१२

[द्वादशोऽध्यायः]

भागसूचना

रहूगणका प्रश्न और भरतजीका समाधान

श्लोक-१

मूलम् (वचनम्)

1हूगण उवाच

विश्वास-प्रस्तुतिः

नमो नमः कारणविग्रहाय
स्वरूपतुच्छीकृतविग्रहाय।
नमोऽवधूत द्विजबन्धुलिङ्ग-
निगूढनित्यानुभवाय तुभ्यम्॥

मूलम्

नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय।
नमोऽवधूत द्विजबन्धुलिङ्गनिगूढनित्यानुभवाय तुभ्यम्॥ १ ॥

अनुवाद (हिन्दी)

राजा रहूगणने कहा—भगवन्! मैं आपको नमस्कार करता हूँ। आपने जगत‍्का उद्धार करनेके लिये ही यह देह धारण की है। योगेश्वर! अपने परमानन्दमय स्वरूपका अनुभव करके आप इस स्थूलशरीरसे उदासीन हो गये हैं तथा एक जड ब्राह्मणके वेषसे अपने नित्यज्ञानमय स्वरूपको जनसाधारणकी दृष्टिसे ओझल किये हुए हैं। मैं आपको बार-बार नमस्कार करता हूँ॥ १॥

वीरराघवः

कारणे परमात्मस्वरूपे चोपदिष्टे देहात्मनोरन्योऽन्यभेदं जिज्ञासुः प्रणत्या तदुक्ताभिनन्दनेन च तं प्रसादयन्पृच्छति रहूगणः । नमो नम इति चतुर्भिः । कारणविग्रहाय कारणस्य परमात्मनो विग्रहाय शरीरभूताय । यद्वा मादृशलोकरक्षणकारणेन विग्रहो देहो यस्य तस्मै “आचार्य देवो भव, देवमिवाचार्यमुपासीत, आचार्य मां विजानीयात्” इति शास्त्रानुसन्धानकृतेनेश्वरभावेनैवमुक्तं स्वरूपानुसन्धानेन तुच्छीकृतो निरस्तो विग्रहो विरोधः कृतापराधेष्वपि मादृशेषु यस्य । अवधूतः सर्वैः परिभाव्यवेषः द्विजबन्धोर्लिङ्गेन वेषेण निगूढो नित्यानुभवः नित्यस्य परमात्मनोऽनुभवः येन ततोऽवधूतशब्देन कर्मधारयः, एवंभूताय तुभ्यं नमः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

ज्वरामयार्तस्य यथागदं सत्
निदाघदग्धस्य यथा हिमाम्भः।
कुदेहमानाहिविदष्टदृष्टे-
र्ब्रह्मन् वचस्तेऽमृतमौषधं मे॥

मूलम्

ज्वरामयार्तस्य यथागदं सत् निदाघदग्धस्य यथा हिमाम्भः।
कुदेहमानाहिविदष्टदृष्टेः ब्रह्मन् वचस्तेऽमृतमौषधं मे॥ २ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! जिस प्रकार ज्वरसे पीड़ित रोगीके लिये मीठी ओषधि और धूपसे तपे हुए पुरुषके लिये शीतल जल अमृततुल्य होता है, उसी प्रकार मेरे लिये, जिसकी विवेकबुद्धिको देहाभिमानरूप विषैले सर्पने डस लिया है, आपके वचन अमृतमय ओषधिके समान हैं॥ २॥

वीरराघवः

ज्वररूप आमयो रोगः तेनार्तस्य पीडितस्य यथा सद्विशुद्धमगदमौषधं यथा वा निदाघेन ग्रीष्मतापेन तप्तस्य हिमाम्भः पीडानिवर्तकं च तथा हे ब्रह्मन् ! कुत्सितो यो देहस्तस्मिन्मान आत्माभिमानः स एवाहिः सर्पस्तेन विशेषेण दष्टा दृष्टिर्विवेकलक्षणा यस्य तस्य मम ते तव वचः अमृततुल्यमौषधम् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

तस्माद‍्भवन्तं मम संशयार्थं
प्रक्ष्यामि पश्चादधुना सुबोधम्।
अध्यात्मयोगग्रथितं तवोक्त-
माख्याहि कौतूहलचेतसो मे॥

मूलम्

तस्माद‍्भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चादधुना सुबोधम्।
अध्यात्मयोगग्रथितं तवोक्तमाख्याहि कौतूहलचेतसो मे॥ ३ ॥

अनुवाद (हिन्दी)

देव! मैं आपसे अपने संशयोंकी निवृत्ति तो पीछे कराऊँगा। पहले तो इस समय आपने जो अध्यात्म-योगमय उपदेश दिया है, उसीको सरल करके समझाइये, उसे समझनेकी मुझे बड़ी उत्कण्ठा है॥ ३॥

वीरराघवः

तस्माद्भवन्तं प्रति मम संशयार्थं संशयनिवृत्त्यर्थमर्थशब्दोऽत्र निवृत्तिवाची मशकार्थो धूम इतिवत् । तं पश्चाद्वक्ष्यामि अधुना तु यत्तव त्वया उक्तं तदध्यात्मयोगेन प्रथितमतो दुर्बोधं सुबोधं यथा तथा कौतूहलचेतसः कौतूहलशब्दस्तद्युक्तपरः कौतूहलयुक्तं चेतो यस्य तस्य मे मह्यमाख्याहि कथय ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

यदाह योगेश्वर दृश्यमानं
क्रियाफलं सद्‍व्यवहारमूलम्।
न ह्यञ्जसा तत्त्वविमर्शनाय
भवानमुष्मिन् भ्रमते मनो मे॥

मूलम्

यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्‍व्यवहारमूलम्।
न ह्यञ्जसा तत्त्वविमर्शनाय भवानमुष्मिन् भ्रमते मनो मे॥ ४ ॥

अनुवाद (हिन्दी)

योगेश्वर! आपने जो यह कहा कि भार उठानेकी क्रिया तथा उससे जो श्रमरूप फल होता है, वे दोनों ही प्रत्यक्ष होनेपर भी केवल व्यवहारमूलके ही हैं, वास्तवमें सत्य नहीं है—वे तत्त्वविचारके सामने कुछ भी नहीं ठहरते—सो इस विषयमें मेरा मन चक्‍कर खा रहा है, आपके इस कथनका मर्म मेरी समझमें नहीं आ रहा है॥ ४॥

वीरराघवः

तत्र दुर्बोधमर्थमनुवदति यदाहेति । हे योगेश्वर ! भवान्प्रत्यक्षादिभिर्दृश्यमानं यत्क्रियाफलं दूरगमनक्रियाफलं खेदश्रमादिकं सद्व्यवहारमूलमबाधितव्यवहारहेतुकमुरुपरिश्रान्तोऽसीत्यबाधितव्यवहारस्य मूलं नहि भवतीति यद्भवानाह तत्र मे मनः अञ्जसा सुखेन तत्त्वविमर्शनाय भ्रमते भ्राम्यते क्लिश्यति ॥ ४ ॥

श्लोक-५

मूलम् (वचनम्)

ब्राह्मण उवाच

विश्वास-प्रस्तुतिः

अयं जनो नाम चलन् पृथिव्यां
यः पार्थिवः पार्थिव कस्य हेतोः।
तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घा-
जानूरुमध्योरशिरोधरांसाः॥

मूलम्

अयं जनो नाम चलन् पृथिव्यां यः पार्थिवः 2पार्थिव कस्य हेतोः।
तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घाजानूरुमध्योरशिरोधरांसाः॥ ५ ॥

अनुवाद (हिन्दी)

जडभरतने कहा—पृथ्वीपते! यह देह पृथ्वीका विकार है, पाषाणादिसे इसका क्या भेद है? जब यह किसी कारणसे पृथ्वीपर चलने लगता है, तब इसके भारवाही आदि नाम पड़ जाते हैं। इसके दो चरण हैं; उनके ऊपर क्रमशः टखने, पिंडली, घुटने, जाँघ, कमर, वक्षःस्थल, गर्दन और कंधे आदि अंग हैं॥ ५॥

वीरराघवः

तत्र क्रियाफलस्य बाधितव्यवहारमूलत्वं भवतु नहि स्थौल्यकार्श्यादिव्यवहारस्य स्वरूपेणासत्त्वमुक्तं देहविषयस्य तस्याबाधितत्वात् । किन्त्वात्मनि यद्भवता परिश्रान्तोऽसि नातिपीवा शास्ताधिगोप्ता पतिरिति व्यवहृतं तद्बाधितमित्युच्यते । न च मदीयोऽपि व्यवहारः शरीरविषय एवेति बाधितत्वमहंत्वंशब्दयोरात्मविषयत्वादभिमुखीकर्त्तव्यतत्प्रतिसंबन्धिनि प्रत्यग्वस्तुनि च चेतने एव तयोर्वृत्तेः अचेतनशिष्टाभिमुखादचेतनविषयत्वेऽपि विशेष्यास्थौल्यादेर्बाधितत्वादितिवद्देहात्मनोरत्यन्तभेदमाह ब्राह्मणः । अयमिति । हे पार्थिव ! यः पार्थिवः पृथिव्या विकारः स एव कस्य हेतोः कस्माच्चित्कारणात् पृथिव्यां चलन्नयं भारवाहादिजनो नाम प्रसिद्धः, यस्तु न चलति सपाषाणादिरित्येतावानेव भेदः । कस्य हेतोरित्यनेन कश्चिज्जीवस्य कर्मशेष एव एतच्छरीरस्य चराचरत्वयोर्हेतुरित्यभिप्रेतं तस्यापि पृथिवीविकारस्याप्यद्रूध्योः पादयोः उपर्युपरि गुल्फादयः-उरसः सलोप आर्षः शिरोधरा ग्रीवा अंसौ स्कन्धौ ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

अंसेऽधि दार्वी शिबिका च यस्यां
सौवीरराजेत्यपदेश आस्ते।
यस्मिन् भवान् रूढनिजाभिमानो
राजास्मि सिन्धुष्विति दुर्मदान्धः॥

मूलम्

अंसेऽधि दार्वी शिबिका च3 यस्यां सौवीरराजेत्यपदेश आस्ते।
4स्मिन् भवान् रूढनिजाभिमानो राजास्मि सिन्धुष्विति दुर्मदान्धः॥ ६ ॥

अनुवाद (हिन्दी)

कंधोंके ऊपर लकड़ीकी पालकी रखी हुई है; उसमें भी सौवीरराज नामका एक पार्थिवविकार ही है, जिसमें आत्मबुद्धिरूप अभिमान करनेसे तुम ‘मैं सिन्धु देशका राजा हूँ’ इस प्रबल मदसे अंधे हो रहे हो॥ ६॥

वीरराघवः

अंसे च दारुमयी शिबिका तस्यां च सौवीराणां राजेत्यपदेशः अपदिश्यत इत्यपदेशः व्यवहर्तव्यः आस्ते सौवीरराजेति व्यपदेशो व्यवहारो यस्य स मांसपिण्ड आस्ते इति वा । यस्मिन् सौवीरराजव्यपदेशे भवान् स्वरूपतः स्वभावतश्च ततोऽत्यन्तविलक्षणोऽपि भवान्निरूढतादात्म्याभिमानः सिन्धुदेशेषु राजास्मीति दुर्मदेनान्धः सन् अनेनात्मनि राजत्वबुद्धिर्भ्रान्तिरित्युक्तम् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

शोच्यानिमांस्त्वमधिकष्टदीनान्
विष्ट्या निगृह्णन्निरनुग्रहोऽसि।
जनस्य गोप्तास्मि विकत्थमानो
न शोभसे वृद्धसभासु धृष्टः॥

मूलम्

शोच्यानिमांस्त्वमधिकष्टदीनान् विष्ट्या निगृह्णन्निरनुग्रहोऽसि।
जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्धसभासु 5धृष्टः॥ ७ ॥

अनुवाद (हिन्दी)

किन्तु इसीसे तुम्हारी कोई श्रेष्ठता सिद्ध नहीं होती, वास्तवमें तो तुम बड़े क्रूर और धृष्ट ही हो। तुमने इन बेचारे दीन-दुःखिया कहारोंको बेगारमें पकड़कर पालकीमें जोत रखा है और फिर महापुरुषोंकी सभामें बढ़-बढ़कर बातें बनाते हो कि मैं लोकोंकी रक्षा करनेवाला हूँ। यह तुम्हें शोभा नहीं देता॥ ७॥

वीरराघवः

अत्यन्तं कष्टेन वहनादिजनितदुःखेन दीनानत एव शोच्यानिमान् विष्ट्या बलान्निगृह्णन्निरनुग्रहः निष्कृपो वर्तसे । अनेनात्मनि राजत्वबुद्धिप्रयुक्तनिग्रहादिकर्तृत्वस्य च स्वरूपप्रयुक्तत्वबुद्धिर्भ्रान्तिरित्युक्तम, जनस्य गोप्ता रक्षकोऽस्मीति कत्थमानस्त्वं वृद्धसभासु देहात्मविवेकिषु न शोभते यतो धृष्टः देहात्मभ्रान्त्योद्धतः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

यदा क्षितावेव चराचरस्य
विदाम निष्ठां प्रभवं च नित्यम्।
तन्नामतोऽन्यद् व्यवहारमूलं
निरूप्यतां सत् क्रिययानुमेयम्॥

मूलम्

यदा क्षि6तावेव चराचरस्य विदाम निष्ठां प्रभवं च 7नित्यम्।
यन्नामतोऽन्यद् व्यवहारमूलं निरूप्यतां सत् क्रिययानुमेयम्॥ ८ ॥

अनुवाद (हिन्दी)

हम देखते हैं कि सम्पूर्ण चराचर भूत सर्वदा पृथ्वीसे ही उत्पन्न होते हैं और पृथ्वीमें ही लीन होते हैं; अतः उनके क्रियाभेदके कारण जो अलग-अलग नाम पड़ गये हैं—बताओ तो, उनके सिवा व्यवहारका और क्या मूल है?॥ ८॥

वीरराघवः

अस्थिरेषु स्थिरबुद्धिश्च भ्रान्तिरिति दर्शयितुमस्थिरत्वमाह यदेति । चराचरस्य देहजातस्य प्रभवमुत्पत्तिं निष्ठां नाशं च क्षितौ भूम्यामेव विदाम, क्षितिशब्दो ब्रह्माण्डपरः “सभूमिं विश्वतो वृत्वा" इति श्रौतप्रयोगात् उत्पत्तिविनाशौ क्षितावेव पश्याम स्थिरत्वं पश्याम इति भावः, तस्मादस्थिरत्वान्नामतः अनित्ये नित्यत्वाद्देहात्मभ्रान्तिमूलान्नित्यत्वस्य बाधितत्वात्त्वदुक्तिमात्रादन्यत्सत्क्रियया अबाधितव्यवहारेणानुमेयव्यवहारस्यात्मनि राजत्वादिव्यवहारस्य मूलं निरूप्यतां, तन्न किञ्चिदप्यस्ति, उक्तत्रिविधस्य भ्रान्तिमूलत्वादित्यर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

एवं निरुक्तं क्षितिशब्दवृत्त-
मसन्निधानात्परमाणवो ये।
अविद्यया मनसा कल्पितास्ते
येषां समूहेन कृतो विशेषः॥

मूलम्

एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानात्परमाणवो8 ये।
अविद्यया मनसा कल्पितास्ते 9येषां समूहेन कृतो विशेषः॥ ९ ॥

अनुवाद (हिन्दी)

इस प्रकार ‘पृथ्वी’ शब्दका व्यवहार भी मिथ्या ही है; वास्तविक नहीं है; क्योंकि यह अपने उपादानकारण सूक्ष्म परमाणुओंमें लीन हो जाती है। और जिनके मिलनेसे पृथ्वीरूप कार्यकी सिद्धि होती है, वे परमाणु अविद्यावश मनसे ही कल्पना किये हुए हैं। वास्तवमें उनकी भी सत्ता नहीं है॥ ९॥

वीरराघवः

क्षितावेवोत्पत्तिविनाशौ चराचरस्य विदाम इत्यनेन क्षितेस्तु नित्यत्वं प्रतीतं तन्निराकुर्वन्नाह एवमिति । असन्निधानमसतामनित्यानां कार्याणां निधानं लयस्थानं यत्क्षितिशब्दवृत्तं क्षितिशब्दस्य वृत्तं वृत्तिर्यस्मिंस्तत् क्षितिशब्दवाच्यं तदप्येवं निरुक्तं दर्शितं यत्र देहाद्युत्पत्तिः सा क्षितिरप्यनित्येत्यर्थः । भूमेरनित्यत्वज्ञापनाय तत्राप्यवयवविभागमवयवानां चानित्यत्वमाह । परमाणव इति । ये परमाणवः भूतसूक्ष्माणि येषां परमाणूनां समूहेन विशेषः कृतः भूमण्डलं कृतं ते परमाणवः मनसाधिष्ठातुरीश्वरसङ्कल्पेनाविद्यया प्रकृत्या कल्पिता ईश्वराधिष्ठितप्रकृतिपरिणामरूपत्वादनित्या एवेति भावः । यद्वा ये परमाणवो नित्यास्ते मनसाविद्यया कल्पिताः शरीराकारेण संहिताः त एवाहंममेत्यविद्यया आत्मन्येव कल्पिता इत्यर्थः । वेदान्तार्थोपबृंहणपरेऽस्मिन् प्रबन्धे परमाणुकारणवादायोगाद्वैशेषिकादिभिस्तेषामविद्याकल्पितत्वानभ्युपगमाच्च यथोक्त एवार्थः । असन्निधानादित्यपि पाठो दृश्यते, तत्रासत्वनित्येषु स्वकारणभूतेषु भूतसूक्ष्मेषु निधानात् लयात् क्षितिशब्दवृत्तमप्यनित्यमित्यर्थः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

एवं कृशं स्थूलमणुर्बृहद्यद्
असच्च सज्जीवमजीवमन्यत्।
द्रव्यस्वभावाशयकालकर्म-
नाम्नाजयावेहि कृतं द्वितीयम्॥

मूलम्

एवं कृशं स्थूलमणुर्बृहद्यद् असच्च सज्जीवमजीवमन्यत्।
द्रव्यस्वभावाशयकालकर्मनाम्नाजयावेहि कृतं द्वितीयम्॥ १० ॥

अनुवाद (हिन्दी)

इसी प्रकार और भी जो कुछ पतला-मोटा, छोटा-बड़ा, कार्य-कारण तथा चेतन और अचेतन आदि गुणोंसे युक्त द्वैत-प्रपंच है—उसे भी द्रव्य, स्वभाव, आशय, काल और कर्म आदि नामोंवाली भगवान‍्की मायाका ही कार्य समझो॥ १०॥

वीरराघवः

शरीरानित्यत्वं निगमयन्स्थौल्यादिकं तद्गतमेवेत्याह एवमिति । एवं कार्श्यादिगुणयुक्तं सदसदात्मकं कार्यकारणात्मकमुत्कृष्टापकृष्टात्मकं वा जीवमजीवं जीवभेदभिन्नं चराचरात्मकं द्वितीयमात्मनो भिन्नं शरीरं द्रव्यादिनाम्नाऽजया प्रकृत्या कृतमिति बुद्ध्या निपुणयावेहि । तत्र द्रव्यं पृथिव्यादिपञ्चभूतजातं स्वभावस्तेषां परिणाम आशयोऽन्तःकरणं वासना वा कालः सत्त्वादिगुणक्षोभकः द्रव्यादीनां प्रकृतिप्रपञ्चत्वात् द्रव्यादिनाम्नेत्युक्तम् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

ज्ञानं विशुद्धं परमार्थमेक-
मनन्तरं त्वबहिर्ब्रह्म सत्यम्।
प्रत्यक् प्रशान्तं भगवच्छब्दसंज्ञं
यद्वासुदेवं कवयो वदन्ति॥

मूलम्

ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यम्।
प्रत्यक् प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति॥ ११ ॥

अनुवाद (हिन्दी)

विशुद्ध परमार्थरूप, अद्वितीय तथा भीतर-बाहरके भेदसे रहित परिपूर्ण ज्ञान ही सत्य वस्तु है। वह सर्वान्तर्वर्ती और सर्वथा निर्विकार है। उसीका नाम ‘भगवान्’ है और उसीको पण्डितजन ‘वासुदेव’ कहते हैं॥ ११॥

वीरराघवः

एवं देहस्यानात्मत्वमुक्तमथात्मस्वरूपं शोधयति ज्ञानमिति । जडात्मवादव्युदासः विशुद्धं स्वतः कर्मसम्बन्धरहितं रागादिदोषरहितं वा परमार्थं पुरुषार्थभूतमेकं सर्वत्र ज्ञानैकाकारमनन्तरं न बहिरन्तर्बहिःप्रदेशभेदरहितं निरवयवत्वात् ब्रह्म गुणतो व्यापकं सत्यं नित्यं प्रत्यक् स्वस्मिन् भासमानं प्रशान्तमशनायापिपासाशोकमोहजरामृत्यूर्मिषट्करहितं साङ्ख्यमतव्यावृत्त्यर्थं ब्रह्मात्मकं सामानाधिकरण्येनाह । भगवच्छब्दसंज्ञं वासुदेवमिति । भगवच्छब्दः संज्ञा यस्य स भगवच्छब्दसंज्ञः “तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण ह्यन्यत्र ह्युपचारतः ॥" इत्युक्तरीत्या भगवच्छब्दो यत्र वासुदेवे मुख्यवृत्तस्तं वासुदेवं वसुदेवात्मजं वदन्ति कवयः आत्मयाथात्म्यविदः वदन्ति ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

रहूगणैतत्तपसा न याति
न चेज्यया निर्वपणाद् गृहाद्वा।
न च्छन्दसा नैव जलाग्निसूर्यै-
र्विना महत्पादरजोऽभिषेकम्॥

मूलम्

10रहूगणैतत्तपसा न याति न चेज्यया निर्वपणाद् गृहाद्वा।
न च्छन्दसा नैव जलाग्निसूर्यैर्विना महत्पादरजोऽभिषेकम्॥ १२ ॥

अनुवाद (हिन्दी)

रहूगण! महापुरुषोंके चरणोंकी धूलिसे अपनेको नहलाये बिना केवल तप, यज्ञादि वैदिक कर्म, अन्नादिके दान, अतिथिसेवा, दीनसेवा आदि गृहस्थोचित धर्मानुष्ठान, वेदाध्ययन अथवा जल, अग्नि या सूर्यकी उपासना आदि किसी भी साधनसे यह परमात्मज्ञान प्राप्त नहीं हो सकता॥ १२॥

वीरराघवः

अत्र विशुद्धं परमार्थमित्यादिविशेषणैरचेतनशरीरव्यावृत्तिः, वासुदेवात्मकत्वकथनेन तत्सृज्यत्वपाल्यत्वनियाम्यत्वशेषत्वादिधर्मैः तत्तदाक्षिप्तैस्ततो वैलक्षण्यं सूचितम्, एवम्भूतप्रकृतिविलक्षणस्वात्मपरमात्मयाथात्म्यज्ञानं कथं लभ्येतेत्यपेक्षायां नोपायान्तरैः किन्तु महत्सेवाभगवद्गुणानुश्रवणादिप्रणाल्यैवेत्याह द्वाभ्याम् । हे रहुगणैतदात्मपरमात्मयाथात्म्यज्ञानं महतां भागवतानां पादरजःसेवां विना तपआदिभिः स्वमनीषापूर्वकैर्न याति न प्राप्नोति । तत्र तपः कृच्छ्रचान्द्रायणादिरनशनादिर्वा इज्या वैदिकं कर्म निर्वपणं सत्पात्रनिःक्षेपरूपं दानं गृहं गृहस्थधर्मः छन्दो वेदाभ्यासः एभिस्तपआदिभिस्तथोपासितैर्जलादिभिश्च न यातीत्यर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

यत्रोत्तमश्लोकगुणानुवादः
प्रस्तूयते ग्राम्यकथाविघातः।
निषेव्यमाणोऽनुदिनं मुमुक्षो-
र्मतिं सतीं यच्छति वासुदेवे॥

मूलम्

यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः।
निषेव्यमाणोऽनुदिनं11 मुमुक्षोर्मतिं सतीं यच्छति वासुदेवे॥ १३ ॥

अनुवाद (हिन्दी)

इसका कारण यह है कि महापुरुषोंके समाजमें सदा पवित्रकीर्ति श्रीहरिके गुणोंकी चर्चा होती रहती है, जिससे विषयवार्ता तो पास ही नहीं फटकने पाती और जब भगवत्कथाका नित्यप्रति सेवन किया जाता है, तब वह मोक्षाकांक्षी पुरुषकी शुद्ध बुद्धिको भगवान् वासुदेवमें लगा देती है॥ १३॥

वीरराघवः

कथं महत्सेवया तद्यामीत्यत्राह । यत्र येषु महत्सु प्राम्यकथानामभिघातो यस्मात्स उत्तमश्लोकस्य भगवतो गुणानुवादः प्रस्तूयते । प्रस्तूयतां गुणानुवादः प्रकृते किमायातं तन्नाह । अनुदिनं निषेव्यमाणो गुणानुवादः वासुदेवे सतीं मतिं मुमुक्षोर्यच्छति स्वात्मपरमात्मयाथात्म्यविषयं ज्ञानं संपादयतीत्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

अहं पुरा भरतो नाम राजा
विमुक्तदृष्टश्रुतसङ्गबन्धः।
आराधनं भगवत ईहमानो
मृगोऽभवं मृगसङ्गाद्धतार्थः॥

मूलम्

अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्धः।
आराधनं भगवत ईहमानो मृगोऽभवं मृगसङ्गाद्धतार्थः॥ १४ ॥

अनुवाद (हिन्दी)

पूर्वजन्ममें मैं भरत नामका राजा था। ऐहिक और पारलौकिक दोनों प्रकारके विषयोंसे विरक्त होकर भगवान‍्की आराधनामें ही लगा रहता था; तो भी एक मृगमें आसक्ति हो जानेसे मुझे परमार्थसे भ्रष्ट होकर अगले जन्ममें मृग बनना पड़ा॥ १४॥

वीरराघवः

एवं गृहमेधिसौख्यवैराग्यस्य ज्ञानहेतुत्वमभिधाय विषयसङ्गस्य ज्ञानभ्रंशकरत्वं स्वदृष्टान्तेन वदन् कस्त्वं निगूढ इत्यादिप्रश्नस्योत्तरमाह । अहमिति द्वाभ्याम् । पुरा पूर्वतरस्मिन् जन्मनि अहं भरतो नाम प्रसिद्धः राजाऽभूवं तत्र विशेषेण व्यक्तः दृष्टेष्वैहिकसुखेषु श्रुतेष्वामुष्मिकेषु स्वर्गादिषु च सङ्गरूपो बन्धो येन तथाभूतः सन् भगवत आराधनं कुर्वाणस्तत्र मृगसङ्गाद्धतः विहतः आराधनलक्षणोऽर्थो यस्य तथाभूतो मृगोऽभवं मृगजन्मप्राप्तोऽभूवम् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

सा मां स्मृतिर्मृगदेहेऽपि वीर
कृष्णार्चनप्रभवा नो जहाति।
अथो अहं जनसङ्गादसङ्गो
विशङ्कमानोऽविवृतश्चरामि॥

मूलम्

सा मां स्मृतिर्मृगदेहेऽपि वीर कृष्णार्चनप्रभवा नो जहाति।
अथो अहं जनसङ्गादसङ्गो विशङ्कमानोऽविवृतश्चरामि॥ १५ ॥

अनुवाद (हिन्दी)

किन्तु भगवान् श्रीकृष्णकी आराधनाके प्रभावसे उस मृगयोनिमें भी मेरी पूर्वजन्मकी स्मृति लुप्त नहीं हुई। इसीसे अब मैं जनसंसर्गसे डरकर सर्वदा असंगभावसे गुप्तरूपसे ही विचरता रहता हूँ॥ १५॥

वीरराघवः

हे वीर! कृष्णार्चनप्रभावाद्भगवदाराधनजा सा भगवद्विषया स्मृतिः मृगदेहेऽपि मां न जहाति नात्याक्षीत् । कृष्णार्चनप्रभावविषयके विस्मये अहो इति । अधुना जनसङ्गाद्विशङ्कमानः अतः एवासङ्गः अविवृतः अप्रकटः गृहाद्यप्रविष्टश्चरामि ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

तस्मान्नरोऽसङ्गसुसङ्गजात-
ज्ञानासिनेहैव विवृक्णमोहः।
हरिं तदीहाकथनश्रुताभ्यां
लब्धस्मृतिर्यात्यतिपारमध्वनः॥

मूलम्

तस्मान्नरोऽसङ्गसुसङ्गजातज्ञानासिनेहैव विवृक्णमोहः।
हरिं तदीहाकथनश्रुताभ्यां लब्धस्मृतिर्यात्यतिपारमध्वनः॥ १६ ॥

अनुवाद (हिन्दी)

सारांश यह है कि विरक्त महापुरुषोंके सत्संगसे प्राप्त ज्ञानरूप खड्गके द्वारा मनुष्यको इस लोकमें ही अपने मोहबन्धनको काट डालना चाहिये। फिर श्रीहरिकी लीलाओंके कथन और श्रवणसे भगवत्स्मृति बनी रहनेके कारण वह सुगमतासे ही संसारमार्गको पार करके भगवान‍्को प्राप्त कर सकता है॥ १६॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः॥ १२ ॥

वीरराघवः

तस्मात्सङ्गस्य बन्धकत्वान्नरः असङ्गेषु ज्ञानिषु सुसङ्गात् जातो यः ज्ञानरूपोऽसिः खड्गस्तेन विशेषेण वृक्णश्छिन्नः सङ्गो देहतदनुबन्धिषु येन तथाभूतः सन्नष्वनः संसाराटव्यध्वनः पारमत्यन्तमवधिं हरि भगवन्तं तदीहाकथनश्रुताभ्यां भगवश्चेष्टितकथनश्रवणाभ्यां कथनादिप्रणाड्येत्यर्थः । लब्धा स्मृतिर्भगवद्विषया यस्य स याति प्राप्नोति ॥ १६ ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां शदशोऽध्यायः ॥ १२ ॥


  1. राहुगण उवाच । ↩︎

  2. कश्चन कस्य । ↩︎

  3. शिबिका यस्यां । ↩︎

  4. तस्मिन् । ↩︎

  5. दुष्टः । ↩︎

  6. यदा दुःखितावेव । ↩︎

  7. प्राचीनपाठे ‘नित्यम्’ पाठः खण्डितः । ↩︎

  8. परमाणवोऽथ ये । ↩︎

  9. कल्पितास्ते समूहेन । ↩︎

  10. राहुगणैतत्तपसा । ↩︎

  11. प्राचीने पाठे ‘णोऽनुदिनं मुमुक्षोर्मति…..’ इत्यारभ्य ‘विशङ्कमानो’ पर्यन्तं पाठः खण्डितः । ↩︎