१०

[दशमोऽध्यायः]

भागसूचना

जडभरत और राजा रहूगणकी भेंट

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषान्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह शिबिकां स महानुभावः॥

मूलम्

अथ सिन्धुसौवीर1पते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावा2हपुरुषान्वेषण3समये दैवेनोपसादितः स द्विजवर उपलब्ध एष पी4वा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह5 उवाह शिबिकां स महानुभावः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! एक बार सिन्धुसौवीर देशका स्वामी राजा रहूगण पालकीपर चढ़कर जा रहा था। जब वह इक्षुमती नदीके किनारे पहुँचा तब उसकी पालकी उठानेवाले कहारोंके जमादारको एक कहारकी आवश्यकता पड़ी। कहारकी खोज करते समय दैववश उसे ये ब्राह्मणदेवता मिल गये। इन्हें देखकर उसने सोचा, ‘यह मनुष्य हृष्ट-पुष्ट, जवान और गठीले अंगोंवाला है। इसलिये यह तो बैल या गधेके समान अच्छी तरह बोझा ढो सकता है।’ यह सोचकर उसने बेगारमें पकड़े हुए अन्य कहारोंके साथ इन्हें भी बलात् पकड़कर पालकीमें जोड़ दिया। महात्मा भरतजी यद्यपि किसी प्रकार इस कार्यके योग्य नहीं थे, तो भी वे बिना कुछ बोले चुपचाप पालकीको उठा ले चले॥ १॥

वीरराघवः

एवं मृत्युभयासंभ्रममभिधायाथ परापरज्ञानवृत्तां प्रपञ्चयितुमाह अथेति । सिन्धुसौवीरदेशयो राज्ञः रहूगणाख्यस्य कपिलमुनिं प्रष्टुं तत्त्वमिति शेषः । तत्त्वजिज्ञासोर्व्रजतो गच्छतः सत इक्षुमत्या नद्यास्तीरे शिबिकाया आन्दोलिकाया ये वाहका वोढारस्तेषामन्वेषणसमये तेषां वाहकानां कुलस्य पत्या नाथेन स आङ्गिरससुतो द्विजश्रेष्ठो दैवादुपसादितो लब्धः पीवा पुष्टावयवः युवा संहननाङ्गः सुदृढाङ्गप्रत्यङ्गसन्धिरेष गौरिव खर इव धुरं भारं वोदुमलं समर्थ इति धिया पूर्वं ये विष्टया बलाद् गृहीतास्तैः सहितः सन्नतदर्होऽपि स महानुभावः शिबिकामुवाह ऊढवान् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत आह हे वोढारः साध्वतिक्रमत किमिति विषममुह्यते यानमिति॥

मूलम्

यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत आह हे वोढारः साध्वतिक्रमत किमिति विषममुह्यते यानमिति॥ २ ॥

अनुवाद (हिन्दी)

वे द्विजवर, कोई जीव पैरोंतले दब न जाय—इस डरसे आगेकी एक बाण पृथ्वी देखकर चलते थे। इसलिये दूसरे कहारोंके साथ उनकी चालका मेल नहीं खाता था; अतः जब पालकी टेढ़ी-सीधी होने लगी, तब यह देखकर राजा रहूगणने पालकी उठानेवालोंसे कहा—‘अरे कहारो! अच्छी तरह चलो, पालकीको इस प्रकार ऊँची-नीची करके क्यों चलते हो?’॥ २॥

वीरराघवः

यदा हि शिबिकावाहनसमये द्विजवरस्येषुमात्रप्रदेशावलोकस्यानु पश्चाद्या गतिः कुटिला तस्या हेतुभूतायाः पुरुषाणां गतिर्न सम्यगाहिता एकरूपा नाभूत्, इषुमात्रप्रदेशगत्यवलोकनानन्तर द्विजसंबन्धिप्रतिकूलगतिनिमित्तवैषम्ययुक्ता पुरुषगतिरभूदित्यर्थः, तदा विषमगतां सविषममूह्यमानां स्वशिबिकामुपधार्य दृष्ट्वा रहूगणः अधिवहतो वाहकान्पुरुषानाह उवाच उक्तिमेवाह अहो इति । अहो वोढारः । हे वाहकाः ! साधु सम्यगतिक्रमत पादविक्षेपान् कुरुत किमिति किमर्थ यानं शिबिका विषमं यथा तथोह्यत इति ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयाम्बभूवुः॥

मूलम्

अथ त6 ईश्वरवचः सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयाम्बभूवुः॥ ३ ॥

अनुवाद (हिन्दी)

तब अपने स्वामीका यह आक्षेपयुक्त वचन सुनकर कहारोंको डर लगा कि कहीं राजा उन्हें दण्ड न दें। इसलिये उन्होंने राजासे इस प्रकार निवेदन किया॥ ३॥

वीरराघवः

अथ एतदुक्त्यनन्तरं ते वोढारः सोपालम्भं साक्षेपम् ईश्वरस्य भर्तुः रहूगणस्य वच आकर्ण्य उपायेषु सामदानविधिभेदेषु यस्तुरीयश्चतुर्थः तस्माच्छङ्कितमनसः निग्रहरूपादुपायाच्छङ्कितचित्ताः अस्मान् दण्डयेदिति बुद्ध्येत्यर्थः, तं यानस्य विषमगतिहेतुकं द्विजम् आङ्गिरससुतं विज्ञापयांबभूवुः विज्ञप्तिपूर्वकं कथयामासुरित्यर्थः । विज्ञप्तिपूर्वकत्वमेवाह नेत्यादिना पारयाम इत्यन्तेन । हे नरदेव । वयं न प्रमत्ताः किन्तु भवन्नियमानुवर्तिनः साध्वेव सम्यगेव वहामः । अयं पुरुषोऽधुनैव नियुक्तोऽप्यस्माभिस्सह द्रुतं नैव गच्छत्यतो वयमनेन सह वोढुं न पारयामः न समर्थाः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव वहामः। अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढुमु ह वयं पारयाम इति॥

मूलम्

न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव वहामः। अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढु7मुह वयं पारयाम इति॥ ४ ॥

अनुवाद (हिन्दी)

‘महाराज! यह हमारा प्रमाद नहीं है, हम आपकी नियममर्यादाके अनुसार ठीक-ठीक ही पालकी ले चल रहे हैं। यह एक नया कहार अभी-अभी पालकीमें लगाया गया है, तो भी यह जल्दी-जल्दी नहीं चलता। हमलोग इसके साथ पालकी नहीं ले जा सकते’॥ ४॥

श्लोक-५

विश्वास-प्रस्तुतिः

सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसाऽऽवृतमतिराह॥

मूलम्

सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांस8र्गिकाणां भवितुमर्हतीति निश्चि9त्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसाऽऽवृतमतिराह॥ ५ ॥

अनुवाद (हिन्दी)

कहारोंके ये दीन वचन सुनकर राजा रहूगणने सोचा, ‘संसर्गसे उत्पन्न होनेवाला दोष एक व्यक्तिमें होनेपर भी उससे सम्बन्ध रखनेवाले सभी पुरुषोंमें आ सकता है। इसलिये यदि इसका प्रतीकार न किया गया तो धीरे-धीरे ये सभी कहार अपनी चाल बिगाड़ लेंगे।’ ऐसा सोचकर राजा रहूगणको कुछ क्रोध हो आया। यद्यपि उसने महापुरुषोंका सेवन किया था, तथापि क्षत्रियस्वभाववश बलात् उसकी बुद्धि रजोगुणसे व्याप्त हो गयी और वह उन द्विजश्रेष्ठसे, जिनका ब्रह्मतेज भस्मसे ढके हुए अग्निके समान प्रकट नहीं था, इस प्रकार व्यंगसे भरे वचन कहने लगा॥ ५॥

वीरराघवः

इति कृपणानां वचो निशम्य संसर्गनिमित्त एकस्यापि दोषः सर्वेषामपि भवितुमर्हति नूनमिति निश्चित्य रहूगण आहेत्यन्वयः । कथम्भूत उपासिता वृद्धा येन सोऽपि स्वभावेन प्राकृतेन बलात्परवशः कृतः रजोगुणव्याप्तचित्तः कुपितमनाः सन् कथम्भूतं प्रत्याह न स्पष्टं ब्रह्मतेजो यस्मिन् रजसा भस्मना आवृतं प्रच्छन्नं जातवेदसमग्निमिव स्थितम् ॥ ४-५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

अहो कष्टं भ्रातर्व्यक्तमुरु परिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहु विप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहंममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह॥

मूलम्

अहो कष्टं भ्रातर्व्यक्तमुरु परिश्रान्तो दीर्घमध्वान10मेक एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा चोप11द्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहु विप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माश12यस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह॥ ६ ॥

अनुवाद (हिन्दी)

‘अरे भैया! बड़े दुःखकी बात है, अवश्य ही तुम बहुत थक गये हो। ज्ञात होता है, तुम्हारे इन साथियोंने तुम्हें तनिक भी सहारा नहीं लगाया। इतनी दूरसे तुम अकेले ही बड़ी देरसे पालकी ढोते चले आ रहे हो। तुम्हारा शरीर भी तो विशेष मोटा-ताजा और हट्टा-कट्टा नहीं है और मित्र! बुढ़ापेने अलग तुम्हें दबा रखा है।’ इस प्रकार बहुत ताना मारनेपर भी वे पहलेकी ही भाँति चुपचाप पालकी उठाये चलते रहे! उन्होंने इसका कुछ भी बुरा न माना; क्योंकि उनकी दृष्टिमें तो पंचभूत, इन्द्रिय और अन्तःकरणका संघात यह अपना अन्तिम शरीर अविद्याका ही कार्य था। वह विविध अंगोंसे युक्त दिखायी देनेपर भी वस्तुतः था ही नहीं, इसलिये उसमें उनका मैं-मेरेपनका मिथ्या अध्यास सर्वथा निवृत्त हो गया था और वे ब्रह्मरूप हो गये थे॥ ६॥

वीरराघवः

उक्तमेवाह अहो इत्यादिना संघट्टिन इत्यन्तेन । अहो भ्रातरिति संबोधनमाक्षेपाभिप्रायकं व्यक्तं निश्चितम् उर्वधिकं परिश्रान्तोऽसीत्यादीनि विपरीतार्थकानि षड्वाक्यानि । एक एवोहिवान् तत्रापि सुचिरं जरसा वृद्धत्वेन च उपद्रुतः दौर्बल्यं प्राप्तो भवानपरे त्वद्वयतिरिक्ता एते संघट्टितः सह वाहका नो एव दीर्घाध्वगमनादिकमकृत्वैव सुखिनस्तिष्ठन्तीत्येवं बहुविप्रलब्धोऽधिक्षिप्तोऽपि ब्राह्मणस्तूष्णीं पूर्ववदुवाह । तत्र हेतुं वदन् विशिनष्टि । अविद्ययाहंकारममकाररूपया कर्मसंज्ञया वा हेतुभूतया विरचिताः परिणताः द्रव्याणि पञ्चमहाभूतानि गुणाः शब्दादयः ज्ञानेन्द्रियविषयाः कर्माणि वागादिकर्मेन्द्रियविषयाः अभिजल्पादयः-गुणकर्मशब्दौ तदिन्द्रियाणामप्युपलक्षणे-आशयोऽन्तःकरणं वासना वा यस्मिन्नवस्तुनि वसत्येकरूपेणेति वस्तु ततोऽन्यस्मिन्सततविकारिणीत्यर्थः अवयवविन्यासविशेषरूपे स्वचरमकलेवरे तदनुबन्धिनि च अनारोपितः अहंममेत्येवंरूपो मिथ्याप्रत्ययो ज्ञानं येन अनहमर्थे शरीरे अहंप्रत्ययः रजतादिप्रत्ययवत् मिथ्येति मिथ्याप्रत्यय इत्युक्तम् । ब्रह्मभूतः ब्रह्मसाधर्म्यमापत्स्यमानः तस्य ब्रह्मभावस्य सान्निध्यात्सिद्धवन्निदेशः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

अथ पुनः स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगणः किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यस इति॥

मूलम्

अथ पुनः स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगणः किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां13 दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यस इति॥ ७ ॥

अनुवाद (हिन्दी)

(किन्तु) पालकी अब भी सीधी चालसे नहीं चल रही है—यह देखकर राजा रहूगण क्रोधसे आग-बबूला हो गया और कहने लगा, ‘अरे! यह क्या? क्या तू जीता ही मर गया है? तू मेरा निरादर करके (मेरी) आज्ञाका उल्लंघन कर रहा है! मालूम होता है, तू सर्वथा प्रमादी है। अरे! जैसे दण्डपाणि यमराज जन-समुदायको उसके अपराधोंके लिये दण्ड देते हैं, उसी प्रकार मैं भी अभी तेरा इलाज किये देता हूँ। तब तेरे होश ठिकाने आ जायँगे’॥ ७॥

वीरराघवः

अथ पुनः शिबिकायां विषमं नीयमानायां सत्यां रहूगणः प्रकुपितः पूर्वमीषत्कुपित आह । इदानीं तु प्रकुपित आहेति प्रकुपितस्यैवोक्तिमाह । किमित्यादिना भजिष्यस इत्यन्तेन । इदं किमित्याज्ञातिलङ्घित्वं दर्शयति । अरे त्वं भवान् जीवन्नपि मृतप्रायः मां कदर्थीकृत्य तुच्छीकृत्य भर्तुर्मम शासनमतिचरस्यतिक्रम्य वर्तसे । ततः प्रमत्तस्य ते चिकित्सां दण्डं करोमि दण्डपाणिर्यमश्च जनसमूहस्य यथा त्वं स्वां प्रकृतिं भजिष्यसि समीचीनां करिष्यसि तथा चिकित्सां करोमीति ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह॥

मूलम्

एवं बह्वबद्धम14पि भाषमाणं नरदेवाभिमानं रजसा तमसानु15विद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह॥ ८ ॥

अनुवाद (हिन्दी)

रहूगणको राजा होनेका अभिमान था, इसलिये वह इसी प्रकार बहुत-सी अनाप-शनाप बातें बोल गया। वह अपनेको बड़ा पण्डित समझता था, अतः रज-तमयुक्त अभिमानके वशीभूत होकर उसने भगवान‍्के अनन्य प्रीतिपात्र भक्तवर भरतजीका तिरस्कार कर डाला। योगेश्वरोंकी विचित्र कहनी-करनीका तो उसे कुछ पता ही न था। उसकी ऐसी कच्ची बुद्धि देखकर वे सम्पूर्ण प्राणियोंके सुहृद् एवं आत्मा, ब्रह्मभूत ब्राह्मणदेवता मुसकराये और बिना किसी प्रकारका अभिमान किये इस प्रकार कहने लगे॥ ८॥

वीरराघवः

एवं बह्वधिकमबद्धमनन्वितमभिभाषमाणं नराणां देवोऽहमित्यभिमानवन्तं तमसानुविद्धेनानुसङ्गतेन रजसा रजोगुणकार्येण क्रोधेन तन्मूलभूतमदेन सम्मोहितेन तिरस्कृताशेषभगवत्प्रियनिकेतनं भगवत्प्रियनिकेतनशब्दो भागवतपरः-भगवतः प्रियनिकेतनत्वात् तिरस्कृता अशेषा भगवत्प्रिया निकेतना येन सः । एतत्तिरस्कारेण सर्वेऽपि भागवतास्तिरस्कृतप्राया एवेत्यभिप्रायेणाशेषपदं प्रयुक्तं, यद्वा तिरस्कृतः अशेषः सम्पूर्णः भगवतः प्रियः आश्रयो येनेति च पण्डितमात्मानं मन्यमानं योगीश्वराणां चर्या जडादिवदाचरणं तस्यां नात्यन्तव्युत्पन्ना परिचिता मतिर्यस्य तं रहूगणं सर्वभूतसुहृदात्मा कृतागस्यपि सौहृदयुक्तमनाः ब्रह्मभूतो भगवान् जगदुत्पत्यादिज्ञानवान् । “उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥" उक्तः स ब्राह्मणः भरतः विगतस्मयो विगताश्चर्योऽपि स्मयमानो हसन्निव, अनेन सुप्रसन्नता द्योत्यते, इदं वक्ष्यमाणमाह ॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

ब्राह्मण उवाच

विश्वास-प्रस्तुतिः

त्वयोदितं व्यक्तमविप्रलब्धं
भर्तुः स मे स्याद्यदि वीर भारः।
गन्तुर्यदि स्यादधिगम्यमध्वा
पीवेति राशौ न विदां प्रवादः॥

मूलम्

त्वयोदितं व्यक्तमविप्रलब्धं भर्तुः स मे स्याद्यदि वीर भारः।
गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति राशौ न विदां प्रवादः॥ ९ ॥

अनुवाद (हिन्दी)

जडभरतने कहा—राजन्! तुमने जो कुछ कहा वह यथार्थ है। उसमें कोई उलाहना नहीं है। यदि भार नामकी कोई वस्तु है तो ढोनेवालेके लिये है, यदि कोई मार्ग है तो वह चलनेवालेके लिये है। मोटापन भी उसीका है, यह सब शरीरके लिये कहा जाता है, आत्माके लिये नहीं। ज्ञानीजन ऐसी बात नहीं करते॥ ९॥

वीरराघवः

तत्र यदुक्तं वोक्रोक्त्या त्वमुरु परिश्रान्तो दीर्घमध्वानमेक एवोहिवानित्यादि तत्रोत्तरमाह त्वयेति । यत्त्वयोक्तं तद्व्यक्तं स्पष्टमविप्रलब्धं लोकदृष्ट्या सत्यं त्वद्वचसां विपरीतार्थपरत्वेन दीर्घमार्गागमनपरिश्रमस्थौल्ययौवनाद्यभिप्रायकत्वेन प्रवृत्तत्वाच लोकदृष्टया सत्यमेव तथाप्यन्यगतानामेतेषामन्यत्रारोपेण प्रवृत्तत्वात्परमार्थदृष्टयाऽसत्यमेवेति भावः । तदेव व्यनक्ति भर्त्तुरिति । भर्तुरित्यादिषु तवानुषङ्गेणान्वयः । यदि भर्तुर्भारः तत्प्रयुक्तः श्रमश्च स्यात् स न मे स्यान्मम भरणाभावात् यदि गन्तुरधिगन्तव्यं गन्तव्या भूमिः स्यात्स न मे अद्धा साक्षात्स्यात्साक्षाद्गमनस्याप्यभावात् पीवा पीन इति वादो राशौ भूतसङ्घाते देहे स्यान्न मे स्यादिति विदुषामात्मयाथात्म्यविदां प्रवाद इत्यर्थः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

स्थौल्यं कार्श्यं व्याधय आधयश्च
क्षुत्तृड्भयं कलिरिच्छा जरा च।
निद्रा रतिर्मन्युरहंमदः शुचो
देहेन जातस्य हि मे न सन्ति॥

मूलम्

स्थौल्यं कार्श्यं व्याधय आ16धयश्च क्षुत्तृड्भयं कलिरिच्छा जरा च।
निद्रा रतिर्मन्युरहंमदः शुचो देहेन जातस्य हि मे न सन्ति॥ १० ॥

अनुवाद (हिन्दी)

स्थूलता, कृशता, आधि, व्याधि, भूख, प्यास, भय, कलह, इच्छा, बुढ़ापा, निद्रा, प्रेम, क्रोध, अभिमान और शोक—ये सब धर्म देहाभिमानको लेकर उत्पन्न होनेवाले जीवमें रहते हैं; मुझमें इनका लेश भी नहीं है॥ १०॥

वीरराघवः

न म इत्युक्तम् प्रपञ्चयति स्थौल्यमिति । व्याधयः शरीरोद्भवा रोगाः आधयः मनःपीडाः भयमागामिदुःखदर्शनजं ज्ञानं कलिः कलहः इच्छा कामः दम्भो वञ्चनं रतिर्विषयासक्तिः मन्युः क्रोधः अहमहङ्कारः अनात्मन्यात्माभिमानहेतुः मदः मोहः - एते बाह्याकारा अन्तराकाराश्च सर्वे देहेन सह जातस्यापि मम स्वतो न सन्तीत्यर्थः । एते देहे एव न जातस्याजातस्योत्पत्त्यादिरहितस्य मे न सन्तीति वार्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

जीवन्मृतत्वं नियमेन राजन्
आद्यन्तवद्यद्विकृतस्य दृष्टम्।
स्वस्वाम्यभावो ध्रुव ईड्य यत्र
तर्ह्युच्यतेऽसौ विधिकृत्ययोगः॥

मूलम्

जीवन्मृतत्वं नियमेन राजन् आद्यन्तवद्यद्विकृतस्य दृष्टम्।
स्वस्वाम्यभावो ध्रुव ईड्य यत्र तर्ह्युच्यतेऽसौ विधिकृत्ययोगः॥ ११ ॥

अनुवाद (हिन्दी)

राजन्! तुमने जो जीने-मरनेकी बात कही—सो जितने भी विकारी पदार्थ हैं,उन सभीमें नियमितरूपसे ये दोनों बातें देखी जाती हैं; क्योंकि वे सभी आदि-अन्तवाले हैं। यशस्वी नरेश! जहाँ स्वामी-सेवकभाव स्थिर हो, वहीं आज्ञापालनादिका नियम भी लागू हो सकता है॥ ११॥

वीरराघवः

यदुक्तम् । जीवन्मृत इति तत्राह । जीवन्मृतत्वमिति जीवत्वं श्वासवत्त्वं मृतत्वं त्यक्तपूर्वावस्थत्वं चैतन्यशून्यत्वं वा एतदुभयं हे राजन् ! यदाद्यन्तवदुत्पत्तिविनाशवत्तस्य विकृतस्य देहस्य दृष्टं न त्वात्मन इत्यर्थः, यदुक्तं भर्तृशासनमतिचरसीति तत्स्वस्वामिभावं प्रतिक्षिपति । स्वस्वामिभावो यत्र ध्रुवः नियतः ईड्य ! हे राजन् ! तत्र नियतस्वस्वामिभाववत्सु पुरुषेषु विधिकृत्ययोगः विधिर्नियोगः शासनमिति यावत् कृत्यं कर्म च तयोर्योगो ध्रुव उच्यते उचितो भवति, उच समवाये इति धातुः, ययोर्जीवेशयोः स्वस्वामिभावसम्बन्धो नियतस्तयोरेव नियमेन प्रयोज्यप्रयोजकभावः, त्वं चेन्न नियमेन भर्ता कालभेदेन यदि तु तव राज्यभ्रंशः मम च राज्यं स्यात्तदा विपर्ययसम्भवात्, अतो न तव प्रशास्तृत्वं स्वतोऽस्ति अतः स्वस्य स्वामित्वबुद्धिर्भ्रान्तिरित्यर्थः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

विशेषबुद्धेर्विवरं मनाक् च
पश्याम यन्न व्यवहारतोऽन्यत्।
क ईश्वरस्तत्र किमीशितव्यं
तथापि राजन् करवाम किं ते॥

मूलम्

विशेषबुद्धेर्विवरं मनाक् च पश्याम यन्न व्यवहारतोऽन्यत्।
क ईश्वरस्तत्र किमीशितव्यं तथापि राजन् करवाम किं ते॥ १२ ॥

अनुवाद (हिन्दी)

‘तुम राजा हो और मैं प्रजा हूँ’ इस प्रकारकी भेदबुद्धिके लिये मुझे व्यवहारके सिवा और कहीं तनिक भी अवकाश नहीं दिखायी देता। परमार्थदृष्टिसे देखा जाय तो किसे स्वामी कहें और किसे सेवक? फिर भी राजन्! तुम्हें यदि स्वामित्वका अभिमान है तो कहो, मैं तुम्हारी क्या सेवा करूँ॥ १२॥

वीरराघवः

त्वं भृत्यः अहं स्वामीति वैषम्यबुद्धेर्विवरमवकाशं मनागीषदपि व्यवहारत उक्तिमात्रादन्यद्यत्र न पश्यामः तत्रैवं सति क ईश्वरः किमीशितव्यं न त्वमीश्वरो नामीशितव्यः यद्ययमर्थस्तवानिष्टः अथापि किं कुर्मः अर्थस्थितिरन्यथा कर्तुमशक्येत्यर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

उन्मत्तमत्तजडवत्स्वसंस्थां
गतस्य मे वीर चिकित्सितेन।
अर्थः कियान् भवता शिक्षितेन
स्तब्धप्रमत्तस्य च पिष्टपेषः॥

मूलम्

उन्मत्तमत्तजडवत्स्व17संस्थां गतस्य मे वीर चिकित्सितेन।
अर्थः18 कियान् भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेषः॥ १३ ॥

अनुवाद (हिन्दी)

वीरवर! मैं मत्त, उन्मत्त और जडके समान अपनी ही स्थितिमें रहता हूँ। मेरा इलाज करके तुम्हें क्या हाथ लगेगा? यदि मैं वास्तवमें जड और प्रमादी ही हूँ, तो भी मुझे शिक्षा देना पिसे हुएको पीसनेके समान व्यर्थ ही होगा॥ १३॥

वीरराघवः

यदुक्तं प्रमत्तस्य ते चिकित्सां करोमीति तस्योत्तरमाह उन्मत्तेति । स्वस्मिन् ब्रह्मात्मकं स्वात्मनि संस्थां निष्ठां “ब्रह्मसंस्थोऽमृतत्वमेति” इति श्रुतौ संस्थाशब्दस्य निष्ठापरत्वेन प्रयोगान्निष्ठा चोपासनाया अविच्छेदः स्वसंस्थां प्राप्तस्य उन्मत्तादीननुकुर्वतः तर्जनताडनादिपरिभवार्थिनो मम हे वीर ! चिकित्सितेन दण्डेन वा कियानर्थः त्वत्कृतं प्रहरणादिकं नानिष्टं स्यादित्यर्थः । यदि पुनरहं न स्वसंस्थां गतः किन्तु प्रमत्तः संसार्येव तथापि स्तब्धस्य प्रमत्तस्य मम शिक्षादिकं पिष्टपेषणवद्वयर्थमेव ज्ञानरहिते मादृशे संसारिजने यत्त्वया चिकित्सितं दण्डप्रदानं तत्पिष्टपेषो निष्फलः, पूर्वमेव संसारव्यसनातुरत्वादित्यर्थः ॥ १३ ॥

श्लोक-१४

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह॥

मूलम्

एतावदनुवादपरिभाषया प्रत्युदीर्य मु19निवर उपशमशील उपरतानात्म्यनिमित्त उ20पभोगेन कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह॥ १४ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परीक्षित्! मुनिवर जडभरत यथार्थ तत्त्वका उपदेश करते हुए इतना उत्तर देकर मौन हो गये। उनका देहात्मबुद्धिका हेतुभूत अज्ञान निवृत्त हो चुका था, इसलिये वे परम शान्त हो गये थे। अतः इतना कहकर भोगद्वारा प्रारब्धक्षय करनेके लिये वे फिर पहलेके ही समान उस पालकीको कन्धेपर लेकर चलने लगे॥ १४॥

वीरराघवः

अनुवादपरिभाषयानुवादरूपभाषणपूर्वकम् एतावत्प्रत्युदीर्य प्रतिवचनं कृत्वा उपशमः अक्रोधादिरेव शीलं यस्य उपरतं निरस्तमनात्मनो देहान्तरस्य निमित्तं येन सः विद्यया निरस्तदेहान्तरसम्बन्धापादकपूर्वोत्तरसञ्चितानभ्युपगतप्रामादिकबुद्धिपूर्वकभेदभिन्नपुण्यापुण्यरूपापः आरब्धमभ्युपगतप्रारब्धरूपमपि कर्म पुण्यापुण्यरूपम् उपभोगेनानुभवेन उपनयन् स मुनिवरः तत्तथैव पूर्ववद्राजयानमप्यूढवान् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्श्रद्धयाधिकृताधिकारस्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृतः क्षमापयन् विगतनृपदेवस्मय उवाच॥

मूलम्

स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्श्रद्धयाधिकृताधिकारस्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृतः क्षमापयन् विगतनृपदेवस्मय उवाच॥ १५ ॥

अनुवाद (हिन्दी)

सिन्धु-सौवीरनरेश रहूगण भी अपनी उत्तम श्रद्धाके कारण तत्त्वजिज्ञासाका पूरा अधिकारी था। जब उसने उन द्विजश्रेष्ठके अनेकों योग-ग्रन्थोंसे समर्थित और हृदयकी ग्रन्थिका छेदन करनेवाले ये वाक्य सुने, तब वह तत्काल पालकीसे उतर पड़ा। उसका राजमद सर्वथा दूर हो गया और वह उनके चरणोंमें सिर रखकर अपना अपराध क्षमा कराते हुए इस प्रकार कहने लगा॥ १५॥

वीरराघवः

हे पाण्डवेय ! स चापि सिन्धुसौवीरपती रहूगणोऽपि सम्यक् या श्रद्धा तयैव तत्त्वविजिज्ञासायामधिकृतः प्राप्तोऽधिकारभावो येन अधिकारः प्रस्तावः प्रारम्भ इति यावत् तत्त्वजिज्ञासायां कृतारम्भ इत्यर्थः, अज्ञानविमोचनं बहुयोगग्रन्थसम्मतं बहुविधाध्यात्मशास्त्रसम्मतं च द्विजवच आश्रुत्य श्रुत्वा विगतो नराणां देवोऽधिराज इति स्मयो गर्वो यस्य सः शिबिकायास्त्वरयावरुह्यावतीर्य तत्पादमूलमुपसृतः द्विजपादमूलं प्रति प्रणतः क्षमापयन् वक्ष्यमाणमुवाच ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

कस्त्वं निगूढश्चरसि द्विजानां
बिभर्षि सूत्रं कतमोऽवधूतः।
कस्यासि कुत्रत्य इहापि कस्मात्
क्षेमाय नश्चेदसि नोत शुक्लः॥

मूलम्

कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि सूत्रं कतमोऽवधूतः।
कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश्चेदसि नोत21शुक्लः॥ १६ ॥

अनुवाद (हिन्दी)

‘देव! आपने द्विजोंका चिह्न यज्ञोपवीत धारण कर रखा है, बतलाइये इस प्रकार प्रच्छन्नभावसे विचरनेवाले आप कौन हैं? क्या आप दत्तात्रेय आदि अवधूतोंमेंसे कोई हैं? आप किसके पुत्र हैं, आपका कहाँ जन्म हुआ है और यहाँ कैसे आपका पदार्पण हुआ है? यदि आप हमारा कल्याण करने पधारे हैं, तो क्या आप साक्षात् सत्त्वमूर्ति भगवान् कपिलजी ही तो नहीं हैं?॥ १६॥

वीरराघवः

तदेवाह । द्विजानां मध्ये त्वं कतमः निगूढः अनभिव्यक्तब्रह्मवर्चसः चरसि नाहं द्विज इति चेन्न, यतः सूत्रमुपवीतम् बिभर्षि अतस्त्वमवधूतः सर्वैः परिभाव्यवेषो ज्ञाननिष्ठः कस्य पितुर्गुरोर्वा असि पुत्रः शिष्यो वासि कुत्र भवः इहापि कस्माद्धेतो प्राप्तः नोऽस्माकं क्षेमाय चेत्प्राप्तः किं शुक्लः कपिलो मुनिर्भवसि किम् । उतेति वितर्के ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

नाहं विशङ्के सुरराजवज्रा-
न्न त्र्यक्षशूलान्न यमस्य दण्डात्।
नाग्न्यर्कसोमानिलवित्तपास्त्रा-
च्छङ्के भृशं ब्रह्मकुलावमानात्॥

मूलम्

नाहं विशङ्के सुरराजवज्रान्न त्र्यक्षशूलान्न यमस्य दण्डात्।
नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के भृशं ब्रह्मकुलावमानात्॥ १७ ॥

अनुवाद (हिन्दी)

मुझे इन्द्रके वज्रका कोई डर नहीं है, न मैं महादेवजीके त्रिशूलसे डरता हूँ और न यमराजके दण्डसे। मुझे अग्नि, सूर्य, चन्द्र, वायु और कुबेरके अस्त्र-शस्त्रोंका भी कोई भय नहीं है; परन्तु मैं ब्राह्मणकुलके अपमानसे बहुत ही डरता हूँ॥ १७॥

वीरराघवः

किमनया चिन्तया शिबिकां तावद्वहामीति चेदत आह नाहमिति । सुरराज इन्द्रः तस्य वज्रादहं न विशङ्के न बिभेमि तथा रुद्रस्य त्रिशूलात् यमस्य दण्डादपि तथाग्न्यादीनामस्त्रादपि । तत्र वित्तेशः कुबेरः किन्तु ब्रह्मकुलावमानान्नितरां शङ्के ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

तद् ब्रूह्यसङ्गो जडवन्निगूढ-
विज्ञानवीर्यो विचरस्यपारः।
वचांसि योगग्रथितानि साधो
न नः क्षमन्ते मनसापि भेत्तुम्॥

मूलम्

तद् ब्रूह्यसङ्गो जडवन्निगूढविज्ञानवीर्यो वि22चरस्यपारः।
वचांसि योगग्रथितानि साधो न नः क्षमन्ते मनसापि भेत्तुम्॥ १८ ॥

अनुवाद (हिन्दी)

अतः कृपया बतलाइये, इस प्रकार अपने विज्ञान और शक्तिको छिपाकर मूर्खोंकी भाँति विचरनेवाले आप कौन हैं? विषयोंसे तो आप सर्वथा अनासक्त जान पड़ते हैं। मुझे आपकी कोई थाह नहीं मिल रही है। साधो! आपके योगयुक्त वाक्योंकी बुद्धिद्वारा आलोचना करनेपर भी मेरा सन्देह दूर नहीं होता॥ १८॥

वीरराघवः

तस्मान्मत्प्रश्नानामुत्तरं ब्रूहि असङ्गो निष्परिग्रहः निगूढं पिहितं विज्ञानरूपं वीर्यं प्रभावो येन अपारः दुर्विभाव्याभिप्रायः जडवद्विचरसि तव वचांसि तु योगशास्त्रेण सन्दर्भितानि । तत्र हेतुः हे साधो ! नोऽस्माकं मनसापि साक्षाद्दृष्ट्यापि त्वद्वचो भेत्तुमभिप्रायतोऽवगन्तुं न क्षमं न शक्यम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

अहं च योगेश्वरमात्मतत्त्व-
विदां मुनीनां परमं गुरुं वै।
प्रष्टुं प्रवृत्तः किमिहारणं तत्
साक्षाद्धरिं ज्ञानकलावतीर्णम्॥

मूलम्

अहं च योगेश्वरमात्मतत्त्वविदां मुनीनां परमं गुरुं वै।
प्रष्टुं प्रवृत्तः किमिहारणं तत् साक्षाद्धरिं ज्ञानकलावतीर्णम्॥ १९ ॥

अनुवाद (हिन्दी)

मैं आत्मज्ञानी मुनियोंके परम गुरु और साक्षात् श्रीहरिकी ज्ञानशक्तिके अवतार योगेश्वर भगवान् कपिलसे यह पूछनेके लिये जा रहा था कि इस लोकमें एकमात्र शरण लेनेयोग्य कौन है॥ १९॥

वीरराघवः

स्वस्य ज्ञानार्थितां दर्शयति अहञ्चेति । तत्त्वविदां चिदचिदीश्वरतत्त्वविदां मुनीनां मध्ये प्रवरं हितोपदेष्टारं ज्ञानकलया नित्यापरिच्छिन्नज्ञानशक्त्यंशेनावतीर्णं साक्षाद्धरिं योगेश्वरं कपिलमुनिं प्रति इह संसारे यदरणं रक्षकं तत्किमिति प्रष्टुमहं प्रवृत्तः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

स वै भवाल्ँलोकनिरीक्षणार्थ-
मव्यक्तलिङ्गो विचरत्यपिस्वित्।
योगेश्वराणां गतिमन्धबुद्धिः
कथं विचक्षीत गृहानुबन्धः॥

मूलम्

23 वै भवाल्ँलोकनिरीक्षणार्थमव्यक्तलिङ्गो विचरत्यपिस्वित्।
योगेश्वराणां गतिमन्धबुद्धिः कथं विचक्षीत गृहानुबन्धः॥ २० ॥

अनुवाद (हिन्दी)

क्या आप वे कपिलमुनि ही हैं, जो लोकोंकी दशा देखनेके लिये इस प्रकार अपना रूप छिपाकर विचर रहे हैं? भला, घरमें आसक्त रहनेवाला विवेकहीन पुरुष योगेश्वरोंकी गति कैसे जान सकता है?॥ २०॥

वीरराघवः

लोकनिरीक्षणार्थं स एव कपिलो भवान् विचरति किंस्विदेवं कथंभूतः अव्यक्तलिङ्गः अस्पष्टहेतुः गृहासक्तो मादृशो मन्दबुद्धियोगेश्वराणां गतिं कथं विचक्षीत पश्येत् विद्यादित्यर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

दृष्टः श्रमः कर्मत आत्मनो वै
भर्तुर्गन्तुर्भवतश्चानुमन्ये।
यथासतोदानयनाद्यभावात्
समूल इष्टो व्यवहारमार्गः॥

मूलम्

दृष्टः श्रमः कर्मत आत्मनो वै भर्तुर्गन्तु24र्भवतश्चानुमन्ये।
यथासतोदानयनाद्यभावात् समूल इष्टो व्यवहारमार्गः॥ २१ ॥

अनुवाद (हिन्दी)

मैंने युद्धादि कर्मोंमें अपनेको श्रम होते देखा है, इसलिये मेरा अनुमान है कि बोझा ढोने और मार्गमें चलनेसे आपको भी अवश्य ही होता होगा। मुझे तो व्यवहारमार्ग भी सत्य ही जान पड़ता है; क्योंकि मिथ्या घड़ेसे जल लाना आदि कार्य नहीं होता॥ २१॥

वीरराघवः

एवं तत्स्वरूपं पृष्ट्वा तदुक्तोत्तराण्याक्षिपति । तत्र यदुक्तं मम श्रमो नास्तीति तत्राह । दृष्ट इति । देहादन्यत्वेऽपि देहयोगादात्मनो मम कर्मतः युद्धादिकर्मणा श्रमो दृष्टः अतो मद्दृष्टान्तेन भर्तुर्भारस्य गन्तुरध्वनश्च गन्तुर्भवतोऽपि श्रममनुमन्येऽनुमिमे-भवता श्रान्तेन भवितव्यं भर्तृत्वाद्गन्तृत्वाश्च यथा युद्धादिकर्ताहमित्यनुमिनोमीत्यर्थः । नन्विदं व्यवहारमात्रं न तु सत्यं तत्राह । असता घटादिना उदकाहरणाद्यभावदर्शनात् सता तु दर्शनाच्च व्यवहारमार्गः प्रपञ्चः समूलः प्रमाणमूलक एवेष्टः, अत्रायं प्रयोगः प्रपञ्चः सत्यः अर्थक्रियाकारित्वात् यः पुनरसत्यः नासावर्थक्रियाकारी यथा शुक्तिरजतादिरिति ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

स्थाल्यग्नितापात्पयसोऽभिताप-
स्तत्तापतस्तण्डुलगर्भरन्धिः।
देहेन्द्रियास्वाशयसन्निकर्षात्
तत्संसृतिः पुरुषस्यानुरोधात्॥

मूलम्

स्थाल्यग्नितापात्पयसोऽभितापस्तत्तापतस्तण्डुलगर्भरन्धिः।
देहेन्द्रियास्वाशयसन्निकर्षात् तत्संसृतिः पुरुषस्यानुरोधात्॥ २२ ॥

अनुवाद (हिन्दी)

(देहादिके धर्मोंका आत्मापर कोई प्रभाव ही नहीं होता, ऐसी बात भी नहीं है) चूल्हेपर रखी हुई बटलोई जब अग्निसे तपने लगती है, तब उसका जल भी खौलने लगता है और फिर उस जलसे चावलका भीतरी भाग भी पक जाता है। इसी प्रकार अपनी उपाधिके धर्मोंका अनुवर्तन करनेके कारण देह, इन्द्रिय, प्राण और मनकी सन्निधिसे आत्माको भी उनके धर्म श्रमादिका अनुभव होता ही है॥ २२॥

वीरराघवः

आत्मनः स्वतो दुःखाद्यभावेऽपि देहसंसर्गात्तत्सम्भवतीत्यभिप्रायेणाह स्थालीति । स्थाल्यादिगताग्नितापात्तन्मध्यवर्तिनः शिशिरस्य पयसोऽभितापस्तस्य तापात्तण्डुलगर्भविक्लित्तिर्भवति तत्तस्माद् दृष्टान्तदर्शनाद्देहादीनां सन्निकार्षादनुरोधात्सन्निकृष्टस्यावर्जनीयत्वात्तन्निमित्ता पुरुषस्य संसृतिः सुखदुःखाद्यनुभूतिर्भवतीत्यर्थः । असवः प्राणा आशयो वासना अन्तःकरणं वा ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

शास्ताभिगोप्ता नृपतिः प्रजानां
यः किङ्करो वै न पिनष्टि पिष्टम्।
स्वधर्ममाराधनमच्युतस्य
यदीहमानो विजहात्यघौघम्॥

मूलम्

शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम्।
स्वधर्ममाराधनमच्युतस्य यदीहमानो विजहात्यघौघम्॥ २३ ॥

अनुवाद (हिन्दी)

आपने जो दण्डादिकी व्यर्थता बतायी, सो राजा तो प्रजाका शासन और पालन करनेके लिये नियुक्त किया हुआ उसका दास ही है। उसका उन्मत्तादिको दण्ड देना पिसे हुएको पीसनेके समान व्यर्थ नहीं हो सकता; क्योंकि अपने धर्मका आचरण करना भगवान‍्की सेवा ही है, उसे करनेवाला व्यक्ति अपनी सम्पूर्ण पापराशिको नष्ट कर देता है॥ २३॥

वीरराघवः

तथाहि निदाघादिना देहे तप्ते इन्द्रियाणां तापः ततः प्राणस्य ततो मनसस्तत आत्मन इत्येवं च सति दण्डयितृत्वादिकमपि सफलमित्याह शास्तेति । यदाहं कर्मवशान्नृपतिस्तदा प्रजानामुत्पथवर्तिनीनां शास्ता सन्मार्गवर्त्तिनीनां तु गोप्ता । ननु पूर्वमेव व्यसनातुरं दण्डयन्पिष्टं पिनष्टीत्युक्तमिति चेत्तत्राह । अच्युतस्य भगवतः स्ववर्णाश्रमधर्मेण किङ्करः आराधकः भगवदाराधनस्वरूपं स्वस्ववर्णाश्रमप्रयुक्तं निग्रहादिकं कुर्वन् पिष्टं न पिनष्टि नैष्फल्यं न प्राप्नोति, यत्स्ववर्णाश्रमोचितं कर्म ईहमानः कुर्वाणः अघौघं पापराशि विजहाति विधुनोति ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

तन्मे भवान्नरदेवाभिमान-
मदेन तुच्छीकृतसत्तमस्य।
कृषीष्ट मैत्रीदृशमार्तबन्धो
यथा तरे सदवध्यानमंहः॥

मूलम्

तन्मे भवान्नरदेवाभिमानमदेन तुच्छीकृतसत्तमस्य।
कृषीष्ट मैत्रीदृशमार्तबन्धो यथा तरे सदवध्यानमंहः॥ २४ ॥

अनुवाद (हिन्दी)

‘दीनबन्धो! राजत्वके अभिमानसे उन्मत्त होकर मैंने आप-जैसे परम साधुकी अवज्ञा की है। अब आप ऐसी कृपादृष्टि कीजिये, जिससे इस साधु-अवज्ञारूप अपराधसे मैं मुक्त हो जाऊँ॥ २४॥

वीरराघवः

तस्मादेवं जिज्ञासुत्वाद्धे आर्तबन्धो ! नरदेवोहऽमित्यभिमानजमदेनानादृतसज्जनस्य मे मह्यं मैत्रीदृशं स्नेहयुक्तां दृष्टि कृषीष्ट कुरु यया दृशा सदवज्ञानं सतामवज्ञानं सतामवज्ञानरूपमंहः पापं तरे तरिष्यामि ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

न विक्रिया विश्वसुहृत्सखस्य
साम्येन वीताभिमतेस्तवापि।
महद्विमानात् स्वकृताद्धि मादृङ्
नङ्क्ष्यत्यदूरादपि शूलपाणिः॥

मूलम्

न विक्रिया विश्वसुहृत्सखस्य साम्येन वीताभिमतेस्तवापि।
महद्विमानात् स्वकृता25द्धि मादृङ् नङ्क्ष्यत्यदूरादपि शूलपाणिः॥ २५ ॥

अनुवाद (हिन्दी)

आप देहाभिमानशून्य और विश्वबन्धु श्रीहरिके अनन्य भक्त हैं; इसलिये सबमें समान दृष्टि होनेसे इस मानापमानके कारण आपमें कोई विकार नहीं हो सकता तथापि एक महापुरुषका अपमान करनेके कारण मेरे-जैसा पुरुष साक्षात् त्रिशूलपाणि महादेवजीके समान प्रभावशाली होनेपर भी, अपने अपराधसे अवश्य थोड़े ही कालमें नष्ट हो जायगा’॥ २५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे द26शमोऽध्यायः॥ १०॥

वीरराघवः

ननु ममावज्ञाकृतविकाराभावात्कुतः पापं तत्राह नेति । विश्वसुहृदीश्वरः सखा यस्य स विश्वसुहृत्सखः “द्वा सुपर्णा सयुजा सखाया” इति श्रुतेः तस्य साम्येन सर्वस्य ब्रह्मात्मकत्वभावेन वीता निरस्ताऽभिमतिर्देहात्माभिमतिः स्वतन्त्रवस्त्वभिमतिश्च यस्य तव यद्यपि मत्कृतादवज्ञानाद्विकारो नास्ति, तथापि महतामवमानात्सकृत्कृतान्मादृशो जन्तुः शूलपाणिरिवातिसमर्थोऽप्यदूरात् क्षिप्रं नङ्ख्यति स्थावरतामेष्यति । स्थावरताप्राप्तिरेव हि जीवस्य विनाशो नाम तत्र नितरां चैतन्यानभिव्यक्तेः ॥ २५ ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकास्यायां टीकायां दशमोऽध्यायः ॥ १० ॥


  1. सिन्धुपते । ↩︎

  2. शिबिकावाहक । ↩︎

  3. पुरुषान्वेषसमये । ↩︎

  4. यावान् संहननाङ्गो । ↩︎

  5. मतदर्हणः । ↩︎

  6. अथ ईश्वरवचः । ↩︎

  7. वोढुं वयं । ↩︎

  8. संसर्गिणां । ↩︎

  9. भवितुमर्हतीति निशम्य । ↩︎

  10. प्राचीने पाठे ‘नमेक एव’ इत्यशः खण्डितः । ↩︎

  11. जरसा दुतो भवान् सुखिनो ये वापर । ↩︎

  12. कर्मातिशय । ↩︎

  13. चिकित्सां तव दण्ड । ↩︎

  14. मभिभाषमाणं । ↩︎

  15. तमसानुवृद्धेन । ↩︎

  16. प्राचीने पाठे ‘आधयश्च’ प्रच्युतः । ↩︎

  17. जडवत्स्वस्वसंस्थां । ↩︎

  18. अथ कियान्भवता । ↩︎

  19. स मुनिवरः । ↩︎

  20. निमित्तमुपभोगेन । ↩︎

  21. नोऽत्र । ↩︎

  22. प्राचीने पाठे ‘विचरस्यपार……’ इत्यारभ्य ‘साक्षाद्धरि’ पर्यन्तोऽशः खण्डितः । ↩︎

  23. प्राचीने पुस्तके ‘स वै’ इति प्रच्युतम् । ↩︎

  24. भर्त्तुर्गुरोर्भवत । ↩︎

  25. सुकृताद्धि । ↩︎

  26. जडचरिते दशमो । ↩︎