०३ ऋषभावतारः

[तृतीयोऽध्यायः]

भागसूचना

राजा नाभिका चरित्र

श्लोक-१

मूलम् (वचनम्)

श्रीशुक1 उवाच

विश्वास-प्रस्तुतिः

नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्मायजत॥

मूलम्

नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमव2हितात्मायजत॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! आग्नीध्रके पुत्र नाभिके कोई सन्तान न थी, इसलिये उन्होंने अपनी भार्या मेरुदेवीके सहित पुत्रकी कामनासे एकाग्रतापूर्वक भगवान् यज्ञपुरुषका यजन किया॥ १॥

वीरराघवः

एवं प्रियव्रताग्नीध्रचरितमभिधायाग्नीध्रापत्यचरित्रमभिधित्सुस्तावन्नाभिचरितमाह नाभिरिति तृतीयेन । अपत्यकामः सन्तानार्थी नाभिराग्नीध्रपुत्रः अप्रजयाविद्यमानसन्तानया मेरुदेव्या भार्यया सह समाहितचित्तः यज्ञपुरुषं यज्ञाराध्यं परमपुरुषमयजत् यज्ञैराराधितवानित्यर्थः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थविधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयनानन्दनावयवाभिराममाविश्चकार॥

मूलम्

तस्य ह वाव3 श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थ4विधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयनानन्दनावयवाभिराममाविश्चकार॥ २ ॥

अनुवाद (हिन्दी)

यद्यपि सुन्दर अंगोंवाले श्रीभगवान् द्रव्य, देश, काल, मन्त्र, ऋत्विज्, दक्षिणा और विधि—इन यज्ञके साधनोंसे सहजमें नहीं मिलते, तथापि वे भक्तोंपर तो कृपा करते ही हैं। इसलिये जब महाराज नाभिने श्रद्धापूर्वक विशुद्धभावसे उनकी आराधना की, तब उनका चित्त अपने भक्तका अभीष्ट कार्य करनेके लिये उत्सुक हो गया। यद्यपि उनका स्वरूप सर्वथा स्वतन्त्र है, तथापि उन्होंने प्रवर्ग्यकर्मका अनुष्ठान होते समय उसे मन और नयनोंको आनन्द देनेवाले अवयवोंसे युक्त अति सुन्दर हृदयाकर्षक मूर्तिमें प्रकट किया॥ २॥

वीरराघवः

श्रद्धया कर्त्तव्यविषयत्वरया विशुद्धान्तःकरणेन च तस्य नाभेर्यजतः सतः प्रवर्ग्यनामकेषु यागेषु प्रचरत्सु प्रवर्त्तमानेष्वनुष्ठीयमानेषु द्रव्यादयः सप्तयोगाः उपायास्तेषामुपपत्त्या सम्पत्त्या दुरधिगमो दुष्प्रापोऽपि भगवान् द्रव्यं हविर्देशः समे यजेतेति विहितः कालो वसन्तादिरूपः विधानं विधिरनुष्ठानप्रकारः भागवतेषु वात्सल्यं यस्य तस्य भावः तत्ता तया, वत्सलतयेति पाठे भागवतेषु दयालुतया, निजजनानां भक्तजनानामभिप्रेतार्थविधित्सवाभिमतार्थनिष्पादनेच्छया हेत्वर्थे तृतीया ‘अध्ययनेन वसती’तिवत् गृहीतहृदयः कृतसङ्कल्पः शोभनाः प्रतीका अवयवा यस्मिन्, तदेव प्रपञ्चयति हृदयङ्गमं चित्तापहारिणं तत्र हेतुः मनसां नयनानां च आनन्दयन्तीत्यानन्दनाः नन्द्यादित्वात्कर्त्तरि ल्युः, तैरवयवैरभिरामं सुन्दरमपराजितमकर्मवश्यमात्मानं दिव्यविग्रहमाविश्चकार प्रकटीचकार ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बरधरमुरसि विलसच्छ्रीवत्सललामं दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितं स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपुराद्यङ्गभूषणविभूषितमृत्विक्सदस्यगृहपतयोऽधना इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनतशीर्षाण उपतस्थुः॥

मूलम्

अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बरधरमुरसि विलसच्छ्रीवत्सललामं दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितं स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपुराद्यङ्गभूषणविभूषितमृत्विक्सदस्यगृहपतयोऽधना इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनतशीर्षाण उपतस्थुः॥ ३ ॥

अनुवाद (हिन्दी)

उनके श्रीअंगमें रेशमी पीताम्बर था, वक्षःस्थलपर सुमनोहर श्रीवत्सचिह्न सुशोभित था; भुजाओंमें शंख, चक्र, गदा, पद्म तथा गलेमें वनमाला और कौस्तुभमणिकी शोभा थी। सम्पूर्ण शरीर अंग-प्रत्यंगकी कान्तिको बढ़ानेवाले किरणजालमण्डित मणिमय मुकुट, कुण्डल, कंकण, करधनी, हार, बाजूबंद और नुपुर आदि आभूषणोंसे विभूषित था। ऐसे परम तेजस्वी चतुर्भुजमूर्ति पुरुषविशेषको प्रकट हुआ देख ऋत्विज्, सदस्य और यजमान आदि सभी लोग ऐसे आह्लादित हुए जैसे निर्धन पुरुष अपार धनराशि पाकर फूला नहीं समाता। फिर सभीने सिर झुकाकर अत्यन्त आदरपूर्वक प्रभुकी अर्घ्यद्वारा पूजा की और ऋत्विजोंने उनकी स्तुति की॥ ३॥

वीरराघवः

अथानन्तरं हेति विस्मये, तमाविर्भूतं भगवन्तं कथम्भूतमाविष्कृतं भुजानां युगलद्वयं चतुष्टयं येन हिरण्मयं प्रकाशबहुलं पुरुषेषु विशिष्यते इति पुरुषविशेषस्तं पुरुषोत्तममित्यर्थः । कपिशं पिशङ्गं कौशेयं कृमिकोशोत्थं जन्तुजन्यमम्बरं बिभ्रतमुरसि विलसच्छ्रीवत्स एव ललामं चिह्नं यस्य सः दरवरः शङ्खः वनरुहं पद्मं अछूरि चक्रममृतमणिः कौस्तुभः एवमादिभिरुपलक्षितं स्फुरत्किरणा ये प्रवरा मणयः तन्मयानि यानि मुकुटादीन्यङ्गानां भूषणानि तैर्भूषितमुपलभ्य दृष्ट्वा ऋत्विजः सदस्या गृहपतिर्यजमानस्तेषामितरेतरयोगे द्वन्द्वः ते निर्धना इवोत्तमं धनमुपलभ्य यथा बहुमानयन्ति तथा अर्हणेन पूजापुरःसरमवनतशीर्षाणः नम्रशिरसः कृतप्रणामा इत्यर्थः । उपतस्थुः समीपमेत्य स्तुतवन्तः धातूनामनेकार्थत्वात्तिष्ठति-धातुरत्र स्तुतौ वर्त्तते, मन्त्रकरणकत्वाभावान्नोपान्मन्त्रकरण इत्यात्मनेपदम् ॥ ३ ॥

श्लोक-४

मूलम् (वचनम्)

5त्विज ऊचुः

विश्वास-प्रस्तुतिः

अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान् प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभिर्नामरूपाकृतिभी रूपनिरूपणम्॥

मूलम्

अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान् प्रकृतिगुणव्यतिकरमतिरनीश ईश्व6रस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभिर्नामरूपाकृतिभी रूपनिरूपणम्॥ ४ ॥

अनुवाद (हिन्दी)

ऋत्विजोंने कहा—पूज्यतम! हम आपके अनुगत भक्त हैं, आप हमारे पुनः-पुनः पूजनीय हैं। किन्तु हम आपकी पूजा करना क्या जानें? हम तो बार-बार आपको नमस्कार करते हैं—इतना ही हमें महापुरुषोंने सिखाया है। आप प्रकृति और पुरुषसे भी परे हैं। फिर प्राकृत गुणोंके कार्यभूत इस प्रपंचमें बुद्धि फँस जानेसे आपके गुणगानमें सर्वथा असमर्थ ऐसा कौन पुरुष है जो प्राकृत नाम, रूप एवं आकृतिके द्वारा आपके स्वरूपका निरूपण कर सके? आप साक्षात् परमेश्वर हैं॥ ४॥

वीरराघवः

स्तुतिमेवाह अर्हसीत्यादिना । परममङ्गलायनगुणकथनोऽसीत्यन्तेन निगदेन त्वदीयार्हणग्रहणोत्सुकमपरिपूर्णं मां कथं स्तुथेति शङ्कामपनुदन्त आहुः । हे अर्हत्तम ! परिपूर्णोऽप्यनुपथानां भृत्यानामस्माकमर्हणं मुहुः स्वयमेव स्वीकर्तुमर्हसि परिपूर्णस्य तव नास्मदर्हणग्रहणेन न्यूनतेति भावः । न वयं कार्त्स्न्येन भवदीयगुणकथने प्रभवामः किन्त्वेकदेशकथन एवेति वदन्तः स्तुवन्ति नमो नम इत्यादिना ऋत इत्यन्तेन । नमो नम इत्यादि तावदेवास्माकं सद्भिरुपशिक्षितं त्वत्स्वरूपस्वभावयोरानन्त्यात्कार्त्स्न्येन तत्कथनायोगात्केवलं नमो नम इत्येव कथनीयमिति सद्भिरुपशिक्षिता वयमित्यर्थः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

सकलजननिकायवृजिननिरसनशिवतमप्रवरगुणगणैकदेशकथनादृते॥

मूलम्

सकलजननिकायवृजिननिरसनशिवतमप्रवरगुणगणैकदेशकथनादृते॥ ५ ॥

अनुवाद (हिन्दी)

आपके परम मंगलमय गुण सम्पूर्ण जनताके दुःखोंका दमन करनेवाले हैं। यदि कोई उन्हें वर्णन करनेका साहस भी करेगा, तो केवल उनके एक देशका ही वर्णन कर सकेगा॥ ५॥

वीरराघवः

एतदेवाहुः कोऽर्हतीति । प्रकृतेर्गुणाः सत्त्वादयः तेषां व्यतिकरः परिणामः शब्दादिरूपः तद्विषया मतिर्यस्य अत एवानीशः कर्मपरवशः अर्वाक्तनाभिः स्वकार्यभूताभिर्नामादिभिरुपलक्षितः तत्र नाम देवमनुष्यादिनामधेयं रूपं संस्थानमाकृतिस्तद्द्रव्यजातिः प्रकृतिपुरुषयोः परस्य विलक्षणस्येश्वरस्य तव स्वरूपनिरूपणं स्वरूपशब्दः स्वभावादेरप्युपलक्षणः, कर्तुं को नाम पुमानर्हति स ह्येतावन्मात्रमेवार्हति नाधिकमित्याह । सकलजनानां निकायः समूहस्तस्य वृजिनं पापं निरस्यन्तीति तथा शिवतमाः प्रवराश्च ते गुणास्तेषामेकदेशस्तस्य कथनाद्विना गुणलवकथनमेवार्हति न तु स्वरूपनिरूपणं स्वरूपस्वभावादीनामानंत्यादिति भावः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

परिजनानुरागविरचितशबलसंशब्द सलिलसितकिसलयतुलसिकादूर्वाङ्कुरैरपि सम्भृतया सपर्यया किल परम परितुष्यसि॥

मूलम्

परिजनानुरागविरचितश7बलसंशब्दसलिलसित8किसलयतु9लसिकादूर्वाङ्कुरैरपि सम्भृत10या सपर्यया किल परम परितुष्यसि॥ ६ ॥

अनुवाद (हिन्दी)

किन्तु प्रभो! यदि आपके भक्त प्रेम-गद‍्गद वाणीसे स्तुति करते हुए सामान्य जल, विशुद्ध पल्लव, तुलसी और दूबके अंकुर आदि सामग्रीसे ही आपकी पूजा करते हैं, तो भी आप सब प्रकार सन्तुष्ट हो जाते हैं॥ ६॥

वीरराघवः

यद्यपि समस्तपुरुषार्थस्वरूपस्य नित्यतुष्टस्य तव नानेन योगेनार्थस्तथापि “पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति” इति भक्तिपूर्वकाराधनस्य किञ्चिन्मात्रस्यापि त्वत्प्रीतिकरत्वं त्वयैव गीतमितीदं यजनं सूर्याय दीप इव किञ्चिदाराधनमात्रमित्याहुः परिजनेत्यादिना अर्हतीत्यन्तेन । परिजनैरनुरागेण विरचिताः शबलसंशब्दा गद्गदाक्षराः स्तुतयः सलिलं विशुद्धं जलं शिलं व्रीह्यादिमञ्जरीखण्डः, सितेति पाठे सितकिसलयाः शुद्धपल्लवाः एवमादिभिः सम्भृतया सम्पादितया पूजया परितुष्यसि किल ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

अथानयापि न भवत इज्ययोरुभारभरया समुचितमर्थमिहोपलभामहे॥

मूलम्

अथानयापि न 11भवत इज्ययोरुभारभरया समुचितमर्थमिहोपलभामहे॥ ७ ॥

अनुवाद (हिन्दी)

हमें तो अनुरागके सिवा इस द्रव्य-कालादि अनेकों अंगोंवाले यज्ञसे भी आपका कोई प्रयोजन नहीं दिखलायी देता;॥ ७॥

श्लोक-८

विश्वास-प्रस्तुतिः

आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति॥

मूलम्

आत्मन एवानुसवनम12ञ्जसाव्यतिरेकेण बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति॥ ८ ॥

अनुवाद (हिन्दी)

क्योंकि आपके स्वतः ही क्षण-क्षणमें जो सम्पूर्ण पुरुषार्थोंका फलस्वरूप परमानन्द स्वभावतः ही निरन्तर प्रादुर्भूत होता रहता है, आप साक्षात् उसके स्वरूप ही हैं। इस प्रकार यद्यपि आपको इन यज्ञादिसे कोई प्रयोजन नहीं है, तथापि अनेक प्रकारकी कामनाओंकी सिद्धि चाहनेवाले हमलोगोंके लिये तो मनोरथसिद्धिका पर्याप्त साधन यही होना चाहिये॥ ८॥

वीरराघवः

तस्मादन्योऽर्थो नानयेत्याहुः । अनया इज्यया उरुभारभरयानेकाङ्गसम्भृतया भगवतस्तव समुचितं संमतमपेक्षितमर्थं प्रयोजनं न वै पश्यामः । अत्र हेतुं वदन्तो विशिषन्ति आत्मनः स्वत एवानुसवनं सर्वदा अञ्जसा साक्षाद्बोभूयमाना अतिशयेन भवन्तो येऽशेषाः पुरुषार्थास्ते स्वरूपेण यस्य नापेक्ष्यार्थोऽस्ति । किन्त्विदमाराधनमात्रमित्याहुः किन्त्विति । हे नाथ ! आशिषः पुरुषार्थानाशासानानामभीप्सतामस्माकमेतद्यजनं त्वदीयाराधनमात्रं भवितुमर्हति त्वत्सन्तोषजननद्वारास्मदुपयोग्येवेति भावः । मात्रचा भगवतोऽननुरूपत्वं विवक्षितम् । अननुरूपाराधनप्रकृत्या परमकारुणिकत्वं च व्यञ्जितम् ॥ ७-८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तद्यथा बालिशानां स्वयमात्मनः श्रेयः परमविदुषां परमपरमपुरुष प्रकर्षकरुणया स्वमहिमानं चापवर्गाख्यमुपकल्पयिष्यन् स्वयं नापचित एवेतरवदिहोपलक्षितः॥

मूलम्

तद्यथा बालिशानां स्वयमात्मनः श्रेयः 13परमविदुषां 14परमपरमपुरुष प्रकर्षकरुणया स्वमहिमानं चापवर्गाख्यमुपकल्पयिष्यन् स्वयं नापचित एवेतरवदिहोपलक्षितः॥ ९ ॥

अनुवाद (हिन्दी)

आप ब्रह्मादि परम पुरुषोंकी अपेक्षा भी परम श्रेष्ठ हैं। हम तो यह भी नहीं जानते कि हमारा परम कल्याण किसमें है, और न हमसे आपकी यथोचित पूजा ही बनी है; तथापि जिस प्रकार तत्त्वज्ञ पुरुष बिना बुलाये भी केवल करुणावश अज्ञानी पुरुषोंके पास चले जाते हैं, उसी प्रकार आप भी हमें मोक्षसंज्ञक अपना परमपद और हमारी अभीष्ट वस्तुएँ प्रदान करनेके लिये अन्य साधारण यज्ञदर्शकोंके समान यहाँ प्रकट हुए हैं॥ ९॥

वीरराघवः

तदेव स्पष्टयन्त आहुः । तदिति । हे परमपुरुष ! तत्तदा आराधनसमय एव नापचित एवानुरूपमनाराधित एव प्रकृष्टकरुणया स्वमहिमानं महत्तयैश्वर्यादिरूपं मोक्षाख्यमाविर्भूतगुणाष्टकसम्पत्तिरेव हि मोक्षश्चकारादस्मत्समीहितं च फलमुपकल्पयिष्यन्निर्वर्त्तयिष्यन् त्वमितरवत्परिपूर्णोऽप्यपरिपूर्ण इव नोऽस्माभिरिह यागे यथा यथावदुपलक्षितः दृष्टोऽसि । नः कथम्भूतानामात्मनः स्वस्य परमुत्कष्टं श्रेयः पुरुषार्थमविदुषामत एव बालिशानाम् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्षभो भवान्निजपुरुषेक्षणविषय आसीत्॥

मूलम्

अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्षभो भवान्निजपुरुषेक्षणविषय आसीत्॥ १० ॥

अनुवाद (हिन्दी)

पूज्यतम! हमें सबसे बड़ा वर तो आपने यही दे दिया कि ब्रह्मादि समस्त वरदायकोंमें श्रेष्ठ होकर भी आप राजर्षि नाभिकी इस यज्ञशालामें साक्षात् हमारे नेत्रोंके सामने प्रकट हो गये! अब हम और वर क्या माँगें?॥ १०॥

श्लोक-११

विश्वास-प्रस्तुतिः

असङ्गनिशितज्ञानानलविधूताशेषमलानां भवत्स्वभावानामात्मारामाणां मुनीनामनवरतपरिगुणितगुणगण परममङ्गलायनगुणगणकथनोऽसि॥

मूलम्

असङ्गनिशितज्ञानानलविधूताशेष15मलानां भवत्स्वभावानामात्मारामाणां मुनीनामनवरतपरि16गुणितगुणगणपरममङ्गलायनगुणगणकथनोऽसि॥ ११ ॥

अनुवाद (हिन्दी)

प्रभो! आपके गुणगणोंका गान परम मंगलमय है। जिन्होंने वैराग्यसे प्रज्वलित हुई ज्ञानाग्निके द्वारा अपने अन्तःकरणके राग-द्वेषादि सम्पूर्ण मलोंको जला डाला है, अतएव जिनका स्वभाव आपके ही समान शान्त है, वे आत्माराम मुनिगण भी निरन्तर आपके गुणोंका गान ही किया करते हैं॥ ११॥

वीरराघवः

परमकारुणिकात्समस्तपुरुषार्थस्वरूपाद्भगवतो राज्ञा प्रार्थनीयस्य पुत्रस्य क्षुद्रपुरुषार्थतामाविष्कर्तुमतिदुर्लभस्य भगवद्दर्शनस्यैव कैमुत्यनयेन निरतिशयपुरुषार्थतामाहुः अथेति । अर्हत्तम राज्ञोऽभिमतान् दातुं यद्यप्याविर्भूतोऽस्यथाप्ययमेव वरः सञ्जातः कोऽसावित्यत्राहुः । यर्हि वाव । यदा हि राजर्षेर्बर्हिषि यज्ञे वरदश्रेष्ठो भवान्निजजनानां पुरुषाणां त्वद्भक्तानामस्माकमीक्षणविषयः आसीदिति यत् असङ्गेन वैराग्येण निशितं यज्ज्ञानं तदेवानिलस्तेन विधूता अशेषा मलाः येषामात्मारामाणां प्रकृतिविविक्तब्रह्मात्मकस्वात्मयाथात्म्यानुसन्धानपराणां भगवत्स्वभावानां भगवत्समानधर्माणां मुनीनां-कर्त्तरि षष्ठी-मुनिभिरनवरतं सर्वदा परिगुणिताः गुणगणाः यस्य तस्य सम्बोधनमीदृशस्य तव गुणगणकथनमेव परममङ्गलायनं निरतिशयश्रेयःसाधनं किमु त्वद्दर्शनमित्यर्थः ॥ १०-११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु विवशानां नः स्मरणाय ज्वरमरणदशायामपि सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु॥

मूलम्

अथ कथञ्चित्स्खलनक्षुत्प17तनजृम्भणदुरवस्थानादिषु विवशानां नः स्मरणाय ज्वर18मरणदशायामपि सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु॥ १२ ॥

अनुवाद (हिन्दी)

अतः हम आपसे यही वर माँगते हैं कि गिरने, ठोकर खाने, छींकने अथवा जँभाई लेने और संकटादिके समय एवं ज्वर और मरणादिकी अवस्थाओंमें आपका स्मरण न हो सकनेपर भी किसी प्रकार आपके सकलकलिमल-विनाशक ‘भक्तवत्सल’, ‘दीनबन्धु’ आदि गुणद्योतक नामोंका हम उच्चारण कर सकें॥ १२॥

वीरराघवः

यतः त्वद्गुणकथनं परममङ्गलायनमतस्तदैवायुक्तास्वपि दशासु नो भूयादिति प्रार्थयन्त आहुः । अथेति । अथ ननु भगवतः क्षुदादिष्वयुक्तदशासु तत्र तत्र स्खलनं चलनं पतनस्योक्तत्वात् दुरवस्थानं दुःखित्वेनावस्थानमादिशब्देनाशुचित्वाद्यवस्थान्तरसङ्ग्रहः तथा ज्वरदशायां मरणदशायां च परवशानामस्माकं श्रीमतस्तव चरणारविन्दस्मरणाय चरणारविन्दं स्मर्त्तुं सकलानां कश्मलानां निरसनानि निवर्त्तकानि गुणकृतनामानि नामधेयानि कल्याणगुणप्रवृत्तिनिमित्तकानि तव नामानि वचनगोचराणि उच्चारणविषयाणि भवन्तु ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि भवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमिवाधनःफलीकरणम्॥

मूलम्

किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि भवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणम्॥ १३ ॥

अनुवाद (हिन्दी)

इसके सिवा, कहनेयोग्य न होनेपर भी एक प्रार्थना और है। आप साक्षात् परमेश्वर हैं; स्वर्ग-अपवर्ग आदि ऐसी कोई वस्तु नहीं है, जिसे आप न दे सकें। तथापि जैसे कोई कंगाल किसी धन लुटानेवाले परम उदार पुरुषके पास पहुँचकर भी उससे भूसा ही माँगे, उसी प्रकार हमारे यजमान ये राजर्षि नाभि सन्तानको ही परम पुरुषार्थ मानकर आपके ही समान पुत्र पानेके लिये आपकी आराधना कर रहे हैं॥ १३॥

वीरराघवः

इदमिदानीं राज्ञा प्रार्थनीयमस्तीत्यावेदयन्त आहुः । किञ्चेति । अयं राजर्षिर्नाभिः पुत्रं कामयमानः तत्रापि भवादृशीं त्वत्सदृशीं प्रजामाशासानः आशिषामैहिकपुरुषार्थानां स्वर्गापवर्गयोश्चेश्वरं प्रदातारं भगवन्तं षाड्गुण्यपूर्णं त्वां प्रजायामेव पुरुषार्थ इति प्रत्ययो यस्य सः उपधावति अनुवर्तते भजतीत्यर्थः । तत्र दृष्टान्तः यथाधनो दरिद्रः फलीकरणं तुषकणादिकमाशासानो धनदं कुबेरमुपधावति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

को वा इह तेऽपराजितोऽपराजितया माययानवसितपदव्यानावृतमतिर्विषयविषरयानावृतप्रकृतिरनुपासितमहच्चरणः॥

मूलम्

को वा इह19 तेऽपराजितोऽपराजितया माययानवसितपदव्यानावृतमतिर्विषयविषरयाना20वृतप्रकृतिरनुपासितमहच्चरणः॥ १४ ॥

अनुवाद (हिन्दी)

यह कोई आश्चर्यकी बात नहीं है। आपकी मायाका पार कोई नहीं पा सकता और न वह किसीके वशमें ही आ सकती है। जिन लोगोंने महापुरुषोंके चरणोंका आश्रय नहीं लिया, उनमें ऐसा कौन है जो उसके वशमें नहीं होता, उसकी बुद्धिपर उसका परदा नहीं पड़ जाता और विषयरूप विषका वेग उसके स्वभावको दूषित नहीं कर देता?॥ १४॥

वीरराघवः

इदं च नातिचित्रमित्याहुः । इह संसारेऽनुपासितमहच्चरणो यदि भवेत् उपासितमहच्चरणं जनं विनेत्यर्थः । तया अपराजितया कर्मवश्यैरनभिभूतया अनवसितपदव्या अलक्षितमार्गया सत्पथतिरोधायिकया अलक्षितः को वै न कोऽप्यतस्तयानावृतमतिकः अत एव विषया एवं विषं तस्य रयो वेगः तेनानावृता प्रकृतिर्यस्य सः अतस्त्वन्मायामोहितस्यैवमाशंसा घटत इत्यर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यदु ह वाव तव पुनरदभ्रकर्तरिह समाहूतस्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि साम्येन सर्वान् प्रतिवोढुमविदुषाम्॥

मूलम्

यदु21ह वाव तव पुनरदभ्रकर्तरिह समाहूतस्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि साम्येन सर्वान्22 प्रतिवोढुमविदुषाम्॥ १५ ॥

अनुवाद (हिन्दी)

देवदेव! आप भक्तोंके बड़े-बड़े काम कर देते हैं। हम मन्दमतियोंने कामनावश इस तुच्छ कार्यके लिये आपका आवाहन किया, यह आपका अनादर ही है। किन्तु आप समदर्शी हैं, अतः हम अज्ञानियोंकी इस धृष्टताको आप क्षमा करें॥ १५॥

वीरराघवः

अतिदुर्लभसमस्तपुरुषार्थभूतेस्तव स्वपुत्राशंसार्थमाह्वानं हेलनमिवातस्तत् क्षन्तुमर्हसीति विज्ञापयन्त आहुः । यदुह वावेति । हे अदभ्रकर्त्तः ! बहुकार्यनिष्पादक ! उदारव्यापारकारिन्नवितथकर्तः सत्यसङ्कल्प इति वार्थः, हे देवदेव देवानां ब्रह्मादीनामपि देव हे सर्वात्मन्नल्पीयसे प्रयोजनाय यद्यस्मादेवाहूतोऽसि ततस्तदर्थधियां तत्र प्रजायामर्थधीः पुरुषार्थबुद्धिर्येषामत एवं मन्दानां नोऽस्माकं देवहेलनं देवस्य तव हेलनमाह्वानरूपमवज्ञानं तव साम्येन हेतुना प्रतिवोढुं सोदुमर्हसि ॥ १५ ॥

श्लोक-१६

मूलम् (वचनम्)

श्रीशुक23 उवाच

विश्वास-प्रस्तुतिः

इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो वर्षधराभिवादिताभिवन्दितचरणः सदयमिदमाह॥

मूलम्

इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो वर्ष24धराभिवादिताभिवन्दितचरणः सदयमिदमाह॥ १६ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! वर्षाधिपति नाभिके पूज्य ऋत्विजोंने प्रभुके चरणोंकी वन्दना करके जब पूर्वोक्त स्तोत्रसे स्तुति की, तब देवश्रेष्ठ श्रीहरिने करुणावश इस प्रकार कहा॥ १६॥

वीरराघवः

इत्येवं निगदेन गद्यात्मकसूक्तेनाभिष्टूयमानो भगवान् देवोत्तमः वर्षधरः भारतवर्षधारको नाभिस्तेनाभिवादितैः ऋत्विग्भिरभिवन्दितौ चरणौ यस्य सः सदयं दयासहितमिदं वक्ष्यमाणं वाक्यमाह ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

श्रीभगवानु25वाच

विश्वास-प्रस्तुतिः

अहो बताहमृषयो भवद‍्भिरवितथगीर्भिर्वरमसुलभमभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद् द्विजदेवकुलम्॥

मूलम्

अहो बताहमृषयो भवद‍्भिरवितथगीर्भिर्वरमसुलभमभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा26 भवितुमर्हति ममैव हि मुखं यद् द्विजदेवकुलम्॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—ऋषियो! बड़े असमंजसकी बात है। आप सब सत्यवादी महात्मा हैं, आपने मुझसे यह बड़ा दुर्लभ वर माँगा है कि राजर्षि नाभिके मेरे समान पुत्र हो। मुनियो! मेरे समान तो मैं ही हूँ, क्योंकि मैं अद्वितीय हूँ। तो भी ब्राह्मणोंका वचन मिथ्या नहीं होना चाहिये, द्विजकुल मेरा ही तो मुख है॥ १७॥

श्लोक-१८

विश्वास-प्रस्तुतिः

तत आग्नीध्रीयेंऽशकलयाव तरिष्याम्यात्मतुल्यमनुपलभमानः॥

मूलम्

तत आग्नीध्रीयेऽशकल27यावतरिष्याम्यात्मतुल्यमनुपलभमानः॥ १८ ॥

अनुवाद (हिन्दी)

इसलिये मैं स्वयं ही अपनी अंशकलासे आग्नीध्रनन्दन नाभिके यहाँ अवतार लूँगा, क्योंकि अपने समान मुझे कोई और दिखायी नहीं देता॥ १८॥

श्लोक-१९

मूलम् (वचनम्)

श्रीशुक28 उवाच

विश्वास-प्रस्तुतिः

इति निशामयन्त्या मेरुदेव्याः पतिमभिधायान्तर्दधे भगवान्॥

मूलम्

इति निशामयन्त्या मेरुदेव्याः पतिमभिधायान्तर्दधे भगवान्॥ १९ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—महारानी मेरुदेवीके सुनते हुए उसके पतिसे इस प्रकार कहकर भगवान् अन्तर्धान हो गये॥ १९॥

वीरराघवः

अहो ऋषयः अवितथगीर्भिः सत्यवाग्भिर्भवद्भिरसुलभं दुर्लभं वरं प्रत्यहमभियाचितः प्रार्थितः । बतेत्याश्चर्ये, कोऽसौ दुर्लभो वरस्तत्राह । मया सदृशः आत्मजो भूयादिति कथं तस्य वरस्य दौर्लभ्यं तत्राह । ममाहमेवाभिरूपः सदृशः कुतः कैवल्यात्प्रकृतिपुरुषविलक्षणस्वभावात् “न तत्समश्चाभ्यधिकश्च दृश्यते, नत्वत्समोस्त्यभ्यधिकः कुतोऽन्यः” इत्युक्तरीत्या प्रकृतिपुरुषविलक्षणसमाभ्यधिकरहितस्य सदृशान्तराभावान्मत्सदृशरूपो वरोऽतिदुर्लभ इत्यर्थः । यद्यप्ययं वरोऽतिदुर्लभस्तथापि हि यस्माद् द्विजदेवकुलं द्विजा एव देवास्तपोविद्यादिभिर्दीव्यमानास्तेषां कुलं ममैव हि मुखं “ब्राह्मणोऽस्य मुखमासीदिति” उक्तरीत्या मुखं ततो ब्रह्मवादः ब्रह्मकुलस्य मन्मुखभूतस्य वादो वचः मृषा मिथ्या न भवितुमर्हतीत्यहमेव मत्सदृशमन्यमनुपलभमानः कलयांऽशेनाग्नीध्रीये नाभिसम्बन्धिनि क्षेत्रे मेरुदेव्यामवतरिष्यामीत्येवं मेरुदेव्याः निशामयन्त्याः शृण्वन्त्याः सत्याः तत्पतिं नाभिं प्रत्यभिधायोक्त्वा भगवान् यज्ञपुरुषोऽन्तर्दधेऽन्तर्हितवानित्यर्थः ॥ १७-१९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभिः प्रसादितो नाभेः प्रियचिकीर्षया तदवरोधायने मेरुदेव्यां धर्मान्दर्शयितुकामो वातरशनानां श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया तनुवावततार॥

मूलम्

बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभिः प्रसादितो नामेः प्रियचिकीर्षया तदवरोधायने मेरुदेव्यां धर्मान्दर्शयितुकामो वात29रशनानां श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया तनुवावततार॥ २० ॥

अनुवाद (हिन्दी)

विष्णुदत्त परीक्षित्! उस यज्ञमें महर्षियोंद्वारा इस प्रकार प्रसन्न किये जानेपर श्रीभगवान् महाराज नाभिका प्रिय करनेके लिये उनके रनिवासमें महारानी मेरुदेवीके गर्भसे दिगम्बर संन्यासी और ऊर्ध्वरेता मुनियोंका धर्म प्रकट करनेके लिये शुद्धसत्त्वमय विग्रहसे प्रकट हुए॥ २०॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे नाभिचरिते ऋषभावतारो नाम तृतीयोऽध्यायः॥ ३॥

वीरराघवः

हे विष्णुरात ! राजन् तस्मिन् बर्हिषि यज्ञे एवं महर्षिभिः प्रसादितः आराधितो भगवान्नाभेः प्रियमिष्टं कर्तुं निर्वर्त्तितुमिच्छया तदवरोधायने नाभेर्भार्यायां मेरुदेव्यां शुक्लया सत्त्वप्रधानया तन्वावततार । किं कर्तुकामः वातरशनानां दिग्वाससां पाषण्डिव्यावृत्त्यर्थमाह । श्रमणानां तपस्विनामृषीणां ज्ञानिनामूर्ध्वमन्थिनां नैष्ठिकब्रह्मचारिणां धर्मान् दर्शयितुकामः । अयमंशावतारः कपिलः तावन्मात्रकृत ईश्वरत्वव्यपदेशः ॥ २० ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवकृतभागवतचंद्रचंद्रिकाख्यायां टीकायां तृतीयोऽध्यायः ॥ ३ ॥


  1. प्राचीने पाठे ‘श्रीशुक उवाच’ अयं पाठो न । ↩︎

  2. प्राचीने पाठे ‘मव’ इति पाठः खण्डितः । ↩︎

  3. तस्य हवावेति । ↩︎

  4. जनाभिप्रायार्थ । ↩︎

  5. प्राचीने पाठे ‘ऋत्विज ऊचुः’ अयं पाठो न । ↩︎

  6. प्राचीने पाठे ‘ईश्वरस्य’ इति पाठो न । ↩︎

  7. सबलसंशब्दितसलिल । ↩︎

  8. प्राचीने पाठे ‘सित’ इति न । ↩︎

  9. तुलसी । ↩︎

  10. सम्भूतया । ↩︎

  11. तव । ↩︎

  12. सवनमव्यतिरेकेण । ↩︎

  13. प्राचीने पाठे ‘परम’ इति पाठो न । ↩︎

  14. प्राचीने पाठे ‘परम’ इति द्विवारं पाठो न । ↩︎

  15. नानलविशेषाशेषमलानां । ↩︎

  16. परिगणित । ↩︎

  17. पतनपरिजृम्भण । ↩︎

  18. जरामरण । ↩︎

  19. इह तेऽपराजितया । ↩︎

  20. विषरयानृतप्रकृति । ↩︎

  21. यदिह वाव पुनरदभ्र । ↩︎

  22. सर्वात्मन् । ↩︎

  23. प्राचीने पाठे ‘श्रीशुक उवाच’ पाठो न । ↩︎

  24. वर्षवराभि । ↩︎

  25. प्राचीने पाठे ‘श्रीभगवानुवाच’ इति पाठो न । ↩︎

  26. वृथा । ↩︎

  27. ध्रीये स्वकलया । ↩︎

  28. प्राचीने पाठे ‘श्रीशुक उवाच’ इति पाठो न । ↩︎

  29. वाताशनानां । ↩︎