०९

[ओंभत्तनेय अध्याय]

भागसूचना

ब्राह्मणकुलदल्लि भरतन जन्म - जडनन्तॆ आचरणॆ

(श्लोक - 1)

मूलम् (वाचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

अथ कस्यचिद् द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसंतोष तितिक्षा प्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्म सदृशश्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ॥

मूलम्

अथ कस्यचिद् द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ॥ 1 ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! आंगिरस गोत्रमें शम, दम, तप, स्वाध्याय, वेदाध्ययन, त्याग (अतिथि आदिको अन्न देना), सन्तोष, तितिक्षा, विनय, विद्या (कर्मविद्या), अनसूया (दूसरोंके गुणोंमें दोष न ढूँढ़ना), आत्मज्ञान (आत्माके कर्तृत्व और भोक्तृत्वका ज्ञान) एवं आनन्द (धर्मपालनजनित सुख) सभी गुणोंसे सम्पन्न एक श्रेष्ठ ब्राह्मण थे। उनकी बड़ी स्त्रीसे उन्हींके समान विद्या, शील, आचार, रूप और उदारता आदि गुणोंवाले नौ पुत्र हुए तथा छोटी पत्नीसे एक ही साथ एक पुत्र और एक कन्याका जन्म हुआ॥ १॥

(श्लोक - 2)

विश्वास-प्रस्तुतिः

यस्तु तत्र पुमां स्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः ॥

मूलम्

यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः ॥ 2 ॥

अनुवाद (हिन्दी)

इन दोनोंमें जो पुरुष था वह परम भागवत राजर्षिशिरोमणि भरत ही थे। वे मृगशरीरका परित्याग करके अन्तिम जन्ममें ब्राह्मण हुए थे—ऐसा महापुरुषोंका कथन है॥ २॥

वीरराघवः

एवमारब्धभगवद्भक्तियोगस्यापि भरतस्य प्रारब्धकर्मात्तमृगासक्त्या मृगत्वापत्ति प्रारब्धकर्मावसाने मृगत्वनिवृत्तिं चाभिधायेदानीं “नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्” इति । “नहि कल्याणकृत्कश्चिद्दुर्गतिं तात ! गच्छति ॥ प्राप्य पुण्यकृताॉल्लोकामुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभि जायते ॥ अथवा योगिनामेव कुले भवति धीमताम् ।" इत्युक्तरीत्या तस्य विशिष्टकुलप्रसूतिं देहादिष्वनादरं ततो मुक्तिं चाभिधत्ते अथेत्यादिना । अथ मृगशरीरत्यागानन्तरमाङ्गिरसस्य यवीयस्यां कनिष्ठायां भार्यायां यन्मिथुनं स्त्रीपुंसयुग्मं समजायत तत्र मिथुने यस्तु पुमान् तं परमभागवतं राजर्षिप्रवरमुत्सृष्टं मृगशरीरं येन तं चरमशरीरेण विप्रत्वं गतमाहुरित्यन्वयः । आङ्गिरसप्रवरं विशिनष्टि । द्विजश्रेष्ठस्याङ्गिरसगोत्रोद्भवानां मध्ये प्रवरस्य शमादियुक्तस्य तत्र शमदमावन्तर्बाह्येन्द्रियनिग्रहौ तपोऽनशनादि स्वाध्यायाध्ययनं वेदाध्ययनं त्यागो दानं सन्तोषो दैवाल्लब्धेन तितिक्षा द्वन्द्वसहिष्णुता प्रश्रयो विनयः विद्या शास्त्रजन्यज्ञानं अनसूया परेषु दोषानाविष्करणमात्मज्ञानं ज्ञानयोगः आनन्दो ब्रह्मानन्दानुभवरूपो भक्तियोगः, आत्मना स्वेन स्वसदृशाः श्रुतादयः गुणा येषां ते, श्रुतं वेदार्थश्रवणं, नव सोदरा अङ्गजा आत्मजा बभूवुः ज्येष्ठायां भार्यायामिति शेषः ॥ १-२ ॥

(श्लोक - 3)

विश्वास-प्रस्तुतिः

तत्रापि स्वजनसंगाच्च भृशमुद्विजमानो भगवतः कर्मबन्धविध्वंसनश्रवणस्मरण गुणविवरण चरणारविन्दयुगलं मनसा विदधदात्मनः प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्त जडान्धबधिरस्वरूपेण दर्शयामास लोकस्य ॥

मूलम्

तत्रापि स्वजनसङ्गाच्च भृ1शमुद्विजमानो भगवतः कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधदात्मनः प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्त2जडान्धबधिरस्वरूपेण दर्शयामास लोकस्य ॥ 3 ॥

अनुवाद (हिन्दी)

इस जन्ममें भी भगवान‍्की कृपासे अपनी पूर्वजन्म परम्पराका स्मरण रहनेके कारण, वे इस आशंकासे कि कहीं फिर कोई विघ्न उपस्थित न हो जाय, अपने स्वजनोंके संगसे भी बहुत डरते थे। हर समय जिनका श्रवण, स्मरण और गुणकीर्तन सब प्रकारके कर्मबन्धनको काट देता है, श्रीभगवान‍्के उन युगल चरणकमलोंको ही हृदयमें धारण किये रहते तथा दूसरोंकी दृष्टिमें अपनेको पागल, मूर्ख, अंधे और बहरेके समान दिखाते॥ ३॥

वीरराघवः

तत्रापि विप्रजन्मन्यपि स्वजनसङ्गादात्मनः प्रतिघातं भ्रंशमाशङ्कमानस्तत्र हेतुः भगवदनुग्रहेणैवानुस्मृता स्वीया पूर्वजन्मनामावलिः परम्परा येन सः आत्मानमुन्मत्तादिरूपेण लोकस्य दर्शयामास । किं कुर्वन् कर्मबन्धविध्वंसनं श्रवणं स्मरणं गुणानां विवरणं कथनं यस्य तत्कर्मबन्धविध्वंसनसमर्थश्रवणादियुक्तमित्यर्थः, एवंविधं भगवतश्चरणारविन्दं मनसा विदधानः विशेषेण धारयन् ॥ ३ ॥

(श्लोक - 4)

विश्वास-प्रस्तुतिः

तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आसमावर्तनात्संस्कारान्यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन्कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ॥

मूलम्

तस्यापि ह वा आत्मजस्य3 विप्रः पुत्रस्नेहानुबद्धमना आसमावर्तनात्संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ॥ 4 ॥

अनुवाद (हिन्दी)

पिताका तो उनमें भी वैसा ही स्नेह था। इसलिये ब्राह्मणदेवताने अपने पागल पुत्रके भी शास्त्रानुसार समावर्तनपर्यन्त विवाहसे पूर्वके सभी संस्कार करनेके विचारसे उनका उपनयन-संस्कार किया। यद्यपि वे चाहते नहीं थे तो भी ‘पिताका कर्तव्य है कि पुत्रको शिक्षा दे’ इस शास्त्रविधिके अनुसार उन्होंने इन्हें शौच-आचमन आदि आवश्यक कर्मोंकी शिक्षा दी॥ ४॥

वीरराघवः

स विप्रः आङ्गिरसस्तस्य जडादिवेषस्य पुत्रस्य पुत्रस्नेहेनानुबद्धमासक्तं मनो यस्य तथाभूतः सन् समावर्तनं स्नातकं तत्पर्यन्तान् संयतान् संस्कारान् गर्भाधानादीन् यथाविधि कुर्वाण उपनीतस्य तस्यानभिप्रेतान् पूर्ववासनयावगतत्वात् शिक्षणीयत्वेनानभिप्रेतानपि शौचाचमनादीन् कर्मनियमान्नित्यनैमित्तिकादिभेदेन नियतान् समशिक्षयत् । शिक्षायां हेतुमाह अनुशिष्टेनेति । पितुः सकाशादनुशिष्टेन विविच्य ज्ञापितेनैव पुत्रेण भवितव्यमितीति बुद्ध्येत्यर्थः ॥ ४ ॥

(श्लोक - 5)

विश्वास-प्रस्तुतिः

स चापि तदु ह पितृ संनिधावेवासध्रीचीनमिव स्म करोति छन्दांस्य ध्यापयिष्यन् सह व्याहृतिभिः सप्रणवशिरसिपदीं सावित्रीं ग्रैष्मवासंतिकान्मासानधीयानमप्य समवेतरूपं ग्राहयामास ॥

मूलम्

स चापि तदु ह पितृसंनिधावेवासध्रीचीनमिव स्म करोति छन्दोस्यध्यापयिष्यन् सह व्याहृतिभिः सप्रणवशिरस्रिपदीं सावित्रीं ग्रैष्मवासंतिका4न्मासानधीयानमप्यसमवेतरूपं ग्राहयामास ॥ 5 ॥

अनुवाद (हिन्दी)

किन्तु भरतजी तो पिताके सामने ही उनके उपदेशके विरुद्ध आचरण करने लगते थे। पिता चाहते थे कि वर्षाकालमें इसे वेदाध्ययन आरम्भ करा दूँ। किन्तु वसन्त और ग्रीष्म ऋतुके चैत्र, वैशाख, ज्येष्ठ और आषाढ़—चार महीनोंतक पढ़ाते रहनेपर भी वे इन्हें व्याहृति और शिरोमन्त्रप्रणवके सहित त्रिपदा गायत्री भी अच्छी तरह याद न करा सके॥ ५॥

वीरराघवः

सोऽपि च पितुः शिक्षानिर्बन्धनिवृत्तये तत्सन्निधावसध्रीचीनमसमीचीनमिव करोति छन्दांस्यध्यापयिष्यन् “श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्थपञ्चमान्" इत्युक्तरीत्या वेदानध्यापयिष्यन् तावदादौ व्याहृतिभिः सह प्रणवशिरः सहितां त्रिपदीं सावित्रीं गायत्री व्याहृतयो भूरादयः प्रणवमोङ्कारः शिरः ओमापोज्योतिरित्यादि एवंभूतां सावित्रीं ग्रैष्मवासन्तिकान्मासांश्चतुरो मासानधीयानमप्यध्ययनं कुर्वाणमपि पुत्रमसमवेतरूपं स्वरादिगायत्र्यानुपूर्व्या वियुक्तं न भवति यथा तथा ग्राहयामास तावता कालेनापि स्वरानुपूर्व्या वियुक्तव्याहृतिसहिता गायत्री तस्य दृढा नाभूदित्यर्थः ॥ ५ ॥

(श्लोक - 6)

विश्वास-प्रस्तुतिः

एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्वनल शुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः ॥

मूलम्

एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं तावदनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृह एव5 प्रमत्त उपसंहृतः ॥ 6 ॥

अनुवाद (हिन्दी)

ऐसा होनेपर भी अपने इस पुत्रमें उनका आत्माके समान अनुराग था। इसलिये उसकी प्रवृत्ति न होनेपर भी वे ‘पुत्रको अच्छी तरह शिक्षा देनी चाहिये’ इस अनुचित आग्रहसे उसे शौच, वेदाध्ययन, व्रत, नियम तथा गुरु और अग्निकी सेवा आदि ब्रह्मचर्याश्रमके आवश्यक नियमोंकी शिक्षा देते ही रहे। किन्तु अभी पुत्रको सुशिक्षित देखनेका उनका मनोरथ पूरा न हो पाया था और स्वयं भी भगवद‍्भजनरूप अपने मुख्य कर्तव्यसे असावधान रहकर केवल घरके धंधोंमें ही व्यस्त थे कि सदा सजग रहनेवाले कालभगवान‍्ने आक्रमण करके उनका अन्त कर दिया॥ ६॥

वीरराघवः

एवं स्वात्मजे आत्मनि “आत्मा वै पुत्रनामासि" इति श्रुत्युक्तरीत्या पुत्ररूपे आत्मन्यनुरागेणावेशितमासञ्जितं चित्तं येन सः शौचादीन्यौपकुर्वाणस्य सावधिब्रह्मचर्यवतो यानि कर्माणि उपकुर्वाणो गुरुशुश्रूषादिना वेदाध्ययनादि कुर्वाणः ब्रह्मचारी शौचं स्नानादिजन्या शुद्धिः व्रतानि काण्डव्रतादीनि तान्यभियुक्तान्मप्यविस्मृतवेदस्य तस्याध्ययनानपेक्षत्वादध्यापनाङ्गानि कर्माण्यनुपयुक्तानीत्यर्थः, सम्यगनुशिष्टेन पुत्रेण भाव्यमित्यसदाग्रहः दुरभिमानवान् पुत्रमनुशास्यापि शिक्षित्वापि अनधिगतः मनोरथः पुत्रवैदुष्यरूपो येन सः तावदेवाप्रमत्तेन कालेन मृत्युना स्वयंगृहे प्रमत्तः सन्नुपसंहृतः मृत इत्यर्थः ॥ ६ ॥

(श्लोक - 7)

विश्वास-प्रस्तुतिः

अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात् ॥

मूलम्

अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात् ॥ 7 ॥

अनुवाद (हिन्दी)

तब उनकी छोटी भार्या अपने गर्भसे उत्पन्न हुए दोनों बालक अपनी सौतको सौंपकर स्वयं सती होकर पतिलोकको चली गयी॥ ७॥

वीरराघवः

अथ संहृत्यनन्तरं यवीयसी कनिष्ठा द्विजसती द्विजभार्या स्वगर्भजातं मिथुनं सपत्न्या उपसमीपे निधाय सपत्न्यधीनं कृत्वा स्वयमनुसंस्थया अनुसरणप्रक्रियया पतिलोकमगात्प्राप्तवती ॥ ७ ॥

(श्लोक - 8)

विश्वास-प्रस्तुतिः

पितर्युपरते भ्रातर एनमतत्प्रभावविद- सय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातुरनुशासन निर्बन्धान्न्यवृत्संत ॥

मूलम्

पितर्युपरते भ्रातर एनमतत्प्रभावविदस्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्स6न्त ॥ 8 ॥

अनुवाद (हिन्दी)

भरतजीके भाई कर्मकाण्डको सबसे श्रेष्ठ समझते थे। वे ब्रह्मज्ञानरूप पराविद्यासे सर्वथा अनभिज्ञ थे। इसलिये उन्हें भरतजीका प्रभाव भी ज्ञात नहीं था, वे उन्हें निरा मूर्ख समझते थे। अत: पिताके परलोक सिधारनेपर उन्होंने उन्हें पढ़ाने-लिखानेका आग्रह छोड़ दिया॥ ८॥

वीरराघवः

पितर्युपरते मृते सति भ्रातरो नव एनं जडमतिरिति बुद्ध्याऽनुशासनरूपान्निर्बन्धान्न्यवृत्सन्त निवर्त्तितुमैच्छन् शिक्षां नाकुर्वन्नित्यर्थः । जडमतिरित्यत्र हेतुं वदन्विशिनष्टि । अतत्प्रभावविदस्तस्य भ्रातुः प्रभावमजानन्तः तत्रापि हेतुः त्रय्यामेव विद्यायां कर्माविबोधात्मककेवलवेदविद्यायामेव पर्यवसितमतयः न ब्रह्मविद्यायां वेदान्तविद्यायां पर्यवसितमतयः ॥ ८ ॥

(श्लोक - 9)

विश्वास-प्रस्तुतिः

स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च स कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याञ्चया यदृच्छया वोपसादितमल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रिय प्रीतिनिमित्तम् नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःखयो- र्ध्वन्द्वनिमित्तयोरसंभावितदेहाभिमानः ॥

मूलम्

स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च स कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याञ्चया यदृच्छया वोपसादितमल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम् । 7नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःखयोर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमानः ॥ 9 ॥

अनुवाद (हिन्दी)

भरतजीको मानापमानका कोई विचार न था। जब साधारण नर-पशु उन्हें पागल, मूर्ख अथवा बहरा कहकर पुकारते तब वे भी उसीके अनुरूप भाषण करने लगते। कोई भी उनसे कुछ भी काम कराना चाहते, तो वे उनकी इच्छाके अनुसार कर देते। बेगारके रूपमें, मजदूरीके रूपमें, माँगनेपर अथवा बिना माँगे जो भी थोड़ा-बहुत अच्छा या बुरा अन्न उन्हें मिल जाता, उसीको जीभका जरा भी स्वाद न देखते हुए खा लेते। अन्य किसी कारणसे उत्पन्न न होनेवाला स्वत:सिद्ध केवल ज्ञानानन्दस्वरूप आत्मज्ञान उन्हें प्राप्त हो गया था; इसलिये शीतोष्ण, मानापमान आदि द्वन्द्वोंसे होनेवाले सुख-दु:खादिमें उन्हें देहाभिमानकी स्फूर्ति नहीं होती थी॥ ९॥

वीरराघवः

यदा स जडविप्रो द्विपदपशुभिर्हे उन्मत्त जड बधिरेत्यभिभाष्यमाणस्तदा तदनुरूपाणि उन्मत्ताद्यनुरूपाणि उन्मादान्ध्यजाड्यबाधिर्यादिसूचकानि वचांस्याभाषते स्वयं निर्व्यापारोऽपि परेच्छया कार्यमाणः कर्माणि करोति मूल्यमन्तरेण बलाद्यत्कर्म कार्यते सा विष्टिः वेतनं भृतिः । विष्ट्यादिभिर्यदृच्छया दैवाद्वोपसादितं प्राप्तं तदप्यल्पं बहु वा मृष्टं कदन्नं वाऽभ्यवहरति भक्षयति परं केवलं प्रारब्धोपभोगयुक्तदेहधारणार्थं भुङ्क्ते न त्विन्द्रियप्रीतये ॥ ९ ॥

(श्लोक - 10)

विश्वास-प्रस्तुतिः

शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गःस्थण्डिलसंवेशनानुन्मर्दना मज्जनरजसा महामणि रिवानभिव्यक्तब्रह्मवर्चसः कुपटावृत कटिरुपवीतेनोरुमषिणाद्विजातिरिति ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार ॥

मूलम्

शीतोष्णवातवर्षेषु वृष इवाना8वृताङ्गः पीनः संहननाङ्गः स्थण्डिलसंवेशनानुन्मर्दनामज्जनरजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति ब्रह्मबन्धुरिति संज्ञया9तज्ज्ञजनावमतो विचचार ॥ 10 ॥

अनुवाद (हिन्दी)

वे सर्दी, गरमी, वर्षा और आँधीके समय साँड़के समान नंगे पड़े रहते थे। उनके सभी अंग हृष्ट-पुष्ट एवं गठे हुए थे। वे पृथ्वीपर ही पड़े रहते थे, कभी तेल-उबटन आदि नहीं लगाते थे और न कभी स्नान ही करते थे, इससे उनके शरीरपर मैल जम गयी थी। उनका ब्रह्मतेज धूलिसे ढके हुए मूल्यवान् मणिके समान छिप गया था। वे अपनी कमरमें एक मैला-कुचैला कपड़ा लपेटे रहते थे। उनका यज्ञोपवीत भी बहुत ही मैला हो गया था। इसलिये अज्ञानी जनता ‘यह कोई द्विज है’, ‘कोई अधम ब्राह्मण है’ ऐसा कहकर उनका तिरस्कार कर दिया करती थी, किन्तु वे इसका कोई विचार न करके स्वच्छन्द विचरते थे॥ १०॥

वीरराघवः

तत्र हेतुं वदन्विशिनष्टि नित्येति । नित्यं निवृत्तानि निमित्तानि सुखदुःखनिमित्तानि पुण्यापुण्यकर्माण्यात्मस्वरूपतिरोधायकानि यस्मात्स एवंविधो यः स्वसिद्धविशुद्धानुभवानन्दः स्वात्मा नित्यसिद्धरागादिरहितज्ञानानन्दस्वरूप आत्मा तस्याधिगमः याथात्म्यविज्ञानं तन्नित्यं सदा यस्य । द्वन्द्वानि शीतोष्णादीनि निमित्तानि कारणानि ययोस्तयोः सुखदुःखयोरसम्भावितदेहाभिमानः द्वन्द्वनिमित्तसुखदुःखादिप्रयुक्तदेहात्माभिमानसम्भावनामात्ररहित इत्यर्थः, अत एव शीतातपादिषु वृष इव बलीवर्द्द इवानावृतमनाच्छन्नमङ्गं यस्य सः पीनः परिपुष्टसर्वावयवः संहननानि कठिनान्यङ्गानि यस्य स्थण्डिलसंवेशनं भूशयनम् अनुन्मर्द्दनं तैलेनाङ्गमर्दनाभावः अमज्जनं मलापनयनार्थं स्नानाभावः एभिर्यद्रजः शरीरमालिन्यं तेनानभिव्यक्तमप्रकटं ब्रह्मवर्चसं ब्रह्मतेजो यस्य यथा महामणिर्बाह्यमलेनानभिव्यक्ततेजा भवति । कुत्सितेन पटेनावृता कटिर्यस्य उरुमषिणा प्रभूतं मलं यस्य तेनोपवीतेनोपलक्षणेन द्विजातिरित्यादिसंज्ञया वाचकशब्देन व्यवह्रियमाणोऽतज्ज्ञजनैः योगीश्वरचर्यानभिज्ञजनैरवमतः निन्दितः सन् विचचार ॥ १० ॥

(श्लोक - 11)

विश्वास-प्रस्तुतिः

यदा तु परत आहारं कर्मवेतनत ईहमानः स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति किन्तु न समं विषमं न्यूनमधिकमिति वेद कणपिण्या कलीकरणकुल्माषस्थाली पुरीषादीन्यप्यमृतवद भ्यवहरति ॥

मूलम्

यदा तु परत आहारं कर्म वेतनत10 ईहमानः स्वभ्रातृभिरपि केदारक11र्मणि निरूपितस्तदपि करोति किन्तु न समं विषमं न्यूनमधिकमिति वेद कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यप्यमृतवदम्यवहरति ॥ 11 ॥

अनुवाद (हिन्दी)

दूसरोंकी मजदूरी करके पेट पालते देख जब उन्हें उनके भाइयोंने खेतकी क्यारियाँ ठीक करनेमें लगा दिया तब वे उस कार्यको भी करने लगे। परन्तु उन्हें इस बातका कुछ भी ध्यान न था कि उन क्यारियोंकी भूमि समतल है या ऊँची-नीची अथवा वह छोटी है या बड़ी। उनके भाई उन्हें चावलकी कनी, खली, भूसी, घुने हुए उड़द अथवा बरतनोंमें लगी हुई जले अन्नकी खुरचन—जो कुछ भी दे देते, उसीको वे अमृतके समान खा लेते थे॥ ११॥

वीरराघवः

यदा तु वेतनाद्भृतेः परेभ्यः आहारमीहमानः इच्छन्भवति, वेतनमिति पाठे आहारमित्यस्यानन्तरं लब्धुमिति शेषः । आहारमन्नादिकं लब्धुं वेतनमीहमानः कुर्वाणो भवति तदा आहारप्रलोभनेन स्वभ्रातृभिः केदारकर्मणि शालिक्षेत्रकर्द्दमविलोडनादौ नियुक्तस्तदपि केदारकर्म करोति किं त्वत्र कर्द्दमस्य प्रक्षेपे क्षेत्रं समम्भवेदित उद्धरणे विषमं स्यादिति न वेद वैषम्यं नैव पश्यति । न्यूनमधिकं वा स्यादिति भ्रातृभिर्दत्तान्नकणादीनप्यमृतवद्भक्षयति । कणाश्चूर्णतण्डुलाः पिण्याकस्तैलयन्त्रोद्धृतं तिलपिष्टं फलीकरणं तुपः कुल्माषा कुलत्थाः दुष्टा माषाः स्थालीपुरीषं पात्रलग्नं दग्धान्नम् ॥ ११ ॥

(श्लोक - 12)

विश्वास-प्रस्तुतिः

अथ कदाचित्कश्चिद् वृषलपतिर्भद्रकाल्यै पुरुष पशुमालभतापत्यकामः ॥

मूलम्

अथ कदाचित्कश्चिद् वृषलपतिर्भद्रकाल्यै 12पुरुषपशुमालभतापत्यकामः ॥ 12 ॥

अनुवाद (हिन्दी)

किसी समय डाकुओंके सरदारने, जिसके सामन्त शूद्र जातिके थे, पुत्रकी कामनासे भद्रकालीको मनुष्यकी बलि देनेका संकल्प किया॥ १२॥

वीरराघवः

एवं तस्य देहानादरमभिधायाथ “कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्” इत्युक्तरीत्या मरणोद्योगेऽप्यसम्भ्रमं वक्तुं तस्याश्चर्यतमत्वमाविष्कुर्वन्नाह अथेति । हे विष्णुरात ! भरतस्येदं वक्ष्यमाणमद्भुतं कर्म शृणु, कश्चिद् वृषल्याः शूद्रायाः पतिः पुत्रकामः भद्रकाल्यै पशुं पुरुषपशुमालभमानः ‘पुत्रश्चेन्मम भविता तदा भवत्यै पुरुषपशुमालप्स्ये’ इति कृतसङ्कल्पोऽभूदित्यर्थः ॥ १२ ॥

(श्लोक - 13)

विश्वास-प्रस्तुतिः

तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः परिधावन्तो निशि निशीथसमये तमसावृतायामनधिगत पशव आकस्मिकेन विधिना केदारान् वीरासनेन मृगवराहादिभ्यः संरक्षमाणमङ्गिरःप्रवर सुतम पश्यन् ॥

मूलम्

तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः परिधावन्तो निशि नि13शीथसमये तमसाऽऽवृतायामनधिगतपशव आकस्मिकेन विधिना केदारान् वीरासनेन मृगवराहादिभ्यः संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् ॥ 13 ॥

अनुवाद (हिन्दी)

उसने जो पुरुष-पशु बलि देनेके लिये पकड़ मँगाया था, वह दैववश उसके फंदेसे निकलकर भाग गया। उसे ढूँढ़नेके लिये उसके सेवक चारों ओर दौड़े; किन्तु अँधेरी रातमें आधी रातके समय कहीं उसका पता न लगा। इसी समय दैवयोगसे अकस्मात् उनकी दृष्टि इन आंगिरसगोत्रीय ब्राह्मणकुमारपर पड़ी, जो वीरासनसे बैठे हुए मृग-वराहादि जीवोंसे खेतोंकी रखवाली कर रहे थे॥ १३॥

वीरराघवः

तस्यैवं कृतसङ्कल्पस्य पुत्रप्राप्तिरूपसिद्ध्यनन्तरं दैवालब्धं पशुमानयतेत्युक्तास्तदनुचराः शूद्राः दैवाद्विमुक्तस्य आलभ्यस्य पशोः पदवीं प्रति परितो धावन्तः अन्वेषमाणाः तमसा व्याप्तायां निशि रात्रावर्द्धरात्रिसमये अनधिगतः पशुर्यैस्ते आकस्मिको दैवनिमित्तो विधिः प्रकारस्तेन वीरासनेन ऊर्ध्वावस्थानेन केदारान् मृगादिभ्यः संरक्षमाणं गोबलीवर्द्दन्यायेन वराहशब्दप्रयोगः, आङ्गिरसप्रवरस्य सुतं भरतमपश्यन् दृष्टवन्तः॥ १३॥

(श्लोक - 14)

विश्वास-प्रस्तुतिः

अथ त एनमनवद्यलक्षणमवमृश्य भर्तृ कर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिकागृहमुपनिन्युर्मुदा विकसितवदनाः ॥

मूलम्

अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिकागृहमुपनिन्युर्मुदा विकसितवदनाः ॥ 14 ॥

अनुवाद (हिन्दी)

उन्होंने देखा कि यह पशु तो बड़े अच्छे लक्षणोंवाला है, इससे हमारे स्वामीका कार्य अवश्य सिद्ध हो जायगा। यह सोचकर उनका मुख आनन्दसे खिल उठा और वे उन्हें रस्सियोंसे बाँधकर चण्डिकाके मन्दिरमें ले आये॥ १४॥

वीरराघवः

अथैनमाङ्गिरससुतमनवद्यानि निर्दुष्टान्यङ्गानि यस्य पङ्गुत्वकाणत्वादिरहितमवमृश्य ज्ञात्वा भर्तुः कर्मणः पुरुषपश्वालम्भनकर्मणः निष्पत्तिं मन्यमाना रशनया रज्ज्वा बध्वा मुदा विकसितानि वदनानि येषां ते चण्डिकाया भद्रकाल्या मन्दिरं प्रत्युपनिन्युर्नीतवन्तः ॥ १४ ॥

(श्लोक - 15)

विश्वास-प्रस्तुतिः

अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेपस्रक्तिलकादिभिरु पस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसल याङ्कुर लोपहारोपेतया वैशस संस्थया महता गीतस्तुतिमृदङ्गपणवघो- षेण च पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः ॥

मूलम्

अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाऽऽच्छाद्य भूषणालेपस्रक्तिलकादिभिरुपस्कृतं भुक्तवन्तं धूपदीपमाल्यला14जकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण च15 पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः ॥ 15 ॥

अनुवाद (हिन्दी)

तदनन्तर उन चोरोंने अपनी पद्धतिके अनुसार विधिपूर्वक उनको अभिषेक एवं स्नान कराकर कोरे वस्त्र पहनाये तथा नाना प्रकारके आभूषण, चन्दन, माला और तिलक आदिसे विभूषित कर अच्छी तरह भोजन कराया। फिर धूप, दीप, माला, खील, पत्ते, अंकुर और फल आदि उपहार-सामग्रीके सहित बलिदानकी विधिसे गान, स्तुति और मृदंग एवं ढोल आदिका महान् शब्द करते उस पुरुष-पशुको भद्रकालीके सामने नीचा सिर कराके बैठा दिया॥ १५॥

वीरराघवः

अथ पणयः चोराः तमाङ्गिरससुतं स्वविधिना विशसनविधिनाभिषिच्य स्नापयित्वाहतेन नूतनेन वाससा वस्त्रेणाच्छाद्य भूषणादिभिरुपस्कृतमलं भुक्तवन्तं धूपादिभिरुपेतया युक्तया वैशससंस्थया हिंसाविधानेन महता स्तुत्यादिघोषेण च पुरुष एव पशुस्तं भद्रकाल्या अग्रे उपवेशयामासुः ॥ १५ ॥

(श्लोक - 16)

विश्वास-प्रस्तुतिः

अथ वृषलराजपणिः पुरुष पशोरसृगासवेन देवीं भद्रकालीं यक्ष्यमाण स्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे ॥

मूलम्

अथ वृषलराजपणिः पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे ॥ 16 ॥

अनुवाद (हिन्दी)

इसके पश्चात् दस्युराजके पुरोहित बने हुए लुटेरेने उस नर-पशुके रुधिरसे देवीको तृप्त करनेके लिये देवीमन्त्रोंसे अभिमन्त्रित एक तीक्ष्ण खड्ग उठाया॥ १६॥

वीरराघवः

अथ वृषलराजस्य पणिः पुरोहितत्वेन वर्तमानश्चोरः पुरुषपशोरसृप्रक्तमेवासवं मद्यं तेन च भद्रकालीं यक्ष्यमाणः तर्पयिष्यमाणः तदभिमन्त्रितं भद्रकालीमन्त्राभिमन्त्रितमतिभयङ्करं तीक्ष्णधारमसिं खड्गमुपाददे गृहीतवान् ॥ १६ ॥

(श्लोक - 17)

विश्वास-प्रस्तुतिः

इति तेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजउत्सिक्तमनसां भगवत्कला वीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुमतमालम्भनं तदुपलभ्य ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेनवपुषा सहसोच्चचाट सैव देवी भद्रकाली ॥

मूलम्

इति तेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजउत्सिक्तमनसां भगवत्कलावीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुमतमाल16म्भनं तदुपलभ्य ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट17 सैव देवी भद्रकाली ॥ 17 ॥

अनुवाद (हिन्दी)

चोर स्वभावसे तो रजोगुणी-तमोगुणी थे ही, धनके मदसे उनका चित्त और भी उन्मत्त हो गया था। हिंसामें भी उनकी स्वाभाविक रुचि थी। इस समय तो वे भगवान‍्के अंशस्वरूप ब्राह्मणकुलका तिरस्कार करके स्वच्छन्दतासे कुमार्गकी ओर बढ़ रहे थे। आपत्तिकालमें भी जिस हिंसाका अनुमोदन किया गया है, उसमें भी ब्राह्मणवधका सर्वथा निषेध है, तो भी वे साक्षात् ब्रह्मभावको प्राप्त हुए वैरहीन तथा समस्त प्राणियोंके सुहृद् एक ब्रह्मर्षिकुमारकी बलि देना चाहते थे। यह भयंकर कुकर्म देखकर देवी भद्रकालीके शरीरमें अति दु:सह ब्रह्मतेजसे दाह होने लगा और वे एकाएक मूर्तिको फोड़कर प्रकट हो गयीं॥ १७॥

वीरराघवः

इतीत्थं तेषां वृषलानां रजस्तमःप्रचुराणां धनमद एव रजस्तेन उत्सिक्तममर्यादं मनो येषां भगवत्कलया युक्तं वीराणां ब्राह्मणानां कुलं कदर्थीकृत्य तुच्छीकृत्य उत्पथे दुर्मार्गे यथेच्छं विहरतां हिंसैव विहारो येषां यदतिदारुणमालम्भनरूपं कर्म तदुपलभ्य सैव भद्रकाली देवी ब्रह्मभूतस्य ब्रह्मसाम्यमापत्स्यमानस्य ब्रह्मर्षेरङ्गिरसः सुतस्य सुनायां हिंसायामप्यननुमतस्य दुर्विषहेण सोढुमशक्येन ब्रह्मतेजसातितरां दह्यमानं वपुस्तेन हेतुना सहसा आशुच्चचाट प्रतिमां त्यक्त्वा बहिर्निर्गताभूदित्यर्थः ॥ १७ ॥

(गद्य - 18)

विश्वास-प्रस्तुतिः

भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविट-पकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगास- वमत्युष्णं सह गणेन निपीयातिपानमदविह्व- लोच्चैस्तरां स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरःकन्दुकलीलया ॥

मूलम्

भृश18ममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामे19वेदं महाट्टहासम20तिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दु21ष्टानां तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदैः सह जगौ ननर्त च22 विजहार च शिरःकन्दुकलीलया ॥ 18 ॥

अनुवाद (हिन्दी)

अत्यन्त असहनशीलता और क्रोधके कारण उनकी भौंहें चढ़ी हुई थीं तथा कराल दाढ़ों और चढ़ी हुई लाल आँखोंके कारण उनका चेहरा बड़ा भयानक जान पड़ता था। उनके उस विकराल वेषको देखकर ऐसा जान पड़ता था मानो वे इस संसारका संहार कर डालेंगी। उन्होंने क्रोधसे तड़ककर बड़ा भीषण अट्टहास किया और उछलकर उस अभिमन्त्रित खड्गसे ही उन सारे पापियोंके सिर उड़ा दिये और अपने गणोंके सहित उनके गलेसे बहता हुआ गरम-गरम रुधिररूप आसव पीकर अति उन्मत्त हो ऊँचे स्वरसे गाती और नाचती हुई उन सिरोंको ही गेंद बनाकर खेलने लगीं॥ १८॥

वीरराघवः

अमर्षोऽपराधासहनं रोषश्च वपुषो दाहस्तयोरावेशस्य रभसेन वेगेन विलसितो विजृम्भितो भ्रकुटीलक्षणो विटपः शाखा कुटिला दंष्ट्राश्चारुणे ईक्षणे च तेषामाटोपः संभ्रमस्तेनातिभयङ्करं वदनं यस्या इदं जगद्धन्तुकामेव हन्तुमुद्यतेवाट्टहासं सनादं हासं मुञ्चन्ती ततः स्थानादुत्पत्य वृक्णानि छिन्नानि शीर्षाणि शिरांसि येषां तेषामतिगर्वितानां पापिष्ठानां कण्ठात्स्रवन्तं प्रसृतमत्युष्णमसृगासवं रुधिररूपं मद्यं परिवारेण सह निपीयाति अत्यन्तरुधिरपानजमदेन विह्वला परवशा स्वपार्षदगणैः सहोच्चैस्तरां जगौ गानं कृतवती ननर्त च शिरांस्येव कन्दुकानि तेषां क्रीडया विजहार विहारं कृतवतीव ॥ १८ ॥

(गद्य - 19)

विश्वास-प्रस्तुतिः

एव- मेव खलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने लति ॥

मूलम्

एवमेव23 खलु महदभिचारातिक्रमः कार्त्स्न्येनात्मने24 फलति ॥ 19 ॥

अनुवाद (हिन्दी)

सच है, महापुरुषोंके प्रति किया हुआ अत्याचाररूप अपराध इसी प्रकार ज्यों-का-त्यों अपने ही ऊपर पड़ता है॥ १९॥

वीरराघवः

ननु भद्रकाल्याराधनमेवं कथं विपरीतफलं तत्राह एवमेवेति । महत्स्वभिचाररूपः हिंसारूपः हिंसारूपोऽतिक्रमोऽपराधः कार्त्स्न्येनात्मने अभिचारिनृणामेव फलति किल ॥ १९ ॥

(गद्य - 20)

विश्वास-प्रस्तुतिः

न वा एतद्विष्णुदत्त महदद्भुतं यदसंभ्रमः स्वशिरश्छेदन आपतितेपि विमुक्त- देहाद्यात्मभावसुदृढहृदयग्रन्थीनां सर्व- सत्त्व सुहृदात्मनां निर्वैराणां साक्षाद्भगवता- निमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भय- मुपसृतानां भागवतपरमहंसानाम् ॥20॥

मूलम्

न वा एत25द्विष्णुदत्त महदद्भुतं यदसम्भ्रमः स्वशिरश्छेदन आपतितेपि विमुक्तदेहाद्या26त्मभावसुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां साक्षाद्भगवतानिमिषारिवरायुधेनाप्रमत्तेन तै27स्तैर्भावैः परिरक्ष्यमाणानां तत्पादमूलमकुतश्चि28द्भयमुपसृतानां भागवतपरमहंसानाम् ॥ 20 ॥

अनुवाद (कन्नड)

विष्णुदत्त महाराजने! यार देहाभि मानरूपवाद दृढवाद हृदय ग्रन्थियु बिच्चि होगिदॆयो, यारु समस्त प्राणिगळ आत्म स्वरूपनू, सुहृदनू, वैरहीननागिरुवनो, साक्षात् भगवन्तने भद्रकालि मुन्ताद बेरॆ-बेरॆ रूपगळन्नु धरिसि ऎन्दिगू गुरितप्पदिरुव कालचक्रवॆम्ब श्रेष्ठवाद शस्त्रदिन्द रक्षिसुत्तानो, यारु भगवन्तन निर्भय चरणकमलगळन्नु आश्रयिसिरुवनो, अन्तह भगवद्भक्त परमहंसरिगॆ तम्म तलॆयु कत्तरिसि होगुव कालवु बन्दरू यावरीतिय कळवळवू उण्टागुवुदिल्ल ऎम्बुदरल्लि अद्भुतवेनू इल्ल.॥20॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्याय:॥ ९॥

वीरराघवः

नन्वेवमसंभावितमेवेदं यन्मरणाव्याकुलत्वं मारकेषु द्रोहाभावश्च तत्राह न चैतदिति । हे विष्णुदत्त ! भागवतपरमहंसानां भागवताश्च ते परमहंसाच तेषामेवंविधानां स्वशिरश्छेदे आपतिते प्राप्तेऽपि यदसंभ्रमः यः असंभ्रमः इत्येतन्महदद्भुतमतीवाश्चर्यं न भवति । परमहंसशब्दो विरक्तपरः, आङ्गिरससुतस्य चतुर्थाश्रमप्रवेशाभावात् । असंभ्रमे हेतुं वदन् विशिनष्टि मुक्तस्त्यक्तः देहादिष्वात्मभाव आत्माभिमानरूपः सुदृढो ग्रन्थिर्यैः सर्वेषु भूतेषु सुहृत्सौहार्दयुक्तः आत्मा मनो येषामत एवं निर्वैराणां देहात्माभिमानाभावाद्वैराभावाच्च व्याकुलत्वाद्यभाव इति भावः । देहात्माभिमानादिसत्त्वेऽपि न तेषां मरणभयमस्तीत्याह । साक्षाद्भगवताभिरक्ष्यमाणानां केन अनिमिषः कालः स एवारिश्वक्रं तेन वरायुधेनाप्रमत्तेनानलसेन तैस्तैर्भावैश्च भद्रकालीमारकप्रभृतिष्वपीश्वरात्मकत्वभावैश्चेति ॥ २० ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रचन्द्रिकायां नवमोऽध्यायः ॥ ९ ॥


  1. प्राचीन पुस्तके ‘भृशमुद्विजमानो’ इति प्रच्युतम् । ↩︎

  2. मत्तजडबधिरस्वरूपेण । ↩︎

  3. आत्मजस्य स विप्रः । ↩︎

  4. प्राचीने पाठे “कान्” पाठः खण्डितः । ↩︎

  5. स्वयं गृहे प्रमत्त । ↩︎

  6. निर्बन्धान्न्यवृत्स्यन्त । ↩︎

  7. नित्यवृत्तिनिमित्त । ↩︎

  8. इवापावृताङ्गः । ↩︎

  9. बन्धुरितिसंज्ञोऽतज्ज्ञ । ↩︎

  10. वेतन ईहमानः । ↩︎

  11. प्राचीने पुस्तके ‘र्म’ अयमंशः खण्डितः । ↩︎

  12. भद्रकाल्यै पशुमालभत । ↩︎

  13. प्राचीने पुस्तके ‘नि’ खण्डितः । ↩︎

  14. लाजा । ↩︎

  15. च तं पुरुष । ↩︎

  16. मालभनं । ↩︎

  17. सहसोत्थाप्य बाढं । ↩︎

  18. नृशंसामर्षरोषावेशसमुत्थभ्रुकुटि । ↩︎

  19. हन्तुकामैवेदं । ↩︎

  20. महाट्टहाससंरम्भेण । ↩︎

  21. वृषलानां । ↩︎

  22. ननर्त विजहार च । ↩︎

  23. एवं खलु । ↩︎

  24. नात्मनि फलति । ↩︎

  25. एवं विष्णुदत्त । ↩︎

  26. देहाध्यात्मभाव । ↩︎

  27. तैस्तैर्भावैरभिरक्ष्यमाणानां । ↩︎

  28. मकुतश्चन भयमुप । ↩︎