[षष्ठोऽध्यायः]
भागसूचना
ऋषभदेवजीका देहत्याग
श्लोक-१
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनःक्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि॥
मूलम्
न नूनं भगव1 आत्मारामाणां योगसमीरितज्ञानाव2भर्जितकर्मबीजानामैश्वर्याणि पुनःक्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि॥ १ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने पूछा—भगवन्! योगरूप वायुसे प्रज्वलित हुई ज्ञानाग्निसे जिनके रागादि कर्मबीज दग्ध हो गये हैं—उन आत्माराम मुनियोंको दैववश यदि स्वयं ही अणिमादि सिद्धियाँ प्राप्त हो जायँ, तो वे उनके राग-द्वेषादि क्लेशोंका कारण तो किसी प्रकार हो नहीं सकतीं। फिर भगवान् ऋषभने उन्हें स्वीकार क्यों नहीं किया?॥ १॥
वीरराघवः
यदुक्तं युक्तिविरोधित्वाद्वैहायसादीनि योगेश्वर्याणि नाभ्यनन्ददिति तत्र पृच्छति राजा नेति । हे भगवन्नात्मारामाणां योगेन समीरितमुद्दीपितं ज्ञानं तेन योगरूपवायुसहकृतब्रह्मसाक्षात्काररूपज्ञानाग्निना भर्जितानि दग्धानि कर्मणां बीजानि वासनारूपाणि येषां हेतुगर्भमिदम् । ज्ञानयोगाभ्यां निर्दग्धशेषकर्मबीजत्वादित्यर्थः, यदृच्छयोपगतानि ऐश्वर्याणि वैहायसादीनि पुनः क्लेशदानि संसृतिनिमित्तानि भवितुं नार्हन्तीति किमिति नाभ्यनन्ददिति प्रश्नार्थः ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
ऋषिरुवाच
विश्वास-प्रस्तुतिः
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते॥
अनुवाद (हिन्दी)
श्रीशुकदेवजीने कहा—तुम्हारा कहना ठीक है; किन्तु संसारमें जैसे चालाक व्याध अपने पकड़े हुए मृगका विश्वास नहीं करते, उसी प्रकार बुद्धिमान् लोग इस चंचल चित्तका भरोसा नहीं करते॥ २॥
वीरराघवः
उत्तरयति शुकः सत्यमुक्तमिति । योगैश्वर्यासक्तिनिमित्तज्ञानयोगक्षरणसम्भावनयानभिनन्दनेऽङ्गीकारः पुनः संसृतिनिमित्तानि न भवन्त्यत्रानङ्गीकारः, सौभर्यादीनामैश्वर्यस्य संसृत्तिनिमित्तत्वदर्शनात् । यदुक्तं पुनः क्लेशदानि न भवन्तीति तत्रापि तु योगक्षरणद्वारा भवन्त्येवेत्याह किं त्विति । इह वा एके महामुनयः वशीकृतमनसः पुरुषाः किलानवस्थानस्यातिचञ्चलस्य मनसः अद्धा साक्षाद्विस्रम्भं विश्वासं न सङ्गच्छन्ते न प्राप्नुवन्ति न कुर्वन्तीत्यर्थः । मनो न विश्वसन्तीति यावत् । जितमनस्कानामपि भोगासक्त्या मनःपारवश्ये सत्यव्यवस्थितं मनस्तान् वञ्चयित्वात्माधीनं सत्संसारयेदिति भावः । तत्र दृष्टान्तः शठकिरात एवेति । शठकिरातो वागुरिकः स्वस्मिन् विश्वासपर्यन्तं मृगाधीन इव स्थित्वा वञ्चयन् तान् हन्ति तद्वत् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तथा चोक्तम्—
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम्॥
मूलम्
तथा चोक्तम्—
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम्॥ ३ ॥
अनुवाद (हिन्दी)
ऐसा ही कहा भी है—‘इस चंचल चित्तसे कभी मैत्री नहीं करनी चाहिये। इसमें विश्वास करनेसे ही मोहिनीरूपमें फँसकर महादेवजीका चिरकालका संचित तप क्षीण हो गया था॥ ३॥
वीरराघवः
अत्राभियुक्तोक्तिमुदाहरति तथा चोक्तमिति । मनस्यनवस्थिते सति कदाचिदपि कस्मिंश्चिदपि जितमनस्कोऽपि मम स्वाधीनमनः क्रिमनर्थमापादयेदिति बुद्ध्या सङ्गं न कुर्यात्, यस्य मनसो विस्रम्भाद्विश्वासाच्चिरकालसम्भृतमपि ऐश्वरमीश्वरस्य विष्णोः सम्बन्धि तपः ज्ञानमयम् उपासनात्मकं तपश्चस्कन्देत् स्कन्देन क्षरेत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
नित्यं ददाति कामस्यच्छिद्रं तमनु येऽरयः।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली॥
मूलम्
नित्यं ददाति कामस्यच्छिद्रं तमनु येऽरयः।
योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली॥ ४ ॥
अनुवाद (हिन्दी)
जैसे व्यभिचारिणी स्त्री जार पुरुषोंको अवकाश देकर उनके द्वारा अपनेमें विश्वास रखनेवाले पतिका वध करा देती है—उसी प्रकार जो योगी मनपर विश्वास करते हैं, उनका मन काम और उसके साथी क्रोधादि शत्रुओंको आक्रमण करनेका अवसर देकर उन्हें नष्ट-भ्रष्ट कर देता है॥ ४॥
वीरराघवः
सङ्गात्कामावसरसम्प्रदाये “सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते" इत्युक्तरीत्या कामस्पृहाभावेन क्रोधादयः प्रादुःष्युरित्याह नित्यमिति । यो मनःकृतविश्वासो योगी कामस्य च्छिद्रं योगरूपमैश्वर्यं ददाति काममनुसृत्य जायमाना येऽरयः शत्रुवदनर्थकारिणः क्रोधादयस्ते मनसि कृतमैत्रस्य योगिनो मनश्छिद्रं ददति यथा कृतविश्वासस्य पत्युः पुंश्चली जाया जाराणामवकाशं दत्वा पतिं घातयति तथेति ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
कामो मन्युर्मदो लोभः शोकमोहभयादयः।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद् बुधः॥
मूलम्
कामो मन्युर्मदो लोभः शोकमोहभयादयः।
कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु7 तद् बुधः॥ ५ ॥
अनुवाद (हिन्दी)
काम, क्रोध, मद, लोभ, मोह और भय आदि शत्रुओंका तथा कर्मबन्धनका मूल तो यह मन ही है; इसपर कोई भी बुद्धिमान् कैसे विश्वास कर सकता है?॥ ५॥
वीरराघवः
अरीन्कथयन्नुपसंहरति काम इति । कर्मरूपो बन्धश्च यन्मूलः भोगैश्वर्यभोगासक्तिमूलः, अतः को नु पुमान् बुधः सन् तत्कामादिमूलं स्वीकुर्यात् अज्ञश्चेत् स्वीकुर्यादित्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषाचरितैरविलक्षितभगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्षयन् स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण उपरतानुवृत्तिरुपरराम॥
मूलम्
अथैवमखिललोकपालललामोऽ8पि विलक्षणैर्जड9वदवधूतवेषभाषाचरितैरविलक्षितभगवत्प्रभावो योगिनां साम्परायविधिमनुशिक्षयन् स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेना10न्वीक्षमाण उपरतानुवृत्तिरुपरराम॥ ६ ॥
अनुवाद (हिन्दी)
इसीसे भगवान् ऋषभदेव यद्यपि इन्द्रादि सभी लोकपालोंके भी भूषणस्वरूप थे, तो भी वे जड पुरुषोंकी भाँति अवधूतोंके-से विविध वेष, भाषा और आचरणसे अपने ईश्वरीय प्रभावको छिपाये रहते थे। अन्तमें उन्होंने योगियोंको देहत्यागकी विधि सिखानेके लिये अपना शरीर छोड़ना चाहा। वे अपने अन्तःकरणमें अभेदरूपसे स्थित परमात्माको अभिन्नरूपसे देखते हुए वासनाओंकी अनुवृत्तिसे छूटकर लिंगदेहके अभिमानसे भी मुक्त होकर उपराम हो गये॥ ६॥
वीरराघवः
प्रासङ्गिकं परिसमाप्य प्रकृतमाह अथेति । अखिलानां लोकापालानां ललामो मण्डनभूतोऽपि विलक्षणैरनेकप्रकारैर्जडवदज्ञवदलक्षितः अवधूतवेषादिभिरविलक्षितो भगवत्प्रभावो यस्मिन् योगिनां साम्परायविधि देहत्यागप्रकारमनुशिक्षयन् स्वशरीरं त्यक्तुमिच्छुरव्यवधानमज्ञानातिरोहितमात्मानं प्रत्यगात्मानमात्मनि परमात्मन्यनर्थान्तरभावेन अर्थान्तरं स्वतन्त्रं वस्तु तस्य भावस्ततो नञ्समासः, परमात्मा पृथक्सिद्धत्वेनान्वीक्षमाणः साक्षात्कुर्वाणः अत एव उपरतानुवृत्तिर्निवृत्तप्रारब्धकर्मानुवृत्तिः उपरराम । देहादिति शेषः । देहं त्यक्तवानित्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन संक्रममाणः कोङ्कवेङ्ककुटकान्दक्षिणकर्णाटकान्देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्यकृताश्मकवल उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार॥
मूलम्
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावास11नया देह इमां जगतीमभिमानाभासेन संक्रममाणः कोङ्क12वेङ्ककुटकान्दक्षिणकर्णाटकान्देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्यकृताश्म13कवल उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार॥ ७ ॥
अनुवाद (हिन्दी)
इस प्रकार लिंगदेहके अभिमानसे मुक्त भगवान् ऋषभदेवजीका शरीर योगमायाकी वासनासे केवल अभिमानाभासके आश्रय ही इस पृथ्वीतलपर विचरता रहा। वह दैववश कोंक, वेंक और दक्षिण आदि कुटक कर्णाटकके देशोंमें गया और मुँहमें पत्थरका टुकड़ा डाले तथा बाल बिखेरे उन्मत्तके समान दिगम्बररूपसे कुटकाचलके वनमें घूमने लगा॥ ७॥
वीरराघवः
त्यागप्रकारमेवाह गद्यद्वयेन तस्येति । एवं मुक्तलिङ्गस्य मनसा त्यक्तशरीराभिमानस्य तस्य भगवत ऋषभस्य देहो विचचारेत्यन्वयः । देहो विचचारेत्युक्तिर्देहधारणानादरद्योतनार्था, अन्यथा सुषुप्तमूर्च्छितदेहस्येव संचारानुपपत्तेः । कथंभूतो विचचार योगमायाया भगवन्मायाया वासनाया मायायास्तीर्णत्वेऽपि तद्वासनामात्रानुवृत्त्या यः अभिमानाभासः देहे आत्मीयत्वाभिमानाभासस्तेन देहात्माभिमानाभासमात्रमेवास्य न तु तत्त्वतो देहात्माभिमानोऽस्तीति ज्ञापनायाभासपदं प्रयुक्तम्, इमां जगतीं चङ्क्रममाणः सञ्चरनेकदा कर्हिचित्कोङ्कणादिदेशान् यदृच्छया गतः कुटकाचलस्थसमीपवने आस्ये वक्त्रे कृतः निक्षिप्तः अश्मैव कवलो येन उन्माद इव लक्ष्यमाणः मुक्ता विक्षिप्ताः मूर्द्धजाः शिरोरुहा यस्य असंवीतः नग्न एव ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहानः सह तेन ददाह॥
मूलम्
अथ समीरवेगविधूतवेणुविक14र्षणजातोग्रदावानलस्तद्वनमालेलिहानः सह तेन ददाह॥ ८ ॥
अनुवाद (हिन्दी)
इसी समय झंझावातसे झकझोरे हुए बाँसोंके घर्षणसे प्रबल दावाग्नि धधक उठी और उसने सारे वनको अपनी लाल-लाल लपटोंमें लेकर ऋषभदेवजीके सहित भस्म कर दिया॥ ८॥
वीरराघवः
अथानन्तरं समीरवेगेन विधूतानां कम्पितानां वेणूनां विघर्षणेन संघर्षणेन जातो य उग्रो दवाग्निस्तद्वनं कुटकाचलो पवनमालेलिहानो दहनः तेन ऋषभस्य देहेन सह ददाह, दाह्यासाहित्यमत्र विवक्षितम् ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते॥
मूलम्
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुट15कानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः सम्प्रवर्तयिष्यते॥ ९ ॥
अनुवाद (हिन्दी)
राजन्! जिस समय कलियुगमें अधर्मकी वृद्धि होगी, उस समय कोंक, वेंक और कुटक देशका मन्दमति राजा अर्हत् वहाँके लोगोंसे ऋषभदेवजीके आश्रमातीत आचरणका वृत्तान्त सुनकर तथा स्वयं उसे ग्रहणकर लोगोंके पूर्वसंचिंत पापफलरूप होनहारके वशीभूत हो भयरहित स्वधर्म-पथका परित्याग करके अपनी बुद्धिसे अनुचित और पाखण्डपूर्ण कुमार्गका प्रचार करेगा॥ ९॥
वीरराघवः
तस्य ऋषभस्याश्रमातीतं चतुराश्रमधर्मानितीत्य वर्त्तमानमनुचरितं कुटकाचलोपदेशवासिभ्य आकर्ण्यार्हन्निति नाम यस्य स राजा विमोहितः ऋषभस्य गोमृगाजगरादिव्रताचरणस्य शास्त्रीयत्वमजानन् वैदिकधर्मातिलङ्घित्वे बुद्धिं कृत्वाऽकुतोभयं नास्ति कुतोऽपि भयं यस्मात्तत्स्वधर्ममध्यपहाय स्वयमार्षभं व्रतमुपशिक्ष्यमाण उपशिक्षित्वा कुपथश्वासौ पाषण्डश्च तमसमञ्जसमुपधर्मं प्रति मनुजान्निजमनीषया मन्दोऽज्ञः स आर्हताख्यग्रन्थबन्धनेन सम्प्रवर्त्तयिष्यति । कथमेतस्य प्रसारणे मनुजाः प्रवर्तन्त इत्यत्रोक्तं कलावधर्म उत्कृष्यमाणे भवितव्येनेत्युक्तभवितव्येन प्राणिनां पूर्वसञ्चितपापमूलकेनाज्ञानेन कलौ युगे अधर्मे उत्कृष्यमाणे उत्कर्ष प्राप्ते सतीत्यर्थः । भवितव्येन युगानुसारेण मनुजानामधर्मबुद्धिभूयस्त्वादार्हन्ते प्रवर्तन्त इत्यर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
येन ह वाव कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः प्रायेण भविष्यन्ति॥
मूलम्
ये16न ह वाव कलौ मनुजापसदा देवमायामोहिताः स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नानानाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरु17षलोकविदूषकाः प्रायेण भविष्यन्ति॥ १० ॥
अनुवाद (हिन्दी)
उससे कलियुगमें देवमायासे मोहित अनेकों अधम मनुष्य अपने शास्त्रविहित शौच और आचारको छोड़ बैठेंगे। अधर्मबहुल कलियुगके प्रभावसे बुद्धिहीन हो जानेके कारण वे स्नान न करना, आचमन न करना, अशुद्ध रहना, केश नुचवाना आदि ईश्वरका तिरस्कार करनेवाले पाखण्डधर्मोंको मनमाने ढंगसे स्वीकार करेंगे और प्रायः वेद, ब्राह्मण एवं भगवान् यज्ञपुरुषकी निन्दा करने लगेंगे॥ १०॥
वीरराघवः
मनुजेष्वपसदाः निकृष्टाः पूर्वमेव देवमायया विमोहिताः येनार्हन्तेनोपदेशेन नित्यं मोहिताः सन्तः स्वविधिना स्वस्य वर्णाश्रमानुरूपधर्मविधिना प्राप्तो यो नियोगो नियमः यस्मिन् शौचचारित्रे तेन शौचचारित्रेति समाहारद्वन्द्वः । इतरेतरयोगे तु नियोगोपयोगस्ताभ्यां विहीनाः तत्र शौचं स्नानादिजाता देहशुद्धिः चारित्रं संध्योपासनादिदेवावज्ञारूपाण्यस्नानादीनि कुव्रतानि निजेच्छया गृह्णानाः कुर्वाणाः अधर्मप्रचुरेण कलिनापहता अभिभूता धियो विवेका येषां ते ब्रह्मादिविदूषकाः प्रायशो भविष्यन्ति । अस्नानं स्नानाभावः आचमनाभावः अत एवाशौचं केशलुञ्चनं केशोत्पाटनं ब्रह्म वेदः यज्ञपुरुषो भगवान्, लोका भागवताः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाऽऽश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति॥
मूलम्
ते18 च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाऽऽश्वस्ता19स्तमस्यन्धे स्वय20मेव प्रपतिष्य21न्ति॥ ११ ॥
अनुवाद (हिन्दी)
वे अपनी इस नवीन अवैदिक स्वेच्छाकृत प्रवृत्तिमें अन्धपरम्परासे विश्वास करके मतवाले रहनेके कारण स्वयं ही घोर नरकमें गिरेंगे॥ ११॥
वीरराघवः
तत्फलं चान्धन्तमः प्राप्स्यन्तीत्याह ते चेति । अर्वाक्तनयाऽवेदमूलयाऽत एवान्धपरम्परया निर्मूलया स्मृत्याचाराणामपि वेदमूलत्वेनैव प्रामाण्यादिति भावः । ते निजयात्रया स्वेच्छाकृतप्रवृत्त्या निजलोकयात्रयेति पाठेऽप्ययमेवार्थः । लोकशब्दो देहपरः तयैवार्हतस्मृत्यैवाश्वस्ताः तदुक्तेषूपधर्मेषु कृतविश्वासाः अन्धे तमसि नरकविशेषे स्वयमेव स्वात्मनैव रिपुणा प्रपविष्यन्ति पतन्तीत्यर्थः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः॥
मूलम्
अयमवतारो रजसोपप्लुतकैवल्योपशि22क्षणार्थः॥ १२ ॥
अनुवाद (हिन्दी)
भगवान्का यह अवतार रजोगुणसे भरे हुए लोगोंको मोक्षमार्गकी शिक्षा देनेके लिये ही हुआ था॥ १२॥
वीरराघवः
ननु तर्हि भगवतर्षभेण किमर्थमेवमनुष्ठितं तत्राह अयमिति । रजसा उपप्लुतानां व्याप्तानां रजःप्रचुराणां कैवल्यस्य मोक्षमार्गस्य योगचर्याभेदस्य शिक्षणार्थोऽयमवतारस्तदर्थमेवं कृतमिति भावः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
तस्यानुगुणान् श्लोकान् गायन्ति—
अहो भुवः सप्तसमुद्रवत्या
द्वीपेषु वर्षेष्वधिपुण्यमेतत्।
गायन्ति यत्रत्यजना मुरारेः
कर्माणि भद्राण्यवतारवन्ति॥
मूलम्
तस्यानुगुणान् श्लोकान् गायन्ति—
अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेत23त्।
गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति॥ १३ ॥
अनुवाद (हिन्दी)
इसके गुणोंका वर्णन करते हुए लोग इन वाक्योंको कहा करते हैं—‘अहो! सात समुद्रोंवाली पृथ्वीके समस्त द्वीप और वर्षोंमें यह भारतवर्ष बड़ी ही पुण्यभूमि है, क्योंकि यहाँके लोग श्रीहरिके मंगलमय अवतार-चरित्रोंका गान करते हैं॥ १३॥
वीरराघवः
आर्षभप्रभावप्रतिपादकान् श्लोकानुदाहरन्ति पठन्ति । आर्या इति शेषः, के त इत्यत्राह अहो इति । सप्त समुद्राः अस्यां सन्तीति सप्तसमुद्रवती तस्या भुवः द्वीपेषु मध्ये य उत्कृष्टो जम्बूद्वीपः तस्यापि वर्षेषु नवसु मध्ये एतद्भारतं वर्षमधि अधिकं पुण्यं यथाभूतम् अहो इत्याश्चर्यम्, कुतः यत्रत्याः भारतवर्षस्था जनाः मुरारेर्भगवतः ऋषभावतारयुक्तानि कर्माणि भद्राणि श्रेयःसाधनानि गायन्ति ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
अहो नु वंशो यशसावदातः
प्रैयव्रतो यत्र पुमान् पुराणः।
कृतावतारः पुरुषः स आद्य-
श्चचार धर्मं यदकर्महेतुम्॥
मूलम्
अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान् पुराणः।
कृतावतारः पुरुषः स आद्यः चचार धर्मं यदकर्महेतुम्॥ १४ ॥
अनुवाद (हिन्दी)
अहो! महाराज प्रियव्रतका वंश बड़ा ही उज्ज्वल एवं सुयशपूर्ण है, जिसमें पुराणपुरुष श्रीआदिनारायणने ऋषभावतार लेकर मोक्षकी प्राप्ति करानेवाले पारमहंस्य धर्मका आचरण किया॥ १४॥
वीरराघवः
अहो प्रैयव्रतः प्रियव्रतसम्बन्धी वंशः यशसा विशुद्धः विशुद्धविपुलकीर्तिसम्पन्नः, यत्र वंशे पुराणः पुरुषो भगवानृषभरूपेण कृतावतारः बभूव । स चावतीर्ण आद्यः पुरुषः यतोऽकर्महेतुकं न विद्यते कर्म साधनं तपो यस्य तद्कर्म मोक्षः तस्य हेतुं धर्मं चचार ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
को न्वस्य काष्ठामपरोऽनुगच्छे-
न्मनोरथेनाप्यभवस्य योगी।
यो योगमायाः स्पृहयत्युदस्ता
ह्यसत्तया येन कृतप्रयत्नाः॥
मूलम्
को न्व24स्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी।
यो योगमायाः स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्नाः॥ १५ ॥
अनुवाद (हिन्दी)
अहो! इन जन्मरहित भगवान् ऋषभदेवके मार्गपर कोई दूसरा योगी मनसे भी कैसे चल सकता है। क्योंकि योगीलोग जिन योगसिद्धियोंके लिये लालायित होकर निरन्तर प्रयत्न करते रहते हैं, उन्हें इन्होंने अपने-आप प्राप्त होनेपर भी असत् समझकर त्याग दिया था॥ १५॥
वीरराघवः
अस्य ऋषभस्य काष्ठां निष्ठां दिशं वाऽपरो योगी मनोरथेनापि तत्त्वानुष्ठानेन कोन्वनुगच्छेदनुवर्त्तेत न कोऽपीत्यर्थः । कुतो यो योगी येन ऋषभेण योगमाया मनोजवादयः कृतप्रयत्नः सेवितुं उद्यता अप्यसत्तया हेयतयानादृतास्ताः स्पृहयति हि ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वावहितो भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते॥
मूलम्
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरित25मीरितं पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वा26वहितो भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते॥ १६ ॥
अनुवाद (हिन्दी)
राजन्! इस प्रकार सम्पूर्ण वेद, लोक, देवता, ब्राह्मण और गौओंके परमगुरु भगवान् ऋषभदेवका यह विशुद्ध चरित्र मैंने तुम्हें सुनाया। यह मनुष्योंके समस्त पापोंको हरनेवाला है। जो मनुष्य इस परम मंगलमय पवित्र चरित्रको एकाग्रचित्तसे श्रद्धापूर्वक निरन्तर सुनते या सुनाते हैं, उन दोनोंकी ही भगवान् वासुदेवमें अनन्यभक्ति हो जाती है॥ १६॥
वीरराघवः
ऋषभचरितश्रवणादिफलमाह । इतीत्थंभूतं हस्मेति प्रसिद्ध्याश्चर्यद्योतकौ निपातौ, सकललोकादीनां परमगुरोर्लोकदेवब्राह्मणानां हितोपदेष्टृत्वाद् गुरुः वेदवैदिकमार्गप्रवर्तकत्वाद्वेदस्य गुरुः गवामपि पूज्यत्वोपदेष्टृत्वाद् गुरुः ऋषभाख्यभगवतः विशुद्धाचरितं यदीरितं कथितं समस्तदुश्चरितमभितो हरतीति तथा परममङ्गलानामयनमाश्रयमिदमनया क्रमादुपचितया प्रवृद्धयानया श्रद्धयाऽनुसेवनं सर्वदा यः पुमाननुशृणोत्याश्रावयत्यनुस्मरति अनयोः श्रोतृश्रावयित्रोः भगवति वासुदेव एकान्ततः एकान्ता अव्यभिचरिता भक्तिः समनुवर्तते भवतीत्यर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया निर्वृत्त्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः॥
मूलम्
यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव यस्या निर्वृत्त्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो ए27वाद्रियन्ते भगवदीयत्वे28नैव परिसमाप्तसर्वार्थाः॥ १७ ॥
अनुवाद (हिन्दी)
तरह-तरहके पापोंसे पूर्ण, सांसारिक तापोंसे अत्यन्त तपे हुए अपने अन्तःकरणको पण्डितजन इस भक्ति-सरितामें ही नित्य-निरन्तर नहलाते रहते हैं। इससे उन्हें जो परम शान्ति मिलती है, वह इतनी आनन्दमयी होती है कि फिर वे लोग उसके सामने, अपने-ही-आप प्राप्त हुए मोक्षरूप परम पुरुषार्थका भी आदर नहीं करते। भगवान्के निजजन हो जानेसे ही उनके समस्त पुरुषार्थ सिद्ध हो जाते हैं॥ १७॥
वीरराघवः
किं भक्त्या साध्यमित्यत्र भगवदनुभवरूपाया भक्तेरतिशयपुरुषार्थतामाह यस्यामिति । यस्यां भगवदनुभवसुधारसरूपायां भक्तौ कवयो विवेकिनः विविधानि वृजिनानि पापानि यस्मिंस्तस्मिन् संसारे ये परितापाः क्लेशास्तैरुपतप्यमानं क्लिश्यमानमात्मानमनुसवनं स्नापयन्तः भगवदनुभवेन वृजिनमूलानि दुःखान्यपनुदन्त इत्यर्थः । तयैव भगवदनुभवजनितया निर्वृत्त्या आनन्देन परमपुरुषार्थलक्षणमपि स्वयं प्राप्तमप्यापवर्गिकमपवर्गरूपं फलमात्यन्तिकमत्यन्तं नैवाद्रियन्ते । अनादरे हेतुः भगवदीयत्वेनैव परितः समाप्ताः सर्वपुरुषार्था यैस्ते ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
राजन् पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम्॥
मूलम्
राजन् पतिर्गुरुरलं भवतां यदूनां दैवं प्रियः कुलपतिः क्व च किङ्करो वः।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचि29त्स्म न भक्तियोगम्॥ १८ ॥
अनुवाद (हिन्दी)
राजन्! भगवान् श्रीकृष्ण स्वयं पाण्डवलोगोंके और यदुवंशियोंके रक्षक, गुरु, इष्टदेव, सुहृद् और कुलपति थे; यहाँतक कि वे कभी-कभी आज्ञाकारी सेवक भी बन जाते थे। इसी प्रकार भगवान् दूसरे भक्तोंके भी अनेकों कार्य कर सकते हैं और उन्हें मुक्ति भी दे देते हैं, परन्तु मुक्तिसे भी बढ़कर जो भक्तियोग है, उसे सहजमें नहीं देते॥ १८॥
वीरराघवः
भक्तेर्दौर्ल्लभ्यं सनिदर्शनमाह राजन्निति । हे राजन् ! भगवन् पाण्डवानां यदूनां च मुकुन्दो भगवान् पतिः पालकः गुरुर्हितोपदेष्टा दैवमुपास्यः प्रियः सुहृत् कुलस्य पतिर्नियन्ता किं बहुना क च कदाचिद्दूत्यादिषु वः पाण्डवानां किङ्करोऽप्याज्ञानुवर्ती अस्तु नामैवं तथाप्यङ्ग ! हे राजन्नन्येषां नित्यम्भजतामपि मुक्तिं ददाति इति तु भक्तियोगमिति भक्तेर्दुर्लभत्वोक्तिः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
नित्यानुभूतनिजलाभनिवृत्ततृष्णः
श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः।
लोकस्य यः करुणयाभयमात्मलोक-
माख्यान्नमो भगवते ऋषभाय तस्मै॥
मूलम्
नित्यानुभूत30निजलाभनिवृत्ततृष्णः श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः।
लोकस्य यः करुणयाभयमात्मलोकमाख्यान्नमो भगवते ऋषभाय तस्मै॥ १९ ॥
अनुवाद (हिन्दी)
निरन्तर विषय-भोगोंकी अभिलाषा करनेके कारण अपने वास्तविक श्रेयसे चिरकालतक बेसुध हुए लोगोंको जिन्होंने करुणावश निर्भय आत्मलोकका उपदेश दिया और जो स्वयं निरन्तर अनुभव होनेवाले आत्मस्वरूपकी प्राप्तिसे सब प्रकारकी तृष्णाओंसे मुक्त थे, उन भगवान् ऋषभदेवको नमस्कार है॥ १९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः॥ ६ ॥
वीरराघवः
ऋषभचरितमुपसंहरन् नमस्करोति । नित्येति । नित्यमनुभूतं यन्निजं ब्रह्मात्मकं स्वरूपं स एव लाभस्तेन निवृत्ता तृष्णा पुरुषार्थान्तरेषु यस्य एवंभूतो यः अतद्रचनया अश्रेयसां पापकर्मणां रचनया श्रेयसि विषये चिरं सुप्ता बुद्धिर्यस्य तस्य लोकस्य करुणयाऽभयात्मस्वरूपमाख्यादाख्यातवान् तस्मै ऋषभरूपाय परमपुरुषाय नमः ॥ १९ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचंद्रचंद्रिकाख्यायां टीकायां षष्ठोऽध्यायः ॥ ६ ॥
-
भगवन्नात्मरामा । ↩︎
-
ज्ञानावर्जित । ↩︎
-
प्राचीने पाठे ‘एके’ पाठः खण्डितः । ↩︎
-
प्राचीने पाठे ‘ऽद्धा’ पाठोन । ↩︎
-
मनवस्थानस्य योगिनः शठ । ↩︎
-
संगच्छन्ति । ↩︎
-
कोऽत्र तद्बुधः । ↩︎
-
प्राचीने पाठे ‘ऽपि’ पाठः न । ↩︎
-
जडवदवधूतभाषा । ↩︎
-
भावेनानुवीक्ष । ↩︎
-
योगमायावासेन । ↩︎
-
कौङ्कवेङ्क । ↩︎
-
प्राचीने पाठे ‘श्म’ अंशः खण्डितः । ↩︎
-
वेणुनिघर्ष । ↩︎
-
प्राचीने पाठे ‘कुटकानां’ पाठः खण्डितः । ↩︎
-
येनेह वाव । ↩︎
-
यज्ञपुरुषलोकविदूषकाः । ↩︎
-
तथैव ह्यर्वाक्तनया । ↩︎
-
तथैवातत्त्वज्ञास्तम । ↩︎
-
प्राचीने पाठे ‘स्वयमेव’ पाठो न । ↩︎
-
प्राचीने पाठ ‘न्ति’ पाठः खण्डितः । ↩︎
-
शिक्षणार्थं । ↩︎
-
प्राचीने पाठे ‘एतत्’ अंशः खण्डितः । ↩︎
-
को ह्यस्य । ↩︎
-
विशुद्धाचरितं पुंसां । ↩︎
-
बावहितस्तस्मिन् वासुदेव । ↩︎
-
नैवाद्रियन्ते । ↩︎
-
भगवत्तत्त्वेनैव । ↩︎
-
प्राचीने पाठे ‘चित्’ पाठः खण्डितः । ↩︎
-
पाचीने पाठे ‘त’ अंशः खण्डितः । ↩︎