[एकादशोऽध्यायः]
भागसूचना
राजा रहूगणको भरतजीका उपदेश
श्लोक-१
मूलम् (वचनम्)
ब्राह्मण उवाच
विश्वास-प्रस्तुतिः
अकोविदः कोविदवादवादान्
वदस्यथो नातिविदां वरिष्ठः।
न सूरयो हि व्यवहारमेनं
तत्त्वावमर्शेन सहामनन्ति॥
मूलम्
अकोविदः कोविदवादवादान् वदस्यथो नाति1विदां वरिष्ठः।
न सूरयो हि व्यवहारमे2नं तत्त्वावमर्शेन सहामनन्ति॥ १ ॥
अनुवाद (हिन्दी)
जडभरतने कहा—राजन्! तुम अज्ञानी होनेपर भी पण्डितोंके समान ऊपर-ऊपरकी तर्क-वितर्कयुक्त बात कह रहे हो। इसलिये श्रेष्ठ ज्ञानियोंमें तुम्हारी गणना नहीं हो सकती। तत्त्वज्ञानी पुरुष इस अविचारसिद्ध स्वामी-सेवक आदि व्यवहारको तत्त्वविचारके समय सत्यरूपसे स्वीकार नहीं करते॥ १॥
वीरराघवः
एवं देहगतानां परिश्रमस्थौल्यादीनां सत्यानामेव देहात्मभ्रान्त्यात्मनि प्रतीयमानानामपि वस्तुत आत्मन्यभावे निराक्षेपे मयाभिहिते सत्ययं प्रपञ्चानित्यत्वं मिध्यात्वं मयाभिहितमिति भ्राम्यन् क्रियाकारित्वहेतुना घटादीनामिव तेषां सुखदुःखाद्यर्थक्रियाकारित्वेन सत्यतामुपपादयन्न कुशलः, असत्यत्वेऽभिहिते सत्यत्वोपपादनं युक्तिमदन्यथान्यत्र गतानामन्यत्र प्रतीतेर्भ्रमरूपत्वे कथिते तेषां सत्यत्वोपपादनवैयर्थ्यात् तथा देहसम्बन्धादात्मनि तेषां प्रतीतिर्न वस्तुनि इत्युक्तेः पुनर्देहादिसम्बन्धादात्मनि परिश्रमादिप्रयुक्तसुखदुःखादिप्रतीतिरिति वदन्नयं न निपुणः, उक्तस्यैव पुनराक्षेपत्वेनोक्तः तथा जीवानां मिथः स्वस्वामिभावस्यौपाधिकत्वे कथिते पुनस्तस्य स्वाभाविकत्वाभिमानेन स्वस्य दण्डनेतृत्वं साधयन्नयं न निपुण इत्यभिप्रयन्नाह अकोविद इति । विविक्तात्मपरमात्मयाथात्म्यज्ञानरहित एव त्वं कोविदवादवादान् कोविदवाक्यतुल्यानि वाक्यानि वेदस्यथोऽत्यन्तविदुषां मध्ये श्रेष्ठो न भवसि, कुतः हि यस्मादेत व्यवहारं देहात्माभिमानस्वतन्त्रात्माभिमानप्रयुक्तं पीनत्वयुक्त्वदूरगन्तृत्वादिव्यवहारमात्मविषयं देहिनां परस्परं स्वस्वामिभावादिव्यवहारमन्यश्च सर्वं सूरयस्तत्त्वत्रययाथात्म्यविदः तत्त्वावमर्शेन तत्त्वविचारमूलकेन न समामनन्ति न सम्यग्वदन्ति न परमार्थत्वेन गृह्णन्तीत्यर्थः । सहामनन्तीति पाठे तत्त्वविचारेण सह न वदन्ति किन्त्वविचारितसुन्दरं वदन्ति । सूरयो न समामनन्ति इत्यनेन निरन्तरमध्यात्मशास्त्रपरिशीलनवतामात्मपरमात्मयाथात्म्यज्ञाननिष्ठानां अस्मिन्देहात्मभ्रान्त्यादिमूले व्यवहारेऽपारमार्थ्यज्ञानं तद्विपरीतानां त्वस्मिन् पारमार्थ्याभिमानश्चेति सूचितम् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तथैव राजन्नुरुगार्हमेध-
वितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववादः
प्रायेण शुद्धो नु चकास्ति साधुः॥
मूलम्
तथैव राजन्नुरुगार्हमेधवितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधुः॥ २ ॥
अनुवाद (हिन्दी)
लौकिक व्यवहारके समान ही वैदिक व्यवहार भी सत्य नहीं है, क्योंकि वेदवाक्य भी अधिकतर गृहस्थजनोचित यज्ञविधिके विस्तारमें ही व्यस्त हैं, राग-द्वेषादि दोषोंसे रहित विशुद्ध तत्त्वज्ञानकी पूरी-पूरी अभिव्यक्ति प्रायः उनमें भी नहीं हुई है॥ २॥
वीरराघवः
तत्र तेषां तदभिमाने हेतुस्तत्त्वत्रयस्वरूपस्वभावप्रतिपादकवेदान्तशास्त्रार्थापरिशीलनमेवेति वक्तुं तावत् शास्त्रस्तुतये पूर्वभागस्यातत्त्वावेदकत्वमाह तथैवेति । तथाहि हे राजन्नुरवो बहवः गार्हमेधाः गृहमेधि सम्बन्धिनो वितानां यज्ञादिकर्मविस्तारास्तद्विषयविद्यया उरुभृशं विजृम्भितेषु विलसितेषु वेदवादेषु वेदरूपेषु उक्तेषु वेदपूर्वभागेषु तत्त्ववादः शुद्धो निर्णयात्मकः अत एव साधुः प्रायेण न चकास्ति न प्रकाशते । प्रायेणेत्यनेनेश्वराराधनत्वेन कर्म कुर्वतां रोचते एवेदमुक्तं देहातिरिक्तस्य फलभोक्तृत्वमात्रं ज्ञायते न तु स्वरूपं शोध्यते इत्यर्थः । यद्वा तत्त्वस्य वाद उक्तिर्यस्मिन् स तत्त्ववादः तत्त्ववादीत्यर्थः, एवं वेदवादेष्वित्यत्रापि वेदशब्दस्तत्पूर्वभागपरः पूर्वभागवत्तदर्थवादिषु उत्तरभागार्थवादी न सम्यक् प्रकाशत इत्यर्थः, कर्मस्वेव रुचिमतो ज्ञाने रुचिं नोत्पादयितुं शक्नुयादिति भावः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
न तस्य तत्त्वग्रहणाय साक्षाद्
वरीयसीरपि वाचः समासन्।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं
न यस्य हेयानुमितं स्वयं स्यात्॥
मूलम्
न तस्य तत्त्वग्रहणाय साक्षाद् व3रीयसीरपि वाचः समासन्।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात्॥ ३ ॥
अनुवाद (हिन्दी)
जिसे गृहस्थोचित यज्ञादि कर्मोंसे प्राप्त होनेवाला स्वर्गादि सुख स्वप्नके समान हेय नहीं जान पड़ता, उसे तत्त्वज्ञान करानेमें साक्षात् उपनिषद्-वाक्य भी समर्थ नहीं है॥ ३॥
वीरराघवः
श्रुतवेदान्तस्याप्यविरक्तस्य न तैस्तत्त्वावबोध इत्याह नेति । स्वप्ने स्वाप्नपदार्थे निरुक्त्या व्याख्यानेन स्वप्नसुखस्याल्पास्थिरत्वावगमेनान्यदपि गृहमेधिन ऐहिकामुष्मिकसुखं यस्य हेयत्वेनानुमितं न स्यात्तस्य सांसारिकदुःखविरक्तिविरहाद्वा तत्र संसक्तस्य साक्षाद्यथावत्तत्त्वज्ञानाय वरीयसीर्वरीयस्यः गरीयस्योऽपि वेदान्तवाचः सम्यङ्नासन् वेदान्तैर्न तत्त्वावबोध इत्यर्थः । स्वप्नदृष्टान्तेन गृहमेधिसौख्यस्य हेयत्वानुमानं तत्त्वानवबोधकारणं क्षुद्रसुखासक्तिमूलकमित्युक्तम् । अनेन गृहसौख्यस्य हेयत्वाध्यवसाये तत्त्वज्ञानोदय इति फलितम् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
यावन्मनो रजसा पूरुषस्य
सत्त्वेन वा तमसा वानुरुद्धम्।
चेतोभिराकूतिभिरातनोति
निरङ्कुशं कुशलं चेतरं वा॥
मूलम्
यावन्मनो रजसा पूरुषस्य सत्त्वेन वा तमसा वानुरुद्धम्।
चेतोभिराकूतिभिरातनोति निरङ्कुशं कुशलं चेतरं वा॥ ४ ॥
अनुवाद (हिन्दी)
जबतक मनुष्यका मन सत्त्व, रज अथवा तमोगुणके वशीभूत रहता है, तबतक वह बिना किसी अंकुशके उसकी ज्ञानेन्द्रिय और कर्मेन्द्रियोंसे शुभाशुभ कर्म कराता रहता है॥ ४॥
वीरराघवः
तत्र गुणत्रयोपरागेण कुशलाकुशलकर्मापादनद्वारोञ्चावचदेहसम्बन्धमापादयन्मन एवाल्पास्थिरसुखासक्तिजननद्वारा तत्त्वज्ञानप्रतिबन्धकं संसृतिकारणं तदेव च गुणत्रयाकलुषितं सज्ज्ञानजननद्वारा मुक्तिहेतुश्चेत्याह यावदिति सार्द्धैः पञ्चभिः । यावदस्य पुरुषस्य मनो रजआदिभिरनुबद्धम् उपरक्तं भवति तावन्निरङ्कुशं सत्तत्तद्गुणानुसारेण चेतोभिर्ज्ञानेन्द्रियव्यापारैराकूतिभिः कर्मेन्द्रियव्यापारैश्च हेतुभूतैरुभयेन्द्रियकर्मभिः पुण्यापुण्यरूपैः कुशलमुत्कृष्टमितरं निहीनं वा देहमातनोति सम्पादयति ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
स वासनात्मा विषयोपरक्तो
गुणप्रवाहो विकृतः षोडशात्मा।
बिभ्रत्पृथङ्नामभि रूपभेद-
मन्तर्बहिष्ट्वं च पुरैस्तनोति॥
मूलम्
स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतः षोडशात्मा।
बिभ्रत्पृथङ्नामभि रूपभेदमन्तर्बहिष्ट्वं च पुरैस्तनोति॥ ५ ॥
अनुवाद (हिन्दी)
यह मन वासनामय, विषयासक्त, गुणोंसे प्रेरित, विकारी और भूत एवं इन्द्रियरूप सोलह कलाओंमें मुख्य है। यही भिन्न-भिन्न नामोंसे देवता और मनुष्यादिरूप धारण करके शरीररूप उपाधियोंके भेदसे जीवकी उत्तमता और अधमताका कारण होता है॥ ५॥
वीरराघवः
एतदेव प्रतिपादयति स इति । पुंस्त्वमात्मशब्दविशेषणत्वेन तन्मन इत्यर्थः । स वासनात्मा वासनाधीनस्वरूपः विषयोपरक्तः शब्दादिभिरुपरक्तः गुणैः सत्त्वादिभिः प्रवाहः प्रवृत्तिर्यस्य स गुणप्रवाहः पञ्चभूतैकादशेन्द्रियरूपषोडशद्रव्येष्वात्मा प्रधानः नामभिर्वाचकशब्दैः सह रूपभेदं देवमनुष्यत्वाद्यवयवसंस्थानरूपाकारभेदं बिभ्रद्देवमनुष्यत्वादिकमात्मनो बहिष्ठं चान्तर्गतं रागादिकं च वयुनैः सङ्कल्पविकल्पात्मकैर्ज्ञानैस्तनोति आत्मानं देवोऽहं मनुष्योऽहमिच्छामि द्वेष्मीत्येवंरूपबुद्धिभिश्चोपाध्याकारयुक्तं करोतीत्यर्थः । यद्वा वयुनैः सङ्कल्पविकल्पात्मवृत्तिभेदेः रूपभेदमनेकरूपतां बिभ्रत्सवासनात्मान्तर्गतरागादिकं बहिर्गतदेवादिरूपं नामभिः सह तनोति । अत्र पुरैस्तनोतीत्यपि पाठो दृश्यते, तदायमर्थः पुरुषस्य मनो यावद्रजआदिभिरनुविद्धं सन्निरङ्कुशं यथा भवति तथा ज्ञानकर्मोभयेन्द्रियैर्गुणानुसारेण पुण्यापुण्यरूपव्यापारमापादयति तावदयं स्वतोऽविकृतोऽपि पुरुषः सवासनाधीनस्वरूपान्तःकरणयुक्तः अत एव वासनावशाद्विषयैरुपरक्तः विषयासक्तः गुणप्रवाहः गुणैः प्रवाहः प्रवृत्तिर्यस्य गुणानुरूपप्रवृत्तिमान् ततः पञ्चभूतैकादशेन्द्रियरूपषोडशपदार्थानामात्मा धारकः सन् अविश्लिष्टरूपसूक्ष्मदेह इत्यर्थः । नामभिः सह देवमनुष्यादिरूपभेदं बिभ्रतैः पुरैः शरीरैः पुनरन्तर्गतरागद्वेषादिकं बहिष्ठं बाह्यं च कर्मगुणानुसारेण पुण्यापुण्यरूपं करोति ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
दुःखं सुखं व्यतिरिक्तं च तीव्रं
कालोपपन्नं फलमाव्यनक्ति।
आलिङ्ग्य मायारचितान्तरात्मा
स्वदेहिनं संसृतिचक्रकूटः॥
मूलम्
दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलमाव्यनक्ति।
आलिङ्ग्य मायारचितान्तरात्मा स्वदेहिनं संसृतिचक्रकूटः॥ ६ ॥
अनुवाद (हिन्दी)
यह मायामय मन संसारचक्रमें छलनेवाला है, यही अपनी देहके अभिमानी जीवसे मिलकर उसे कालक्रमसे प्राप्त हुए सुख-दुःख और इनसे व्यतिरिक्त मोहरूप अवश्यम्भावी फलोंकी अभिव्यक्ति करता है॥ ६॥
वीरराघवः
तदनुरूपमीश्वरादिष्टं फलं च प्राप्नोतीत्याह दुःखमिति । एवंविधं यत्संसृतिचक्रं तस्मिन्कूटवत् पर्वतशृङ्गवदविचाल्यतया वर्तमानः मायारचितान्तरात्मा प्रकृतिपरिणामरूपान्तःकरणवान् स्वदेहिनं स्वशरीरिणं परमात्मानमालिङ्ग्य तमविनाभूयैवान्तःकरणपारवश्यात्स्वदेहिनं परमात्मानमजानन्नपि तच्छरीरतया वर्त्तमान एवेत्यर्थः । यद्वा स्वः देहो यस्य स स्वदेहस्तमालिङ्ग्येत्यर्थः । कालेन दैवादुपपन्नं प्राप्तं दुःखादिकं फलं कर्मफलमाव्यनक्ति आप्नोति व्यतिरिक्तं मोहं तीव्रं दुर्निवारमित्यर्थः । अञ्जिरत्र गत्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
तावानयं व्यवहारः सदाविः
क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः।
तस्मान्मनो लिङ्गमदो वदन्ति
गुणागुणत्वस्य परावरस्य॥
मूलम्
तावानयं व्यवहारः4 सदाविः क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः।
तस्मान्मनो लिङ्गमदो वदन्ति गुणागुणत्व5स्य परावरस्य॥ ७ ॥
अनुवाद (हिन्दी)
जबतक यह मन रहता है, तभीतक जाग्रत् और स्वप्नावस्थाका व्यवहार प्रकाशित होकर जीवका दृश्य बनता है। इसलिये पण्डितजन मनको ही त्रिगुणमय अधम संसारका और गुणातीत परमोत्कृष्ट मोक्षपदका कारण बताते हैं॥ ७॥
वीरराघवः
यावदेव तावान् तत्पर्यन्तवानयं स्थूलसूक्ष्मो व्यवहारो व्यवहारस्य स्थूलत्वं सूक्ष्मत्वं च व्यवह्रियमाणाकारस्थूलत्वसूक्ष्मत्वे देवोऽहं मनुष्योऽहं स्थूलोऽहं कृशोऽहमित्यादिबाह्याकारविषयः स्थूलः, इच्छामि द्वेष्मि सुख्यहं दुःख्यहमित्याद्यन्तराकारविषयः सूक्ष्मः सदाविः क्षेत्रज्ञसाक्ष्यो भवति सर्वदा स्वरूपेण तिरोहितजीवः साक्ष्यो विषयो यस्य तथाभूतो भवति कर्मणा स्वस्वभावसङ्कोचरूपतिरोधाने सत्यपि स्वरूपस्यातिरोधानात्सदाविरित्युक्तं सदा आविः स्वरूपेण भासमानो यः क्षेत्रज्ञो जीवः तद्विषय एवायं व्यवहारो देहात्माभिमानात् । उक्तमर्थमुपसंहरन्मनस एव बन्धमोक्षकारणत्वं सदृष्टान्तमाह तस्मादिति द्वाभ्याम् । तस्मान्मनसो गुणानुरक्तादुक्तविधसंसृतिचक्रापत्तेरनुरक्ताच्च तत्त्वज्ञानोदयाद् गुणागुणत्वस्य गुणागुणत्वयोः गुणत्रयसहितत्वतद्रहितत्वयोः संसारमोक्षयोरित्यर्थः “गुणवचनेभ्यो मतुपो लुगिष्टः" इति गुणशब्दो गुणिपरः । लिङ्गं हेतुमपि तन्मनो वदन्ति तथा परावरस्य देवादिस्थावरान्तपरावरभावस्य च मन एव लिङ्गं वदन्ति । यद्वा परावरशब्दो व्युत्क्रमेण गुणागुणत्वविशेषणम् अवरं निकृष्टं यद्गुणसहितत्वं परमुत्कृष्टं यद्गुणराहित्यं तयोर्लिङ्गं मन इत्यन्वयः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
गुणानुरक्तं व्यसनाय जन्तोः
क्षेमाय नैर्गुण्यमथो मनः स्यात्।
यथा प्रदीपो घृतवर्तिमश्नन्
शिखाः सधूमा भजति ह्यन्यदा स्वम्।
पदं तथा गुणकर्मानुबद्धं
वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम्॥
मूलम्
गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यमथो मनः स्यात्।
यथा प्रदीपो घृतवर्तिमश्नन् शिखाः सधूमा भजति ह्यन्य6दा स्वम्।
पदं तथा गुणकर्मानुब7द्धं वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम्॥ ८ ॥
अनुवाद (हिन्दी)
विषयासक्त मन जीवको संसार-संकटमें डाल देता है, विषयहीन होनेपर वही उसे शान्तिमय मोक्षपद प्राप्त करा देता है। जिस प्रकार घीसे भीगी हुई बत्तीको खानेवाले दीपकसे तो धुएँवाली शिखा निकलती रहती है और जब घी समाप्त हो जाता है तब वह अपने कारण अग्नितत्त्वमें लीन हो जाता है—उसी प्रकार विषय और कर्मोंसे आसक्त हुआ मन तरह-तरहकी वृत्तियोंका आश्रय लिये रहता है और इनसे मुक्त होनेपर वह अपने तत्त्वमें लीन हो जाता है॥ ८॥
वीरराघवः
तद्विवृणोति गुणानुरक्तमिति । गुणशब्दस्त्रिगुणपरः त्रिगुणानुरक्तं मनः जन्तोर्व्यसनाय संसाराय नैर्गुण्यममलं मनस्तु क्षेमाय मुक्तये स्यादित्यर्थः । निर्गत गुणान्निर्गुणं तदेव नैर्गुण्यं चातुर्वर्ण्यादेराकृतिगणत्वात्स्वार्थेष्यञ् । मनसो मलिनत्वे विमलत्वे च दृष्टान्तमाह यथेति । घृतवर्तिं घृतावसिक्तां वर्तिमश्नन् प्राप्नुवन् सधूमां शिखां भजति अन्यदा घृतानवसिक्तवर्त्तिगतः स्वं परं रूपं धूमानाविलं भजति तथा गुणकर्मानुबद्धं गुणानुसारिभिः पुण्यापुण्यकर्मभिः कलुषितं मनः प्रदीपस्थानीयं शिखास्थानीया धूमतुल्या रागद्वेषाद्यावृता वृत्तीर्भजते अन्यत्र गुणत्रयेणाकालुष्ये सति तत्त्वं स्वस्वभावं सत्त्वप्राचुर्य्यतां श्रयते प्राप्नोति । यद्वा तत्त्वं श्रयते तत्त्वावभासस्तदा स्यादित्यर्थः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
एकादशासन्मनसो हि वृत्तय
आकूतयः पञ्च धियोऽभिमानः।
मात्राणि कर्माणि पुरं च तासां
वदन्ति हैकादश वीर भूमीः॥
मूलम्
एकादशासन्मनसो8 हि वृत्तय आकूतयः पञ्च धियोऽभिमा9नः।
मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर10भूमीः॥ ९ ॥
अनुवाद (हिन्दी)
वीरवर! पाँच कर्मेन्द्रिय, पाँच ज्ञानेन्द्रिय और एक अहंकार—ये ग्यारह मनकी वृत्तियाँ हैं तथा पाँच प्रकारके कर्म, पाँच तन्मात्र और एक शरीर—ये ग्यारह उनके आधारभूत विषय कहे जाते हैं॥ ९॥
वीरराघवः
गुणकलुषस्य मनसो वृत्तीः प्रपञ्चयति एकादशेत्यादिना । मनसः एकादशवृत्तीर्वृत्तय आसन् ताः का इत्यत्राह । आकूतयः कर्मेन्द्रियाणां व्यापारविषयाः पञ्च धियः क्रियाकारा धियः ज्ञानेन्द्रियद्वारेण पञ्चवृत्तयो ज्ञानाकाराः एकादश सद्वारकाः अहंममाद्यभिमाननानात्वद्वारकैका संभूयैकादश हे वीर ! तासां वृत्तीनां भूमीर्विषया मात्राणि पञ्च कर्माणि पञ्च पुरम् इत्येकमिति संभूयैकादशेति वदन्ति तत्त्वविदः । तत्र मात्राणि गन्धादीनि ज्ञानाकाराणां वृत्तीनां विषयाः कर्माणि तु विसर्गादीनि क्रियारूपाणां पुरं त्वभिमानरूपाया इति विवेकः, पुरमत्र शरीरं तस्याहंममाभिमानविषयत्वादिति ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
गन्धाकृतिस्पर्शरसश्रवांसि
विसर्गरत्यर्त्यभिजल्पशिल्पाः।
एकादशं स्वीकरणं ममेति
शय्यामहं द्वादशमेक आहुः॥
मूलम्
गन्धाकृतिस्पर्शरसश्रवांसि विसर्गरत्यर्त्यभिजल्पशिल्पाः।
एकादशं स्वीकरणं ममेति शय्यामहं द्वादशमेक आहुः॥ १० ॥
अनुवाद (हिन्दी)
गन्ध, रूप, स्पर्श, रस और शब्द—ये पाँच ज्ञानेन्द्रियोंके विषय हैं; मलत्याग, सम्भोग, गमन, भाषण और लेना-देना आदि व्यापार—ये पाँच कर्मेन्द्रियोंके विषय हैं तथा शरीरको ‘यह मेरा है’ इस प्रकार स्वीकार करना अहंकारका विषय है। कुछ लोग अहंकारको मनकी बारहवीं वृत्ति और उसके आश्रय शरीरको बारहवाँ विषय मानते हैं॥ १०॥
वीरराघवः
ज्ञानकर्मोभयेन्द्रियव्यापारविषयाणि मात्राणि कर्माणि प्रपञ्चयति गन्धेति । गन्धः घ्राणेन्द्रियवृत्तिविषयः आकृती रूपं चक्षुरिन्द्रियवृत्तिविषयः स्पर्शः त्वगिन्द्रियविषयः रसो रसनेन्द्रियविषयः श्रवः शब्दः श्रोत्रेन्द्रियस्य विषयः, एवं पायूपस्थपादवाक्पाणिवृत्तीनां क्रमेण विसर्गादयः पञ्च विषयाः । तत्र विसर्गः पुरीषोत्सर्गः रतिः संभोगः अर्तिर्गमनमभिजल्पो भाषणं शिल्प आदानादिः गन्धादयः पञ्चज्ञानेन्द्रियद्वारा मनोवृत्तीनामेव विषयाः तथा विसर्गादयः कर्मेन्द्रियद्वारा मनोवृत्तीनामेव पञ्चानां पञ्च विषया इति विवेकः पुरस्याभिमानविषयत्वप्रकारमाह एकादशमिति । स्वीकरणं ममेदं शिरः ममाऽयं हस्त इत्याद्यभिमानेन स्वीकरणं स्वीकार्यं शरीरमभिमानस्य विषयः तदेकादशं वदन्ति । अयमर्थः शरीरमभिमानस्य न ज्ञेयतया गन्धादिवद्विषयः, नापि कार्यतया विसर्गादिवत्किंतु ममेति स्वशेषतया स्वीकार्यत्वेन विषय इति विवेकिनामेव शरीरं ममाभिमानविषयमिति वदन्ति, प्रायेण स्वीकरणं ममाभिमानस्य विषयत्वेनोक्तमविवेकिनां तु शरीरमहमभिमानविषयमिति तदभिप्रायेणाह । शय्यामहं द्वादशमेक आहुः इति । एके केचिदहमहङ्कारः अनात्मन्यात्मतादात्म्याभिमानरूपस्तं द्वादशीं वृत्तिं तस्या विषयभूतां शय्यां शरीरं द्वादशविषयं चाहुरित्यर्थः । जीवो यतः स्वस्वरूपव्यामोहेन शरीरे शेते वसतीति शरीरं शय्याशब्देनोच्यते । ननु गन्धादीनां तद्विषयज्ञानानां च वृत्तिरूपाणां भेदाद्विषयिविषयभाव उपपन्नः, विसर्गादीनां कर्मेन्द्रियवृत्तित्वात्तेषामेव पुनस्तद्विषयत्वमनुपपन्नमिति चेन्न, विसर्गादीनां क्रियात्मकत्वात् क्रियायाञ्च फलव्यापारभेदेन द्वैविध्यात्तत्र व्यापारांशस्य वृत्तित्वं फलांशस्य विषयत्वमिति भेदात्, तथाहि उत्सर्गस्त्यागो विश्लेषस्तद्विषयः तदनुकूलो व्यापारो वृत्तिरेवं रत्यादिष्वपि बोध्यम् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
द्रव्यस्वभावाशयकर्मकालै-
रेकादशामी मनसो विकाराः।
सहस्रशः शतशः कोटिशश्च
क्षेत्रज्ञतो न मिथो न स्वतः स्युः॥
मूलम्
द्रव्यस्वभावाशयकर्मकालैरेकादशामी मनसो विकाराः।
सहस्रशः शतशः कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतः स्युः॥ ११ ॥
अनुवाद (हिन्दी)
ये मनकी ग्यारह वृत्तियाँ द्रव्य (विषय), स्वभाव, आशय (संस्कार), कर्म और कालके द्वारा सैकड़ों, हजारों और करोड़ों भेदोंमें परिणत हो जाती हैं। किन्तु इनकी सत्ता क्षेत्रज्ञ आत्माकी सत्तासे ही है, स्वतः या परस्पर मिलकर नहीं है॥ ११॥
वीरराघवः
उक्तानामेकादशानां वृत्तीनामवान्तरभेदैरानन्त्यमाह । द्रव्यं पृथिव्यादिभूतपञ्चकं तेषामसाधारणो गुणः स्वभावस्तेषां परिणामस्वभावो वा तेषां विचित्रपरिणामहेतुर्वा आशयो वासना कर्माणि पुण्यपापानि एतैः पूर्वोक्ता एकादशवृत्तिरूपा मनसो विकाराः प्रथमं शतशस्ततः सहस्रशः ततः कोटिशश्च स्युः, नैते विकाराः केवलस्य मनसः किन्तु क्षेत्रज्ञाधिष्ठितस्यैव भवन्तीत्याह । क्षेत्रज्ञाधिष्ठितस्य मनसो भवन्तीत्यर्थः । क्षेत्रज्ञमनसोरपि परस्पराधिष्ठितयोर्न भवन्ति किन्तु क्षेत्रज्ञाधिष्ठितमनस एवेत्याह न मिथ इति । तत्रापि न स्वतो भवन्ति किन्तु कर्मत इत्याह । न स्वत इति कर्माधीना इति भावः । क्षेत्रज्ञशब्दोऽत्र जीवपरः, तस्यैव मनोऽधिष्ठातृत्वात्सङ्कोचविकासवद्धर्मभूतज्ञानाश्रयत्वाञ्च, यद्यप्यत्र प्रकरणे क्षेत्रज्ञशब्दो नारायणवासुदेवभगवदादिसामानाधिकरण्येन प्रयुज्यमानः परमात्मपरोऽवगम्यते । क्षेत्रं जानातीत्यवयवार्थपौष्कल्यञ्च तत्रैव तथाप्यत्र जीवपर आश्रयणीयः उक्तयुक्तेः । ‘क्षेत्रज्ञ एता मनसो विभूतीः क्षेत्रज्ञ आत्मा पुरुषः पुराणः’ इत्यत्र तु परमात्मपरः । यद्वात्रापि क्षेत्रज्ञशब्दः परमात्मपर एव, तस्य सर्वोपादानतया चिदुपादानत्वाञ्चेतनद्वारा तद्धर्मभूतज्ञानसङ्कोचविकासाश्रयत्वात् जीवद्वारा मनोऽधिष्ठातृत्वसम्भवाञ्च । “अधिष्ठानं तथा कर्त्ता करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ॥” इति प्रयोजकतया देवस्य परमात्मनोऽपि सर्वत्रान्वयस्मरणाच्च ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
क्षेत्रज्ञ एता मनसो विभूती-
र्जीवस्य मायारचितस्य नित्याः।
आविर्हिताः क्वापि तिरोहिताश्च
शुद्धो विचष्टे ह्यविशुद्धकर्तुः॥
मूलम्
क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचितस्य नित्याः।
आविर्हिताः क्वापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः॥ १२ ॥
अनुवाद (हिन्दी)
ऐसा होनेपर भी मनसे क्षेत्रज्ञका कोई सम्बन्ध नहीं है। यह तो जीवकी ही मायानिर्मित उपाधि है। यह प्रायः संसारबन्धनमें डालनेवाले अविशुद्ध कर्मोंमें ही प्रवृत्त रहता है। इसकी उपर्युक्त वृत्तियाँ प्रवाहरूपसे नित्य ही रहती हैं; जाग्रत् और स्वप्नके समय वे प्रकट हो जाती हैं और सुषुप्तिमें छिप जाती हैं। इन दोनों ही अवस्थाओंमें क्षेत्रज्ञ, जो विशुद्ध चिन्मात्र है, मनकी इन वृत्तियोंको साक्षीरूपसे देखता रहता है॥ १२॥
वीरराघवः
तदेवं मनसो गुणत्रयोपरागानुपरागाभ्यां बन्धकत्वमोचकत्वे गुणोपरक्तस्य मनसः क्षेत्रज्ञस्याधिष्ठितस्य वृत्तयश्चाभिहिताः । एवमचेतनत्वं निरूपितमिदानीं चेतनत्वं निरूपयिष्यन् तावत्प्रधानभूतं परमात्मतत्त्वं शोधयति क्षेत्रज्ञ इति त्रिभिः । अत्र क्षेत्रज्ञशब्दो न जीवपरः, किन्तु परमात्मपरः जीवस्येति पृथङ्निर्देशात् । अविशुद्धकर्मकर्तृर्जीवस्य मनसः जीवाधिष्ठितस्य मनसः मायारचिताः प्रकृतिमूला एता उक्ताः तत्फलभोक्तुश्च विभूतीः वृत्तिविस्तारान्नित्याः प्रवाहतो नित्याः क्वचिज्जाप्रदवस्थायामाविर्भूताः क्वापि सुषुप्तौ तिरोहिताश्च । क्षेत्रज्ञः परमात्मा शुद्धवृत्त्या यतः सुखदुःखादिरूपमालिन्यरहित एव विचष्टे, तथा च श्रुतिः “तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति” इति मायारचितस्येति पाठे मनसो विशेषणं प्रकृतिपरिणामरूपस्य मनसः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात्स्वयंज्योतिरजः परेशः।
नारायणो भगवान् वासुदेवः
स्वमाययाऽऽत्मन्यवधीयमानः॥
मूलम्
क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयंज्योतिरजः परेशः।
नारायणो भगवान् वासुदेवः स्वमाययाऽऽत्मन्यवधीयमानः॥ १३ ॥
अनुवाद (हिन्दी)
यह क्षेत्रज्ञ परमात्मा सर्वव्यापक, जगत्का आदिकारण, परिपूर्ण, अपरोक्ष, स्वयंप्रकाश, अजन्मा, ब्रह्मादिका भी नियन्ता और अपने अधीन रहनेवाली मायाके द्वारा सबके अन्तःकरणोंमें रहकर जीवोंको प्रेरित करनेवाला समस्त भूतोंका आश्रयरूप भगवान् वासुदेव है॥ १३॥
वीरराघवः
एवं कर्मकर्तृतत्फलभोक्तृजीवसाक्षितया तदभोगेन स्वयंप्रकाशमानतया च वर्त्तमानः परमात्मेत्युक्तं भवति, पुनः प्रकृतिपुरुषयोरसंभावितधर्मविशेषैस्तं विशिनष्टि क्षेत्रज्ञ इति । अनेनाचेतनव्यावृत्तिर्जीवव्यावृत्तिश्च नहि जीवः क्षेत्रं यादृक् यत्स्वरूपं तथा जानाति किन्तु ममेदमिति सामान्याकारेणात्मा प्रकृतिपुरुषयोरन्तः प्रविश्य नियन्तृत्वेन धारकः पुराणः पुरुषः न जगदादिकारणतया वर्त्तमानः पुरुषः साक्षात्स्वप्रकाशस्वरूपः, स्वयं ज्योतिष्ट्वं जीवेऽपि प्रसक्तं तद्व्युदास्तये यत्साक्षादित्युक्तं साक्षादपरोक्षं स्वयंज्योतिः न हि जीवस्वरूपं मनआदिभ्यो विविक्तं बद्धावस्थायामवभासते मुक्तावस्थायामपि तदवभासस्य परमात्मप्रसादायत्तत्वात् निरुपाधिकसाक्षादवभासाभावानिरुपाधिकसाक्षात्स्वयं ज्योतिष्ट्वस्यैवात्राभिप्रेतत्वात् नित्यसिद्धानामपि तथात्वस्य परमात्मनो नित्येच्छायत्तत्वेन निरुपाधिकत्वाभावात् अजः स्वरूपतः स्वभावतश्चोत्पत्त्यादिविकाररहितः अचेतनस्वरूपस्वभावाभावाभ्यामुत्पत्तिमतोः प्रकृतिपुरुषयोर्व्यावृत्तिः जीवस्यापि ज्ञानविकाशरूपस्वभावोत्पत्तेः सत्त्वात् परेषां ब्रह्मादीनामपि ईश्वरः देवताविशेषनिश्चयायोक्तम् । नारायणो भगवान् वासुदेव इति । नारं जीवसमूहस्तस्यायनं प्राप्यं प्रापकमाधारश्चेत्येवं नारायणशब्दो योगरूढिभ्यां विष्णोरेवासाधारणः । अत्र निर्वचनानि पूर्वमेवोपन्यस्तानि एवं वासुदेवशब्दोऽपि “वसन्ति यत्र भूतानि भूतात्मन्यखिलात्मनि” इति तत्रैव नियतः स्मर्यते, भगवच्छब्दोऽपि भगवत्पराशरादिभिः “संहर्ता च तथा भर्ता” इत्यादिभिरंशतः समुदायरूपेण च तत्रैव नियतः स्मृतः । नन्वात्मतया सर्वव्यापकश्चेत्कथमदर्शनमत आह । स्वमायया स्वाधीनमायया आत्मन् जीवे-आर्षत्वात्सप्तम्या लुक् परमे व्योमन्नितिवत्-व्यवधीयमानः तिरोधीयमानः प्रकृतिवशगैर्द्रष्टुमशक्य इत्यर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
यथानिलः स्थावरजङ्गमाना-
मात्मस्वरूपेण निविष्ट ईशेत्।
एवं परो भगवान् वासुदेवः
क्षेत्रज्ञ आत्मेदमनुप्रविष्टः॥
मूलम्
यथानिलः स्थावरजङ्गमानामात्मस्वरूपेण निविष्ट ईशेत्।
एवं परो भगवान् वासुदेवः क्षेत्रज्ञ आत्मेदमनुप्रविष्टः॥ १४ ॥
अनुवाद (हिन्दी)
जिस प्रकार वायु सम्पूर्ण स्थावर-जंगम प्राणियोंमें प्राणरूपसे प्रविष्ट होकर उन्हें प्रेरित करती है, उसी प्रकार वह परमेश्वर भगवान् वासुदेव सर्वसाक्षी आत्मस्वरूपसे इस सम्पूर्ण प्रपंचमें ओत-प्रोत है॥ १४॥
वीरराघवः
न प्रकृतिवशगैर्दुर्दर्शत्वमात्रेण सर्वव्यापकत्वं भगवतः किन्तु वायुवददृश्य एव सर्वव्यापकतया नियमयतीत्याह यथेति । यथानिलो वायुरात्मस्वरूपेण चराचरभूतानामन्तः प्रविष्ट ईष्टे प्रेरयति एवं क्षेत्रज्ञः परमात्मा भगवान् वासुदेवोपीदं जगच्चेतनाचेतनात्मकमन्तर्नियन्तृतया प्रविष्टः भगवतो व्याप्तिद्वारा प्रेरकतया चेत्यनिलदृष्टान्तः ततः सिद्धः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
न यावदेतां तनुभृन्नरेन्द्र
विधूय मायां वयुनोदयेन।
विमुक्तसङ्गो जितषट्सपत्नो
वेदात्मतत्त्वं भ्रमतीह तावत्॥
मूलम्
न यावदेतां तनुभृन्नरेन्द्र विधूय मायां वयुनोदयेन।
विमुक्तसङ्गो जितषट्सपत्नो वेदात्मतत्त्वं भ्रमतीह तावत्॥
वीरराघवः
एवं प्रकृतिपुरुषविलक्षणं परमात्मस्वरूपमुपविश्य तदुपासनया तत्साक्षात्कारापन्नज्ञानपर्यन्तं संसारो न निवर्त्ततः इत्याह नेति । हे नरेन्द्र ! रहूगण ! तनुभृद्देही वयुनोदयेन ज्ञानोदयेन यावदेतां मायामहंममाभिमानरूपां विधूय निरस्य विमुक्तः सङ्गो देहगेहादिषु येन जिताः षट् सपत्नाः शत्रवो मनसा सह इन्द्रियरूपाः येन तथाभूतः सन्नात्मनः परमात्मनः तत्त्वं याथात्म्यं न वेद तावदिह संसारे भ्रमति ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
न यावदेतन्मन आत्मलिङ्गं
संसारतापावपनं जनस्य।
यच्छोकमोहामयरागलोभ-
वैरानुबन्धं ममतां विधत्ते॥
मूलम्
न यावदेतन्मन आत्मलिङ्गं संसारतापावपनं जनस्य।
यच्छोकमोहामयरागलोभवैरानुबन्धं ममतां विधत्ते॥ १६ ॥
अनुवाद (हिन्दी)
राजन्! जबतक मनुष्य ज्ञानोदयके द्वारा इस मायाका तिरस्कार कर, सबकी आसक्ति छोड़कर तथा काम-क्रोधादि छः शत्रुओंको जीतकर आत्मतत्त्वको नहीं जान लेता और जबतक वह आत्माके उपाधिरूप मनको संसार-दुःखका क्षेत्र नहीं समझता, तबतक वह इस लोकमें यों ही भटकता रहता है, क्योंकि यह चित्त उसके शोक, मोह, रोग, राग, लोभ और वैर आदिके संस्कार तथा ममताकी वृद्धि करता रहता है॥ १५-१६॥
वीरराघवः
कदायं तनुभृदात्मतत्त्वं वेदेत्यत्राह नेति । यदि जनस्य संसारतापानामाध्यात्मिकादीनामावपनं क्षेत्रमात्मनो जीवस्य लिङ्गं पूर्वोक्तरीत्या संसृतिमुक्त्योः कारणं मनो यावच्छोकादिकं ममतां च न विधत्ते तदा वेद । यद्वा यावच्छोकादिकं विधत्ते तावन्न वेदेत्यन्वयः । तत्र मोहः प्रमादः आमयो रोगः वैरानुबन्धः वैरपूर्वकानुस्मरणं शोकादीनां समाहारद्वन्द्वः । यद्वा शोकादिरूपमनुबन्धमनुबध्यते पृष्ठतः सम्बध्यते इत्यनुबन्धः अग्रतो ममतां तत्पृष्ठभागेन शोकादिकं च यावन्न विधत्ते इत्यर्थः । कदेदं मनः शोकाद्यविधायकमिति चेद्यदा न गुणानुरक्तं कदा गुणाननुरक्तमिति चेत् “आहारशुद्धौ सत्त्वशुद्धिः” इत्याद्युक्तसात्विकाहारसत्क्रियादिभिः सत्त्वप्रचुरमित्यन्यदेतत् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
भ्रातृव्यमेनं तददभ्रवीर्य-
मुपेक्षयाध्येधितमप्रमत्तः।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि व्यलीकं स्वयमात्ममोषम्॥
मूलम्
भ्रातृव्यमेनं तददभ्रवीर्यमुपेक्षयाध्येधितमप्रम11त्तः।
गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलीकं स्वयमात्ममोषम्॥ १७ ॥
अनुवाद (हिन्दी)
यह मन ही तुम्हारा बड़ा बलवान् शत्रु है। तुम्हारे उपेक्षा करनेसे इसकी शक्ति और भी बढ़ गयी है। यह यद्यपि स्वयं तो सर्वथा मिथ्या है, तथापि इसने तुम्हारे आत्मस्वरूपको आच्छादित कर रखा है। इसलिये तुम सावधान होकर श्रीगुरु और हरिके चरणोंकी उपासनाके अस्त्रसे इसे मार डालो॥ १७॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः॥ ११ ॥
वीरराघवः
तस्मादेनमन्तःकरणरूपं भ्रातृव्यं सहजशत्रुमुपेक्षयां निग्रहेणात्यन्तमेधितं संवृद्धमत एवादभ्रमनल्पवीर्यं संसारयितृत्वरूपं यस्य अत एव व्यलीकमप्रियकारिणं तत्र हेतुः आत्ममोषमात्मापहारिणं त्वम् अप्रमत्तः अनलसः गुरोहरैः गुरुरेव हरिस्तस्य चरणोपासनमेवास्त्रं यस्य तथाभूतः सन् जहि घातय, सदाचार्य्यसेवादिप्रणाड्या स्ववशी कुर्वित्यर्थः ॥ १७ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतायां श्रीभागवतचंद्रचंद्रिकायाम् एकादशोऽध्यायः ॥ ११ ॥