[चतुर्थोऽध्यायः]
भागसूचना
ऋषभदेवजीका राज्यशासन
श्लोक-१
मूलम् (वचनम्)
श्रीशुक1 उवाच
विश्वास-प्रस्तुतिः
अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिनमेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश्चावनितलसमवनायातितरां जगृधुः॥
मूलम्
अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं 2साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिनमेघमानानुभावं प्रकृतयः प्रजा ब्राह्मणा3 देवताश्चावनितलसमवनायातितरां जगृधुः॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—राजन्! नाभिनन्दनके अंग जन्मसे ही भगवान् विष्णुके वज्र-अंकुश आदि चिह्नोंसे युक्त थे; समता, शान्ति, वैराग्य और ऐश्वर्य आदि महाविभूतियोंके कारण उनका प्रभाव दिनोंदिन बढ़ता जाता था। यह देखकर मन्त्री आदि प्रकृतिवर्ग, प्रजा, ब्राह्मण और देवताओंकी यह उत्कट अभिलाषा होने लगी कि ये ही पृथ्वीका शासन करें॥ १॥
वीरराघवः
एवं नाभेश्चरित्रमुपवर्णितमुपसंहरंस्त्रिभिरध्यायैर्नाभेः पुत्रस्य ऋषभस्य चरित्रमुपवर्णयति । अथेति । अथ हावतारानन्तरमुत्पत्त्यैव जन्मनैवाभिव्यज्यमानानि भगवल्लक्षणानि पादतलादिषु वज्राङ्कुशादीनि यस्य साम्यं सर्वभूतेषु समत्वमुपशमः अन्तर्बाह्येन्द्रियनियमः वैराग्यं विषयेष्वनासक्तिः ऐश्वर्यं सर्वभूतनियन्तृत्वं महाविभूतिः सर्वसम्पत्तिः साम्यादिभिः सह वर्द्धमानः अनुभावः प्रभावो यस्य तं निशाम्य दृष्ट्वा प्रकृतयोऽमात्यादयः प्रजा जना ब्राह्मणा देवताश्च गोबलीवर्दन्यायेन ब्राह्मणदेवता इत्युक्तमवनितलसमवनाय भूमण्डलपरिपालनायातितरां भृशं जगृधुरैच्छन् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार॥
मूलम्
तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार॥ २ ॥
अनुवाद (हिन्दी)
उनके सुन्दर और सुडौल शरीर, विपुल कीर्ति, तेज, बल, ऐश्वर्य, यश, पराक्रम और शूरवीरता आदि गुणोंके कारण महाराज नाभिने उनका नाम ‘ऋषभ’ (श्रेष्ठ) रखा॥ २॥
वीरराघवः
तस्य जातस्य पुत्रस्य इत्थं सत्त्वप्रधानेन वरीयसा श्रेष्ठेन वर्ष्मणा देहेन बृहत्श्लोकेन विपुलगुणप्रथया ओजसा इन्द्रियबलेन बलेन देहबलेन श्रिया सम्पदा यशसा विपुलचरित्रप्रथया वीर्यं पराभिभवसामर्थ्यं शौर्य्यं रणमध्ये स्वगृहे इव प्रवेशसामर्थ्यं ताभ्यां चातिशयितप्रभावत्वेन श्रेष्ठत्वादृषभ इति नामधेयं पिता नाभिश्चकार ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवानृषभदेवो योगेश्वरः प्रहस्यात्मयोगमायया स्ववर्षमजनाभं नामाभ्यवर्षत्॥
मूलम्
तस्य4 हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवानृषभदेवो योगेश्वरः प्रहस्यात्मयोग5मायया स्ववर्षमजनाभं नामाभ्यवर्षत्॥ ३ ॥
अनुवाद (हिन्दी)
एक बार भगवान् इन्द्रने ईर्ष्यावश उनके राज्यमें वर्षा नहीं की। तब योगेश्वर भगवान् ऋषभने इन्द्रकी मूर्खतापर हँसते हुए अपनी योगमायाके प्रभावसे अपने वर्ष अजनाभखण्डमें खूब जल बरसाया॥ ३॥
वीरराघवः
ऋषभशब्दप्रवृत्तिनिमित्तं प्रभावातिशयमेव संग्रहेणाह । यस्य हीति । यस्य ऋषभस्य वर्षे राज्ये भारतवर्षे स्पर्द्धमानः ऋषभेण विरोधमाचरन्निन्द्रः न ववर्षं वृष्टिं निरुद्धवान् । तदिन्द्रकर्तृकमवर्षणमवधार्य निश्चित्येन्द्रकृत्यः प्रहस्य भगवानृषभदेवो योगेश्वरः आत्मीयविचित्रशक्त्या स्वयमेवाजनाभवर्षं भारतवर्षस्य प्राक्तनं नामाजनाभमित्यवर्षत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीतनरलोकसधर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन् परां निर्वृतिमुपगतः॥
मूलम्
नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीतनरलोकस6धर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन् परां निर्वृतिमुपगतः॥ ४ ॥
अनुवाद (हिन्दी)
महाराज नाभि अपनी इच्छाके अनुसार श्रेष्ठ पुत्र पाकर अत्यन्त आनन्दमग्न हो गये और अपनी ही इच्छासे मनुष्यशरीर धारण करनेवाले पुराणपुरुष श्रीहरिका सप्रेम लालन करते हुए , उन्हींके लीला-विलाससे मुग्ध होकर ‘वत्स! तात!’ ऐसा गद्गद-वाणीसे कहते हुए बड़ा सुख मानने लगे॥ ४॥
श्लोक-५
विश्वास-प्रस्तुतिः
विदितानुरागमापौरप्रकृति जनपदो राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः कालेन तन्महिमानमवाप॥
मूलम्
विदितानुरागमापौरप्रकृति जनपदो राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य ब्राह्मणेषूपनिधाय सह7 मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः 8कालेन तन्महिमानमवाप॥ ५ ॥
अनुवाद (हिन्दी)
जब उन्होंने देखा कि मन्त्रिमण्डल, नागरिक और राष्ट्रकी जनता ऋषभदेवसे बहुत प्रेम करती है, तो उन्होंने उन्हें धर्ममर्यादाकी रक्षाके लिये राज्याभिषिक्त करके ब्राह्मणोंकी देख-रेखमें छोड़ दिया। आप अपनी पत्नी मेरुदेवीके सहित बदरिकाश्रमको चले गये। वहाँ अहिंसावृत्तिसे, जिससे किसीको उद्वेग न हो ऐसी कौशलपूर्ण तपस्या और समाधियोगके द्वारा भगवान् वासुदेवके नर-नारायणरूपकी आराधना करते हुए समय आनेपर उन्हींके स्वरूपमें लीन हो गये॥ ५॥
वीरराघवः
नाभिस्तु यथाभिलषितं स्वेच्छानुरूपं सुप्रजस्त्वं शोभना प्रजा यस्य सः सुप्रजाः “नित्यमसिच्प्रजामेधयोः" इत्यसिच्, तस्य भावः सुप्रजस्त्वं सुपुत्रत्वमवरुध्य प्राप्य निरतिशयप्रमोदेन विह्वलः गद्गदया गिरा मायया भगवन्मायया स्वपुत्र इति विलसिता मतिर्यस्य सः । हे वत्स ! तातेति सानुरागं पुत्रमुपलालयन् परां निर्वृतिमानन्दमुपगतः प्राप्तः । कथंभूतं पुत्रं स्वैरं स्वेच्छया गृहीतः नरलोकसधर्मः मनुष्याकारो येन भगवन्तं षाड्गुण्यपूर्णं पुराणं पुरुषं पुरापि नवः पुराणः तं पुरुषं पुरुषशब्दवाच्यं तत्ततो राजा नाभिरापौरप्रकृतिजनपदं पौरान्प्रकृतीर्देशवासिनश्चाभिव्याप्य विदितोऽनुरागो यस्मिन्, जनपद इति पाठे आर्षत्वात् प्रयोगस्य “नाव्ययीभावादतोऽमित्य” मभावः “अव्ययादाप्सुपः" इति लुगभावश्च । नाभिरात्मजं समयसेतवः वर्णाश्रमधर्ममर्यादास्तेषां रक्षायामभिषिच्य राज्याभिषिक्तं कृत्वेत्यर्थः । ब्राह्मणानामुत्सङ्गेऽङ्के निधाय विशालायां बदरिकाश्रमे मेरुदेव्या स्वभार्यया सह प्रसन्नेन परानुद्वेजकेन निर्विण्णेन विघ्नानुपहतेन समाधिना साङ्गेन भक्तियोगेन भगवन्तं नारायणाख्यं वासुदेवमुपासीनः कालेन प्रारब्धावसानकालेन तस्य वासुदेवस्य महिमानमवाप प्राप्याविर्भूतगुणाष्टकोऽभून्, मुक्तोऽभवदिति यावत् ॥ ४-५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
यस्य ह पाण्डवेय श्लोकावुदाहरन्ति—
को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान्।
अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा॥
मूलम्
यस्य ह9 पाण्डवेय श्लोकावुदाहरन्ति—
को10 नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान्।
अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा॥ ६ ॥
अनुवाद (हिन्दी)
पाण्डुनन्दन! राजा नाभिके विषयमें यह लोकोक्तिप्रसिद्ध है—
राजर्षि नाभिके उदार कर्मोंका आचरण दूसरा कौन पुरुष कर सकता है—जिनके शुद्ध कर्मोंसे सन्तुष्ट होकर साक्षात् श्रीहरि उनके पुत्र हो गये थे॥ ६॥
वीरराघवः
नाभेश्वरित्रं निगमयन् तत्प्रभावप्रतिपादकौ श्लोकावुदाहर्तुं तयोः सर्वपरिगृहीतत्वमाह यस्येति । हे पाण्डवेय ! यस्य नाभेः श्लोकौ “लोपः शाकल्यस्य" इति वस्य लोपे तस्यासिद्धत्वात्स्वरसंध्यभावः, उदाहरन्ति आर्या इति शेषः तावाह । कोनु इति । राजर्षेर्नाभस्तत्प्रसिद्धं कर्म को नु पुमानाचरेत्कुर्यान्न कोऽपीत्यर्थः, यस्य नाभेः शुद्धेन कर्मणा भगवानपत्यतां पुत्रतामगात्प्राप्तः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः।
यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा॥
मूलम्
ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः।
यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा॥ ७ ॥
अनुवाद (हिन्दी)
महाराज नाभिके समान ब्राह्मणभक्त भी कौन हो सकता है—जिनकी दक्षिणादिसे सन्तुष्ट हुए ब्राह्मणोंने अपने मन्त्रबलसे उन्हें यज्ञशालामें साक्षात् श्रीविष्णुभगवान्के दर्शन करा दिये॥ ७॥
वीरराघवः
नाभेरन्यः कुतो ब्रह्मण्यः को ब्रह्मण्य इत्यर्थः । प्रथमार्थे तसिरार्षः । यस्य नाभेर्बर्हिषि यज्ञे मङ्गलैर्निजार्जितधनादिभिः पूजिता विप्राः ओजसा मन्त्रबलेन यज्ञेशं दर्शयामासुः प्रदर्शितवन्तः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
अथ ह भगवानृषभदेवः स्ववर्षं कर्मक्षेत्रमनुमन्यमानः प्रदर्शितगुरुकुलवासो लब्धवरैर्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्म समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास॥
मूलम्
अथ11 ह भगवानृषभ12देवः स्ववर्षं कर्मक्षेत्रमनुमन्यमानः प्रदर्शितगुरुकुलवादो लब्धवरैर्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्म समाम्नाया13म्नातमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास॥ ८ ॥
अनुवाद (हिन्दी)
भगवान् ऋषभदेवने अपने देश अजनाभखण्डको कर्मभूमि मानकर लोकसंग्रहके लिये कुछ काल गुरुकुलमें वास किया। गुरुदेवको यथोचित दक्षिणा देकर गृहस्थमें प्रवेश करनेके लिये उनकी आज्ञा ली। फिर लोगोंको गृहस्थधर्मकी शिक्षा देनेके लिये देवराज इन्द्रकी दी हुई उनकी कन्या जयन्तीसे विवाह किया तथा श्रौत-स्मार्त्त दोनों प्रकारके शास्त्रोपदिष्ट कर्मोंका आचरण करते हुए उसके गर्भसे अपने ही समान गुणवाले सौ पुत्र उत्पन्न किये॥ ८॥
श्लोक-९
विश्वास-प्रस्तुतिः
येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति॥
मूलम्
14येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति॥ ९ ॥
अनुवाद (हिन्दी)
उनमें महायोगी भरतजी सबसे बड़े और सबसे अधिक गुणवान् थे। उन्हींके नामसे लोग इस अजनाभखण्डको ‘भारतवर्ष’ कहने लगे॥ ९॥
वीरराघवः
अथ राज्याभिषेकानन्तरं भगवानृषभदेवः स्ववर्षमजनाभं वर्षं कर्मक्षेत्रं स्वर्गापवर्गसाधनकर्मानुष्ठानयोग्यं स्थानं मन्यमानः अन्येषां ग्रहणाय प्रदर्शितो गुरुकुलावासो येन उपलब्धाः वरा यैस्तैर्गुरुभिरनुज्ञातः गृहमेधिनां गृहाश्रमिणां धर्माननुशिक्षमाणः अनुशिक्षयितुमित्यर्थः । समाम्नातं विहितमुभयविधं प्रवृत्तिनिवृत्तिलक्षणं श्रौतस्मार्त्तरूपं वा कर्माभियुञ्जन्ननुतिष्ठन् इन्द्रेण दत्तायां जयन्त्यां भार्यायामात्मजानां शतं जनयामास । येषामात्मजानां मध्ये भरतो नाम ज्येष्ठः पुत्रः श्रेष्ठगुण आसीत्, येन भरतेन भरतसम्बन्धेन इदमजनाभं वर्षं भारतमिति व्यपदिशन्ति व्यवहरन्ति ॥ ८-९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर्भद्रसेन इन्द्रस्पृग्विदर्भः कीकट इति नव नवतिप्रधानाः॥
मूलम्
तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर्भद्रसेन इन्द्रस्पृग्विदर्भः कीकट इति नव नवतिप्रधानाः॥ १० ॥
अनुवाद (हिन्दी)
उनसे छोटे कुशावर्त, इलावर्त, ब्रह्मावर्त, मलय, केतु, भद्रसेन, इन्द्रस्पृक्, विदर्भ और कीकट—ये नौ राजकुमार शेष नब्बे भाइयोंसे बड़े एवं श्रेष्ठ थे॥ १०॥
श्लोक-११
विश्वास-प्रस्तुतिः
कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः।
आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः॥
मूलम्
कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः।
आविर्होत्रोऽथ द्रुमिल15श्चमसः करभाजनः॥ ११ ॥
वीरराघवः
तं भरतमनुपश्चात्कुशावर्त्तादयो नवसङ्ख्याकाः नवतिप्रधानाः प्रथमपुत्रदशके भरतः प्रधानः इतरेषु नवसु दशकेषु प्रत्येकं कुशावर्तादयः प्रधानाः स्वव्यतिरिक्तनवापेक्षया प्रधानाः ज्येष्ठाः कुशावर्त्तादयो नव भरतमनुजाताः तमेवानुसृत्य स्थिता इति वार्थः ॥ १०-११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं वसुदेवनारदसंवादमुपशमायनमुपरिष्टाद्वर्णयिष्यामः॥
मूलम्
इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगव16न्महिमोपबृंहितं वसुदेवनारदसंवादमुपशमा17यनमुपरिष्टाद्वर्णयिष्यामः॥ १२ ॥
अनुवाद (हिन्दी)
उनसे छोटे कवि, हरि, अन्तरिक्ष, प्रबुद्ध, पिप्पलायन, आविर्होत्र, द्रुमिल, चमस और करभाजन—ये नौ राजकुमार भागवतधर्मका प्रचार करनेवाले बड़े भगवद्भक्त थे। भगवान्की महिमासे महिमान्वित और परम शान्तिसे पूर्ण इनका पवित्र चरित हम नारद-वसुदेव संवादके प्रसंगसे आगे(एकादश स्कन्धमें) कहेंगे॥ ११-१२॥
वीरराघवः
तत्र नवतिपुत्राणां मध्ये कव्यादयो नव भागवतधर्मप्रकाशका महाभागवता भगवद्धर्मनिष्ठा अभूवम् । तेषां कव्यादीनां सुचरितं भगवन्महिम्नोपबृंहितं वर्धितं भगवन्महिम्ना युक्तमित्यर्थः । अत एवोपशमायनं चित्तशान्तिहेतुकमुपरिष्टादेकादशस्कन्धे वसुदेवनारदसंवादे वक्ष्यामः कथयिष्याम इत्यर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
यवीयांस एकाशीतिर्जायन्तेयाः पितुरादेशकरा महाशालीना महाश्रोत्रिया यज्ञशीलाः कर्मविशुद्धा ब्राह्मणा बभूवुः॥
मूलम्
यवीयांस एकाशीतिर्जायन्तेयाः पितुरादेशकरा महाशालीना महाश्रोत्रिया यज्ञशीलाः कर्मवि18शुद्धा ब्राह्मणा बभूवुः॥ १३ ॥
अनुवाद (हिन्दी)
इनसे छोटे जयन्तीके इक्यासी पुत्र पिताकी आज्ञाका पालन करनेवाले, अति विनीत, महान् वेदज्ञ और निरन्तर यज्ञ करनेवाले थे। वे पुण्यकर्मोंका अनुष्ठान करनेसे शुद्ध होकर ब्राह्मण हो गये थे॥ १३॥
वीरराघवः
यवीयांस एकाशीतिसङ्ख्याकाः जायन्तेया जयन्तीपुत्राः पित्राज्ञानुवर्त्तिनो महाशालीना गार्हस्थ्यसम्पत्समृद्धा महाश्रोत्रिया अधीतसाङ्गवेदाः यज्ञानुष्ठानशीलाः कर्मणा सदाचारेण विशुद्धा ब्राह्मणा बभूवुः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
भगवानृषभसंज्ञ आत्मतन्त्रः स्वयं नित्यनिवृत्तानर्थपरम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत्कर्माण्यारभमाणः कालेनानुगतं धर्ममाचरणेनोपशिक्षयन्नतद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशःप्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत्॥
मूलम्
भगवा19नृषभसंज्ञ आत्मतन्त्रः स्वयं नित्यनिवृत्तानर्थपरम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत्कर्माण्यारभमाणः कालेनानुगतं धर्ममाचरणेनोपशिक्षयन्नतद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशःप्रजानन्दामृतावरोधेन गृहेषु लोकं20 नियमयत्॥ १४ ॥
अनुवाद (हिन्दी)
भगवान् ऋषभदेव, यद्यपि परम स्वतन्त्र होनेके कारण स्वयं सर्वदा ही सब प्रकारकी अनर्थपरम्परासे रहित, केवल आनन्दानुभवस्वरूप और साक्षात् ईश्वर ही थे, तो भी अज्ञानियोंके समान कर्म करते हुए उन्होंने कालके अनुसार प्राप्त धर्मका आचरण करके उसका तत्त्व न जाननेवाले लोगोंको उसकी शिक्षा दी। साथ ही सम, शान्त, सुहृद् और कारुणिक रहकर धर्म, अर्थ, यश, सन्तान, भोग-सुख और मोक्षका संग्रह करते हुए गृहस्थाश्रममें लोगोंको नियमित किया॥ १४॥
वीरराघवः
अथ ऋषभसंज्ञो भगवानात्मतन्त्रः स्वतन्त्रः अकर्मवश्यः अत एव नित्यं निवृत्तकर्मायत्ताः सुखदुःखाद्यनर्थपरम्परा यस्य सः केवलदुःखासम्भिन्नो य आनन्दः स्वरूपानन्दः तस्यानुभावो यस्य सः स्वयमीश्वर एवं सन् इतरवत्प्राकृतवत्कर्माण्यारभमाणः वर्णाश्रमधर्मरूपाणि कर्माणि कुर्वाणः किं कुर्वन्कालेनानुगतं प्रलीनं धर्ममाचारेणातद्विदां धर्मतदनुष्ठानादिकमजानताम् उपशिक्षयन् किमर्थं धर्माद्यविरोधेन धर्मादिप्राप्त्या हेत्वर्थे तृतीया, फलं चात्र हेतुः धर्मादिप्राप्तिरूपफलायेत्यर्थः, प्रजानन्दः प्रजार्थो भोगः अमृतमेवं पुरुषार्थचतुष्टयसंग्रहः सर्वभूतसमः उपशान्तः रागाद्यकलुषितचित्तः मैत्रः अपकृष्टेष्वपि भूतेषु स्वसाम्यबुद्धिः कारुणिकः परदुःखासहिष्णुः गृहेषु गृहाश्रमेषु लोकान्नियमयन् नियमयन्नभूदित्यर्थः । नियमयदिति वा पाठः आर्षत्वादभावो वा ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः॥
मूलम्
यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः॥ १५ ॥
अनुवाद (हिन्दी)
महापुरुष जैसा-जैसा आचरण करते हैं, दूसरे लोग उसीका अनुकरण करने लगते हैं॥ १५॥
श्लोक-१६
विश्वास-प्रस्तुतिः
यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामादिभिरुपायैर्जनतामनुशशास॥
मूलम्
यद्यपि स्वविदितं सकलधर्मं21 ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामादिभिरुपायैर्जनतामनुशशास॥ १६ ॥
अनुवाद (हिन्दी)
यद्यपि वे सभी धर्मोंके साररूप वेदके गूढ रहस्यको जानते थे, तो भी ब्राह्मणोंकी बतलायी हुई विधिसे साम-दानादि नीतिके अनुसार ही जनताका पालन करते थे॥ १६॥
श्लोक-१७
विश्वास-प्रस्तुतिः
द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशोपचितैः सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज॥
मूलम्
द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशोपचितैः सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज॥ १७ ॥
अनुवाद (हिन्दी)
उन्होंने शास्त्र और ब्राह्मणोंके उपदेशानुसार भिन्न-भिन्न देवताओंके उद्देश्यसे द्रव्य, देश, काल, आयु, श्रद्धा और ऋत्विज् आदिसे सुसम्पन्न सभी प्रकारके सौ-सौ यज्ञ किये॥ १७॥
वीरराघवः
आचारेणोपशिक्षयन्नियमदित्यत्र हेतुः । यद्यदिति । शीर्षण्यः श्रेष्ठः तेन यद्यदाचरितं तत्तदेव हि यस्माल्लोकोऽनुवर्त्ततेऽनुतिष्ठति । तथा चोक्तम् “यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥” इति लोकसंग्रहार्थमाचारेणोपाशिक्षयदित्यर्थः । तथा सकलो धर्मो यस्मिंस्तद् ब्रह्मगुह्यं वेदरहस्यं यद्यपि स्वेनैव विदितं तथापि ब्राह्मणान् पृष्ट्वा तैर्दर्शितमार्गेण सामादिभिरुपायैर्जनतां जनसमूहमनुशशास । द्रव्यादिभिरुपचितैः सर्वैर्यज्ञैर्यथाविधि शतकृत्व इयाज इष्टवान् । तत्र द्रव्यं हविर्देशः ‘समे यजेते’त्युक्तो देशः, कालः वसन्तादिः, वयः ‘जातपुत्रः कृष्णकेशोऽग्नीनादधीते’त्युक्तं वयः, श्रद्धा कर्त्तव्यविषया त्वरा, विविध उद्देशः इतिकर्त्तव्यता ॥ १५-१७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्कथञ्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं विजृम्भितस्नेहातिशयमन्तरेण॥
मूलम्
भगवतर्ष22भेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्कथञ्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं वि23जृम्भितस्नेहातिशयमन्तरेण॥ १८ ॥
अनुवाद (हिन्दी)
भगवान् ऋषभदेवके शासनकालमें इस देशका कोई भी पुरुष अपने लिये किसीसे भी अपने प्रभुके प्रति दिन-दिन बढ़नेवाले अनुरागके सिवा और किसी वस्तुकी कभी इच्छा नहीं करता था। यही नहीं, आकाशकुसुमादि अविद्यमान वस्तुकी भाँति कोई किसीकी वस्तुकी ओर दृष्टिपात भी नहीं करता था॥ १८॥
वीरराघवः
भगवता ऋषभेणैतस्मिन् वर्षे भारते परिरक्ष्यमाणे सति कश्चन पुरुषो भर्त्तरि ऋषभे अनुसवनं शश्वद्विजृम्भितो यः स्नेहोऽनुरागः तस्यातिशयमन्तरेण विनान्यं पुरुषार्थमात्मनः स्वस्याविद्यमानमन्यस्मात्पुरुषान्तरात्कदाचिदपि किञ्चिदपि केनापि निमित्तेन नापेक्षते ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीनामात्मजानवहितात्मनः प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति होवाच॥
मूलम्
स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीनामात्मजानवहितात्मनः प्रश्रयप्रणयभ24रसुयन्त्रितानप्युपशिक्षयन्निति होवाच॥ १९ ॥
अनुवाद (हिन्दी)
एक बार भगवान् ऋषभदेव घूमते-घूमते ब्रह्मावर्त देशमें पहुँचे। वहाँ बड़े-बड़े ब्रह्मर्षियोंकी सभामें उन्होंने प्रजाके सामने ही अपने समाहितचित्त तथा विनय और प्रेमके भारसे सुसंयत पुत्रोंको शिक्षा देनेके लिये इस प्रकार कहा॥ १९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे चतुर्थोऽध्यायः॥ ४ ॥
वीरराघवः
स भगवानृषभदेवः कदाचित्सञ्चरन् ब्रह्मावर्त्तगतः ब्रह्मर्षिश्रेष्ठानां सभायां प्रजानां निशामयन्तीनां शृण्वन्तीनां सतीनामात्मजान् अवहितात्मनः समाहितचित्तान् प्रश्रयो विनयः प्रणयः स्नेहस्ताभ्यां यत्सुखं तेन यन्त्रितान् वशीकृतानुपशिक्षयन्निति वक्ष्यमाणप्रकारेणोवाच ह ॥ १९ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतायां श्रीभागवतचंद्रचंद्रिकायां चतुर्थोऽध्यायः ॥ ४ ॥
-
प्राचीने पाठे - ‘श्रीशुक उवाच’ नास्ति । ↩︎
-
सौम्योपशम । ↩︎
-
ब्राह्मणदेवता । ↩︎
-
यस्य ही । ↩︎
-
प्रेममायया वर्षमजनाभं । ↩︎
-
प्राचीने पाठे — नरलोकसाधर्म्यं । ↩︎
-
सह देव्या । ↩︎
-
काले तन्महिमा । ↩︎
-
यत्र । ↩︎
-
कस्तत्कर्म । ↩︎
-
प्राचीने पाठे ‘अथ ह’ पाठो न । ↩︎
-
भगवानृषभः स्व । ↩︎
-
प्राचीने पाठे ‘म्नात’ इति पाठः खण्डितः । ↩︎
-
द्रविडश्चमसः । ↩︎
-
प्राचीने पाठे ‘भगवन्महिमोपबृंहितं’ इति पाठो न । ↩︎
-
मुपशमेन समुपरिष्टाद्व । ↩︎
-
कर्मशुद्धा । ↩︎
-
भगवान्सर्वज्ञ आत्म । ↩︎
-
केवल आनन्द्रा । ↩︎
-
लोकानयमयत् । ↩︎
-
सकलधर्माधर्म ब्राह्मं । ↩︎
-
दपेक्षते । ↩︎
-
सवनं जृम्भितस्नेहा । ↩︎
-
प्रणयमयसु । ↩︎