[त्रयोदशोऽध्यायः]
भागसूचना
भवाटवीका वर्णन और रहूगणका संशयनाश
श्लोक-१
मूलम् (वचनम्)
ब्राह्मण उवाच
विश्वास-प्रस्तुतिः
दुरत्ययेऽध्वन्यजया निवेशितो
रजस्तमःसत्त्वविभक्तकर्मदृक्।
स एष सार्थोऽर्थपरः परिभ्रमन्
भवाटवीं याति न शर्म विन्दति॥
मूलम्
दुरत्ययेऽध्वन्यजया निवेशितो रजस्तमःसत्त्वविभक्तकर्मदृक्।
स एष सार्थोऽर्थपरः परिभ्रमन् भवाटवीं याति न शर्म विन्दति॥ १ ॥
अनुवाद (हिन्दी)
जडभरतने कहा—राजन्! यह जीवसमूह सुखरूप धनमें आसक्त देश-देशान्तरमें घूम-फिरकर व्यापार करनेवाले व्यापारियोंके दलके समान है। इसे मायाने दुस्तर प्रवृत्तिमार्गमें लगा दिया है; इसलिये इसकी दृष्टि सात्त्विक, राजस, तामस भेदसे नाना प्रकारके कर्मोंपर ही जाती है। उन कर्मोंमें भटकता-भटकता यह संसाररूप जंगलमें पहुँच जाता है। वहाँ इसे तनिक भी शान्ति नहीं मिलती॥ १॥
वीरराघवः
एवं तत्त्वं निरूपितमप्यविरक्तस्य न प्रतिष्ठितं भवतीति वैराग्योदयाय संसाराध्वानं लोकप्रसिद्धदुर्गाभध्वत्वेन संसारमटवीत्वेन च रूपयति दुरत्यय इति त्रयोदशेनाध्यायेन ब्राह्मणः । दुरत्यये दुरतिक्रमेऽध्वनि कर्ममार्गेऽजया प्रकृत्यां निवेशितः रजस्तमः सत्त्वैर्विभक्तानि कर्माणि कार्यतया पश्यतीति तथा शुभाशुभमिश्ररूपकर्मणि दृष्टिमानित्यर्थः । स एषः सार्थो जीवसमूहः अर्थपरः धर्मादिपुरुषार्थंत्रयासक्तः भवादवीं याति कर्मफलं तु प्राप्नोतीत्यर्थः । शर्म सुखं न विन्दति न लभते यथा वणिक् अर्थार्जनाथ गच्छन्नटवीं याति सुखं च न विन्दति तद्वदित्यर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
यस्यामिमे षण्नरदेव दस्यवः
सार्थं विलुम्पन्ति कुनायकं बलात्।
गोमायवो यत्र हरन्ति सार्थिकं
प्रमत्तमाविश्य यथोरणं वृकाः॥
मूलम्
यस्यामिमे षण्नरदेव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात्।
गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तमाविश्य यथोरणं वृकाः॥ २ ॥
अनुवाद (हिन्दी)
महाराज! उस जंगलमें छः डाकू हैं। इस वणिक्-समाजका नायक बड़ा दुष्ट है। उसके नेतृत्वमें जब यह वहाँ पहुँचता है, तब ये लुटेरे बलात् इसका सब माल-मत्ता लूट लेते हैं तथा भेड़िये जिस प्रकार भेड़ोंके झुंडमें घुसकर उन्हें खींच ले जाते हैं, उसी प्रकार इसके साथ रहनेवाले गीदड़ ही इसे असावधान देखकर इसके धनको इधर-उधर खींचने लगते हैं॥ २॥
वीरराघवः
यद्यप्यस्याध्यायस्य व्याख्यानरूप उत्तराध्यायः प्रवृत्तस्तथापि सुखप्रतिपत्तये किञ्चिदत्रापि व्याख्यायते तदेवाह यस्यामिति । हे नरदेव ! यस्यां भवाटव्यां षडिन्द्रियनामानः दस्यवो दुष्टजन्तवः चौराः कुत्सितः सन्मार्गानभीष्टः नायकः बुद्धिरुपः नेता यस्य तं सार्थं जीवसमूहं विलुम्पन्ति जीवस्य भगवदाराधनरूपं धनं लुम्पन्तीत्वर्थः । यत्र भवाटव्यां गोमायवः शृगालतुल्या दारापत्यादयः प्रमत्तमनवहितसार्थकं त्वं मे भर्तासि पितासीत्येवं प्रविश्य हरन्ति यथोरणं मेषं वृका हरन्ति तद्वत् “योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते” इत्युक्तरीत्या आत्मस्वरूपविस्मारकामिमानजमनद्वारा आत्मानमपहरन्तीत्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
प्रभूतवीरुत्तृणगुल्मगह्वरे
कठोरदंशैर्मशकैरुपद्रुतः।
क्वचित्तु गन्धर्वपुरं प्रपश्यति
क्वचित्क्वचिच्चाशुरयोल्मुकग्रहम्॥
मूलम्
प्रभूतवीरुत्तृणगुल्मगह्वरे कठोरदंशैर्मशकैरुपद्रुतः।
क्वचित्तु गन्धर्वपुरं प्रपश्यति क्वचित्क्वचिच्चाशुरयोल्मुकग्रहम्॥ ३ ॥
अनुवाद (हिन्दी)
वह जंगल बहुत-सी लता, घास और झाड़-झंखाड़के कारण बहुत दुर्गम हो रहा है। उसमें तीव्र डाँस और मच्छर इसे चैन नहीं लेने देते। वहाँ इसे कभी तो गन्धर्वनगर दीखने लगता है और कभी-कभी चमचमाता हुआ अति चंचल अगिया-बेताल आँखोंके सामने आ जाता है॥ ३॥
वीरराघवः
वीरुधोलता गुल्मानि च तैः गह्वरेऽदभ्रकर्मबीजवत्फलप्ररोद्दक्षेत्रभूते गृहाश्रम इत्यर्थः । कठोरैस्तीव्रैर्दशैर्मक्षिकाविशेषैर्मशकैश्च यथा कश्चिद्वने उपद्रुतो भवति तथा दंशादिसदृशैः राजभटादिभिरुपद्रुतो भवतीत्यर्थः । क्वचिद्गन्धर्वपुरवदस्थिरं मनुष्यशरीरं स्थिरवत् पश्यति गन्धर्वाणां हि पुरं न विद्यते तद्वद्देहस्यापि नित्यत्वमविद्यमानमपि पश्यतीत्यर्थः । क्वापि क्वापि आशुरयः अतिवेगो य उल्मुकाकारो ग्रहः तत्तुल्यं सुवर्णमुपादेयत्वेन प्रपश्यतीत्यर्थः । असुहरोल्मुकग्रहमित्यपि पाठो दृश्यते तत्र प्राणहरोल्मुकपिशाचतुल्यं परकीयं सुवर्णमुपादेयत्वेन प्रपश्यतीत्यर्थः । यथा पिशाचगतोल्काज्वलनं प्रकाशार्थं जिघृक्षन् यथा पिशाचहतो भवति एवं दुर्जनसम्बन्धि सुवर्णस्य स्वोपकारकत्वबुद्ध्या विघृक्षुः दुर्जनैरुपद्रुतो भवतीत्यर्थः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
निवासतोयद्रविणात्मबुद्धि-
स्ततस्ततो धावति भो अटव्याम्।
क्वचिच्च वात्योत्थितपांसुधूम्रा
दिशो न जानाति रजस्वलाक्षः॥
मूलम्
निवासतोयद्रविणात्मबुद्धिस्ततस्ततो धावति भो अटव्याम्।
क्वचिच्च वात्योत्थितपांसुधूम्रा दिशो न जानाति रजस्वलाक्षः॥ ४ ॥
अनुवाद (हिन्दी)
यह वणिक्-समुदाय इस वनमें निवासस्थान, जल और धनादिमें आसक्त होकर इधर-उधर भटकता रहता है। कभी बवंडरसे उठी हुई धूलके द्वारा जब सारी दिशाएँ धूमाच्छादित-सी हो जाती हैं और इसकी आँखोंमें भी धूल भर जाती है, तो इसे दिशाओंका ज्ञान भी नहीं रहता॥ ४॥
वीरराघवः
पिपासतोयद्रविणात्मबुद्धिः पिपासाविषयं तोयं पिपासतोयं पिपासतोयं मृगतृष्णिका । पिपासाशब्दस्य “ङ्यापोः संज्ञाच्छन्दसो"रित्यार्षो ह्रस्वः, पिपासाविषयतोयतुल्यं द्रविणं वित्तं तस्मिन्नात्मबुद्धिः स्वबुद्धिर्यस्य तथाभूतः । कचिन्निवासतोयं द्रविणात्मबुद्धिरिति पाठस्तत्र निवासादिष्वात्मभावो यस्याः सा बुद्धिर्यस्येत्यर्थः । अटव्यामितस्ततो धावति भ्रमति भो राजन् ! वात्या चक्रवातः तत्तुल्या नारीवात्या वात्यया प्रमदया उत्थितो रागादिदोषः पांसुस्तेन धूम्रा आविला दिशः धर्ममर्यादाः रजस्वलाक्षो रजोव्याते अक्षिणी यस्य सः रजोगुणोपहतज्ञानः सन् न जानाति यथा चक्रवातोत्थितधूलिव्याप्तनेत्रो प्राच्यादिदिग्विभागान्न जानाति तद्वद्धर्ममार्गान् स न जानातीत्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
अदृश्यझिल्लीस्वनकर्णशूल
उलूकवाग्भिर्व्यथितान्तरात्मा।
अपुण्यवृक्षान् श्रयते क्षुधार्दितो
मरीचितोयान्यभिधावति क्वचित्॥
मूलम्
अदृश्यझिल्लीस्वनकर्णशूल 1उलूकवाग्भिर्व्यथितान्तरात्मा।
अपुण्यवृक्षान् श्रयते क्षुधार्दितो मरीचितोयान्यभिधावति क्वचित्॥ ५ ॥
अनुवाद (हिन्दी)
कभी इसे दिखायी न देनेवाले झींगुरोंका कर्णकटु शब्द सुनायी देता है, कभी उल्लुओंकी बोलीसे इसका चित्त व्यथित हो जाता है। कभी इसे भूख सताने लगती है तो यह निन्दनीय वृक्षोंका ही सहारा टटोलने लगता है और कभी प्याससे व्याकुल होकर मृगतृष्णाकी ओर दौड़ लगाता है॥ ५॥
वीरराघवः
क्वचिददृश्यानां झिल्लीनां भृङ्गारकासंज्ञानां कीटविशेषाणां स्वनेन ध्वनिना कर्णयोः शूलं व्यथा यस्य सः परोक्षमप्रियभाषिरिपुवाक्यश्रवणजनितकर्णव्यथायुक्तो भवति यथादव्यां प्रविष्टोऽदृश्यझिल्लीस्वनव्यथितकर्ण इत्यर्थः । तथा उल्लूकानां प्रत्यक्षमप्रियभाषिणां धूकसदृशानां राजभटादीनां वाग्भिर्व्यथितः अन्तरात्मा मनो यस्य तथाभूतः कचिद्भवति यथारण्ये उलूक वाग्भिर्व्यथितहृदयो भीतहृदयो भवति इत्यर्थः । क्वचित् क्षुधाऽशनया अर्दितः पीडितः अपुण्यवृक्षान् विषवृक्षसदृशान् अनुपकारकर्माप्रतिग्राह्यधनान् श्रयते आश्रयति । क्वचिन्मरीचितोयानि मरीचिकाजलवत्सुखाभासान् विषयाननुधावति भोग्यबुद्ध्याऽन्वेषयति अभोग्यं हेयं विषयमनुधावतीत्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
क्वचिद्वितोयाः सरितोऽभियाति
परस्परं चालषते निरन्धः।
आसाद्य दावं क्वचिदग्नितप्तो
निर्विद्यते क्व च यक्षैर्हृतासुः॥
मूलम्
क्वचिद्वितोयाः सरितोऽभियाति परस्परं चालषते निरन्धः2।
आसाद्य दावं क्वचिदग्नितप्तो निर्विद्यते क्व च यक्षैर्हृतासुः॥ ६ ॥
अनुवाद (हिन्दी)
कभी जलहीन नदियोंकी ओर जाता है, कभी अन्न न मिलनेपर आपसमें एक-दूसरेसे भोजनप्राप्तिकी इच्छा करता है, कभी दावानलमें घुसकर अग्निसे झुलस जाता है और कभी यक्षलोग इसके प्राण खींचने लगते हैं तो यह खिन्न होने लगता है॥ ६॥
वीरराघवः
क्वचिद्वितोयाः जलरहिताः सरितः नदीरभियाति यथा वितोयासु सरित्सु पतितस्य गात्रभङ्गात्सद्यो दुःखं भवति न चोदकलाभः तद्वदिह परत्र च दुःखदानिष्फलान् पाखण्डाश्रमानभियाति आश्रयते । क्वचिन्निरन्नः परस्परं दायादेभ्योऽन्नादिकं लषते वाच्छति पुत्रः पितृधनमिच्छति पुत्रार्थमिच्छति पिता निरन्नकतयेत्यर्थः । क्वचिद्दावं दावाग्नितुल्यं गृहमभिमतविषयशून्यं दुःखदं प्राप्तः प्रविष्टः अग्नितप्तः शोकातुरो भवति क्वचित् यक्षैर्यक्षवत्प्रतिहर्तुमशक्यैः राजभिर्हृतासुरपहतप्राणतुल्यधनः निर्विद्यते खिद्यते ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
शूरैर्हृतस्वः क्व च निर्विण्णचेताः
शोचन् विमुह्यन्नुपयाति कश्मलम्।
क्वचिच्च गन्धर्वपुरं प्रविष्टः
प्रमोदते निर्वृतवन्मुहूर्तम्॥
मूलम्
शूरैर्हृतस्वः क्व च निर्विण्णचेताः शोचन् विमुह्यन्नुपयाति कश्मलम्।
क्वचिच्च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृतवन्मुहूर्तम्॥ ७ ॥
अनुवाद (हिन्दी)
कभी अपनेसे अधिक बलवान् लोग इसका धन छीन लेते हैं, तो यह दुःखी होकर शोक और मोहसे अचेत हो जाता है और कभी गन्धर्वनगरमें पहुँचकर घड़ीभरके लिये सब दुःख भूलकर खुशी मनाने लगता है॥ ७॥
वीरराघवः
तथा शूरैः राजभटादिभिर्हृतं स्वं धनं यस्य सः क्वचित् दुःखितचित्तो भवति हे नृप । क्वचित् शोचन् विमुह्यंश्च कश्मलं मूर्च्छां याति क्वचिद्गन्धर्वपुरमिवास्थिरं बन्धुवर्गं प्रविष्टः निर्वृतवत्सुखितवत् मुहूर्तमात्रं मोदते ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
चलन् क्वचित्कण्टकशर्कराङ्घ्रि-
र्नगारुरुक्षुर्विमना इवास्ते।
पदे पदेऽभ्यन्तरवह्निनार्दितः
कौटुम्बिकः क्रुध्यति वै जनाय॥
मूलम्
चलन् क्वचित्कण्टकशर्कराङ्घ्रिर्नगा3रुरुक्षुर्विमना इवास्ते।
पदे पदेऽभ्यन्तरवह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय॥ ८ ॥
अनुवाद (हिन्दी)
कभी पर्वतोंपर चढ़ना चाहता है तो काँटे और कंकड़ोंद्वारा पैर चलनी हो जानेसे उदास हो जाता है। कुटुम्ब बहुत बढ़ जाता है और उदरपूर्तिका साधन नहीं होता तो भूखकी ज्वालासे सन्तप्त होकर अपने ही बन्धु-बान्धवोंपर खीझने लगता है॥ ८॥
वीरराघवः
क्वचिन्नगारुरुक्षुः पर्वतवद्दुरारोहयज्ञादिकलापं विधित्सुः कण्टकैः शर्कराभिः सूक्ष्मपाषाणैश्च दुःखितचरणो यथा पर्वतमारोढुं न शक्तस्तथा कण्टकादितुल्यैर्विघ्नैरभिभूतः महत्कर्मारोढुं कर्तुमशक्तः सन् विमना इवास्तेऽभास्वरत्वेनावतिष्ठते । क्वचिच्च क्षणे क्षणेऽभ्यन्तरवह्निना जाठराग्निनाऽर्दितः पीडितः जनाय कलत्रादीन् प्रति क्रुध्यति यतोऽयं कौटुम्बिकः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
क्वचिन्निगीर्णोऽजगराहिना जनो
नावैति किञ्चिद्विपिनेऽपविद्धः।
दष्टः स्म शेते क्व च दन्दशूकै-
रन्धोऽन्धकूपे पतितस्तमिस्रे॥
मूलम्
क्वचिन्निगीर्णोऽजगराहिना जनो नावैति किञ्चिद्विपिनेऽपविद्धः।
दष्टः स्म शेते क्व च दन्दशूकैरन्धोऽन्धकूपे पतितस्तमिस्रे॥ ९ ॥
अनुवाद (हिन्दी)
कभी अजगर सर्पका ग्रास बनकर वनमें फेंके हुए मुर्देके समान पड़ा रहता है। उस समय इसे कोई सुध-बुध नहीं रहती। कभी दूसरे विषैले जन्तु इसे काटने लगते हैं तो उनके विषके प्रभावसे अंधा होकर किसी अंधे कुएँमें गिर पड़ता है और घोर दुःखमय अन्धकारमें बेहोश पड़ा रहता है॥ ९॥
वीरराघवः
क्वचिदयं जनः अजगराहिना अजगराख्यसर्पतुल्यया निद्रया निगीर्णो ग्रस्तः किञ्चिदपि न वेत्ति यथा विपिनेऽरण्येऽपविद्धस्त्यक्तः शव इव क्व च दन्दशूकैः सर्पतुल्यैर्हिस्रैर्दुर्जनैर्दष्टः पीडितः अन्धो लुप्तविवेकः अन्धकूपे मोहे शरीरदुःखे वा पतितः तमिस्रे दुःखादिभिर्व्याप्ते ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
कर्हि स्म चित्क्षुद्ररसान् विचिन्वं-
स्तन्मक्षिकाभिर्व्यथितो विमानः।
तत्रातिकृच्छ्रात्प्रतिलब्धमानो
बलाद्विलुम्पन्त्यथ तं ततोऽन्ये॥
मूलम्
कर्हि स्म चित्क्षुद्ररसान् विचिन्वंस्तन्मक्षिकाभिर्व्यथितो विमानः।
तत्रातिकृच्छ्रात्प्रतिलब्धमानो बलाद्विलुम्पन्त्यथ तं ततोऽन्ये॥ १० ॥
अनुवाद (हिन्दी)
कभी मधु खोजने लगता है तो मक्खियाँ इसके नाकमें दम कर देती हैं और इसका सारा अभिमान नष्ट हो जाता है। यदि किसी प्रकार अनेकों कठिनाइयोंका सामना करके वह मिल भी गया तो बलात् दूसरे लोग उसे छीन लेते हैं॥ १०॥
वीरराघवः
कर्हिचित् क्षुद्ररसान् विचिन्वन् तन्मक्षिकाभिः रसादिस्वामिभिर्व्यथितः ताडितः विमानोऽवज्ञातो भवति, यदि कथञ्चित्तत्रातिक्लेशेन प्रतिलब्धमानः प्राप्तपरदारादिर्भवति तदा तं वञ्चयित्वा बलादन्ये तान् क्षुद्ररसानपहरन्ति एवं तेभ्योऽप्यन्येऽपहरन्तीत्यर्थः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
क्वचिच्च शीतातपवातवर्ष-
प्रतिक्रियां कर्तुमनीश आस्ते।
क्वचिन्मिथो विपणन् यच्च किञ्चिद्
विद्वेषमृच्छत्युत वित्तशाठ्यात्॥
मूलम्
क्वचिच्च शीतातपवातवर्षप्रतिक्रियां कर्तुमनीश आस्ते।
क्वचिन्मिथो विपणन् यच्च किञ्चिद् विद्वेषमृच्छत्युत वित्तशाठ्यात्॥ ११ ॥
अनुवाद (हिन्दी)
कभी शीत, घाम, आँधी और वर्षासे अपनी रक्षा करनेमें असमर्थ हो जाता है। कभी आपसमें थोड़ा-बहुत व्यापार करता है, तो धनके लोभसे दूसरोंको धोखा देकर उनसे वैर ठान लेता है॥ ११॥
वीरराघवः
क्वचिचं शीतादीनां प्रतिक्रिया कर्तुं शीतादिनिहरिकवस्त्रगृहादिकं सम्पादयितुमसमर्थस्तैर्दुःखित आस्ते कचिन्मिथः यत्किञ्चिदत्यल्पमपि विपणन् क्रयविक्रयादिभिर्व्यवहारं वाणिज्यङ्कुर्वन्नित्यर्थः । वित्तशाठ्याद्धनवाञ्छया विद्वेषं प्राप्नोति ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्
शय्यासनस्थानविहारहीनः।
याचन् परादप्रतिलब्धकामः
पारक्यदृष्टिर्लभतेऽवमानम्॥
मूलम्
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन् शय्यासनस्थानविहारहीनः।
याचन् परादप्रतिलब्धकामः पारक्यदृष्टिर्लभतेऽवमानम्॥ १२ ॥
अनुवाद (हिन्दी)
कभी-कभी उस संसारवनमें इसका धन नष्ट हो जाता है तो इसके पास शय्या, आसन, रहनेके लिये स्थान और सैर-सपाटेके लिये सवारी आदि भी नहीं रहते। तब दूसरोंसे याचना करता है; माँगनेपर भी दूसरेसे जब उसे अभिलषित वस्तु नहीं मिलती, तब परायी वस्तुओंपर अनुचित दृष्टि रखनेके कारण इसे बड़ा तिरस्कार सहना पड़ता है॥ १२॥
वीरराघवः
तस्मिन् संसाराध्वनि क्वचित् क्षीणं धनं यस्य सः अत एव शब्दादिभिर्विहीनः रहितः भवति शेतेऽस्यामिति शय्या पर्यङ्कादि आस्यतेऽस्मिन्नित्यासनं कम्बलादि स्थीयतेऽस्मिन्निति स्थानं गृहादि विहरन्त्यनेनेति विहारो यानादिः याचमानो यदापरस्मादप्राप्तकामः तदा परकीये वस्तुनि दृष्टिरभिलाषो यस्य सोऽवमानमवज्ञां लभते ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
अन्योन्यवित्तव्यतिषङ्गवृद्ध-
वैरानुबन्धो विवहन्मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त-
बाधोपसर्गैर्विहरन् विपन्नः॥
मूलम्
अन्योन्यवित्त4व्यतिषङ्गवृद्धवैरानुबन्धो विवहन्मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्तबाधोपसर्गैर्विहरन् विपन्नः॥ १३ ॥
अनुवाद (हिन्दी)
इस प्रकार व्यावहारिक सम्बन्धके कारण एक-दूसरेसे द्वेषभाव बढ़ जानेपर भी वह वणिक्-समूह आपसमें विवाहादि सम्बन्ध स्थापित करता है और फिर इस मार्गमें तरह-तरहके कष्ट और धनक्षय आदि संकटोंको भोगते-भोगते मृतकवत् हो जाता है॥ १३॥
वीरराघवः
एवमन्योऽन्यं वित्तव्यतिषङ्गेण वित्तत्र्यत्यासेन वृद्धः वैरानुबन्धो यस्य सः मिथः विवादं कुर्वन् विवहन्मिश्रश्चेत्यपि पाठः तदाभाषालब्धवित्तनियमव्यत्यासेन विवृद्धवैरानुबन्धः वैराविष्टचित्तः परस्परं विवादं कुर्वन्नमुष्मिन् दुरत्ययेऽध्वनि उरुभिः कृच्छ्रैः श्रमैः वित्तबाधैरुपसर्गैश्च द्वेषादिभिर्विपन्नः मृतप्रायो भवति ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तांस्तान् विपन्नान् स हि तत्र तत्र
विहाय जातं परिगृह्य सार्थः।
आवर्ततेऽद्यापि न कश्चिदत्र
वीराध्वनः पारमुपैति योगम्॥
मूलम्
तांस्तान् विपन्नान् स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः।
आवर्ततेऽद्यापि न कश्चिदत्र वीराध्वनः पारमुपैति योगम्॥ १४ ॥
अनुवाद (हिन्दी)
साथियोंमेंसे जो-जो मरते जाते हैं, उन्हें जहाँ-का-तहाँ छोड़कर नवीन उत्पन्न हुओंको साथ लिये वह बनिजारोंका समूह बराबर आगे ही बढ़ता रहता है। वीरवर! उनमेंसे कोई भी प्राणी न तो आजतक वापस लौटा है और न किसीने इस संकटपूर्ण मार्गको पार करके परमानन्दमय योगकी ही शरण ली है॥ १४॥
वीरराघवः
दुरत्ययत्वमध्वनो दर्शयति । तांस्तान् विपन्नान् मृतान् पित्रादीन् तत्र विहाय जातं सार्थं पुत्रादिकं परिगृह्याद्याप्यत्रावर्त्तते भ्राम्यति हे वीर ! अध्वनः पारं योगं कश्चिदपि नोपैति अत्र सार्थे कश्चिदतिसमर्थोऽपि ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
मनस्विनो निर्जितदिग्गजेन्द्रा
ममेति सर्वे भुवि बद्धवैराः।
मृधे शयीरन्न तु तद्व्रजन्ति
यन्न्यस्तदण्डो गतवैरोऽभियाति॥
मूलम्
मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः।
मृधे शयीरन्न तु तद् व्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति॥ १५ ॥
अनुवाद (हिन्दी)
जिन्होंने बड़े-बड़े दिक्पालोंको जीत लिया है,वे धीर-वीर पुरुष भी पृथ्वीमें ‘यह मेरी है’ ऐसा अभिमान करके आपसमें वैर ठानकर संग्रामभूमिमें जूझ जाते हैं। तो भी उन्हें भगवान् विष्णुका वह अविनाशी पद नहीं मिलता, जो वैरहीन परमहंसोंको प्राप्त होता है॥ १५॥
वीरराघवः
तदेवाह । मनस्विनः शूरा निर्जिताः दिग्गजेन्द्रा यैस्ते ममेयं भूमिर्ममेयं भूमिरित्यभिमाननिमित्तभूतायां भुवि बद्धं वैरं यैस्ते मृधे युद्धे केवलं शरीरान्प्राणांस्त्यक्तवन्तः । न तु तद् व्रजन्ति प्राप्नुवन्ति किं तत् यत्र व्रजन्ति मनस्विनस्तत्राह् । न्यस्तदण्डस्त्यक्तभूतदण्डः त्यक्तभूतवैरश्च योगी यद्विष्णोः पदं याति तत्र व्रजन्तीत्यर्थः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
प्रसज्जति क्वापि लताभुजाश्रय-
स्तदाश्रयाव्यक्तपदद्विजस्पृहः।
क्वचित्कदाचिद्धरिचक्रतस्त्रसन्
सख्यं विधत्ते बककङ्कगृध्रैः॥
मूलम्
प्रसज्जति क्वापि लताभुजाश्रयस्तदाश्रयाव्यक्तपदद्विजस्पृहः।
क्वचित्कदाचिद्धरिचक्रतस्त्रसन् सख्यं विधत्ते वककङ्कगृध्रैः॥ १६ ॥
अनुवाद (हिन्दी)
इस भवाटवीमें भटकनेवाला यह बनिजारोंका दल कभी किसी लताकी डालियोंका आश्रय लेता है और उसपर रहनेवाले मधुरभाषी पक्षियोंके मोहमें फँस जाता है। कभी सिंहोंके समूहसे भय मानकर बगुला, कंक और गिद्धोंसे प्रीति करता है॥ १६॥
वीरराघवः
सिंहावलोकमन्यायेन पुनर्भवाटवीमेवानुवर्णयति प्रसज्जतीति । प्रसज्जत्यासक्तिं करोति कीदृशः लतानां भुजाः शाखाः तानाश्रितः लतातुल्यकामिनीभुजोपधान इत्यर्थः । तदाश्रयाः कामिनीलताश्रया येऽव्यक्तपदाः स्वानभिव्यक्तवर्णमधुरवचोभाषिणो द्विजाः पक्षिसदृशाः शिशवः बालाः तेषु स्पृहा यस्य सः तादृशो भूत्वा प्रसज्जतीत्यर्थः । क्वचित् हरिचक्रं सिंहसमूहस्तत्तुल्याद्धरिचक्राद्भगवत्सम्बन्धिनः कालचक्रात् वसन् बिभ्यत् कालचक्रनिमित्तजन्मजरामरणादेस्रसन् तत्परिहाय कैश्चित्प्रलोभितः बकादितुल्यैः पाखण्डदैवतैः सह सख्यं विधत्ते तेषु भक्ति करोतीत्यर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तैर्वञ्चितो हंसकुलं समाविश-
न्नरोचयन् शीलमुपैति वानरान्।
तज्जातिरासेन सुनिर्वृतेन्द्रियः
परस्परोद्वीक्षणविस्मृतावधिः॥
मूलम्
तैर्वञ्चितो हंसकुलं समाविशन्नरोचयन् शीलमुपैति वानरान्।
तज्ज्ञातिरासेन 5सुनिर्वृतेन्द्रियः परस्परोद्वीक्षणविस्मृतावधिः॥ १७ ॥
अनुवाद (हिन्दी)
जब उनसे धोखा उठाता है, तब हंसोंकी पंक्तिमें प्रवेश करना चाहता है; किन्तु उसे उनका आचार नहीं सुहाता, इसलिये वानरोंमें मिलकर उनके जातिस्वभावके अनुसार दाम्पत्य सुखमें रत रहकर विषयभोगोंसे इन्द्रियोंको तृप्त करता रहता है और एक-दूसरेका मुख देखते-देखते अपनी आयुकी अवधिको भूल जाता है॥ १७॥
वीरराघवः
तैर्वञ्चितः स्वयं तान् वञ्चयंस्तैर्वञ्चितः फलाभावं ज्ञात्वा हंसकुलं पुनर्विशुद्धं ब्राह्मणकुलं समाविशन् प्रविशन् तेषां शीलं प्रायश्चित्तपूर्वकं पुनरुपनयनाद्याचाररूपमरोचयन् पूर्वदुर्वासनयाऽप्रियं पश्यन् वानरतुल्यान् भ्रष्टसदाचारान् शूद्रप्रायानुपैति तज्जातिरासेन वानरजातिक्रीडया स्त्रिया मिथुनीभूय रहोभाषणपूर्वकपरस्परमुखनिरीक्षणेन विस्मृतः अवधिर्जीवनावधिर्मरणकालो येन सः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
द्रुमेषु रंस्यन् सुतदारवत्सलो
व्यवायदीनो विवशः स्वबन्धने।
क्वचित्प्रमादाद्गिरिकन्दरे पतन्
वल्लीं गृहीत्वा गजभीत आस्थितः॥
मूलम्
द्रुमेषु रंस्यन् सुतदारवत्सलो व्यवायदीनो विवशः स्वबन्धने।
क्वचित्प्रमादाद्गिरिकन्दरे पतन् वल्लीं गृहीत्वा गजभीत आस्थितः॥ १८ ॥
अनुवाद (हिन्दी)
वहाँ वृक्षोंमें क्रीडा करता हुआ पुत्र और स्त्रीके स्नेहपाशमें बँध जाता है। इसमें मैथुनकी वासना इतनी बढ़ जाती है कि तरह-तरहके दुर्व्यवहारोंसे दीन होनेपर भी यह विवश होकर अपने बन्धनको तोड़नेका साहस नहीं कर सकता। कभी असावधानीसे पर्वतकी गुफामें गिरने लगता है तो उसमें रहनेवाले हाथीसे डरकर किसी लताके सहारे लटका रहता है॥ १८॥
वीरराघवः
द्रुमतुल्येषु केवलदृष्टार्थेषु गृहेषु रंस्यन् क्रीडिध्यन् व्यवायेन मैथुनेच्छया दीनः कृपणः सुतेषु दारेषु वत्सलः एवं स्वस्य यद्बन्धनं प्राप्तं तस्मिन् विवशः परिहर्तुमशक्तो भवति क्वचित्प्रमादान्मृत्युगयाद्गिरिकन्दरवद्भयानके रोगादिदुःखे वर्त्तमानः दूरस्थराजतुल्यमृत्योर्भीतः सन् वल्लीं वल्लीतुल्यां प्राचीनवासनामवलम्ब्यावस्थितो भवति ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
अतः कथञ्चित्स विमुक्त आपदः
पुनश्च सार्थं प्रविशत्यरिन्दम।
अध्वन्यमुष्मिन्नजया निवेशितो
भ्रमञ्जनोऽद्यापि न वेद कश्चन॥
मूलम्
अतः कथञ्चित्स विमुक्त आपदः पुनश्च सार्थं प्रविशत्यरिन्दम।
6अध्वन्यमुष्मिन्नजया निवेशितो भ्रमञ्जनोऽद्यापि न वेद कश्चन॥ १९ ॥
अनुवाद (हिन्दी)
शत्रुदमन! यदि किसी प्रकार इसे उस आपत्तिसे छुटकारा मिल जाता है, तो यह फिर अपने गोलमें मिल जाता है। जो मनुष्य मायाकी प्रेरणासे एक बार इस मार्गमें पहुँच जाता है, उसे भटकते-भटकते अन्ततक अपने परम पुरुषार्थका पता नहीं लगता॥ १९॥
वीरराघवः
ततः आपदः दुःखात् कथंचिदतिप्रयासेन विमुक्तः पुनश्च सार्थं वर्णाश्रमनिष्ठं जनं प्रविशति यथा पूर्वं प्रवृत्तिमार्गे रमते हे अरिन्दम ! अस्मिन् संसाराध्वन्यजया भगवन्मायया निवेशितो जनः भ्रमन्नद्यापि पारं न याति ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
रहूगण त्वमपि ह्यध्वनोऽस्य
संन्यस्तदण्डः कृतभूतमैत्रः।
असज्जितात्मा हरिसेवया शितं
ज्ञानासिमादाय तरातिपारम्॥
मूलम्
रहूगण त्वमपि ह्यध्वनोऽस्य संन्यस्तदण्डः कृतभूतमैत्रः।
असज्जितात्मा हरिसेवया शितं ज्ञानासिमादाय तरातिपारम्॥ २० ॥
अनुवाद (हिन्दी)
रहूगण! तुम भी इसी मार्गमें भटक रहे हो, इसलिये अब प्रजाको दण्ड देनेका कार्य छोड़कर समस्त प्राणियोंके सुहृद् हो जाओ और विषयोंमें अनासक्त होकर भगवत्सेवासे तीक्ष्ण किया हुआ ज्ञानरूप खड्ग लेकर इस मार्गको पार कर लो॥ २०॥
वीरराघवः
तस्मात् हे रहूगण ! त्वमपि परित्यक्तः भूतदण्डो येन कृतं भूत्तेषु मैत्रं येन असज्जितः विषयेष्वनभिनिवेशितः आत्मा येन तथाभूतः सन् हरिसेवया निशिता सेवाऽत्र वर्णाश्रमधर्मैर्भगवदाराधनरूपा तथा निशितं ज्ञानं भगवदुपासनात्मकं तदेवासिः खड्गस्तमादाय प्रकृतितरुच्छेदनायेति भावः यथा “अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा” इति अस्याध्वनः पारं वैष्णवं पदं प्रति अतितर । अध्वनः पारमिति ज्ञात्वा असेर्विशेषणं वा संसाराध्वनो निस्तरणोपायभूतज्ञानासिमादाय संसारमुक्तो भवेत्यर्थः ॥ २० ॥
श्लोक-२१
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
अहो नृजन्माखिलजन्मशोभनं
किं जन्मभिस्त्वपरैरप्यमुष्मिन्।
न यद्धृषीकेशयशःकृतात्मनां
महात्मनां वः प्रचुरः समागमः॥
मूलम्
अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन्।
न यद्धृषीकेशयशःकृतात्मनां महात्मनां वः प्रचुरः समागमः॥ २१ ॥
अनुवाद (हिन्दी)
राजा रहूगणने कहा—अहो! समस्त योनियोंमें यह मनुष्यजन्म ही श्रेष्ठ है। अन्यान्य लोकोंमें प्राप्त होनेवाले देवादि उत्कृष्ट जन्मोंसे भी क्या लाभ है, जहाँ भगवान् हृषीकेशके पवित्र यशसे शुद्ध अन्तःकरणवाले आप-जैसे महात्माओंका अधिकाधिक समागम नहीं मिलता॥ २१॥
वीरराघवः
एवमुपदिष्टतत्त्वत्रययाथात्म्यबन्धमोक्षहेतुः संसारासारत्वोपदेशेन उत्पन्नवैराग्यो रहूगणः स्वात्मनः कृतार्थतामाविः कुर्वन् तत्सङ्गतिं तदुक्तीश्चाभिनन्दन्नमस्करोति त्रिभिः श्लोकैः अहो इति । अहो नृजन्म मनुष्यजन्म सुशोभनं परममुष्मिन्परलोकेऽपरैर्दैवादिजन्मभिरपि किं प्रयोजनं येषु देवादिजन्मसु हृषीकेशस्य भगवतो यशसा कृतः शोधित आत्मा चित्तं येषां तेषां महात्मनां त्वादृशानां समागमः प्रचुरो न भवति भागवतसङ्गविरहितैर्देवादिजन्मभिरपि किं व्यर्थान्येव तानीत्यर्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
न ह्यद्भुतं त्वच्चरणाब्जरेणुभि-
र्हतांहसो भक्तिरधोक्षजेऽमला।
मौहूर्तिकाद्यस्य समागमाच्च मे
दुस्तर्कमूलोऽपहतोऽविवेकः॥
मूलम्
न ह्यद्भुतं त्वच्चरणाब्जरेणुभिर्हतांहसो भक्तिरधोक्षजेऽमला।
मौहूर्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलोऽपहतोऽविवेकः॥ २२ ॥
अनुवाद (हिन्दी)
आपके चरणकमलोंकी रजका सेवन करनेसे जिनके सारे पाप-ताप नष्ट हो गये हैं, उन महानुभावोंको भगवान्की विशुद्ध भक्ति प्राप्त होना कोई विचित्र बात नहीं है। मेरा तो आपके दो घड़ीके सत्संगसे ही सारा कुतर्कमूलक अज्ञान नष्ट हो गया है॥ २२॥
वीरराघवः
निरन्तरं त्वादृशानामुपासितयोश्चरणाब्जयो रेणुभिर्हतमहः पापं यस्य तत् तस्याधोक्षजेऽमला भक्तिर्भवतीति नैवाद्भुतं कुतः यस्य तव मौहूर्तिकान्मुहूर्तमात्रभवात्समागममात्रान्मे दुस्तर्केण बद्धमूलोऽपहतः विनष्टोऽभवत् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
नमो महद्भ्योऽस्तु नमः शिशुभ्यो
नमो युवभ्यो नम आ वटुभ्यः।
ये ब्राह्मणा गामवधूतलिङ्गा-
श्चरन्ति तेभ्यः शिवमस्तु राज्ञाम्॥
मूलम्
नमो महद्भ्योऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आवटुभ्यः।
ये ब्राह्मणा गामवधूतलिङ्गाश्चरन्ति तेभ्यः शिवमस्तु राज्ञाम्॥ २३ ॥
अनुवाद (हिन्दी)
ब्रह्मज्ञानियोंमें जो वयोवृद्ध हों, उन्हें नमस्कार है; जो शिशु हों, उन्हें नमस्कार है; जो युवा हों, उन्हें नमस्कार है। जो क्रीडारत बालक हों, उन्हें भी नमस्कार है। जो ब्रह्मज्ञानी ब्राह्मण अवधूतवेषसे पृथ्वीपर विचरते हैं, उनसे हम-जैसे ऐश्वर्योन्मत्त राजाओंका कल्याण हो॥ २३॥
वीरराघवः
ज्ञानिनः केन रूपेण चरन्तीत्यज्ञानात्सर्वान्नमस्करोति नम इति । महद्भयो नमः तत्रापि शिशुरूपेभ्यो नमः ये युवानस्त्वादृशास्तेभ्योऽपि नमः आबटुभ्यः बटुपर्यन्तेभ्यः बटुर्माणवकः बटुवत्स्वमाहात्म्यानाविष्करणशीलपर्यन्तेभ्यः इत्यर्थः । ज्ञानिनो हि स्वमाहात्म्यानाविष्कारेण तिष्ठन्ति “तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” इति श्रुतेः पाण्डित्यं नाम ज्ञाननिष्ठां निर्विश्च बाल्येन तिष्ठासेदित्यर्थः । ये त्वादृशा ब्राह्मणा अवधूतवेषाः गां भूमिं चरन्ति तेभ्यः सकाशाद्राज्ञां मादृशानां कृतागसां शिवमस्तु महतां निग्रहो मा भूत् ॥ २३ ॥
श्लोक-२४
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मसतत्त्वं विगणयतः परानुभावःपरमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो धरणिमिमां विचचार॥
मूलम्
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मस7तत्त्वं विगणयतः प8रानुभावः परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दितचरण आपू9र्णार्णव इव निभृतकरणोर्म्याशयो धरणिमिमां वि10चचार॥ २४ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—उत्तरानन्दन! इस प्रकार उन परम प्रभावशाली ब्रह्मर्षिपुत्रने अपना अपमान करनेवाले सिन्धुनरेश रहूगणको भी अत्यन्त करुणावश आत्मतत्त्वका उपदेश दिया। तब राजा रहूगणने दीनभावसे उनके चरणोंकी वन्दना की। फिर वे परिपूर्ण समुद्रके समान शान्तचित्त और उपरतेन्द्रिय होकर पृथ्वीपर विचरने लगे॥ २४॥
वीरराघवः
संवादमुपसंहरति शुकः हे उत्तरामातः । उत्तरा माता यस्य स उत्तरामाता परीक्षित्तस्येदं संबोधनमुत्तरामातरिति, अविगणयते न विगणयत इत्यविगणयन् तस्मै अवमानं कुर्वाणाय सिन्धुसौवीरपतये रहूगणायाविगणितः परिच्छेत्तुमशक्यः परमानुभावः प्रभावो यस्य स वै ब्रह्मर्षिसुतः परमकारुणिकत्वेन हेतुना आत्मनस्तत्त्वं प्रकृतिविलक्षणब्रह्मात्मकत्वविशुद्धज्ञानानन्दत्व प्रकृतशान्तत्वादियाथात्म्यमुपदिश्य सकरुणं सस्नेहं यथा भवति तथा रहूगणेनाभिवन्दितौ चरणौ पादौ यस्य सः आसमन्तात्पूर्णः समुद्र इव निभृतानि शान्तानि करणानि इन्द्रियाणि ऊर्मयः अशनायादयः आशयोऽन्तःकरणं वासना वा यस्य सः इमां धरणिं भूमिं विचचार ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज। एवं हि नृप भगवदाश्रिताश्रितानुभावः॥
मूलम्
सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज । एवं हि नृप भगवदाश्रिताश्रि11तानुभावः॥ २५ ॥
अनुवाद (हिन्दी)
उनके सत्संगसे परमात्मतत्त्वका ज्ञान पाकर सौवीरपति रहूगणने भी अन्तःकरणमें अविद्यावश आरोपित देहात्मबुद्धिको त्याग दिया। राजन्! जो लोग भगवदाश्रित अनन्य भक्तोंकी शरण ले लेते हैं, उनका ऐसा ही प्रभाव होता है—उनके पास अविद्या ठहर नहीं सकती॥ २५॥
वीरराघवः
सौवीरपतिः रहूगणोऽपि सुजनाद्ब्रह्मर्षिसुतात्सम्यगवगतं परमात्मनस्तत्त्वं याथात्म्यं येन तथाभूतः सन् तदानीमेवात्मन्यविद्ययाज्ञानेनारोपितां देहात्माभिमतिं विससर्ज जहौ । हे नृप ! भगवदाश्रिता भागवतास्तानाश्रिता भगवद्दासानुदासास्तेषां प्रभाव एवंविधो हि भवतीत्यर्थः ॥ २५ ॥
श्लोक-२६
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगमः। अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति॥
मूलम्
यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवा12ध्वा स ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगमः। अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति॥ २६ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने कहा—महाभागवत मुनिश्रेष्ठ! आप परम विद्वान् हैं। आपने रूपकादिके द्वारा अप्रत्यक्षरूपसे जीवोंके जिस संसाररूप मार्गका वर्णन किया है, उस विषयकी कल्पना विवेकी पुरुषोंकी बुद्धिने की है; वह अल्पबुद्धिवाले पुरुषोंकी समझमें सुगमतासे नहीं आ सकता। अतः मेरी प्रार्थना है कि इस दुर्बोध विषयको रूपकका स्पष्टीकरण करनेवाले शब्दोंसे खोलकर समझाइये॥ २६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे त्रयोदशोऽध्यायः॥ १३ ॥
वीरराघवः
एवं तत्संवादे उपवर्णिते वणिक्सार्थाध्वादिरूपेण प्रवृत्तानां परोक्षरूपाणामुक्तीनामाशयजिज्ञासयाह राजा परीक्षिच्छुकं प्रति य इति । हे महाभागवत ! शुक ! बहुविदा बहुज्ञेन त्वया यो जीवलोकस्य भवाध्वा पारोक्ष्यरूपेणाभिहितः कथितः स हि यस्मादार्याणां विवेकिनां मनीषया बुद्ध्या एव दस्युस्थानीयानीन्द्रियाणि गोमायुस्थानीयान्यपत्यादीनीत्येवं कल्पितः विषयो ज्ञानं यस्य सः कल्पितपदार्थवान् अतोऽञ्जसा सुखेन व्युत्पन्ना विवेकिनो लोकास्तैः समधिगम्यः न त्वव्युत्पन्नमादृशसमधिगम्यः अथ तस्मात् दुरधिगमं दुःखेनाप्यवगन्तुमशक्यमेतत्परोक्षरूपमुक्तिजातं समवेतानुकल्पेन प्रकृतोपयुकार्थसमवेतशब्दप्रयोगेण निर्दिश्यतां व्याख्यायतां शब्दार्थयोरपृथक्सिद्धत्वाभिप्रायेण समवेतशब्दः प्रयुक्तः । यद्वा एतत्प्रसिद्धाध्वत्वेन रूपितं संसाराध्वस्वरूपं समवेतानुकल्पेन प्रसिद्धा उत्पत्त्यध्वनि समवेताः समवस्थिता ये दस्युगोमायुप्रभृतयः ताननुसृत्य तद्धर्मसाम्येन कल्पाः रूप्यास्तैर्युक्तत्वेनः निर्द्दिश्यतां कथ्यतामित्यर्थः ॥ २६ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां त्रयोदशोऽध्यायः ॥ १३ ॥