[सप्तमोऽध्यायः]
श्लोक-१
मूलम् (वचनम्)
श्रीशुक1 उवाच
विश्वास-प्रस्तुतिः
भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे॥
मूलम्
भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—राजन्! महाराज भरत बड़े ही भगवद्भक्त थे। भगवान् ऋषभदेवने अपने संकल्पमात्रसे उन्हें पृथ्वीकी रक्षा करनेके लिये नियुक्त कर दिया। उन्होंने उनकी आज्ञामें स्थित रहकर विश्वरूपकी कन्या पंचजनीसे विवाह किया॥ १॥
वीरराघवः
एवमृषभचरितमुपवर्ण्य इदानीं तत्फलस्यास्य भरतस्य चरित्रमुपवर्णयति षड्भिरध्यायैः भरत इति । महाभागवतो भरतो यदा भगवता ऋषभेणावनितलपरिपालनाय सञ्चिन्तितः संनियुक्तः तदा तदनुशासनपरः भूतलानुशासनपरः विश्वरूपस्य दुहितरं पञ्चजनीं नामोपयेमे विवाहितवान् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तस्यामु ह वा आत्मजान् कार्त्स्न्येनानुरूपानात्मनः पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि॥
मूलम्
तस्यामु ह वा आत्मजान् कार्त्स्न्येनानुरूपानात्मनः पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि॥ २ ॥
वीरराघवः
तस्यामुवाव पञ्चजन्यां ह्यात्मनः स्वस्य कार्त्स्न्येनानुरूपान् पञ्चात्मजान् सुमत्यादीनुत्पादयमास यथा भूतादिस्तामसोऽहङ्कारो भूतसूक्ष्माणि शब्दस्पर्शादीनीति सारूप्ये सन्ततिवृद्धौ च दृष्टान्तः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति। अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशन्ति॥
मूलम्
सुमतिं राष्ट्रभृतं सु2दर्शनमावरणं धूम्रकेतुमिति । अजनाभं3 नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशन्ति॥ ३ ॥
अनुवाद (हिन्दी)
जिस प्रकार तामस अहंकारसे शब्दादि पाँच भूततन्मात्र उत्पन्न होते हैं—उसी प्रकार पंचजनीके गर्भसे उनके सुमति, राष्ट्रभृत्, सुदर्शन, आवरण और धूम्रकेतु नामक पाँच पुत्र हुए—जो सर्वथा उन्हींके समान थे। इस वर्षको, जिसका नाम पहले अजनाभवर्ष था, राजा भरतके समयसे ही ‘भारतवर्ष’ कहते हैं॥ २-३॥
वीरराघवः
पूर्वमजनाभाख्यमेतद्वर्षं यतो यद्भरताधिपत्यादाराभ्य भारतं समुदाहरन्ति स भरतो बहुज्ञः महीपतिः पित्रादिवदतितरां वात्सल्येन स्वस्ववर्णाश्रमोचिते कर्मणि वर्त्तमानः प्रजाः स्वयमपि स्वधर्ममनुवर्तमानः पर्यपालयत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
स बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः पर्यपालयत्॥
मूलम्
स4 बहुविन्महीपतिः पितृपिता5महवदुरुवत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः पर्यपालयत्॥ ४ ॥
अनुवाद (हिन्दी)
महाराज भरत बहुज्ञ थे। वे अपने-अपने कर्मोंमें लगी हुई प्रजाका अपने बाप-दादोंके समान स्वधर्ममें स्थित रहते हुए अत्यन्त वात्सल्यभावसे पालन करने लगे॥ ४॥
वीरराघवः
ईजे चेत्यादिप्रकृतिविकृतिभिरित्यन्तमेकं वाक्यं, उच्चावचैर्नानारूपैर्यज्ञक्रतुभिः यज्ञो यजनं देवतां प्रति द्रव्यत्यागात्मकैः क्रतुभिर्यज्ञपुरुषं भगवन्तमीजे इष्टवान् । क्रतूनेव प्रपञ्चयति अग्निहोत्रादीनां प्रकृतिविकृतिभिरिति । यत्र पूर्णमङ्गजातमुपदिष्टं सेष्टिः प्रकृतिः यथा आग्नेयीष्टिः ययान्यत्रोक्तमङ्गजातमुपजीव्यते सा विकृतिः यथा सौर्येष्टिः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचैः श्रद्धयाऽऽहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना॥
मूलम्
ईजे च भगवन्तं यज्ञक्रतु6रूपं क्रतुभिरुच्चावचैः श्रद्धयाऽऽहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना॥ ५ ॥
अनुवाद (हिन्दी)
उन्होंने होता, अध्वर्यु, उद्गाता और ब्रह्मा—इन चार ऋत्विजों द्वारा कराये जानेवाले प्रकृति और विकृति* दोनों प्रकारके अग्निहोत्र, दर्श, पूर्णमास, चातुर्मास्य, पशु और सोम आदि छोटे-बड़े क्रतुओं (यज्ञों)-से यथासमय श्रद्धापूर्वक यज्ञ और क्रतुरूप श्रीभगवान्का यजन किया॥ ५॥
पादटिप्पनी
- प्रकृति और विकृति-भेदसे अग्निहोत्रादि क्रतु दो प्रकारके होते हैं। सम्पूर्ण अंगोंसे युक्त क्रतुओंको ‘प्रकृति’ कहते हैं और जिनमें सब अंग पूर्ण नहीं होते, किसी-न-किसी अंगकी कमी रहती है, उन्हें ‘विकृति’ कहते हैं।
वीरराघवः
यजनप्रकारमेवाह । अनुसवनं प्रातरादिसवनत्रये चातुर्होत्रविधिना चातुर्होत्रं चतुर्भिर्ऋत्विगुभिः क्रियमाणं यज्ञादि कर्म तद्विध्यनुगुणमित्यर्थः, विरचिताः अङ्गक्रिया येषु तेषु नानायागेषु सम्प्रचरत्सु प्रवर्तमानेषु सत्सु तत्र यागेषु धर्माख्यं योगसाध्यं धर्म इति व्यपदिश्यमानमपूर्वापरपर्यायं क्रियाफलं तद्भगवति वासुदेवे भावयमानः भगवदनुग्रहरूपमिति मन्वानः क्षणविध्वंसिनो यागादेः कालान्तर्भाविस्वर्गादिफलसाधनत्वानुपपत्त्या तान्त्रिकैर्यदभ्युपेतं यागशक्त्यात्मकमपूर्वं यागजन्यं फलसाधनमिति तदपोह्य “इष्टापूर्तं बहुधा जातं जायमानं विश्वम् बिभर्ति भुवनस्य नाभिः । तदेवाग्निस्तद्वायुः ।” इति श्रुत्युक्तरीत्या इन्द्रादिदेवतान्तर्यामितयावस्थितस्य भगवतोऽनुग्रह, एवापूर्वस्थानीय इति भावयमान इत्यर्थः । तदेव विशदयन् भगवन्तं विशिनष्टि । सर्वदेवतालिङ्गानाम् उद्देश्यत्वेन स्मृतानां देवतालिङ्गानि स्मारकाणि चिह्नानि येषु तेषां मन्त्राणामर्थनियामकतया अर्थोऽभिधेय इन्द्रादिस्तस्य नियामकतयान्तः प्रविश्य धारकत्वेन नियन्तृतया प्रयोजननिर्वाहकतया वा साक्षादेव कर्तरि द्रष्टरि ‘मन्त्रकृतो वृणीते’तिवदयं निर्देशः । यद्वा कर्त्तरि फलोत्पादयितरि कर्मणः फलसाधनत्वानुपपत्त्यापि नापूर्वं कल्प्यं किन्तु रात्रिसत्रप्रतिष्ठाफलवत् ‘त्रिसरावैनमिन्द्रः प्रजया पशुभिस्तर्पयतीति, वायुर्वैक्षेपिष्ठा देवते"त्याद्यर्थवादैः फलप्रदतयावनताग्नीन्द्रादिदेवतायाः ‘तदेवाग्निस्तद्वायुरि’त्युक्तरीत्यान्तर्यामितयावगतब्रह्मण एव फलप्रदत्वमित्यास्थेयम् । तदेवाह यज्ञपुरुषे यज्ञोद्देश्येन्द्रादिपुरुषरूपे परब्रह्मणि परदेवतायामिति एवं भावनमेवात्मनो नैपुण्यं कौशलं तेन मृदिता निरस्ताः कषायाः कर्मवासना रागादयो वा यस्य । अध्वर्युभिरिति बहुवचनं नानाकर्माभिप्रायेण, हविःषु चरुपुरोडाशाज्यादिषु गृह्यमाणेषु होमार्थमिति शेषः, यजमानः स्वयं यज्ञैर्भाज्यन्त आराध्यन्त इति यज्ञभाजो देवा इन्द्रादयस्तान् पुरुषस्य परमपुरुषस्यावयवेष्वभ्यध्यायत् “यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिचरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रं लोकपाला भुजेष्वासन्” इत्यादिद्वैरूप्यप्रतिपादकशास्त्रानुसारेणानुसंहितवानित्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवताया भगवति वासुदेव एव भावयमान आत्मनैपुण्यमृदितकषायो हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान् पुरुषावयवेष्वभ्यध्यायत्॥
मूलम्
सम्प्रचरत्सु नाना7यागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव8 भावयमान आत्मनैपुण्यमृदितकषायो हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान् पुरुषावयवेष्वभ्यध्यायत्॥ ६ ॥
अनुवाद (हिन्दी)
इस प्रकार अंग और क्रियाओंके सहित भिन्न-भिन्न यज्ञोंके अनुष्ठानके समय जब अध्वर्युगण आहुति देनेके लिये हवि हाथमें लेते, तो यजमान भरत उस यज्ञकर्मसे होनेवाले पुण्यरूप फलको यज्ञपुरुष भगवान् वासुदेवके अर्पण कर देते थे। वस्तुतः वे परब्रह्म ही इन्द्रादि समस्त देवताओंके प्रकाशक, मन्त्रोंके वास्तविक प्रतिपाद्य तथा उन देवताओंके भी नियामक होनेसे मुख्य कर्ता एवं प्रधान देव हैं। इस प्रकार अपनी भगवदर्पण बुद्धिरूप कुशलतासे हृदयके राग-द्वेषादि मलोंका मार्जन करते हुए वे सूर्यादि सभी यज्ञभोक्ता देवताओंका भगवान्के नेत्रादि अवयवोंके रूपमें चिन्तन करते थे॥ ६॥
श्लोक-७
विश्वास-प्रस्तुतिः
एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत॥
मूलम्
एवं कर्मविशुद्ध्या9 विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपोपलक्षणे10 श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण विरोच11मान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत॥ ७ ॥
अनुवाद (हिन्दी)
इस तरह कर्मकी शुद्धिसे उनका अन्तःकरण शुद्ध हो गया। तब उन्हें अन्तर्यामीरूपसे विराजमान, हृदयाकाशमें ही अभिव्यक्त होनेवाले, ब्रह्मस्वरूप एवं महापुरुषोंके लक्षणोंसे उपलक्षित भगवान् वासुदेवमें—जो श्रीवत्स, कौस्तुभ, वनमाला, चक्र, शंख और गदा आदिसे सुशोभित तथा नारदादि निजजनोंके हृदयोंमें चित्रके समान निश्चलभावसे स्थित रहते हैं—दिन-दिन वेगपूर्वक बढ़नेवाली उत्कृष्ट भक्ति प्राप्त हुई॥ ७॥
वीरराघवः
एवं भगवदाराधनरूपकर्मयोगाद्यनुगृहीतो भक्तियोगोऽप्यजायतेत्याह । एवमुक्तविधकर्मविशुद्धया शुद्धान्तःकरणस्य तस्य भगवत्युच्चैस्तरामतितरां प्रतिदिनमेधमानो वर्द्धमानो रय उत्कर्षो यस्याः सा भक्तिरजायतेत्यन्वयः । भगवन्तं विशिनष्टि । अन्तः शरीरान्तःस्थितं यद्धृदयं पुण्डरीकाकारं तस्मिन् य आकाशः दहरः स शरीरं रूपं यस्य हृदयपुण्डरीकान्तर्वर्तिदहराकाशरूपे दहराकाशस्य परमात्मत्वात् । यद्वा हृदयकोशस्य शरीरे शिलापुत्रकस्य शरीरमितिवदयं निर्देशः । यद्वात्र हृदयाकाशशब्दो हृदयान्तर्वर्तिभूताकाशपरः, स शरीरं यस्य तस्मिन्निति हृदये आकाशते प्रकाशत इति हृदयाकाशो जीवः स शरीरं यस्येति वा । ब्रह्मणि स्वरूपेण गुणैश्च निरतिशयबृहति भगवति षाड्गुण्यपूर्णे वासुदेवे सर्वान्तरात्मतया दीव्यमाने महापुरुषरूपमुपलक्षणमाकारो यस्य तस्मिन् श्रीवत्सादिभिरुपलक्षिते अरिश्चक्र दरः शङ्खः असिः खड्गः निजपुरुषाणां भक्तानां हृदि लिखिते लिखितवन्निश्चलतयेत्यर्थः, स्थिते तेनोक्तपुरुषरूपेण स्वात्मनि स्वमनसि विरोचमाने ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्स्वनिकेतात् पुलहाश्रमं प्रवव्राज॥
मूलम्
एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरो12ऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपै13तामहं यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्स्वनिकेतात् पुलहा14श्रमं प्रवव्राज॥ ८ ॥
अनुवाद (हिन्दी)
इस प्रकार एक करोड़ वर्ष निकल जानेपर उन्होंने राज्यभोगका प्रारब्ध क्षीण हुआ जानकर अपनी भोगी हुई वंशपरम्परागत सम्पत्तिको यथायोग्य पुत्रोंमें बाँट दिया। फिर अपने सर्वसम्पत्तिसम्पन्न राजमहलसे निकलकर वे पुलहाश्रम (हरिहरक्षेत्र)-में चले आये॥ ८॥
वीरराघवः
एवमुक्तया वृत्त्या वर्षाणामयुतानि तेषां सहस्राणि तेषामन्ते तत्पर्यन्ते कालेऽवसितो निश्चितः कर्मनिर्वाणावसरः राज्यभोगादृष्टसमाप्तिसमयो येन सः अधिकृत्य भुज्यमानं पित्रादिपरम्पराया आगतमृक्थं धनं स्वतनयेभ्यो यथाविभागं विभज्य दत्त्वा स्वयं सकलानां सम्पदां निकेतादाश्रयात् स्वनिकेतात्स्वगृहात्पुलहाश्रमं शालिग्रामक्षेत्रं प्रति प्रवव्राज जगाम ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन संनिधाप्यत इच्छारूपेण॥
मूलम्
यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन संनिधाप्य15त इच्छारूपेण॥ ९ ॥
पादटिप्पनी
इस पुलहाश्रममें रहनेवाले भक्तोंपर भगवान्का बड़ा ही वात्सल्य है। वे आज भी उनसे उनके इष्टरूपमें मिलते रहते हैं॥ ९॥
वीरराघवः
कोऽसौ पुलहाश्रमः यं प्रवव्राजेत्याह गद्यद्वयेन । यत्र ह पुलहाश्रमे भगवान् हरिरधुनापि निजजनानां वात्सल्येन निजजनविषयकवात्सल्येन स्वेच्छापरिगृहीतरूपेण सन्निधाप्यते सन्निहितो भवतीत्यर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
यत्राश्रमपदान्युभयतोनाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वतः पवित्रीकरोति॥
मूलम्
यत्राश्रमपदान्युभयतोनाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वतः पवित्रीकरोति॥ १० ॥
अनुवाद (हिन्दी)
वहाँ चक्रनदी (गण्डकी) नामकी प्रसिद्ध सरिता चक्राकार शालग्राम-शिलाओंसे, जिनके ऊपर-नीचे दोनों ओर नाभिके समान चिह्न होते हैं, सब ओरसे ऋषियोंके आश्रमोंको पवित्र करती रहती है॥ १०॥
वीरराघवः
यत्राश्रमस्थानान्युभयतः उपर्यधश्च नाभिर्येषां तैर्दृषच्चक्रैः शिलामध्यगैश्चक्रैर्निमित्तभूतैश्चक्रनद्याख्या सरितां प्रवरा श्रेष्ठा सर्वतः पवित्रीकरोति ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूलफलोपहारैश्च समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशमः परां निर्वृतिमवाप॥
मूलम्
तस्मिन् वा16व किल स एकलः पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूलफलोपहारैश्च समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशमः परां निर्वृतिमवाप॥ ११ ॥
अनुवाद (हिन्दी)
उस पुलहाश्रमके उपवनमें एकान्त स्थानमें अकेले ही रहकर वे अनेक प्रकारके पत्र, पुष्प, तुलसीदल, जल और कन्द-मूल-फलादि उपहारोंसे भगवान्की आराधना करने लगे। इससे उनका अन्तःकरण समस्त विषयाभिलाषाओंसे निवृत्त होकर शान्त हो गया और उन्हें परम आनन्द प्राप्त हुआ॥ ११॥
वीरराघवः
तस्मिन् पुलहाश्रमोपवने एकलः असहायः नानाविधैः कुसुमादिभिः कन्दादिरूपैरुपहारैनैवेद्यैश्च भगवत आराधनं समीहमानः कुर्वाणः विविक्तः विशुद्धाहारः उपरतो निवृत्तो विषयेष्वभिलाषो यस्य अत एवोपभृतः समृद्धः उपशमः बाह्यान्तःकरणनिग्रहो यस्य सः निर्वृतिं प्रीतिरूपां परां भक्तिमवाप ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्युद्भिद्यमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धावलोकनयन एवं निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीरहृदयह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां न सस्मार॥
मूलम्
तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्युद्भिद्यमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धावलोकनयन 17एवं निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीरहृदयह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां न सस्मार॥ १२ ॥
अनुवाद (हिन्दी)
इस प्रकार जब वे नियमपूर्वक भगवान्की परिचर्या करने लगे, तब उससे प्रेमका वेग बढ़ता गया—जिससे उनका हृदय द्रवीभूत होकर शान्त हो गया, आनन्दके प्रबल वेगसे शरीरमें रोमांच होने लगा तथा उत्कण्ठाके कारण नेत्रोंमें प्रेमके आँसू उमड़ आये, जिससे उनकी दृष्टि रुक गयी। अन्तमें जब अपने प्रियतमके अरुण चरणारविन्दोंके ध्यानसे भक्तियोगका आविर्भाव हुआ, तब परमानन्दसे सराबोर हृदयरूप गम्भीर सरोवरमें बुद्धिके डूब जानेसे उन्हें उस नियमपूर्वक की जानेवाली भगवत्पूजाका भी स्मरण न रहा॥ १२॥
वीरराघवः
एतदेव प्रपञ्चयति गद्यद्वयेन । एवं तयोक्तविधया अविच्छिन्नपरमपुरुषपरिचर्यया सर्वान्तरात्मनि भगवति निरतिशयकीर्ती प्रवर्द्धमानो यः अनुरागः प्रेमा तस्य बलेन उत्कर्षेण यत् द्रुतं द्रवीभूतं हृदयं तेन शैथिल्यमनुद्यमो यस्य प्रहर्षवेगेनानन्दातिशयेनात्मनि देहे उद्भिद्यमाने रोमपुलककुलं रोमाञ्चवृन्दं यस्य समासान्तः ककारः, औत्कण्ठ्येनातिवृत्तेन प्रणयानन्दबाष्पेण निरुद्धोऽवलोको ययोस्ते नयने यस्य सः । अभिरेमे उपररामेत्यर्थः । एवं वर्त्तमानः तामपि क्रियां भगवत्सपर्यां न सस्मार । तत्र हेतुं वदन् विशिनष्टि । निजरमणस्य निरतिशयप्रीतिविषयस्य भगवतोऽरुणे चरणारविन्दे तयोरनुध्यानेनोपचितः समृद्धः यो भक्तियोगः कृत्स्नः शुभाश्रयविषयः तेन परिप्लुतः सर्वतो व्याप्तः परमाह्लादः परमानन्दो यस्मिन् सः गम्भीरो हृदयहृदस्तस्मिन्नेव गाढा निमग्ना धिषणा बुद्धिर्यस्य सः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिलजटाकलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठन्नेतदु होवाच—॥
मूलम्
इत्थं धृतभगवद्व्रत18ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिलजटाकलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठन्नेतदु होवाच—॥ १३ ॥
अनुवाद (हिन्दी)
इस प्रकार वे भगवत्सेवाके नियममें ही तत्पर रहते थे, शरीरपर कृष्णमृगचर्म धारण करते थे तथा त्रिकालस्नानके कारण भीगते रहनेसे उनके केश भूरी-भूरी घुँघराली लटोंमें परिणत हो गये थे, जिनसे वे बड़े ही सुहावने लगते थे। वे उदित हुए सूर्यमण्डलमें सूर्यसम्बन्धिनी ऋचाओंद्वारा ज्योतिर्मय परमपुरुष भगवान् नारायणकी आराधना करते और इस प्रकार कहते—॥ १३॥
वीरराघवः
एवं धृतानि भगवद्व्रतानि येन सः एण्या हरिण्याश्चर्म ऐणेयं तदेव वासस्तेनानुसवनं कालत्रये अभिषेकेण स्नानेन आर्द्रा कपिशाश्च कुटिलाश्च या जटास्तासां समूहेन विरोचमानः सूर्यमण्डले उद्गच्छति सति स्वयमुपतिष्ठन् सूर्यमण्डलस्थं हिरण्मयम् “एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी" इत्यन्तरादित्यविद्योक्तं भगवन्तं सूर्य वा सूर्य्यान्तर्वर्तिभगवत्प्रकाशिकया ऋचा वक्ष्यमाणया यजन् भजन् ऋगुक्तप्रकारं ध्यायन्नित्यर्थः । एतदृगात्मकं वाक्यमुवाच ह ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
परोरजः सवितुर्जातवेदो
देवस्य भर्गो मनसेदं जजान।
सुरेतसादः पुनराविश्य चष्टे
हंसं गृध्राणं नृषद्रिङ्गिरामिमः॥
मूलम्
परोरजः सवितुर्जातवेदो देवस्य भर्गो मनसेदं जजान।
सुरे19तसादः पुनराविश्य चष्टे हंसं20 गृध्राणं नृषद्रिङ्गिरामिमः॥ १४ ॥
अनुवाद (हिन्दी)
‘भगवान् सूर्यका कर्मफलदायक तेज प्रकृतिसे परे है। उसीने संकल्पद्वारा इस जगत्की उत्पत्ति की है। फिर वही अन्तर्यामीरूपसे इसमें प्रविष्ट होकर अपनी चित्-शक्तिद्वारा विषयलोलुप जीवोंकी रक्षा करता है। हम उसी बुद्धिप्रवर्त्तक तेजकी शरण लेते हैं’॥ १४॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतचरिते भगवत्परिचर्यायां सप्तमोऽध्यायः॥ ७ ॥
वीरराघवः
ऋचमुदाहरति परोरज इति । सवितुः सर्वलोकस्य प्रसवनादुत्पादनात् सविता “सर्वलोकप्रसवनात् सविता स तु कीर्तितः” इति स्मृतेः । यद्वा ‘षू ‘प्रेरणे’ प्रचोदयिता सविता चात्र विष्णुरेव “विष्णोर्नामसहस्रं मे” इत्युपक्रम्य “सविता रविलोचनः” इति सवितृशब्दस्य भगवन्नामतया पठितत्वात् तस्य सवितुर्देवस्य विष्णोर्भर्गस्तेजोमयं रूपम् इमः “इण् गतौ” इत्यस्माल्लट् उत्तमबहुवचने रूपमेतत् शरणं गच्छेम इत्यर्थः । भर्गो विशिनष्टि-परोरजः रजसः परं लोकं विलक्षणं लोकपरोऽत्र रजःशब्दः “लोका रजांस्युच्यन्ते” इति यास्कोक्तेः । यद्वा रजः प्रकृतिमण्डलतः परं “क्षयन्तमस्य रजसः पराके आदित्यवर्णं तमसः परस्तात्” इति श्रुतेः, रजसः प्रकृतिमण्डलात्पराके परस्तात् क्षयन्तं निवसन्तमित्यर्थः । जातवेदः जातं सततमाविर्भूतं वेदः ज्ञानं यस्य तत् नित्यासङ्कचितज्ञानमित्यर्थः । अत्र सवितृदेवभर्गपदैर्गायत्री प्रत्यभिज्ञाता भवति । तत्रापि यथोक्त एवार्थः । देवस्य भर्गम् इम इति निर्देशः शिलापुत्रकस्य शरीरमितिवद् द्रष्टव्यः । कीदृशोऽसौ देवः यस्य भर्ग इमस्तत्राह । मनसा संकल्परूपज्ञानेनैवाचिञ्चिदात्मकमिदं जगज्जजान ससर्ज, यश्चादः स्वसृष्टजगत् स्वरेतसा स्वस्य रेतः स्वशक्तिः स्वशरीरभूतेन जीवेनाविश्यानुप्रविश्य, यद्वा इदं चिदचिदात्मकं जगत् स्वतेजसात्मीयसंकल्परूपेण ज्ञानेन प्रविश्य पूर्वं जीवान्तः प्रविष्टोऽपि पुनः करणकलेवरप्रेरणानुकूलव्यापाराय स्वसंकल्परूपेण ज्ञानेनानुप्रविश्येत्यर्थः, हंसं जीवं चष्टे पश्यति । हंसं विशिनष्टि । गृध्राणं शब्दादिविषयान् काङ्क्षमाणं नृपद्रिङ्गिरां नृषीदति अवसादयति क्लेशयति संसारयति इति नृषद् बुद्धिस्तस्यारिङ्गिः रिङ्गणं वृत्तिः “रिगि गतौ” इति धातुः बुद्धिवृत्तिरित्यर्थः । तयारात्याददाति कर्मफलानि भुङ्क्ते नृषद्रिङ्गिरस्तं नृषद्रिङ्गिरां छान्दसत्वात् । ‘वा छन्दसि’ इति पूर्वरूपत्वाभावे सवर्णदीर्घ इति नृषद्रिङ्गिरं हंसमाचष्टे इतिपदैः “तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्न्नन्यो अभिचाकशीति” इति श्रुतिः प्रत्यभिज्ञाता भवति । तत्रापि यथोक्त एवार्थः ॥ १४ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतायां श्रीभागवतचंद्रचंद्रिकायां सप्तमोऽध्यायः ॥ ७ ॥
-
प्राचीने पाठे ‘श्रीशुक उवाच’ पाठो न । ↩︎
-
सुदर्शनं वावरणं । ↩︎
-
प्राचीने पाठे ‘भं’ पाठः खण्डितः । ↩︎
-
स ह बहुविन्महीपतिः । ↩︎
-
प्राचीने पाठे ‘मह’ इति पाठो न । ↩︎
-
यज्ञक्रतुं क्रतुभिरुच्चा । ↩︎
-
नानायोगेषु । ↩︎
-
एवम् । ↩︎
-
कर्मविशुद्धिः सत्त्वस्यान्तर्हृदयाका । ↩︎
-
प्राचीन पुस्तके ‘णे’ अंशः खण्डितः । ↩︎
-
विराजमान । ↩︎
-
वसरो विभुज्यमानं तनयेभ्यः पितृ । ↩︎
-
प्राचीने पाठे ‘पै’ इत्यंशः खण्डितः । ↩︎
-
पुलहाश्रममेष प्र । ↩︎
-
प्राचीने पाठे ‘प्य’ इत्यंशः खण्डितः । ↩︎
-
तस्मिन्नेव वाव किल स एव आश्रमोपवने । ↩︎
-
प्राचीने पाठे ‘एवं’ इति पाठो न । ↩︎
-
प्राचीने पाठे ‘ऐणेयाजिनवास…’ आरभ्य ‘तिष्ठन्नेतदु होवाच’ पर्यन्तोऽशः प्रच्युतः । ↩︎
-
स्वतेजसादः पुनरा । ↩︎
-
प्राचीने पुस्तके ‘हंस’ इति पाठः खण्डितः । ↩︎