[पञ्चदशोऽध्यायः]
भागसूचना
भरतके वंशका वर्णन
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति॥
मूलम्
भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—राजन्! भरतजीका पुत्र सुमति था, यह पहले कहा जा चुका है। उसने ऋषभदेवजीके मार्गका अनुसरण किया। इसीलिये कलियुगमें बहुत-से पाखण्डी अनार्य पुरुष अपनी दुष्ट बुद्धिसे वेदविरुद्ध कल्पना करके उसे देवता मानेंगे॥ १॥
वीरराघवः
एवं भरतचरित्रमुपवर्ण्य तत्सन्ततिमुपवर्णयति श्रीशुकः । भरतस्य सुमतिर्नामाभिहितः व्यवहृतः यं सुमतिमृषभस्य पदवीं योगचर्यारूपामनुवर्तमानमवलोक्य केचित्पाखण्डिनोऽनार्याः कलौ पापीयस्या स्वमनीषया अवेदसमान्नातामवेदोक्तां बौद्धदेवतामिति यावत् कल्पयिष्यन्ति बुद्ध एव साक्षात्सुमतिरूपेणावतीर्ण इति स्वकुमनीषया पश्यन्तीत्यर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तस्माद् वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत्॥
मूलम्
तस्माद् वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत्॥ २ ॥
अनुवाद (हिन्दी)
उसकी पत्नी वृद्धसेनासे देवताजित् नामक पुत्र हुआ॥ २॥
श्लोक-३
विश्वास-प्रस्तुतिः
अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः॥
मूलम्
अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्र1तीह उपजातः॥ ३ ॥
अनुवाद (हिन्दी)
देवताजित् के असुरीके गर्भसे देवद्युम्न, देवद्युम्नके धेनुमतीसे परमेष्ठी और उसके सुवर्चलाके गर्भसे प्रतीह नामका पुत्र हुआ॥ ३॥
श्लोक-४
विश्वास-प्रस्तुतिः
य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार॥
मूलम्
य आत्मविद्यामाख्याय स्वयं संशु2द्धो महापुरुषमनुसस्मार॥ ४ ॥
अनुवाद (हिन्दी)
इसने अन्य पुरुषोंको आत्मविद्याका उपदेशकर स्वयं शुद्धचित्त होकर परमपुरुष श्रीनारायणका साक्षात् अनुभव किया था॥ ४॥
वीरराघवः
तस्मात्सुमतेः वृद्धसेनायां भार्यायां देवताजिन्नामा पुत्र उत्पन्न आसुयां देवताजिद्भार्यायां तत्तनयः देवताजित्पुत्रः देवद्युम्नो नाम्नाभवत्ततो देवद्युम्नात्तद्भार्यायां धेनुमत्यां परमेष्ठी नाम सुतो जातः तस्य परमेष्ठिनस्तद्भार्यायां सुवर्चलायां प्रतीहाख्यः पुत्र उपजातः यः प्रतीहः बहुभ्यः आत्मविद्यामाख्याय उपदिश्याख्यानेनैव स्वयं संशुद्धः निर्मलान्तःकरणः परमपुरुषमुपासितवान् । अनुस्मृतिरत्र प्रत्यक्षतापन्नमुपासनं विवक्षितं भवति ॥ २-४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदाः सूनवः प्रतिहर्तुः स्तुत्यामजभूमानावजनिषाताम्॥
मूलम्
प्रतीहा3त्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदाः सूनवः प्रतिहर्तुः स्तुत्यामजभूमानावजनिषाताम्॥ ५ ॥
अनुवाद (हिन्दी)
प्रतीहकी भार्या सुवर्चलाके गर्भसे प्रतिहर्ता, प्रस्तोता और उद्गाता नामके तीन पुत्र हुए। ये यज्ञादि कर्मोंमें बहुत निपुण थे। इनमें प्रतिहर्ताकी भार्या स्तुति थी। उसके गर्भसे अज और भूमा नामके दो पुत्र हुए॥ ५॥
श्लोक-६
विश्वास-प्रस्तुतिः
भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद् द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्भगवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य कलाऽऽत्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्तः॥
मूलम्
भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायां प्रस्तावान्नियु4त्सायां हृदयज आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद् द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्भगवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य कलाऽऽत्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्तः॥ ६ ॥
अनुवाद (हिन्दी)
भूमाके ऋषिकुल्यासे उद्गीथ, उसके देवकुल्यासे प्रस्ताव और प्रस्तावके नियुत्साके गर्भसे विभु नामका पुत्र हुआ। विभुके रतिके उदरसे पृथुषेण, पृथुषेणके आकूतिसे नक्त और नक्तके द्रुतिके गर्भसे उदारकीर्ति राजर्षिप्रवर गयका जन्म हुआ। ये जगत्की रक्षाके लिये सत्त्वगुणको स्वीकार करनेवाले साक्षात् भगवान् विष्णुके अंश माने जाते थे। संयमादि अनेकों गुणोंके कारण इनकी महापुरुषोंमें गणना की जाती है॥ ६॥
वीरराघवः
प्रतीहात्सुवर्चलायां जातात्प्रतिहर्त्रादयः प्रतिहर्ता प्रस्तोता उद्गातेति । त्रयोऽपीज्याकोविदा यज्ञनिपुणाः सूनवः पुत्रा आसन् । तत्र प्रतिहर्तुः स्तुत्यां भार्यायामजभूमानावजो भूमेति च द्वौ पुत्रावजनिषाताम् उदभूतां, भूम्नोऽजानुजादृषिकुल्यायां भार्यायां उद्गिथाख्यः पुत्रः तत उद्गीथाद्देवकुल्यायां भार्यायां प्रस्तावाख्यः पुत्रः प्रस्तावाद्विप्रकुल्यायां भार्यायां विभुर्नाम हृदयजः पुत्र आसीद्विभो रत्यां भार्यायां पृथुसेनाख्यः पुत्रः तस्मात्पृथुसेनादाकूत्यां भार्यायां नक्तो नाम जज्ञे । ततः नक्ताद्गयो नाम द्रुतिपुत्रः द्रुतौ नक्तस्य भार्यायां पुत्र आसीदित्यर्थः । गयं विशिनष्टि । राजर्षीणां मध्ये श्रेष्ठः उदारश्रवा विपुलकीर्तिर्जगतो रिरक्षिषया रक्षितुमिच्छया गृहीतसत्त्वस्य उपात्तशुद्धसत्त्वमूर्तेर्भगवतो विष्णोः कला अंशभूतः सन्नात्मवत्त्वं प्रशस्तमनस्कत्वं तत्प्रभृतिना लक्षणेन गुणेन लक्ष्यतेऽनेनेति लक्षणो धर्मः महापुरुषत्वं प्राप्तः ॥ ५-६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत्॥
मूलम्
स वै स्व5धर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि निरभिमान ए6वावनिमजूगुपत्॥ ७ ॥
अनुवाद (हिन्दी)
महाराज गयने प्रजाके पालन, पोषण, रंजन, लाड़-चाव और शासनादि करके तथा तरह-तरहके यज्ञोंका अनुष्ठान करके निष्कामभावसे केवल भगवत्प्रीतिके लिये अपने धर्मोंका आचरण किया। इससे उनके सभी कर्म सर्वश्रेष्ठ परमपुरुष परमात्मा श्रीहरिके अर्पित होकर परमार्थरूप बन गये थे। इससे तथा ब्रह्मवेत्ता महापुरुषोंके चरणोंकी सेवासे उन्हें भक्तियोगकी प्राप्ति हुई। तब निरन्तर भगवच्चिन्तन करके उन्होंने अपना चित्त शुद्ध किया और देहादि अनात्मवस्तुओंसे अहंभाव हटाकर वे अपने आत्माको ब्रह्मरूप अनुभव करने लगे। यह सब होनेपर भी वे निरभिमान होकर पृथ्वीका पालन करते रहे॥ ७॥
वीरराघवः
महापुरुषत्वमेवाह स वा इति । स वै गयः प्रजापरिपालनादिरूपेण स्वधर्मेण स्ववर्णधर्मेण तत्र पालनं भयात् पोषणमन्नपानादिना प्रीणनमर्थितप्रदानेन उपलालनं सुतवत् श्लाघनमनुशासनं दुर्मार्गान्निवारणं तथा इज्यादिना पञ्चमहायज्ञादिना स्वाश्रमधर्मेण च इज्याशब्दः पञ्चमहायज्ञपरः, आदिशब्दो विवेकविमोकादीनामपि संग्राहकः, चशब्द आत्मयाथात्म्यज्ञानयोगसमुच्चायकः । इत्यादिकमाश्रमधर्मं विशिनष्टि । भगवति ब्रह्मणि परावरे महापुरुषे सर्वात्मना समर्पितपरमार्थलक्षणेनेति भगवति ब्रह्मणीति भगवद्द्ब्रह्मशब्दयोरेकविषयत्वमुक्तं, भगवत्त्वं परावरत्वे हेतुः परे ब्रह्मादयोऽवरेऽवमा यस्मात्स परावरः तस्मिन् “यथा क्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति” इति तत्क्रतुन्यायेनोपासितुर्महापुरुषत्वापादकं भगवदसाधारणमुपास्यं महापुरुषत्वमुक्तं, महापुरुष इति सर्वात्मना सर्वप्रकारेण कारणत्रयेणार्पितं समर्पितं परमार्थलक्षणं यत्फलस्वरूपं यस्मिंस्तेन अनभिसंहितफलत्वेनेत्यर्थः भगवत्परमार्थाभिलषितोऽर्थः फलमिति यावत् तल्लक्ष्यते येन सङ्गेनार्पितः परमार्थलक्षणः, सङ्गो यस्येति ममेदं कर्म न भवतीति तदित्युक्तसङ्गेनेति वार्थः । ब्रह्मविचरणानुसेवयापादितभगवद्भक्तियोगेनेत्यस्य तत्रायमर्थः-अर्पितपरमार्थलक्षणेन ओमित्यात्मानं युञ्जीतेत्युक्तविधात्मसमर्पणरूपशरणागतियोगाङ्गविशिष्टेनेति “तमेव शरणं गच्छ सर्वभावेन भारत ! मामेकं शरणं व्रज” इति भक्त्यङ्गतया शरणागतेः कर्तव्यताभिधानात् ब्रह्मविश्चरणानुसेवयापादितभगवद्भक्तियोगेनेत्यनेन भगवद्भक्तियोगोत्पत्तिः सत्सेवायतेत्युक्तं ब्रह्मविच्चरणानुसेवयेत्यनेन “देवमिवाचार्यमुपासीत, आचार्यवान् पुरुषो वेद, तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्” इत्यादिश्रुतिविहिताचार्यसम्बन्धोऽस्याभिहितः ब्रह्मविदित्यनेनाचार्यलक्षणयुक्तगुरुसमाश्रयणमस्य सूच्यते, स्वधर्मेणेत्यादिना ज्ञानकर्मयोगानुगृहीतेन न्यायसंयोगाङ्गकेन भक्तियोगेनेत्युक्तं भवति । उक्तविधेन भगवद्भक्तियोगेनाभीक्ष्णशः पुनः पुनः परिभाविता विशोधितात एव विशुद्धा मतिर्यस्य सः, अत एव उपरतमनात्म्यं देहात्मभ्रमो यस्य स निवृत्तदेहात्मभ्रम इत्यर्थः । आत्मेतरशरीरमनात्मा एवम्भूते स्वात्मनि उपलभ्यमानमन्तरात्मतया साक्षात्क्रियमाणं ब्रह्म तदेवात्मा परमात्मा तस्यानुभवो यस्य सः । यद्वा स्वान्तरात्मभूतब्रह्मैव परमात्मा तस्यानुभव उपलभ्यते येन तथोक्तः य आत्मनि तिष्ठन्निति प्रकारेण जीवात्मन्यवस्थितं परमात्मानमुपलभ्यमानमित्यर्थं । एवम्भूतोऽपि निरभिमान एव देहात्मभ्रमस्वतन्त्रात्मरहित एव इमां भूमिमजूगुपत् अरक्षत् इत्यर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति॥
मूलम्
तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति॥ ८ ॥
अनुवाद (हिन्दी)
परीक्षित्! प्राचीन इतिहासको जाननेवाले महात्माओंने राजर्षि गयके विषयमें यह गाथा कही है॥ ८॥
वीरराघवः
गयस्य माहात्म्यप्रतिपादिकां गाथामवतारयति । तस्येति । हे पाण्डवेय ! पुराविदः पूर्वकालिकवृत्तान्ताभिज्ञाः तस्य गयस्येमां माहात्म्यसूचिकां गाथामुपगायन्ति ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
गयं नृपः कः प्रतियाति कर्मभि-
र्यज्वाभिमानी बहुविद्धर्मगोप्ता।
समागतश्रीः सदसस्पतिः सतां
सत्सेवकोऽन्यो भगवत्कलामृते॥
मूलम्
गयं नृपः कः प्रतियाति कर्मभिर्यज्वाभिमानी बहुविद्धर्मगोप्ता।
समागतश्रीः सदसस्पतिः सतां सत्सेवकोऽन्यो भगवत्कलामृते॥ ९ ॥
अनुवाद (हिन्दी)
‘अहो! अपने कर्मोंसे महाराज गयकी बराबरी और कौन राजा कर सकता है? वे साक्षात् भगवान्की कला ही थे। उन्हें छोड़कर और कौन इस प्रकार यज्ञोंका विधिवत् अनुष्ठान करनेवाला, मनस्वी, बहुज्ञ, धर्मकी रक्षा करनेवाला, लक्ष्मीका प्रियपात्र, साधुसमाजका शिरोमणि और सत्पुरुषोंका सच्चा सेवक हो सकता है?’॥ ९॥
वीरराघवः
गाथामेवाह गयमिति पञ्चभिः । गयं नृपं कः पुमान् कर्मभिः प्रतियाति तत्सजातीयकर्मभिः कोऽपि पुमान्नानुकर्त्तु शक्नोतीत्यर्थः । तत्कृतं कर्म पुनरन्यः कर्तुं न प्रभवतीति यावत् । तत्र हेतुं वदन्प्रतियानाशक्यधर्मवत्तामाह । यज्वा यावच्छ्रुतिविहितयज्ञानुष्ठाता अभितो मानी सन् मानास्पदः बहुज्ञः वर्णाश्रमधर्माणां गोप्ता समागता, सम्प्राप्ता श्रीः सम्पद्येन यस्मिन्निति वा सप्तमी सदसः सभायाः पतिः सतां सेवकधान्यो भगवत्कलां गयमृते यं विना यज्वादिगुणाश्रयः कोऽपि नास्तीत्यर्थः । यद्वा । यज्वत्वादिगुणविशिष्टोऽपि भगवत्कलां गयमृते कोऽन्यः प्रतियातीत्यन्वयः । अस्मिन् पक्षे भगवत्कलात्वमेव प्रतियानशक्तो धर्मः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
यमभ्यषिञ्चन् परया मुदा सतीः
सत्याशिषो दक्षकन्याः सरिद्भिः।
यस्य प्रजानां दुदुहे धराऽऽशिषो
निराशिषो गुणवत्सस्नुतोधाः॥
मूलम्
यमभ्यषिञ्चन् परया मुदा सतीः सत्याशिषो दक्षकन्याः सरिद्भिः।
यस्य प्रजानां दुदुहे धराऽऽशिषो निरा7शिषो गुणवत्सस्नुतोधाः॥ १० ॥
अनुवाद (हिन्दी)
सत्यसंकल्पवाली परम साध्वी श्रद्धा, मैत्री और दया आदि दक्षकन्याओंने गंगा आदि नदियोंके सहित बड़ी प्रसन्नतासे उनका अभिषेक किया था तथा उनकी इच्छा न होनेपर भी वसुन्धराने गौ जिस प्रकार बछड़ेके स्नेहसे पिन्हाकर दूध देती है, उसी प्रकार उनके गुणोंपर रीझकर प्रजाको धन-रत्नादि सभी अभीष्ट पदार्थ दिये थे॥ १०॥
वीरराघवः
सतीः सत्यः सत्या आशिषो यासां ताः दक्षकन्याः श्रद्धामैत्रीदयाकीर्तिश्रीस्मृतिमेधाधृतितितिक्षाक्षमाद्याः सरिद्भिः स्वतेजोभिः यमभ्यषिञ्चन् श्रेष्ठमकुर्वन् यस्य गयस्य निराशिषः निष्कामस्य प्रजानामाशिषः कामान् धरा दुदुहे । धरा कथम्भूता तस्य गुणा एव वत्सास्तैः स्तुतमूधो यस्याः सा ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
छन्दांस्यकामस्य च यस्य कामान्
दुदूहुराजह्रुरथो बलिं नृपाः।
प्रत्यञ्चिता युधि धर्मेण विप्रा
यदाशिषां षष्ठमंशं परेत्य॥
मूलम्
छन्दांस्यकामस्य च यस्य कामान् दुदूहुराजह्रुरथो वलिं नृपाः।
प्रत्यञ्चिता युधि धर्मे8ण विप्रा यदाशिषां षष्ठमंशं परेत्य॥ ११ ॥
अनुवाद (हिन्दी)
उन्हें कोई कामना न थी, तब भी वेदोक्त कर्मोंने उनको सब प्रकारके भोग दिये, राजाओंने युद्धस्थलमें उनके बाणोंसे सत्कृत होकर नाना प्रकारकी भेंटें दीं तथा ब्राह्मणोंने दक्षिणादि धर्मसे सन्तुष्ट होकर उन्हें परलोकमें मिलनेवाले अपने धर्मफलका छठा अंश दिया॥ ११॥
वीरराघवः
छन्दांसि च यस्य कामान्दुदुहुः नृपा युधि युद्धे प्रत्यञ्चिताः बाणैः प्रतिपूजिता बलिमाजह्ररर्पयामासुः तथा धर्मेण धर्मपरिपालनेन दक्षिणादिभिश्च प्रत्यञ्चिता विप्राः परेत्य लोकान्तरे आशिषां धर्मफलानां षष्ठमंशमाजह्रुः “पुण्यात्षड्भागमादत्ते राजा न्यायेन पालयन्” इति स्मृतेः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
यस्याध्वरे भगवानध्वरात्मा
मघोनि माद्यत्युरुसोमपीथे।
श्रद्धाविशुद्धाचलभक्तियोग-
समर्पितेज्याफलमाजहार॥
मूलम्
यस्याध्वरे भगवानध्वरात्मा मघोनि माद्यत्युरुसोमपीथे।
श्रद्धाविशुद्धाचलभक्तियोगसम9र्पितेज्याफलमाजहार॥ १२ ॥
अनुवाद (हिन्दी)
उनके यज्ञमें बहुत अधिक सोमपान करनेसे इन्द्र उन्मत्त हो गये थे, तथा उनके अत्यन्त श्रद्धा तथा विशुद्ध और निश्चल भक्तिभावसे समर्पित किये हुए यज्ञफलको भगवान् यज्ञपुरुषने साक्षात् प्रकट होकर ग्रहण किया था॥ १२॥
वीरराघवः
यस्य गयस्याध्वरे यज्ञे गयकर्तृके यज्ञ इत्यर्थः । मघोनीन्द्रे उरुः सोमपीथः यस्य तस्मिन् बहुसोमपानेऽत एव माद्यति मदं प्राप्नुवति सति उरुसोमपीथे इत्यध्वरस्य विशेषणं वा अध्वरात्मा यज्ञशरीरकः स भगवान् श्रद्धया विशुद्धो निष्कपटो योऽचलोऽन्तरायानुपहतो भक्तियोगस्तेन समर्पितमिज्याफलमाजहार भक्तियोगोपपादितं प्रतिरूपमिज्याफलमर्हणमिव प्रत्यक्षतः स्वीकृतवानित्यर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
यत्प्रीणनाद्बर्हिषि देवतिर्यङ्
मनुष्यवीरुत्तृणमाविरिञ्चात्।
प्रीयेत सद्यः स ह विश्वजीवः
प्रीतः स्वयं प्रीतिमगाद्गयस्य॥
मूलम्
यत्प्रीणना10द्बर्हिषि देवतिर्यङ्मनुष्यवीरुत्तृणमाविरिञ्चात्।
प्रीयेत सद्यः स ह विश्वजीवः प्रीतः स्वयं प्रीतिमगाद्गयस्य॥ १३ ॥
अनुवाद (हिन्दी)
जिनके तृप्त होनेसे ब्रह्माजीसे लेकर देवता, मनुष्य, पशु-पक्षी, वृक्ष एवं तृणपर्यन्त सभी जीव तत्काल तृप्त हो जाते हैं—वे विश्वात्मा श्रीहरि नित्यतृप्त होकर भी राजर्षि गयके यज्ञमें तृप्त हो गये थे। इसलिये उनकी बराबरी कोई दूसरा व्यक्ति कैसे कर सकता है?॥ १३॥
वीरराघवः
तदेव प्रपञ्चयति । बर्हिषि यज्ञे यत्प्रीणनाद्यस्य भगवतः प्रीणनादाचतुर्मुखं देवादि सद्यः प्रीयेत प्रीतं भवेत्-देवादीनां द्वन्द्वैक्यं कुतः हि यस्मात्स विश्वजीवः विश्वं जीवयतीति विश्वजीवः विश्वस्य प्राणभूतः एवम्भूतो भगवान् स्वयं प्रीतः निरतिशयप्रीतिविशिष्टः गयस्य प्रीतिमगात्प्राप्तः गयस्य प्रीतिविषयोऽभूदित्यर्थः । अदादिति पाठे स्वयं गयविषयकनिरतिशयप्रीतियुक्तो भगवान् तस्यापि स्वविषयां प्रीतिं प्रीयात्मिकां बुद्धिमदादित्यर्थः “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः, ददामि बुद्धियोगं तं येन मामुपयान्ति ते, अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः" इत्यादिवचनजातार्थोऽत्रानुसन्धेयः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट॥
मूलम्
गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट॥ १४ ॥
अनुवाद (हिन्दी)
महाराज गयके गयन्तीके गर्भसे चित्ररथ, सुगति और अवरोधन नामक तीन पुत्र हुए। उनमें चित्ररथकी पत्नी ऊर्णासे सम्राट्का जन्म हुआ॥ १४॥
श्लोक-१५
विश्वास-प्रस्तुतिः
तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम्॥
मूलम्
तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः सुमनसि11वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च वि12षूच्यां किल जातम्॥
अनुवाद (हिन्दी)
सम्राट्के उत्कलासे मरीचि और मरीचिके बिन्दुमतीसे बिन्दुमान् नामक पुत्र हुआ। उसके सरघासे मधु, मधुके सुमनासे वीरव्रत और वीरव्रतके भोजासे मन्थु और प्रमन्थु नामके दो पुत्र हुए उनमेंसे मन्थुके सत्याके गर्भसे भौवन, भौवनके दूषणाके उदरसे त्वष्टा, त्वष्टाके विरोचनासे विरज और विरजके विषूची नामकी भार्यासे शतजित् आदि सौ पुत्र और एक कन्याका जन्म हुआ॥ १५॥
वीरराघवः
एवं गयस्य महापुरुषतामुपपाद्य प्रस्तुतां सन्ततिमाह गयादिति । गयाज्जयन्त्यां भार्यायां चित्ररथादयः त्रयः पुत्रा बभूवुस्तेषां मध्ये चित्ररथादूर्जायां भार्यायां सम्राडाख्यः पुत्रोऽजनिष्ट उत्पन्नस्ततः सम्राजः उत्कलायां भार्यायां मरीचिः मरीचेर्बिन्दुमत्यां बिन्दुमान्पुत्र उत्पन्नः तस्माद्विन्दुमतः सुषेणायां भार्यायां मधुर्नामात्मजोऽभवत् मधोः सुमनसि भायार्यां त्वष्टा नाम पुत्रो जातः ततस्त्वष्टुर्विरोचनायां भार्यायां विरजोऽजायत जातः । विरजस्य विरजाद्विषूच्यां भार्यायां शतजित्प्रवरो मुख्यो यस्य तत्पुत्राणां शतं जातं कन्या च जाता । किलेति प्रसिद्धौ ॥ १४-१५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
तत्रायं श्लोकः—
प्रैयव्रतं वंशमिमं विरजश्चरमोद्भवः।
अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा॥
मूलम्
तत्रायं श्लोकः—
प्रैयव्रतं वंशमिमं विरजश्चरमोद्भवः।
अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा॥ १६ ॥
अनुवाद (हिन्दी)
विरजके विषयमें यह श्लोक प्रसिद्ध है—‘जिस प्रकार भगवान् विष्णु देवताओंकी शोभा बढ़ाते हैं, उसी प्रकार इस प्रियव्रतवंशको इसमें सबसे पीछे उत्पन्न हुए राजा विरजने अपने सुयशसे विभूषित किया था’॥ १६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनं ना13म पञ्चदशोऽध्यायः॥ १५ ॥
वीरराघवः
प्रियव्रतसन्तानमुपसंहरति तत्रेति । तत्र प्रियव्रतसन्तानविषयेऽयं श्लोकः पठ्यते इति शेषः । चरमोद्भवः चरमस्य पुत्रशतस्य शतजिदादेः उद्भवः उद्भवत्यस्मादित्युद्भवः जनको विरजः इममुक्तं प्रैयव्रतं वंशं कीर्त्त्याऽलमकरोदलङ्कृतवान् यथा विष्णुरुपेन्द्रः सुरगणमिन्द्रादिदेवतावर्गमिति ॥ १६ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां पञ्चदशोऽध्यायः ॥ १५ ॥