्यर्थः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति॥
मूलम्
तावदुभयोरपि रोधसोर्या मृत्तिका 13तद्रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन स14दामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति॥ २० ॥
अनुवाद (हिन्दी)
उस नदीके दोनों किनारोंकी मिट्टी उस रससे भीगकर जब वायु और सूर्यके संयोगसे सूख जाती है, तब वही देवलोकको विभूषित करनेवाला जाम्बूनद नामका सोना बन जाती है॥ २०॥
श्लोक-२१
विश्वास-प्रस्तुतिः
यदु ह वाव विबुधादयः सह युवतिभिर्मुकुटकटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति॥
मूलम्
यदु ह वाव विबुधादयः सह 15युवतिभिर्मुकुटकटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति॥ २१ ॥
अनुवाद (हिन्दी)
इसे देवता और गन्धर्वादि अपनी तरुणी स्त्रियोंके सहित मुकुट, कंकण और करधनी आदि आभूषणोंके रूपमें धारण करते हैं॥ २१॥
वीरराघवः
यावदिलावृतमुपस्यन्दयति तावत्पर्यन्तमुभयोरपि रोधसोः तटयोर्या मृत्तिका तद्रसेन तस्या नद्या रसेनानुविध्यमाना संयुज्यमाना वाय्वर्कसंयोगतो यो विपाकः परिणामस्तेन जाम्बूनदं नाम सुवर्णं सदा निरन्तरममरलोकानामाभरणोपयोगि भवति । एतदेवाह यदु सुवर्णं विबुधादयो युवतिभिः सह मुकुटाद्याभरणरूपेण धारयन्ति ॥ २०-२१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति॥
मूलम्
यस्तु महाकदम्बः सुपार्श्वनि16रूढो यास्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनु17मोदयन्ति॥ २२ ॥
अनुवाद (हिन्दी)
सुपार्श्व पर्वतपर जो विशाल कदम्बवृक्ष है, उसके पाँच कोटरोंसे मधुकी पाँच धाराएँ निकलती हैं; उनकी मोटाई पाँच पुरसे जितनी है। ये सुपार्श्वके शिखरसे गिरकर इलावृतवर्षके पश्चिमी भागको अपनी सुगन्धसे सुवासित करती हैं॥ २२॥
श्लोक-२३
विश्वास-प्रस्तुतिः
या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः समन्ताच्छतयोजनमनुवासयति॥
अनुवाद (हिन्दी)
जो लोग इनका मधुपान करते हैं, उनके मुखसे निकली हुई वायु अपने चारों ओर सौ-सौ योजनतक इसकी महक फैला देती है॥ २३॥
वीरराघवः
यस्त्विति । सुपार्श्वस्य पर्वतस्य यः पश्चिमो भागस्तत्र निरूढो यो महाकदम्बस्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः सकरयोर्बाह्वोः यत्तिर्यगन्तरं तदत्रायामः पञ्चायामः परिणाहः स्थौल्यं यासां ताः पञ्च मधुधाराः सुपार्श्वशिखरात्पतन्त्यः अपरेणेलाबृतस्य पश्चिमं भागं प्रत्यात्मानमनुमोदयन्ति सुरभीकुर्वन्ति स्यन्दन्त इत्यर्थः । धारा विशिनष्टि । यस्त्विति । उपयुञ्जानानां धारा उपभुञ्जानानां यो मुखनिर्वासितो मुखगन्धेन निर्वासितः नितरां सुरभीकृतो वायुः समन्ताच्छतयोजनं सुरभीकरोति निरतिशयसौरभ्ययुक्ता धारा इत्यर्थः ॥ २२-२३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
एवं कुमुदनिरूढो यः शतवल्शो नाम वटस्तस्य स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादयः सर्व एव कामदुघा नदाः कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति॥
मूलम्
एवं कुमुदनिरूढो यः शतवल्शो नाम वटस्तस्य स्कन्धेभ्यो 20नीचीनाः पयोदधिमधुघृतगुडा21न्नाद्यम्बरशय्यासनाभरणादयः सर्व एव कामदुघा नदाः कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति॥ २४ ॥
अनुवाद (हिन्दी)
इसी प्रकार कुमुद पर्वतपर जो शतवल्श नामका वटवृक्ष है, उसकी जटाओंसे नीचेकी ओर बहनेवाले अनेक नद निकलते हैं, वे सब इच्छानुसार भोग देनेवाले हैं। उनसे दूध, दही, मधु, घृत, गुड़, अन्न, वस्त्र, शय्या, आसन और आभूषण आदि सभी पदार्थ मिल सकते हैं। ये सब कुमुदके शिखरसे गिरकर इलावृतके उत्तरी भागको सींचते हैं॥ २४॥
श्लोक-२५
विश्वास-प्रस्तुतिः
यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति यावज्जीवं सुखं निरतिशयमेव॥
मूलम्
यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति यावज्जीवं सुखं निरतिशयमेव॥ २५ ॥
अनुवाद (हिन्दी)
इनके दिये हुए पदार्थोंका उपभोग करनेसे वहाँकी प्रजाकी त्वचामें झुर्रियाँ पड़ जाना, बाल पक जाना, थकान होना, शरीरमें पसीना आना तथा दुर्गन्ध निकलना, बुढ़ापा, रोग, मृत्यु, सर्दी-गरमीकी पीड़ा, शरीरका कान्तिहीन हो जाना तथा अंगोंका टूटना आदि कष्ट कभी नहीं सताते और उन्हें जीवनपर्यन्त पूरा-पूरा सुख प्राप्त होता है॥ २५॥
वीरराघवः
एवं कुमुदपर्वते निरूढो यः शतवल्श इति प्रसिद्धो वटस्तस्य स्कन्धेभ्यो विनिर्गताः पयोदधिमधुघृतगुडान्नाद्युम्बरशय्यासनाभरणादीनि गुडान्नादीनि भक्ष्याणि अम्बराणि धार्याणि शय्यासनादीनि भोगस्थानानि आभरणानि च दुहन्तीति दुधाः सर्वे नदाः कुमुदस्य पर्वतस्याप्रात्पतन्तस्तमुत्तरेणेलावृतमिलावृतस्योत्तरभागमुपजोषयन्ति प्रीणयन्ति इलावृतस्योत्तरभागस्थान् लोकान् सुखयन्तीत्यर्थः एतदेवाह । यान्नदानुपजुषाणानां सेवमानानां प्रजानां बल्यादयः तापविशेषा न भवन्ति किन्तु यावज्जीवं निरतिशयं सर्वोत्कृष्टं सुखमेव भवति । वलिस्त्वग्गतो विकारः पलितं केशगतक्लमः श्रमः आमयो रोगः उपसर्गाः सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमदमात्सर्येर्ष्यादयः प्रागुक्ता ज्ञेया इत्यर्थः ॥ २४-२५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषधशिनीवासकपिलशङ्खवैदूर्यजारुधिहंसर्षभनागकालञ्जरनारदादयो विंशतिगिरयो मेरोः कर्णिकाया इव केसरभूता मूलदेशे परित उपक्लृप्ताः॥
मूलम्
22कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषधशिनीवासकपिलशङ्खवैदूर्यजारुधिहंसर्षभनागकालञ्जरनार23दादयो विंश24तिगिरयो मेरोः कर्णिकाया इव केसरभूता मूलदेशे परित उपक्लृप्ताः॥ २६ ॥
अनुवाद (हिन्दी)
राजन्! कमलकी कर्णिकाके चारों ओर जैसे केसर होता है—उसी प्रकार मेरुके मूलदेशमें उसके चारों ओर कुरंग, कुरर, कुसुम्भ, वैकंक, त्रिकूट, शिशिर, पतंग, रुचक, निषध, शिनीवास, कपिल, शंख, वैदूर्य, जारुधि, हंस, ऋषभ, नाग, कालंजर और नारद आदि बीस पर्वत और हैं॥ २६॥
वीरराघवः
कुरङ्गेति । कुरङ्गादयः पर्वताः कुवलयकमलकर्णिकाभूतस्य मेरोर्मूलदेशे केसरभूता इव परित उपक्लृप्ताः विन्यस्ता धात्रेति शेषः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवतः। एवमपरेण पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतावेवमुत्तरतस्त्रिशृङ्गमकरावष्टभिरेतैः परिस्तृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः॥
मूलम्
जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनस25हस्रमुदगायतौ द्वि26सहस्रं पृथुतुङ्गौ भवतः। एवमपरेण पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतावेवमुत्तरतस्त्रिशृङ्गमकरावष्टभिरेतैः परिस्तृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः॥ २७ ॥
अनुवाद (हिन्दी)
इनके सिवा मेरुके पूर्वकी ओर जठर और देवकूट नामके दो पर्वत हैं, जो अठारह-अठारह हजार योजन लंबे तथा दो-दो हजार योजन चौड़े और ऊँचे हैं। इसी प्रकार पश्चिमकी ओर पवन और पारियात्र, दक्षिणकी ओर कैलास और करवीर तथा उत्तरकी ओर त्रिशृंग और मकर नामके पर्वत हैं। इन आठ पहाड़ोंसे चारों ओर घिरा हुआ सुवर्णगिरि मेरु अग्निके समान जगमगाता रहता है॥ २७॥
वीरराघवः
तथा मेरुं पूर्वेण मेरोः पुरस्तान्मेरुमूलायोजन सहस्रं त्यक्त्वा जठरदेवकूटौ पर्वतावष्टादशयोजनसहस्रदीर्घौ द्विसहस्रयोजनपृथुतुङ्गौ च भवतः । एवं मेरोरपरभागे पवनपारियात्रौ जठरदेवकूटाभ्यां तुल्यायामपृथुतुङ्गौ भवतः तथा मेरोर्दक्षिणतः कैलासेकरवीरौ प्रागायतौ पूर्वतो दीर्घौ एवमुत्तरतस्त्रिशृङ्गमकरौ भवतः दर्भैः परिस्तृतोऽग्निरिवाष्टभिरेतैर्जठरादिभिः काञ्चनगिरिर्मेरुः परितश्चकास्ति द्योतते ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपक्लृप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति॥
मूलम्
मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपक्लृप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति॥ २८ ॥
अनुवाद (हिन्दी)
कहते हैं, मेरुके शिखरपर बीचोबीच भगवान् ब्रह्माजीकी सुवर्णमयी पुरी है—जो आकारमें समचौरस तथा करोड़ योजन विस्तारवाली है॥ २८॥
श्लोक-२९
विश्वास-प्रस्तुतिः
तामनु परितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपक्लृप्ताः॥
मूलम्
तामनु परितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपक्लृप्ताः॥ २९ ॥
अनुवाद (हिन्दी)
उसके नीचे पूर्वादि आठ दिशा और उपदिशाओंमें उनके अधिपति इन्द्रादि आठ लोकपालोंकी आठ पुरियाँ हैं। वे अपने-अपने स्वामीके अनुरूप उन्हीं-उन्हीं दिशाओंमें हैं तथा परिमाणमें ब्रह्माजीकी पुरीसे चौथाई हैं॥ २९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः॥ १६ ॥
वीरराघवः
मेरोर्मूर्द्धन्युपरिभागे मध्यतः मध्यप्रदेशे उपक्लृप्तां भगवतः आत्मयोनेश्चतुर्मुखस्य पुरीमयुतयोजनविस्तारां समचतुरस्रां शातकौम्भीति प्रसिद्धां च वदन्ति, तां शातकौम्भीं पुरीमनुसृत्य मेरौ परितोऽष्टदिक्षु यथादिशं पूर्वादिदिशमनतिक्रममाणानामिन्द्रादीनां लोकपालानामष्टौ पुरः अमरावती तेजोवतीसंयमनीकृष्णाङ्गनाश्रद्धावतीगन्धवतीमहोदयायशोवतीसंज्ञाः तुरीयमानेन अयुतस्य तुरीयभागेन उपक्लृप्ताः सार्द्धद्विशतसहस्रयोजनविशालाः कल्पिता इत्यर्थः ॥ २८-२९ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकाख्यायां षोडशोऽध्यायः ॥ १६ ॥
-
दृश्येत । ↩︎
-
एतस्यां । ↩︎
-
यावानयं द्वीपः । ↩︎
-
षोडशसहस्त्रे । ↩︎
-
कुरूणां त्रयाणां वर्षाणां । ↩︎
-
द्विसाहस्रं । ↩︎
-
उत्तरेण । ↩︎
-
द्विसाहस्रं । ↩︎
-
तेष्वमरपरिवृढा । ↩︎
-
देवगिरिशिरसो । ↩︎
-
रसोदेन नानारुष्णोदा नाम । ↩︎
-
वृतमुपस्यन्दति । ↩︎
-
रसेनानुविध्यमाना च वाय्व । ↩︎
-
सदा चामरलोकाभरणं । ↩︎
-
सहस्रयुवतिभि । ↩︎
-
निरूढस्तस्य याः कोट । ↩︎
-
मनुमादयन्ति । ↩︎
-
यो ह्युप । ↩︎
-
मुखनिःश्वसितो । ↩︎
-
नीलीनाः । ↩︎
-
गुडान्नाम्बरशय्या । ↩︎
-
कुवर । ↩︎
-
नीरदाययामा । ↩︎
-
प्राचीने पाठे ‘विंशतिगिरयो’ - पाठः न । ↩︎
-
साहस्र । ↩︎
-
द्विसाहस्रं । ↩︎