०८

[अष्टमोऽध्यायः]

भागसूचना

भरतजीका मृगके मोहमें फँसकर मृगयोनिमें जन्म लेना

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश॥

मूलम्

एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त1 उपविवेश॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—एक बार भरतजी गण्डकीमें स्नान कर नित्य-नैमित्तिक तथा शौचादि अन्य आवश्यक कृत्योंसे निवृत्त हो प्रणवका जप करते हुए तीन मुहूर्ततक नदीकी धाराके पास बैठे रहे॥ १॥

वीरराघवः

स भरत एकदा कर्हिचिन्महानद्यां चक्रनद्यां कृताभिषेकः कृतः अभिषेकः स्नानं नैयमिकं नियतमावश्यकं नित्यनैमित्तिकं च येन स ब्रह्माक्षरं प्रणवं जपन्नुदकान्ते नद्यास्तीरे मुहूर्त्तत्रयमुपविष्टवान् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्याशमेकैवोपजगाम॥

मूलम्

तत्र तदा राजन् हरिणौ पिपासया जलाशयाभ्या2शमेकैवोपजगाम॥ २ ॥

अनुवाद (हिन्दी)

राजन्! इसी समय एक हरिनी प्याससे व्याकुल हो जल पीनेके लिये अकेली ही उस नदीके तीरपर आयी॥ २॥

श्लोक-३

विश्वास-प्रस्तुतिः

तया पेपीयमान उदके तावदेवाविदूरेण नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपतत्॥

मूलम्

तया पेपीय3मान उदके तावदेवाविदूरेण नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपतत्॥ ३ ॥

अनुवाद (हिन्दी)

अभी वह जल पी ही रही थी कि पास ही गरजते हुए सिंहकी लोकभयंकर दहाड़ सुनायी पड़ी॥ ३॥

वीरराघवः

हे राजन् ! तत्र तीरे तदा भरतावस्थानसमये हरिणी एणी पिपासया जलाभ्याशं जलसमीपं प्रत्येकैवासहायैव जगाम । तया हरिण्या उदके नितरां पेपीयमाने सति अविदूरे समीप एव नदतो ध्वनिं कुर्वतो मृगपतेः सिंहस्य लोकभयङ्कर उन्नादो ध्वनिरुदपद्यत हरिण्या श्रुतोऽभवदित्यर्थः ॥ २-३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकितनिरीक्षणा सुतरामपि हरिभयाभिनिवेशव्यग्रहृदया पारिप्लवदृष्टिरगततृषा भयात् सहसैवोच्चक्राम॥

मूलम्

तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकितनिरीक्षणा सुतरामपि हरिभयाभिनिवेशव्यग्रहृदया पारिप्लवदृष्टिरगततृषा भयात् सहसैवोच्चक्राम॥ ४ ॥

अनुवाद (हिन्दी)

हरिनजाति तो स्वभावसे ही डरपोक होती है। वह पहले ही चौकन्नी होकर इधर-उधर देखती जाती थी। अब ज्यों ही उसके कानमें वह भीषण शब्द पड़ा कि सिंहके डरके मारे उसका कलेजा धड़कने लगा और नेत्र कातर हो गये। प्यास अभी बुझी न थी, किन्तु अब तो प्राणोंपर आ बनी थी। इसलिये उसने भयवश एकाकी नदी पार करनेके लिये छलाँग मारी॥ ४॥

वीरराघवः

तमुन्नादमुपश्रुत्याकर्ण्य सा मृगस्य वधूर्हरिणी प्रकृत्या स्वभावेनैव विक्लवा व्याकुला सुतरां हरिभयस्य सिंहभयस्याभिनिवेशेन व्यग्रं व्याकुलं हृदयं यस्याः सा अत एव पारिप्लवदृष्टिश्चञ्चलदृष्टिरत एव चकितनिरीक्षणा प्रतिहतनिरीक्षणा अगतानपगता तृषा पिपासा यस्याः सा तथाभूतैव सहसा आशु उच्चक्राम नदीमुलङ्घितवती ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो योनिनिर्गतो गर्भः स्रोतसि निपपात॥

मूलम्

तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो योनि4निर्गतो गर्भः स्रोतसि निपपात॥ ५ ॥

अनुवाद (हिन्दी)

उसके पेटमें गर्भ था, अतः उछलते समय अत्यन्त भयके कारण उसका गर्भ अपने स्थानसे हटकर योनिद्वारसे निकलकर नदीके प्रवाहमें गिर गया॥ ५॥

वीरराघवः

उत्पतन्त्या अन्तर्वत्न्याः पूर्णगर्भिण्याः तस्या हरिण्या गर्भ उरुभयेन सिंहमयेनावगलितः स्वस्थानात्प्रच्युतो योनेर्निर्गतः स्रोतसि प्रवाहे निपपात पतितोऽभूदित्यर्थः ॥ ५॥

श्लोक-६

विश्वास-प्रस्तुतिः

तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती निपपाताथ च ममार॥

मूलम्

तत्प्रस5वोत्सर्पणभयखेदातुरा स्वगणेन वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती निप5पाताथ च ममार॥ ६ ॥

अनुवाद (हिन्दी)

वह कृष्णमृगपत्नी अकस्मात् गर्भके गिर जाने, लम्बी छलाँग मारने तथा सिंहसे डरी होनेके कारण बहुत पीड़ित हो गयी थी। अब अपने झुंडसे भी उसका बिछोह हो गया, इसलिये वह किसी गुफामें जा पड़ी और वहीं मर गयी॥ ६॥

वीरराघवः

तत्प्रसवो गर्भपातः उत्सर्पणमुल्लङ्घनं भयं चेत्येतैः यः खेदस्तेनातुरा पीडिता स्वयूथेन वियुक्ता कृष्णसारसती कृष्णमृगवधूः कस्यांचिद्दर्यां गिरिगुहायां निपपात अथ पतनानन्तरं ममार मृतवती च ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभिवीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षिर्भरत आदाय मृतमातरमित्याश्रमपदमनयत्॥

मूलम्

तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभिवीक्ष्यापविद्धं बन्धुरिवानुकम्प6या राजर्षिर्भरत आदाय मृतमातरमित्याश्रमपदमनयत्॥ ७ ॥

अनुवाद (हिन्दी)

राजर्षि भरतने देखा कि बेचारा हरिनीका बच्चा अपने बन्धुओंसे बिछुड़कर नदीके प्रवाहमें बह रहा है। इससे उन्हें उसपर बड़ी दया आयी और वे आत्मीयके समान उस मातृहीन बच्चेको अपने आश्रमपर ले आये॥ ७॥

वीरराघवः

तत्स्रोतसा प्रवाहेणोह्यमानमेणकुणकमेणस्यापत्यमभिवीक्ष्य राजर्षिर्भरतः मृता माता यस्य तं मृतमातरं बन्धुभिः स्वपित्रादिभिरपविद्धं परित्यक्तमित्यनुकम्पया आदाय हस्ते गृहीत्वा स्वाश्रमस्थानमनयत्प्रापितवान् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

तस्य ह वा एणकुणक उच्चैरेतस्मिन् कृतनिजाभिमानस्याहरहस्तत्पोषणपालनलालनप्रीणनानुध्यानेनात्मनियमाः सहयमाः पुरुषपरिचर्यादय एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल सर्व एवोदवसन्॥

मूलम्

तस्य ह वा एणकुणक उच्चैरेतस्मिन् कृतनिजाभिमानस्याहरहस्तत्पोषणपालनलालनप्रीणनानुध्यानेनात्मनियमाः सहयमाः पुरुषपरिचर्यादय एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल सर्व एवोदवसन्॥

अनुवाद (हिन्दी)

उस मृगछौनेके प्रति भरतजीकी ममता उत्तरोत्तर बढ़ती ही गयी। वे नित्य उसके खाने-पीनेका प्रबन्ध करने, व्याघ्रादिसे बचाने, लाड़ लड़ाने और पुचकारने आदिकी चिन्तामें ही डूबे रहने लगे। कुछ ही दिनोंमें उनके यम, नियम और भगवत्पूजा आदि आवश्यक कृत्य एक-एक करके छूटने लगे और अन्तमें सभी छूट गये॥ ८॥

वीरराघवः

एतस्मिन्नेणशिशौ कृतः निजाभिमानः आत्मीयत्वाभिमानो येन तस्य भरतस्याहरहस्तस्यैणशिशोः पोषणाद्यनुध्यानेन तत्र पोषणमाहारेण पालनं व्याघ्रादिभ्यो रक्षणं प्रीणनं कण्डूयनादि लालनं करस्पर्शनं चुम्बनादि एतैर्यदनुध्यानमासक्तिस्तेनास्तरायेण भगवत्परिचर्यादयः आत्मनियमाः शौचाचारादयः सह यमाः अहिंसादिभिः सहिताः सर्व एव धर्माः प्रत्यहमेकैकशो वियुज्यमानाः सन्तः कतिपयेनाहर्गणेनोदवसन्नुत्सन्ना बभूवुः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

अहो बतायं हरिणकुणकः कृपण ईश्वररथचरणपरिभ्रमणरयेण स्वगणसुहृद‍्बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो मामेव मातापितरौ भ्रातृज्ञातीन् यौथिकांश्चैवोपेयाय नान्यं कञ्चन वेद मय्यतिविस्रब्धश्चात एव मया मत्परायणस्य पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं शरण्योपेक्षादोषविदुषा॥

मूलम्

अहो बतायं हरिणकुणकः कृपण ईश्वररथचरणपरिभ्रमणरयेण स्व7गणसुहृ8द‍्बन्धुभ्यः परिवर्जितः शरणं च9 मोपसादितो मामेव मातापितरौ भ्रातृज्ञातीन् यौथिकांश्चैवोपेया10य नान्यं कञ्चन वेद म11य्यतिविस्रब्ध12श्चात एव मया मत्परायणस्य पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं शरण्योपेक्षादोषविदुषा॥ ९ ॥

अनुवाद (हिन्दी)

उन्हें ऐसा विचार रहने लगा—‘अहो! कैसे खेदकी बात है! इस बेचारे दीन मृगछौनेको कालचक्रके वेगने अपने झुंड, सुहृद् और बन्धुओंसे दूर करके मेरी शरणमें पहुँचा दिया है। यह मुझे ही अपना माता-पिता, भाई-बन्धु और यूथके साथी-संगी समझता है। इसे मेरे सिवा और किसीका पता नहीं है और मुझमें इसका विश्वास भी बहुत है। मैं भी शरणागतकी उपेक्षा करनेमें जो दोष हैं, उन्हें जानता हूँ। इसलिये मुझे अब अपने इस आश्रितका सब प्रकारकी दोषबुद्धि छोड़कर अच्छी तरह पालन-पोषण और प्यार-दुलार करना चाहिये॥ ९॥

वीरराघवः

तदासक्तिं प्रपञ्चयति अहो इत्यादिना इति कृतानुषङ्ग इत्यन्तेन । अयं हरिणकुणकः ईश्वररथचरणं कालचक्रं तस्य परिभ्रमणवेगेन स्वगणादिभ्यो विवर्जित अत एव कृपणो दीनोऽयं मां शरणमासादितः प्राप्तश्च मामेव मातापित्रादिबुद्ध्या उपेयाय प्राप्तः यूथिकाः सङ्घातिनः मोपेयाय मामेव गोपायनं गोप्तारमधिकं मन्वानः मत्तोऽन्यं कश्चन गोप्तारं न वेद मय्येवातिविस्रब्धाऽतितरां विश्वासयुक्ता मतिर्यस्य सः । अतः कारणादेवं मत्परायणस्य मदेकशरणस्य हरिणकुणकस्य पोषणादिकम् एतस्मिन्निमित्तं मम स्वार्थो नश्यतीत्यसूयारहितेन मयावश्यमनुष्ठेयं हि यस्माच्छरण्योपेक्षा शरणागतानादरः विदुषां दोषः प्रत्यवायकरः यद्वा शरणं गन्तव्या शरण्या रक्षकत्वेन विश्वसनीयास्तेषामुपेक्षा शरणागतविषयेष्वनादरः विदुषां दोष इति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद् एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते॥

मूलम्

नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद् एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते॥ १० ॥

अनुवाद (हिन्दी)

निश्चय ही शान्त-स्वभाव और दीनोंकी रक्षा करनेवाले परोपकारी सज्जन ऐसे शरणागतकी रक्षाके लिये अपने बड़े-से-बड़े स्वार्थकी भी परवाह नहीं करते’॥ १०॥

वीरराघवः

अत एवार्याः साधवः परोपकारशीलाः उपशमस्वभावाः कृपणेषु सुहृदः सौहार्दवन्त एवंविधार्थे शरणागतरक्षणार्थे स्वार्थान् स्वप्रयोजनानि गुरुतरानपि उपेक्षन्ते गुरुतरानपि प्रयोजनमनादृत्यैवंविधशरणागतरक्षणं कुर्वन्ति नूनमित्येवं कृतानुषङ्गः कृत अनुषङ्गः आसक्तिर्येन भरतः आसनाद्यवत्थासु तत्रासनमुपवेशनमटनं सञ्चरणमशनं भोजनं कन्दमूलादीनां मृगापत्येन सह स्नेहस्तेनानुविद्धं हृदयं येन तथाभूत आसीत् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

इति कृतानुषङ्ग आसनशयनाटनस्थानाशनादिषु सह मृगजहुना स्नेहानुबद्धहृदय आसीत्॥

मूलम्

इति कृतानुषङ्ग आसनशयनाटनस्था13नाशनादिषु सह मृगजहुना स्नेहानुबद्धहृदय आसीत्॥ ११ ॥

अनुवाद (हिन्दी)

इस प्रकार उस हरिनके बच्चेमें आसक्ति बढ़ जानेसे बैठते, सोते, टहलते, ठहरते और भोजन करते समय भी उनका चित्त उसके स्नेहपाशमें बँधा रहता था॥ ११॥

श्लोक-१२

विश्वास-प्रस्तुतिः

कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो वृकसालावृकादिभ्यो भयमाशंसमानो यदा सह हरिणकुणकेन वनं समाविशति॥

मूलम्

कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो वृक14सालावृकादिभ्यो भयमाशंसमानो यदा सह हरिणकुणकेन वनं समाविशति15॥ १२ ॥

अनुवाद (हिन्दी)

जब उन्हें कुश, पुष्प, समिधा, पत्र और फल-मूलादि लाने होते तो भेड़ियों और कुत्तोंके भयसे उसे वे साथ लेकर ही वनमें जाते॥ १२॥

श्लोक-१३

विश्वास-प्रस्तुतिः

पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभरहृदयः कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग उरसि चाधायोपलालयन्मुदं परमामवाप॥

मूलम्

पथिषु च मुग्ध16भावेन तत्र तत्र विषक्तमतिप्रणयभरहृदयः कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग उरसि चाधायोपलालयन्मुदं परमामवाप॥ १३ ॥

अनुवाद (हिन्दी)

मार्गमें जहाँ-तहाँ कोमल घास आदिको देखकर मुग्धभावसे वह हरिणशावक अटक जाता तो वे अत्यन्त प्रेमपूर्ण हृदयसे दयावश उसे अपने कंधेपर चढ़ा लेते। इसी प्रकार कभी गोदमें लेकर और कभी छातीसे लगाकर उसका दुलार करनेमें भी उन्हें बड़ा सुख मिलता॥ १३॥

वीरराघवः

स्नेहानुबन्धमेवाह कुशकुसुमेत्यादिना स्वदयन्तीत्यन्तेन । कुशादीन्याहरिष्यमाणः यदि मृगेण विना गच्छामि चेत्तर्ह्येनं वृकादयो भक्षयेयुरिति बुद्धया सालावृकादिभ्यो भयमाशङ्कमानः सालावृका अरण्यश्वानः, हरिणकुणकेन सहैव वनं प्रविशति पथि पथि च मुग्धभावेन सौकुमार्येण औत्कण्ठ्येन वा विषक्तमतिरासक्तमतिर्वा गन्तुमसमर्थो भवति नेच्छति वा मृगस्तदा तं प्रणयस्य स्नेहस्योत्कर्षो यस्मिंस्तदुद्धृदयं यस्य तथाभूतो भरतः कार्पण्यान्मृगविश्लेषजडः स्वासहिष्णुत्वरूपादैन्यात् स्कन्धेनोद्वहति स्कन्धयोरारोप्य गच्छति एवमासनसमये उत्सङ्गे शयनसमये उरसि चाधाय परमां मुदमवाप प्राप्तवान् ॥ ११-१३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति॥

मूलम्

क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति॥ १४ ॥

अनुवाद (हिन्दी)

नित्य-नैमित्तिक कर्मोंको करते समय भी राजराजेश्वर भरत बीच-बीचमें उठ-उठकर उस मृगबालकको देखते और जब उसपर उनकी दृष्टि पड़ती, तभी उनके चित्तको शान्ति मिलती। उस समय उसके लिये मंगलकामना करते हुए वे कहने लगते—‘बेटा! तेरा सर्वत्र कल्याण हो’॥ १४॥

वीरराघवः

क्रियायां नित्यनैमित्तिकादिक्रियायां निर्वर्त्यमानायां क्रियमाणायां सत्यामन्तराले मध्ये क्षणे क्षणे उत्थायोत्थाय यदैनं मृगमभिचक्षीत पश्यति तर्हि वा तदा हि स वर्षपतिः भरतः प्रकृतिस्थेन मनसा तस्मै मृगाय आशिष आशास्ते आशीराशासनमेवाह स्वस्तीति । हे वत्स ! ते तुभ्यं सर्वतः सर्वत्र देशे काले च स्वस्ति स्यादिति आशास्ते । स्तादिति पाठे प्ययमेवार्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः सकरुणमतितर्षेण हरिणकुणकविरहविह्वलहृदयसन्तापस्तमेवानुशोचन् किल कश्मलं महदभिरम्भित इति होवाच॥

मूलम्

अन्यदा भृश17मुद्विग्नमना नष्टद्रविण इव कृपणः सकरुणमतितर्षेण हरिणकुणकविरहविह्वलहृदयसन्तापस्तमेवानुशोचन् किल कश्मलं महदभिरम्भित इति होवाच॥ १५ ॥

अनुवाद (हिन्दी)

कभी यदि वह दिखायी न देता तो जिसका धन लुट गया हो, उस दीन मनुष्यके समान उनका चित्त अत्यन्त उद्विग्न हो जाता और फिर वे उस हरिनीके बच्चेके विरहसे व्याकुल एवं सन्तप्त हो करुणावश अत्यन्त उत्कण्ठित एवं मोहाविष्ट हो जाते तथा शोकमग्न होकर इस प्रकार कहने लगते॥ १५॥

वीरराघवः

अन्यथा मृगस्यादर्शने तु सकरुणं यथा भवति तथा एवमनुशोचन्निति वक्ष्यमाणप्रकारेण प्रोवाचेत्यन्वयः । कथम्भूत अनुशोचन्नष्टधन इव नितरां भीतमना अतितर्षेणौत्सुक्येन हरिणकुणकसेवाविरहेण विह्वले हृदये सन्तापो यस्य महत्कश्मलं मोहमभिलम्भितः प्रापितः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

अपि बत स वै कृपण एणबालको मृतहरिणीसुतोऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन् सुजन इवागमिष्यति॥

मूलम्

अपि बत स वै कृपण एणबालको मृतहरिणीसुतोऽहो ममानार्यस्य शठकि18रातमतेरकृतसुकृतस्य कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन् सुजन19 इवागमिष्यति॥ १६ ॥

अनुवाद (हिन्दी)

‘अहो! क्या कहा जाय? क्या वह मातृहीन दीन मृगशावक दुष्ट बहेलियेकी-सी बुद्धिवाले मुझ पुण्यहीन अनार्यका विश्वास करके और मुझे अपना मानकर मेरे किये हुए अपराधोंको सत्पुरुषोंके समान भूलकर फिर लौट आयेगा?॥ १६॥

श्लोक-१७

विश्वास-प्रस्तुतिः

अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि चरन्तं देवगुप्तं द्रक्ष्यामि॥

मूलम्

अपि क्षेमेणास्मिन्नाश्रमोपवने श20ष्पाणि चरन्तं देवगुप्तं द्रक्ष्यामि॥ १७ ॥

अनुवाद (हिन्दी)

क्या मैं उसे फिर इस आश्रमके उपवनमें भगवान‍्की कृपासे सुरक्षित रहकर निर्विघ्न हरी-हरी दूब चरते देखूँगा?॥ १७॥

वीरराघवः

किमुवाच तदाह अपीति । मम तदनार्यत्वादिकमविगणयन् कृतः विश्रम्भो येन तथाभूत एवात्मप्रत्ययेन स्वबुद्ध्या एव सुजन इवागमिष्यत्यपि आगच्छेत् किं, क्षेमेण वृकादिभिरनुपहतं तत्र हेतुः दैवेन भगवता गुप्तं रक्षितं मदाश्रमसमीपवने शष्पाणि कोमलतृणानि चरन्तं भक्षयन्तमपि द्रक्ष्यामि ॥ १६-१७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

अपि च न वृकः सालावृकोऽन्यतमो वा नैकचर एकचरो वा भक्षयति॥

मूलम्

अपि च21 न वृकः सालावृकोऽन्यतमो वा नैकचर22 एकचरो वा भक्षयति॥ १८ ॥

अनुवाद (हिन्दी)

ऐसा न हो कि कोई भेड़िया, कुत्ता, गोल बाँधकर विचरनेवाले सूकरादि अथवा अकेले घूमनेवाले व्याघ्रादि ही उसे खा जायँ॥ १८॥

श्लोक-१९

विश्वास-प्रस्तुतिः

निम्लोचति ह भगवान् सकलजगत्क्षेमोदयस्त्रय्यात्माद्यापि मम न मृगवधून्यास आगच्छति॥

मूलम्

निम्लोच23ति ह भगवान् सकलजगत्क्षेमोदयस्त्रय्यात्माद्यापि मम न मृगवधून्यास आगच्छति॥ १९ ॥

अनुवाद (हिन्दी)

अरे! सम्पूर्ण जगत‍्की कुशलके लिये प्रकट होनेवाले वेदत्रयीरूप भगवान् सूर्य अस्त होना चाहते हैं; किन्तु अभीतक वह मृगीकी धरोहर लौटकर नहीं आयी!॥ १९॥

श्लोक-२०

विश्वास-प्रस्तुतिः

अपिस्विदकृतसुकृतमागत्य मां सुखयिष्यति हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृगदारकविनोदैरसन्तोषं स्वानामपनुदन्॥

मूलम्

अपिस्विदकृतसुकृतमागत्य मां सुखयिष्यति हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृगदारकविनोदैरसन्तोषं स्वानामपनुदन्॥ २० ॥

अनुवाद (हिन्दी)

क्या वह हरिणराजकुमार मुझ पुण्यहीनके पास आकर अपनी भाँति-भाँतिकी मृगशावकोचित मनोहर एवं दर्शनीय क्रीडाओंसे अपने स्वजनोंका शोक दूर करते हुए मुझे आनन्दित करेगा?॥ २०॥

वीरराघवः

वृकः शालावृको वा नैकचरो यूथचरो वराहादिसहायचरो व्याघ्रादिर्वा अपि न भक्षयति सकललोकानां क्षेमो यस्मात्स उदयो यस्य त्रयी वेद आत्मा स्वरूपं यस्य सः सूर्यो भगवान् निम्लोचत्यस्तं गच्छति किलाद्यापि मम मृगवधून्यासः निक्षेपभूतः मृगो नागच्छति हरिण एव राजकुमारः हरिणसम्बन्धिकुमारो वा आगत्य मामपि सुखयिष्यतीत्यन्वयः । किं कुर्वन् विविधैः रुचिरैर्दर्शनीयैर्मृगदारकविनोदैः स्वीयानां नः असन्तोषं खेदमपनुदन् ॥ १८-२० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

क्ष्वेलिकायां मां मृषासमाधिनाऽऽमीलितदृशं प्रेमसंरम्भेण चकितचकित आगत्य पृषदपरुषविषाणाग्रेण लुठति॥

मूलम्

क्ष्वेलिकायां मां मृषासमाधिनाऽऽमीलितदृशं प्रेमसंरम्भेण चकितचकित आग24त्य पृषदपरुषविषाणाग्रेण लुठति॥ २१ ॥

अनुवाद (हिन्दी)

अहो! जब कभी मैं प्रणयकोपसे खेलमें झूठ-मूठ समाधिके बहाने आँखें मूँदकर बैठ जाता, तब वह चकित चित्तसे मेरे पास आकर जलबिन्दुके समान कोमल और नन्हें-नन्हें सींगोंकी नोकसे किस प्रकार मेरे अंगोंको खुजलाने लगता था॥ २१॥

वीरराघवः

सम्भवति चैतदित्याह क्ष्वेलिकायां स्वेन सह क्रीडायां मृषा यः समाधिस्तेनामीलिते दृशौ येन तं प्रेमसंरम्भेण प्रणयकोपेन पृषज्जलबिन्दुः तद्वदपरुषेण मृदुना विषाणाग्रेण चकितं चकितं पुनः पुनः प्रतिहतं यथा तथा आवृत्य परितो व्यावृत्य लुठति सङ्घद्धृयति ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीतः सपद्युपरतरास ऋषिकुमारवदवहितकरणकलाप आस्ते॥

मूलम्

आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीतः सपद्युपरतरास25 ऋषिकुमारवदवहितकरणकलाप आस्ते॥ २२ ॥

अनुवाद (हिन्दी)

मैं कभी कुशोंपर हवनसामग्री रख देता और वह उन्हें दाँतोंसे खींचकर अपवित्र कर देता तो मेरे डाँटने-डपटनेपर वह अत्यन्त भयभीत होकर उसी समय सारी उछल-कूद छोड़ देता और ऋषिकुमारके समान अपनी समस्त इन्द्रियोंको रोककर चुपचाप बैठ जाता था’॥ २२॥

वीरराघवः

आसादितं हविर्यस्मिन् बर्हिषि दर्भे दूषिते दन्ताकर्षणादिना चापलत्वेन दूषिते सति मयाधिक्षिप्तः सन् भीतः तत्क्षणमेव उपरतरासः निवृत्तक्रीडः अवहितः निश्चलीकृतः करणानामिन्द्रियाणां कलापो येन एवंभूतः ऋषेः कुमारवदास्ते ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

किं वा अरे आचरितं तपस्तपस्विन्यानया यदियमवनिः सविनयकृष्णसारतनयतनुतरसुभगशिवतमाखरखुरपदपङ्‍‍क्तिभिर्द्रविणविधुरातुरस्य कृपणस्य मम द्रविणपदवीं सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति॥

मूलम्

किं वा अरे आचरितं तपस्तपस्विन्यानया यदियमवनिः सविनयकृष्णसारतनयतनुतरसुभगशिवतमाखरखुरपदपङ्‍‍क्तिभिर्द्रविणविधुरातुरस्य कृपणस्य मम26 द्रविणपदवीं सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति॥ २३ ॥

अनुवाद (हिन्दी)

[फिर पृथ्वीपर उस मृगशावकके खुरके चिह्न देखकर कहने लगते—] ‘अहो! इस तपस्विनी धरतीने ऐसा कौन-सा तप किया है जो उस अतिविनीत कृष्णसारकिशोरके छोटे-छोटे सुन्दर, सुखकारी और सुकोमल खुरोंवाले चरणोंके चिह्नोंसे मुझे, जो मैं अपना मृगधन लुट जानेसे अत्यन्त व्याकुल और दीन हो रहा हूँ, उस द्रव्यकी प्राप्तिका मार्ग दिखा रही है और स्वयं अपने शरीरको भी सर्वत्र उन पदचिह्नोंसे विभूषित कर स्वर्ग और अपवर्गके इच्छुक द्विजोंके लिये यज्ञस्थल* बना रही है॥ २३॥

पादटिप्पनी
  • शास्त्रोंमें उल्लेख आता है कि जिस भूमिमें कृष्णमृग विचरते हैं, वह अत्यन्त पवित्र और यज्ञानुष्ठानके योग्य होती है।
वीरराघवः

इति बहुधा प्रलयोत्थाय बहिर्निर्गतः सन् खुराघातभूभागोपलम्भसंभ्रान्तहृदयं आह । किं वेति । अरे अहो तपस्विन्या सम्भाव्यमानयाऽतया झित्या किं तप आचरितं यद्यस्मादियं क्षितिः सविनयस्य कृष्णसारतनयस्य तनुत्तराः सुभगाश्च शिवतमाश्च खराश्च कठिनाश्च खुराः येषु तेषां पातानां तत्राङ्कितानां पक्तिभिर्द्रविणं मृगस्तेन रहितस्यात एवातुरस्य दुःखितस्य मम द्रविणमार्गं सूचयन्ती सती स्वात्मानं च ताभिः पङ्क्तिभिः कृतमण्डनं स्वर्गापवर्गकामानां द्विजानां यज्ञभूमिं करोति “यस्मिन् देशे मृगः कृष्णस्तस्मिन् धर्मान्निबोधत” इति स्मृतेः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

अपिस्विदसौ भगवानुडुपतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया कृपणजनवत्सलः परिपाति॥

मूलम्

अपिस्विदसौ भगवानुडुपतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया कृपणजनवत्सलः परिपाति॥ २४ ॥

अनुवाद (हिन्दी)

(चन्द्रमामें मृगका-सा श्याम चिह्न देख उसे अपना ही मृग मानकर कहने लगते—) ‘अहो! जिसकी माता सिंहके भयसे मर गयी थी, आज वही मृगशिशु अपने आश्रमसे बिछुड़ गया है। अतः उसे अनाथ देखकर क्या ये दीनवत्सल भगवान् नक्षत्रनाथ दयावश उसकी रक्षा कर रहे हैं?॥ २४॥

वीरराघवः

उदिते चन्द्रे तस्मिन् मृगं दृष्ट्वा स्वमृगत्वं सम्भावयन्नाह अपिस्विदिति । सिंहभयान्मृता माता यस्य तं मदाश्रमात्परिभ्रष्टं मृगबालकं कृपणजनवत्सलोऽसौ भगवानुडुपतिश्चन्द्रः कृपयाऽपिस्वित्परिपाति ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

किं वाऽऽत्मजविश्लेषज्वरदवदहनशिखाभिरुपतप्यमानहृदयस्थलनलिनीकं मामुपसृतमृगीतनयं शिशिरशान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभिः स्वधयतीति च॥

मूलम्

किं वाऽऽत्मजविश्लेषज्वरदवदहनशिखाभिरुपतप्यमानहृदयस्थलनलिनीकं मामुपसृतमृगीतनयं शिशिरशान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभिः स्वधयतीति च27॥ २५ ॥

अनुवाद (हिन्दी)

[फिर उसकी शीतल किरणोंसे आह्लादित होकर कहने लगते—] ‘अथवा अपने पुत्रोंके वियोगरूप दावानलकी विषम ज्वालासे हृदयकमल दग्ध हो जानेके कारण मैंने एक मृगबालकका सहारा लिया था। अब उसके चले जानेसे फिर मेरा हृदय जलने लगा है; इसलिये ये अपनी शीतल, शान्त, स्नेहपूर्ण और वदनसलिलरूपा अमृतमयी किरणोंसे मुझे शान्त कर रहे हैं’॥ २५॥

वीरराघवः

चन्द्ररश्मिस्पर्शसुखं प्राप्याह । किं वेति सम्भावनायामात्मजविश्लेषेण मृगवियोगेन यो ज्वरस्तापः स एव दहनः तस्य ज्वालाभिरुपतप्यमाना हृदयरूपा स्थलनलिनी यस्य तज्जलस्थं पद्म तापं सोढुमलमिति स्थलग्रहणं उपसृतोऽनुगतः मृगीतनयो येन मां योऽयं चन्द्रः स्वधयति विश्रान्ति विगमयति कैः शिशिरवच्छान्तं च मय्यनुरागेण गुणितं चावर्तितं च पुनः पुनः स्रवत् यत्सलिलं त एवामृतमया गभस्तयः किरणास्तैः लोके हि मान्त्रिका मुखसलिलैस्तापं शमयन्तीति प्रसिद्धम् । उपसृतमृगीतनय इति पाठे मनोरथान्तरमेतत्, उपसृतः प्राप्तो मृगीतनयः किं वा स्वधयतीति शेषं सर्व समानम् ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्धकर्मणा योगारम्भणतो विभ्रंशितः स योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा जात्यन्तर एणकुणक आसङ्गः साक्षान्निःश्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमः कालः करालरभस आपद्यत॥

मूलम्

एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्धकर्मणा योगारम्भणतो विभ्रंशितः स योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा जात्यन्तर एणकुणक आसङ्गः साक्षान्निःश्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमः कालः करालरभस आपद्यत॥ २६ ॥

अनुवाद (हिन्दी)

राजन्! इस प्रकार जिनका पूरा होना सर्वथा असम्भव था, उन विविध मनोरथोंसे भरतका चित्त व्याकुल रहने लगा। अपने मृगशावकके रूपमें प्रतीत होनेवाले प्रारब्धकर्मके कारण तपस्वी भरतजी भगवदाराधनरूप कर्म एवं योगानुष्ठानसे च्युत हो गये। नहीं तो, जिन्होंने मोक्षमार्गमें साक्षात् विघ्नरूप समझकर अपने ही हृदयसे उत्पन्न दुस्त्यज पुत्रादिको भी त्याग दिया था, उन्हींकी अन्यजातीय हरिणशिशुमें ऐसी आसक्ति कैसे हो सकती थी। इस प्रकार राजर्षि भरत विघ्नोंके वशीभूत होकर योगसाधनसे भ्रष्ट हो गये और उस मृगछौनेके पालन-पोषण और लाड़-प्यारमें ही लगे रहकर आत्मस्वरूपको भूल गये। इसी समय जिसका टलना अत्यन्त कठिन है, वह प्रबल वेगशाली कराल काल, जैसे चूहेके बिलमें सर्प घुस आये, उसी प्रकार उनके सिरपर चढ़ आया॥ २६॥

वीरराघवः

इत्युक्तरीत्या एवंशब्दोऽनुक्तमनोरथान्तरद्योतकः, उक्ता अनुक्ताश्चाघटमानाः ये मनोरथास्तैराकृष्टं हृदयं यस्य स भरतः मृगदारकाभासेन मृगपुत्रव्याजेन प्रारब्धकर्मणामन्तरायभूतेन योगारम्भणतः ज्ञानयोगारम्भात्स्वयोगतपसः स्ववर्णाश्रमोचितकर्मयोगरूपात्तपसः भगवदाराधनलक्षणाद्भगवद्भक्तिरूपाश्च तपसः विभ्रंशितो विभ्रष्टोऽभूत् । प्रारब्धकर्मत्वे हेतुः कथमितरथेति इतरथा प्रारब्धकर्ममूलत्वाभावे मृगदारकासक्तिः जात्यन्तरैणकुणके साक्षात् स्वपुत्र इव कथमासङ्गः स्यात् । श्रेयसः प्रतिपक्षतया मुक्तिविरोधितया पूर्वं परित्यक्ताः दुस्त्यजाः हृदयाभिजाताः औरसा येन तस्यैव पुनरेवंविधेनान्तरायेण विहतो योगारम्भो यस्य तस्य राजर्षेर्भरतस्य मृगार्भकस्य पोषणादिनिमित्तेनानुषङ्गेणात्मानमविगणयतः प्रमत्तस्य तावदेव करालरभसः तीव्रवेगः कालः मृत्युकालः दुरतिक्रमः अवर्जनीयः मूषकबिलं प्रत्यहिः सर्प इवापद्यत प्राप्तः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मानुस्मृतिरितरवन्मृगशरीरमवाप॥

मूलम्

तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य लोकमिमं सह मृगेण कलेवरं मृ28तमनु न मृतजन्मानुस्मृति29रितरवन्मृगशरीरमवाप॥ २७ ॥

अनुवाद (हिन्दी)

उस समय भी वह हरिणशावक उनके पास बैठा पुत्रके समान शोकातुर हो रहा था। वे उसे इस स्थितिमें देख रहे थे और उनका चित्त उसीमें लग रहा था। इस प्रकारकी आसक्तिमें ही मृगके साथ उनका शरीर भी छूट गया। तदनन्तर उन्हें अन्तकालकी भावनाके अनुसार अन्य साधारण पुरुषोंके समान मृगशरीर ही मिला। किन्तु उनकी साधना पूरी थी, इससे उनकी पूर्वजन्मकी स्मृति नष्ट नहीं हुई॥ २७॥

वीरराघवः

स भरतस्तदानीमपि मरणसमयेऽपि स्वपार्श्ववर्तिनं मृगमात्मजमिवानुशोचन्तमभिवीक्षमाण आत्मीयाभिमानेन पश्यन् मृगमिवासक्तमना, इमं देहं मृगेण सह विसृज्य कलेवरमन्वनुसृत्य अमृता अविनष्टा पूर्वजन्मानुस्मृतिर्यस्य तथाभूतः इतरवत्प्राकृतवन्मृगशरीरमवाप । “यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय ! सदा तद्भावभावितः ॥” इत्युक्तरीत्या मृगमनुस्मरन्मृगत्वमेवावापेत्यर्थः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधनसमीहानुभावेनानुस्मृत्य भृशमनुतप्यमान आह॥

मूलम्

तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधनसमीहानुभावेनानुस्मृत्य भृशमनुतप्यमान आह॥ २८ ॥

अनुवाद (हिन्दी)

उस योनिमें भी पूर्वजन्मकी भगवदाराधनाके प्रभावसे अपने मृगरूप होनेका कारण जानकर वे अत्यन्त पश्चात्ताप करते हुए कहने लगे,॥ २८॥

वीरराघवः

तत्र मृगजन्मन्यात्मनः मृगत्वनिमित्तं पौर्वभवभगवदाराधनानुष्ठानप्रभावेण मृगासङ्ग एवेत्यनुस्मृत्य नितरामनुतप्यमान आह ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्यात्मवत आत्मनि सर्वेषामात्मनां भगवति वासुदेवे तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्यसकलयामेन कालेन समावेशितं समाहितं कात्स्‍न्‍‍‍र्ये मनस्तत्तु पुनर्ममाबुधस्यारान्मृगसुतमनुपरिसुस्राव॥

मूलम्

अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्यात्मवत आ30त्मनि सर्वेषामात्मनां भगवति वासुदेवे तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्यसकलया31मेन कालेन समावेशितं समाहितं कात्स्‍न्‍‍‍र्येन मनस्तत्तु पुनर्ममाबुधस्यारान्मृगसुतमनु परिसुस्राव॥ २९ ॥

अनुवाद (हिन्दी)

‘अहो! बड़े खेदकी बात है, मैं संयमशील महानुभावोंके मार्गसे पतित हो गया! मैंने तो धैर्यपूर्वक सब प्रकारकी आसक्ति छोड़कर एकान्त और पवित्र वनका आश्रय लिया था। वहाँ रहकर जिस चित्तको मैंने सर्वभूतात्मा श्रीवासुदेवमें, निरन्तर उन्हींके गुणोंका श्रवण, मनन और संकीर्तन करके तथा प्रत्येक पलको उन्हींकी आराधना और स्मरणादिसे सफल करके, स्थिरभावसे पूर्णतया लगा दिया था, मुझ अज्ञानीका वही मन अकस्मात् एक नन्हे-से हरिण-शिशुके पीछे अपने लक्ष्यसे च्युत हो गया!’॥ २९॥

वीरराघवः

तदेवाह अहो इति । आत्मविदां ज्ञानिनामनुपथान्मार्गानुसरणादहं भ्रष्टः अहो कष्टमिति खेदं प्राप्तस्तमेवाह । यद्यस्मात्त्यक्ताः समस्ता देहतदनुबन्धिसङ्गा येन विविक्तं निर्जनं पुण्यारण्यं तदेव शरणं गृहं यस्य आत्मवतः जितेन्द्रियस्य मम सर्वेषां भूतानामन्तरात्मभूते भगवति वासुदेवे तस्य भगवतः अनुश्रवणाद्यभिनिवेशेनाशून्याः सकला यामा यस्मिंस्तेन कालेन सम्यगावेशितं कार्त्स्न्येन सर्वविषयेभ्यः समाहितं प्रत्याहतं यन्मनस्तदेव पुनरधुना रागान्मृगसङ्गादबुधस्य मम मृगसुतमनुसृत्य परितः कार्त्स्न्येन योगात् सुस्राव भ्रंशितम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरात्प्रत्याजगाम॥

मूलम्

इत्येवं निगू32ढनिर्वेदो विसृज्य मृगीं मातरं पुनर्भगवत्क्षेत्रमुपशमशील33मुनिगणदयितं शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरात्प्रत्याजगाम॥ ३० ॥

अनुवाद (हिन्दी)

इस प्रकार मृग बने हुए राजर्षि भरतके हृदयमें जो वैराग्य-भावना जाग्रत् हुई, उसे छिपाये रखकर उन्होंने अपनी माता मृगीको त्याग दिया और अपनी जन्मभूमि कालंजर पर्वतसे वे फिर शान्तस्वभाव मुनियोंके प्रिय उसी शालग्रामतीर्थमें, जो भगवान‍्का क्षेत्र है, पुलस्त्य और पुलह ऋषिके आश्रमपर चले आये॥ ३०॥

वीरराघवः

इत्येवं निगूढः अनाविष्कृतो निर्वेदो येन सः मातरं मृगीं हरिणीं विसृज्य उपशमशीलानां दयितं प्रियं भगवदभिव्यक्तिस्थानं शालग्रामाख्यं पुलहाश्रमं प्रति कालंजराख्यात्वोत्पत्तिस्थानात्पर्वतादाजगाम ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च भृशमुद्विग्न आत्मसहचरः शुष्कपर्णतृणवीरुधा वर्तमानो मृगत्वनिमित्तावसानमेव गणयन्मृगशरीरं तीर्थोदकक्लिन्नमुत्ससर्ज॥

मूलम्

तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च भृशमुद्विग्न आत्मसहचरः शुष्कपर्णतृणवीरुधा वर्तमानो मृगत्वनिमित्तावसानमेव गणयन्मृगशरीरं तीर्थोदकक्लिन्नमुत्ससर्ज॥ ३१ ॥

अनुवाद (हिन्दी)

वहाँ रहकर भी वे कालकी ही प्रतीक्षा करने लगे। आसक्तिसे उन्हें बड़ा भय लगने लगा था। बस, अकेले रहकर वे सूखे पत्ते, घास और झाड़ियोंद्वारा निर्वाह करते मृगयोनिकी प्राप्ति करानेवाले प्रारब्धके क्षयकी बाट देखते रहे। अन्तमें उन्होंने अपने शरीरका आधा भाग गण्डकीके जलमें डुबाये रखकर उस मृगशरीरको छोड़ दिया॥ ३१॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चम34स्कन्धे भरतचरितेऽष्टमोऽध्यायः॥ ८ ॥

वीरराघवः

तस्मिन्पुलहाश्रमे आत्मैव सहचरः सहायो यस्य एकाकी सन्नल्पं कालं मृगदेहावसानकालं प्रतीक्षमाणः सङ्गात्कस्यचिदपि सङ्गान्नितरां भीतः शुष्कपर्णादिना आहारेण वर्तमानः कालं नयन्नात्मनो मृगनिमित्तस्य प्रारब्धस्यावसानमेव गणयन् तीर्थोदके क्लिन्नमार्द्रम् अर्द्धोदकस्थितं मृगशरीरमुत्ससर्ज तत्याज ॥ ३१ ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायाम् अष्टमोऽध्यायः ॥ ८ ॥


  1. मुदकान्तम् । ↩︎

  2. प्राचीने पाठे ‘श’ इत्यंशः खण्डितः । ↩︎

  3. तथा पीयमान उदके । ↩︎

  4. प्राचीने पुस्तके ‘योनिनिर्गतः’ इति नास्ति । ↩︎

  5. प्राचीने पाठे ‘तत्प्रसव’ इयानंशो न । ↩︎ ↩︎

  6. रिवानुकम्पितया । ↩︎

  7. प्राचीने पाठ ‘स्व’ इति न । ↩︎

  8. सुहृद्बन्धुभिः । ↩︎

  9. शरणं ममोपसादितो । ↩︎

  10. प्राचीने पाठे ‘याय’ इयानंशः खण्डितः । ↩︎

  11. प्राचीने पाठ ‘मय्य’ इत्यंशः खण्डितः । ↩︎

  12. मय्यधिश्रब्ध एवं । ↩︎

  13. नटिनकुसुमकुशाशनादिषु सह मृगजातिना । ↩︎

  14. वृकशा । ↩︎

  15. समाविशत् । ↩︎

  16. शुद्धभावेन । ↩︎

  17. तु भृश । ↩︎

  18. शठकितवमतेरकृतस्य । ↩︎

  19. स्वजन इवा । ↩︎

  20. सस्यानि । ↩︎

  21. अपि न वृकः शालावृको वा । ↩︎

  22. नैकचरो वा भक्षयति । ↩︎

  23. निम्लोचयति । ↩︎

  24. आवृत्य । ↩︎

  25. सपद्युपरतराग । ↩︎

  26. मे । ↩︎

  27. प्राचीनपाठे ‘च’ इति पाठो न । ↩︎

  28. कलेवरं न नु मृतजन्मा । ↩︎

  29. प्राचीनपाठे ‘रि’ इति पाठः खण्डितः । ↩︎

  30. प्राचीने पाठे ‘आ’ इत्यंशः खण्डितः । ↩︎

  31. सकलकालेन । ↩︎

  32. निरूढनिर्वेदो । ↩︎

  33. मुनिगणार्चितं दयितं । ↩︎

  34. पञ्चमे स्कन्धे आदिभरतचरितेऽष्ट । ↩︎