१४ पारोक्ष्यविवरणम्

[चतुर्दशोऽध्यायः]

भागसूचना

भवाटवीका स्पष्टीकरण

श्लोक-१

मूलम् (वचनम्)

स होवाच

विश्वास-प्रस्तुतिः

य एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः स्वदेहनिष्पादितकर्मानुभवः श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्तत्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे यस्यामु ह वा एते षडिन्द्रियनामानः कर्मणा दस्यव एव ते॥

मूलम्

य एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववनसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः स्वदेहनिष्पादितकर्मानुभवः श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्तत्तापोपश1मनीं हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे यस्यामु ह वा एते षडिन्द्रियनामानः कर्मणा दस्यव एव ते॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! देहाभिमानी जीवोंके द्वारा सत्त्वादि गुणोंके भेदसे शुभ, अशुभ और मिश्र—तीन प्रकारके कर्म होते रहते हैं। उन कर्मोंके द्वारा ही निर्मित नाना प्रकारके शरीरोंके साथ होनेवाला जो संयोग-वियोगादिरूप अनादि संसार जीवको प्राप्त होता है, उसके अनुभवके छः द्वार हैं—मन और पाँच ज्ञानेन्द्रियाँ। उनसे विवश होकर यह जीवसमूह मार्ग भूलकर भयंकर वनमें भटकते हुए धनके लोभी बनिजारोंके समान परमसमर्थ भगवान् विष्णुके आश्रित रहनेवाली मायाकी प्रेरणासे बीहड़ वनके समान दुर्गम मार्गमें पड़कर संसार-वनमें जा पहुँचता है। यह वन श्मशानके समान अत्यन्त अशुभ है। इसमें भटकते हुए उसे अपने शरीरसे किये हुए कर्मोंका फल भोगना पड़ता है। यहाँ अनेकों विघ्नोंके कारण उसे अपने व्यापारमें सफलता भी नहीं मिलती; तो भी यह उसके श्रमको शान्त करनेवाले श्रीहरि एवं गुरुदेवके चरणारविन्द-मकरन्द-मधुके रसिक भक्त-भ्रमरोंके मार्गका अनुसरण नहीं करता। इस संसार-वनमें मनसहित छः इन्द्रियाँ ही अपने कर्मोंकी दृष्टिसे डाकुओंके समान हैं॥ १॥

वीरराघवः

एवमापृष्टः शुकः समवेतानुकल्पेन निर्दिशंस्तावद्दुरत्यय इति श्लोकं व्याचष्टे य इति । य एष जीवलोकः ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्याऽधीनया माययाऽतिदुर्गाध्वनि असुगमे संसाराध्वनि कर्ममार्गे आपतितो मायायाः स्वकार्यद्वारेण संसारमार्गपातहेतुत्वमाह । देहात्माभिमानिनां सत्वरजस्तमोभिर्गुणैर्विशेषेण कल्पितानि विभक्तानि सात्त्विकराजसतामसभेदभिन्नानि यानि कुशलानि सुखसाधनानि सात्त्विकानि अकुशलानि दुःखसाधनानि राजसानि मिश्राणि प्रमादालस्यादिसाधनानि रजस्तमोमूलानि कर्माणि तैर्विनिर्मिताभिसपादिताभिर्विविधदेहावलिभिः । “ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे ।” धरां रजःस्वभावेन इत्याद्युक्तरीत्या नियतदेशवृत्तिदेवमनुष्यासुरादिदेहपङ्क्तिभिर्यौ वियोगसंयोगौ देवियोगतत्संयोगौ आदिशब्देन बाल्ययौवनस्थविरादिभावसङ्ग्रहः एतद्रूपोऽनादिः संसारस्तदनुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण स एतस्मिन दुर्गाध्वन्यसुगमे संसाराध्वनि कर्ममार्गे आपतितः यथा वणिजां सार्थः समूहोऽर्थार्जनपरः तथा स्वदेहनिष्पादितानां पूर्वोक्तानां कर्मणां फलद्वारेणानुभवो यस्य विफलाश्च बहुलप्रतियोगा बहुविघ्नोपहता ईहाश्चेष्टा यस्य सः श्मशानवदमङ्गलरूपायां संसाराटव्यां गतोऽद्यापि तस्यां संसाराटव्यां ये तापा आध्यात्मिकादयस्तेषां शमनीं हरिदेव गुरुस्तस्य हरिगुरोश्चरणारविन्दे ये मधुकरा भ्रमरतुल्या भक्तास्तेषामनुपदवीं तैरनुष्ठितं भक्तिमार्गं नावरुन्धे न प्राप्नोति ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति। तद्धर्म्यं धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्पन्ति॥

मूलम्

तद्यथा पुरुषस्य धनं यत्किञ्चिद्ध2र्मौपयिकं बहुकृच्छ्राधिगतं 3साक्षात्परमपुरुषाराधनलक्षणो योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्यं धनं 4दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा 5सार्थस्य विलुम्पन्ति॥ २ ॥

अनुवाद (हिन्दी)

पुरुष बहुत-सा कष्ट उठाकर जो धन कमाता है, उसका उपयोग धर्ममें होना चाहिये; वही धर्म यदि साक्षात् भगवान् परमपुरुषकी आराधनाके रूपमें होता है तो उसे परलोकमें निःश्रेयसका हेतु बतलाया गया है। किन्तु जिस मनुष्यका बुद्धिरूप सारथि विवेकहीन होता है और मन वशमें नहीं होता, उसके उस धर्मोपयोगी धनको ये मनसहित छः इन्द्रियाँ देखना, स्पर्श करना, सुनना, स्वाद लेना, सूँघना, संकल्प-विकल्प करना और निश्चय करना—इन वृत्तियोंके द्वारा गृहस्थोचित विषयभोगोंमें फँसाकर उसी प्रकार लूट लेती हैं, जिस प्रकार बेईमान मुखियाका अनुगमन करनेवाले एवं असावधान बनिजारोंके दलका धन चोर-डाकू लूट ले जाते हैं॥ २॥

वीरराघवः

यस्यामित्यादिश्लोकं व्याचष्टे । यस्यामुहवेति यस्यां संसाराटव्यां ये षडिन्द्रियनामान एते कर्मणा दस्यव एव दस्युव्यापारेण दस्युत्वेन पूर्वं निरूपिता इत्यर्थः, इन्द्रियनामानः इत्यनेन केवलं नामभेद एवं कर्मणा ते दस्यव एवेत्युक्तं दस्यूनामिन्द्रियाणां च धनापहारित्वरूपं कर्म तुल्यमिति दृष्टान्तदार्ष्टान्तिकभावेन दर्शयति यथेति । यथास्य पुरुषस्यानवहितात्मनः सार्थस्य वणिजादेः धनं बहुकृच्छ्रेणातिदुःखेनार्ज्जितं धर्मौपयिकं धर्मोपयोगार्हं धनस्य धर्म एवोपयोगः सफलो न तु काम इत्यभिप्रायेण धर्मोपयिकमित्युक्तं, तथा चोक्तं प्रथमे - “धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥” इत्येवम्विधं यत्किञ्चिद्धनं यथा दस्यवश्चोरा अपहरन्त्येवमस्य पुरुषस्य यो भगवदाराधनरूपो धर्मस्तं साम्परायिकं परलोकहितं धनमित्युदाहरन्ति तद्धर्म्यं धर्माद्वर्णाश्रमादिधर्मादनपेतं धर्म्यं वर्णाश्रमादिधर्मयुक्तमित्यर्थः । धनं भगवदाराधनात्मकं धनं इन्द्रियाण्यपि दर्शनादिभिः पञ्चभिर्ज्ञानेन्द्रियवृत्तिभिः सङ्कल्पव्यवसायाभ्यामन्तःकरणवृत्तिभ्यां चेत्येतैर्यो गृहेषु ग्राम्यः सांसारिक उपभोगस्तेन कुनाथस्य कुबुद्धेरत एवाजितात्मनः अजितेन्द्रियस्यास्य पुरुषस्य सम्बन्धि विलुम्पन्ति अपहरन्ति ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति॥

मूलम्

अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकशृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं 6मिषतोपि हरन्ति॥ ३ ॥

अनुवाद (हिन्दी)

ये ही नहीं, उस संसार-वनमें रहनेवाले उसके कुटुम्बी भी—जो नामसे तो स्त्री-पुत्रादि कहे जाते हैं, किन्तु कर्म जिनके साक्षात् भेड़ियों और गीदड़ोंके समान होते हैं—उस अर्थलोलुप कुटुम्बीके धनको उसकी इच्छा न रहनेपर भी उसके देखते-देखते इस प्रकार छीन ले जाते हैं, जैसे भेड़िये गड़रियोंसे सुरक्षित भेड़ोंको उठा ले जाते हैं॥ ३॥

वीरराघवः

गोमायवो यत्रेति एतद्वयाचष्टे । अथ चेत्यर्थान्तरोपन्यासे, नाम्ना दारापत्यादयः कर्मणा तु वृकाः शृगालाच एते इत्यर्थः । वृकशृगालसाधर्म्यमेवाह-अनिच्छत इति । कुटुम्बिनः गृहाश्रमिणः कदर्यस्यातिलुब्धस्यानिच्छतोऽपि आत्मापहारमिति शेषः । बलादिति भावः । मिषतः पश्यतः सतः संरक्ष्यमाणमुरणमिव हरन्ति स्वशेषत्वेन कुर्वन्तस्तत्स्वरूपं भगवच्छेषतैकरूपमपहरन्तीत्यर्थः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद‍्भिर्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथः॥

मूलम्

यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद‍्भिर्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथः॥ ४ ॥

अनुवाद (हिन्दी)

जिस प्रकार यदि किसी खेतके बीजोंको अग्निद्वारा जला न दिया गया हो, तो प्रतिवर्ष जोतनेपर भी खेतीका समय आनेपर वह फिर झाड़-झंखाड़, लता और तृण आदिसे गहन हो जाता है—उसी प्रकार यह गृहस्थाश्रम भी कर्मभूमि है, इसमें भी कर्मोंका सर्वथा उच्छेद कभी नहीं होता, क्योंकि यह घर कामनाओंकी पिटारी है॥ ४॥

वीरराघवः

प्रभूतवीरुत्तृणगुल्मगाह्वर इत्येतद्व्याख्यातुं तावद्गृहाश्रमस्य प्रसिद्धक्षेत्रतुल्यतामाह यथा हीति । अनुवत्सरं प्रतिवत्सरं कृष्यमाणं वृक्षच्छेदपूर्वकं कर्षणेन संस्कृतमपि क्षेत्रमदग्धबीजं न दग्धानि बीजानि द्रुममूलानि यस्मिन् तथाभूतं सत्पुनरावपनकाले बीजावापकाले यथा गुल्मादिभिर्गह्वरमेव भवत्येवं गृहाश्रमरूपं कर्मक्षेत्रमपि प्रसिद्धक्षेत्रतुल्यं, कुतः हि यस्मात् यस्मिन् गृहाश्रमे कर्माणि नोत्सीदन्ति न मूलतो नश्यन्ति कुतो यद्धि यस्मादयमावसथः गृहं कामकरण्डः कामानां करण्डः यथा कर्पूरभाजने कर्पूरक्षयेऽपि परिमलो न हीयते एवमत्र कर्मनाशेऽपि तद्वासनानामक्षीणत्वात्कामानां पेटिकेत्यर्थः, तत्रैवंभूते कर्मक्षेत्रे गृहाश्रमे पतितः दंशमशकतुल्यैरपसदैर्नीचैरुपद्रुत इति शेषः, शलभादिभिरुपरुध्यमानः पीड्यमानः बहिःप्राणः धनधान्यादिरूपो यस्य शलभादिभिरपहृतसस्यधान्यधनवान् भवतीत्यर्थः । प्राणवत्प्रियत्वाद् बाह्यत्वाच्च धनस्य बहिःप्राण इत्युक्तम् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तत्र गतो दंशमशकसमापसदैर्मनुजैः शलभशकुन्ततस्करमूषकादिभिरुपरुध्यमानबहिःप्राणः क्वचित् परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगरमुपपन्नमिति मिथ्यादृष्टिरनुपश्यति॥

मूलम्

तत्र ग7तो दंशमशकसमापसदैर्मनुजैः शलभशकुन्ततस्करमूषकादिभिरुपरुध्यमानबहिःप्राणः क्वचित् परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगरमुपपन्नमिति 8मिथ्यादृष्टिरनुपश्यति॥ ५ ॥

अनुवाद (हिन्दी)

उस गृहस्थाश्रममें आसक्त हुए व्यक्तिके धनरूप बाहरी प्राणोंको डाँस और मच्छरोंके समान नीच पुरुषोंसे तथा टिड्डी, पक्षी, चोर और चूहे आदिसे क्षति पहुँचती रहती है। कभी इस मार्गमें भटकते-भटकते यह अविद्या, कामना और कर्मोंसे कलुषित हुए अपने चित्तसे दृष्टिदोषके कारण इस मर्त्यलोकको, जो गन्धर्वनगरके समान असत् है, सत्य समझने लगता है॥ ५॥

वीरराघवः

क्वचिच्च गन्धर्वपुरमित्युत्तरार्द्धं व्याचष्टे । क्वचिदस्मिन्संसाराध्वनि परिवर्त्तमानः भ्राम्यन्नविद्यादिभिः यदुपरक्तं तेन मनसा तत्राविद्याऽहंममाभिमानकामविषयाभिलाषः कर्म पुण्यापुण्यकर्म वासनाः नरलोकं स्वशरीरं पुत्रादिशरीरं गन्धर्वनगरवदनुपपन्नार्थमनुपपन्नमित्यर्थः । नित्यत्त्वरूपं वस्तु यस्य तं मिध्यादृष्टिरनित्ये नित्यत्वरूपमिथ्याभ्रमयुक्तः उपपन्नार्थं नित्यं पश्यतीत्यर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

तत्र च क्वचिदातपोदकनिभान् विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुपः॥

मूलम्

9तत्र च क्वचिदातपोदकनिभान् विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुपः॥ ६ ॥

अनुवाद (हिन्दी)

फिर खान-पान और स्त्री-प्रसंगादि व्यसनोंमें फँसकर मृगतृष्णाके समान मिथ्या विषयोंकी ओर दौड़ने लगता है॥ ६॥

वीरराघवः

प्रपश्यतीति प्रशब्दसूचितमर्थान्तरमाह तत्रेति । तत्र तत्र गन्धर्वपुरे क्वचिदातपोदकं मृगतृष्णाजलं तत्तुल्यान्विषयान्पानादिषु लोलुपतयासक्तः सन्नुपधावत्यन्वेषयतीत्यर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमतिः सुवर्णमुपादित्सत्यग्निकामकातर इवोल्मुकपिशाचम्॥

मूलम्

क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमतिः सुवर्णमुपादित्सत्यग्निकामकातर इवोल्मुकपिशाचम्॥ ७ ॥

अनुवाद (हिन्दी)

कभी बुद्धिके रजोगुणसे प्रभावित होनेपर सारे अनर्थोंकी जड़ अग्निके मलरूप सोनेको ही सुखका साधन समझकर उसे पानेके लिये लालायित हो इस प्रकार दौड़-धूप करने लगता है, जैसे वनमें जाड़ेसे ठिठुरता हुआ पुरुष अग्निके लिये व्याकुल होकर उल्मुक पिशाचकी (अगियाबेतालकी) ओर उसे आग समझकर दौड़े॥ ७॥

वीरराघवः

चतुर्थपादं व्याचष्टे क्वचिच्चेति । क्वचिच्चाशेषाणां दोषाणां निषदनं स्थानम् । पुरीषविशेषमग्नेर्विष्ठांतस्म पुरीषस्येव लोहितो वर्णो यस्य रजोगुणस्य तेन निर्मिता पुरीषविषया मतिर्यस्य सः सुवर्णमुपादातुमिच्छति सुवर्णस्याग्नेः पुरीषत्वं च वितलवर्णनगद्ये चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठयूतं हाटकाख्यं सुवर्णमिति वक्ष्यति । तत्र दृष्टान्तः-अग्निकामेन कातरः परवशः उल्मुकसदृशं पिशाचमिवेति शीतातुरो ह्यरण्येऽग्निमिव जाज्वल्यमानं ततस्ततो धावन्तमुल्मुकपिशाचमग्निबुद्ध्यानुधावति न तु तं प्राप्नोति कथञ्चित् प्राप्तश्चेत्तेन भर्जितः सन् म्रियते एवं सुवर्णमनुधावन्नपीत्यर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्ततः परिधावति॥

मूलम्

अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्ततः परिधावति॥ ८ ॥

अनुवाद (हिन्दी)

कभी इस शरीरको जीवित रखनेवाले घर, अन्न-जल और धन आदिमें अभिनिवेश करके इस संसारारण्यमें इधर-उधर दौड़-धूप करता रहता है॥ ८॥

वीरराघवः

निवासतोयेति व्याचष्टे । अथेति । निवासादिषु अनेकेष्वात्मन उपजीव्येष्वभिनिवेशो यस्य तथाभूतस्ततोऽस्यां संसाराटव्यां परिधावति ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोहमारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति॥

मूलम्

क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोहमारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति॥ ९ ॥

अनुवाद (हिन्दी)

कभी बवंडरके समान आँखोंमें धूल झोंक देनेवाली स्त्री गोदमें बैठा लेती है, तो तत्काल रागान्ध-सा होकर सत्पुरुषोंकी मर्यादाका भी विचार नहीं करता। उस समय नेत्रोंमें रजोगुणकी धूल भर जानेसे बुद्धि ऐसी मलिन हो जाती है कि अपने कर्मोंके साक्षी दिशाओंके देवताओंको भी भुला देता है॥ ९॥

वीरराघवः

क्वचिच्च वात्येत्यादि व्याचष्टे क्वचिच्चेति वात्यौपम्यया चक्रवाततुल्यया प्रमदया स्रिया यथा वात्या रजःप्रक्षेषेणान्धीकरोत्येवं रजोगुणोत्कर्षकत्वेनाज्ञतामापादयन्ती तत्तुल्या प्रमदेति भावः । आरोहमङ्कमारोपितः आरूढस्तस्मिन् काले यद्रजो रागस्तेन कथंभूतेन रजनीभूतेन रात्रिवदप्रकाशकेनाज्ञातवर्णेनेत्यर्थः । रजनीभूत इवेत्यपि पाठः । तत्र तमोमय इवेत्यर्थः । दीर्घपाठे रजन्यां रात्रौ भूता इवेत्यर्थः । अतिरजस्वलमतिरतीव रजसाच्छन्नमतिरत एवासाधुमर्यादः अतो रजोव्याप्तचक्षुरिव दिक्षु स्थिता मर्यादातिक्रमसाक्षीभूता देवता न जानात्यनुपादेयमेवोपादेयतया गृह्णाति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

क्वचित्सकृदवगतविषयवैतथ्यः स्वयं पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव मरीचितोयप्रायांस्तानेवाभिधावति॥

मूलम्

क्वचित्सकृदवगतविषयवैतथ्यः स्वयं पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव मरीचितोयप्रायांस्तानेवाभिधावति॥ १० ॥

अनुवाद (हिन्दी)

कभी अपने-आप ही एकाध बार विषयोंका मिथ्यात्व जान लेनेपर भी अनादिकालसे देहमें आत्मबुद्धि रहनेसे विवेक-बुद्धि नष्ट हो जानेके कारण उन मरुमरीचिकातुल्य विषयोंकी ओर ही फिर दौड़ने लगता है॥ १०॥

वीरराघवः

प्रक्रमसाजात्यादुत्तरश्लोकचतुर्थपादं व्याचष्टे क्वचिदिति । कदाचित्सकृदवगतं विषयेषु शब्दादिषु वैतथ्यं वैयर्थ्यं पुरुषार्थशून्यत्वं येन तथा भूतोऽपि पराभिध्यानेन देहचिन्तया विभ्रंशितस्मृतिर्विभ्रंशिता स्मृतिरात्मविषया यस्य तथैव विभ्रंशितस्मृत्याः मरीचितोयप्रायान् मरीचितोयतुल्यान् स्वयमपुरुषार्थरूपत्वेऽपि तत्त्वेनावभासमानान् तानेव विषयानभिधावति ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदयः॥

मूलम्

क्वचिदुलूकझिल्लीस्वनवदतिपरुषर10भसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदयः॥ ११ ॥

अनुवाद (हिन्दी)

कभी प्रत्यक्ष शब्द करनेवाले उल्लूके समान शत्रुओंकी और परोक्षरूपसे बोलनेवाले झींगुरोंके समान राजाकी अति कठोर एवं दिलको दहला देनेवाली डरावनी डाँट-डपटसे इसके कान और मनको बड़ी व्यथा होती है॥ ११॥

वीरराघवः

पूर्वार्द्धं व्याचष्टे कचिदुलूकेति । उलूकझिल्योः घूककीटविशेषयोर्ध्वनिवदतिपरुषो रभस उत्साहस्तेनाटोपः सम्भ्रमः यथा भवत्येवं रिपूणां राजकुलस्य च निर्भर्त्सितेनात्यन्तं व्यथितं कर्णमूलं हृदयं च यस्य तथाभूत आस्ते तत्र प्रत्यक्षाप्रियवाक्यमुलूकस्थानीयं राजकुलं परोक्षाप्रियवाक्यकृत्झिल्लीस्थानीयं रिपुकुलं विवक्षितम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुम लताविषोदपानवदुभयार्थशून्यद्रविणाञ्जीवन्मृतान् स्वयं जीवन्म्रियमाण उपधावति॥

मूलम्

स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुमलताविषोदपानवदुभयार्थशून्यद्रविणान् जीवन्मृतान् स्वयं जीवन्म्रियमाण उपधावति॥ १२ ॥

अनुवाद (हिन्दी)

पूर्वपुण्य क्षीण हो जानेपर यह जीवित ही मुर्देके समान हो जाता है; और जो कारस्कर एवं काकतुण्ड आदि जहरीले फलोंवाले पापवृक्षों, इसी प्रकारकी दूषित लताओं और विषैले कुओंके समान हैं तथा जिनका धन इस लोक और परलोक दोनोंके ही काममें नहीं आता और जो जीते हुए भी मुर्देके समान हैं—उन कृपण पुरुषोंका आश्रय लेता है॥ १२॥

वीरराघवः

स इति । यथा दुग्धपूर्वसुकृतः अपूर्णपूर्वसुकृतहीन इत्यर्थः । तथा कारस्करो विषतिन्दुः तत्प्रमुखा येऽपुण्यद्रुमाः तथाविधा लताश्च विषोदपाना विषकूपाश्च तत्तुल्यानुभयार्थशून्यद्रविणान् दृष्टादृष्टप्रयोजनशून्यानि द्रविणानि धनानि येषां तान् येषां द्रविणं कीर्त्यर्थं दृष्टार्थं च न भवति ते उभयार्थशून्यद्रविणा अत एव जीवन्मृतान्स्वयं जीवन्नपि म्रियमाणः मृतप्रायः जीवन्मृतः उपधावति ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतःस्खलनवद् उभयतोऽपि दुःखदं पाखण्डमभियाति॥

मूलम्

एकदासत्प्रसङ्गान्निकृतमति11र्व्युदकस्रोतःस्खलनवदुभयतोऽपि दुःखदं पाखण्डमभियाति॥ १३ ॥

अनुवाद (हिन्दी)

कभी असत् पुरुषोंके संगसे बुद्धि बिगड़ जानेके कारण सूखी नदीमें गिरकर दुःखी होनेके समान इस लोक और परलोकमें दुःख देनेवाले पाखण्डमें फँस जाता है॥ १३॥

वीरराघवः

कचिद्वितोयाः सरित इत्येतद्वयाचष्टे एकदेति । कदाचिदसतां वेददेवब्राह्मणविदूषकाणां प्रसङ्गात्सङ्गान्निकृता वञ्चिता मतिर्यस्य सः व्युदकस्रोतः स्खलनवन्निरुदकनदीपतनवत् यथा निर्जलनदीगर्ते पतितस्य न पिपासाशामकजललाभः प्रत्युत शिरःस्फुटनं च सद्यो भवति पश्चादपि तद्वेदनानुवर्तते एवमुभयत इह परलोके च दुःखदं पाषण्डं पाषण्डाचारमभियाति प्राप्नोति स्वीकरोति । यद्वा पाषण्डकुलं प्राप्नोति तत्र जायते इत्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मतः पितृपुत्रान् वा स खलु भक्षयति॥

मूलम्

यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मतः पितृपुत्रान् वा स खलु भक्षयति॥ १४ ॥

अनुवाद (हिन्दी)

जब दूसरोंको सतानेसे उसे अन्न भी नहीं मिलता, तब वह अपने सगे पिता-पुत्रोंको अथवा पिता या पुत्र आदिका एक तिनका भी जिनके पास देखता है, उनको फाड़ खानेके लिये तैयार हो जाता है॥ १४॥

वीरराघवः

परस्परं चालषते निरन्न इत्येतद्व्याचष्टे यदेति । यदातु परपीडया अन्ध अन्नमात्मने स्वस्मै नोपनमति नोपतिष्ठते परपीडयाप्यन्नं न लभत इत्यर्थः । तथा पितृपुत्रबर्हिष्ठान् पितृपुत्रादीनां बर्हिः कुशः तद्वतः पितृपुत्राणां कुशादि तृणमात्रमपि येषु पश्यति तान् स भक्षयति बाधत इत्यर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति॥

मूलम्

क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति॥ १५ ॥

अनुवाद (हिन्दी)

कभी दावानलके समान प्रिय विषयोंसे शून्य एवं परिणाममें दुःखमय घरमें पहुँचता है, तो वहाँ इष्टजनोंके वियोगादिसे उसके शोककी आग भड़क उठती है; उससे सन्तप्त होकर वह बहुत ही खिन्न होने लगता है॥ १५॥

वीरराघवः

आसाद्य दावमित्येतद्व्याचष्टे । कचिदिति । कदादिद्दावाग्नितुल्यं प्रियार्थविधुरं भोग्यपदार्थरहितमसुखोदकं दुःखपरम्परायुक्तं गृहं प्राप्य शोकाग्निना इष्टालाभादिष्टनिवृत्तिजदुःखेन भृशं दह्यमानः पीड्यमानो निर्वेदं मोहं मया सुकृतं न कृतमतो दुर्भगो मन्दभाग्योऽहमित्येवमुपगच्छति ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

क्वचित्कालविषमितराजकुलरक्षसापहृतप्रियतमधनासुःप्रमृतक इव विगतजीवलक्षण आस्ते॥

मूलम्

क्वचित्कालविषमितराजकुलरक्षसापहृतप्रियतमधनासुः प्रमृ12तक इव विगतजीवलक्षण आस्ते॥ १६ ॥

अनुवाद (हिन्दी)

कभी कालके समान भयंकर राजकुलरूप राक्षस इसके परम प्रिय धनरूप प्राणोंको हर लेता है, तो यह मरे हुएके समान निर्जीव हो जाता है॥ १६॥

वीरराघवः

क्वच यक्षैर्हृतासुरित्येतद्व्याचष्टे । क्वचित्कालेन विषमितं प्रतिकूलतां प्राप्तं यद्राजकूलं तदेव रक्षस्तेनापहृताः प्रियतमधनरूपा असवः प्राणा यस्य विगतामि जीवलक्षणानि हर्षादीनि यस्य अत एव मृतक इवास्तेऽवतिष्ठति ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति॥

मूलम्

कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति॥ १७ ॥

अनुवाद (हिन्दी)

कभी मनोरथके पदार्थोंके समान अत्यन्त असत् पिता-पितामह आदि सम्बन्धोंको सत्य समझकर उनके सहवाससे स्वप्नके समान क्षणिक सुखका अनुभव करता है॥ १७॥

वीरराघवः

अनेनैव शूरैर्हृतस्व इत्युत्तरश्लोकपूर्वार्द्धं व्याख्यातप्रायमित्यभिप्रेत्य तदुत्तरार्द्धं व्याचष्टे कदाचिदिति । कचिदसत्कालान्तरानवस्थायित्वेन पुरुषान्तराननुभाव्यत्वेन चासत्स्वप्नद्रष्ट्रेकानुभाव्यं तत्कालमात्रावसायि चेति यावत् मनोरथेन मनोव्यापारेण सङ्कल्पविकल्पात्मकेन उपगतं प्राप्तं स्वप्नदृष्टकर्मानुसारिसङ्कल्पविकल्पात्मकमनोरथानुसारिभगवत्सृष्टया प्राप्तमित्यर्थः । ईदृशं पितृपुत्रादि सदिति मन्वान इति शेषः । कालान्तरावस्थायिपुरुषान्तरानुभाव्यजाग्नस्तुतुल्यमतिरित्यर्थः । स्वप्ननिर्वृतिं स्वप्नेपि पुत्रादिसुखं क्षणमात्रमनुभवति स्वप्नस्य गन्धर्वनगरतुल्यत्वं च तद्वत्तत्कालमात्रावस्थायित्वेनानन्यानुभाव्यत्वेन चात्र विवक्षितम् । गन्धर्वा हि क्वचिन्नियतं चिरं न वसन्ति क्वचित् क्षणमवस्थितवन्तोऽपि न परैर्ज्ञायन्ते ततस्तेषां निवासस्थानापरपर्यायं नगरं न कालान्तरावस्थायीतरपुरुषानुभाव्यं चेति वदन्ति च ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

क्वचिद् गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमनाः कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति॥

मूलम्

क्वचिद् गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमनाः कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति॥ १८ ॥

अनुवाद (हिन्दी)

गृहस्थाश्रमके लिये जिस कर्मविधिका महान् विस्तार किया गया है, उसका अनुष्ठान किसी पर्वतकी कड़ी चढ़ाईके समान ही है। लोगोंको उस ओर प्रवृत्त देखकर उनकी देखा-देखी जब यह भी उसे पूरा करनेका प्रयत्न करता है, तब तरह-तरहकी कठिनाइयोंसे क्लेशित होकर काँटे और कंकड़ोंसे भरी भूमिमें पहुँचे हुए व्यक्तिके समान दुःखी हो जाता है॥ १८॥

वीरराघवः

चलन्क्वचिदित्यस्य पूर्वार्द्धं व्याचष्टे । क्वचिदिति कदाचिद् गृहाश्रमे याः कर्मणां चोदना विधयस्तासामतिभरो विस्तारः स एव गिरिस्तमारुरुक्षमाणः आरोढुमिच्छन् तदन्तं गन्तुमिच्छन् बहुदिवसानि शरीरायासयज्ञादिकर्माण्यारभ्य यावत्समाप्तिं कर्तुकामस्तावत् लौकिकैर्लोकभवैर्व्यसनैर्दुःखैरन्तरायभूतैः पुत्रवित्तापत्यादिभिः कर्षितमनाः पीडितचित्तः कण्टकशर्कराक्षेत्रं प्रविशन्निव पर्वतमारुरुक्षन्मध्ये कण्टकैः शर्करादिभिः सूक्ष्मपाषाणैश्चाकीर्णं क्षेत्रं प्रविष्ट इव सीदति खिद्यति ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना गृहीतसारः स्वकुटुम्बाय क्रुध्यति॥

मूलम्

क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना गृहीतसा13रः स्वकुटुम्बाय क्रुध्यति॥ १९ ॥

अनुवाद (हिन्दी)

कभी पेटकी असह्य ज्वालासे अधीर होकर अपने कुटुम्बपर ही बिगड़ने लगता है॥ १९॥

वीरराघवः

उत्तरार्द्धं व्याचष्टे क्वचिच्चेति । कदाचित् दुःसहेन सोढुमशक्येन कायाभ्यन्तरवह्निना शरीरमध्यपरिवर्तिजाठराग्निना गृहीतसारः गृहीतबलः कार्श्यं प्राप्तः स्वकुटुम्बाय भार्यायै क्रुध्यति ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत् किञ्चन वेद शव इवापविद्धः॥

मूलम्

स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत् किञ्चन वेद शव इवापविद्धः॥ २० ॥

अनुवाद (हिन्दी)

फिर जब निद्रारूप अजगरके चंगुलमें फँस जाता है, तब अज्ञानरूप घोर अन्धकारमें डूबकर सूने वनमें फेंके हुए मुर्देके समान सोया पड़ा रहता है। उस समय इसे किसी बातकी सुधि नहीं रहती॥ २०॥

वीरराघवः

क्वचिन्विगीर्ण इत्यस्य पूर्वार्द्धं व्याचष्टे स एवेति । स एव संसाराध्वनि भ्राम्यमाण एव । यद्वा कुटुम्बाय क्रुध्यन्नेव निद्वैवाजगरस्तेन गृहीतः अन्धे तमसि अन्धयतीत्यन्धं स्वपराप्रकाशं प्रत्तमः अज्ञानं तस्मिन्मग्नः शून्यारण्ये निर्जनेऽरण्य इव शेतेऽन्यत् किञ्चिदपि न वेद किं त्वहमित्येतावन्मात्रमवभासते न तु ब्राह्मणत्वादिबाह्याकारं जानाति तात्कालिकमस्य देहं लक्षयति अपविद्धः शवः दूरतः परिहृतः शव इवेति ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

कदाचिद‍्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्राक्षणो व्यथितहृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति॥

मूलम्

14कदाचिद‍् भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्राक्षणो व्यथितहृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति॥ २१ ॥

अनुवाद (हिन्दी)

कभी दुर्जनरूप काटनेवाले जीव इतना काटते—तिरस्कार करते हैं कि इसके गर्वरूप दाँत, जिनसे यह दूसरोंको काटता था, टूट जाते हैं। तब इसे अशान्तिके कारण नींद भी नहीं आती तथा मर्मवेदनाके कारण क्षण-क्षणमें विवेक-शक्ति क्षीण होते रहनेसे अन्तमें अंधेकी भाँति यह नरकरूप अंधे कुएँमें जा गिरता है॥ २१॥

वीरराघवः

तस्यैवोत्तरार्द्धं व्याचष्टे कदाचिदिति । क्वचित् दुर्जना एव दन्दशूकाः सर्पादयो दशत्स्वभावास्तैर्मग्नो मानो गर्वः स एव दंष्ट्रा यस्यात एवालब्धो निद्रायाः क्षणो येन व्यथितं दुःखितं यद्धृदयं तेन श्रीयमाणं सङ्कोच्यमानं विज्ञानं यस्य सः अन्धवदन्धकूपे महति दुःखे पततीत्यर्थः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

कर्हि स्म चित्काममधुलवान् विचिन्वन् यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा निहतः पतत्यपारे निरये॥

मूलम्

कर्हि स्म15 चित्काममधुलवान् विचिन्वन् यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा निहतः पतत्यपारे निरये॥ २२ ॥

अनुवाद (हिन्दी)

कभी विषयसुखरूप मधुकणोंको ढूँढते-ढूँढते जब यह लुक-छिपकर परस्त्री या परधनको उड़ाना चाहता है, तब उनके स्वामी या राजाके हाथसे मारा जाकर ऐसे नरकमें जा गिरता है जिसका ओर-छोर नहीं है॥ २२॥

वीरराघवः

कर्हिस्मचित् क्षुद्ररसानिति श्लोकं व्याचष्टे कर्हिचित्स्मेति । कामो विषयोपभोगस्तेन ये मधुलवाः सुखलेशास्तान्विचिन्वन्नन्वेपयन्यदा परदारान् परद्रविणानि चावरुन्धानः स्वीकर्तुमारभमाणः राज्ञा स्वामिभिः परैर्वा निहतो भवति तदाऽपारे निरये नरकप्रायकारागृहे निपतति राजादिभिर्निहतः कारागृहादिबद्धो भवतीत्यर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मनः संसारावपनमुदाहरन्ति॥

मूलम्

अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मनः संसारावपनमुदाहरन्ति॥ २३ ॥

अनुवाद (हिन्दी)

इसीसे ऐसा कहते हैं कि प्रवृत्तिमार्गमें रहकर किये हुए लौकिक और वैदिक दोनों ही प्रकारके कर्म जीवको संसारकी ही प्राप्ति करानेवाले हैं॥ २३॥

वीरराघवः

मुक्तस्तु बन्धादित्युक्तेः प्रसङ्गात्प्रवृत्तस्य कर्मणः संसारहेतुत्वं स्फुटयति अथ चेति । यस्मादेवं तस्मादथानन्तरमेव उभयथा इह परत्रास्मिन्प्रवृत्तिमार्गे संसारस्य वपनं जन्मक्षेत्रं कर्मोदाहरन्ति ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति तस्मादपि विष्णुमित्र इत्यनवस्थितिः॥

मूलम्

मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति तस्मादपि विष्णुमित्र इत्यनवस्थितिः॥ २४ ॥

अनुवाद (हिन्दी)

यदि किसी प्रकार राजा आदिके बन्धनसे छूट भी गया, तो अन्यायसे अपहरण किये हुए उन स्त्री और धनको देवदत्त नामका कोई दूसरा व्यक्ति छीन लेता है और उससे विष्णुमित्र नामका कोई तीसरा व्यक्ति झटक लेता है। इस प्रकार वे भोग एक पुरुषसे दूसरे पुरुषके पास जाते रहते हैं, एक स्थानपर नहीं ठहरते॥ २४॥

वीरराघवः

तत्रापि कृच्छ्रात्प्रतिलब्धमानः इत्येतद्वयाचष्टे मुक्त इति । यदि बन्धान्मुक्तो भवति तर्हि ततः सकाशाद्देवदत्त अन्य उपाच्छिनन्ति आहरति तस्मादपि विष्णुमित्रोऽन्यो हरति इत्यनवस्थितिः न त्वसौ भोक्तुं लभत इत्यर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

क्वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते॥

मूलम्

क्वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्तचिन्तया 16विषण्ण आस्ते॥ २५ ॥

अनुवाद (हिन्दी)

कभी-कभी शीत और वायु आदि अनेकों आधिदैविक, आधिभौतिक और आध्यात्मिक दुःखकी स्थितियोंके निवारण करनेमें समर्थ न होनेसे यह अपार चिन्ताओंके कारण उदास हो जाता है॥ २५॥

वीरराघवः

क्वचिच्च शीतातपेत्येतद्वयाचष्टे । क्वचिच्चेति शीतादयोऽनेकाधिदैविकानां भौतिकानामात्मनां च दशा दुःखावस्था आधिदैविका आधिभौतिका आध्यात्मिकास्तापा इत्यर्थस्तासां दशानां प्रतिनिवारणाय प्रतिक्रियायै अकल्पोऽसमर्थः प्रतिक्रियां कर्तुसमर्थः, अत एव विषण्णः दुःखितः अपारचिन्तायुक्त आस्ते ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन् यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात्॥

मूलम्

क्वचिन्मिथो व्यव17हरन् यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन् यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात्॥ २६ ॥

अनुवाद (हिन्दी)

कभी परस्पर लेन-देनका व्यवहार करते समय किसी दूसरेका थोड़ासा—दमड़ीभर अथवा इससे भी कम धन चुरा लेता है तो इस बेईमानीके कारण उससे वैर ठन जाता है॥ २६॥

वीरराघवः

क्वचिन्मिथ इत्येतद्वयाचष्टे । कदाचित्परस्परं व्यवहरन् यत्किञ्चिद्धनमन्येभ्यः सकाशात् काकिणिकामात्रं विशतिकपर्द्दमात्रं ततोऽपि न्यूनं वा यत्किञ्चिदपहरन् वित्तशाठ्येन धनलोभेन विद्वेषं प्राप्नोति ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरामरणादयः॥

मूलम्

अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरामरणादयः॥ २७ ॥

अनुवाद (हिन्दी)

राजन्! इस मार्गमें पूर्वोक्त विघ्नोंके अतिरिक्त सुख-दुःख, राग-द्वेष, भय, अभिमान, प्रमाद, उन्माद, शोक, मोह, लोभ, मात्सर्य, ईर्ष्या, अपमान, क्षुधा-पिपासा, आधि-व्याधि, जन्म, जरा और मृत्यु आदि और भी अनेकों विघ्न हैं॥ २७॥

वीरराघवः

क्वचित्कचित् क्षीणधन इत्येतद्वयाचष्टे । क्वचित्क्षीणं धनं यस्यात एव शय्यासननिवासादिभिरुपभोगैर्भोगोपकरणैर्विहीनः रहितः उपभोगशब्दो भोग्योपलक्षकः, क्वचित् यदैवंविधो भवति तदा यावदप्रतिलब्धमनोरथः अप्राप्तसमीहितः तावत्परस्वादानेऽन्यदीयधनग्रहणे व्यवसितमतिः केनापि परवञ्चनोपायेन तदीयं धनं ग्रहीतव्यमिति निश्चययुक्तः ततः परधनादिग्रहणोद्योगादपमानादीनि प्राप्नोति ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

क्वापि देवमायया स्त्रिया भुजलतोपगूढः प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदयस्तदाश्रयावसक्तसुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृतहृदय आत्मानमजितात्मापारेऽन्धे तमसि प्रहिणोति॥

मूलम्

क्वापि देवमायया स्त्रिया भुजलतोपगूढः प्रस्कन्नविवेकविज्ञा18नो यद्विहारगृहारम्भाकुलहृदयस्तदाश्रयावसक्तसुतदुहितृकलत्रभाषिताव19लोकविचेष्टितापहृतहृदय आत्मानमजितात्मापा20रेऽन्धे तमसि प्रहिणोति॥ २८ ॥

अनुवाद (हिन्दी)

(इस विघ्नबहुल मार्गमें इस प्रकार भटकता हुआ यह जीव) किसी समय देवमायारूपिणी स्त्रीके बाहुपाशमें पड़कर विवेकहीन हो जाता है। तब उसीके लिये विहारभवन आदि बनवानेकी चिन्तामें ग्रस्त रहता है तथा उसीके आश्रित रहनेवाले पुत्र, पुत्री और अन्यान्य स्त्रियोंके मीठे-मीठे बोल, चितवन और चेष्टाओंमें आसक्त होकर, उन्हींमें चित्त फँस जानेसे वह इन्द्रियोंका दास अपार अन्धकारमय नरकोंमें गिरता है॥ २८॥

वीरराघवः

अन्योऽन्यवित्तेति व्याचष्टे । एवं परस्परं वित्तस्य भाषाबन्धनस्य धनस्य व्यतिषङ्गेण व्यत्यासेन निबद्धमारूढमूलं यद्वैरं तदनुबन्धोऽप्रियकारित्वादिरूपश्च यस्यैवम्भूतोऽपि पूर्ववासनया जात्यभिमानप्रयुक्तया पूर्ववासनया मिथ उद्वहतः विवाहं कुर्वार्णांस्तानेव वैरविषयानेवोद्वहति । वैरविषयैरेव साजात्याभिमानेन विवाहादिक्रियया सम्बध्नातीत्यर्थः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात् परमाण्वादिद्विपरार्धापवर्गकालोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद‍्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवताः कङ्‍कगृध्रबकवटप्राया आर्यसमयपरिहृताः साङ्केत्येनाभिधत्ते॥

मूलम्

कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादिद्वि21परार्धापवर्गकालोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद‍्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवताः कङ्‍कगृध्रबक22वटप्राया आर्यसमयपरिहृताः साङ्केत्येनाभिधत्ते॥ २९ ॥

अनुवाद (हिन्दी)

कालचक्र साक्षात् भगवान् विष्णुका आयुध है। वह परमाणुसे लेकर द्विपरार्धपर्यन्त क्षण-घटी आदि अवयवोंसे युक्त है। वह निरन्तर सावधान रहकर घूमता रहता है, जल्दी-जल्दी बदलनेवाली बाल्य, यौवन आदि अवस्थाएँ ही उसका वेग हैं। उसके द्वारा वह ब्रह्मासे लेकर क्षुद्रातिक्षुद्र तृणपर्यन्त सभी भूतोंका निरन्तर संहार करता रहता है। कोई भी उसकी गतिमें बाधा नहीं डाल सकता। उससे भय मानकर भी जिनका यह कालचक्र निज आयुध है, उन साक्षात् भगवान् यज्ञपुरुषकी आराधना छोड़कर यह मन्दमति मनुष्य पाखण्डियोंके चक्‍करमें पड़कर उनके कंक, गिद्ध, बगुला और बटेरके समान आर्यशास्त्रबहिष्कृत देवताओंका आश्रय लेता है—जिनका केवल वेदबाह्य अप्रामाणिक आगमोंने ही उल्लेख किया है॥ २९॥

वीरराघवः

एतस्मिन् संसाराध्वन्येवमुक्तविधैर्नानाविधैः क्लेशैरुपसर्गैर्वक्ष्यमाणैः सुखदुःखरागद्वेषादिभिश्च वितते विस्तृतेऽनन्तक्लेशोपसर्गयुक्ते इत्यर्थः, आपन्न आपदं प्राप्तस्तत्र यो यो विपन्नः विपत्तिं प्राप्तः मृत इति यावत्तं तं विपन्नं पित्रादिरूपं विसृज्य जातं जातं पुत्रादिरूपमुपादायात्मीयाभिमतिं कृत्वा पुनर्जातविपत्तौ शोचन् तेन मुह्यन्खिद्यन्प्ररुदन् तत्र शोको मानसी व्यथा खेदो वाचिकी दैन्योक्तिरूपा प्ररोदः कायिकी अश्रुविमोचनादिरूपा जातान्पुनरन्यस्य जनने संहृष्यन् हाहादिभिरुच्चैर्ध्वनिं कुर्वन् बिभ्यत् जातादीनामागामिदुःखसम्भावनानिमित्तप्रतिकूलज्ञानप्रयुक्तः कदाचिज्जातादीनां गुणान् गायन्मुह्यमानः खेदं मोहं प्राप्तस्तेन साधुना कर्मणा वर्जितः, नह्यमान इति पाठे बध्यमानः अद्यापि जीवसमूहः आरब्ध उपक्रान्तयोगः संसाराध्वनः पार इतोऽस्मात्संसाराध्वनः सकाशात्तदध्वनः पारं यत् प्रति नैवावर्त्तते नायाति न प्राप्नोतीत्यर्थः । किं तदध्वनः पारं यत्प्रति नावर्तते तत्राह । यदिदं योगानुशासनं नाम योगानुशासनमिति प्रसिद्धं तत्संसाराध्वनः पारमुपदिशन्ति तत्त्वविद इति शेषः । योगस्याध्यात्मयोगकर्मयोगानुगृहीतभगवद्भक्तियोगस्यानुशासनं विविच्य ज्ञानं शिक्षणं वा तदनुष्ठानमिति यावत्तदेव संसाराध्वनः पारमित्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन् शूद्रकुलं भजते निगमाचारेऽशुद्धितो यस्य मिथुनीभावः कुटुम्बभरणं यथा वानरजातेः॥

मूलम्

यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन् शूद्रकुलं भजते निगमाचारेऽशुद्धितो यस्य मिथुनीभावः कुटुम्बभरणं यथा वानरजातेः॥ ३० ॥

अनुवाद (हिन्दी)

ये पाखण्डी तो स्वयं ही धोखेमें हैं; जब यह भी उनकी ठगाईमें आकर दुःखी होता है, तब ब्राह्मणोंकी शरण लेता है। किन्तु उपनयन-संस्कारके अनन्तर श्रौत-स्मार्तकर्मोंसे भगवान् यज्ञपुरुषकी आराधना करना आदि जो उनका शास्त्रोक्त आचार है, वह इसे अच्छा नहीं लगता; इसलिये वेदोक्त आचारके अनुकूल अपनेमें शुद्धि न होनेके कारण यह कर्मशून्य शूद्रकुलमें प्रवेश करता है, जिसका स्वभाव वानरोंके समान केवल कुटुम्बपोषण और स्त्रीसेवन करना ही है॥ ३०॥

वीरराघवः

मनस्विनो निर्जितेति श्लोकं व्याचष्टे न वा इति । उपशम एव शीलं येषामुपरतः निगृहीतः आत्मा मनो यैस्ते मुनयो मननशीला न्यस्तदण्डाः निवृत्तभूतद्रोहाः सर्वभूतसुहृदः सन्तः इत्यर्थः, यच्छन्तमं निरतिशयसुखरूपं परमात्मप्राप्त्युपायं योगानुशासनमुपतिष्ठन्ति प्राप्नुवन्ति तच्छन्तमं निर्जितदिग्गजेन्द्रा अमनस्विनः अनिर्जितान्तःकरणा राजर्षयो नैवावरुन्धन्ते न प्राप्नुवन्ति नैव च व्रजन्ति उपायानुष्ठानपूर्वकमुपेयं न यान्ति किन्त्वियं पृथिवी ममेत्यभिमानेनैव प्रकृतवैरानुबन्धाः मृधे युद्धे शयीरन् । केयं ममाभिमानविषयभूता तत्राह । यां पृथिवीं विसृज्य स्वयमुपसंहृता इत्यर्थः, सिंहावलोकन्यायेन बाधोपसर्गैरित्यत्राभिप्रेतमुपसर्गशब्दार्थमाह अध्वनीति । अस्मिन्नध्वनि संसाराध्वनि इमे स्वर्गादयः उपसर्गा इत्यर्थः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव विस्मृतकालावधिः॥

मूलम्

तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव विस्मृतकालावधिः॥ ३१ ॥

अनुवाद (हिन्दी)

वहाँ बिना रोक-टोक स्वच्छन्द विहार करनेसे इसकी बुद्धि अत्यन्त दीन हो जाती है और एक-दूसरेका मुख देखना आदि विषय-भोगोंमें फँसकर इसे अपने मृत्युकालका भी स्मरण नहीं होता॥ ३१॥

वीरराघवः

प्रसज्जतीत्येतद्व्याचष्टे कापीति । स्त्रीवेषया देवमायया भगवन्मायया कर्त्र्या भुजलताभ्यामुपगूढः आलिङ्गितः प्रस्कन्नं गतं विवेकात्मविज्ञानं यस्य । यद्वा विवेको देहविलक्षणात्मविवेकः विज्ञानं भगवदुपासनात्मकं तद्रहितः यस्याः स्त्रिया विहारगृहं क्रीडागृहं तदारम्भे आकुलं हृदयं यस्य तस्मिन्नाश्रमे वनिताविहारगृहे आसक्ताः प्रसक्ताः सुतादयस्तेषां भाषितादिभिरपहृतं हृदयं यस्य अत एवाजितेन्द्रियः अन्धे तमसि दुःखे नरके आत्मानं प्रहिणोति प्रक्षिपति ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

क्वचिद् द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा वानरः सुतदारवत्सलो व्यवायक्षणः॥

मूलम्

क्वचिद् द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा वानरः सुतदारवत्सलो व्यवायक्षणः॥ ३२ ॥

अनुवाद (हिन्दी)

वृक्षोंके समान जिनका लौकिक सुख ही फल है—उन घरोंमें ही सुख मानकर वानरोंकी भाँति स्त्री-पुत्रादिमें आसक्त होकर यह अपना सारा समय मैथुनादि विषय-भोगोंमें ही बिता देता है॥ ३२॥

वीरराघवः

पूर्वार्द्धं व्याख्यातमथोत्तरार्द्धं व्याचष्टे कदाचिदिति । परमाणुरादिः परार्द्धोऽपवर्गोऽन्तः स एवोपलक्षणं यस्य, कालोपलक्षणादिति पाठे तु परमाण्वादिपरार्द्धापवर्गरूपं यत्कालस्योपलक्षणमुपलक्ष्यत इत्युपलक्षणं स्वरूपं तस्मादित्यर्थः, रहसा शीघ्रेण परिवर्त्तितेन परिभ्रमणेन वयसा बाल्यादिक्रमेण ब्रह्माणमभिव्याप्य तृणस्तम्बादिभूतानां काल्यमानानां लवादिरूपेण गण्यमानायुषामित्यर्थः । मिषतां पश्यतामनिमिषतः निमेषमकुर्वत अप्रमत्तादिति वा हरतः आयुरिति द्वितीयान्तस्य शेषः अनिमिषतः अकाल्यमानाद्विष्णोश्चक्रात् वित्रस्तहृदयो मरणमाशङ्कमान इति यावत् अमरत्वाय पाखण्डदेवताः साङ्केत्येनाभिमुख्येन धत्ते किं कृत्वा कालचक्रं निजं स्वीयमायुधं यस्य तमेव साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवताः कथम्भूताः कङ्कगृध्रबकप्रायाः विश्वसन्त्योऽपि वञ्चयन्त्यः आर्याणां वैदिकानां समयात्सिद्धान्ताद् बहिः कृताः । साङ्केत्येनेत्यनेन पाखण्डदेवताराधनं पाखण्डसङ्केतनिबन्धनं न तु वैधमित्युक्तम् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये॥

मूलम्

एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये॥ ३३ ॥

अनुवाद (हिन्दी)

इस प्रकार प्रवृत्तिमार्गमें पड़कर सुख-दुःख भोगता हुआ यह जीव रोगरूपी गिरि-गुहामें फँसकर उसमें रहनेवाले मृत्युरूप हाथीसे डरता रहता है॥ ३३॥

वीरराघवः

यदा त्विति । आत्मा वञ्चितो यैस्तैरुपवञ्चितः सन् ब्रह्मकुलं प्रविष्टस्तेषां ब्राह्मणानां शीलमिति प्रतीकोपादानं तैर्वञ्चित इत्येतद्व्याचष्टे उपनयनादीत्याराधनमेवेत्यन्तेन अरोचयन्नभिमन्यमानः उपैति वानरानित्यस्य व्याख्यानं शूद्रकुलं भजत इति । तदुपपादयति निगमोक्ते आचारेऽपरिशुद्धितः स्वस्य शुद्ध्यभावात् यस्य शूद्रकुलस्य मिथुनीभावः कुटुम्बवर्द्धनं केवलदेहव्यापारश्चेत्येवं केवलग्राम्यसुखमेव नादृष्टं यथा वानरजातेरिति तत्र दृष्टान्तः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

क्वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण आस्ते॥

मूलम्

क्वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण आस्ते॥ ३४ ॥

अनुवाद (हिन्दी)

कभी-कभी शीत, वायु आदि अनेक प्रकारके आधिदैविक, आधिभौतिक और आध्यात्मिक दुःखोंकी निवृत्ति करनेमें जब असफल हो जाता है, तब उस समय अपार विषयोंकी चिन्तासे यह खिन्न हो उठता है॥ ३४॥

वीरराघवः

तज्जातिरासेनेत्येतद्व्याचष्टे । तत्रापीति । शूद्रकुलेऽपि निरवरोधः प्रतिबन्धरहितः स्वैरेण स्वेच्छया युक्तदेशकालप्रतीक्षामन्तरेण कीडन्नतिकृपणोऽत्यन्तं व्याकुला बुद्धिर्यस्य योषित्पुरुषयोः परस्परमुखनिरीक्षणादिरूपेण ग्राम्यकर्मणैव विस्मृतः कालावधिरायुषोऽवसानं यस्य स आस्ते ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमुपयाति वित्तशाठ्येन॥

मूलम्

क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमुपयाति वित्तशाठ्येन॥ ३५ ॥

अनुवाद (हिन्दी)

कभी आपसमें क्रय-विक्रय आदि व्यापार करनेपर बहुत कंजूसी करनेसे इसे थोड़ा-सा धन हाथ लग जाता है॥ ३५॥

वीरराघवः

द्रुमेषु रस्यन्नित्येतद्व्याचष्टे क्वचिदिति । वृक्षवत्केवलमैहिकसुखप्रयोजनकेषु गृहेषु द्रुमादिवत् केवलमिहैव युज्यन्ते न परत्रेति भावः । यद्वा द्रुमवद् द्रुम इव यथा वानरः सुतदारवत्सलो मैथुनमेव क्षण उत्सवो यस्य तथाभूतो भवत्येवमयमपि केवलमैहिकार्थे गृहेषु रंस्यन् सुतदारवत्सलो व्यवायक्षणः स्वबन्धने विवशो भवतीत्यर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

क्वचित्क्षीणधनः शय्यासनाशनाद्युपभोगविहीनो यावदप्रतिलब्धमनोरथोपगतादानेऽवसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते॥

मूलम्

क्वचित्क्षीणधनः शय्यासनाशनाद्यु23पभोगविहीनो यावदप्रतिलब्धमनोरथोप24गतादानेऽवसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते॥ ३६ ॥

अनुवाद (हिन्दी)

कभी धन नष्ट हो जानेसे जब इसके पास सोने, बैठने और खाने आदिकी भी कोई सामग्री नहीं रहती, तब अपने अभीष्ट भोग न मिलनेसे यह उन्हें चोरी आदि बुरे उपायोंसे पानेका निश्चय करता है। इससे इसे जहाँ-तहाँ दूसरोंके हाथसे बहुत अपमानित होना पड़ता है॥ ३६॥

श्लोक-३७

विश्वास-प्रस्तुतिः

एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ उद्वहत्यथापवहति॥

मूलम्

एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ उद्वहत्यथापवहति॥ ३७ ॥

अनुवाद (हिन्दी)

इस प्रकार धनकी आसक्तिसे परस्पर वैरभाव बढ़ जानेपर भी यह अपनी पूर्ववासनाओंसे विवश होकर आपसमें विवाहादि सम्बन्ध करता और छोड़ता रहता है॥ ३७॥

श्लोक-३८

विश्वास-प्रस्तुतिः

एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र विसृज्य जातं जातमुपादाय शोचन्मुह्यन् बिभ्यद्विवदन् क्रन्दन् संहृष्यन्गायन्नह्यमानः साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोकसार्थो यमध्वनः पारमुपदिशन्ति॥

मूलम्

एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो य25त्र यस्तमु ह वावेतरस्त26त्र विसृज्य जातं जातमुपादाय शोचन्मुह्यन् 27बिभ्यद्विवदन् क्रन्दन् संहृष्यन्गायन्न28ह्यमानः साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोकसार्थो यमध्वनः पारमुपदिशन्ति॥ ३८ ॥

अनुवाद (हिन्दी)

इस संसारमार्गमें चलनेवाला यह जीव अनेक प्रकारके क्लेश और विघ्न-बाधाओंसे बाधित होनेपर भी मार्गमें जिसपर जहाँ आपत्ति आती है अथवा जो कोई मर जाता है; उसे जहाँ-का-तहाँ छोड़ देता है; तथा नये जन्मे हुओंको साथ लगाता है, कभी किसीके लिये शोक करता है, किसीका दुःख देखकर मूर्च्छित हो जाता है, किसीके वियोग होनेकी आशंकासे भयभीत हो उठता है, किसीसे झगड़ने लगता है, कोई आपत्ति आती है तो रोने-चिल्लाने लगता है, कहीं कोई मनके अनुकूल बात हो गयी तो प्रसन्नताके मारे फूला नहीं समाता, कभी गाने लगता है और कभी उन्हींके लिये बँधनेमें भी नहीं हिचकता। साधुजन इसके पास कभी नहीं आते, यह साधुसंगसे सदा वंचित रहता है। इस प्रकार यह निरन्तर आगे ही बढ़ रहा है। जहाँसे इसकी यात्रा आरम्भ हुई है और जिसे इस मार्गकी अन्तिम अवधि कहते हैं, उस परमात्माके पास यह अभीतक नहीं लौटा है॥ ३८॥

श्लोक-३९

विश्वास-प्रस्तुतिः

यदिदं योगानुशासनं न वा एतदवरुन्धते यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मानः समवगच्छन्ति॥

मूलम्

यदिदं योगानुशासनं न वा29 एतदवरुन्धते यन्यस्तदण्डा मुनय उपशमशीला उपरतात्मानः समवगच्छन्ति॥ ३९ ॥

अनुवाद (हिन्दी)

परमात्मातक तो योगशास्त्रकी भी गति नहीं है; जिन्होंने सब प्रकारके दण्ड (शासन)-का त्याग कर दिया है, वे निवृत्तिपरायण संयतात्मा मुनिजन ही उसे प्राप्त कर पाते हैं॥ ३९॥

श्लोक-४०

विश्वास-प्रस्तुतिः

यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः॥

मूलम्

यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्नस्यामेव ममेय30मिति कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः॥ ४० ॥

अनुवाद (हिन्दी)

जो दिग्गजोंको जीतनेवाले और बड़े-बड़े यज्ञोंका अनुष्ठान करनेवाले राजर्षि हैं उनकी भी वहाँतक गति नहीं है। वे संग्रामभूमिमें शत्रुओंका सामना करके केवल प्राणपरित्याग ही करते हैं तथा जिसमें ‘यह मेरी है’, ऐसा अभिमान करके वैर ठाना था—उस पृथ्वीमें ही अपना शरीर छोड़कर स्वयं परलोकको चले जाते हैं। इस संसारसे वे भी पार नहीं होते॥ ४०॥

श्लोक-४१

विश्वास-प्रस्तुतिः

कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चिन्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति एवमुपरि गतोऽपि॥

मूलम्

कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चिन्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति एवमुपरि गतोऽपि॥ ४१ ॥

अनुवाद (हिन्दी)

अपने पुण्यकर्मरूप लताका आश्रय लेकर यदि किसी प्रकार यह जीव इन आपत्तियोंसे अथवा नरकसे छुटकारा पा भी जाता है, तो फिर इसी प्रकार संसारमार्गमें भटकता हुआ इस जनसमुदायमें मिल जाता है। यही दशा स्वर्गादि ऊर्ध्वलोकोंमें जानेवालोंकी भी है॥ ४१॥

वीरराघवः

क्वचित्प्रमादादित्येतद्व्याचष्टे एवमिति । संसाराध्वनि सुखदुःखाद्यवरुन्धानः अनुभवमानः मृत्युरेव गजस्तस्य भयाद्गिरिकन्दरतुल्ये तमसि रोगाद्यापदि पतन् ततः पुनरप्येवं जीवनहेतुभूतां कर्मरूपां वल्लीमवलम्ब्य ततः आपदः रोगाद्युपद्रवरूपान्नरकात्केनापि प्रयासेन विमुक्तः पुनरप्येवमुक्तरीत्या संसाराध्वनि वर्त्तमानो नरलोकसार्थं नरशरीरजीवसमूहमुपयातीत्येवमुपरि गतोऽपि लोकान्तरेषु विद्यमानो देवादिसमूहोऽपि संसाराध्वन्यटतीत्यर्थः । तथा चोक्तं “ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति” इति ॥ ३३-४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

तस्येदमुपगायन्ति—
आर्षभस्येह राजर्षेर्मनसापि महात्मनः।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः॥

मूलम्

तस्येदमुपगायन्ति—आर्षभस्येह राजर्षेर्मनसापि महात्मनः।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः॥ ४२ ॥

अनुवाद (हिन्दी)

राजन्! राजर्षि भरतके विषयमें पण्डितजन ऐसा कहते हैं—‘जैसे गरुडजीकी होड़ कोई मक्खी नहीं कर सकती, उसी प्रकार राजर्षि महात्मा भरतके मार्गका कोई अन्य राजा मनसे भी अनुसरण नहीं कर सकता॥ ४२॥

वीरराघवः

एवं पारोक्ष्यरूपमवधूतवचो व्याख्याय तन्माहात्म्यप्रतिपादकान् श्लोकानवतारयति । तस्येदं माहात्म्यमार्षभस्य ऋषभपुत्रस्य महात्मनो महानुभावस्य राजर्षेर्वर्त्म मार्गं मनसाप्यनुसर्तुमन्यो नृपो नार्हति यथा गरुडस्य गतिं मक्षिकेत्यर्थः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

यो दुस्त्यजान्दारसुतान् सुहृद्राज्यं हृदिस्पृशः।
जहौ युवैव मलवदुत्तमश्लोकलालसः॥

मूलम्

यो दुस्त्यजान्दारसुतान् सुहृद्राज्यं हृदिस्पृशः।
जहौ युवैव मलवदुत्तमश्लोकलालसः॥ ४३ ॥

अनुवाद (हिन्दी)

उन्होंने पुण्यकीर्ति श्रीहरिमें अनुरक्त होकर अति मनोरम स्त्री, पुत्र, मित्र और राज्यादिको युवावस्थामें ही विष्ठाके समान त्याग दिया था; दूसरोंके लिये तो इन्हें त्यागना बहुत ही कठिन है॥ ४३॥

वीरराघवः

तत्रैव हेतुमाह । स आर्षभो राजर्षिः स्वाधीनः स्ववशः मनोज्ञानत एव दुस्त्यजान् दुःखेनापि त्यक्तुमशक्यान् पुत्रान् सुहद्राज्ययोर्द्वन्द्वैक्यं, युवैव सन्मलवद्विष्ठामिव जहावत्याक्षीत् । त्यागे हेतुमाह उत्तमश्लोके भगवति लालसः लम्पटः आसक्तचित्त इति यावत् ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्
प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम्।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट्-
सेवानुरक्तमनसामभवोऽपि फल्गुः॥

मूलम्

यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम्।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट्सेवानुरक्तमनसामभवोऽपि फल्गुः॥ ४४ ॥

अनुवाद (हिन्दी)

उन्होंने अति दुस्त्यज पृथ्वी, पुत्र, स्वजन, सम्पत्ति और स्त्रीकी तथा जिसके लिये बड़े-बड़े देवता भी लालायित रहते हैं किन्तु जो स्वयं उनकी दयादृष्टिके लिये उनपर दृष्टिपात करती रहती थी—उस लक्ष्मीकी भी, लेशमात्र इच्छा नहीं की। यह सब उनके लिये उचित ही था; क्योंकि जिन महानुभावोंका चित्त भगवान् मधुसूदनकी सेवामें अनुरक्त हो गया है, उनकी दृष्टिमें मोक्षपद भी अत्यन्त तुच्छ है॥ ४४॥

वीरराघवः

न केवलमत्याक्षीदेवापि तु नैच्छदित्याह य इति । यो नृप आर्षभः दुस्त्यजान् क्षित्यादीन् क्षितिर्भारतं वर्षं सुताः पुत्रा अर्थं धनं दाराः स्त्रियः इमान् सुरवरैरिन्द्रादिभिश्च प्रार्थ्यां श्रियं सम्पदं कथम्भूतां सदयावलोकां सदयया युक्तः अवलोको राज्ञो यस्यां तां राज्ञो दयया युक्तोऽवलोको मयि प्रसरत्विति प्रार्थयमानामिति भावः, नैच्छत् क्षित्यादिषु रागमपि नाकरोदित्यर्थः, नैतच्चित्रं किन्तु युक्तं चैतदित्याह तदुचितमिति । कुतः यतो मधुद्विषः सेवायामनुरक्तमनसां महतामभवो मोक्षोऽपि फल्गुरल्पः भगवत्सेवापेक्षया मोक्षोऽप्यल्प इत्यर्थः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

यज्ञाय धर्मपतये विधिनैपुणाय
योगाय सांख्यशिरसे प्रकृतीश्वराय।
नारायणाय हरये नम इत्युदारं
हास्यन्मृगत्वमपि यः समुदाजहार॥

मूलम्

यज्ञाय धर्मपतये विधिनैपुणाय योगाय सांख्यशिरसे प्रकृतीश्वराय।
नारायणाय हरये नम इत्युदारं हास्यन्मृगत्वमपि यः समुदाजहार॥ ४५ ॥

अनुवाद (हिन्दी)

उन्होंने मृगशरीर छोड़नेकी इच्छा होनेपर उच्चस्वरसे कहा था कि धर्मकी रक्षा करनेवाले, धर्मानुष्ठानमें निपुण, योगगम्य, सांख्यके प्रतिपाद्य, प्रकृतिके अधीश्वर यज्ञमूर्ति सर्वान्तर्यामी श्रीहरिको नमस्कार है।’॥ ४५॥

वीरराघवः

तस्य मधुद्विट्सेवानुरागातिशयमेवाह यज्ञायेति । यज्ञानां भोक्त्रे प्रभवे च धर्मपतयेऽवतारैर्वर्णाश्रमधर्माणां गोप्त्रे विधिनैपुणाय धर्मानुवर्त्तिनां रक्षाविधौ नैपुण्ययुक्ताय साङ्ख्यमात्मानात्मविवेकात्मकोऽध्यात्मयोगः स एव शिरः शिरोवत्प्रधानाङ्गं यस्य तस्मै योगाय विवेकादिसाधनसप्तकानुगृहीतभक्तियोगगम्याय योगशब्दस्तद्गम्ये औपचारिकः प्रकृतीश्वराय मायानियन्त्रे नारं जीवसमूहः अयनमाश्रयो यस्य तस्मै, अनेन चिदचिच्छरीरकत्वमुक्तं हरये आश्रितबन्धहराय नम इत्युदारं भृशमुदाजहार उदाहृतवान् किं कर्तुमिच्छन् मृगत्वं हरिणशरीरमपि हास्यन् हातुमिच्छन् अत्र मृगत्वं हास्यन् समुदाजहारेति हासोदाहरणयोर्यौगपद्यं प्रतीयते तथापि मृगजन्मनो वैकल्यदशायां समुदाहरणमत्र विवक्षितमन्यथा चरमदशायामुक्तनामग्रहणे तद्देहावसाने मुक्तेरस्मिन् प्रबन्धे बहुषु स्थलेषूक्तत्वेन पूर्वापरग्रन्थविरोधापत्तेः । उदाहरणं चात्राव्यक्तोचारणं विवक्षितं मृगजन्मनस्तस्य व्यक्तोच्चारणासम्भवादन्यथा साङ्गभक्तियोगोपसंहारापत्त्या जन्मान्तरविलम्बायोगापत्तेः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणोत्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति॥

मूलम्

य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यं स्व31र्ग्यापवर्ग्यं वानुशृणोत्याख्या32स्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति॥ ४६ ॥

अनुवाद (हिन्दी)

राजन्! राजर्षि भरतके पवित्र गुण और कर्मोंकी भक्तजन भी प्रशंसा करते हैं। उनका यह चरित्र बड़ा कल्याणकारी, आयु और धनकी वृद्धि करनेवाला, लोकमें सुयश बढ़ानेवाला और अन्तमें स्वर्ग तथा मोक्षकी प्राप्ति करानेवाला है। जो पुरुष इसे सुनता या सुनाता है और इसका अभिनन्दन करता है, उसकी सारी कामनाएँ स्वयं ही पूर्ण हो जाती हैं; दूसरोंसे उसे कुछ भी नहीं माँगना पड़ता॥ ४६॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं नाम चतुर्दशोऽध्यायः॥ १४ ॥

वीरराघवः

एतद्भरतचरितश्रवणादिफलमाह य इदमिति । भागवतैः सभाजिताः संस्तुता अवदाताः शुद्धा गुणा अक्रोधादयः कर्माणि भूतहिताचरणादिरूपाणि च यस्य तस्य राजर्षेर्भरतस्यानुचरितं यशस्यं स्वस्त्ययनं मङ्गलावहमायुष्करं धन्यं धनप्रापकं स्वर्ग्यं स्वर्गसाधनमापवर्ग्यं मुक्तिसाधनं च योऽनुशृणोत्याख्यास्यति कथयति चाभिनन्दति अनुमोदते च स आत्मनः स्वतः एव सर्वा ह्याशिषः समीहितान्याशास्ते प्राप्नोति न तु काञ्चिदप्याशिषं परस्मादपेक्षते इत्यर्थः । चरित्रस्य स्वस्त्ययनादिकं च न स्वरूपेणापि तु श्रवणादिविषयत्वेनेति ख्यापनाय शृणोत्याख्यास्यतीत्युक्तं, न केवलं स्वस्त्ययनादिकमेवास्य फलमपि त्वनुक्तमन्यत्सर्वमपीत्यभिप्रायेणोक्तं सर्वा ह्येवाशिष आत्मन आशास्ते इत्यादि ॥ ४६ ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतायां श्रीभागवतचंद्रचंद्रिकायां चतुर्दशोऽध्यायः ॥ १४ ॥


  1. पोपशमनां । ↩︎

  2. यत्किञ्चित्साक्षाद्धर्मौप । ↩︎

  3. यत् परमपुरुषा । ↩︎

  4. दर्शनस्वादनावघ्राणसङ्कल्पसंव्यवसाय । ↩︎

  5. यथा सार्थिकस्य त । ↩︎

  6. निमिषतो । ↩︎

  7. रतो दंशमशकापसदै । ↩︎

  8. प्राचीने पाठे ‘मिध्यादृष्टिरनुपश्यति’ अंशः खण्डितः । ↩︎

  9. प्राचीने पाठे ‘तत्र च’ पाठो न । ↩︎

  10. परुषसंरभसादोषं प्रत्यक्षं वा रिपुराज । ↩︎

  11. मतिर्विदिक्स्रोतःस्वनेन स्खलन । ↩︎

  12. मूत इव । ↩︎

  13. गृहीतगतसारः । ↩︎

  14. क्वचिद् । ↩︎

  15. कर्हिचित् । ↩︎

  16. आपन्न । ↩︎

  17. व्यवहरति वा काकिणिकामात्रमप्येव हरति यत्किं । ↩︎

  18. विज्ञानस्तद्विहारगृहा । ↩︎

  19. भाषितालोकविचेष्टिताहृतहृदय । ↩︎

  20. त्मापारे तमसि । ↩︎

  21. परमाण्वादिपयर्द्धा । ↩︎

  22. वटबक । ↩︎

  23. शनादिकामभोग्यविहीनो । ↩︎

  24. लब्धमनोरथस्तस्यादानेऽव । ↩︎

  25. प्राचीने पाठे ‘यत्र’ पाठो न । ↩︎

  26. तत्र तत्र विसृज्य । ↩︎

  27. विरसन् रुदन्नदन् संह । ↩︎

  28. मुह्यमानः । ↩︎

  29. न मे एतदेव रुन्धते न्यस्तदण्डा मुनयः । ↩︎

  30. ममेदमिति कृतवैरानुबन्धा विसृज्य । ↩︎

  31. स्वर्ग्यापवर्ग्यमनुशृ । ↩︎

  32. ख्यास्यति ह्येवाभिनन्दति । ↩︎